०१ पूर्वपक्षनिरूपणम्

शास्त्रयोनित्वेन कारणत्वस्य नातिव्याप्तिरिति

समन्वयाधिकरणम्

॥ ॐ तत्तु समन्वयात् ॐ ॥

पूर्वपक्षनिरूपणम्

तात्पर्यचन्द्रिका

शास्त्रयोनित्वेन कारणत्वस्य नातिव्याप्तिरिति पूर्वाधिकरणफलाक्षेपाद्वा पूर्वाधिकरणसिद्धं कारणस्य शास्त्रयोनित्वं विष्णोरन्यस्य वेति विशेष-विचाराद्वाऽनन्तरसङ्गतिः । अत्र शास्त्रयोनित्वं किमन्यस्यापि किं वा विष्णोरेवेति चिन्ता । तदर्थं वेदतात्पर्यनिश्चयः किं शैवागमादिना किं वोपक्रमादिनेति । तदर्थमुपक्रमादेर्बलाबलव्यवस्था न सम्भवत्युत सम्भवतीति ।

पूर्वपक्षस्तु । कारणत्वस्य शास्त्रयोनित्वेऽप्यतिव्याप्तिः शैवाद्यागमाद्वेद-व्याख्यानरूपा(द्वेदजप्रतीत्यनुगुणा) न्मानान्तराविरुद्धाद्रुद्रादेः कारणत्वे वेद-तात्पर्यनिश्चयात् । काव्यादिव्याख्यानादिव काव्यस्य । तदुक्तं ‘‘व्याख्यानतो विशेषप्रतिपत्तिः’’ इति । उक्तं ह्यागमेषु ‘‘ज्ञात्वा शिवं शान्तिमत्यन्तमेतीत्यादिशास्त्रं शिवस्य मोक्षदत्वादिपरम्’’ इति । न च प्रमाणभूतव्याख्येयप्रतीत्यनुसारिव्याख्यान-प्रामाण्ये मानान्तराविरोधं विना हेत्वन्तरापेक्षाऽस्ति । न च कारणत्वमिव शास्त्रतात्पर्यमपि शास्त्रगम्यम् । आत्माश्रयात् । येन शैवागमादिस् तात्पर्यानिश्चायकः स्यात् । सर्वे वेदा यत्पदमामनन्तीत्यादिश्रुतिरपि शिवे वेदतात्पर्यमित्येव-म्परतयाऽऽगमैरेव व्याख्याता । न चैवं पञ्चरात्रादिना विष्णावपि तात्पर्यनिश्चया-पत्तिः । तथापि सिद्धान्त्यभिप्रेतावधारणासिद्धेः ।

प्रकाशिका

सङ्गतिफले आह ॥ शास्त्रेति ॥ इति यत्पूर्वाधिकरणफलं तस्याक्षेपादाक्षेपिकी सङ्गतिः । इयं सुधोक्ता । अन्यामपि स्वयमाह ॥ पूर्वेति ॥ पूर्वमुप-जीव्यास्य प्रवृत्तेरुपजीव्योपजीवकभावरूपेत्यर्थः । अतिव्याप्तिनिरास एवात्रापि फलमित्युक्तं भवति । पूर्वत्रात्र च फलैक्येऽपि प्रापकभेदादधिकरणभेद इति बोध्यम् । सङ्गतिटीका व्याख्यातप्रायेति मत्वा ‘‘तत्कारणत्वेने’’त्यादि विषयसंशयटीकां व्यनक्ति ॥ अत्रेत्यादिना ॥ शास्त्रयोनित्वं शास्त्रतात्पर्यविषयत्वम् । कारणत्वेनेति शेषः ॥ शैवेति ॥ शैवहैरण्यगर्भसाङ्ख्यसौरशाक्तेयपञ्चरात्राद्यागमेनेत्यर्थः । अत एव वक्ष्यति ‘‘न चैवं पञ्चरात्रादिना विष्णावपी’’त्यादि । अत एव शास्त्रपदस्य वेदतदनुसारिपरस्य प्रस्तुतत्वेऽपि तदनुसारिणो निर्णायकत्वेन पृथक्करणाय ‘‘वेदतात्पर्ये’’ति वेदपदोक्तिः । तेन शैवादिना वेदतात्पर्यनिश्चयेऽन्यस्यैव कारणत्वावगमादन्यस्यापीत्याद्यचिन्तायामपि पदायोग इति निरस्तम् । पञ्चरात्रादिना विष्णोरपि प्राप्तेः । यद्युपक्रमादीनां बलाबलव्यवस्था न सम्भवति तदा तैस्तात्पर्यानिश्चयाच्छैवपञ्चरात्रादिनैव तन्निश्चयादन्यस्यापीति पूर्वपक्षे फलम् । यदा तु सम्भवति तदा तैरेव तात्पर्यनिर्णयाद्विष्णोरेवेति सिद्धान्ते फलमिति बोध्यम् । इयं चिन्तापरम्परा न्यायविवरणमूलकपूर्वपक्षोपयुक्ता । भाष्योक्तपूर्वपक्षोपयुक्ता तु आद्यचिन्तानन्तरं तदर्थं किं वेदस्यापातप्रतीत एवार्थ उत पूर्वापरविमर्शजन्यधीसिद्धः । तदर्थमापातप्रतीतार्थत्यागे वेदार्थो बाधितो भवत्युत नेत्येवं ध्येया ।

न चैवं द्वयोर्निरस्यत्वेऽधिकरणभेदः । उपक्रमादिलिङ्गकस्तात्पर्यनिर्णय इति सिद्धान्तन्यायेनैकेनानेकेषां निरासेऽपि तद्भेदाधीनाधिकरणभेदस्येहानाशङ्क्यत्वात् । अत एव निराकार्यभेदाद्भेद इति कस्यचिदुक्तिरपास्ता । इदं च सुधाकारमते बोध्यम् । टीकाकृन्मते तु प्रतीतिसमुच्चितस्यैवागमस्य प्रापकतया विशिष्टस्यैकस्यैव निरस्यतया न भेदशङ्कापीति ध्येयम् । एतन्मते शैवाद्यागमादिनेत्यत्रापातप्रतीतिविशिष्टेनेत्यर्थः ।

पूर्वाक्षेपपूर्वं न्यायविवरणोक्तपूर्वपक्षमारचयति ॥ कारणत्वस्येति ॥ एतेन ‘‘रुद्रादीनामपि’’ इत्यादि टीका व्याख्याता । शैवादेरप्रामाण्यमाशङ्क्याह ॥ वेदव्याख्यानेति ॥ तथा च वक्ष्यति ‘‘प्रमाणभूते’’त्यादि ॥ मानान्तरेति ॥ ‘‘न हि रुद्रादेः’’ इत्यादिना वक्ष्यमाणदिशेति भावः ॥ तदुक्तमिति ॥ ‘‘व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणं भवतीति न्यायः ‘‘लण्’’ इत्यत्र सूत्रे णित्करणेन ज्ञापित’’ इत्युक्तं महाभाष्ये । ‘‘इत्यादिशास्त्रम्’’ इत्यादिपदात् ‘‘हिरण्यगर्भः समवर्त-ताग्रे’’ इत्यादिशास्त्रं ग्राह्यम् । शिवस्य शिवादेरित्यर्थः । एतेन ‘‘शैवाद्यागमादित्यादिना पाशुपतशास्त्रेषु रुद्रादिर्जगत्कारणत्वेन वेदादिवेद्य इति निगदितत्वात्’’ इति टीका व्याख्याता । अप्रामाण्यमाशङ्क्य प्रागुक्तव्याख्यानपदतात्पर्यं विवृणोति ॥ न चेति ॥ यद्यपि टीकायां ‘‘न च तस्याप्रामाण्येनासाधकत्वम्’’ इत्यादिनाऽऽगमाप्रामाण्यमाशङ्क्य प्रतीतिसाहित्येन प्रामाण्यमुपपादितं तथापि सुधायां ‘‘न शास्त्रतात्पर्यावगतावापातप्रतीतिर्वा व्याख्यातृवचनं वा लिङ्गम्’’ इति द्वयोः स्वतन्त्रहेतुत्वोक्तेस्तत्समर्थनाय प्रतीतिनैरपेक्ष्येण प्रामाण्योपपादनमित्यदोषः ।

ननु कारणत्ववत्तात्पर्यमपि ‘‘सर्वे वेदाः’’ इत्यादिशास्त्रगम्यम् । अतो नान्येषामपि प्रसक्तिरित्यत आह ॥ न चेति ॥ आत्माश्रयादिति ॥ तात्पर्यज्ञानस्य शास्त्रार्थज्ञाने हेतुत्वात्तस्य च शास्त्रजन्यत्वे तात्पर्यस्यापि शास्त्रार्थतापत्त्या शास्त्रार्थज्ञाने शास्त्रार्थज्ञानं हेतुरिति स्यादित्यर्थः । ननु सर्वशास्त्रतात्पर्यनिश्चयः ‘‘सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीमि’’ इत्युपक्रम्य ‘‘तद्विष्णोः परमं पदम्’’ इत्युक्तेर्विष्णावेव सर्ववेदतात्पर्यमनेनावगम्यते । एतद्वाक्यतात्पर्यं त्वन्येनास्तु । नैतावताऽऽत्माश्रय इत्यतस्तात्पर्यस्य शास्त्रगम्यत्वमुपेत्याह ॥ सर्वे वेदा इति ॥ शिवे शिवादौ । विष्णोः परमं पदं प्राप्यं शिवादिरूपमित्येवंरूपतया तस्यार्थ इति भावः । यथा च ‘‘वेदैश्च सर्वेरहमेव वेद्यः’’ इत्यादिशास्त्रबलात् ‘‘वेदादिकं विष्णोः प्रतिपादकमिष्यते’’ इति न्यायविवरणटीकां हृदि कृत्वाऽऽह ॥ न चैवमिति ॥ अवधारणेति ॥ विष्णोरेव जगत्कारणत्वेन शास्त्रयोनित्वमित्यवधारणासिद्धेरित्यर्थः । एतच्च सौत्रावधारणार्थतुशब्दव्यावर्त्यमिति बोध्यम् ।

चन्द्रिकाबिन्दु

॥ फलाक्षेपाद्वेति ॥ कारणत्वस्य शास्त्रयोनित्वमधिकरणप्रमेयफलं तस्यातिव्याप्तिपरिहारः । आगमेषु शैवागमेषु ।

पाण्डुरङ्गि

अनन्तरसङ्गतिं दर्शयति ॥ शास्त्रयोनित्वेनेति ॥ पूर्वपक्षोपसंहार-टीकानुसारेणाद्या सङ्गतिः, सन्देहटीकानुसारेण द्वितीयेति बोध्यम् । फलाक्षेपात्सङ्गति-रित्युक्तम् । तत्राक्षेपं दर्शयंश्चिन्ताप्रकारमाह ॥ अत्रेति ॥ फलाक्षेपमुपपादयति ॥ पूर्वपक्षस्त्विति ॥ कारणत्वस्येति ॥ रुद्रस्यापि शास्त्रे कारणत्वस्य प्रतिपादनादिति भावः । ननु शास्त्रेण रुद्रस्य कारणत्वे प्रतिपादितेऽपि शास्त्रस्य रुद्रकारणत्वे तात्पर्या-भावान्नातिव्याप्तिरित्यत आह ॥ शैवाद्यागमादिति ॥ अत्र शैवाद्यागमाद्रुद्रादेः कारणत्वे वेदतात्पर्यनिश्चयादित्यन्वयः । शैवाद्यागमादेः शास्त्रतात्पर्यनिश्चायकत्वं किं तेनासम्बन्धात् तद्विरुद्धत्वाद्वा मानान्तरविरोधाद्वेति विकल्प्य क्रमेण दूषयति ॥ वेदव्याख्यानरूपा-दित्यादिना ॥ मानान्तरेति ॥ न च विष्णुकर्तृत्वप्रतिपादकमानान्तरविरुद्धत्वात्कथं तदविरुद्धत्वमिति वाच्यम् । शैवाद्यागमविरोधेन तस्य स्वार्थे तात्पर्याभावाद्देशकाल-व्यवस्थयोभयकारणत्वस्य वक्ष्यमाणत्वेन तद्विरोधाभावाच्चेति भावः । अप्रयोजकतां परिहरति ॥ काव्यादीति ॥ हेत्वसिद्धिं परिहरति ॥ उक्तं हीति ॥ अथवा कालादीत्यनेन व्याप्तिमुपपाद्याप्रयोजकतां परिहरति ॥ उक्तं हीति ॥

विशेषप्रतिपत्तिस् तात्पर्यार्थप्रतिपत्तिरित्यर्थः । व्याख्यानस्याप्रामाण्यं द्वेधा । व्याख्येयाप्रामाण्येन वा प्रमाणान्तरविरोधेन वा । तत्र प्रकृते न व्याख्येयाप्रामाण्यम् । वेदस्य प्रमाणत्वात् । न द्वितीयः । तदभावादित्याह ॥ न चेति ॥ ननु कारणस्येव शास्त्रतात्पर्यस्यापि शास्त्रैकसमधिगम्यत्वेन शैवाद्यागमानां च शास्त्रत्वेन शास्त्रतात्पर्य-निश्चायकत्वमित्यत आह ॥ न चेति ॥ यद्वाऽन्यथानुपपत्त्या च शैवाद्यागमस्यैव तात्पर्यनिश्चायकत्वमावश्यकमित्यभिप्रेत्याह ॥ न चेति ॥ तथा हि ॥ तात्पर्यनिश्चायकं किं शास्त्रं किं वोपक्रमादिकम् । आद्येऽपि स्वतात्पर्यनिश्चायकं स्वयमेव वा ‘‘स्वाध्यायोऽ-ध्येतव्यः’’ इत्यादिवत् ‘‘सर्वे वेदाः’’ इति साधारणमेव वा । नाद्य इत्याह ॥ आत्माश्रयादिति ॥ अनिश्चिततात्पर्यकस्य शास्त्रस्य तात्पर्यनिश्चायकत्वायोगान्निश्चित-तात्पर्यकस्यैव शास्त्रस्य तात्पर्यनिश्चायकत्वं वाच्यम् । तथा च शास्त्रतात्पर्यनिश्चयार्थं शास्त्रतात्पर्यनिश्चयापेक्षायामात्माश्रय इति भावः । न द्वितीय इत्याह ॥ सर्व इति ॥ ननु पञ्चरात्रादिना विष्णुकारणत्वे वेदतात्पर्यनिश्चयात्कथं रुद्रकारणत्वे वेदतात्पर्यनिश्चय इत्याशङ्क्य परिहरति ॥ न चेति ॥ अवधारणेति ॥ विष्णुरेव कारणत्वादिना शास्त्रवेद्य इत्यवधारणासिद्धेरित्यर्थः ।