०९ यादवप्रकाशाभिमताधिकरणपरीक्षा

यादवप्रकाशीये तु..

यादवप्रकाशाभिमताधिकरणपरीक्षा

तात्पर्यचन्द्रिका

यादवप्रकाशीये तु यतो वा इत्यादिवाक्येन कारणत्वमनूद्य ब्रह्मज्ञानं विधेयम् । अन्यथा वाक्यभेदापातात् । तच्चायुक्तम् । कारणत्वस्य मानान्तरेणाप्राप्तेरिति शङ्कायां ‘‘सदेव सोम्य’’ इत्यादिशास्त्रान्तरेण प्राप्तिरस्तीति वक्तुं शास्त्रयोनिसूत्रमित्युक्तं, तन्न । लक्षणानन्तरमत्याकाङ्क्षितप्रमाणपरत्वसम्भवेऽन्यपरत्वायोगादित्युक्तत्वात् । शास्त्रयोनित्वहेतोः पूर्वसूत्रोक्तप्रस्तुतब्रह्मकारणत्वरूपसाध्यान्वयसम्भवेऽनुवादकत्व-रूपाध्याहृतसाध्यान्वयायोगाच्च । अयं च दोषो मतान्तरेऽपि समः । औतिमते पूर्वसूत्रे कण्ठोक्तकारणत्वत्यागेनार्थाक्षिप्तसार्वज्ञान्वयात् । केषाञ्चित्पक्षे व्यवहिताद्य-सूत्रोक्तविचारकर्तव्यतयाऽन्वयात् ।

प्रकाशिका

अन्यथेति ॥ जगत्कारणत्वस्य ब्रह्मज्ञानस्य च विधौ वाक्य-भेदादित्यर्थः । सम इत्युक्तमेवाह ॥ औतीति ॥ यत्कश्चिदाह ‘‘यतो वा इत्यादि-वाक्यमनुमानप्राप्तकारणानुवादित्वादमानमिति प्राप्ते शास्त्रप्रामाण्यादेव जगज्जन्मादिकारणं ब्रह्म न त्वनुमानप्रामाण्यादिति व्यवस्थापयितुमिदं सूत्रम् । तदर्थश्च योनिपदस्य ज्ञप्तिहेत्वर्थकत्वेऽपि षष्ठीतत्पुरुषो न बहुव्रीहिः । समासप्राबल्यात् । शास्त्रस्य योनित्वं शास्त्रयोनित्वं तस्माच्छास्त्रस्य प्रामाण्याज् जगज्जन्मादिलक्षणं ब्रह्म भवतीति । तथा शास्त्रस्य योनित्वाद्वेदस्य कर्तृत्वात्सर्वज्ञं ब्रह्मेत्यद्वैत्युक्तं वर्णकान्तरमप्यत्र ग्राह्यम्’’ इति । तन्न । सौत्रशास्त्रपदेन दुरागमस्यापि निरासप्रतीत्याऽनुमानमात्रनिरासस्य सौत्रशास्त्र-पदविरुद्धत्वात् । सूत्रे तत्पुरुषाश्रयणे पक्षधर्मताया अलाभेन काकस्य कार्ष्ण्याद्धवलः प्रासाद इतिवद्वैयधिकरण्यापत्त्या तदर्थं बहुव्रीहेरवश्यमाश्रयणीयत्वात् । योनित्वशब्दस्य गुणवाचित्वेन तेन ‘‘पूरणगुणे’’त्यादिसूत्रेण षष्ठीसमासनिषेधाच्च । गत्यन्तरे सति ‘‘संज्ञाप्रमाणत्वा’’दित्यादि ज्ञापकेन समाधानस्य क्लिष्टत्वाच्च । जगत्कारणत्वरूप-प्रकृतसाध्येनान्वयसम्भवे जन्मादिलक्षणं ब्रह्मेति साध्याध्याहारायोगाच्च ।

किञ्चानुमानं यतो वा इत्यादिवाक्योक्तमेव कर्तारमनुमापयति त१तोऽन्यं वा । आद्ये विरोधो नेतीयं चिन्ता व्यर्था । तस्य श्रुत्यनुग्राहकत्वेन दार्ढ्यहेतुत्वात् । नान्त्यः । अनुवादकत्वाप्राप्त्या श्रुत्यप्रामाण्यायोगेन ग्रन्थकृदुक्तरीत्याऽतिव्याप्त्यादिना पूर्वपक्ष-स्यौचित्याच्च । ‘‘आत्मैकस्तु जनार्दनः, दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान्, आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् । न सम्भवन्ति, स्वातन्त्र्यात्स्व इति प्रोक्त आत्माऽयं चाततत्वतः ।

आततत्वाच्च मातृत्वादात्मेति परमो हरिः’’ इत्यादिश्रुतिस्मृतिभिरात्मभूरिति चतुर्मुख-जनके विष्णौ प्रसिद्धात्मघटित ‘‘नावेदवित्’’ इत्यादिश्रुतेः शिवस्य शास्त्रैकगम्यत्वे उदाहरणत्वायोगेन सिद्धान्तस्यानुदयाच्च । उक्तं चानुव्याख्याने ‘‘विष्ण्वावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् । श्रुतिर्वक्ति’’ इति, ‘‘सर्वोत्कर्षे देवदेवस्य विष्णोस् ततो वेदास्तत्पराः सर्व एव’’ इत्यादिश्रुतिभिः ‘‘नारायणपरा वेदाः, वेदैश्च सर्वैरहमेव वेद्यः, वेदे रामायणे चैव, यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्ववित्, मुख्यं च सर्ववेदानां तात्पर्यं श्रीपतेः परम् । उत्कर्षे त्विति, सर्वज्ञं सर्वकर्तारं नारायणमनामयम् । सर्वोत्तमं ज्ञापयन्ति महातात्पर्यमत्र हि । सर्वेषामेव वेदानाम्’’ इत्यादिस्मृतिभिः ‘‘ऋगाद्या भारतं चैव’’ इत्युपक्रम्य ‘‘ज्ञेय एतैः सदायुक्तैः केवलागमविज्ञेय’’ इति पठितया स्पष्टस्मृत्या च प्रत्यधिकरणं भाष्योक्तश्रुत्यादिभिर्विष्ण्वेकनिष्ठश्रुतिलिङ्गादिन्यायैश्च विरुद्धत्वाच्च ‘‘ईशानः सर्वविद्याना’’मित्यादावीशानादिनाम्नः ‘‘शब्दादेवे’’ति सूत्रोक्त-रीत्या ‘‘यो देवानां नामधा’’ इति श्रुत्या ‘‘अजस्य नाभावि’’ति पद्मनाभत्वलिङ्गोपेतया विष्णुपरत्वोपपत्तेरिति दिक् । औत्युक्तवर्णकान्तराङ्गीकरणं तु ग्रन्थकृदुक्तानेक-दूषणपराहतम् । यदत्र कल्पतरूक्तकल्पे ‘‘आनुषङ्गिकार्थत्वान्न पृथक्सङ्गत्यपेक्षेति वियत्पादे निवेश इति दूषणमसङ्गतम्’’ इति भाषणं तन्न । सूत्रार्थत्वेनैव वर्ण्यमानस्यानु-षङ्गिकत्वाभावादिति ।

चन्द्रिकाबिन्दु

अनुवादकत्वरूपेति ॥ शास्त्रयोनित्वादित्यनेन कारणत्वस्य शास्त्रप्रतिपाद्यत्वाद् यतो वा इत्यस्यानुवादकत्वमुपपद्यत इति अध्याहृतसाध्यान्वयित्व-स्वारस्यमिति भावः । मतान्तरे औतिमते रामानुजमते च । समत्वमेवोपपादयति । औतिमत इत्यादिना ।

पाण्डुरङ्गि

अन्यथेति ॥ उभयविधान इत्यर्थः ॥ शास्त्रेति ॥ अनुवृत्ता-श्रुतयोर्मध्येऽनुवृत्तस्यैव समीचीनत्वादिति भावः । कथं मतान्तरेऽयं दोष इत्यतस्तं दर्शयति ॥ औतिमत इति ॥