०८ अद्वैत्यभिमतवर्णकान्तरपरीक्षा

एतेनैवाद्वैतिनां शास्त्रं योनिः..

अद्वैत्यभिमतवर्णकान्तरपरीक्षा

तात्पर्यचन्द्रिका

एतेनैवाद्वैतिनां शास्त्रं योनिर् ज्ञप्तिकारणमस्येति विग्रहाश्रयणेन पूर्वोक्त-लक्षणस्यानुमानतोपमर्दनेनागमोपदर्शनार्थमिदमधिकरणमिति वर्णकान्तरं निरस्तम् । प्रमेये विशेषाभावे प्रमाणे विवादायोगात् । किञ्चाद्यसूत्रे ब्रह्मशब्देन बृहत्त्वादि-धर्मवत्तया द्वितीयसूत्रे च कारणत्वादिधर्मवत्तयोक्ते उत्तरत्रापि ‘‘ईक्षतेर्नाशब्दम् अन्तस्तद्धर्मोपदेशाद् आकाशस्तल्लिङ्गात्’’ इत्यादावीक्षितृत्वादिभिस्तैस्तैर-साधारणधर्मैः कारणत्वादिविशिष्टतया तत्तद्वाक्यार्थत्वेन वक्ष्यमाणे ब्रह्मणि शास्त्रं प्रमाणं, किं वा बृहत्त्वकारणत्वादिधर्मरहिते पञ्चमाध्यायसिद्धे त्वदभिप्रेते शून्यब्रह्मणि । नाद्यः । तस्यातात्विकत्वात् । न च तत्वजिज्ञासुं प्रत्यादित एव शास्त्रस्यातत्वावेदकत्वं वक्तुं युक्तम् । अन्त्ये तु पूर्वोत्तराविरोधाय न ब्रह्मजिज्ञासा, न जन्माद्यस्य यतः, अनीक्षतेरित्यादिः सूत्रविन्यासः स्यात् । उक्तं चानुव्याख्याने

सर्वधर्मोज्झितस्यास्य किं शास्त्रेणाधिगम्यते ।

मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणता ॥ इति ।

किञ्च

यत्सत्यं नैव तद्वेद्यं यद्वेद्यं तच्च नैव सत् ।

इति ते समयस्तत्र कुत्रार्थे शास्त्रमानता ।

आधुनिकरीत्या फलव्याप्यत्वं दृश्यत्वम् इति कल्पने प्रतिवाद्यसिद्धिर्नित्यातीन्द्रियेषु वाद्यसिद्धिरप्रयोजकता च । अपि च शास्त्रपदेनानुमानवद्दुरागमस्यापि निरासप्रतीते-र्नानुमानमात्रनिरासपरं सूत्रम् ।

प्रकाशिका

‘‘अथवा यथोक्तमृग्वेदादिशास्त्रं योनिः कारणं प्रमाणं यस्य ब्रह्मणः’’ इत्यपि परभाष्योक्तं निराह ॥ एतेनेति ॥ अतिव्याप्त्यादिरूपफलाभावेनेत्यर्थः । तदेव व्यनक्ति ॥ प्रमेय इति ॥ आनुमानिकत्वे वेदान्तानामनुवादकत्वेनाविचार्यत्वं प्राप्तं तन्निरसितुमिदमित्यनुशयेनाह ॥ किञ्चेति ॥ परस्य शुद्ध एव शास्त्रयोनित्वाङ्गीकारेऽपि विशिष्टकल्पोपन्यासः, सम्भावितत्वेन वा विशिष्ट एव शास्त्रयोनित्वं त्वयापि वाच्यम् । तस्यैवाध्यायचतुष्टयार्थत्वात् । न तु शुद्ध इति युक्तिसूचनार्थं वेति ध्येयम् । अत एव विशिष्टे शुद्धे वा शास्त्रं प्रमाणमित्येव वक्तव्ये तस्य प्रपञ्चः । पञ्चम इत्युपहासः ॥ वक्तुमिति ॥ सूत्रकृता इति शेषः ॥ पूर्वोत्तरेति ॥ अस्य सूत्रस्येति शेषः । ब्रह्मशब्दस्य विशिष्टार्थत्वादिति भावः ॥ उक्तं चेति ॥ उक्तं पक्षद्वयदूषणमाद्यस्य चतुर्थपादे उक्तमित्यर्थः । अत एव तत्र निरस्तप्रायत्वादेवेह टीकाद्वये न तद्वर्ण(कान्तरं)कं निरस्तम् ॥ नैव तद्वेद्यमिति ॥ अन्यथा दृश्यत्वस्य व्यभिचारापत्तेरिति भावः । ननु सत्यस्य शुद्धस्य वृत्तिविषयत्वरूपवेद्यत्वाङ्गीकारान्न दोषः । न च दृश्यत्वस्य व्यभिचारः । तस्य फलव्याप्यत्वरूपत्वात् । वृत्तिप्रतिफलितचैतन्यस्य फलत्वात् । तस्य शुद्धेऽ-भावादित्यत आह ॥ आधुनिकेति ॥ प्रतिवादीति ॥ प्रपञ्चे तस्य सत्त्ववादिभिरनङ्गी-कारादिति भावः ॥ वादीति ॥ उभयवाद्यसिद्धिरित्यर्थः ॥ अप्रयोजकतेति ॥ फलस्य कल्पितत्वेनाधिष्ठानत्वायोगेन दृग्दृश्ययोः सम्बन्धान्तरानुपपत्त्याऽऽध्यात्मिकसम्बन्ध-सिद्धिरित्याद्यनुकूलतर्कस्य व्याप्यत्वपक्षेऽयोगादिति भावः ॥ नानुमानमात्रेति ॥ अन्यथा शब्दयोनित्वादित्येव ब्रूयात् । सार्धमात्रालाभेन लाघवादिति भावः । अयं च दोषो मतद्वयेऽपि समः ।

चन्द्रिकाबिन्दु

एतेनेति ॥ यद्यप्ययं पक्षः पूर्वमेवोपन्यसनीयस्तथाप्यनुवादकत्वा-विशेषेण केचित्पक्षे दूषितः । अत्रापि प्रमेयविशेषो नास्तीति केचित्पक्षानन्तर्यविवादा-भावादिति । तथा चानुमानतोपमर्दनं न कर्तव्यम् । (ब्रह्मास्मन्मत इति१) ॥ त्वन्मते आनुमानिकत्वेन जगत्कारणत्वस्य रूद्रादावतिव्याप्तिर्व्युत्पाद्यते येनानुमानिकत्वनिरासः कर्तव्यः स्यादिति भावः । सूत्रस्वारस्यं व्युत्पाद्य प्रमेयं दूषयति ॥ किञ्चेति ॥ तस्य विशिष्टस्य न वेद्यत्वं सत्यस्यापि ब्रह्मणो नावेद्यत्वं वृत्तिविषयत्वाङ्गीकारात् । न चैवं ब्रह्मणो दृश्यत्वप्रसङ्गः फलव्याप्यत्वस्यैव दृश्यत्वरूपादित्याशङ्क्य तदपि दृश्यत्वं दूषयति ॥ आधुनिकेति ॥

पाण्डुरङ्गि

एतेनेति ॥ औतिनां वर्णकान्तरं निरस्तमित्यन्वयः । आनुमानता अनुमानसिद्धता । तस्या निरासेनेत्यर्थः । आगमोपदर्शनार्थम् आगमसिद्धत्वोपदर्शनार्थम् । अनुमानेनापि कारणता ब्रह्मण एव सिद्ध्यत्यन्यस्य वा । नाद्य इत्याह ॥ प्रमेय इति ॥ तथा च ब्रह्मकारणतासिद्धिर्यथाऽऽगमेन, एवमनुमानेनापि भवतीति प्रमेये विशेषा-भावादनुमानं निराकृत्यागमोपदर्शनमयुक्तमित्यर्थः । न द्वितीयः । एवं ह्यतिव्याप्त्या पूर्वपक्षे आगमेन सिद्धान्त इत्युक्तं स्यात् । तथा चास्मन्मतप्रवेश एव स्यादिति भावः ॥ पूर्वोत्तरेति ॥ ‘‘अथातो ब्रह्मजिज्ञासा’ इति पूर्वस्य ‘आनन्दमयोऽभ्यासात्’’ इत्याद्युत्तरस्य चेत्यर्थः ।

ननु यत्सत्यं नैव तद्वेद्यमित्ययुक्तम् । सत्यस्य ब्रह्मणः शास्त्रवेद्यत्वाङ्गीकारात् । तथा च न शास्त्रस्यातत्वावेदकत्वम् । न चैवं ब्रह्मणोऽपि दृश्यत्वापत्त्या मिथ्यात्वं स्यात् । अन्यथा मिथ्यात्वसाधकानुमानस्य तत्रैव व्यभिचारः स्यादिति वाच्यम् । मिथ्यात्वे वृत्तिव्याप्यत्वस्याप्रयोजकत्वात् । तत्प्रयोजकीभूतफलव्याप्यत्वस्य ब्रह्मण्यभावेन व्यभिचाराभावात् । वृत्तिव्याप्यत्वाच्च शास्त्रवेद्यत्वस्यापि सम्भवादित्यत आह ॥ आधुनिकेति ॥ प्रतिवाद्यसिद्धिरिति ॥ प्रतिवादिना त्वदभिमतस्य वृत्त्यभिव्यक्ताधिष्ठान-चैतन्यस्य विषयत्वस्य वा वृत्तिप्रतिबिम्बितचैतन्यस्य वा कुत्राप्यनङ्गीकाराद्व्यवहार-रूपफलव्याप्यत्वस्य च ब्रह्मण्यपि सत्त्वादिति भावः ॥ नित्येति ॥ अपरोक्षवृत्त्यैव चैतन्यप्रतिफलनादेरङ्गीकृतत्वेन नित्यातीन्द्रियत्वेनैतद्विषयापरोक्षवृत्तेरेवाभावेन परोक्ष-वृत्त्यापि प्रतिफलनाद्यभ्युपगमेऽपरोक्षैकरसचैतन्यसम्बन्धेन नित्यातीन्द्रियादेरप्यपरोक्षत्वा-पत्त्या तत्र फलव्याप्यत्वाभावेन वाद्यसिद्धिरित्यर्थः ॥ अप्रयोजकता चेति ॥ नित्या-तीन्द्रियादेः फलव्याप्यत्वाभावेऽपि मिथ्यात्ववद्ब्रह्मणोऽपि फलव्याप्यत्वाभावे मिथ्यात्वो-पपत्त्याऽप्रयोजकतापि स्यादित्यर्थः ।