केचित्तु जगत्कारणं न वेदवाक्यप्रतिपाद्यम्
विशिष्टाद्वैत्यभिमताधिकरणपरीक्षा
तात्पर्यचन्द्रिका
केचित्तु जगत्कारणं न वेदवाक्यप्रतिपाद्यम् । अनुमानेन सिद्धेः । तथा च वाक्यानामनुमानप्राप्तानुवादित्वेनाविचार्यत्वमिति प्राप्ते अत्यन्तातीन्द्रियत्वेन प्रत्यक्षाद्यविषयत्वात् । कार्यत्वाद्यनुमानानां दुष्टत्वेनेश्वरासाधकत्वाच्च वेदान्तवेद्यत्वमित्यननुवादकानां वेदान्तानां विचार्यत्वमिति सिद्धान्त इत्याहुः । तत्र ब्रूमः । ‘‘यतो वै’’ इत्यादिवाक्यं प्रसिद्धार्थयच्छब्दयोगाद्वाक्यान्तरसिद्धकारण-त्वानुवादेन तस्य लक्षणत्वविधायकमिति हि ते मतम् । यथोक्तं ‘‘यच्छब्द-योगात्कारणत्वमनूद्यते’’ इति, ‘‘ब्रह्मलक्षणत्वमेवास्य वाक्यस्य विधेयम्’’ इति च । एवं च कारणत्वस्याऽऽनुमानिकत्वेऽपि तदनुवादेन लक्षणत्वविधायकस्य ‘‘यतो वै’’ इत्यादेरनुवादकत्वासिद्धेस्तत्सिध्द्यर्थं कारणत्वस्य ब्रह्मलक्षणत्वमानुमानिकमिति पूर्वपक्षयितव्यं तदेव च शास्त्रयोनीति सिद्धान्तयितव्यं स्यात् । किञ्च कारणवाक्यस्यानुवादकत्वेऽपि ‘‘सत्यकामः सत्यसङ्कल्पः हिरण्यश्मश्रुर्हिरण्यनखः’’ इत्यादीनामकारणवाक्यानां विचारः पूर्वपक्षेऽपि सेत्स्यत्येव । न च जिज्ञासासूत्रे कारणवाक्यस्यैव विचारः प्रतिज्ञातः । येनेह पूर्वपक्षे स आक्षिप्येत । किञ्चास्य सूत्रस्य जन्मादिसूत्रस्य च कारणमात्रविचारसाधकत्वे कारणाकारणवाक्यविचार-साधकाद्यचतुर्थसूत्रमध्यस्थत्वमयुक्तम् ।
प्रकाशिका
रामानुजमतं निराह ॥ केचित्त्विति ॥ ‘‘यतो वै’’ इत्यादिवाक्यं किं ब्रह्मणि प्रमाणमुत नेत्यादिश्रुतप्रकाशिकोक्तसंशयो ध्येयः ॥ अनुमानेनेति ॥ कार्यत्वाद्यनुमानेनेत्यर्थः। अप्राप्त एव शास्त्रमर्थवदिति भावः ॥ दुष्टत्वेनेति ॥ जीवानामेव विचित्रज्ञानशक्तिमतां प्रत्येकं कृत्स्नजगन्निर्मातृत्वासम्भवेऽपि प्रासादादिकर्तॄणामिवैकदेश-निर्माणेन मिलित्वा कृत्स्नजगन्निर्मातृत्वोपपत्त्यादिना दुष्टत्वेनेत्यर्थः ॥ यथोक्तमिति ॥ श्रुतप्रकाश इति शेषः ॥ असिद्धेरिति ॥ अन्यथा ‘‘स्वर्गकामो यजेत’’ इत्यादे-रनुवादकत्वं स्यात् । स्वर्गांशेऽनुवादादिति भावः । अस्तु वा कथञ्चित्कारण-वाक्यानामनुवादकत्वं तथापि न विचाराक्षेपो युक्त इत्याह ॥ किञ्चेति ॥ विचार इति ॥ जीवो वा ब्रह्म वेत्यादिविचार इत्यर्थः । न च तत्र विचारप्रसक्तिरेव नेति वाच्यम् । दहराधिकरणे सत्यकामवाक्यस्य, अन्तराधिकरणे हिरण्यश्मश्रुवाक्यस्य त्वन्मते विचारयिष्यमाणत्वात् । न च कारणत्ववत् सत्यकामत्वादिकमप्यानुमानिकमिति पूर्वःपक्षः । त्वया कारणत्व एव पूर्वपक्षितत्वात् । कारणत्वे कार्यत्ववत्सत्यकामत्वादि-व्याप्यलिङ्गाभावाच्चेति भावः ॥ न च जिज्ञासेति ॥ तथात्वे अन्तराद्यधिकरणायोगादिति भावः । ननु जन्मादिसूत्रे कारणवाक्यमात्रविचारसाधनादत्रापि तन्मात्रमाक्षिप्य समाधीयत इत्यत आह ॥ किञ्चेति ॥
चन्द्रिकाबिन्दु
वेदान्तवेद्यत्वमिति ॥ अनेन शास्त्रयोनित्वादित्यस्यार्थ उक्तो भवति । तस्येति ॥ कारणत्वस्य ब्रह्मलक्षणत्वविधायकमित्यर्थः । अनुवादकत्वा-सिद्धेरिति ॥ लक्षणत्वविधानार्थम् आनुमानिकानुवादस्याप्यदोषत्वादिति भावः । अयुक्तमिति ॥ आद्यचतुर्थसूत्रयोस्सकलवाक्यविचारकत्वात् तन्मध्यपतितस्यास्य सूत्र-द्वयस्य तथात्वं युक्तम् । अन्यथा साध्यांशविरोध इति भावः ।
पाण्डुरङ्गि
अस्त्वनुमानेन सिद्धिस् तथापि वेदवाक्यप्रतिपाद्यत्वं कुतो नेत्यत आह ॥ तथा चेति ॥ अकार्यस्यैव विचार्यत्वादिति भावः । अत्र किं प्रत्यक्षसिद्धव्याप्तिकेन विमतमीश्वरकर्तृकं कार्यत्वादित्येवंरूपानुमानेन जगत्कारणसिद्धिर् उत ईश्वरो जगत्कर्ता इति प्रत्यक्षसिद्धपक्षकेन, यद्वा कार्यत्वाद्यनुमानेन, नोभयमित्याह ॥ अत्यन्ता-तीन्द्रियेति ॥ प्रत्यक्षम् आदि मूलं यस्य प्रत्यक्षसिद्धपक्षकं तत्सिद्धव्याप्तिकं वा तद-विषयत्वादित्यर्थः । तृतीयं प्रत्याह ॥ कार्यत्वादीति ॥ एवंविधाधिकरणवचनं सिद्धान्तविरुद्धमित्याशयेन तत्सिद्धान्तं दर्शयति ॥ ‘यतो वा’ इत्यादिना ॥ तत्सिध्द्यर्थ-मिति ॥ अनुवादकत्वसिद्ध्यर्थमित्यर्थः । ननु कारणत्वस्य ब्रह्मलक्षणत्वमानुमानिक-मित्यत्रैवोक्तस्य पूर्वपक्षस्य तात्पर्यमित्यत आह ॥ किञ्चेति ॥ किमत्र सर्ववाक्यविचार आक्षिप्यते उत कारणवाक्यविचार एव । नाद्य इत्याह ॥ कारणवाक्यस्येति ॥ सत्यसङ्कल्पत्वहिरण्यश्मश्रुत्वादेरन्यतोऽप्राप्तत्वादिति भावः । द्वितीयं प्रत्याह ॥ न चेति ॥ ननु जिज्ञासासूत्रे सर्ववाक्यविचारस्य प्रतिज्ञातत्वात्तदन्तर्गतवाक्यविचार एवाक्षिप्यत इत्यत आह ॥ किञ्चेति ॥