सिद्धान्तस्तु
सिद्धान्तः
तात्पर्यचन्द्रिका
सिद्धान्तस्तु —
चक्षुरादि यथाऽशक्तं रसगन्धादिवस्तुषु ।
अनुमाऽपि तथाऽशक्ता धर्मब्रह्मादिवस्तुषु ।
‘‘न हि धर्मादिनिश्चयोऽनुमानेन’’ इति टीकयैव महाकल्पत्वमित्याद्यनुमानेषु श्रुतिबाधादेः, ‘‘शशादीनां विषाणित्वादौ च कर्तुं शक्यत्वात्’’ इति टीकायां चातिप्रसङ्गस्योक्तत्वात्,
अनुव्याख्याने च–
‘‘वस्तुत्वात्तुरगः शृृङ्गी पुष्पवत्खं सुतैर्युता ।
चित्रिणी च रसः षष्ठो रसत्वात्सोत्तरो भवेत् ।’’
इत्यतिप्रसङ्गस्य प्रपञ्चितत्वादन्यत्र कार्यत्वादिहेतूनां सप्रपञ्चं निरासात् ‘‘नावेदवित्’’ इत्यादिश्रुत्या जगत्कारणेऽनुमानप्रामाण्यनिषेधाच्च नानुमानं जगत्कारणे प्रमाणमिति । आगमाश्रयपूर्वपक्षनिरासस्तु पौनरुक्त्यपरिहारावसर एव विवृतः ।
प्रकाशिका
अनुमानावलम्बिपूर्वपक्षनिरासकं ‘‘यदि कारणमानुमानिकं स्यात्’’ इत्यादिसिद्धान्तटीकाप्रमेयं सङ्गृह्णाति ॥ चक्षुरादीति ॥ अशक्तमिति च्छेदः । यथा धर्मादावशक्ता तथा ब्रह्मणीति धर्मादेर्दृष्टान्तत्वेनोक्तिः । तस्य चोदनैकप्रमाणकत्वं ‘‘चोदना लक्षणोऽर्थो धर्मः’’ इति जैमिनिसूत्रसिद्धमिति भावः । स्वातन्त्र्येणाशक्ते-त्यर्थः । तेन न मीमांसाव्याघातः । प्रागुक्तानुमानानि टीकादावेव निरस्तानीति भावेन तद्वाक्यानि पठति ॥ न हीति ॥ श्रुतीति ॥ अयोग्यत्वोक्त्या तत्र प्रवर्तमानानां बाधितत्वादिति भावः । आदिपदेन व्याप्त्यादिशून्यत्वसोपाधिकत्वादिग्रहः । श्रुतेर्नित्य-निर्दोषत्वेन स्वतः प्रामाण्येन च ‘‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्’’ इति वचनसिद्धं प्राबल्यमिति भावः । कथमतिप्रसङ्ग इत्यत आह ॥ अनुव्याख्याने चेति ॥ खम् आकाशम् । चित्रिणी वन्ध्या । षष्ठो रसः सोत्तरः सप्तमरसोपेत इत्यर्थः । रसत्वात्पूर्वरसवत् । रसमात्रस्य पक्षत्वे पूर्वरसमादाय सिद्धसाधनता । अतः षष्ठ इति ।
ननु वस्तुत्वं घटादौ व्यभिचारीति चेन्न । तस्यापि पक्षत्वात् । न च प्रत्यक्षादिबाधः । क्षित्यादिकर्तुरपि साम्यात् । स चायोग्यश्चेच्छृङ्गमपि तथाऽस्तु । शृृङ्गं महत्त्वे सत्युद्भूत-रूपवच्चेत्कर्तापि कुलालादिरिव तादृग्देहवानिति कथमयोग्यः । ओहोऽसाविति चेच्छृङ्ग-मपि रूपहीनं स्यात् । शृृङ्गं रूपवदेवेति चेत्कर्तापि देहवानेवेति भावः । एवमन्यान्यपि समर्थनीयानि ॥ अन्यत्रेति ॥ तत्वनिर्णयतर्कताण्डवादावित्यर्थः । नावेदविदित्यादि-श्रुत्यर्थष्टीकायां स्पष्टः ॥ नानुमानमिति ॥ तथा चातिव्याप्त्यभावाद्विष्णोरेवेदं लक्षणं सिद्धमिति भावः ।
यदत्र कश्चिदाह– त्वन्मते अनुमानस्य स्वतो जगत्कर्त्रसाधकत्वेऽपि तात्पर्यलिङ्गत्वात् श्रुतेरेक एवार्थ इति नियमाभावाच्च उक्तनानाकर्तृसाधकानुमानानुरोधेन सृष्टिवाक्यानां रुद्रादिनानाकर्त्रर्थकत्वोपपत्तौ नानुमाननिरासो युक्तः । शब्दानां व्यवस्थितैकार्थकत्व-मौत्सर्गिकं वक्तृविवक्षाविनियोगाद्यपवादसत्त्वेऽनेनैकार्थत्वमिति सर्वतान्त्रिकमर्यादामुल्लङ्घ्य स्वकल्पितानेकार्थत्वसिद्ध्यै स्वेच्छयैव श्रुतिषु योगरूढ्यादिभिरनेकार्थत्वमुपगच्छतो वसन्तादिवाक्येष्विववान्यथापदविभागादिना सर्वत्रानेकार्थत्वमनिवार्यमिति स्यादेवानेक-स्रष्टृपरत्वं सृष्टिवाक्यानाम्’’ इति ॥ तन्न । प्रत्यक्षाद्यमूलानामनुमानानामदृष्टार्थासाधकत्वे तात्पर्यधीहेतुत्वस्यापि दूरापास्तत्वात् । टीकाद्युक्तरीत्या श्रुतिबाधितानां तद्विरुद्धार्थानां तात्पर्यलिङ्गत्वस्याशक्यशङ्कत्वाच्च । ‘‘शुष्कतर्कं तु वर्जयेत्, तस्मात्सानपगा श्रुतेः, कामाच्च’’ इत्यादिस्मृतिसूत्रैः शुष्कतर्काणां तात्पर्यालिङ्गत्वस्योक्तत्वाच्च । ‘‘श्रुतिस्मृति-सहायं यत्’’ इत्यादिस्मृत्या च प्रमाणान्तरमूलकयुक्तेरेव तल्लिङ्गत्वोक्तेः ।
उक्तं च टीकायां ‘‘सत्यमस्त्येवानुमानस्यौपनिषदपदार्थनिश्चायकत्वं श्रुत्यादि-सहकारियुक्तस्य । न तु नियतप्रामाण्यं स्वातन्त्र्येण दृष्टार्थनिश्चायकत्वम् । तादृशं च प्रकृतमिति’’ इति । न चैतान्यनुमानानि श्रुत्यादिपरिगृहीतानि । प्रत्युत ‘‘एकमेवाद्वितीयं, एको दाधार’’ इत्यादि श्रुतिस्मृतिविरुद्धानि । तादृशैस्तर्कैः श्रुतितात्पर्यं कल्पयतस् तवैवेयं शोभा न तु परीक्षकाणाम् । यत्तु श्रुतेरेकार्थत्वनियमाभावादित्यादि, तन्न । प्रमाणवशेन क्वचिदनेकार्थत्वे सर्वत्र तथात्वापादकाभावात् । मानवशेनानेकार्थत्वस्य ‘‘ज्योतिरुप-क्रमात्’’ इत्यत्र वक्ष्यमाणदिशा सर्वतान्त्रिकसिद्धत्वात् । अपूर्वपदविभागस्यापि तत्रोक्त-मानपूर्वकत्वात् । न हि सृष्ट्यादिवाक्यानामनेककर्त्रर्थत्वे प्रमाणमस्ति । प्रत्युत ‘‘एकमेवाद्वितीयं, द्यावाभूमी जनयन्देव एकः, एको दाधार, यो नः पिता जनिता, एक एव, न ब्रह्मा न च शङ्करः, एकः पुरस्ताद्य इदं बभूव, तस्मात्स हरिरेकराट्, स्रष्टा पाता
तथैवात्ता निखिलस्यैक एव तु’’ इत्यादि श्रुतिस्मृतिविरोधः । सर्वेषां स्वातन्त्र्यास्वातन्त्र्ययो- रन्योन्यनियमनायोगेनैकमत्या योगाज्जगत्सृष्ट्यादिप्रतिहतिरित्यादियुक्तिविरोधश्च । हरेरन्येषां पारतन्त्र्याद्यनेकदोषयुक्ततायाः कर्तृत्वादिविरोधिन्याः पत्युरादिनयोक्तानेकमानसिद्धत्वाच्च ।
यत्तु कर्त्रैक्यश्रुतिरेकैकस्यैव कर्तुः ‘बहु स्याम्’ इत्यादिश्रुतिप्रसक्तानेकभवननिरासे-नाप्यर्थवतीति नानेककर्तृविरोधिनी । अत एव त्वयापि निष्प्रपञ्चब्रह्मापलापव्यसनिना ‘‘नेह नाना’’ इत्यादिश्रुतिर्विष्ण्ववयवगुणकर्मरूपभेदशङ्कावारणेनार्थवतीत्युक्तमिति, तदपि न । ‘‘एकमेवाद्वितीयं, जनिता, एक एव’’ इत्यादिसावधारणश्रुत्युक्तकारणैकत्वस्य स्वाश्रयप्रतियोगिकभेदासमानाधिकरणरूपतया तद्विरोधेनानेककर्तृसिद्धेरेवायोगेनैकैक-स्यानेकभवनशङ्कानुदयात् । नेह नानेत्यादौ न्यायामृताद्युक्तरीत्या गुणकर्मादिभेदस्य प्राकरणिकप्रसक्तिवत् ‘‘एको दाधार’’ इत्यादावेकैकस्य बहुभवनप्रसक्तेरभावाच्च । कर्तु-र्बहुभवनस्य ‘‘यदेकमव्यक्तमनन्तरूपम्’’ इत्यादिश्रुत्युक्तत्वेन तन्निरासायोगाच्च । ‘‘न ब्रह्मा न च शङ्करः, अन्योऽल्पस्य वा न वा’’ इति विशिष्य कर्त्रन्तरनिषेधाच्च ।
अत एव ‘‘आत्मेत्येवोपासीत’’ इत्यादिविधौ तत्तदधिकारिविशेषं प्रति तत्तद्योग्य-गुणप्रतीतिवत् सृष्टिवाक्येऽपि शैववैष्णवाद्यधिकारिविशेषं प्रति शिवादिनानास्रष्टृधीरस्त्विति निरस्तम् । आत्मनि तत्तद्योग्यगुणानां सत्त्ववन्नानास्रष्टृसत्त्वाभावात् । तत्तदीयानादि-मिथ्याज्ञानवासनया तवेवान्यस्यापि शिवादिषु स्रष्टृत्वप्रतीतावपि तस्यानेकमानविरोधेन भ्रान्तित्वकल्पनावश्यम्भावाच्च । तत्तत्पुरुषं प्रति शिव एव जगत्कर्ता नान्य इत्यादिबोधने पुरुषभेदेनानुष्ठानवद्वस्तुस्वरूपभेदायोगेनाप्रामाण्यापाताच्च ।
ननु त्वन्मते पुराणेषु रामकृष्णादिरूपभेदोक्तेर्लौकिकभ्रान्तिसिद्धभेदानुवा-दित्व-वत्तत्तदनादिसमयसिद्धशिवादिकर्त्रैक्यानुवादित्वेनापि कर्त्रैक्यश्रुतिर्युक्तेति न कर्तृनानात्व-विरोधिनी । न चैवं तत्रेव कर्त्रैक्यश्रुतावप्यसदर्थत्वप्रसङ्ग इति वाच्यम् । त्वन्मते यस्य यावद्दर्शने योग्यता तं प्रति तावन्तमेव सातिशयं ब्रह्मानन्दैकदेशं निरतिशयतया भूम-ब्रह्मादिशब्दो वक्तीत्यभ्युपगमवत् शैववैष्णवादीन् प्रति विरुद्धनानाकर्तृबोधकत्वं सृष्टि-वाक्येप्युपगम्यतामिति चेत् सम्यक्तव मूर्धानमध्यारोहदुन्मादः । यदविद्यमानान्य-प्रामाण्यकराणि पूर्वोत्तरानुसन्धानहीनान्येव बहुलमभाषथाः । सातिशयं निरतिशयत्वेन भूमादिशब्दो वक्तीत्यस्यैवासत्त्वादित्यलमियता । अन्यदपि तद्दुर्भाषणनिराकरणं गुरुपाद-कृतकण्टकोद्धारादौ बोध्यम् । ‘‘शास्त्रं योनिः प्रमाणमस्य’’ इति भाष्योक्तं बहुव्रीहिं समर्थयितुं परोक्तं दूषयति ॥ अत्रेति ॥ समस्यमानपदार्थत्यागेनान्यपदार्थप्रधान-बहुव्रीह्यपेक्षया तत्पुरुषस्य तदत्यागेनोत्तरपदार्थप्रधानस्य बलवत्त्वादिति भावः ।
अत्रेदमधिकरणशरीरम् ‘‘अस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः’’ इत्यादि वाक्यं ब्रह्मणो वेदकर्तृत्वेन सर्वज्ञत्वं न साधयति उत साधयतीति संशये ब्रह्मणो वेदकर्तृत्वे वेदस्य सापेक्षत्वेनाप्रामाण्यप्रसङ्गान्न साधयतीति प्राप्ते साधयत्येवेति सिद्धान्तः । तथा हि । कर्तृमत्त्वेन वेदस्य सापेक्षत्वं, किं पुरुषनिर्वर्त्यत्वमात्राद्वाऽभिनवानुपूर्वीरचनाद्वा मानान्तरोपलब्धार्थविषयरचनाद्वा कतिपयकालविरतसर्वसम्प्रदायस्य वेदस्यैकपुरुष-निस्सरणाद्वा । नाद्यः । तवापि सम्मतत्वात् । नित्यानां विभूनां वर्णानां कालतो देशतो वा पौर्वापर्यायोगेनाभिव्यक्तिधर्मानुपूर्व्याः कृतत्वात् । द्वितीये क्रमान्यत्वं वा विसदृशक्रमत्वं वा । नाद्यः । अध्यापकोच्चरितानुपूर्वीसदृशानुपूर्व्या एव माणवकेनानुकरणेन तवापि सम्मतत्वात् । न द्वितीयः । मयाप्यनङ्गीकारात् । अत एव न तृतीयः । चतुर्थस्तूपेयते । न चैतावता सापेक्षत्वमस्तीति । तदेतदधिकरणशरीरमग्रे निरसिष्यतः सूत्रार्थं ताव-न्निरसितुमयमनुवादः । तत्रैव वक्ष्यमाणत्वेऽपि वक्ष्यमाणसूत्रार्थदूषणस्य सुज्ञानायात्रैवाधि-करणशरीरमवोचाम ।
चन्द्रिकाबिन्दु
सूत्रतद्वाख्यानपरटीकार्थमाह ॥ चक्षुरादीति ॥ अनेन स्वभाव एव नियामक इति सूचितम् । तथा च नियामकाभावादित्यस्यासिद्धिः । अन्यत्र तर्कताण्डवे । विवृतः ‘‘प्रमाणत्वेनाङ्गीकृता’’ इत्यादिनेति शेषः ।
पाण्डुरङ्गि
धर्मब्रह्मादिवस्तुनोऽनुमानायोग्यत्वे व्याप्तिपक्षधर्मतोपेतपूर्वोक्तानुमानानां का गतिरित्यत आह ॥ न हीति ॥ अतिप्रसङ्गस्य आभाससाम्यस्येत्यर्थः ॥ अन्यत्रेति ॥ ‘‘नानुमानं परेशितुः । शक्तं विज्ञापने’’ इत्याद्यनुव्याख्यानादावित्यर्थः । अन्यत्र विष्णुतत्वनिर्णयादावित्यप्याहुः ॥ आगमाश्रयेति ॥ ‘‘प्रमाणत्वेनाङ्गीकृतश्रुति-परिगृहीतया’’ इत्यनेनेति शेषः ।