अत्र जगत्कारणत्वं किमन्यस्यापि..
संशयपूर्वपक्षौ
तात्पर्यचन्द्रिका
अत्र जगत्कारणत्वं किमन्यस्यापि किं वा विष्णोरेवेति चिन्ता । तदर्थं कारणत्वं किमनुमानादिविषयत्वयोग्यमुतायोग्यमिति । आगमावष्टम्भेन पूर्वपक्षः पौनरुक्त्य-निराससमय एवोक्तः । अनुमानावष्टम्भेन पूर्वपक्षस्तु अनुमानेन रुद्रादीनामपि कारणतासिद्धेरतिव्याप्तिः । न चानुमानमप्रमाणमतिप्रसङ्गादिति युक्तम् । व्याघातात् । न चान्यत्र प्रमाणमपि जगत्कारणे न प्रमाणम् । नियामकाभावात् । न ह्युपमानादि-वदनुमानं नियतविषयम् । यद्यपि कार्यत्वाद्यनुमानात्कर्तृमात्रं सिद्ध्यति न तु शिवादिः कर्तेति । कर्तृमात्रं च विष्णोः कर्तृत्वाविरोधि । लोकप्रसिध्द्यादेरुभयत्र तुल्यत्वात् । तथाप्यनुमानं स्वप्रामाण्यनिषेधकश्रुत्युक्ते कर्तरि न पर्यवस्यति । किन्त्वागमोक्ते कर्तरीत्यतिव्याप्तिः । यद्वा शिवो जगज्जन्मादिकर्ता सर्वज्ञत्वा-दित्यादिव्यतिरेकिणा तत्सिद्धिः । सर्वज्ञत्वादिकं चागमसिद्धमित्यागम-सहायेनानुमानेनेह पूर्वपक्षः ।
प्रकाशिका
‘‘तज्जगज्जन्मादिकारणत्वं विषयः’’ इत्यादिटीकां व्याचष्टे ॥ अत्रेत्यादिना ॥ अयोग्यमिति ॥ अनुमानादिविषयत्वस्येत्यनुषङ्गः । यदि तद्योग्यं तदा वक्ष्यमाणदिशा रुद्रादेरपि । यद्ययोग्यं तदा विष्णोरेवेति फलफलिभावः स्पष्ट इति भावः । सूत्रेऽनुमानाद्ययोग्यत्वे ‘‘नावेदवित्’’ इत्यादिमानानुक्तेर्जगत्कारणं शास्त्रयोग्यमित्येवोक्तेष् टीकादावनुमानाद्ययोग्यत्वे मानाभावादित्याद्यनुक्त्वाऽऽनुमानिकत्वस्यैव हेतूकृतत्वा-च्चिन्ताद्वयमेवोक्तं न त्वयोग्यत्वे मानमस्त्युत नेत्यादिचिन्तापि । एवमग्रेऽपि ॥ उक्त इति ॥ ‘‘तथापि वक्ष्यमाणे’’ इत्यादिनेति भावः ॥ अनुमानेनेति ॥ क्षित्यादिकं सकर्तृकं कार्यत्वाद्घटवदित्याद्यनुमानेनेत्यर्थः ॥ अतिप्रसङ्गादिति ॥ ‘‘वस्तुत्वात्तुरगःशृृङ्गी’’ इत्यादिवक्ष्यमाणदिशेति भावः ॥ व्याघातादिति ॥ अतिप्रसङ्गादित्यनुमानं प्रमाणं चेत्तर्ह्यनुमानप्रामाण्यमुपेत्य तन्निषेधे स्वक्रियाविरोधात् । अप्रमाणं चेदनुमानाप्रामाण्य-व्याघाताद् विघातादित्यर्थः । नियतविषयत्वमेव नियामकमित्यत आह ॥ न हीति ॥ उपमानं हि वाच्यवाचकसम्बन्ध एव मानम् । नान्यत्र । न ह्येवमनुमानमित्यर्थः । अनुमानादुपमानादेर्भेदमुपेत्यैवमुक्तिः । सुधोक्तानुमानेष्वनुपपत्तिमाशङ्क्याह ॥ यद्यपीति ॥ विमतं कर्म प्रयत्नाधारजं कर्मत्वात्सम्मतवदित्यादि तत्रोक्तान्यनुमानान्यादिपदार्थः । प्रसिद्ध्या शिवादिः स्यादित्यत आह ॥ लोकेति ॥
स्वप्रामाण्येति ॥ ‘‘नैषा तर्केण, नावेदविन्मनुते’’ इत्यादिश्रुतिर्विष्णुकर्तृत्वेऽनुमान-प्रामाण्यं निषेधतीति तदुक्ते विष्णुकर्तृत्वे न पर्यवस्यति । किन्त्वागमं सहायीकृत्य शिवकर्तृत्वं साधयति । यतो वेत्यादिवाक्यं च विष्णुकर्तृत्वमाहेति रुद्रादावतिव्याप्ति-रित्यर्थः । एतेन ‘‘इत्याद्यनुमानैर्विश्वोदयस्थितिलयकर्तरि सामान्यतः सिद्धे अस्मदादीनां तदसम्भवाच्छिव एव परिशेषात्कर्ता सिद्ध्यती’’ति सुधायामसम्भवादित्यस्यास्मदा-दीत्यादिपदोक्तविष्ण्वाख्ये श्रुत्युक्ते कर्तरि पर्यवसानासम्भवादित्यर्थ उक्तो भवति । सुधायां परिशेषादिति व्यतिरेक्युपलक्षणमिति भावेन व्यतिरेकिप्रकारमाह ॥ यद्वेति ॥ सुधायां ‘‘विचित्रकार्यानुगुणः सार्वज्ञादिमानेव सिद्ध्यति’’ इत्यादिना कर्तृत्वेन सार्वज्ञसाधनं परिशेषपक्ष एवेति भावेनाह ॥ सर्वज्ञत्वादिकं चेति ॥ शैवागमसिद्धमित्यर्थः । आगमप्रामाण्यं च ‘‘शैवाद्यागमे’’त्यादेर्व्याख्यावसरे सुधोक्तिदिशेवेत्याशयः । ‘‘अनुमानाच्चे’’ति सुधावाक्यस्यागममूलानुमानाच्चेत्यर्थः ।
चन्द्रिकाबिन्दु
उक्त इति ॥ तथापि ‘‘वक्ष्यमाणे श्रुतेः स्वतःप्रामाण्यविष्णुपरत्वे’’ इत्यादिनेति शेषः । ‘‘अनुमानेन रुद्रादेः कारणतासाधनसौलभ्यात्’’ इत्यस्यानुमान-प्रामाण्याभावादनुपपन्नत्वमित्याशङ्क्य अनुमानप्रामाण्यसाधनमपि सुलभमित्यभिप्रायं मन्वान आह ॥ न चेति । व्याघातादिति ॥ अतिप्रसङ्गादित्यस्यैवानुमानत्वादित्यर्थः । यदि कारणत्वमानुमानिकं स्यान्नैतदस्तीति सिद्धान्तांशं विघटयति ॥ न चान्यत्रेति ॥ न हि धर्मादिनिश्चयोऽनुमानेनेति टीकयाऽनुमानस्य नियतविषयत्वं प्रतिपादितं तद्विघटयति ॥ न हीति ॥
‘‘अनुमानेन रुद्रादेः कारणतासाधनसौलभ्यात्’’ इत्यस्य कार्यत्वानुमानस्य सर्वसाधारणकर्तृसाधकस्यापि रुद्रविषयत्वे पर्यवसानं सुलभमित्यभिप्रायं मन्वान आह ॥ यद्यपि कार्यत्वेति ॥ स्वप्रामाण्येति ॥ ‘नैषा तर्केण मतिरापनेया’, नेन्द्रियाणि नानुमानम्’ इत्यादिश्रुतेरनुमानप्रामाण्यनिषेधकत्वाद्भगवद्विषय इति भावः । अनुमानेन रुद्रादेरित्यस्यैव वाक्यस्यानुमानप्रयोगप्रकाराप्रदर्शनाद् अनुपपन्नत्वमाशङ्क्य प्रयोग-प्रकारेऽपि सौलभ्यादित्यभिप्रायं मन्वानोऽनुमानप्रयोगप्रकारान् दर्शयति ॥ यद्वेति ॥ पूर्वानुमानापेक्षयाऽस्यानुमानस्य साक्षादेव शिवविषयत्वम् ।
पाण्डुरङ्गि
अतिव्याप्त्या पूर्वपक्षे चिन्ताप्रकारमाह ॥ अत्रेति ॥ नन्वेवमग्रेऽनु-मानावष्टम्भेन पूर्वपक्ष एव विवृतौ न त्वागमावष्टम्भेन । तथा च न्यूनतेत्यत आह ॥ आगमेति ॥ कालादिभेदेनाविरुद्धं द्वयोः कारणत्वमित्यादिनोक्तः ॥ न चानुमान-मिति ॥ ‘‘सर्वत्र शक्यते कर्तुमागमं हि विनाऽनुमा’’ इत्यादेरित्यर्थः ॥ व्याघाता-दिति ॥ अनुमानमप्रमाणमतिप्रसङ्गादित्यनुमानं मानं न वा । आद्येऽनुमानप्रामाण्यस्याङ्गी-कृतत्वेनानुमानं प्रमाणं नेत्युच्यमाने व्याघातः । द्वितीये पूर्वानुमानप्रामाण्यस्याङ्गीकृतत्वा-दनुमानं न प्रमाणमिति व्याहतमित्यर्थः । ननु नानुमानस्याप्रामाण्यमुच्यते येन व्याघातः किन्तु विषयविशेषे तन्न प्रमाणमित्युच्यत इत्याशङ्क्य तन्निषेधति ॥ न चेति ॥ ननूप-मानस्य सङ्केतमात्रग्राहकत्वेन नियतविषयत्ववदनुमानस्यापि नियतविषयत्वान्नानुमानं जगत्कारणत्वे मानमित्यत आह ॥ न हीति ॥ ननु क्षित्यादिकं सकर्तृकं कार्यत्वादित्यनुमानेन रुद्रादिनिष्ठकर्तृत्वसिद्धेर्लक्षणमतिव्याप्तमित्ययुक्तम् । तस्य सामान्यतः कर्तृत्वमात्रसाधकत्वेन रुद्रादिनिष्ठकर्तृत्वासाधकत्वात् । कर्तृत्वमात्रस्य विष्णुकर्तृत्वा-विरोधित्वादित्यभिप्रायेण शङ्कते ॥ यद्यपीति ॥
ननु शिवकर्तृत्वस्य लोकप्रसिद्धत्वात्तत्रानुमानपर्यवसानमित्यत आह ॥ लोकेति ॥ परिहरति ॥ तथापीति ॥ ननु श्रुतेरनुमानप्रामाण्यनिषेधकत्वं किं सर्वानुमानप्रामाण्य-निषेधकत्वमथवा स्वविरुद्धानुमानप्रामाण्यनिषेधकत्वम् । नाद्यः । तथात्वे मीमांसावैयर्थ्य-प्रसङ्गात् । न द्वितीयः। तस्य पाशुपतागमेष्वपि विद्यमानत्वात् । तथा च कथं तदुक्ते कर्तर्यनुमानपर्यवसानमित्यरुचेराह ॥ यद्वेति ॥ अनुमितेर्व्यापकतावच्छेदकविषयत्वमात्र-नियमात्कथमनुमाने कर्तृविशेषसिद्धिः । तस्याचेतनत्वेन विरोधाविरोधचिन्ताया अयोगात् । तदर्थमागमानुसरणे चानुमानमात्रेण पूर्वपक्ष इत्युक्तिविरोध इत्यतो वाऽऽह ॥ यद्वेति ॥ यद्वा असम्भवपर्यवसायिनं पूर्वपक्षमुक्त्वाऽतिव्याप्तिपर्यवसायिनं पूर्वपक्षमाह ॥ यद्वेति ॥
यद्वा महाकल्पत्वं..
तात्पर्यचन्द्रिका
यद्वा महाकल्पत्वं कल्पत्वव्याप्यधर्मेण स्वाश्रयसमानजातीयकल्पवृत्त्यादि-कार्यकर्तृभिन्नकर्तृकादिकार्यवद्वृत्ति । कल्पत्वव्याप्यत्वात् । अवान्तरकल्पत्ववत् । एवं महाकल्पभेदेन कर्तृभेदवत्पालकादिभेदोऽप्यनुमेयः । तथा जगत्संहर्तृत्वं जगत्स्रष्ट्रेक-निष्ठम् । संहारशक्तित्वात् । घटसंहारशक्तिवदिति स्रष्टृसंहर्त्रोर्भेदसिद्धिः । तथा महीमहीधरादि नानाकर्तृकम् । विचित्रकार्यत्वात् । प्रासादादिवत् । एवं च सर्वजग-ज्जन्मादिकर्तृत्वं लक्षणं चेदसम्भवः कतिपयकर्तृत्वं चेदतिव्याप्तिः । यद्वा सर्वजग-न्निर्माणादिशक्तिः स्वमात्रवृत्तिधर्मेण स्वसमानजातीयशक्त्याश्रयभिन्नाश्रिता । निर्माणादिशक्तित्वात् । घटनिर्माणादिशक्तिवत् । जगत्कर्तृत्वं विष्ण्वितरवृत्ति । कर्तृत्वव्याप्यत्वात् । घटकर्तृत्ववत् । इत्याद्यनुमानैरनेकेषां सर्वजन्मादिकर्तॄणां साधकैर्विष्ण्वितरसर्वजगत्कर्तृसिद्धावितरेषां प्रसिद्धशिवाद्यन्यत्वे गौरवादतिव्याप्तिः ।
प्रकाशिका
एवं सुधोक्तकार्यत्वाद्यनुमानस्य द्वेधाऽभिप्रायमुक्त्वा सामान्यानुमान-मेवातिव्याप्तिफलकं कर्तृभेदसाधकमिति स्वयमेवाह ॥ यद्वेति ॥ यद्वा सुधास्थमुपलक्षणं मत्वाऽऽगमसहायानुमानमूलकमेकं पक्षमुक्त्वा केवलानुमानमूलकपक्षद्वयमाह ॥ यद्वेति ॥ अत एव टीकायां ‘‘अनुमानेन रुद्रादेरपि कारणतासाधनसौलभ्यात्’’ इति सामान्यो-नोक्तम् । न्यायविवरणटीकायामपि ‘‘रीत्यन्तरेणानुमानमपि रुद्रादेर्जगत्कारणत्वे’’ इत्युक्तिरिति भावः । कल्पत्वव्याप्यधर्मेण महाकल्पत्वरूपधर्मेण, स्वाश्रयसमानजातीयः महाकल्पत्वाश्रयजातीयोऽन्यो महाकल्पस् तद्वृत्ति यदादिकार्यं तत्कर्तृभिन्नः कर्ता यस्य तादृशादिकार्यवद्वृत्ति तत्र विद्यमानमित्यर्थः । अयं महाकल्पोऽन्यमहाकल्पनिष्ठादि-कर्तृभिन्नादिकर्तृमानिति निष्कृष्टार्थः । महाकल्प इत्येव पक्षकरणे महाकल्पत्वावच्छिन्नस्य सर्वस्य पक्षतापत्त्या समानजातीयेत्याद्ययुक्तिः । एकस्य पक्षत्वार्थमयमिति विशेषणे नियामकाभावाद्धर्म एव पक्षीकृतः । स्वाश्रयसमानजातीयादेरेवोक्तौ कल्पत्वेन सजातीय-स्यावान्तरकल्पस्यापि ग्रहणापत्त्या महाकल्पावान्तरकल्पयोः कर्तृभेदस्याङ्गीकारेण सिद्धसाधनता । अत उक्तं कल्पत्वव्याप्य इति । कल्पवृत्तीत्यादेरेवोक्तौ स एव दोषः । अतः पूर्वविशेषणम् । कल्पवृत्तिकार्येत्याद्युक्ताववान्तरकार्यकर्तृकुलालादिभिन्नादि-कार्यकर्तृमत्त्वस्य महाकल्पेऽप्यङ्गीकारात् ‘आदिकार्य’’ इत्युक्तम् । एतदर्थमेव पश्चादादीति विशेषणम् । आदिकार्यकर्तृकेत्युक्तौ कर्त्रैक्येनोपपत्तेर्भिन्नेत्युक्तिः ॥
अवान्तरेति ॥ कल्पत्वव्याप्येनावान्तरकल्पत्वेन साध्यं बोध्यम् । तत्र कर्तृभेदः सिद्ध इति भावः ॥ एवमिति ॥ कर्तृपदद्वयस्थाने पातृपदद्वयप्रक्षेपेण पालकभेदः, संहर्तृपद-द्वयप्रक्षेपेण संहर्तृभेदः सिद्ध इत्यर्थः । कर्त्रादिनानात्वं कल्पभेदेन प्रसाध्यैकस्मिन्नपि कल्पे कर्त्रपेक्षया संहर्ताऽन्य इत्याह ॥ तथेति ॥ स्रष्टृनिष्ठं नेत्येवोक्तौ घटस्य स्रष्टैव यदि संहर्ता तदा तत्र व्यभिचारः स्यादत ‘एक’’ इत्युक्तं स्रष्टृसंहर्त्रोरिति ॥ न स्रष्टैव संहर्ता किन्त्वन्योऽपीत्येवं भेदसिद्धिरित्यर्थः । एकस्मिन्नपि कल्पे कर्तृभेदं साधयति ॥ तथा महीति ॥ प्रासादप्राकारारामपरिखादिष्वनेककर्तृतादर्शनाद्दृष्टान्तः ।
एवं नानाकर्त्रादिसिद्धावप्यन्यस्य कृत्स्नकर्तृत्वाप्राप्त्याऽतिव्याप्तिप्रकारस्यास्फुट-त्वादाह ॥ एवं चेति ॥ पक्षभेदेनातिव्याप्तिमुक्त्वा केवलातिव्याप्तिलाभप्रकारमाह ॥ यद्वेति ॥ आदिपदात्पालनादिशक्तिः । फलोपधानस्यानेकेष्वसम्भवाच्छक्तिः पक्षीकृता । स्वमात्रवृत्तिर्यो धर्मस्तादृशशक्तित्वमेव तेन समानजातीया शक्तिः सैव तदाश्रयो विष्णुस् तद्भिन्नमाश्रितेत्यर्थः । यद्वा तादृशधर्मेण समानजातीया पुरुषान्तरनिष्ठा शक्तिः । तदाश्रयशिवादिभिन्नविष्ण्वाश्रितेत्यर्थः । सर्वजगन्निर्मातृत्वं विष्णोरितरत्रापि वर्तत इति फलितार्थः ।
शक्त्याश्रयेत्याद्युक्तौ तादृशकुलालभिन्नविष्ण्वाश्रितत्वस्य सिद्धत्वाद्विशेषणम् । स्वसमानेत्याद्युक्तावपि शक्तित्वेन साजात्यमादाय प्रागुक्तदोषः । अतः स्वमात्रेति ॥ घटेति ॥ घटत्वावच्छिन्नघटनिर्मातॄणामनेकत्वादिति भावः । विशिष्याह ॥ जगत्कर्तृत्व-मिति ॥ सर्वजगज्जननसामर्थ्यमित्यर्थः । एवं सत्यतिव्याप्तिप्रकारमाह ॥ इत्यादीति ॥ सर्वजगत्पालनसामर्थ्यरूपं पालकत्वं विष्ण्वितरवृत्तिपालकत्वव्याप्यत्वाद् गोपालकत्वादि-वदित्यादिरादिपदार्थः । विष्ण्वितरे सर्वजगत्कर्तारस् तत्सिद्धावित्यर्थः । शिवाद्यन्यत्वे शिवहिरण्यगर्भाद्यन्यत्व इत्यर्थः । शिवादन्यत्वे गौरवादिति शैवा हिरण्यगर्भादन्यत्वे गौरवादिति हैरण्यगर्भा इत्येवं तत्तद्वादिरीत्येति बोध्यम् । शिवादन्यत्व इति पाठे उपलक्षणं बोध्यम् । तेन रुद्रादीनामिति नोपक्रमविरोधः ॥ अतिव्याप्तिरिति ॥ सर्वजगन्निर्माणेत्या-द्युक्तानुमानैरितरकर्तृत्वमात्रसिद्धावपि यतो वेत्यादिश्रुतिप्राप्तविष्णुकर्तृत्वस्य निवारणे तेषामशक्तत्वादपवादशङ्कान्तराभावाच्च जगज्जननादिसामर्थ्यस्य प्राग्लक्षणत्वेनोक्ततयाऽ-नेकेषां कृत्स्नजगज्जननादिफलोपधानविरोधेऽपि तत्सामर्थ्यस्य सार्वकालिकस्याप्यविरोधा-त्कृत्स्नजगज्जननादिसामर्थ्यस्य श्रुत्यादिभिर्विष्णाविवोक्तानुमानैर्हिरण्यगर्भादावपि प्राप्त्या लक्ष्यालक्ष्यवृत्तित्वेनातिव्याप्तिरित्यर्थः ।
चन्द्रिकाबिन्दु
आगमानपेक्षम् अनुमानप्रकारं दर्शयति ॥ यद्वा महाकल्पत्वमिति ॥ कल्पत्वव्याप्यधर्मेणेति ॥ कल्पत्वव्याप्यो धर्मः महाकल्पत्वमवान्तरकल्पत्वं चेति । कल्पो द्विविधः । महाकल्पोऽवान्तरकल्पश्चेति वचनात् । एवं च प्रकृते कल्पत्वव्याप्यं महाकल्पत्वमवान्तरकल्पत्वं च । तेन धर्मेण कल्पत्वव्याप्यधर्मेण । स्वेति प्रकृतं महाकल्पत्वमुच्यते । तथा च महाकल्पत्वाख्यः समानजातीयो महाकल्पान्तरतद्वृत्त्यादि-कार्यकर्ता यस् तद्भिन्नकर्तृकं घटादिकार्यं तद्वान् योऽयं महाकल्पस् तद्वृत्तीत्यर्थः । एवमिति ॥ अनेन पूर्वानुमानसाध्यं प्रदर्शितम् । अन्यथैतद्वाक्यवैयर्थ्यात् । पालकेति ॥ कर्तृपदस्थाने पालकपदमनुसन्धेयम् । सर्वजगदिति ॥ सर्वपदेन कार्यं तद्गतसृष्ट्यादिकं चोच्यते । स्वमात्रवृत्तिधर्मेणेति ॥ सर्वजगन्निर्माणशक्तित्वेनेत्यर्थः ।
पाण्डुरङ्गि
एवं स्मृत्यनुमानाभ्यां पूर्वपक्षमुक्त्वाऽनुमानमात्रेणापि पूर्वपक्षमाह ॥ यद्वेति ॥ ननु सर्वज्ञत्वहेतुरसिद्धः । न च पाशुपताद्यागमेनैव तत्सिद्धिरिति वाच्यम् । सिद्धान्तिना तस्य प्रामाण्यानङ्गीकारात् । अन्यथा शिवत्वस्य सिद्धत्वात्तन्निषेधानुपपत्ति-रित्यनुशयाद्वाऽऽह ॥ यद्वेति ॥ महाकल्पत्वमिति ॥ कल्पत्वव्याप्यो यो धर्मः महाकल्पत्वरूपः यत्र महाकल्पत्वं तत्र कल्पत्वमिति नियमात् तेन स्वाश्रयसमानजातीयः स्वस्य महाकल्पत्वस्य योऽयमाश्रयः महाकल्पस् तत्समानजातीयं यन्महाकल्पान्तरं तद्वृत्ति यदादिकार्यं तस्य यःकर्ता तद्भिन्नः कर्ता यस्य एवं भूतं यदादिकार्यं तद्वान्महाकल्पस् तद्वृत्तिभवितुमर्हतीत्यर्थः ।
अत्र चाद्यविशेषणाभावे अवान्तरकल्पसमानजातीयावान्तरकल्पवृत्त्यादिकार्याणां भिन्नकर्तृकत्वस्य सिद्धान्तेऽपि स्वीकारात्सिद्धसाधनं स्यात् । तदर्थमाद्यं विशेषणम् । अत्राद्यविशेषणाभावे महाकल्पत्वाश्रयीभूतमहाकल्पेन सह कल्पत्वरूपधर्मेण समानजातीयो योऽवान्तरकल्पस् तद्वृत्त्यादिकार्यकर्तृस्वायम्भुवमनुभिन्नकर्तृकादिकार्यवन्महाकल्पवृत्तित्वेन साध्योपपत्त्या महाकल्पावान्तरकल्पयोः कर्तृभेदस्य च सिद्धान्तिनाऽङ्गीकृतत्वेन महाकल्पभेदेनैव कर्तृभेदस्य चासिद्धेरर्थान्तरता वा स्यात् । तत्परिहारार्थमाद्यं विशेषणम् ।
तथा च कल्पत्वेन महाकल्पावान्तरकल्पयोः समानजातीयत्वेऽपि कल्पत्वव्याप्यधर्मेण समानजातीयत्वस्य विवक्षितत्वात् कल्पत्वस्य कल्पत्वव्याप्यत्वाभावाद्व्याप्यव्यापकभावस्य भेदसापेक्षत्वात्कल्पत्वव्याप्यधर्मो महाकल्पत्वमवान्तरकल्पत्वं च तत्र पक्षे कल्पत्वव्याप्येन महाकल्परूपधर्मेण महाकल्पत्वाश्रयीभूतमहाकल्पसमानजातीयमहाकल्पभेदेन कर्तृभेद-सिद्धिः । दृष्टान्ते च कल्पत्वव्याप्यावान्तरकल्पत्वरूपधर्मेण समानजातीयावान्तरवैवस्वत-मनुकल्पवृत्त्यादिकार्य कर्तृभिन्नस्वायम्भुवमनुकर्तृकादिकार्यवत्स्वायम्भुवकल्पवृत्तित्वेन साध्यपर्यवसानं द्रष्टव्यम् ॥ एवमिति ॥ कर्तृपदस्थाने पालकसंहर्तृपदप्रक्षेपेणेत्यर्थः । ततश्चैवं प्रयोगः महाकल्पत्वं कल्पत्वव्याप्यधर्मेण स्वाश्रयसमानजातीयकल्पवृत्त्यादिकार्य-पालकभिन्नपालकादिकार्यवद्वृत्ति कल्पत्वव्याप्यधर्मत्वाद् अवान्तरकल्पत्ववदिति । एवं चानुमानेन महाकल्पभेदेन पालकभेदसिद्धिरिति भावः ।