१० स्वरूपतटस्थलक्षणभेदपरीक्षा

यच्चोक्तं परैर्जन्मादिकारणत्वं तटस्थलक्षणं..


तात्पर्यचन्द्रिका

यच्चोक्तं परैर्जन्मादिकारणत्वं तटस्थलक्षणम् आनन्दादिरेव स्वरूपलक्षणमिति । तत्र न तावल्लक्ष्यगतागते स्वरूपतटस्थलक्षणे इति युक्तम् । काकादेर्गृहे, कारणत्वस्य च ब्रह्मणि, अध्यासतटस्थलक्षणस्य कारणत्रितयजन्यत्वस्य चाध्यासे सत्त्वेन स्वरूपलक्षणत्वापातात् । आनन्दादेः स्वरूपलक्षणत्वाभावप्रसङ्गाच्च । एतेन सत्यासत्ये स्वरूपतटस्थलक्षणे इति निरस्तम् । काकादेरध्यासतटस्थलक्षणस्य च गृहादावकल्पितत्वात् । ननु कारणतापि विशिष्टे न तु शुद्ध इति चेन्न । शुद्धेऽसतोऽ-सम्भवादिप्रसङ्गेन तल्लक्षणत्वायोगात् । न च लक्षणत्वस्यैवाभावे तद्विशेषतटस्थ-लक्षणत्वं युक्तम् । शाखाग्रस्थूलतारादिकं तु न चन्द्रारुन्धत्यादिलक्षणत्वेनोच्यते किन्तु चन्द्रादिव्यक्तिं प्रदर्श्य ‘स चन्द्रः’ इत्यादिकं वक्तुम् ।

प्रकाशिका

‘‘जन्माद्यस्येति तेनैतद्विष्णोरेव स्वलक्षणम्’’ इत्यनुव्याख्यानोक्तं स्वरूपलक्षणत्वं समर्थयितुमद्वैत्युक्ततटस्थत्वमनूद्य निराह ॥ यच्चेति ॥ यथा चन्द्रस्य शाखाग्रं तटस्थलक्षणं प्रकृष्टप्रकाशत्वं स्वरूपलक्षणं तद्वदिति भावः । अत्र यद्यपि तटस्थलक्षणमेवानुवदनीयं न स्वरूपलक्षणम् । तस्यानुमतत्वादविरोधित्वेनादूष्यत्वाच्च तथापि तटस्थलक्षणं तत्रातिव्याप्तमिति वक्तुं वा तल्लक्षणमत्रास्तीति तद्वदिदमपि स्वरूप-लक्षणमिति वक्तुं वा विभाग एवायमयुक्त इति वक्तुं वेति ध्येयम् ।

के ते स्वरूपतटस्थलक्षणे, लक्ष्यगतागते वा, सत्यासत्ये वा, यावत्स्वबोध्य-व्यावृत्तिभाव्यभाविनी वा, यावल्लक्ष्यभाव्यभाविनी वा लक्ष्यान्तर्गतानन्तर्गते वा, निरुपाधिकसोपाधिकरूपे वा, स्वतो व्यावर्तकव्यावर्तकान्तरोपस्थापकरूपे वा, विशेषणोपलक्षणरूपे वेत्यष्टधा विकल्प्याद्यं निराह ॥ तत्रेति ॥ षष्ठ्यन्तानां सत्त्वे-नेत्यनेनान्वयः ॥ कारणेति ॥ दोषसंस्कारेन्द्रियसम्प्रयोगरूपकारणत्रितयेत्यर्थः ॥ आनन्दादेरिति ॥ तस्य ब्रह्मैक्येन तदनिष्ठत्वादिति भावः । एतेन तटस्थलक्षणलक्षणस्य लक्ष्यागतत्वस्य स्वरूपलक्षणे आनन्दादावतिव्याप्तिः । कारणत्वादावसम्भवश्चोक्त इति ध्येयम् । द्वितीयं निराह ॥ एतेनेति ॥ लक्ष्ये अनध्यस्ताध्यस्तरूपे इत्यर्थः ॥ काकादेरिति ॥ तत्र तटस्थलक्षणमव्याप्तमित्युक्तं भवति । यदुक्तं ब्रह्मणि कारणत्वस्य सत्त्वेनेत्यादि तन्न । मायावच्छिन्नं ब्रह्म कारणमिति पक्षे कारणत्वस्य मायाविशिष्टगतत्वेन शुद्धगतत्वाभावादित्याशङ्क्य निरस्यति ॥ नन्विति ॥ आदिपदेनातिव्याप्तिः । शुद्धस्यैव जिज्ञास्यब्रह्मतया लक्ष्यत्वेनालक्ष्ये विशिष्टे गतत्वात् । उपलक्षणमेतत् । मायाब्रह्मणी सूत्रद्वयमिव रज्जौ कारणमिति पक्षे कारणत्वस्य ब्रह्मणि सत्त्वेन स्वरूपलक्षणत्वापत्तिः । मायायामतिव्याप्तिः । मायैव तु कारणं ब्रह्म त्वधिष्ठानमिति पक्षेऽसम्भवोऽतिव्याप्तिश्चेत्यपि बोध्यम् । स्वरूपलक्षणस्यैव लक्ष्यस्थत्वनियमो न तटस्थस्येत्यत आह ॥ न चेति ॥ असम्भवादिना लक्षणत्वस्यैवाभाव इत्यर्थः । कथं तर्हि लक्ष्यानिष्ठमपि शाखादिकं चन्द्रादितटस्थलक्षणमित्यत आह ॥ शाखेति ॥

चन्द्रिकाबिन्दु

लक्ष्येति ॥ लक्ष्यगतं स्वरूपलक्षणम् । लक्ष्यागतं तटस्थमित्यर्थः । कारणत्रितयेति ॥ अधिष्ठानेन्द्रियसंयोगः, दोषः, संस्कारश्चेति कारणत्रितयम् । सत्येति ॥ सत्यं तत्राकल्पितमसत्यं तत्र कल्पितम् । स्वरूपलक्षणस्य लक्ष्यगतत्वस्य तटस्थलक्षणे जगत्कारणत्वेऽतिव्याप्तिपरिहारमाशङ्कते । नन्विति ॥ असम्भवादीति ॥ आदिपदेनेतर-भेदानुमाने स्वरूपासिद्धिर्ग्राह्या । किन्त्विति ॥ शाखाग्रसमकक्ष्यतया प्रत्यक्षादिना प्रमाणेन चन्द्रव्यक्तिं प्रदर्श्य अनन्तरं ‘स चन्द्रः’ इति चन्द्रत्वं विधीयते । एवं च प्रत्यक्षादिप्रमाणेन चन्द्रव्यक्तिज्ञापने शाखाग्रमुपायः न तु चन्द्रलक्षणं शाखाग्रमिति भावः ।

पाण्डुरङ्गि

जन्मादिकारणत्वस्य स्वरूपलक्षणत्वं व्यवस्थापयितुं परोक्ततटस्थ-लक्षणत्वं दूषयितुमनुवदति ॥ यच्चोक्तमिति ॥ आनन्दादेरिति ॥ स्वरूपत्वेन लक्ष्यान्तर्गतत्वादित्यर्थः । सत्यासत्ये इत्यत्र सत्यशब्देनाकल्पितत्वमसत्यशब्देन कल्पितत्वं वक्तव्यम् । किं यत्र क्वचित्कल्पितत्वं तटस्थत्वमुत लक्ष्ये कल्पितत्वं वा । नाद्यः । आनन्दादेरनात्मनि कल्पितत्वेन तटस्थत्वापत्त्या स्वरूपत्वं न स्यात् । न द्वितीयः । लक्ष्यगतत्वस्य स्वरूपलक्षणत्वे कारणत्वस्य ब्रह्मणि सत्त्वेन तस्यापि स्वरूपलक्षणत्वं स्यादित्युक्तामतिव्याप्तिं परिहर्तुमाशङ्कते ॥ नन्विति ॥ असम्भवादीत्यत्रादिपदेनाति-व्याप्तिर्ग्राह्या । कारणता विशिष्टे वर्तत इत्युक्तत्वादिति भावः । कारणत्वात्तत्स्वरूप-लक्षणत्वमङ्गीकृत्य शुद्धेऽसत्वात्तटस्थत्वमित्यभिप्रायः किं वा तदनङ्गीकृत्य शुद्धे तदभावमात्राभिप्रायः । नाद्यद्वितीयावित्याह ॥ असम्भवादिप्रसङ्गेनेति ॥ आदिशब्देनेतर-भेदसाधने स्वरूपासिद्धिपरामर्श इत्यप्याहुः । आद्ये आदिपदोक्तातिव्याप्तिर्द्वितीयेऽसम्भव इति विवेकः । ननु लक्ष्येऽसत्त्वेनासम्भवादिप्रसङ्गेन तस्य स्वरूपलक्षणत्वाभावेऽपि तटस्थलक्षणत्वं किं न स्यादित्यत आह ॥ न चेति ॥ ननु लक्ष्यानन्तर्गतस्यापि कारणत्वस्य तल्लक्षणत्वं स्यादेव चन्द्रारुन्धत्याद्यगतस्यापि शाखाग्रस्थूलतारकादे-श्चन्द्रारुन्धत्यादिलक्षणत्वदर्शनादित्यतो दृष्टान्त एव विषम इत्याह ॥ शाखाग्रेति ॥


प्रकृते तु न तथा

तात्पर्यचन्द्रिका

प्रकृते तु न तथा । शब्दैकगम्यशुद्धरूपस्य मानान्तरायोग्यत्वात् । न च ‘‘यतो वै’’ इत्यादि वाक्यमेवाभिधया कारणत्वमुपस्थाप्य पुनस्तन्मुखेन लक्षणया कारणत्वरहितमानन्दैकरसं शुद्धं बोधयतीति युक्तम् । सकृत्प्रयुक्ते वृत्तिद्वयायोगात् । केवललक्षणयैव शुद्धबोधनसम्भवेनाभिधया कारणत्वोपस्थापनवैयर्थ्याच्च ।

प्रकाशिका

नन्विहापि तद् ब्रह्मेति वक्तुं यतो वेत्यनेन कारणत्वमुच्यते न तु लक्षणत्वेनेत्यत आह ॥ प्रकृते त्विति ॥ ‘‘किं लक्षणं पुनस्तद् ब्रह्मेत्यत आहे’’ति त्वदीयभाष्ये लक्षणत्वोक्तिविरोधात् त्वदभिमते ब्रह्मणि ब्रह्मपदशक्तेरभावेन तद्बोधाय तदुक्त्ययोगाच्चेति भावः । किञ्च तस्य शुद्धस्य बोधनमपि चन्द्रादेरिव प्रत्यक्षेणाथशब्देन । आद्ये दोषमाह ॥ शब्दैकेति ॥ उपलक्षणमेतत् । प्रत्यक्षेण तद्बोधने शाखादेरिव प्रत्यक्षस्यैव कस्यचिज्ज्ञापकस्य वाच्यत्वेन तादृशकारणत्वोक्त्ययोगादित्यपि बोध्यम् । द्वितीयेऽपि यतो वेत्यादिना शब्देन शुद्धब्रह्मबोधं कृत्वा तद्ब्रह्मेति वक्तुं कारणत्वमत्रोच्यते अथ वाक्यान्तरेण । आद्येऽपि यतो वेत्यादिना सर्वेण शब्दसमुदायेन तद्बोध उत यत इत्यनेनैवेति विकल्पान्हृदि कृत्वाऽऽद्यमनूद्य निराह ॥ न चेति ॥ अभिधयेति ॥ यत इत्यादिपदगताभिधयेत्यर्थः । तस्यापि लक्ष्यत्वे मुख्यस्यान्यस्याभावेन मुख्यार्थसम्बन्धा-भावाद्वचनवृत्त्या कारणत्वप्रतीतेश्चेति भावः ।

तन्मुखेनेति ॥ शाखामुखेन चन्द्रबोधनवदिति भावः ॥ लक्षणयेति ॥ मुख्य-वृत्त्यैवंविधस्याप्रतीतेरिति भावः । वृत्तिद्वयेत्युपलक्षणम् । लक्षणायाः पदवृत्तित्वेन वाक्यस्य लक्षकत्वायोगात् । ‘‘अर्धमन्तर्वेदी’’त्यादौ वाक्ये लक्षकत्वस्याखण्डार्थत्वभङ्गे निरासात् । विरम्य व्यापारायोगाच्चेत्यपि ध्येयम् । ननु यथा गङ्गायां घोष इत्यत्र गङ्गापदं शक्त्या प्रवाहमुपस्थाप्य तीरमुपस्थापयति, यथा वा वायुक्षेपिष्ठाद्यर्थवादः स्वार्थं शक्त्योपस्थाप्य प्राशस्त्यं लक्षयति तद्वदत्रापीति चेद्भ्रान्तोऽसि । न हि तत्र शब्द एव वृत्तिद्वयेन द्वयमप्यु-पस्थापयति किन्तु लक्षणया तीरादिकमेव । प्रत्येता तु शब्दतात्पर्यमजानन्पूर्वं प्रवाहादि-प्रतीत्या तत्रानुपपत्तिं मन्वानस्तीरादि प्रत्येतीत्येव । न चैवं प्रकृते । जन्मादिसूत्रे कारण-त्वस्य श्रुत्यर्थत्वेनैव कीर्तनादिति भावः ॥ केवलेति ॥ न च मुख्यार्थसम्बन्धार्थं तदुक्तिः । शुद्धस्यासङ्गत्वेन तीरे पूरसम्बन्धस्येव शुद्धे कारणत्वसम्बन्धाभावेन तदनपेक्षणादिति भावः।

चन्द्रिकाबिन्दु

प्रकृते त्विति ॥ केनचित्प्रमाणेन ब्रह्मज्ञापने जगत्कारणत्वमुपायो न भवति । ब्रह्मज्ञापनसमर्थप्रमाणासम्भवादिति भावः । ब्रह्मज्ञापनप्रमाणे सति हि जगत्कारणत्वेन ज्ञाने जनयितव्ये शाखाग्रवदुपायस्य तत्प्रमाणं च प्रत्यक्षानुमाने वा आगमो वा । आगमोऽपि यतो वेति वाक्यं वा सत्यज्ञानादिवाक्यं वा । यतो वेत्यादि-वाक्यपक्षेऽपि समग्रं तद्वाक्यं वा यत इति पदमात्रं वेति विकल्पान् दूषयति । शब्दैकगम्येत्यादिना ।

पाण्डुरङ्गि

ननु जगत्कारणत्वमपि न ब्रह्मलक्षणत्वेनोच्यते । ब्रह्मव्यक्तिं प्रदर्श्य तद्ब्रह्मेत्यादि वक्तुमेवेति नोक्तदोष इत्यत आह ॥ प्रकृते त्विति ॥ तत्र चन्द्रज्ञानं प्रति कारणीभूतप्रत्यक्षादेरिव प्रकृते ब्रह्मज्ञानं प्रति कारणाभावादित्यर्थः । ननु प्रकृतेऽपि प्रत्यक्षमनुमानं वा ब्रह्मज्ञानसाधनं भवत्वित्यत आह ॥ शब्दैकगम्येति ॥ अन्यथा औपनिषदः पुरुष इति श्रुतिविरोधः स्यादिति भावः । यत्स्वरूपोपस्थापकं तत्तटस्थम् । कारणत्वादेश्च तादृशत्वात्स्वरूपलक्षणत्वं भविष्यतीत्याशङ्क्य निराकरोति ॥ न चेति ॥