०७ यादवप्रकाशमतपरीक्षा

तन्न पूर्वपक्षानौचित्यस्योक्तत्वात्

यादवप्रकाशमतपरीक्षा

तात्पर्यचन्द्रिका

तन्न । पूर्वपक्षानौचित्यस्योक्तत्वात् । किञ्च जन्मादय इत्यत्र जन्मादिशब्देन कार्यावस्थागतोत्पत्त्यादिविवक्षायां तद्भेदेन तदनाश्रयब्रह्मभेदाशङ्का, सूत्रे यत इति पदं चायुक्तम् । न हि यतश्चैत्रजन्म स मैत्र इत्युक्ते चैत्रनिष्ठजन्म मैत्रलक्षणं भवति । किं तु मैत्रगतं कारणत्वम् । कारणगतानां ‘‘यतो येने’’ति श्रौतपञ्चम्याद्युक्तानां जन्मादिकारणत्वानां विवक्षायामपि त्वन्मते सृष्ट्यादिकारणत्वानामेकस्मिन्नेवोपादाने दर्शनान्न भेदाशङ्का युक्ता । सिद्धान्ते कालभेदेनाविरोधोक्तिश्चायुक्ता । लयादिकाले ‘‘सर्गाद्या भावशक्तयः’’ इत्यादिस्मृतिसिद्धायाः सामर्थ्यरूपायाः सृष्ट्यादि-कारणतायाः सत्त्वात् । यादवप्रकाशीये तु ‘‘तद्विजिज्ञासस्व’’ इति वाक्ये साङ्ख्याभिमतप्रधानस्यापि ब्रह्मशब्दार्थत्वाज्जिज्ञास्यत्वमिति शङ्कानिरासाय जन्मादिसूत्रमित्युक्तम् । तत्र न तावत्प्रधानस्यैव जिज्ञास्यत्वशङ्कानिरासकं सूत्रम् । जीवस्यापि ब्रह्मशब्दार्थत्वेन जिज्ञास्यत्वशङ्कायाः कारणत्वाभावेन तन्निरासस्य च सम्भवात् । जीवप्रधानादीनां जिज्ञास्यत्वशङ्कानिरासार्थत्वं तु सूत्रस्यास्माकमिष्टम् ।

प्रकाशिका

उक्तत्वादिति ॥ ‘‘जिज्ञास्यस्येतरव्यावृत्त्यर्थं लक्षणसूत्र’’ इत्यादि-नोक्तत्वादित्यर्थः । प्रकारान्तरेण पूर्वपक्षं निराह ॥ किञ्चेति ॥ कार्यगतोत्पत्त्यादिकं ब्रह्मलक्षणमुत तत्कारणत्वं ब्रह्मगतमेव तल्लक्षणमिति विकल्प्याद्य आह ॥ कार्येति ॥ आशङ्केति ॥ अयुक्तेति योज्यम् । यत इति पदायोगमुपपादयति ॥ न हीति ॥ द्वितीय-मनूद्य निराह ॥ कारणेति ॥ ब्रह्मगतानामित्यर्थः । यदपि सिद्धान्ते कालभेदेन जन्मादी-नामविरोधापादनं तदपि तदीयभाष्योदाहृतस्मृतिविरोधादयुक्तमित्याह ॥ सिद्धान्त इति ॥

‘‘शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः ।

यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः’’।

इति स्मृतिसिद्धाया इत्यर्थः । अचिन्त्यज्ञानगोचरा अतर्क्यप्रमितिसिद्धाः । सर्गाद्याः सर्गादिगोचराः । भावशक्तयः वस्तुशक्तयः । ब्रह्मणो वस्तुशक्तय इति निर्देशो ब्रह्मतादात्म्यमितिवत् । यद्वा ब्रह्मणो भावशक्तयो वस्तुशक्तयः ब्रह्मणो वस्तुत्वप्रयुक्ता निरुपाधिकाः शक्तय इत्यर्थः । यद्वा भावशब्दः स्वभावपरः । स्वाभाविक्यः शक्तय इत्यर्थः । इति श्रुतप्रकाशे व्याख्यातत्वेन स्वाभाविक्याः सर्वदा सत्त्वादिति भावः । एतेन यत्कश्चिदाह ‘‘यतो वै’’ इत्यादिवाक्योक्तं जन्मादिकं ब्रह्मलक्षणं भवितुमर्हति न वेति संशये तस्य जगन्निष्ठत्वेन ब्रह्मासम्बद्धत्वात् ‘‘सदेव सोम्य आनन्दाद्ध्येव विज्ञानाद्ध्येव’’ इत्यादिवाक्यान्तरेषु सदानन्दादेरपि जन्मादिहेतुत्वोक्त्या इदमित्थमिति शृृङ्गग्राहिकया लक्ष्यनिर्धारणाशक्तत्वाच्च न लक्षणं भवितुमर्हतीति प्राप्ते तदसम्बद्धस्यापि चन्द्रस्य शाखाग्रवत्ताटस्थ्येन जन्मादिकं लक्षणं भवितुमर्हति । सदादिशब्दानां च कथञ्चिद् ब्रह्मशब्दिते शिव एव पर्यवसानादित्यादिसिद्धान्त इति तन्निरस्तम् । पूर्वसूत्रे ‘‘परीक्ष्य लोकान्’’ इत्यादिवाक्यमुदाहरतस्तवेहान्योदाहरणस्यानुचितत्वेन यज्ज्ञानार्थं गुरूपसत्ति-स्तद्ब्रह्मेत्येव लक्षणसूत्रत्वौचित्यात् । अत्रेव पूर्वत्रापि ब्रह्मजिज्ञासापदघटितसूत्रानुगुण्येन तद्घटितस्यास्यैवोदाहरणत्वे तत्रैव श्रुतं जन्मादिकं लक्षणं न वेति चिन्तायाः सङ्गतत्वाच्च । सूत्रे यत इति कारणत्वस्याप्युक्त्या जन्मादिमात्रे चिन्ताया अयुक्तत्वाच्च ।

किञ्च सूत्रे लक्षणत्वोपपादकन्यायस्यानुक्त्या लक्षणीभूतजन्मादिकारणत्वमात्र-स्यैवोक्त्या एवंविधपूर्वपक्षस्य सूत्रानानुगुण्याच्च । अस्मद्रीत्या ब्रह्मणि तदसिद्धिपूर्वपक्षस्यैव सूत्रानुगुण्याच्च । लक्ष्यासम्बद्धस्य मुख्यलक्षणत्वाभावेन सूत्रस्य गौणार्थत्वापाताच्च । ताटस्थ्यस्याग्रे निरसिष्यमाणत्वाच्चेत्याद्यूह्यम् । यदपि सकलकारणवाक्यस्थसदानन्दादि-शब्दानां शिव एव पर्यवसानमिति वल्गनं तद्भाष्याद्युदाहृतानेकमानविरुद्धत्वात् ‘‘पत्यु-रसामञ्जस्यात्’’ इति सूत्रकृता निरसिष्यमाणत्वेनाज्ञत्वपारतन्त्र्याद्यनेकन्यायविरुद्धत्वा-च्चापेशलम् । विस्तरस्तु गुरुपादकृतपरतत्वप्रकाशिकादौ ध्येय इति ।

प्रधानस्यैव जिज्ञास्यत्वशङ्कानिरासकमुत जीवस्यापीति विकल्प्याद्यं निराह ॥ तत्रेति ॥ कुत इत्यतः पूर्वोत्तरपक्षन्यायस्य जीवेऽपि साम्यादित्याह ॥ जीवस्यापीति ॥ द्वितीयमभ्युपगच्छति ॥ जीवेति ॥ सूत्रस्येति ॥ ‘‘य आत्मा’’ इति जिज्ञास्ये जीवा-साधारणात्मपदाज्जात्यादेरिव न प्रधानस्यापि सन्देहनिविष्टत्वमिति हृदयम् । यद्वा न्याय-विवरणटीकायां ‘‘यद्वा जीव एवेति जात्यादेरप्युपलक्षणम् । एवशब्दस्तु भगवन्तं व्यावर्तयति’’ इत्यादिना जीवजात्यादेरपि व्यावर्त्यतया पूर्वपक्षस्याप्युक्त्या तदनुरोधेन पक्षान्तरमभिप्रेत्यैवमुक्तिरिति ध्येयम् ।

चन्द्रिकाबिन्दु

पूर्वपक्षानौचित्यस्येति ॥ ‘‘जिज्ञास्यस्येतरव्यावृत्त्यर्थं लक्षणसूत्र’’ इत्यादिनेति शेषः । तद्भेदेनेति ॥ कार्यप्रपञ्चगतोत्पत्त्यादिभेदेन तदनाश्रयब्रह्मभेदशङ्का न युक्ता । व्यधिकरणत्वात् । यत इति पदं चेति ॥ तस्य ब्रह्मगतकारणत्वसमर्पकत्वादिति भावः । जीवप्रधानसाधारण्येन जिज्ञास्यत्वशङ्कानिरासकत्वमस्माकमिष्टमित्याह ॥ जीवेति ॥

पाण्डुरङ्गि

पूर्वपक्षेति ॥ जिज्ञास्यस्येतरव्यावृत्त्यर्थं लक्षणसूत्रेऽस्मद्रीत्याऽव्यावृत्त्यैव पूर्वपक्षस्योचितत्वेनैतादृशपूर्वपक्षस्यानुचितत्वादित्यर्थः । किञ्च जन्मादय इत्यत्र जन्मादिशब्देन कार्यगतमुत्पत्त्यादिकं लक्षणत्वेनोच्यते उत कारणगतानि जन्मादिकारण-त्वादीनि । नाद्य इत्याह ॥ किञ्चेति ॥ तदनाश्रयेति हेतुगर्भं विशेषणम् । सूत्रे यत इति पदानर्थक्यमुपपादयति ॥ न हीति ॥ लयादिकाल इति ॥ सृष्ट्यादिकारणतायाः शक्तिरूपत्वादिति भावः ।