०६ रामानुजभाष्यपरीक्षा

केचित्तु न तावज्जन्मादयो विशेषणत्वेन लक्षयन्ति

रामानुजभाष्यपरीक्षा

तात्पर्यचन्द्रिका

केचित्तु न तावज्जन्मादयो विशेषणत्वेन लक्षयन्ति । विशेषणस्य स्वाश्रये सर्वविशेषधर्मव्यावर्तकत्वेनैकस्मिन्ननेकविशेषणायोगेनानेकविशेषणाश्रयस्य ब्रह्मणोऽ-नेकत्वप्रसङ्गात् । चैत्रः श्यामो युवा लोहिताक्ष इत्यादौ तु मानान्तरवशादैक्यम् । न चात्रापि ब्रह्मशब्दैक्याद् ब्रह्मैक्यम् । खण्डो मुण्डः पूर्णशृृङ्गो गौरित्युक्ते अज्ञातगोव्यक्तेः पुंसो गोव्यक्तिबहुत्वस्येवात्रापि ब्रह्मव्यक्तिबहुत्वप्रतीतिप्रसङ्गात् । नाप्युपलक्षणतया । उपलक्ष्याकारान्तराप्रतीतेः । तस्माज्जन्मादिवाक्यं न ब्रह्म लक्षयितुं शक्तमिति प्राप्ते । अस्तु तावद्विशेषणत्वम् । न च ब्रह्मणोऽनेकत्वप्रसङ्गः । विशेषणानां स्वविरोधिधर्मव्यावर्तकत्वात् । जन्मादीनां तु कालभेदेनाविरोधात् । उपलक्षणत्वं वास्तु । बृहत्यर्थस्य पूर्णत्वस्योपलक्ष्यत्वादिति सिद्धान्तयन्ति ।

प्रकाशिका

यथाश्रुतं रामानुजभाष्यमेवानुवदति ॥ केचित्त्वित्यादिना ॥ ‘‘यतो वै’’ इत्यादिवाक्याद् ब्रह्म लक्षणतः प्रतिपत्तुं शक्यते न वेति संशयोऽत्र द्रष्टव्यः । जन्मस्थितिप्रलया विशेषणत्वेन लक्षयन्त्युतोपलक्षणत्वेन । नाद्य इत्याह ॥ न तावदिति ॥ विशेषणं हि स्वेतरसर्वधर्मव्यावर्तकम् । उक्तं च द्वितीयस्य तृतीयपादाद्यनये ‘‘विशेषणं व्यवच्छेत्तृविशेष्यव्यापि चोच्यते’’ इति । तथा च जन्मादीनामैकाधिकरण्यायोगेन ब्रह्म-विशेषणान्येतानि ब्रह्मणो नानात्वमापादयेयुरित्यर्थः । ननु चैत्रः श्यामो युवा लोहिताक्षः समानपरिमाण इत्यत्र विशेषणबहुत्वेऽप्येक एव चैत्रः प्रतीयते एवमत्राप्येकमेव ब्रह्म भवतीत्यत आह ॥ चैत्र इति ॥ मानान्तरेति ॥ प्रत्यक्षेणैक्यप्रतीतेरेकस्मिन्नपि तत्रानेक-विशेषणानामुपसंहारः । अन्यथा तत्राप्यनेकत्वमपरिहार्यम् । अत्र त्वेभिरेव लक्षणै-र्लिलक्षयिषितत्वेन ब्रह्मणः प्रमाणान्तरेणैक्यं नावगतमिति व्यावर्तकभेदेन ब्रह्मबहुत्व-मवर्जनीयमिति भावः ॥ खण्ड इति ॥ गोपदैक्येऽपि खण्डत्वादिव्यावर्तकभेदे गोव्यक्ति-बहुत्वप्रतीतिरिवात्रापि जायन्ते जीवन्ति प्रयन्ति इत्यादिव्यावर्तकभेदेन ब्रह्मव्यक्तिबहुत्व-प्रतीतिः स्यादित्यर्थः ।

द्वितीयं निराह ॥ नापीति ॥ उपलक्षणानामेकेनाकारेण प्रतिपन्नस्य केनचिदा-कारान्तरेण प्रतिपत्तिहेतुत्वं दृष्टं यत्रायं कासारः स देवदत्तकेदार इत्यादिषु । तथा च तद्वत्प्रकृते आकारान्तरं न प्रतीतमिति नोपलक्षणत्वमिति भावः ॥ स्वविरोधीति ॥ स्वविरोध्यनेकविशेषणत्वं हि भेदमापादयति । खण्डतादयो हि विरोधादेव गोव्यक्ति-भेदमापादयन्ति । जन्मादीनां कालभेदेनाविरोधादेकविशेषणत्वं युक्तमिति ॥ पूर्ण-त्वस्येति ॥ तथा च यत्पूर्णं तज्जन्मादिकारणमित्युपलक्षणत्वं जन्मादेर्युक्तमिति भावः ।

पाण्डुरङ्गि

जन्मादयः किं विशेषणत्वेन लक्षणमुतोपलक्ष्यत्वेन । नाद्य इत्याह ॥ विशेषणस्येति ॥ नन्वेवं चैत्रः श्यामो युवेत्यादावप्येकस्यानेकविशेषणाश्रयत्वेन भेदः स्यादित्यत आह ॥ चैत्र इति ॥ द्वितीयं दूषयति ॥ नापीति ॥ उपलक्ष्याकारेति ॥ उपलक्ष्यतावच्छेदकधर्माप्रतीतेरित्यर्थः । यद्वा उपलक्षणानामेकेनाकारेण प्रतिपन्नस्य केनचिदाकारान्तरेण प्रतिपत्तिहेतुत्वं हि दृष्टं यत्रायं कासारः स देवदत्तकेदार इत्यादिषु । न च तादृशाकारः प्रतीयत इति भावः । इदं तु तदीयभाष्य एव स्पष्टम् ॥ विशेषणा-नामिति ॥ तथा च विरुद्धविशेषणाश्रयस्यैवानेकत्वम् । प्रकृते तु जन्मादिकं न विरुद्धमिति भावः ।