अत्र परैर्न तावदुपलभ्यमानं जगदेव ब्रह्मलक्षणम्
भामत्युक्ताधिकरणपरीक्षा
तात्पर्यचन्द्रिका
अत्र परैर्न तावदुपलभ्यमानं जगदेव ब्रह्मलक्षणम् । तस्यानित्याशुद्ध-परिच्छिन्नादि रूपस्य तद्विरुद्धब्रह्मलक्षणत्वानुपपत्तेः । नापि नित्यत्वकारणत्वादि-र्ब्रह्मधर्मः । तस्यानुपलब्धेरिति प्राप्ते माभूदनुभूयमानं जगत्तद्धर्मतया तदात्मतया वा लक्षणम् । तदुत्पत्त्यादि तु भविष्यति । देशान्तरप्राप्तिरिव सवितुर्व्रज्याया इति सिद्धान्तितम् । तन्न । जिज्ञास्यस्येतरव्यावृत्त्यर्थं लक्षणसूत्रेऽस्मद्रीत्याऽ-व्यावृत्तिपूर्वपक्षस्यैवोचितत्वात् । अनित्यादिरूपस्य शब्दादेर्नित्यादिरूपाकाशादि-लक्षणत्वदर्शनाच्च । जगत इव कारणत्वस्याप्यनात्मतयाऽऽत्मविरुद्धस्वभावत्वाच्च । जिज्ञास्यत्वेनाद्यसूत्रे प्रकृतस्य निर्विशेषब्रह्मणो भ्रमाधिष्ठानत्वेनाकारणत्वाच्च । अधिष्ठानत्वस्यैव विवक्षायां तु श्रुतिसूत्रयोर्जन्मोक्त्ययोगात् । देशान्तरप्राप्तेः सूर्यगत्यनुमापकत्वेऽपि तल्लक्षणत्वाभावाच्च । न चात्र सूत्रे ‘‘यतो वै’’ इत्यादिश्रुतौ वा उत्पत्त्यादिकमद्वितीये ब्रह्मणि लिङ्गत्वेनोच्यत इति त्वयापि स्वीकृतम् ।
प्रकाशिका
भाष्येऽस्पष्टत्वाद्भामत्युक्तमधिकरणशरीरमनुवदति ॥ अत्र परैरिति ॥ अत्र यतो वा’’ इत्यादिवाक्यं ब्रह्म लक्षयत्युत नेति कल्पतरूक्तः संशयो ध्येयः । दृश्यमानं जगदेव लक्षणं ब्रह्मण उत नित्यत्वादिस्तद्धर्मः । आद्य आह ॥ न तावदिति ॥ तस्य जगतः । द्वितीयमाशङ्क्याह ॥ नापीति ॥ प्रसिद्धं हि लक्षणं भवति नात्यन्ता-प्रसिद्धमिति भावः । न जगद्ब्रह्मलक्षणं किन्तु तत्प्रति कारणत्वमिति लक्षणमुपपादयति ॥ माभूदिति ॥ तदात्मतया ज्ञानानन्दादिवत्तदैक्येन । भेदमुपेत्याह ॥ तद्धर्मतयेति ॥ तदुत्पत्त्यादि त्विति ॥ जगत्तदुत्पन्नत्वेन स्वकारणं ब्रह्म लक्षयति ज्ञापयतीति, कारणत्वं तु भवति लक्षणमिति भावः । व्रज्याया गतेरित्यर्थः । ‘‘व्रजयजोर्भावे क्यप्’’ । सूत्रानानुगुण्येन पूर्वपक्षं तावन्निराह ॥ जिज्ञास्यस्येति ॥
लक्षणं नाम सजातीयविजातीयव्यावर्तकम् । सूत्रे तदुक्तिरितरव्यावृत्त्यर्था । तथा च यथाऽश्वादिविवेकेन गोरज्ञाने तज्ज्ञानाय सास्नादिमत्त्वं लक्षणमुच्यते तथा ब्रह्मणो जीवप्रधानाद्यविवेकेन जीवादावपि ब्रह्मत्वबुद्धौ प्रसक्तायां तद्व्यावृत्त्यर्थं लक्षणमिति तन्निरस्यस्य सूत्रावतारिकारूपस्य पूर्वपक्षस्याव्यावृत्तिरूपस्यैव वाच्यत्वात्सूत्राननुगुणः पूर्वपक्ष इत्यर्थः । तादृशपूर्वपक्षोऽशक्य इत्येतन्निराह ॥ अस्मद्रीत्येति ॥ अयुक्तश्च पूर्वपक्ष इत्याह ॥ अनित्येति ॥ गुणैन्द्रियकादिरूपस्येत्यादिपदार्थः । पृथिवीत्वादेर्नित्यादि-रूपस्यानित्यादिरूपपृथिवीलक्षणत्वदर्शनादित्यादिपदार्थः । तद्वद्विरुद्धधर्मकमपि जगद् ब्रह्मलक्षणं स्यादिति भावः ।
सिद्धान्तोऽप्ययुक्त इत्याह ॥ जगत इति ॥ आत्मविरुद्धेति ॥ अनित्यत्व-परिच्छिन्नत्वरूपत्वादिति भावः । अत्र यद्यपि जगद्गतमुत्पत्त्यादिकं लक्षणं चेत्सूत्रे यत इति पदमयुक्तम् । न हि यतश्चैत्रजन्म स मैत्र इत्युक्ते चैत्रनिष्ठं जन्म मैत्रलक्षणं भवतीति केषाञ्चित्पक्षे वक्ष्यमाणो दोष इहापि तुल्यः । तथापि कल्पतरावुत्पत्त्यादीत्यस्य कारणपरत्वेन व्याख्यानात्प्रकारान्तरेण दूषणमुक्तम् । एवं सिद्धान्ते पूर्वसूत्रासाङ्गत्यं चाह ॥ जिज्ञास्यत्वेनेति ॥ जन्मोक्तीति ॥ न ह्यधिष्ठानादध्यस्तं जायत इत्युच्यत इति भावः । यदत्र कश्चिदाह ‘‘लक्षणस्योद्देशपूर्वकत्वादिह चोद्देशाभावान्न लक्षणसूत्रमिदम्’’ इति । तन्न । ब्रह्मजिज्ञासेति पूर्वसूत्र एव तस्योद्देशात् । न च तत् षष्ठ्यन्तत्वाज्जिज्ञासायां कर्मार्पकतया न लक्षणे उद्देश्यसमर्पकमिति वाच्यम् । ‘‘प्रमाणप्रमेये’’त्यादिगौतमसूत्रे षष्ठ्यन्तनिर्दिष्टानामप्युद्देश्यत्वदर्शनात् । नाममात्रेणेति मात्रपदेन लक्षणस्यैव व्यवच्छेद्य-त्वात् । अत एव ‘‘प्रथमोद्दिष्टस्य प्रमाणस्य लक्षणमाहे’’त्यादितदीयोक्तिः । प्रमाण-लक्षणटीकायामपि ‘‘प्रमाणानामित्युद्देशे सिद्धे प्रमाणसामान्यलक्षणमाह’’ इत्युक्तिः । सूत्रे यत इत्युक्तेस्तद् ब्रह्मेत्यवश्यमनुषञ्जनीयत्वाच्च न कोऽपि दोषः ।
चन्द्रिकाबिन्दु
तस्यानुपलब्धेरिति ॥ नित्यत्वकारणत्वादिब्रह्मधर्माणां ब्रह्मण्यनुप-लब्धेरित्यर्थः । देशान्तरेति ॥ सवितुर्व्रज्यायाः सूर्यगतेः । सूर्यस्य देशान्तरप्राप्तिलक्षणं, भिन्नदेशप्राप्तिदर्शनेन सवितृगतिरनुमीयत इति भावः । जगदपि लिङ्गत्वेनैव ब्रह्मलक्षण-मस्त्वित्यत आह ॥ न चात्रेति ॥
पाण्डुरङ्गि
तस्यानुपलब्धेरिति ॥ कारणवाक्य इति शेषः ॥ अनुभूयमानमिति ॥ जगत्तदात्मतया लक्षणं मा भून्नित्यत्वादिकं तु तद्धर्मतयेत्यन्वयः । तदुत्पत्त्या त्विति ॥ लक्षणमिति शेषः । ननु जगन्निष्ठस्योत्पत्त्यादेः कथं ब्रह्मलक्षणत्वमित्यत आह ॥ देशान्तरप्राप्तिरिवेति ॥ व्रज्याया गतेरित्यर्थः । तथा च व्रज्यानिष्ठाया देशान्तरनिष्ठाया अपि देशान्तरप्राप्तेर्व्रज्यालक्षणत्ववत्प्रकृतेऽपि जगदुत्पत्तेर्ब्रह्मलक्षणत्वोपपत्तिरित्यर्थः । यद्वा तदुत्पत्त्यादीति तदुत्पत्तिकारणत्वं लक्षणमित्यर्थः । देशान्तरप्राप्तिस्तत्कारणत्वम् ।
ननु देशान्तरप्राप्तिकारणत्वस्य सवितर्यपि विद्यमानत्वेनातिव्याप्तत्वात्कथं व्रज्या-लक्षणत्वमिति चेन्न । देशान्तरप्राप्त्यसाधारणत्वस्य विवक्षितत्वेन तस्य च व्रज्यायामेव सत्त्वेनातिव्याप्त्यभावात् । सवितुः समवायिकारणत्वेन साधारणत्वादिति भावः । कारणत्वं ब्रह्मलक्षणं न । ब्रह्मविरुद्धस्वभावत्वाज् जगद्वत् । न च हेतुरसिद्धः । कारणत्वस्या-नात्मत्वेनात्मस्वरूपविरुद्धत्वात् । न चाप्रयोजकता । जगतोऽपि तल्लक्षणत्वापातादित्यभि-प्रायेणाह ॥ जगत इवेति ॥ किञ्च जगत एव लक्षणत्वमस्तु । न च तद्विरुद्धस्वभावस्य कथं तल्लक्षणत्वमिति वाच्यम् । शब्दस्यानित्यत्वेन नित्यभूतगगनविरुद्धस्वभावत्वेऽपि गगनलक्षणत्वदर्शनादित्याह ॥ शब्दादेरिति ॥ किञ्च उत्पत्तिर्जगन्निष्ठा कथं ब्रह्मलक्षणं स्यात् । न च देशान्तरप्राप्तेः सूर्यगत्यनिष्ठाया अपि तल्लक्षणत्ववत्प्रकृतेऽपि ब्रह्मानिष्ठाया अप्युत्पत्त्यादेर्ब्रह्मलक्षणत्वोपपत्तिरिति वाच्यम् । दृष्टान्तस्यैवासम्प्रतिपन्नत्वादित्याह ॥ देशान्तरेति ॥ तदुत्पत्त्यादीत्यत्रोत्पत्त्यादिकमेव लक्षणत्वेनाभिप्रेतं तत्कारणत्वं वेति विकल्प्य पक्षद्वयं दूषयति ॥ जिज्ञास्यस्येति ॥ द्वितीयपक्षे दूषणान्तरमाह ॥ जिज्ञास्य-त्वेनेति ॥ नन्वत्राप्यधिष्ठानत्वमेव विवक्षितं न कारणत्वमित्यत आह ॥ अधिष्ठान-त्वस्यैवेति ॥ श्रुतिसूत्रयोर् जायन्ते जन्मेति पदद्वयेन कारणत्वमेव प्रतीयते नाधिष्ठानत्व-मिति भावः । अस्तु तर्हि कारणत्वस्यानुमापकत्वमेवेत्यत आह ॥ न चात्रेति ॥