०३ सिद्धान्तः

सिद्धान्तस्तु विष्णुरेव जिज्ञास्यं ब्रह्म

सिद्धान्तः

तात्पर्यचन्द्रिका

सिद्धान्तस्तु । विष्णुरेव जिज्ञास्यं ब्रह्म । ‘‘य’’ इत्यादिभाष्योक्तश्रुतिभि-र्विष्ण्वेकनिष्ठस्य कारणत्वस्य जिज्ञास्ये यतो वेत्यादिना श्रवणात् । तस्य च जीवेऽनुपपत्त्या रूढेरपि बाधात् । अदृष्टद्वारा वा कल्पकत्वेन वा जीवकारणत्वे जातादिपदानां मुख्यार्थत्यागापत्तेः । ‘‘अभिसंविशंती’’ति पदोक्तमुक्तप्राप्यत्वस्य च सर्वथाऽनुपपत्तेः। ‘‘यत इति येनेति यदिति तद्ब्रह्मे’’ति च प्रतीतकारणैक्यस्य च बाधकाभावात् । इमानीति सर्वनाम्नश्च सङ्कोचकाभावात् । जीवकर्तृतायाश्च ‘‘इतरव्यपदेशात्’’ इत्यादिसूत्रेषु निराकरिष्यमाणत्वात् । जिज्ञास्ये श्रुतस्य चात्मशब्दस्य ‘‘आत्मा नारायणः पर’’ इत्यादिश्रुत्या द्युभ्वाद्यधिकरणन्यायेन ब्रह्मशब्दवद्विष्णुपरताया एव न्याय्यत्वात् । अन्वेषणविधिवाक्योक्तापहत-पाप्मत्वादीनां च जीवे शुद्धरूपाभिप्रायेण सम्भवशङ्कायामपि सत्यकामत्वादीनां सर्वथानुपपत्तेः । निष्क्रियत्वश्रुतेश्च ‘‘स हि कर्तेति सत्यकर्मेति स इदं सर्वमसृजतेति स इमाल्लोकानसृजतेति नामरूपे व्याकरोत्’’ इत्यादिकर्तृत्वश्रुतिबलात् ‘‘अकर्माऽक्लिष्टकारित्वात्’’ इत्यादिस्मृत्यनुसारेणाक्लिष्टकारित्वादिनोपपत्तेश्च ।

प्रकाशिका

जगत्कारणत्वादिरूपाद्बाधकादेव रूढार्थत्यागेन विष्णुपरत्वं ब्रह्मशब्दस्येतिभावेन सिद्धान्तमाह ॥ सिद्धान्तस्त्विति ॥

भाष्योक्तश्रुतिभिर्विष्णुमात्रगात्कारणत्वतः ।

बाधकाद्रूढिबाधेन विष्णुर्ब्रह्माभिधः श्रुतः ॥

इति सङ्ग्रहः ॥ य इतीति ॥ यद्यपि ‘‘य उ त्रिधातु पृथिवी’’मित्यत्र रक्षकत्वं, ‘‘चतुर्भिस्साक’’मित्यत्र नियामकत्वं श्रुतं न तु कारणत्वं तथापि जनकस्यैव रक्षकत्वादिकमित्युत्सर्ग इति रक्षकत्वाद्युक्त्यैव कारणत्वं लब्धमिति वा ‘‘यो नः पिता जनिते’’त्यादिश्रुतौ ‘‘उत्पत्तिस्थितिसंहारा’’ इत्यादिस्मृतौ च साक्षात्कारणत्वस्योक्ते-र्वैवमुक्तम् । श्रुत्यर्थस्तु टीकायां स्पष्टः । एतेन किं जन्मादिकं लक्षणमुत तत्कारणत्वम् । नाद्यः । तस्य प्रपञ्चधर्मत्वात् । नान्त्यः । तस्याप्रसिद्धत्वादिति निरस्तम् । श्रुत्यादिषु प्रसिद्धस्य कारणत्वस्य लक्षणत्वादिति ।

ननु जीवेऽपि जगत्कारणत्वं युक्तमित्युक्तमत आह ॥ अदृष्टेति ॥ साक्षाज्जन्य एव जातादिपदप्रयोगादिति भावः । यदभि स्वेच्छया सम्यग्विशन्तीत्यनेनोक्तमुक्तप्राप्यत्वस्यानु-पपत्तेरित्यर्थः । कारणत्वादिलिङ्गजातस्य पक्षनिष्ठतामाह ॥ यत इतीति ॥ यद्वा केषाञ्चिन्मते वक्ष्यमाणदिशा विशेषणभेदे विशेष्यभेदमाशङ्क्याह ॥ यत इतीति ॥ यत्त्विमानीत्यनेन जीवकर्तृककार्यजातस्यैव निर्देश इत्युक्तं तन्नेत्याह ॥ इमानीति ॥ कतिपयकर्तृत्वमपि जीवस्य नेत्याह ॥ जीवेति ॥ स्वतन्त्रकर्तृताया इत्यर्थः । तेन ‘‘कर्ता शास्त्रार्थवत्त्वा’’दित्यनेन न विरोधः । युक्तिपादे ‘‘इतरव्यपदेशाद्धिताकरणादिदोष-प्रसक्ति’’रित्यधिकरणगतसूत्रेषु ‘‘एतेन शिष्टा अपरिग्रहा अपि व्याख्याता’’इति तत्पूर्वाधिकरणान्तिमसूत्रे च समयपादे च ‘‘अन्यथानुमितौ च ज्ञशक्तिवियोगा’’दित्यत्र च निराकरिष्यमाणत्वादित्यर्थः । सूत्रणामर्थस्तु भाष्यादौ स्पष्टः । वक्ष्यते चात्रापीति नात्र लिख्यते । उक्तं चानुव्याख्याने

‘‘न हि जन्मादिहेतुत्वं जीवस्य जगतो भवेत् ।

हिताक्रियादिदोषं च वक्ष्यत्येव स्वयं प्रभुः’’ इति ॥

एतेन ‘‘अतो ब्रह्मशब्दस्ये’’त्यादि टीका व्याख्याता । ब्रह्मशब्दस्य विष्णुपरत्वं समर्थ्य प्रागुक्तात्मशब्दस्यापि तदाह ॥ जिज्ञास्य इति ॥ ‘‘आत्मा वा ओ द्रष्टव्यः य आत्मापहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्य’’ इत्याद्यनेकवाक्यस्थस्येत्यर्थः । अत एव जिज्ञास्ये श्रुतस्येति सामान्ये-नोक्तिः । ‘‘नारायणपरो ज्योतिरात्मा नारायणः पर’’ इति तैत्तिरीयश्रुतिः ॥ द्युभ्वादीति ॥ ‘‘द्युभ्वाद्यायतनं स्वशब्दात्’’ इत्यत्रात्मशब्दादिति वक्तव्ये स्वशब्दा-दित्युक्तिस्तु स्वस्य विष्णोश्शब्द इत्यपि विग्रहाश्रयणेन ‘‘तमेवैकं जानथ आत्मानम्’’ इत्यात्मशब्दस्य विष्ण्वेकनिष्ठत्वख्यापनायेति वक्ष्यते । तथा चात्मशब्दाद् द्युभ्वाद्यायतनं विष्णुरित्युक्तन्यायेनेत्यर्थः ।

‘‘जानथ आत्मान’’मिति जिज्ञास्यत्वेन श्रुतात्मनो विष्णुत्वं ‘‘अमृतस्यैष सेतु’’-रित्युत्तरवाक्यस्थमुक्तोपसृप्यत्वलिङ्गाधीनमिति न्यायेनेत्युक्तम् ॥ न्याय्यत्वादिति ॥ एकत्र निर्णीतः शास्त्रार्थोऽन्यत्रापीति न्यायप्राप्तत्वादित्यर्थः । अन्यथा जिज्ञासावाक्यानां नानाधर्मिकजिज्ञासाविधायकत्वप्रसङ्ग इति भावः । य आत्मेति वाक्यगतात्मशब्दस्य जीवपरत्वे बाधकमप्याह ॥ अन्वेषणेति ॥ शङ्कायामपीत्यभ्युपगमवादः । तेषामपि जीवे स्वतोऽभावात् । यद्वक्ष्यति दहरनये ‘‘अशनायादिकानन्ये तत्प्रसादात्तरन्ति ही’’ति । सत्यकामत्वादीनामिति ॥ ‘‘सत्यकामः परो नास्ती’’त्याद्युक्तेरिति भावः । उक्तं च तत्र टीकायां ‘‘अपहतपाप्मत्वादीनां कथञ्चिदन्यत्र वृत्तावपि न कथञ्चिदन्यत्र सत्यकामत्वा-दीत्याशयेनाह । सत्यकाम इती’’ति । एतेन जन्मादिकारणत्वमुपलक्षणं जिज्ञासाविधि-वाक्येषु यत्र यत्र जीवपरत्वे यद्बाधकमस्ति सत्यकामत्वादिकं ‘‘ओमित्येतदक्षरमुद्गीथ-मुपासीत’’ इत्यादावुद्गीथत्वादिकं तत्सर्वं ग्राह्यमिति सूचयता ‘‘सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः । बन्धमोक्षावपि’’ इत्यनुव्याख्यानदिशा सुधायां सृष्ट्यादीनामेव बाधकत्वेनोपपादनमुपलक्षणम् । आत्मशब्देऽपि विष्णुपरत्वमुक्तदिशोपपाद्यमित्युक्तं भवति ।

उक्तं च सुधायां ‘‘न चैकमेव सर्वत्र जिज्ञासाविधायकश्रुतिषु लक्षणं श्रूयते’’ इत्यादि । एवं रूढित्यागे हेतुभूतं परपक्षे बाधकं स्वपक्षे साधकं च समर्थ्य प्रागुक्तबाधक-मुद्धरति ॥ निष्क्रियत्वश्रुतेश्चेति ॥ अक्लिष्टकारित्वादिनोपपत्तेश्चेत्यन्वयः । उक्तं च सुधायां भेदेनैव तु मुख्यार्थसम्भवे, इत्यस्य व्याख्यावसरे ‘‘आगमस्याक्लिष्टकारित्वाद्यर्थतया सावकाशत्वात्’’ इति । लोकेऽनायासेन कर्मकर्तर्यकर्तेति प्रयोगः । वेदेऽपि ‘‘अपशवो वा अन्ये गो अश्वेभ्यः’’ इत्यत्र गवाश्वान्यपशुषु प्राशस्त्याभावेनापशव इति प्रयोगः । उक्तं चाद्ये ‘‘तत्सिद्धिजातिसारूप्यप्रशंसाभूमलिङ्गसमवायात्’’ इति तत्सिद्धिपेटिकायाम् । तथा च निष्क्रियमिति प्रयाससाध्यक्रियानिषेधो न सामान्यक्रियानिषेध इत्यर्थः । वक्ष्यते च द्वितीये ‘‘असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात्’’ इति सूत्रे ‘‘नासदासी’’दिति वाक्ये कारणासत्त्वमुच्यत इत्याशङ्क्य स्वातन्त्र्यादिधर्मान्तरेण निषेधो न स्वरूपेणेति ।

ननु तत्र मानान्तरबाधात् प्राशस्त्यस्वातन्त्र्यादिधर्मान्तरनिषेधो न स्वरूपेण । न चात्र बाधकमस्तीत्यत आह ॥ स हीति ॥ ‘‘अथ वेशान्तान्पुष्करिण्यस्स्रवन्त्यस्सृजते स हि कर्ते’’ति बृहदारण्यकश्रुतिः । ‘‘सत्यकर्मा महात्मे’’ति तदनन्यत्वनयभाष्योक्तश्रुतिः । ‘‘स तपोऽतप्यत स तपस्तप्त्वा इदं सर्वमसृजत’’ इति तैत्तिरीयश्रुतिः । ‘‘स ऐक्षत लोकान्नु सृजा इति स इमाल्लोकानसृजत’’ इत्यैतरेयश्रुतिः । ‘‘नामरूपे व्याकरोत्’’ इति शब्दार्थात्मकप्रपञ्चकर्तृत्वार्थकछान्दोग्यश्रुतिः । आदिशब्दात् ‘‘सविश्वकृत्स हि सर्वस्य कर्ता कर्तारमीशं पुरुषं ब्रह्मयोनिम्’’ इत्यादेर्ग्रहः ।

ननु श्रुतित्वाविशेषे कर्तृत्वश्रुतेरेवान्यार्थता किं न स्यादिति चेन्न । कर्तृत्वश्रुतीनां बहुत्वेन बहुबाधस्यान्याय्यत्वात् । निषेधरूपतया निष्क्रियत्वश्रुतिः प्रबलेति चेत् ‘‘न हिंस्यात्’’ इति निषेधवाक्यादपि यागीयहिंसावाक्यस्य बलवत्त्वदर्शनादिति । विस्तृतं चैतन्न्यायामृते । अत एवाह ॥ बलादिति ॥ किञ्च व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायेन व्याख्यानरूपविशेषवचनाच्चैवमेवेत्याह ॥ अकर्मेति ॥ ‘‘अकर्माक्लिष्टकारित्वा-न्नित्यत्वादज एव च’’ इति दशमतात्पर्योदाहृतब्रह्मतर्कस्मृत्यनुसारेणेत्यर्थः । सर्वेषां पञ्चम्यन्तानां विष्णुरेव जिज्ञास्यं ब्रह्मेति पूर्वसाध्येनान्वयः ।

चन्द्रिकाबिन्दु

सिद्धान्ते टीकामुपन्यासमुखेन व्याख्याति । सिद्धान्तस्त्विति ॥ जातादिपदानामिति ॥ नादृष्टद्वारा जन्ये पुरुषकल्पितशक्त्यादौ वा जातत्वव्यवहारो लोके दृश्यत इति भावः । अभिसंविशन्तीति ॥ अभि स्वेच्छया संविशन्ति मुक्ताविति टीकानुसारेणेदम् । यत इतीति ॥ यतो वा इमानि भूतानि जायन्ते तद्ब्रह्म । येन जातानि जीवन्ति तद्ब्रह्म । यत्प्रयन्ति तद्ब्रह्म । यदभिसंविशन्ति तद्ब्रह्म इति इमानि चत्वारि वाक्यानि तत्रैवेकस्मिन् वाक्ये जननादिकर्तुरेकत्वं प्रतीयते । येन यदित्याद्येकवचन-सामर्थ्याज् जीवानां चादृष्टद्वारा बहूनामेव कारणत्वं वक्तव्यम् । एकस्यैव जगदुत्पादका-दृष्टासम्भवात् । तथा च प्रतीतकारणैक्यविरोध इति भावः । जीवकर्तृतायाश्चेति ॥ चकारो भिन्नक्रमो निराकरिष्यमाणत्वादित्यनेन सम्बध्यते । तथा च जीवे यत्किञ्चि-त्कर्तृत्वमपि नास्तीति भावः । तद्ब्रह्मेति वाक्ये जीवग्रहणे बाधकमुक्तम् । विष्णुपरत्व-व्यवस्थायां सिद्धायाम् इदानीं विष्णुग्रहणे बाधकं परिहरति । निष्क्रियत्वश्रुतेश्चेति ॥

पाण्डुरङ्गि

ब्रह्मशब्दस्य विष्णौ योगमेवाश्रित्य जीवे रूढिमाश्रित्य रूढिबाधक-सद्भावाद्यौगिकार्थपरत्वमेवेत्यभ्युपेत्य परोक्तं जीवे कारणत्वस्य सावकाशत्वेन रूढ्य-बाधकत्वं तस्य विष्ण्वेकनिष्ठत्वसमर्थनेन निराकुर्वन् सिद्धान्तमाह ॥ सिद्धान्तस्त्विति ॥ ब्रह्मशब्दस्य जीवपरत्वे यतो वेत्यादिपूर्ववाक्योक्तकारणत्वानुपपत्तिः । न चेमानीत्यस्य जीवकर्तृककार्यजातपरामर्शकत्वान्नानुपपत्तिरिति वाच्यम् । बाधकाभावेन सङ्कोचासम्भवा-दित्याह ॥ इमानीति ॥ अन्यथा सर्वनामत्वमेव न स्यादिति भावः । एतावता जीवे यत्किञ्चित्कार्यकर्तृत्वमङ्गीकृत्य बाधकाभावेन सङ्कोचानुपपत्त्या यतो वेत्यादि पूर्ववाक्योक्त-कारणत्वं तद्ब्रह्मेति वाक्यस्थब्रह्मशब्दस्य जीवपरत्वे बाधकमित्युक्तम् इदानीं यत्किञ्चि-त्कार्यकर्तृत्वमपि जीवेऽनुपपन्नमित्याह ॥ जीवेति ॥ ‘‘आत्मा द्रष्टव्यः’’ इत्यादौ जिज्ञासाविधिवाक्ये, जीवे प्रसिद्धात्मपदप्रयोगेण ‘‘तद् ब्रह्म’’ इति वाक्यस्थं ब्रह्म जीव एवेति यदुक्तं तत्र दृष्टान्त एवासम्प्रतिपन्न इति भावेनाह ॥ जिज्ञास्य इति ॥ किञ्चान्वेषणवाक्यस्थात्मशब्दो न जीवपरः । तत्रापहतपाप्मत्वादीनामुक्तत्वात् । न च शुद्धाभिप्रायेण ते सम्भवन्तीति वाच्यम् । तथापि सत्यकामत्वादयः सर्वथा नोपपद्यन्त इत्याह ॥ अन्वेषणविधिवाक्येति ॥ कारणत्वं ब्रह्मपक्ष एव बाधकमित्युक्तं परिहरति ॥ निष्क्रयत्वश्रुतेतिरिति ॥


न च यत इत्यादेः..

तात्पर्यचन्द्रिका

न च यत इत्यादेः कारणानुवादेन जिज्ञासाविधायकत्वादनुवादे च यथा प्राप्तितात्पर्यान्मानान्तरेणास्मदादेर्यादृशं कारणत्वं प्राप्तं तत्परमेवेदं वाक्यमिति युक्तम् । अस्यानुवादकत्वेऽपि ‘‘शास्त्रस्था वा तन्निमित्तत्वात्’’ इति न्यायेन भाष्योक्तश्रुतिप्राप्तकारणपरत्वात् ।

प्रकाशिका

कारणत्वपरं पूर्ववाक्यं प्रकारान्तरेण जीवे सावकाशमिति शङ्कते ॥ न चेति ॥ यादृशमिति ॥ पराधीनमल्पं चेत्यर्थः ॥ शास्त्रस्था वेति ॥ आद्ये तृतीयपादे ‘‘तेष्वदर्शनाद्विरोधस्य समाविप्रतिपत्तिः स्यात्’’ इति पञ्चमेऽधिकरणे ‘‘यवमयश्च-रुर्भवति’’ इत्यत्र यवशब्दः किं दीर्घशूकपर उत प्रियङ्गुपर इति संशये उभयत्र परस्तुल्य-बलवत्त्वाच्च विकल्प इति प्राप्ते एकत्र मुख्यत्वेऽन्यत्र गौणत्वेनाप्युपपत्तौ नोभयत्र शक्तिकल्पना युक्ता । न च नियामकाभावः । ‘‘यत्रा(दा)न्या ओषधयो म्लायन्ते अथैते मोदमाना इवोत्तिष्ठन्ति’’ इति वाक्यशेषानुगुणशिष्टप्रयोगस्य दीर्घशूकविषयकस्य तदननुगुणप्रियङ्गुविषयम्लेच्छप्रयोगापेक्षया बलवत्त्वेन तत्रैव शक्तिकल्पनाद् दीर्घशूक एव यवशब्दार्थ इति सिद्धान्तितम् । शास्त्रस्थाः शास्त्रीयव्यवहारा एव ग्राह्याः शास्त्रे । तन्मूलत्वाच्छ्रौतव्यवहाराणामिति शास्त्रस्था इति सिद्धान्तसूत्रस्यार्थः । अत्र यथा यवादि-शब्दानां वाक्यशेषानुगुणार्थपरत्वं तथा य इत्यादि भाष्योक्तश्रुतिप्राप्तकारणपरत्वमेव न्याय्यं न प्रत्यक्षादिप्राप्तास्मदादिकारणपरत्वमित्यर्थः । इदं च शाबरभाष्यादौ वाक्यशेष-मुदाहृत्यार्थस्य निर्णीतत्वादेवमुक्तम् । यदा तु ‘‘सन्दिग्धे तु वाक्यशेषात्’’ इत्यनेन गतार्थत्वभिया तन्मूलकार्यप्रसिद्ध्याऽनार्यप्रसिद्धिबाधेनार्थनिर्णयस् तदा ‘‘श्रुतिप्राप्त’’ इत्यस्य श्रुतिमूलविद्वत्प्रसिद्धिप्राप्तकारणपरत्वादित्यर्थः । तेन विद्वद्रूढेश्चेत्याद्यग्रेतन-वाक्याविरोधः । एतेन यदत्र केनचित्प्रलपितं स्वप्नमनोरथिकपदार्थानां सत्यतया हिरण्यगर्भादिजीवस्य स्वप्नादिभूगोलमहार्णवादिसर्वस्रष्टृत्वादिसम्भवेन यतो वेत्यादिवाक्यं तदनुवादकत्वेनाप्युपपन्नमिति तन्निरस्तम् ।

यतो वेत्यनेन वक्तृश्रोतृसाधारणस्थूलजगत्स्रष्टृत्वस्यैवानुवाद्यत्वात् । सर्वनाम्नः सङ्कोचकाभावादित्युक्तत्वान्न स्वप्नमनोरथादावसङ्कुचितसर्वस्रष्टृत्वं जीवस्य शङ्कार्हम् । परकीयस्वप्नपदार्थेऽन्यस्याकर्तृत्वात् । ‘‘सन्ध्ये सृष्टिराह हि’’ इत्यादिना स्वाप्नादि-पदार्थेष्वपीश्वरस्यैव कर्तृत्वोक्तेश्च । ‘‘इतरव्यपदेशात्’’ इत्यादिसूत्रेषु जीवस्य स्वतन्त्र-कर्तृताया निषिद्धत्वादित्युक्तत्वाच्च । असङ्कुचितस्वतन्त्रश्रुतिप्रसिद्धमुख्यस्रष्टृत्वस्य ‘‘यतो वै’’ इत्यनुवादसम्भवे तत्त्यागायोगाच्च । यदपि ‘एकेनापि ब्रह्मशब्देन कारणत्वाद्यनेक-लिङ्गस्य गौणत्ववर्णनं युक्तम् । पूर्वाधिकरणे एकेनापि ब्रह्मशब्देनानेकवेदान्तवाक्यानां बाधस्य सिद्धान्ते भाषितत्वात्’ इति तत्तुच्छम् । एकेन सावकाशेनानेकनिरवकाश-लिङ्गबाधायोगात् । पूर्वाधिकरणे त्वनेकस्यापि बाधेन सिद्धान्तोत्थितिप्रकारस्तत्रैव प्रपञ्चितोऽस्माभिः ।

यच्चोक्तं यतो वेत्यादिवाक्योक्तकारणत्वस्य जीवेऽसम्भवेन ब्रह्मशब्दार्थत्वत्यागे अन्नमयादिकोशस्थानिरुद्धादिरूपेष्वपि ब्रह्मशब्दार्थत्वत्यागः स्यात् । ‘‘एतन्नानावताराणां निधानं बीजमव्यय’’मित्यादिस्मृत्या मूलरूपस्यैव जगत्कारणत्वेनावताररूपेषु तदभावात् । रूपाणां सविशेषाभिन्नत्वेऽपि तत्तद्व्यापाराणां व्यवस्थितत्वेन ‘‘अन्नाद्वै प्रजाः प्रजायन्ते’’ इत्यादिनाऽनूद्यमानजगत्कर्तृत्वस्य कोशस्थानिरुद्धादिरूपेष्वसम्भवात्’’ इति, तत्स्वरूप-भूतानादिमिथ्याज्ञानाविर्भावविजृम्भितमित्युपेक्षणीयम् । सर्वरूपाणां सर्वगुणयुक्तत्वेप्यनभि-व्यक्तिमात्रेण तत्तद्व्यापाराणां व्यवस्थाङ्गीकारात् । ‘‘अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते’’ इत्यादिस्मृतेः । ‘‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि’’ इत्यादौ सर्वरूपाणां निर्दोषाशेषसद्गुणत्वस्य सूत्रकृतैव प्रतिपादितत्वादिति । यदपि ‘मूलरूपाभेदेन कोशस्थरूपेषु कारणत्वसम्भवाज्जीवस्यापि तदभेदेन कारणत्वादिकं कथञ्चिद्योज्यम्’ इति तदप्रमाणकमनेकमानविरुद्धं ‘‘भोक्त्रापत्तेः’’ इति सूत्रकृतैव पूर्वपक्षितमित्यास्तामस्तकण-बुसोत्पवनायास इति । एवं जीवे रूढित्यागे बाधकं यौगिकार्थविष्णुग्रहणे साधकं कारणत्वादिविष्णुलक्षणं सूत्रयता ब्रह्मशब्दस्य विष्णौ विद्वद्रूढिः सूचिता ।

चन्द्रिकाबिन्दु

यादृशं कारणत्वमिति ॥ जीवकर्तृककार्यावच्छेदेनेति शेषः । शास्त्रस्था वेति ॥ इदं सूत्रं यववराहाधिकरणभाष्ये व्याख्यातम् । तत्र हि ‘यत्रान्या ओषधयः’ इत्यादिवाक्यशेषरूपशास्त्रप्रसिद्धिं मूलीकृत्यार्थनिर्णयः कृतः । तत्र यथा यव-वराहशब्दयोः शास्त्रप्रसिद्धानुवादित्वम् एवं श्रुतिप्राप्तकारणत्वानुवादित्वमिति भावः । यद्यपि विष्णौ ब्रह्मशब्दो विद्वद्रूढियुक्तः, तथाऽभ्युपगम्येयमुक्तिरिति ज्ञातव्यमिति टीकानुपपन्ना ।

पाण्डुरङ्गि

शास्त्रस्था वा तन्निमित्तत्वादितीति ॥ अस्य सूत्रस्यायमर्थः शास्त्रस्थपदं न यथाश्रुतभाष्यपक्ष इव वाक्यशेषरूपशास्त्रस्येत्येतदर्थकमात्रान्तमस्मिन्पक्षे । किन्तु विसर्गान्तम् । शास्त्रे विधिनिषेधरूपे ये तिष्ठंति तत्प्रधानास् तत्प्रतिपादित-धर्माधर्मव्यवहारिण इति यावत् । तेषां या प्रतिपत्तिः सैवादरणीया स्यात् । तद्विषय एवार्थो मुख्य इत्यर्थः । तन्निमित्तत्वान् मुख्यार्थनिमित्तकत्वाद्धर्माधर्मसिद्धेः । यद्वा अयमेव तस्य शब्दस्य मुख्योऽर्थ इति सिद्धेः । तन्निमित्तत्वाद् अदृष्टार्थव्यवहार-रूपशास्त्रस्थप्रसिद्धिनिमित्तत्वात् प्रतिपादकत्वमात्रप्रसिद्धेः परमन्यलोकव्यवहार-निमित्तकत्वादिति । एवं ब्रह्मशब्दस्य जीवे रूढिं परमात्मनि च योगमाश्रित्य रूढिपक्षे ‘‘यतो वै’’ इत्यादिपूर्ववाक्योक्तकारणत्वस्यैव बाधकत्वेन रूढार्थग्रहणासम्भवाद् विष्णुरूपयौगिकार्थत्वमेव ‘‘तद् ब्रह्म’’ इति ब्रह्मशब्दस्येत्युपपादितम् ।