अत्र ‘‘तद्विजिज्ञासस्व तद् ब्रह्म’’
पूर्वपक्षः
तात्पर्यचन्द्रिका
अत्र ‘‘तद्विजिज्ञासस्व तद् ब्रह्म’’ इति वाक्यस्थं ब्रह्म किं जीव उत विष्णुरिति चिन्ता । तदर्थं ब्रह्मशब्दस्य रूढ्यर्थजीवत्यागेन यौगिकार्थविष्णुग्रहणे हेतुर्नास्त्युता-स्तीति । तदर्थं विध्युद्देशस्थब्रह्मशब्दस्वारस्याय ‘‘यतो वा’’ इत्यादि पूर्ववाक्यं किं जीवे कथञ्चिन्नेतुं शक्यमुताशक्यमिति । पूर्वपक्षस्तु जीव एवेदं ब्रह्म । ‘‘बृह जाति-जीव’’ इत्यभिधानाद् ब्रह्मशब्दस्य तत्र रूढेः । विष्णौ तु यौगिकत्वात् । रूढेश्चावयवार्थनिरपेक्षायास्तत्सापेक्षायोगाद् बलीयस्त्वस्य रथकारादिशब्देषु स्थितत्वात् । प्रोक्षण्यादिशब्देषु तु क्लृप्तो योगः । अक्लृप्ता रूढिः । न च जीवेऽपि योगाङ्गीकाराद्रूढिरक्लृप्तेति वाच्यम् । यौगिकार्थस्य गुणपूर्तेर्जीवेऽसम्भवात् । सम्भवे वा जिज्ञास्यत्वेनाभिमतस्य जीवाद्भेदासिद्धेः । गुणपूर्तितोऽन्यस्य यौगिकार्थत्वे तु जिज्ञास्यस्यापि गुणपूर्त्यसिद्धिः ।
प्रकाशिका
इति वाक्यस्थमिति ॥ सुधायां क्वचिदपि विष्णुपरत्वानङ्गीकारेण पूर्वपक्षप्रवृत्तावपीह टीकायां तदेवेत्यादिवाक्यान्तरस्थब्रह्मशब्दस्य विष्णुपरत्वमुपेत्यै-तद्वाक्यस्थस्य विष्णुपरत्वाक्षेप इति द्योतयितुम् ‘इति वाक्यस्थं ब्रह्म विषयः’ इत्युक्तम् । किं जीव इति ॥ जात्यादेरिहायोग्यतापराहतत्वादिति भावः । यदि जीवे नेतुं शक्यं तदा यौगिकार्थविष्णुग्रहणे हेतोरभावाद्रूढार्थो जीव एवेति पूर्वपक्षे फलफलिभावः । यदि तु जीवे नेतुमशक्यं तदा रूढ्यर्थत्यागेन यौगिकार्थग्रहणे हेतुरस्तीति विष्णुरेवेति सिद्धान्ते फलफलिभावः स्पष्ट इति भावः । एतेन विषयसंशयटीकापि विवृता ।
पूर्वपक्षटीकां व्यनक्ति ॥ जीव एवेति ॥ ‘‘बृह जातिजीवकमलासनशब्दराशिषु’’ इत्यभिधानादित्यर्थः । धातोः क्रियार्थकत्वेऽपि ‘गडि वदनैकदेशे’’ इत्यादिवत्क्रियोप-लक्षणत्वेन बृहतेर्जात्याद्यर्थत्वं युक्तमिति ध्येयम् । तत्र योगेनैव प्रवृत्तेरित्येतद्व्याचष्टे ॥ विष्णौ त्विति ॥ रूढियोगयोश्चेति वाक्यं हेतुदृष्टान्तोक्त्या व्यनक्ति ॥ रूढेश्चेति ॥ वाक्यात्पदश्रुतेरिवेति भावः । षष्ठे ‘‘वचनाद्रथकारस्याधानम्’’ इत्याद्यपादीयोपान्त्याधि-करणे ‘‘वर्षासु रथकारोऽग्नीनादधीत’’ इत्यत्र ब्राह्मणादीनामेव रथकरणे निमित्ते वर्षाकालविधिरुत रथकारसंज्ञस्यावान्तरवर्णस्याधानांतरविधिरिति संशये त्रैवर्णिकानां वैदुष्यस्य स्वतो लाभात्कालमात्रविधौ च लाघवात्तेषामेव कालविधिर्नाविदुषोऽवान्तर-वर्णस्य विशिष्टाधानविधिरिति प्राप्ते अवयवार्थपर्यालोचनसापेक्षयौगिकप्रसिद्ध्यपेक्षया तन्निरपेक्षतया समुदायप्रसिद्धेर्बलीयस्त्वाद्वचनबलादविदुषोऽप्यधिकारप्रतीतेरविघाता-दवान्तरवर्णस्यायमाधा नान्तरविधिरिति सिद्धान्तितम् । अत्र रूढिबलीयस्त्वस्य व्युत्पादि-तत्वाद् ब्रह्मपदेऽपि सैव ग्राह्येत्यर्थः ।
नन्वेवमाद्ये चतुर्थपादे ‘‘प्रोक्षणीष्वर्थसंयोगात्’’ इत्यष्टमेऽधिकरणे रूढितोऽपि योगस्य बलवत्त्वोक्तिरयुक्तेत्यत आह ॥ प्रोक्षण्यादीति ॥ ‘‘प्रोक्षणीरासादय’’ इत्यादौ प्रोक्षणीशब्दः संस्कारनिमित्तकः किं वा जातिनिमित्तक उत यौगिक इति संशये संस्कृतास्वप्सु शास्त्रज्ञानां प्रयोगात्संस्कारनिमित्तत्वं प्राप्तमपोद्य बर्हिराज्यादिशब्दवद-संस्कृतास्वपि क्वचित्प्रयोगाज्जात्यव्यभिचाराज्जातिनिमित्तता प्राप्ता । न च यौगिकत्वं युक्तम् । समुदायप्रतीतेर्बलीयस्त्वादिति प्राप्ते लब्धात्मिकाया एव रूढेर्योगाद् बलीयस्त्वम् । अश्वकर्णादिशब्देषु वृक्षादाववयवार्थासम्भव एव तस्या आत्मलाभः । अवयवार्थसत्त्वे तु तन्मात्रेणोपपत्तावदृष्टसमुदायशक्तिकल्पनायोगात् । प्रकृते चाप्सु प्रकृष्टो क्षणहेतुत्वरूपा-वयवार्थसत्त्वेन रूढ्यनुन्मेषाद्यौगिकः प्रोक्षणीशब्द इति सिद्धान्तितम् । अत्राक्लृप्तरूढितः क्लृप्तयोगस्य बलवत्त्वोक्तावपि प्रकृते नैवमिति भावः । उक्तं च–
‘‘रूढिर्लब्धात्मिका योगं बाधते न त्वलब्धिका ।
तत्रैव चात्मलाभोऽस्या यत्र नावयवार्थता ।’’ इति ।
‘‘जीवे रूढत्वात्’’ इति टीकोक्तं हेतुं साधयति ॥ न चेति ॥ बृह जातीत्यभिधानं तु योगेनाप्युपपन्नम् । एवं च विष्णौ क्लृप्तयोगेनाक्लृप्तरूढिर्बाधिष्यत इति भावः । जीवेऽङ्गीक्रियमाणो योगार्थः किं गुणपूर्तिरुतान्य इति विकल्पौ हृदि कृत्वाऽऽद्य आह ॥ यौगिकार्थस्येति ॥ तस्याल्पगुणत्वेनैव सिद्धेरिति भावः । अन्त्य आह ॥ गुणपूर्तित इति ॥ देशाद्यपरिच्छेदरूपस्येत्यर्थः । अतो जीवे रूढिः क्लृप्तेति प्रोक्षणीशब्दवैषम्यमिति भावः ।
चन्द्रिकाबिन्दु
तच्छ्रुत्युक्तं ब्रह्म अत्र विषयमिति विषयटीकां व्याख्याति । अत्र तद्विजिज्ञासस्वेति ॥ विध्युद्देशस्थेति ॥ इदं च विशेषणं विधौ स्वारसिकार्थ एव अवश्यवक्तव्यत्वकथनाय । अभिधानादिति ॥ धातोरित्यर्थः । धातुत्वं चोपनिषद्भाष्या-दावुक्तम् । ‘‘अनेन बृह जातिजीवेति ब्रह्मशब्दस्य’’ इत्यादिटीकाया बृहजातिजीवे-त्यादिना किं प्रमाणमुक्तं भवतीति शङ्का निरस्ता भवति । धातुपाठस्य प्रमाणत्वाद् यद्यप्यत्र बृहधातोर् जातिजीवाद्यक्रियावाचित्वाद् धातुत्वं नोपपद्यते । क्रियावाचिन एव धातुत्वात् । तथापि जीवादिव्यापारविशेष एव धातुशक्तिः । स च जीवाद्यभिन्न इति जीवादिष्वेव पर्यवसानमिति भावः । तथापि तस्य तत्र योगेनैवेत्यत्र एवकारस्वारस्यमुत्तरत्र दर्शयिष्यति । इदानीं योगेनैवेत्येतद्योगार्थमाह । विष्णौ तु यौगिकत्वादिति ॥ रूढि-योगयोः रूढेर्बलवत्त्वादित्यत्र टीकायां योगापेक्षया प्राबल्यमुक्तं रूढेः । तत्र हेतुं कथयति । रूढेश्चेति ॥ रूढेरेवेत्येवकारेण रूढेर्बलवत्त्वम् अन्यत्र दृष्टमिति सूचितम् । तद्बलं दर्शयति । रथकारादीति ॥
ननु ‘प्रोक्षणीष्वर्थसंयोगादि’त्यधिकरणे प्रोक्षणीशब्दस्य रूढार्थपरित्यागेन यौगिकार्थ-परत्वकल्पनमनुपपन्नमित्याशङ्क्य तत्र प्रकर्षेण उक्ष्यन्ते सिच्यन्ते इति उदके योगस्य क्लृप्तत्वान् न तत्र रूढेः कल्प्यत्वम् । तत्र ब्रह्मशब्दस्य तु न जीवे योगः कल्प्यः किन्तु रूढिरेव क्लृप्ता । तथा च क्लृप्ते प्रोक्षणीशब्दे योगः कल्प्य इति स एवाश्रित इति न प्रकृतानुपपत्तिरित्यभिप्रेत्याह । प्रोक्षण्यादिशब्देष्वित्यादिना ॥ जिज्ञास्यस्यापीति ॥ गुणपूर्तितोन्यस्य यौगिकस्य ब्रह्मशब्दार्थत्वाङ्गीकारे जिज्ञास्ये ब्रह्मणि जीवभेदकगुणपूर्तिर्न सिध्द्येत् । एवं च जीवभेदसिद्धिरपि न सिध्द्येदिति भावः । योगेनैव वृत्तेरित्यत्रैवकारेण रूढियोगरूढिनिरासः सूचितः ।
पाण्डुरङ्गि
‘‘किं विष्णुरुत जीव’’ इति सन्देहटीकायां पूर्वनिर्दिष्टत्वाद्विष्णुरिति पूर्वपक्ष इति मन्दाशङ्कां निरस्यति ॥ किं जीव इति ॥ टीकाकृता त्वभ्यर्हितत्वात् प्रथमं विष्णुरिति कोटिर्निर्दिष्टेति द्रष्टव्यम् । इत्यभिधानादिति ॥ अनेन ‘‘बृह जातिजीव-कमलासन’’ इति ब्रह्मशब्दस्य जीवे रूढत्वादिति टीकायामभिधानादिति शेषः पूरणीय इत्युक्तं भवति । विष्णौ यौगिकत्वेऽपि प्रकृते ब्रह्मशब्देन विष्णुरेव ग्राह्यः किं न स्यादित्याशङ्कानिरासाय प्रवृत्ता ‘‘रूढियोगयोश्च रूढेरेव बलवत्त्वात्’’ इति टीका । तत्र रूढेर्योगापेक्षया प्राबल्ये किं निमित्तं कश्चात्र दृष्टान्त इति शङ्कापरिहाराय निमित्तं दृष्टान्तं च दर्शयन्नेव ‘‘रूढियोगयोश्च’’ इत्यादिटीकां व्याचष्टे ॥ रूढेश्चेति ॥ ‘‘अवयवार्थ-निरपेक्षायाः’’ इति तत्र निमित्तकथनम् । ‘‘रथकारादिषु’’ इति दृष्टान्तप्रदर्शनम् । नन्वेवं रूढेरेव योगापेक्षया प्राबल्ये प्रोक्षण्यादिशब्दस्यापि रूढार्थत्वापत्त्या तस्य यौगिकार्थत्व-प्रतिपादकाधिकरणविरोध इत्यत आह ॥ प्रोक्षण्यादीति ॥ क्लृप्ताक्लृप्तयोः क्लृप्ते कार्य-सम्प्रत्यय इति न्यायादिति भावः । योगेनैवेत्येवकारस्य तत्रैव योगेनेति भिन्नक्रममङ्गीकृत्य जीवे योगो निराकृतष् टीकाकृतेति तन्निवर्त्याशङ्कामाह ॥ न चेति ॥ यौगिकार्थः किं गुणपूर्तिर्वाऽन्यो वा । आद्ये स किं जीवे न सम्भवत्युत सम्भवतीति । नाद्य इत्याह ॥ यौगिकार्थस्येति ॥ न द्वितीय इत्याह ॥ सम्भवे वेति ॥ नद्वितीय इत्याह ॥ गुणपूर्तितोऽन्यस्येति ॥
न च जिज्ञास्येऽपि रूढिः
तात्पर्यचन्द्रिका
न च जिज्ञास्येऽपि रूढिः । तथात्वे गुणपूर्त्यसिद्धेः । न च योगरूढिः । ‘‘बृहन्तो ह्यस्मिन्गुणा’’ इति श्रुत्यनुसारिक्लृप्तावयवशक्त्यैवोपपत्तौ समुदायशक्तौ मानाभावात् । ‘‘तदेव ब्रह्म परमं कवीनाम्’’ इत्यादेः केवलयोगेनाप्युपपत्तेः । न च पङ्कजादाविव योगोऽतिप्रसक्तः । येन योगरूढिः । अन्यत्र गुणपूर्तेरनङ्गीकारात् । अत एव टीकायां ‘‘योगेनैव’’ इत्येवकारः । तथा च ‘‘तदेव ब्रह्म परमम्’’ इत्यादौ रूढिबाधकसमुद्रशायित्वादिलिङ्गाद्विष्णुपरत्वेऽपि तद्विजिज्ञासस्वेत्यत्र न तत्परता । अत एव टीकायां ‘‘यद्यपि ब्रह्मशब्दो विष्णौ प्रवर्तते’’ इत्युक्तम् ।
प्रकाशिका
‘‘यद्यपि ब्रह्मशब्दो विष्णौ वर्तते तथापि तत्र तस्य योगेनैव प्रवृत्तेः’’ इति टीकागतैवकारस्य व्यावर्त्यशङ्कापूर्वं तात्पर्यमाह ॥ न च जिज्ञास्य इति ॥ विष्णा-वित्यर्थः ॥ असिद्धेरिति ॥ तथा च जीवाद्भेदो न सिद्ध्येत् । बृहन्तो हीति श्रुति-विरोधाच्चेति भावः ॥ न चेति ॥ योगयुक्तरूढिरित्यर्थः । तथा च गुणपूर्तिलाभः केवलरूढ्यपेक्षया प्राबल्यं चेति भावः । रूढिवद्योगस्याप्रामाणिकत्वे कल्प्यत्वाविशेषा-द्रूढिरेव कल्प्येतेत्यत उक्तं श्रुत्यनुसारिक्लृप्तेति । उक्तं च मीमांसकैः ।
‘‘भवेतां यदि वृक्षस्य वाजिकर्णौ कथञ्चन ।
अक्लृप्तां समुदायस्य कः शक्तिं जातु कल्पयेत्’’ इति ।
ननु तदेवेति श्रुतौ ‘‘कवीनां मते तदेव परं ब्रह्म’’ इत्याहुरिति रूढिरुक्तेत्यत आह ॥ तदेवेति ॥ तर्हि पङ्कजादौ योगरूढिर्न स्यादित्यत आह ॥ न चेति ॥ तत्र पङ्कजनिकर्तृत्वस्य भेकादावपि सत्त्वेनैकान्ततस्तेन पद्मप्रतीत्ययोगाद्रूढिरङ्गीकृता । न चैवं प्रकृते योगोऽतिप्रसक्तः । येन रूढिरपि स्यादित्यर्थः । एवं टीकोक्तो विष्णौ यौगिकत्व-हेतुः समर्थितो भवति । यद्यपीत्यादिवाक्यं व्यनक्ति । तथा चेति ॥ न तत्परतेति ॥ वक्ष्यमाणदिशा बाधकाभावादिति भावः । ननु सुधायां क्वापि ब्रह्मशब्दो विष्णुपरो नेत्युक्तेः कथमेवमित्यत आह ॥ अत एवेति ॥ तथा प्रवृत्तावप्यत्र टीकायां क्वचिद्विष्णु-परत्वमुपेत्यैव प्रवृत्तेर्न दोष इति भावः । एतेन क्वचिद् ब्रह्मशब्दस्य योगेनापि विष्णुपरत्वे शाखान्तराधिकरणन्यायेन प्रत्यभिज्ञानात्तद् ब्रह्मेत्यत्रापि विष्णुपरत्वं स्यादिति निरस्तम् । ‘‘यमन्तस्ममुद्रे’’ इति पूर्ववाक्योक्तसमुद्रशायित्वरूपलिङ्गस्येवेह बाधकस्याभावादिति भावः । अत्र यद्यपि ‘‘न च जीवेऽपी’’त्यादिग्रन्थस्य ‘‘ब्रह्मशब्दस्य तत्र रूढेः’’ इत्युक्तहेत्वसिद्धिपरिहारार्थत्वात्तदानन्तर्यं, तथा ‘‘न च जिज्ञास्येऽपी’’त्यादेश्च‘‘विष्णौ यौगिकत्वात्’’ इत्युक्तहेत्वसिद्धिनिरासार्थत्वात्तदानन्तर्यं, तथा ‘‘रूढेश्चे’’त्यस्यैतदानन्तर्यं चोचितम् । हेत्वोः सिद्ध्यनन्तरमेव प्राबल्यादिजिज्ञासोदयात् । तथापि प्रोक्षण्यादि-शब्दवैषम्यकथनाय ‘‘न च जीवेऽपि’’ इत्यस्य यथान्यासे युक्ते तत्सम्बद्धत्वात् ‘‘न च जिज्ञास्येपीत्यस्यापि पश्चाद्भाव इति न दोषः ।
चन्द्रिकाबिन्दु
तं निरासप्रकारं दर्शयति । न च जिज्ञास्येऽपीत्यादिना ॥ ‘तदेव ब्रह्म परमं कवीनाम्’ इत्यनेन ब्रह्मणि ब्रह्मशब्दस्य रूढिरेव गम्यते । आहुरित्युक्तत्वा-दित्यत आह । तदेव ब्रह्मेति ॥ आहुरित्यस्य योगेन श्रुतिरित्यर्थः । अवयवार्थाति-प्रसक्तावेव रूढ्यङ्गीकारः । न चात्र गुणपूर्तिलक्षणोऽवयवार्थोऽन्यत्र प्रसक्तः । येन रूढ्यङ्गीकार इत्याह । न चेति ॥ ननु ‘‘तदेव ब्रह्म परमं कवीनाम्’’ इत्यत्र समुद्रशायित्वबाधकवशाद् यथा ब्रह्मशब्दस्य विष्णुपरत्वं तथा तद्विजिज्ञासस्व तद्ब्रह्मे-त्यत्रापि ब्रह्मशब्दस्य विष्णुपरत्वमुक्तः । अत्रापि जिज्ञास्यत्वलक्षणबाधकसद्भावा-दित्याशङ्क्योक्तम् । टीकायामिति ॥
पाण्डुरङ्गि
यथास्थितमेवकारसम्बन्धमभिप्रेत्य तन्निवर्त्याशङ्कामाह ॥ न चेति ॥ योगेनेत्यस्य केवलयोगेनेत्यर्थमभिप्रेत्य तन्निवर्त्यमाह ॥ न चेति ॥ किञ्च योगमात्रेऽति-प्रसक्त एव रूढ्यङ्गीकारस्य पङ्कजादिशब्दे दृष्टत्वात्प्रकृते च योगमात्रस्यानतिप्रसक्ततया रूढ्यङ्गीकारो न युक्त इत्याह ॥ न चेति ॥