जिज्ञासाकारणीभूतगुणपूर्तिप्रसिद्धये
अथ जन्माधिकरणम्
॥ ओं जन्माद्यस्य यत ओम् ॥
सङ्गतिविचारः
तात्पर्यचन्द्रिका
जिज्ञासाकारणीभूतगुणपूर्तिप्रसिद्धये ।
जीवादिभेदकं विष्णोर्विश्वकर्तृत्वमुच्यते ॥
पूर्वोक्तजिज्ञासाक्षेपेणेह पूर्वपक्षोत्थानात्पूर्वाधिकरणेनाक्षेपिकी सङ्गतिश् चिन्तायाः सफलत्वं च । सुधायां तु आद्यसूत्रे साधनादिसहितं ब्रह्म विचार्यमित्युक्तम् । तत्र साधनफलयोर्ब्रह्मज्ञानसाधनं ब्रह्मज्ञानफलमिति ब्रह्मोपहितत्वेन तज्ज्ञानाधीनज्ञानत्वाद् ब्रह्मणश्च साधनादिज्ञानाधीनज्ञानत्वाभावादभ्यर्हितत्वाच्चादौ तज्जिज्ञासैव प्राप्ता । साच लक्षणप्रमाणाभ्याम् । तत्रापि लक्षणविशिष्टे प्रमाणाकाङ्क्षेति लक्षणस्य प्राथम्यमिति प्रकारान्तरेणाधिकरणसङ्गतिरुक्ता ।
प्रकाशिका
पूर्वाधिकरणेन सङ्गतिप्रयोजने सूचयन्नधिकरणप्रमेयं सङ्गृह्णाति ॥ जिज्ञासेति ॥ श्लोकस्य द्विरूपतां व्यनक्ति ॥ पूर्वोक्तेति ॥ यावज्जीवभेदकं नोच्यते तावदत्र श्रुतौ रूढित्यागे बाधकाभावेन ब्रह्मपदाद्योगासिद्ध्या गुणपूर्त्यसिद्धेर्न जिज्ञासा युक्तेति पूर्वपक्षे तदाक्षेपात्सङ्गतिः । गुणपूर्तिप्रसिद्धिद्वारा जिज्ञासासिद्धिः फलमित्यर्थः । यद्यपि ब्रह्मपदलब्धं गुणपूर्णत्वमेव भेदकं तथापि विश्वकर्तृत्वरूपधर्मेण समस्तवस्तुव्यावृत्ततयाऽवगत एव ब्रह्मणि पूर्णगुणत्वं सिध्यतीति तदुपपादकतयैतदुक्तिः । अत एव गुणपूर्तिप्रसिद्धय इत्युक्तम् । उक्तं च सुधायां ‘‘अनेन लक्षणेन लक्षिते ब्रह्मणि समस्तगुणपूर्णत्वं प्रधानलक्षणं सिध्यति’’ इति । एतेन ‘‘श्रुत्यादिसङ्गतिस्तु’’ इति सङ्गतिटीका विवृता । सङ्गत्यन्तरमप्यत्रानुसन्धेयमिति भावेनाह ॥ सुधायां त्विति ॥ प्रकारान्तरेणेति ॥ तेन सुधाविरोधः प्रत्युक्तः ।
चन्द्रिकाबिन्दु
ओं जन्माद्यस्य यत ओम् ॥ एतदधिकरणफलकथनपूर्वकम् अधिकरणप्रतिपाद्यं दर्शयति । जिज्ञासेति ॥ गुणपूर्तिसिद्धिः फलमिति भावः । जिज्ञासाकारणीभूतेत्यंशेन उचितामाक्षेपिकीं सङ्गतिमुपपादयति । पूर्वोक्तेति ॥ अनेन श्रुत्यादिसङ्गतिस्त्विति टीकाग्रन्थेनाक्षेपिकी सङ्गतिरुक्ता भवतीति ध्येयम् । चिन्ताया इति ॥ विचारकर्तव्यतासिद्धेरेव फलत्वादिति भावः । सुधायां यद्यपि सङ्गत्यन्तरमुक्तं तथापि प्रकारान्तरमिति मत्वैव तदुक्तं न तु एतत्संसर्गाभावाभिप्रायेणेत्याह । सुधायां त्विति ॥ तत्रेति ॥ अनेन साधनफलयोर्ब्रह्मोपहितत्वादिति वाक्यं व्याख्यातं भवति । अधिकरणसङ्गतिरिति ॥ पृथक् प्रपञ्चकभावलक्षणा वा आनन्तर्यलक्षणा वेत्यर्थः ।
पाण्डुरङ्गि
ओं जन्माद्यस्य यत ओम् ॥ पूर्वाधिकरणसङ्गतत्वेनैतदधिकरण-प्रतिपाद्यमाह ॥ जिज्ञासेति ॥ तथापि का सङ्गतिरुक्तेति न प्रतीयतेऽत आह– पूर्वोक्तेति ॥ ननु यद्यस्याधिकरणस्य पूर्वाधिकरणेन तदुक्तजिज्ञासाक्षेपेण पूर्वपक्षोत्थानेनाक्षेपिकी सङ्गतिः सूच्यते तदा सुधाविरोधः स्यात् । तत्र भिन्नाया एव सङ्गतेरुक्तत्वादित्यतः सुधोक्तस्य प्रकारान्तरत्वात् प्रकारान्तरस्य प्रकारान्तरादूषकत्वान्न विरोध इत्यभिप्रायेण सुधोक्तं प्रकारान्तरमाह ॥ सुधायां त्विति ॥ तत्र साधनफलयोरिति ॥ अननु-संहितोपाधेरुपहितप्रत्ययायोगादिति भावः ॥ प्रकारान्तरेणेति ॥ अनेन प्रपञ्च्यप्रपञ्चकभावलक्षणा सङ्गतिरुक्ता भवति ।