केचित्तु जिज्ञासाशब्दो रूढ्या लक्षणया वा विचारं नार्पयति
विशिष्टाद्वैत्युक्तविचाररूढ्यसम्भवपरीक्षा
तात्पर्यचन्द्रिका
केचित्तु जिज्ञासाशब्दो रूढ्या लक्षणया वा विचारं नार्पयति । नाप्यर्थादाक्षिपति । किन्त्विच्छार्थ एव । तथापीच्छाया विषयवैलक्षण्याधीनत्वेनाविधेयत्वादिच्छां प्रति कर्मीभूतमिष्यमाणं विचारात्मकं तर्करूपं ज्ञानं विधेयम् । यद्यपि जिज्ञासा कर्तव्येति प्रत्ययार्थभूतेच्छायाः कर्तव्यत्वं भाति न तु ज्ञानस्य तथापि ‘‘स्नात्वा भुञ्जीत, प्राङ्मुखो भुञ्जीते’’त्यत्र भुजिधातोर्विधिप्रत्ययान्तत्वेन भोजनस्य कर्तव्यत्वे प्रतीतेऽपि तस्य रागतः प्राप्तत्वेनाप्राप्तयोः स्नानप्राङ्मुखत्वयोर्विधेस्तात्पर्यम् । न चैतावता भुजिधातोः स्नाने रूढिर् लक्षणा वा आक्षेपकता वाऽस्ति । एवमिहापीच्छाया अविधेयत्वाद्विचारात्मकं ज्ञानं विधेयं न तु जिज्ञासाशब्दस्य विचारे रूढ्यादिरित्याहुः । तन्न । स्नानादिकं हि प्राधान्येनाप्रतीतत्वाद्विधातुं युक्तम् । इह तु ज्ञानमिच्छां प्रति कर्मतया प्राधान्येन प्रतीतमिति कथं तद्विरोधिनी विधेयता । न हि स्वर्गकामपदेनेच्छाविषयतया प्रतीतः स्वर्गो विधेयः । किञ्च प्राङ्मुखो भुञ्जीतेत्यादौ विधेयप्राङ्मुखादेराश्रयमर्पयितुं भुजिधातुः सार्थकः । प्रकृते तु विधेयज्ञानं प्रतीच्छाया आश्रयत्वाद्यभावात्तद्विजिज्ञासस्वेति श्रुतौ सूत्रे च सन्प्रत्ययो व्यर्थः । किञ्च जानातेः प्रमितौ स्वारस्यात्सन्वाच्याया इच्छायाश्च प्रमितिरूपफलविषयत्वस्य स्वरसत्वान्न सन्नन्तजानातेस्तर्करूपज्ञानपरता । किञ्च त्वत्पक्षे विचारकर्तव्यताया मानान्तर-प्राप्तत्वात् श्रोतव्य इत्यादिवाक्यवत्सूत्रमप्यनुवादकमेव स्यादिति कथं विधायकतोक्तिः । कथञ्चिदप्राप्तिसम्पादने तु श्रोतव्य इत्यादिरपि विधिः स्यात् । तस्माज्जिज्ञासाशब्दस्येच्छार्थत्वे विध्यसम्भवात्तद्विध्यर्थं स रूढ्या विचारपरः । तदेतदाह ॥ न च श्रवणादेरसन्वाच्यतेति ॥
प्रकाशिका
रूढ्येति सिद्धान्तदिशा । लक्षणयेति विवरणरीत्या । नापीति ॥ भामतीरीत्येति भावः । विचारात्मकमिति ॥ ‘‘विचारात्मकं ज्ञानमेव तात्पर्यतो विधीयते’’ इति । अत्र तर्करूपज्ञानं विधेयं तर्कानुगृहीतवाक्यजन्यप्रमितिरूपज्ञानं तु फलत्वान्न विधेयम्’’ इति च श्रुतप्रकाशोक्तशङ्कासमाधी अनुवदति ॥ यद्यपीति ॥ तस्य भोजनस्य ॥ अप्राप्तयोरिति ॥ नियमेनाप्राप्तयोरित्यर्थः ॥ स्नानेति ॥ स्नात्वैव भुञ्जीत प्राङ्मुख एव भुञ्जीतेति स्नानप्राङ्मुखत्वयोर्नियम इत्यर्थः । उक्तं च ‘‘स्नानप्राङ्मुखत्व-नियमयोरेव विधेस्तात्पर्य’’मिति । दृष्टान्तवैषम्योपपादनपूर्वं विध्ययोग्यत्वेन दूषयति ॥ स्नानेति ॥ प्राधान्यज्ञापककामपदादेरभावादिति भावः । अङ्गीकृतं च प्राधान्यं श्रीभाष्ये ‘‘इच्छाया इष्यमाणप्रधानत्वादिष्यमाणं ज्ञानमिह विधीयते’’ इति ॥ तद्विरोधिनीति ॥ प्राधान्यविरोधिनीत्यर्थः । यद्यपि प्राधान्यविरोधि गुणत्वं न तु विधेयत्वम् । तस्यानु-वाद्यत्वविरोधित्वात् । तथापि प्राधान्यस्यानुवाद्यत्वेन गुणत्वस्य विधेयत्वेन सामानाधि-करण्यनियमेन प्राधान्यविधेयत्वयोर्भिन्नाधिकरणतानियमाद् विरोधिनीत्युक्तम् । ननु प्रवर्तनात्मा विधिरिष्टे पुरुषं प्रवर्तयति । ज्ञानं चेष्टमिति सत्यपि प्राधान्ये तदेव विधेयमित्यतोऽतिप्रसङ्गमाह ॥ न हीति ॥ ‘‘फलांशे भावनायास्तु प्रत्ययो न विधायकः’’ इति भाट्टोक्तेरिति भावः । अत एव चतुर्थाध्यायाद्यपादे ‘‘यस्मिन्प्रीतिः पुरुषस्य तल्लिप्सार्थलक्षणाविभक्तत्वात्’’ इति द्वितीयेऽधिकरणे द्वितीये वर्णके फलांशे विधिव्यापारोऽस्त्युत नेति संशये विधेयभावनाविशेषणत्वात् करणादिवत्फलांशोऽपि विधीयत इति प्राप्ते रागतस्तत्र प्रवृत्तिसिद्धेर्न फलांशो विधीयत इत्युक्तम् ।
ननु यजेत स्वर्गकाम इत्यत्रेष्टसाधनं मानान्तराप्राप्तं सन्निहितं च धात्वर्थं परित्यज्य विप्रकृष्टरागप्राप्तस्वर्गविधानं न युज्यते । इह तु सन्निहितत्वादिष्टत्वाच्च युज्यत इति भावेनाह ॥ किञ्चेति ॥ यत्र हि गुणः कारकत्वमापद्यते स आश्रयः । यथा ‘‘दध्नेन्द्रियकामस्य जुहुयादित्यत्र दधिरूपगुणस्य धात्वर्थो होमः । दध्ना होमनिर्वृत्ति-द्वारेन्द्रियनिष्पत्तेः । तथा च प्राङ्मुखत्वादिकमपि भोजनरूपक्रियानिर्वृत्तिद्वाराऽऽयुष्यादि-फलं जनयतीति निर्वर्त्यक्रियारूपाश्रयमनुवदितुं भुजिधातुः सार्थकः । इह तु ज्ञानेनेच्छानिर्वृत्तिद्वारा कस्यचिदजननेनाश्रयत्वायोगेन तदनुवादानुपपत्तेर्ब्रह्म ज्ञानमिति सूत्रविन्यासः स्यात् । तद्विजानीहीति श्रुतिविन्यासः स्यात् । न तु सन्नन्तत्वेनेत्यर्थः । एतेन ‘‘गुप्तिज्किद्भयःसन्’’ इत्यत्र सन्निति योगविभागमाश्रित्य जिज्ञासाशब्दे सनः स्वार्थिकत्ववर्णनं प्रत्युक्तम् । ब्रह्मज्ञानमित्येतावता पूर्त्या सनो व्यर्थत्वात् । योगविभागस्य क्लिष्टत्वाच्च । यदपि प्रमाजनकवाक्यानुग्राहकतर्करूपं ज्ञानं विधेयमित्युक्तं तदपि नेत्याह ॥ किञ्चेति ॥ प्रमितिरूपेति ॥ इतिकर्तव्यताभूततर्कानुगृहीतवेदान्तवाक्यजन्यप्रमारूप-मीमांसाफलविषयत्वस्येत्यर्थः । उपलक्षणमेतत् । ज्ञानसामान्ये शक्तस्य जानातेस्तर्कज्ञान-रूपविशेषपरत्वस्यानुचितत्वादित्यपि ध्येयम् । तर्करूपज्ञानस्य विधेयतोक्तिश्चायुक्तेत्याह ॥ किञ्चेति ॥ श्रवणविधिमूलत्वात् सूत्रस्य श्रोतव्य इत्यादिवाक्यवदित्युक्तम् । ननु जिज्ञासामात्रप्राप्तावपि कर्मविचारानन्तर्यविशिष्टं न प्राप्तमित्यत आह ॥ कथञ्चिदिति ॥ जिज्ञासाशब्दतो हीच्छामित्यादिनोक्तं टीकारूढं करोति ॥ तदेतदिति ॥ अतद्गुण-संविज्ञानबहुव्रीहिणा विचारस्यासन्वाच्यता सन्नन्तजिज्ञासापदवाच्यत्वाभाव इत्यर्थः ।
चन्द्रिकाबिन्दु
विशिष्टविधिवाक्यस्य विशेष्यभूतेच्छाविध्यसम्भवे विशेषणी-भूतभानविधौ पर्यवसानमित्यभिप्रेत्याह । तथापीच्छाया इति ॥ स्नानादिकं हीति ॥ स्नात्वेत्यादिवाक्ये स्नानमुपसर्जनतया प्राप्तं, जिज्ञासेत्यत्र तु ज्ञानं प्रवृत्त्यर्थतया इच्छां प्रति कर्मतया प्रधानं, न च प्रधानत्वेन प्राप्तस्य विधेयतेति भावः । विधेयज्ञानमिति ॥ विधेयं च तज् ज्ञानं चेति समासः । सन्प्रत्ययो व्यर्थ इति । तत्प्रतिपाद्येच्छाया विधेयज्ञानं प्रति आश्रयत्वाद्ययोगादिति भावः । न सन्नन्तेति ॥ तर्ककार्यज्ञानस्य प्रमितिरूपत्वाभावात्तस्य करणत्वेन फलरूपत्वाभावाच्चेति भावः । किञ्च त्वत्पक्ष इति ॥ प्राप्तविचारकर्तव्यत्वानु-वादकत्वाच्छ्रोतव्य इत्यादि वाक्यमनुवादकमिति त्वयाङ्गीकृतं विचारविधिमूलकं च सूत्रमिदं कथं विधायकं स्यादिति भावः । रूढ्यङ्गीकारे इच्छाया अविधेयत्वादिति मुख्यार्थनुपपत्तिप्रदर्शनपरं वाक्यं न सङ्गच्छते ।
पाण्डुरङ्गि
रामानुजमतं दूषयितुमनुवदति ॥ केचित्त्विति ॥ यद्यप्यत्र भामती-मतदूषणानन्तरं केषाञ्चित्पक्षो दूषणीयः । तथैव नियतत्वात् । तथापीच्छाया अविधेय-त्वादिति टीकानिवर्त्यक्रमानुसारेणैवमुक्तमिति ध्येयम् । नन्विच्छाया अविधेयत्वात्तदर्थत्वे जिज्ञासापदवैयर्थ्यमित्यत आह ॥ तथापीति ॥ ज्ञानमात्रस्य विधेयत्वासम्भवादाह ॥ तर्करूपमिति ॥ तर्करूपमित्युत्तरत्र दूषणार्थमनूदितम् । विचारात्मकमित्यनेनैवाविधेयत्व-शङ्कापरिहारात् ॥ तद्विरोधिनीति ॥ विधेयत्वस्य गुणत्वव्याप्यत्वेन प्राधान्यविरोधित्व-मिति भावः ।
ननु प्राधान्येन सह विधेयत्वस्य विरोधः किमेवमेव वा उत यत्प्रति प्राधान्यं तत्प्रत्येव विधेयत्वं विरुद्धम् । नाद्यः । तथात्वे दर्शपूर्णमासयागस्यापि प्राधान्येन विधेयत्वानुपपत्तेः । न द्वितीयः । यागस्य सोमं प्रति प्राधान्येऽपि फलं प्रत्यप्राधान्येन विधेयत्ववत् । प्रकृते ज्ञानस्येच्छां प्रति प्राधान्येऽपि मोक्षरूपफलं प्रत्यप्राधान्याद्विधेयत्वं सम्भवतीत्यत आह ॥ किञ्चेति ॥ ननु ज्ञानमात्रस्य पुंतन्त्रत्वाभावेनाविधेयत्वेऽपि तर्करूपज्ञानं पुन्तन्त्रत्वा-द्विधेयम् । तथा चेष्यमाणतर्करूपज्ञानोपस्थापकत्वान्न सन्प्रत्ययवैयर्थ्यमित्यत आह ॥ सन्नन्तजानातेरिति ॥ न च जानातेस्तर्कपरता युक्ता । यतोऽयं जानातिः सन्नन्त इत्यर्थः । ननु जानातेः प्रमितौ स्वरसत्वेऽपि इच्छायाः प्रमितिरूपफलविषयत्वस्वारस्येऽपि फलीभूतज्ञानस्य विधातुमशक्यत्वात् सन्नन्तजानातेस्तर्करूपज्ञानपरत्वमावश्यकमित्यत आह ॥ किञ्चेति ॥ मानान्तरप्राप्तत्वादिति ॥ सति विचारे ज्ञानमन्यथा नेत्यन्वय-व्यतिरेकरूपमानान्तरप्राप्तत्वादित्यर्थः । तथापि मोक्षसाधनज्ञानसाधनरूपविशिष्टा-लौकिकवस्तुविचारप्रतिपादनस्याप्राप्तत्वात्सूत्रस्य विधायकत्वं स्यादित्यत आह ॥ कथञ्चिदिति ॥ जिज्ञासाशब्दस्य विचारे रूढिप्रतिपादनमुपसंहरति ॥ तस्मादिति ॥