२० पञ्चपादीयविवरणोक्तविचारशक्त्यसम्भवपरीक्षा

यत्तु पञ्चपादीविवरणयोरुक्तम्

पञ्चपादीयविवरणोक्तविचारशक्त्यसम्भवपरीक्षा

तात्पर्यचन्द्रिका

यत्तु पञ्चपादीविवरणयोरुक्तम् । अवयवशक्त्या ज्ञानेच्छावाचिनो जिज्ञासाशब्दस्य विचारे लक्षणया प्रयोगप्रत्यययोरुपपत्तौ न शक्त्यन्तरकल्पनम् । अनन्यथा-सिद्धकार्यान्तराभावादिति जिज्ञासाशब्दो विचारे लाक्षणिको न तु रूढ इति । तन्न । यतः,

जिज्ञासाशब्दतो हीच्छामज्ञात्वैव विजानते ।

विचारं लौकिकास्तेन तत्रायं रूढ इष्यते ॥

अन्यथा मण्डपादीनां गृहादौ स्यान्न रूढता ।

गङ्गाशब्दात्तु तीरादि तद्धीपूर्वं प्रकाश्यते ॥

तथा हि । जिज्ञासाशब्दान्मीमांसाशब्दादिवेच्छाप्रतीत्यभावेऽपि विचारः प्रतीयते । अन्यथा बुभुत्सापदादपि विलम्बेन तद्धीसम्भवान्नियमेन विचारे जिज्ञासापदं न प्रयुज्येत । स्वीकृतश्च त्वयापि ‘‘विचारसाध्यज्ञानेच्छा जिज्ञासाशब्दात्प्रतीयते । नोपदेशमात्रसाध्यज्ञानविषये’’ति वदता विचारप्रतीतेरिच्छाप्रतीतिपूर्वकत्वाभावः । एवं च तद्विजिज्ञासस्वेत्यादावस्मिंश्च सूत्रे विधौ न लक्षणा ।

प्रकाशिका

जिज्ञासाशब्दस्य विचारे शक्तिं साधयितुं परोक्तं प्रतिक्षेपायानुवदति ॥ यत्त्विति ॥ प्रयोगप्रत्ययान्यथानुपपत्त्या हि शक्तिकल्पनम् । तौ चान्यथोपपन्नावित्यर्थः । प्रयोगप्रत्ययाभ्यामन्यदेव शक्तिकल्पकं किं न स्यादित्यत आह ॥ अनन्यथेति ॥ यतस्तत्र रूढ इष्यते परीक्षकैरतस्तन्नेत्यन्वयः । लौकिका इच्छामज्ञात्वैव व्यवधानं विनैव । विचारं विजानते हि यस्मात्तेनेत्यर्थः । मण्टपादीनां मण्टपादिशब्दानाम् । श्लोकं व्याचष्टे ॥ तथा हीति ॥ मान विचारण इत्यस्मात् ‘‘मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्ये’’ति स्वार्थ एव सनो विधानादिच्छाप्रतीतिं विना विचारः प्रतीयत इति ‘‘मीमांसाशब्दादिव’’ इत्युक्तम् । अत एव वृत्तौ ‘‘मानेर्जिज्ञासायां सन्’’ इत्युक्तमिति भावः । एतेनानन्यधीपूर्वक-विचारप्रतीतिरूपानन्यथासिद्धकार्यं शक्तिकल्पकं वदता तादृशकार्यान्तराभावादिति हेतोरसिद्धिरुक्तेति ध्येयम् ।

नियमेन विचारे जिज्ञासापदप्रयोगोऽनन्यथासिद्धं कार्यं शक्तिकल्पकमित्यभिप्रेत्य तद्व्यतिरेकमुखेनोपपादयति ॥ अन्यथेति ॥ लक्षणया विचारप्रतीतावभिमतायामित्यर्थः । धर्मबुभुत्सा ब्रह्मबुभुत्सेत्युक्तावपि बोधेच्छान्तर्णीतविचारलक्षणासम्भवेऽपि नियमेन जिज्ञासापदं न प्रयुज्येत । प्रयुज्यते च सर्वशिष्टैरतस्तत्र रूढ इति भावः । एतेन झडिति प्रत्ययनियतप्रयोगयोरन्यथानुपपत्तिवर्णनेन प्रयोगप्रत्ययसामान्यस्यान्यथोपपत्तिवर्णनं न प्रकृतोपयुक्तमित्युक्तं भवति । अविलम्बेन विचारप्रतीतिः परस्यापि सम्मतेत्याह ॥ स्वीकृतश्चेति ॥ ज्ञानेच्छाधीदशायामेव ज्ञानहेतुत्वेन विचारस्यापि प्रतीतेर्नेच्छाज्ञानानन्तरं तद्धीरित्यर्थः ॥ ज्ञानविषयेति ॥ इच्छेत्यनुषङ्गः । एवं सति न विधौ परः शब्दार्थ इत्येतदप्यनुकूलितं भवतीत्याह ॥ एवं चेति ॥ तत्र रूढत्वे सतीत्यर्थः।

चन्द्रिकाबिन्दु

अनन्यथासिद्धेति । प्रयोगप्रत्ययलक्षणकार्यस्य विचारविषयस्य लक्षणयोपपत्तिः । अन्यच्च कार्यमनन्यथासिद्धं शक्तिकल्पकं नास्तीति भावः । जिज्ञासा-शब्दतो हीच्छामज्ञात्वैव विजानत इत्यनेन विचारप्रतीतेर् इच्छाप्रतीतिपूर्वकत्वाभाव उपन्यस्तः । स चासिद्ध इत्याङ्क्योपपादयति । तथा हीति ॥ अन्यथेति । इच्छा-प्रतीतिपूर्वकविचारप्रतीत्यङ्गीकारे इत्यर्थः । स्वीकृतश्चेति ॥ जिज्ञासाशब्देन विचार-साध्यज्ञाने इच्छैव प्रतीयते न तु पूर्वज्ञानेच्छा, अनन्तरं ज्ञाने विचारसाध्यत्वं प्रतीयत इति त्वयाप्यङ्गीकृतमिति भावः ।

पाण्डुरङ्गि

परोक्तजिज्ञासाशब्दस्य विचारे लक्षणादिकं ‘‘न च श्रवणादेरस-न्वाच्यते’’ति टीकाविरुद्धत्वादनूद्य दूषयति ॥ यत्त्विति ॥ शक्त्यन्तरकल्पनमिति ॥ अवयवशक्त्यतिरिक्तसमुदायशक्तिरूपशक्त्यन्तरकल्पनमित्यर्थः । जिज्ञासाशब्दस्य विचारे शक्तिः किं प्रयोगप्रत्ययार्थं वाक्यार्थान्तरार्थं वा । नाद्य इत्याह ॥ विचार इति ॥ न द्वितीय इत्याह ॥ अनन्यथासिद्धेति ॥ जिज्ञासाशब्दादिच्छाप्रतीतौ सत्यामेवानुपपत्ति-प्रतिसन्धानपूर्वं विचारः प्रतीयत इति कृत्वा लक्षणा स्वीक्रियते, एवमेव वा । नाद्य इत्याह ॥ जिज्ञासाशब्दादिति ॥ स्वीकृतश्चेति ॥ एतच्च स्वयमेव विवरिष्यति किञ्चेत्यादिना ।