१४ विशिष्टाद्वैत्युक्तातःशब्दार्थपरीक्षा

केचित्तु अथशब्दो जिज्ञासाविशेषणीभूतकालपरः


तात्पर्यचन्द्रिका

केचित्तु अथशब्दो जिज्ञासाविशेषणीभूतकालपरः । न हि ब्रह्मविचारस्य कर्तव्यतामात्रं साध्यं किन्तु धर्मजिज्ञासानन्तर्यविशिष्टम् । अतश्शब्दस्य तु तस्मिन्विशिष्टे साध्ये कर्मणामल्पास्थिरफलत्वनिर्णयसहितो ब्रह्मज्ञानस्यानन्तस्थिर-फलताऽऽपातप्रतीतिरूपो विशिष्टो हेतुरर्थः । ततश्च सार्थकं पदद्वयमित्याहुः । तदपि न । अथशब्दस्योक्तप्रतीत्याऽऽनन्तर्यार्थत्वेऽकारणादानन्तर्योक्तेर्वैयर्थ्येनाथशब्देनैव तस्या हेतुत्वलाभादतःशब्दवैयर्थ्यात् । अथशब्दस्यान्यानन्तर्यार्थत्वे तु नोक्तप्रतीति-हेतुत्ववाचकत्वमतश्शब्दस्य । प्रकृतस्य हेतुत्वार्थोऽतश्शब्द इत्यस्य त्वन्मतस्य भङ्गात् । किञ्च सिद्धे व्युत्पत्त्यभावाद्विचाराकर्तव्यत्वे त्वद्रीत्या पूर्वपक्षिते ब्रह्मविचार-कर्तव्यतामात्रं सिद्धान्तयितव्यम् । न तूक्तानन्तर्यविशिष्टम् । न हि सिद्धे व्युत्पत्त्यभावेऽन्यदापि विचारस्य कर्तव्यता सिध्यति । तदेवं—

अथशब्देनाधिकारमत इत्यमुना फलम् ।

ब्रह्मशब्देन विषयं सूचयामास सूत्रकृत् ॥

प्रकाशिका

कालपर इति ॥ अनन्तरकालपर इत्यर्थः । तदेवाह ॥ न हीति ॥ सार्थकमिति ॥ अथशब्दोक्तादधिकस्यैवातश्शब्देनोक्तेरिति भावः । उक्तं च ‘‘अधीत-साङ्गसशिरस्के’’त्यादि भाष्यव्याख्यावसरे श्रुतप्रकाशे ‘‘न कर्तव्यतामात्रं साध्यधर्मः । अपि त्वानन्तर्यविशिष्टं कर्तव्यत्व’’मिति । तथा ‘‘कर्मविचारानन्तरं च ब्रह्मविचारस्य कर्तव्यत्वे कर्मणामल्पास्थिरफलत्वनिर्णयसहितानन्तस्थिरफलताऽऽपातप्रतीतिरित्ययं विशिष्टो हेतु’’ रिति च । अत्र अतःशब्दोक्तो यो विशिष्टो हेतुस्तदानन्तर्यमथशब्देनोच्यते उत ‘‘कर्मविचारानन्तरं तत एव हेतोर्ब्रह्मविचारः कर्तव्य’’ इति भाष्यानुसारात्कर्म-विचारानन्तर्यमिति विकल्पौ हृदि निधायाद्ये पौनरुक्त्यं तदवस्थमेवेत्याह ॥ अथशब्दस्येति ॥ तस्या उक्तप्रतीतेः । ननु न वैयर्थ्यं, अथशब्देनोक्तप्रतीत्यानन्तर्यार्थकेन हेतुत्वलाभेऽपि तस्योक्तदिशाऽसिद्धिशङ्कायामतश्शब्देन तत्परिहारात् । अत एव श्रुतप्रकाशे एतदेवाशङ्क्य ‘‘अथशब्दाक्षिप्तहेत्वसिद्धिशङ्कापरिहारार्थत्वादतश्शब्दस्ये’’ति समाहितमिति चेन्न । ‘‘अथशब्दोक्तानधिकाभिधायिने’’त्यादिना पूर्वग्रन्थेनैव तस्या निरासादिति भावः । द्वितीये दोषमाह ॥ अथशब्दस्येति ॥ त्वन्मतस्येति ॥ ‘‘अतश्शब्दो वृत्तस्य हेतुभावे’’ इति भाष्ये ‘‘प्रकृतपरामर्शिनैतच्छब्देने’’त्यादिना श्रुतप्रकाशे च तथोक्तेरिति भावः । यदपि धर्मविचारानन्तर्यविशिष्टब्रह्मविचारकर्तव्यत्वं साध्यमिति तदपि नेत्याह ॥ किञ्चेति ॥ ननु विशिष्टाकर्तव्यत्वमेव पूर्वपक्ष्यत इत्यत आह ॥ न हीति ॥

चन्द्रिकाबिन्दु

कालपर इति ॥ अनन्तकालपर इत्यर्थः । विशिष्टे साध्य इति ॥ कर्मविचारानन्तर्यविशिष्टब्रह्मजिज्ञासाकर्तव्यत्वं साध्यम् । अतश्शब्दसूचितहेतुमाह कालकर्मणामिति ॥ उक्तेति ॥ कर्मणामित्यादिनेति शेषः । तदेवमित्यारभ्य ब्रह्मशब्दश्चेत्येकः प्रसङ्गः । परमतमुपक्षेप्तुं स्वमतमादौ दर्शयति ॥ अथशब्देनाधि कारमिति ॥

पाण्डुरङ्गि

रामानुजमतं दूषयितुमनुवदति ॥ केचित्त्विति ॥ ननु ब्रह्मजिज्ञासा-कर्तव्यत्वमात्रस्य साध्यत्वात्कालपरत्वेऽथशब्दवैयर्थ्यं स्यादित्यत आह ॥ न हीति ॥ किन्त्विति ॥ धर्मविचारवत एव ब्रह्मविचारेऽधिकारित्वात्तदानन्तर्यार्थत्वमथशब्दस्येति भावः ॥ अतश्शब्दस्य त्विति ॥ ननु कर्मणामप्यनन्तस्थिरफलत्वात्तद्विचार एव स्यात्किं ब्रह्मविचारेणेत्यत उक्तं कर्मणामिति । ननु कर्मणामिव ब्रह्मज्ञानफलस्याप्यल्पास्थिर-फलत्वात्किं तद्विचारेणेत्यत उक्तं ब्रह्मेति । हेतुसिद्ध्यर्थमाह ॥ आपातेति ॥ आपातप्रतीतिः श्रुत्येति शेषः । तद्रूप इत्यर्थः । अत्र वक्तव्यं धर्मजिज्ञासानन्तर्य-मथशब्दार्थः कुत इति । न च धर्मविचारवत एव ब्रह्मविचारेऽधिकारित्वात्तदर्थत्वमथ-शब्दस्येति वाच्यम् । आदौ धर्मविचारः कर्तव्यः पश्चाद् ब्रह्मविचार इति क्रमे श्रुत्यादि-रूपक्रमप्रमाणाभावात् । अथ कर्मणामल्पास्थिरफलत्वप्रतीत्यर्थं धर्मविचार आदौ कर्तव्य इति चेद् एवं सति कर्मणामल्पास्थिरफलकत्वप्रतीत्यानन्तर्यमेवाथशब्दार्थ उक्तः स्यात् । एवं च सति दूषणमाह ॥ अथशब्दस्येति ॥

ननु अधिकारानन्तर्यमथशब्दार्थोऽस्त्वित्यत आह ॥ अथशब्दस्यान्यानन्तर्यार्थत्वे त्विति ॥ उक्तप्रतीतेः कर्मणामल्पास्थिरफलत्वप्रतीतेर् हेतुत्वं विचारकर्तव्यत्व इति शेषः । कुतो न हेतुत्ववाचकत्वमतःशब्दस्येत्यत आह ॥ प्रकृतस्येति ॥ धर्मजिज्ञासा-नन्तर्यविशिष्टब्रह्मविचारकर्तव्यत्वं साध्यमित्यत्र दूषणान्तरमाह ॥ किञ्चेति ॥ ननु धर्मविचारात्प्रागपि ब्रह्मविचारकर्तव्यत्वप्रतीतिः स्यात् । तदर्थमेवं साध्यं क्रियत इत्यत आह ॥ न हीति ॥ अन्यदापि धर्मविचारात्प्रागपि । उक्तमर्थं कारिकारूढं करोति ॥ तदेवमिति ॥ अतःशब्दब्रह्मशब्दयोर्विशेषतः फलविषयसूचकत्वोक्तिः प्राधान्याभिप्रायेण । अन्यथा प्रागतश्शब्दस्य विषयसिद्धिहेतुयुक्तिसूचकत्वेन विषयसूचकत्वस्योक्तत्वाद् ब्रह्मशब्दस्य निष्प्रयोजनत्वशङ्का स्यात् । प्राधान्येन फलसूचकत्वस्योक्तत्वान्न तद्विरोधः स्यादिति बोध्यम् ।