१३ भामतीविवरणोक्तातश्शब्दार्थपरीक्षा

भामत्यां तु– ‘‘ब्रह्मशब्देन तत्प्रमाणं वेद..

भामतीविवरणोक्तातश्शब्दार्थपरीक्षा

तात्पर्यचन्द्रिका

भामत्यां तु– ‘‘ब्रह्मशब्देन तत्प्रमाणं वेद उपस्थापितोऽत इति परामृश्यते । स च योग्यत्वात्तद्यथेहेत्यादिः । तथा च ब्रह्मज्ञानकर्मणोर्नित्यानित्यफलत्व-प्रतिपादकादागमादिहामुत्र फलभोगविरागादि ततश्च ब्रह्मजिज्ञासा । एवं च नात-श्शब्देन जिज्ञासां प्रति साधनकलापस्य हेतुतोच्यते । येन पौनरुक्त्यम् । किन्तु तत्स्वरूपालाभपरिहारोऽभिधीयते’’ इत्युक्तम् । तन्न । हेतोर्विचारकर्तव्यत्वादिरूप-साध्यान्वयत्यागेन विरागादिसाधनान्वयायोगात् । अथशब्दार्थानन्तर्योपसर्जनस्य विरागस्यातश्शब्दोक्तहेत्वन्वयायोग्यत्वाच्च । अथशब्दोपस्थापितविरागेणैव स्वजन-कस्य तद्यथेत्यादेर्वाक्यस्य साक्षादेवोपस्थापनसम्भवे ब्रह्मशब्देन परम्परयोप-स्थापनोक्त्ययुक्तेश्च । विरागहेतुत्वेन त्वदभिप्रेतसत्यानृतविवेके नेह नानेत्यादेरेव हेतुतया वक्तव्यत्वेन तद्यथेत्याद्युक्त्ययुक्तेश्च ।

विवरणे तु अथशब्दगृहीताया एव साधनकलापस्य ब्रह्मविचारहेतुताया ‘‘अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम्’’ इत्यादिनाऽपवादशङ्कायां प्राप्तायां तन्निराकरणं पुनरथशब्दोक्तहेतुत्वाभिधायिनाऽतश्शब्देन क्रियत इत्युक्तम् । तदपि न । अथशब्दोक्तानधिकाभिधायिनाऽपवादशङ्कानिरासेऽथशब्देनैव तन्निरासप्रसङ्गात् । हेतुत्वसाधकहेतोः कथन एवापवादशङ्कानिरासः न तूक्तस्यैव हेतुत्वस्य पदान्तरेण कथन इति दिक् ।

प्रकाशिका

परोक्तमतश्शब्दार्थं निराह ॥ भामत्यां त्विति ॥ अत इतीति ॥ अत इत्यत्र प्रातिपदिकेनेत्यर्थः । तर्हि सर्वे वेदान्ता अतश्शब्देन परामृश्येरन्नित्यत आह ॥ योग्यत्वादिति ॥ अतश्शब्दोक्तहेतुत्वान्वये शक्तत्वादित्यर्थः । ‘‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’’ इत्यादिः कर्मणोऽनित्यफलकत्वबोधकः, ‘‘ब्रह्मविदाप्नोति परम्’’ इत्यादिर्ब्रह्मज्ञानस्य नित्यफलत्वबोधकः ॥ एवं चेति ॥ यद्यपीदं भामत्यां न स्पष्टम् । तथापि कल्पतरावुक्तत्वादेवमुक्तम् ॥ तत्स्वरूपेति ॥ जिज्ञासां प्रति वैराग्यादिरूपसाधनकलापस्वरूपालाभपरिहार इत्यर्थः । अन्यथा अनुकूलवेदनीये लौकिके ‘‘यन्न दुःखेन सम्भिन्नम्’’ इत्यादेर्दुःखासम्भिन्ने आमुष्मिके च सुखे न विरज्येतेति वैराग्यादिस्वरूपं दुर्लभं स्यात् । अक्षय्यवाक्यान्नित्यत्वज्ञानेन विवेकोऽपि न स्यादिति भावः ।

हेतोरिति ॥ अतो ब्रह्मजिज्ञासेत्यत्रातश्शब्दार्थस्य हेतोर्जिज्ञासाकर्तव्यत्वरूपप्रधान-साध्यान्वयः, तस्मादनित्यः शब्द इत्यादाविव स्पष्टं प्रतीयत इति प्रतीतस्यास्मदुक्तरीत्या योग्यस्य साक्षात्प्रधानसाध्यान्वयस्य त्यागेन जिज्ञासासाधनीभूतवैराग्यादिरूपाप्रधान-साध्यान्वयो न युक्त इत्यर्थः । यद्यपि तन्मते यथाश्रुते कर्तव्यपदाध्याहाराभावाज्जिज्ञासा कर्तव्येति नार्थः । तथापि जिज्ञासा ज्ञानेच्छा भवितुं युक्तेति श्रौतार्थे सति अर्थाद्विचार-कर्तव्यत्वं प्राप्तमित्येवमुक्तम् । नन्वन्यस्याप्रकृतत्वादथशब्दार्थानन्तर्यप्रतियोगिनो वैराग्या-देरेवात इति हेतुत्वोक्तौ पौनरुक्त्यापत्तेर्ब्रह्मपदोपस्थापितप्रमाणस्यैव योग्यस्याथपदोप-स्थापितवैराग्यादौ हेतुत्वमुच्यत इति चेन्न । अन्यस्य प्रकृतत्वस्य प्रागेव बहुधा प्रतिपादि-तत्वात् । दोषान्तरं चाह ॥ अथशब्दार्थेति ॥ उपसर्जनस्य आनन्तर्यविशेषणस्य ।

ननु वैराग्यादेस्स्वरूपालाभे साधनाभावेन जिज्ञासायोगादेवमुक्तमित्यत आह ॥ अथशब्देति ॥ आनन्तर्यप्रतियोगित्वेनोपस्थापितेत्यर्थः ॥ सम्भव इति ॥ अत एव भगवता भाष्येऽथपदव्याख्यावसर एव ‘‘आब्रह्मस्तम्बपर्यन्तम्’’ इति ‘‘परीक्ष्य लोकान्’’ इत्यादि प्रमाणमुक्तमिति भावः ॥ परम्परयेति ॥ ब्रह्मोपस्थितिद्वारा प्रमाणस्योप-स्थापनादिति भावः । यदपि ‘‘योग्यत्वात्तद्यथेत्यादिः’’ इत्युक्तं तदपि नेत्याह ॥ विरागेति ॥ ‘‘नित्यानित्यवस्तुविवेकः’’ इत्यादिभाष्यव्याख्यायां ‘‘नित्यः प्रत्यगात्मा’’ इत्यादिना तथैव त्वयोक्तत्वादिति भावः ॥ विवरणे त्विति ॥ अथशब्दार्थानन्तर्य-प्रतियोगिनो वैराग्यादिसाधनचतुष्टयस्यैवात इति हेतुत्वमुच्यते । ‘अथ’ साधनकलापा-नन्तरं, ‘अतः’ साधनकलापादिति ।

न च कारणादानन्तर्यस्याव्यवधेरव्यभिचाराच्च मुख्यत्वेन, तेनैव वैराग्यादेर्हेतुत्व-लाभात्पुनरुक्तिरिति वाच्यम् । अक्षय्यवाक्येन कर्मजन्यसुखस्य नित्यत्वावगमेन ब्रह्म-ज्ञानफलं नित्यमन्यफलमनित्यमिति विवेकस्य तद्धेतुकवैराग्यादेश्चायोगेन विवेकादि-साधनकलापस्य न विचारहेतुत्वमित्यपवादशङ्कानिरासार्थत्वेनापौनरुक्त्यात् । दृश्यन्ते चापवादनिरासार्था अपि ‘‘मृडमृदे’’त्यादि विधय इति दूष्यांशस्यार्थः ॥ इति दिगिति ॥ अयं भावः । विचारकर्तव्यत्वरूपप्रधानसाध्येऽपेक्षितसप्रयोजनत्वादिस्वतन्त्रहेतुसमर्पण-परत्वसम्भवे आनन्तर्योपसर्जनस्य हेतुतया प्राप्तस्यातश्शब्देन हेतुत्वोक्तेरयुक्तत्वात् । अथशब्दोपस्थापितवैराग्यादिनैव स्वजनकस्य कृतकत्वरूपोपपत्त्युपबृंहितत्वेन प्रबलस्य ‘‘तद्यथेह कर्मचितो लोकः क्षीयते’’ इत्यादिवाक्यस्योपस्थापनेन तत एवापवादशङ्का-निराससम्भवाच्च जिज्ञासाकर्तव्यतायामपेक्षितहेतोरवश्योपन्यसनीयस्य सप्रयोजनत्वादेरनुप-न्यासे जिज्ञासाकर्तव्यत्वासिद्धेश्च । अयं च दोषः प्राचीनमतेऽपि बोध्यः । न च मतद्वयेऽपि जिज्ञासापदेनैव प्रयोजनादेर्विचारकर्तव्यताहेतोर्लाभ इति वाच्यम् । निरसिष्य-माणत्वात् । हेतुपरेणातःपदेनैव फलादेर्हेतोः कथनस्यौचित्याच्चेत्यादि ध्येयमिति ।

चन्द्रिकाबिन्दु

भामत्युक्तपुनरुक्तिपरिहारं निराकर्तुं तदुपायमनुवदति । भामत्यामिति ॥ अथशब्दलब्धमित्यर्थः । वेद इति ॥ वेदान्त इत्यर्थः । सर्ववेदान्तस्य कर्मफलवैराग्योत्पादकत्वं नास्तीत्याशङ्क्य योग्यत्वाद्वेदान्तैकदेशो गृह्यत इत्यभिप्रेत्याह । स चेति ॥ ‘तद्यथेह कर्मचितो लोकः’ इत्यादिवाक्यं ग्राह्यम् । विरागादि उत्पद्यत इति शेषः । एवं चेति ॥ अथशब्देन यत्साधनचतुष्टयमुक्तं तत्साधनचतुष्टयस्याकरणादा-नन्तर्योक्त्ययोगादिति न्यायसहकृतेन अथशब्देन सूचिता या हेतुता सा नातश्शब्देन सूच्यते । येन पुनरुक्तिः । किन्तु वैराग्यस्वरूपालाभप्रयुक्ता हेतुत्वशङ्कानिरासकागमा-दित्यर्थ इति कृत्वा शङ्काविशेषनिरासार्थम् उपात्तस्यातश्शब्दस्य न पौनरुक्त्यमिति भावः । अयोगादिति ॥ अतश्शब्दसूचितस्य हेतोर्जिज्ञासान्वयः स्वरस इति भावः । अथ-शब्दार्थेति ॥ अथशब्दार्थभूतं यदानन्तर्यं तदुपसर्जनतया इत्यर्थः । पदार्थः पदार्थेन सम्बध्यते न तु तदेकदेशेनेति व्युत्पत्तेरिति भावः । त्वदभिप्रेतेति ॥ त्वया नित्यानित्यपदस्य सत्यानृतपरतया व्याख्यानादिति भावः । ‘‘अक्षय्यं ह वा’’ इत्यनेन वाक्येन कर्मफलस्य नित्यत्वप्रतिपादनेन तत्र वैराग्यासम्भवे तदानन्तर्यमथशब्देन वक्तुं न शक्यते इति भावः । अक्षय्यमिति वाक्यम् अर्थवाद इत्यभिप्रेत्याह । दिगिति ॥

पाण्डुरङ्गि

एवं स्वीयमतःशब्दव्याख्यानं समर्थ्य परकीयतद्व्याख्यानमनूद्य दूषयति । भामत्यां त्विति ॥ तत्प्रमाणमिति ॥ ब्रह्मणि प्रमाणमित्यर्थः । ब्रह्मशब्दस्य वेद-वाचकत्वेन तेन तदुपस्थापनमिति भावः । तर्हि सकलवेदान्ताः परामृश्येरन्नेत्याह ॥ योग्यत्वादिति ॥ अतःशब्दोक्तहेतुत्वसमर्थनयोग्यत्वादित्यर्थः । ननु तद्यथेहेत्यस्योपस्थापनं कुत इत्यत आह ॥ स च योग्यत्वादिति ॥ ततश्चेति ॥ विरागादेरित्यर्थः ॥ किं त्विति ॥ तस्य शमादेर्यत्स्वरूपं तस्यालाभो ऽसिद्धिरित्यर्थः ॥ विरागादिसाधनान्वया-योगादिति ॥ विरागादिमज्जिज्ञासासाधनं तदन्वयायोग्यत्वादित्यर्थः । तथा च प्रधान-साध्येन स्वारसिकाकाङ्क्षायाः सत्वेन तेनैवातःशब्दस्यान्वयो न तु विरागादिसाधनेन । तेन स्वारसिकाकाङ्क्षाभावादिति भावः ॥ अथशब्दार्थेति ॥ तथा चान्यविशेषणत्वेनोपस्थितस्य नान्यविशेषणान्वये योग्यत्वमिति भावः ॥ परम्परयेति ॥ ब्रह्मशब्देन तत्प्रमाण-वेदोपस्थापनं, तेन च तज्ज्ञानसाधनवैराग्यसाधनवाक्योपस्थापनं, तेन विरागसिद्धिरित्येवं परम्परयोपस्थापनोक्त्ययोगादित्यर्थः ।

किञ्च नेहनानेति वाक्यमेव त्वयोदाहर्तव्यम् । तस्यैव विरागहेतुसत्यानृतविवेकहेतुत्वेन त्वदभिमतत्वात् । न तु तद्यथेहेत्यादीत्याह ॥ विरागहेतुत्वेनेति ॥ विवरणोक्तपौनरुक्त्य-परिहारं दूषयितुमनुवदति ॥ विवरणे त्विति ॥ ‘‘अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति’’ इत्यादिश्रुत्या कर्मणामप्यनन्तस्थिरफलकत्वोक्त्या कर्मणामल्पास्थिरफलकत्वं, ब्रह्मज्ञानस्य स्थिरफलकत्वमित्येवंरूपजिज्ञासाहेतुभूतनित्यानित्यविवेकादेरभावान्न विचारः कर्तव्य इति भावः ॥ अपवादशङ्कायामिति ॥ चातुर्मास्यादिकमेव कर्तव्यं तेनैव मोक्षप्राप्तिर्भविष्यति किं ब्रह्मजिज्ञासया इत्यपवादशङ्कायामित्यर्थः ॥ अतश्शब्देनेति ॥ उक्तस्यैव पुनः शब्दान्तरेणोक्तौ दार्ढ्येन शङ्कानिराकरणं भवतीति भावः । अत्र वक्तव्यं किमथशब्देनोक्तमेवातःशब्देनोच्यते ततोऽधिकं किञ्चित् । नाद्य इत्याह ॥ अथशब्दोक्तेति ॥ ननूक्तस्यैव हेतुत्वस्य पदान्तरेण कथने दार्ढ्यहेतुत्वेन शङ्कानिराकरणमित्युक्तमत आह ॥ हेतुत्वसाधकेति ॥ वैराग्यादेर्जिज्ञासाहेतुत्वसाधकहेतोरित्यर्थः । द्वितीयं दूषयति ॥ दिगिति ॥ भिन्नार्थत्वे च तेनैव पौनरुक्त्यासम्भवे अपवादशङ्कानिराकरणमनर्थकं स्यादिति भावः ।