केचित्तु नित्यानित्यवस्तुविवेकादीनि..
विशिष्टाद्वैत्युक्ताथशब्दार्थपरीक्षा
तात्पर्यचन्द्रिका
केचित्तु नित्यानित्यवस्तुविवेकादीनि न ब्रह्ममीमांसाधिकारिविशेषणानि । तेषां तत्साध्यत्वेनान्योन्याश्रयात् । न च ब्रह्मज्ञानफलमेव नित्यमन्यदनित्यमिति विवेको वैशेषिकादिशास्त्रान्तरात् । प्रथममेवाध्ययनविधिवश्यतया पुरुषस्य शास्त्रान्तरा-नवकाशात् । तत्रोक्तनित्यानित्यविवेकस्य वेदान्तविरुद्धत्वाच्च । नापीतिहास-पुराणादिना । विचारात्प्राक् तेन तदनिश्चयात् । अन्यथा ब्रह्मनिश्चयोऽपि तेनैव स्यात् ।
शमदमादीनि तु निदिध्यासनाङ्गानि । ‘‘तस्मादेवंविच्छान्तो दान्त उपरत-स्तितिक्षुः समाहितो भूत्वाऽत्मन्येवात्मानं पश्येत्’’ इति श्रुतावेवंविच्छब्देन शास्त्रजन्यज्ञानमनूद्य पश्येदिति निदिध्यासनाङ्गतया तेषां विधानात् । न तु विचाराङ्गानि । इहैव विचारशास्त्रे ‘‘शमदमाद्युपेतः स्यात्’’ इत्यत्र तद्विधाना-दित्याहुः । तन्न । ‘‘यत्त्वादौ श्रद्धया सिद्धं पुनर्न्यायेन साधितम्’’ इति न्यायेन ‘‘अनित्यत्वात्सदुःखत्वान्न धर्माद्याः परं सुखम् । मोक्ष एव परानन्दः’’ इत्यादीतिहासादिना वा, ‘‘नास्त्यकृतः कृतेन’’ इत्यादिश्रुतित आपाततो वा, श्रुतिमूलहितैषिपित्रादिवाक्येन वा, श्रवणेन वा मननात्मकविचारात्प्रागपि श्रद्धामात्रेण नित्यानित्यविवेकसिद्धेः ।
अन्यथा त्वन्मतेऽप्यपशूद्रमधिकारे ज्ञातेऽशूद्रस्यैतच्छास्त्रविचारे प्रवृत्तिः, प्रवृत्तौ चैतच्छास्त्रेणापशूद्रमधिकार इत्यन्योन्याश्रयः स्यात् । तथाऽध्ययनविधावप्यधीते स्वाध्याये ‘‘अष्टवर्षं ब्राह्मणम्’’ इत्यादिवाक्येनाष्टवर्षत्वादेरधिकारिविशेषणत्वज्ञानं, तज्ज्ञाने चाध्ययने प्रवृत्तिरित्यन्योन्याश्रयः स्यात् । तथा ब्रह्मज्ञानस्यानन्तस्थिर-फलत्वनिश्चये तदर्थिनो ब्रह्मविचारे निश्शङ्कप्रवृत्तिः, विचारेण च तन्निश्चय इत्यन्योन्याश्रयः स्यात् ।
फलज्ञानं सम्भावनात्मकं चेद्विवेकोऽपि तथाऽस्तु । यद्यपि त्वन्मते पूर्वप्रवृत्तेन कर्मविचारेण कर्मणामल्पास्थिरफलत्वं निश्चितं तथापि न तन्निश्चय एव नित्यफलार्थिनो ब्रह्मविचारे प्रवृत्तिहेतुः । भिन्नविषयत्वात् । अतिप्रसङ्गाच्च । नापि कर्मणामल्पास्थिरफलत्वनिश्चयसहितो ब्रह्मज्ञानस्यापाततोऽनन्तस्थिरफलसन्देह-स्तद्धेतुः । अन्यस्यानुपायत्वनिश्चयेन ततो निवृत्तिमात्रसिद्धावपि तस्योपायत्वानिश्चये तदुपेयार्थिनस्तत्र निश्शङ्कमप्रवृत्तेः । ‘‘एवंवित्’’ इति वाक्येन शमादीनां निदिध्यासनाङ्गत्वेऽपि ‘‘प्रशान्तचित्ताय शमान्विताय प्रोवाच तां तत्वतो ब्रह्मविद्याम्’’ इत्यादिवाक्यावगतं श्रवणाङ्गत्वं च न विरुद्धम् । किञ्च ‘‘परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन तद्विज्ञानार्थं सगुरुमेवाभिगच्छे’’दित्यादौ विवेकादीनां श्रवणाङ्गोपसत्तेः पूर्वभावश्रुतेः कथं श्रवणानन्तरभावित्वम् । न च नित्यानित्यविवेकमात्रं विचारफलं येन तद्वैयर्थ्यं स्यात् । तस्मादथशब्दस्याधिकारानन्तर्यमेवार्थस् तदर्थत्वं च स्वमत एव युक्तं न तु परमत इत्यभिप्रेत्याह भाष्यकारः ॥ ‘‘अधिकारानन्तर्यार्थश्चेति ॥’’
प्रकाशिका
नित्यानित्येति ॥ आदिपदाच्छमादिग्रहः ॥ अन्योन्याश्रयादिति ॥ ब्रह्मज्ञानफलं नित्यमन्यफलमनित्यमिति विवेको विचारस्त्रसम्पाद्य इति कृत्वा विवेके सत्यधिकारसम्पत्त्या शास्त्रे प्रवृत्तिस्तत्प्रवृत्त्यनन्तरं च विवेकसम्पत्तिरित्यन्योन्या-श्रयादित्यर्थः ॥ शास्त्रान्तरादिति । सिद्ध्यतीति शेषः । येन नान्योन्याश्रय इति भावः । विवेक इत्येव वक्तव्ये ब्रह्मज्ञानेत्यादिना तद्विवरणं तद्विरोधस्फोरणाय । अत एवाह ॥ तत्रोक्तेति ॥ नापीति ॥ विवेक इत्यनुषङ्गः । निरस्यति ॥ विचारादिति ॥ तथा च विचारे प्रवृत्त्यनन्तरं तेनेति हासाद्यर्थनिर्णये ततो विवेकसिद्धिस्तत्सिद्ध्यनन्तरं च विचारे प्रवृत्तिरित्यन्योन्याश्रय एवेत्यर्थः ॥ अन्यथेति ॥ विचारं विनैवापाततो विवेक-सिद्धावित्यर्थः ।
शमादेरपि विचाराङ्गत्वं प्रागादिपदेन निरस्तमपि स्पष्टं निरस्यति ॥ शमेति ॥ यद्वा प्रागधिकारिविशेषणत्वं निरस्तम् । तदेव कुत इत्यतोऽनंगत्वादिति भावेनाङ्गत्वं निरस्यति ॥ शमेति ॥ शास्त्रजन्येति ॥ विचारजन्येत्यर्थः ॥ शमेति ॥ शमदमाद्युपेतः स्यात्तथापि तु ‘‘तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वा’’दिति सूत्रे तृतीये विधाना-दित्यर्थः । तथा च शास्त्रे प्रवृत्त्यनन्तरं शमादिविधिदृष्ट्या तत्सम्पादनं तत्सम्पत्त्यनन्तरं शास्त्रे प्रवृत्तिरित्यन्योन्याश्रय इति भावः । श्रद्धया आस्तिक्यबुद्ध्या । न्यायेनेत्यादि तृतीयांतानां विवेकसिद्धेरित्यन्वयः । धर्मादीनां परमसुखत्वाभावे हेतुद्वयमनित्यत्वा-दित्यादि । तथा च सयुक्तिकत्वान्निश्चायकत्वमस्येति भावः । संसारे परिवर्ततामिति वाक्यशेषः । अकृतो नित्यपुमर्थो मोक्षः कृतेन कर्मणा न सिद्ध्यतीत्यर्थः । ननु विनाविचारं श्रुत्यर्थो न निर्णीत इत्यत उक्तमापातत इति । वाक्येऽप्रामाण्यव्युदासायोक्तं श्रुतीति । श्रवणेन औपदेशिकवाक्यार्थग्रहणरूपेण ॥ सिद्धेरिति ॥ तथा च नान्योन्याश्रय इति भावः ॥ अपशूद्रमिति ॥ ‘‘अपपरिबहिरञ्चवः पञ्चम्ये’’त्यव्ययीभावः । ‘‘शुगस्य तदनादरश्रवणात्’’ इति नये शूद्रस्याधिकारनिषेधादिति भावः ॥ अधिकार इति ॥ अधिकारज्ञानमित्यर्थः । अत उक्तैव रीतिरुपेयेति भावः ।
ननु न ब्रह्मज्ञानं नित्यफलमिति निश्चित्यात्र प्रवर्तते । येनोक्तदोषः । किन्तु प्रायेण नित्यफलं भवितुमर्हतीत्युत्कटकोटिकसंशयादेवेत्याशङ्क्य मोक्षोऽपि नित्यो भवितु-मर्हतीत्येवंरूपादेव ज्ञानादत्रापि प्रवृत्तिः स्यादित्याह ॥ फलेति ॥ भिन्नेति ॥ कर्मणामनित्यफलत्वनिश्चयेन नित्यपुमर्थिनस् ततो निवृत्तावपि यावद्ब्रह्मज्ञानस्य न नित्यफलं निश्चितं तावद्ब्रह्मविचारे प्रवृत्तिर्न युक्तेत्यर्थः ॥ अतिप्रसङ्गाच्चेति ॥ वात्स्यायनादावपि प्रवृत्तिप्रसङ्गात् । कृषेर्धान्यफलकत्वनिश्चयेन ज्योतिष्टोमादौ स्वर्गार्थिनः प्रवृत्तिप्रसङ्गादित्यर्थः ॥
निश्चयसहित इति ॥ अतो भिन्नविषयत्वमिति भावः । अन्यस्य कर्मणः । तस्य ब्रह्मज्ञानस्य । तत्र ब्रह्मज्ञानजनकविचारे । एतदुक्तं भवति । ब्रह्मज्ञानस्यानन्तस्थिर-फलत्वसन्देहेन ब्रह्मविचारे सशङ्कप्रवृत्तौ सम्भवन्त्यामपि न निश्शङ्कप्रवृत्तिः । तस्याश्च तथाविधफलहेतुत्वनिश्चयसाध्यत्वात् । तस्य च विचारमन्तरेणासिद्धेरन्योन्याश्रयो दुर्वार इत्युक्तैव रीतिराश्रयणीयेति । एवं नित्यानित्यवस्तुविवेकस्य ब्रह्मविद्याधिकारिविशेषणत्वं समर्थ्य शमादेरपि तत्त्वं समर्थयते ॥ एवंविदितीति ॥ यथा ह्येकस्यैव दध्यादेर्वचनात् क्रत्वर्थत्वं पुरुषार्थत्वं च तद्वदिति भावः ॥ परीक्ष्येति ॥ कर्मापादितान् विष्णुलोकेतरान् लोकानसाराननित्यतया निश्चित्य ब्राह्मणो वैराग्यं सम्पादयेत् । यतोऽकृतो मोक्षः कृतेन कर्मणा नसिद्ध्यति किन्तु ज्ञानेन, तस्माद्विज्ञानार्थं गुरुमुपगच्छेदित्यर्थः ॥ श्रवणेति ॥ विचारानन्तरभावित्वमिति वाच्येऽप्येवमुक्तिस्तस्य श्रवणाङ्गत्वमप्यस्तीति वक्तुम् । ननु विवेकादेर्विचारात्प्राक् सिद्धत्वेन विचारोऽनर्थक इत्यत आह ॥ न चेति ॥ वासुदेव-महामहिमादेरपि वर्णनादिति भावः । प्रतिवचनाद्यभावेऽपीत्यादिना प्रतिपादितमर्थ-मुपसंहरन्भाष्यारूढं करोति ॥ तस्मादिति ॥ प्रारम्भाद्यर्थकत्वासम्भवादित्यर्थः ।
चन्द्रिकाबिन्दु
ब्रह्ममीमांसैकसाध्यत्वमेव नित्यानित्यविवेकस्येति दर्शयितुम् अन्य-साध्यत्वं निराकरोति ॥ न चेति ॥ अन्यदपि वैशेषिकादिशास्त्रम् इतिहासादिकं वा । आद्यं निरस्य द्वितीयं च निरस्यति नापीत्यादिना ॥ इहैवेति ॥ ब्रह्ममीमांसात्मकविचारशास्त्र इत्यर्थः । इति न्यायेनेति ॥ अस्य ‘‘श्रद्धामात्रेण नित्यानित्यविवेकसिद्धेः’’ इत्यनेन सम्बन्धः । स्वरूपश्रद्धायाः कथं विवेकहेतुत्वमित्याशङ्क्य उपोद्बलकवाक्यबलादभिव्यक्तिः सम्भवतीत्यभिप्रेत्य श्रद्धोपोद्बलकत्वेन वाक्यानि पठति अनित्यत्वादित्यादीतिहासादिनेति ध्येयम् । तदभिप्रेतब्रह्ममीमांसाधिकारिविशेषणविषयेऽन्योन्याश्रयं दर्शयति ॥ तथा ब्रह्मज्ञानस्येति ॥ अन्यस्येति ॥ अनन्तस्थिरफलं प्रति कर्मणो ऽनुपायत्वनिश्चयेऽपि ब्रह्मज्ञानस्य हेतुत्वनिश्चयाभावेन तदर्थविचारे निष्कम्पनप्रवृत्तिर्न स्यादित्यर्थः । श्रवणाङ्गोपसत्तेरिति ॥ श्रवणाङ्गगुरूपसत्तिपूर्वभावित्वोक्तेरित्यर्थः । स्वोक्तनिराकरणस्य भाष्यारूढत्वं योजनाभेदेन द्रष्टव्यमित्यभिप्रेत्याह तस्मादिति ॥
पाण्डुरङ्गि
यत्त्वादाविति ॥ अस्मिन्पक्षे ब्रह्मविचारवैयर्थ्यमिति परोक्तदोषपरिहाराय पुनर्न्यायेनेति न्यायांशोऽप्युदाहृतः ॥ अन्यथेति ॥ उक्तप्रकारैः परिहारानादरेण अधिकारिविशेषणानां शास्त्रसाध्यत्वमात्रेणोक्तान्योन्याश्रय इत्यर्थः । शास्त्रसाध्यस्य शास्त्र-प्रवर्तकत्वं नेत्येवोक्तावन्योन्याश्रये व्याप्त्यङ्गीकारे आद्यस्तर्कः । तत्र व्याप्तिभङ्गश्च । अधिकारिविशेषणत्वे न विशेषणे त्वाह ॥ तथेति ॥ ब्रह्मविचाराधिकारिविशेषणत्वे त्वाह ॥ तथेति ॥ शमादीनां श्रवणाङ्गत्वं किं बाधकसद्भावान्नाङ्गीक्रियते साधकाभावाद्वा । नाद्यः । तदभावात् । न च श्रमादेर्निदिध्यासनाङ्गत्वप्रतिपादक ‘‘एवंविच्छान्तो दान्त उपरतो भवेत्’ इति श्रुतिरेव बाधिकेति वाच्यम् । तस्याः शमादेर्निदिध्यासनाङ्गत्व-मात्रसाधकत्वेनान्याङ्गत्वनिषेधकत्वाभावादित्याह ॥ एवंविदिति ॥ न द्वितीय इत्याह ॥ प्रशान्तेति ॥ एवं श्रवणाङ्गत्वं प्रसाध्य तदनङ्गीकारे बाधकमाह ॥ किञ्चेति ॥ नन्वेवं विचारवैयर्थ्यम् । तत्फलस्य ज्ञातत्वात् । तस्मात् श्रुतमप्यङ्गत्वं विचारवैयर्थ्यान्नाङ्गीकार्य-मित्यत आह ॥ न चेति ॥