०९ अद्वैत्युक्ताथशब्दार्थपरीक्षा

ननु प्रतिवचनाद्यभावेन प्रश्नाद्यर्थत्वासम्भवेऽपि

अद्वैत्युक्ताथशब्दार्थपरीक्षा

तात्पर्यचन्द्रिका

ननु प्रतिवचनाद्यभावेन प्रश्नाद्यर्थत्वासम्भवेऽपि ‘‘अथशब्दानुशासनम्’’ इत्यादा-विवारम्भरूपाधिकारार्थोऽथशब्दः कस्मान्न स्यात् । अत्र परेषां भाष्यं ‘‘ब्रह्मजिज्ञासाया अनधिकार्यत्वा’’दिति । तन्न । इच्छाया आरभ्यत्वासम्भवेऽपि विवरणरीत्या जिज्ञासाशब्दस्य विचारलक्षकत्वे तस्यारभ्यत्वसम्भवात् । ननु आनन्तर्याभिधानमुखेन शास्त्रीयस्याधिकारिणो न्यायतः समर्पणाभावे विचारो निरधिकारिकोऽननुष्ठेयः स्यादित्यधिकारितद्विशेषणप्रयोजनलाभायानन्तर्यार्थतेति चेत् । न तावद्विचारविधौ त्वत्पक्षे मुमुक्षुरधिकारी मोक्षश्च फलमिति युक्तम् । विचारो मोक्षसाधनतया न प्राप्त इति तद्विधेरपूर्वविधित्वापातात् । मुमुक्षोरपि ज्ञानकामनां विना विचारेऽप्रवृत्तेः । त्वन्मते च वक्ष्यमाणरीत्या ज्ञानकामनानुपपत्तेश्च ।

प्रकाशिका

एवमोङ्कारव्याख्यानं समर्थ्य अधिकारानन्तर्यार्थो ऽयमथशब्द इत्यथ-शब्दव्याख्यानं समर्थयितुमाक्षिपति ॥ नन्विति ॥ ‘‘मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथे’’त्यभिधानात् प्रतिवचनाभावेन ‘‘अथ भगवन्तं ब्रूते’’त्यादाविव प्रश्नार्थत्वायोगेऽपि कार्त्स्न्येन ब्रह्मविचारकरणस्य बाधेन तदर्थकत्वायोगेऽपि मङ्गलस्य वक्ष्यमाणदिशा वाच्यार्थत्वाभावेऽप्यारम्भार्थत्वं किं न स्यादित्यर्थः । आदिपदात् ‘अथ योगानुशासनम्’ इत्यादेर्ग्रहणम् । एवमाक्षिप्तस्य स्वयं समाधानं करिष्यन्यदत्राद्वैतिनां परिहारभाष्यं ‘‘तत्राथशब्द आनन्तर्यार्थः परिगृह्यते । नाधिकारार्थः । ब्रह्मजिज्ञासाया अनधिकार्य-त्वात् । मङ्गलस्य च वाक्यार्थे समन्वयाभावादर्थान्तरप्रयुक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवति । पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेका’’दित्यन्तं (भाष्यं) क्रमेण दूषयितुं ‘अनधिकार्यत्वात्’ इत्युक्तं तावद्दूषयितुमनुवदति ॥ अत्रेति ॥ इच्छाया इति ॥ जिज्ञासापदमुख्यार्थभूतज्ञानेच्छाया इत्यर्थः ।

अत एव भामत्यां लक्षितविचारारम्भार्थत्वमथशब्दस्य भविष्यतीति मत्वा ‘‘न च स्वार्थपरत्वस्योपपत्तौ सत्यामन्यार्थकल्पना युक्ते’’ति तल्लक्षकत्वमेव निरस्तम् । अवतारितं च कल्पतरौ तथैवेति ॥ परभाष्यस्याभिप्रायान्तरमाशङ्कते ॥ नन्विति ॥ सत्यमेवं तथापि मन्मत एवेदं युज्यते न तु त्वन्मत इति भावेन तन्मतं दूषयितुं किं मुमुक्षरधिकारी मोक्षः फलम् उत ब्रह्मज्ञानकामोऽधिकारी ब्रह्मज्ञानं च फलं, अथापरोक्षज्ञानकामोऽधिकारी ब्रह्मापरोक्षज्ञानं च फलं, यद्वा अप्रतिबद्धब्रह्मापरोक्षज्ञानकामोऽधिकारी तादृशज्ञानं च फलं, अथवा ब्रह्मेतरानवच्छिन्नब्रह्मापरोक्षज्ञानकामोऽधिकारी तादृशज्ञानं च फलमिति पञ्चपक्षान्हृदि निधायाद्यं तावद्दूषयति ॥ न तावदिति ॥ ज्ञानहेतुत्वेन विचारस्य लोकतोऽवगमेऽपि मोक्षोद्देशेन विचारविधावपूर्वविधित्वमेव स्यात् । न चेष्टापत्तिः । त्वया नियमविधित्वाङ्गीकारादिति भावः । मोक्षःफलमित्यंशं निरस्य मुमुक्षुरधिकारीत्यंशं निरस्यति ॥ मुमुक्षोरिति ॥ विचारस्य ज्ञानद्वारेणैव मोक्षहेतुत्वादिति भावः ।

चन्द्रिकाबिन्दु

॥ प्रश्नाद्यर्थत्वासम्भवेऽपीति ॥ आदिशब्देन कार्त्स्न्यं ग्राह्यम् ॥ आरम्भरूपाधिकारार्थ इति ॥ परभाष्यानुसारेणारम्भे अधिकार्यंशशब्दप्रयोग इति ध्येयम् । अत्र स्वयम् ‘उच्यते’ इत्यादिना परिहारं वक्तुं प्रकृतभाष्योक्तं समाधानं तद्व्याख्यानरीत्याऽयुक्तमिति दर्शयितुमेतच्छङ्कापरिहारत्वेनादौ परभाष्यं लक्षयति ॥ अत्र परेषामिति ॥ अनधिकार्यत्वादिति ॥ जिज्ञासाया अपुमर्थत्वेन अनारब्धव्यत्वा-दित्यर्थः ॥ न्यायतः सूत्रतः ॥ तद्विशेषणप्रयोजनेति ॥ मोक्षलक्षणं प्रयोजनं, ममुक्षु-रधिकारीत्युक्त्या अधिकारिविशेषणत्वेन लभ्यत इति भावः । त्वत्पक्षे विवरणपक्षे । अपूर्वविधित्वापातादिति ॥ श्रोतव्य इति विधेर्नियमविधित्वेन परेणाङ्गीकृततया अपूर्व-विधित्वानङ्गीकारादिति भावः ॥ ज्ञानकामनां विना इति ॥ मोक्षस्य ज्ञानसाध्यत्वेन तत्कामनायां ज्ञानकामनां विनाऽसम्भवादिति भावः ॥ वक्ष्यमाणरीत्येति ॥ नापि विचारविधावित्यादिनेति शेषः ।

पाण्डुरङ्गि

इदानीमथशब्दाभिधेयोक्तिपरम् ‘आनन्तर्यार्थश्च’’ इति भाष्यं व्यर्थम् अभिधेयान्तरप्रसक्तेस्तत्रानुपपत्तेश्चाभावादित्याशङ्क्य तत्र प्रसक्तिं तत्र परोक्तानुपपत्ति-निरासपूर्वकमनुपपत्तिमाह ॥ ननु प्रतिवचनादीति ॥ जिज्ञासाप्रारम्भ एवाथशब्दार्थः किं न स्यादिति वदन्प्रष्टव्यः, इच्छायाः प्रारम्भो नाम कर्तव्यता उत प्रतिपाद्यता । नाद्य इत्याह ॥ जिज्ञासाया इति ॥ इच्छाया विषयसौन्दर्यलभ्यत्वेनाकर्तव्यत्वादित्यर्थः । न द्वितीय इत्याह ॥ जिज्ञासाया इति ॥ पूर्वपक्षसिद्धान्ताभ्यामिच्छाप्रतिपादनस्य प्रत्यधिकरणमदृष्टेरित्यर्थः । इच्छाया आरभ्यत्वासम्भवेऽपीत्येतदप्येवमेव व्याख्येयम् ॥ आरभ्यत्वसम्भवादिति ॥ विचारस्योत्तरत्र शास्त्रेण प्रतिपाद्यमानत्वात्तत्रारम्भस्याथ-शब्दार्थत्वोपपत्तेरिति भावः । नन्वानन्तर्यार्थत्वेऽपि कथमधिकारिविशेषणप्रयोजनलाभ इत्यत उक्तम् आनन्तर्याभिधानमुखेनेति ॥ आनन्तर्येऽथशब्देनोक्ते योग्यतया तत्प्रतियोगि-त्वेनाधिकारलाभो नान्यथेत्यर्थः । न्यायतः सूत्रतः ॥ न तावदिति ॥ तथा चाधिकारि-तद्विशेषणप्रयोजनलाभायाङ्गीकृतमप्यानन्तर्यार्थत्वं परस्य व्यर्थमेव । वक्ष्यमाणरीत्याऽधि-कारितद्विशेषणयोरेवासम्भवेनाथशब्देन तत्सूचनासम्भवादित्यर्थः ॥ अपूर्वविधित्वा-पातादिति ॥ तथा च विचारविधिर्नियमविधिरिति सिद्धान्तभङ्ग इति भावः ॥ वक्ष्य-माणेति ॥ ज्ञाते वा ज्ञाने कामनाऽज्ञाते वेत्यादिवक्ष्यमाणरीत्येत्यर्थः ।


नापि विचारविधौ ज्ञानकामोऽधिकारी ज्ञानं च फलमिति युक्तम्

तात्पर्यचन्द्रिका

नापि विचारविधौ ज्ञानकामोऽधिकारी ज्ञानं च फलमिति युक्तम् । अध्ययन-विधेर्ज्ञानकामाधिकारं निषेधता त्वयाऽज्ञाते ज्ञाने कामनायोगाज् ज्ञानज्ञाने च तदवच्छेदकविषयस्यापि ज्ञातत्वात्पुनस्तज्ज्ञाने कामनायोगादिति युक्त्या ज्ञानकामना-निषेधात् ।

ननु परोक्षज्ञाने कामनाऽयोगेऽपि परोक्षेण प्रतिबद्धापरोक्षेण वा ज्ञानेन ज्ञात-ब्रह्मावच्छिन्ने अपरोक्षज्ञाने अप्रतिबद्धापरोक्षज्ञाने वा कामना श्रवणरूपविचार-विध्यधिकारिविशेषणमिति चेन्न । इच्छाया अपरोक्षत्वात्तदवच्छेदकज्ञानावच्छेदक-विषयस्याप्यपरोक्षत्वादिच्छासमकालवृत्त्यपरोक्षज्ञानस्य विचारसाध्यत्वानुपपत्तेः । अन्यानवच्छेदेनापरोक्षज्ञानस्य विचारसाध्यत्वे च तादृशपरोक्षज्ञाने कामना, तस्य विचारसाध्यत्वं चास्तु ।

प्रकाशिका

द्वितीयं निरस्यति ॥ नापीति ॥ अध्ययनेति ॥ स्वाध्यायोऽध्येतव्य इत्यस्य ज्ञानकामाधिकारिकत्वे ज्योतिष्टोमादिवत्काम्यतैव स्यात् । इष्यते च नित्यत्वम् । अतो ज्ञानकामाधिकारिकत्वं यया युक्त्या निरस्यते तयैव विचारविधावपि तदधिकारिक-त्वस्य निरासादित्यर्थः । तामेव युक्तिमाह ॥ अज्ञात इति ॥ कामनायां धर्मिभूतज्ञानस्या-ज्ञाने कारणीभूतधर्मिज्ञानाभावात्कामनाया अयोगः । धर्मिभूतज्ञानस्य च ज्ञाने विषय-मगृहीत्वा तदवच्छिन्नज्ञानग्रहणायोगाज्ज्ञानज्ञानेन विषयभूतधर्म्यादेरपि ग्रहणात्सिद्धे इच्छाविरहेण धर्मिज्ञानादौ न कामना सम्भवतीत्यर्थः ।

उक्तदोषपरिजिहीर्षया तृतीयचतुर्थौ शङ्कते ॥ नन्विति ॥ यदा परोक्षज्ञानेन ज्ञातं ब्रह्म तदा तदवच्छिन्नापरोक्षज्ञाने कामना, यदा त्वपरोक्षज्ञानेन ज्ञातं तदा तदवच्छिन्ना-प्रतिबद्धापरोक्षज्ञाने कामना । एवं च धर्मिभूतज्ञानज्ञानस्य परोक्षत्वेऽपरोक्षत्वे वा न कश्चिद्दोष इति भावः । श्रवणरूपेति पररीत्या । एतच्च श्रवणसाध्यस्येत्यादिवक्ष्यमाण-दूषणसौकर्याय । पक्षद्वयमप्येकेन दोषेण निराह ॥ इच्छाया इति ॥ कामनाया इच्छात्वादिति भावः । एवं चेच्छाविषयकमपरोक्षज्ञानं स्वविषयमिच्छां गृह्णद् इच्छाविषयं ज्ञानं तदवच्छेदकं ब्रह्म चाविषयीकृत्य नेच्छां विषयीकर्तुमलमिति इच्छाविषयापरोक्ष-ज्ञानस्यैव ब्रह्मापरोक्षज्ञानतया स्वविषयेऽप्रतिबद्धत्वेन ब्रह्मविषयकाप्रतिबद्धापरोक्षतया चेच्छासमसमयवर्तिनो विचारसाध्यत्वानुपपत्तेरित्यर्थः । न केवलं परोक्षज्ञानस्येत्यपेरर्थः । पञ्चमं कल्पमाशङ्क्य दोषमाह ॥ अन्येति ॥ तथा च नोक्तदोष इति भावः ॥ तादृशेति ॥ अत्रापि न पूर्वोक्तो दोषः पततीति भावः । नन्वस्तु तर्हि ब्रह्मान्यानवच्छिन्न-परोक्षज्ञानकामोऽधिकारी तादृशपरोक्षज्ञानं फलमिति चेन्न । अध्ययनविधावप्येतादृशार्थ-ज्ञानकामाधिकारिकत्वसम्भवे तत्खण्डनानुपपत्तेः । अध्ययनविधेर्नित्यत्वायोगाच्चेति भावः ।

चन्द्रिकाबिन्दु

ज्ञानकामनानिषेधप्रकारं दर्शयति ॥ अज्ञाते ज्ञान इत्यादिना ॥ कामनाऽयोगादिति ॥ धर्मिज्ञानाभावादिति भावः ॥ तदवच्छेदकविषयस्यापीति ॥ ज्ञानस्य ससम्बन्धिकपदार्थत्वेन सम्बन्धिभूतविषयज्ञानस्यावश्यकत्वेन विषयज्ञानस्य सिद्ध-त्वादिच्छा न स्यादिति भावः । परोक्षेणेति ॥ परोक्षेण ज्ञातब्रह्मावच्छिन्ने अपरोक्षज्ञाने कामना प्रतिबद्धा । परोक्षेण ज्ञातब्रह्मावच्छिन्नेऽप्रतिबद्धापरोक्षज्ञाने कामनेति योजना ॥ श्रवणरूपेति ॥ श्रवणरूपत्वविशेषणं च विचारस्य । किञ्च श्रवणसाध्यस्येत्यादि-वक्ष्यमाणयोगोपपादनार्थम् ॥ तदवच्छेदकज्ञानावच्छेदकविषयस्येति ॥ इच्छावच्छेदका-परोक्षज्ञानावच्छेदकब्रह्मण इच्छापरोक्षविषयत्वेन ब्रह्मापरोक्षज्ञानस्य जातत्वेन तस्येच्छा-नन्तरभाविविचारसाध्यत्वाभावादिति भावः ॥ तादृशेति ॥ अन्यावच्छेदेन धर्मादि-परोक्षज्ञान इत्यर्थः ।

पाण्डुरङ्गि

ननु न विचारविधौ मोक्षकामस्याधिकारित्वं मोक्षस्य च प्रयोजनत्व-मङ्गीकुर्मः । येन विचारस्य मोक्षसाधनताया अप्राप्तत्वेन तद्विधेरपूर्वविधित्वापत्त्याप-सिद्धान्तः स्यात् । किन्तु ज्ञानकामोऽधिकारी ज्ञानं च प्रयोजनमित्येवाङ्गीकुर्मः । तत्र च विचारस्य ज्ञानहेतुताया अन्वयव्यतिरेकाभ्यामेव प्राप्तत्वेन नापूर्वविधित्वमिति नापसिद्धान्त इत्यत आह ॥ नापीति ॥ अध्ययनविधेर्ज्ञानकामाधिकारिकत्वनिषेधकत्वादुक्तयुक्त्यैव विचारविधेरपि ज्ञानकामाधिकारिकत्वस्य निषेद्धुं शक्यत्वान्न तत्कामस्याधिकारित्वं, ज्ञानस्य च प्रयोजनत्वमित्याह ॥ अध्ययनविधेरिति ॥

नन्वध्ययनविधौ ज्ञानकामनाया अधिकारिविशेषणत्वासम्भवेऽपि विचारविधा-वधिकारिविशेषणत्वं सम्भवत्येव । न च ज्ञानकामनायास्त्वया निषिद्धत्वात्कथं तदङ्गीकार इति वाच्यम् । मया परोक्षज्ञानकामनाया एव निषिद्धत्वात् । न च परोक्षज्ञानकामनानिषेधे तन्न्यायेनापरोक्षज्ञानकामनापि दूषयितुं शक्येति वाच्यम् । ज्ञात एवापरोक्षज्ञाने काम-नाङ्गीकारात् । न च ज्ञानावच्छेदकत्वेन विषयस्यापि ज्ञातत्वात्पुनः कामनानुपपत्तिरेवेति वाच्यम् । अपरोक्षज्ञानस्य परोक्षतो ज्ञातस्यैव कामनाविषयत्वाङ्गीकारेण परोक्षज्ञाना-वच्छेदकब्रह्मणोऽपि परोक्षत एव ज्ञानप्राप्त्या तदापरोक्ष्याभावात् ।

यद्वा अप्रतिबद्धापरोक्षज्ञानकामनाया अधिकारिविशेषणत्वमप्रतिबद्धापरोक्षज्ञानस्यैव च प्रयोजनत्वमभ्युपगच्छामः । न च धर्मिज्ञानाभावेनाज्ञाते अप्रतिबद्धापरोक्षज्ञाने कामनाया अयोगात्तज्ज्ञाने च तदवच्छेदकविषयस्यापि ज्ञातत्वात्पुनः कामनानुपपत्तिरेवेति वाच्यम् । प्रतिबद्धापरोक्षज्ञानेनैव ज्ञाते अप्रतिबद्धापरोक्षज्ञाने कामनाङ्गीकारात्तदवच्छेदकविषयस्य प्रतिबद्धापरोक्षज्ञानप्राप्तावप्यप्रतिबद्धापरोक्षज्ञानस्यासिद्ध्या तत्कामनोपपत्तेरिति पूर्वोक्त-दोषपरिजिहीर्षया तृतीयचतुर्थौ शङ्कते ॥ नन्विति ॥ यदा परोक्षज्ञानेन ज्ञातं तदा तदवच्छिन्नापरोक्षज्ञाने कामना । यदा त्वपरोक्षज्ञानेन ज्ञातं तदा तदवच्छिन्ना-प्रतिबद्धापरोक्षज्ञाने कामना । एवं च धर्मिभूतज्ञानस्य परोक्षत्वे वा न कश्चिद्दोष इति योजना ॥ इच्छाया इति ॥ ब्रह्मापरोक्षतो जानीयामित्येवंरूपेच्छाया इत्यर्थः । ज्ञानस्यापि वस्तुतोऽपरोक्षत्वेऽपि भट्टमते ज्ञाततानुमेयत्वात् परेण व्यवहारे भट्टनय इत्यङ्गीकुर्वता ज्ञानस्याऽऽपरोक्ष्यानभ्युपगमाद् इच्छाया आपरोक्ष्यस्य सर्वाविवादात् प्रकृतज्ञानपरित्यागे-नेच्छाग्रहणमेव कृतमिति ज्ञेयम् । प्रतिबद्धेत्यादिनोक्तं दूषयति ॥ अन्यानवच्छेदेनेति ॥ तादृशेति ॥ अन्यानवच्छिन्नेत्यर्थः ।