०८ प्रणवस्यादिसूत्रावयवत्वसमर्थनम्

नन्वत्रानुव्याख्याने ‘‘तत्र ताराथमूलत्व’’मित्योङ्कारस्य ..

प्रणवस्यादिसूत्रावयवत्वसमर्थनम्

तात्पर्यचन्द्रिका

नन्वत्रानुव्याख्याने ‘‘तत्र ताराथमूलत्व’’मित्योङ्कारस्य सूत्रादित्वमुक्त्वा ‘‘ओतत्ववाची ह्योङ्कार’’ इति स व्याख्यातः । सुधायां च ‘‘स्रवत्यनोङ्कृतं ब्रह्म परस्ताच्च विशीर्यते’’ इति श्रुतिबलात्प्रतिसूत्रं ब्रह्मविद्यात्वादाद्यन्तयोरोङ्कारस्योहः कार्यः । न चोह्यमानं वाक्यात्पृथक् । मन्त्रेष्वप्यूह्यमानस्य तदनवयवत्वप्रसङ्गात् । ओङ्कारार्थस्य प्रथमसूत्रवाक्यार्थे समन्वयेनावयवत्वनिश्चयाच्च । असंहिततया निर्देशस्तु सर्वसूत्रेष्वनुगतिसूचनार्थ’’ इत्युक्तम् । तत्कथम् । सूर्यायेत्यूहं प्रति अग्नय इत्यादेरिव प्रकृते स्थानिनोऽभावात् । यथोक्तं–

‘‘प्राकृतस्थानपतितपदार्थान्तरकार्यतः ।

ऊहः प्रयोगो विकृत ऊह्यमानतयोदितः’’ इति ॥

न चोहशब्देनाध्याहारो लक्ष्यत इति वाच्यम् । ‘‘सं यज्ञपतिराशिषा इषे त्वा’’ इत्यादाविव साकाङ्क्षत्वाभावात् ।

प्रकाशिका

एवं सूत्राभिप्रेतं सिद्धान्तं समर्थ्येदानीं सूत्रावयवभूतान्योङ्कारादीनि पञ्चपदानि व्याचिकीर्षुरोङ्कारं तावद्व्याकर्तुं तस्यादित्वे सम्मतिं वदन् सुधाशयं स्फुटीचिकीर्षुस्तद्ग्रन्थमाक्षेप्तुमनुवदति ॥ नन्वित्यादिना ॥ सुधायां चेति ॥ ‘‘सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलै’’रित्येतद्व्याख्यावसर इति भावः । सुधावाक्यानां विक्षिप्तानां सङ्ग्रहेण क्वचिच्छब्दतः क्वचिदर्थतोऽनुवादोऽयम् । अवयवत्वे युक्त्यन्तरमाह ॥ ओङ्कारार्थस्येति ॥ नन्ववयवत्वे अथशब्दवत्संहिततया निर्देशः स्यादित्यत आह ॥ असंहिततयेति ॥ विश्लिष्टतयेत्यर्थः । अङ्गस्येति पाणिनिसूत्रवदिति भावः ॥ सूर्यायेति ॥ नवमे ‘‘प्रकृतौ यथोत्पत्तिवचनमर्थानाम्’’ इति तृतीयपादाद्याधिकरणे दर्शपूर्णमासयोः श्रुतः ‘‘अग्नये जुष्टं निर्वपामि’’ इति मन्त्रः ‘‘सौर्यं चरुं निर्वपेत्’’ इति विकृतौ चोदकप्राप्तः । तत्राग्निपदस्थाने सूर्यपदप्रक्षेपेणोहितव्यमुत नेति सन्देहे यथावस्थित-स्वरूपस्यैव मन्त्रस्य चोदकेन प्रापितत्वादग्निपदेनैन्द्रीवद् गुणवृत्त्या सूर्यप्रकाशन-सम्भवान्नोह इति प्राप्ते प्रकृतावग्निशब्दो न स्वरूपविवक्षयाऽऽम्नातः । अदृष्टार्थत्वापत्तेः । किन्तु देवतापदविवक्षया । दृष्टार्थतालाभात् । अतस्तेनैव रूपेण विकृतौ चोदकेन प्रापणादग्निपदस्य वैकृतदेवतापरत्वाभावात्तदुद्धारेण सूर्यपदप्रक्षेपेण चोहितव्यो मन्त्रः । ऐन्द्री तु स्वरूपेण गार्हपत्ये विनियुक्तेति वैषम्यमिति सिद्धान्तितम् । तत्र यथा सौर्ययागे सूर्यपदस्य चोदकेन प्राप्ते ‘देवस्य त्वा’ इति मन्त्रेऽग्नय इति पदं स्थानिरूपं विद्यते न तथा प्रतिसूत्रमोङ्कारोहस्य स्थान्यस्तीत्यर्थः । इत्यादेरित्यादिपदेन नीवाराणामित्यूहं प्रति ‘‘व्रीहीणां मेधसुमनस्यमानः’’ इति मन्त्रे व्रीहीणामित्यस्येवेति ग्राह्यम् ॥

यथोक्तमिति ॥ तन्त्रवार्तिक इति भावः । प्राकृतः प्रकृतियागीयो यः पदार्थः व्रीह्यग्निलक्षणद्रव्यदेवतारूपः, तस्य स्थाने पतितं यत्पदार्थान्तरं विकृतियागसम्बन्धिनीवार- सूर्यलक्षणद्रव्यदेवतारूपं तस्य यत्कार्यं प्राकृतकार्यतुल्यं होमादि तदर्थं विकृतो यः प्रयोगः सूर्यायेत्यादिरूपः स ऊह इत्युच्यते । कुत ऊह्यमानतया ऊहविषयत्वादित्यर्थः ॥ संयज्ञपतिरिति ॥ द्वितीये ‘‘व्यवायान्नानुषज्येत’’ इत्याद्यपादीयान्तिमाधिकरणे ‘‘सं ते प्राणो वायुना गच्छतां संयजत्रैरङ्गानि संयज्ञपतिराशिषा’’ इति मन्त्रेषु गच्छतामित्यस्य संयजत्रैरङ्गानीत्यत्र वचनभेदादननुषङ्गे संयज्ञपतिराशिषेत्यत्रापि किं तस्यैवानुषङ्ग उताध्याहार इति सन्देहे बुद्धिविपरिवृत्तेरनुषङ्ग इति प्राप्ते संयजत्रैरङ्गानीत्यत्रासम्बन्धेन बुद्धिविपरिवृत्तिभङ्गादनुषङ्गायोगे साकाङ्क्षत्वादध्याहार इति सिद्धान्तितम् । तथा तत्रैवाद्यपादे ‘‘समेषु वाक्यभेदः स्यात्’’ इति षोडशेऽधिकरणे इषे त्वेत्यादिषु किमेकमन्त्रत्वमुत मन्त्रभेद इति संशये अनुष्ठेयार्थाप्रकाशनाद् अदृष्टार्थत्वे चानेकादृष्ट-कल्पनापत्तेर्मन्त्रैक्यमिति प्राप्ते ‘‘इषे त्वेति च्छिनत्ति ऊर्जेत्वेत्यनुमार्ष्टि’’ इत्यादिना शाखाच्छेदनादिषु करणत्वेन विनियोगादर्थप्रकाशनरूपक्रियानिर्वर्तनेनैव करणत्वस्य निर्वाह्यत्वेन च्छेदनादिकं प्रति साकाङ्क्षत्वाच्छिनद्मीत्याद्यध्याहारेण वाक्यं पूरणीयमिति मन्त्रभेद इति सिद्धान्तितम् । तत्रोभयत्रापि क्रियापदाश्रवणात्तदाकाङ्क्षायामध्याहारः स्वीकृतः । नैवं सूत्रेष्वाकाङ्क्षेत्यध्याहारो न युक्त इत्यर्थः ।

चन्द्रिकाबिन्दु

येषु येषु सुधास्थवाक्येषु अनुपपत्तय उद्भावनीयास्तानि वाक्यानि गृह्णाति ‘स्रवत्यनोंकृतम्’ इत्यादिना ॥ अत एव न क्रमोल्लङ्घनं दोषः । प्राकृतस्थानेति श्लोकस्यायमर्थः प्राकृतः=‘अग्नये जुष्टं निर्वपामि’ इत्यादिमन्त्रप्राप्तो वह्न्यादिः । तत्स्थाने पतितं पदार्थन्तरं विकृतौ सूर्यादिः । तद्विषयकहोमादिरूपकार्यतः योऽयं विकृतः प्रयोगो मन्त्रस्य स ऊहः । प्रयोगस्योहत्वे हेतुमाह ॥ ऊह्यमानतयेति ॥ एवं च ऊह्यतेऽसौ ऊह इति व्युत्पत्तिर्दर्शितेति ध्येयम् ॥ संयज्ञपतिरिति ॥ ‘सं ते प्राणो वायुना गच्छतात्संयजत्रैरङ्गानि संयज्ञपतिराशिषा’ इत्यत्र यज्ञपतिराशिषा सङ्गच्छताद् इत्यर्थो वर्णनीयः । तत्र प्राणो वायुना गच्छतादित्यत्र विद्यमानमेव गच्छतादिति पदं नानुषज्यते । संयजत्रैरङ्गानि गच्छतामिति मध्येऽध्याहारेणानुषङ्गबुद्धेर्नष्टत्वात् संयज्ञपतिराशिषेत्यत्र गच्छेदित्यध्याहार एव । अयं हि श्रुताध्याहारः । अत एव श्रुताध्याहारे दृष्टान्तमाह ॥ इषे त्वेति ॥ छिनत्तीत्यश्रुताध्याहारः ।

पाण्डुरङ्गि

अधुना यद्यपि पूर्वमुल्लङ्घितटीका व्याख्येया तथापि अनुव्याख्यानसुधयोः सूत्रस्थाथशब्दादप्योङ्कार आद्यावयव इत्युक्त्वा तस्य च व्याख्यातत्वात्तत्रानुपपत्तिमाशङ्क्य परिहर्तुं तदुक्तमनुवदति ॥ नन्वत्रानुव्याख्यान इति ॥ व्याख्यातत्वमात्रं नावयवत्व-निश्चायकम् अतथाभूतानां भर्गादिशब्दानामपि व्याख्यातत्वात् । अन्यथा तेषामपि सूत्रावयवत्वं स्यादित्यत उक्तम् ॥ सूत्रादित्वमुक्त्वेति ॥ संयज्ञपतिरिति ॥ संयज्ञ-पतिराशिषेत्यत्र, सन्ते वायुर्वातेन गच्छतामिति पूर्वत्र श्रुतस्य एकवचनान्तस्य गच्छता-मित्यस्य स्वान्वयायोग्यत्वेन संयजत्रैरङ्गानीति मध्ये श्रुतेन बहुवचनान्तेन व्यवहित-तयाऽनुषङ्गासम्भवेनाध्याहारात् श्रुताध्याहारः । इषे त्वेत्यत्र तु छेदने मन्त्रस्य विनियोगाद- श्रुतस्यैव च्छिनद्मीत्यस्याध्याहारादश्रुताध्याहारः । अत्राद्योऽनुषङ्गमात्रे दृष्टान्तः । द्वितीयस्तु प्रस्तुते अश्रुताध्याहारे । द्वयमपि क्रियायां साकाङ्क्षम् । जिज्ञासासूत्रं तु ओङ्कारे निराकाङ्क्षमिति भावः ।


किञ्च मन्त्रेष्वप्यूह्यमानस्य तदनवयवत्वमिष्टमेव

तात्पर्यचन्द्रिका

किञ्च मन्त्रेष्वप्यूह्यमानस्य तदनवयवत्वमिष्टमेव । ऊहप्रवरनामधेया-नाममन्त्रत्वस्य द्वितीये सिद्धान्तितत्वात् । अपि च ओतत्वस्य न वाक्यार्थेऽन्वयः । ब्रह्मणः शब्दत उपसर्जनस्य पदान्तरोपात्तौ तत्वान्वयानुपपत्तेः । अपि चार्थप्रतीत्यर्थत्वे आदावेव प्रयोगेण चरितार्थत्वादन्ते प्रयोगवैयर्थ्यम् । किञ्च ओङ्कारस्योत्तरत्रानुषङ्गे अनुषक्तस्य ‘‘ङ््याप्प्रातिपदिका’’दित्यादेर् अच्छिद्रेण पवित्रेणेत्यादेस् तनूर्वर्षिष्ठेत्यादेश्च तत्र तत्रार्थान्वयदर्शनात्प्रकृतेप्योङ्कारार्थस्य जन्मादिसूत्रेष्वन्वयो वाच्यः । स चाशक्य इति ।

प्रकाशिका

ऊहेत्यादि ॥ उक्त ऊहः । प्रवरस् त्र्यार्षेयादिः । नामधेयं देवदत्तादि ॥ द्वितीय इति ॥ द्वितीयाद्यपादे । ‘‘अनाम्नातेष्वमन्त्रत्वमाम्नातेषु हि विभागः स्यात्’’ इति दशमाधिकरणे ऊहप्रवरनामधेयानां मन्त्रत्वमस्त्युत नेति संशये मन्त्रैकवाक्यत्वेन तन्मध्यनिवेशान्मन्त्रकार्यकरत्वाच्च मन्त्रत्वमिति प्राप्ते रथघोषेण माहेन्द्रस्तोत्रमुपाकरो-तीत्यादौ रथघोषादेरमन्त्रत्वेऽपि मन्त्रकार्यकरत्वेनानैकान्त्यान् मन्त्रत्वस्याध्येतृप्रसिद्ध्य-धीनत्वात्तस्याश्चाध्ययनकाले समाम्नातविषयत्वेन मन्त्रैकवाक्यताया अप्रयोजकत्वाद-मन्त्रत्वमिति सिद्धान्तितत्वादित्यर्थः । यद्यप्यत्रोह्यमानस्य मन्त्रैकवाक्यतया तदवयवत्व-मुपेत्यैव तदपराधस्य ‘‘यदृक्तो यज्ञभ्रेषमागच्छेद्यद्यजुष्टो यज्ञभ्रेषमागच्छेत्’’ इत्यादि मन्त्रवैकल्यप्रायश्चित्तानापादकत्वसिद्ध्यर्थममन्त्रत्वं व्यवस्थापितम् । सुधायां तु तदन-वयवत्वमेवापादितं न त्वमन्त्रत्वमपीति नेष्टापादनं युक्तम् । तथाप्यमन्त्रत्वेन तदनवयवत्वं सुधावाक्याभिप्रेतमिति शङ्कितुर्हृदयमिति ध्येयम् ।

यदप्युक्तं ‘‘ओङ्कारार्थस्य प्रथमसूत्रवाक्यार्थे समन्वयेन’’ इत्यादि तदपि नेत्याह ॥ अपि चेति ॥ अधिकारानन्तरं फलवत्त्वाद् ब्रह्मविचारः कार्य इति वाक्यार्थे ओतत्व-स्यान्वयाप्रतीतेरित्यर्थः । ननु वाक्यार्थे प्रतियोगिसमर्पकत्वेनान्वयायोगेऽपि ओतं यद्ब्रह्म तद्विचार इति ब्रह्मविशेषणत्वं स्यादित्यत आह ॥ ब्रह्मणः शब्दत इति ॥ उपसर्जनस्य जिज्ञासाविशेषणस्य । यदि ॐ ब्रह्मजिज्ञासेति समस्तं स्याद्यदि वा ब्रह्मणो जिज्ञासेति ब्रह्मपदं व्यस्तं स्यात् तदा ओतत्वस्य कथञ्चिद् ब्रह्मपदार्थान्वयः स्यान् न चैवमस्तीति भावः । यदपि स्रवत्यनोङ्कृतमित्यादि तदपि विरुध्यत इत्याह ॥ अपि चेति ॥ यच्चोक्तं ‘‘असंहिततया निर्देशस्तु सर्वसूत्रेष्वनुगतिसूचनार्थः’’ इति तच्च नेत्याह ॥ किञ्चेति ॥

ङ््याप्प्रातिपदिकादित्यादेरिति ॥ व्याकरणे तुर्याध्याये ‘‘स्वौजसमौट्शस्टाभ्यां भिस्’’ इत्याद्युत्तरसूत्रेऽनुवृत्तस्य ‘ङ््याप्प्रातिपदिकात्’ इत्यस्य ङ्यन्तादाबन्तात्प्रातिपदि-काच्च स्वादयः प्रत्यया भवन्तीत्यर्थो यथा दृश्यत इत्यर्थः ॥ अच्छिद्रेणेति ॥ द्वितीयाद्य-पादे ‘‘सर्वेषु’’ इत्युपान्त्याधिकरणे ‘‘चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनातु’’ इति मन्त्रत्रयानन्तरमाम्नातः ‘‘अच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः’’ इत्ययं शेषः किं पूर्वयोरनुषज्यते किं वा परस्यैव शेष इति संशये शेषस्यानन्तरसम्बन्धमात्रेण नैराकाङ्क्ष्यात्पूर्वयोश्च स्वत एवाकाङ्क्षाविरहान्नानुषङ्ग इति प्राप्ते पुनातुशब्दैकवाक्यतापन्नस्याच्छि द्रादेस्तत्करणद्वारेण पवनक्रियाप्रकाशनार्थत्वात् तस्य एव पूर्वमन्त्राभ्यामपि प्रकाश्यत्वात् प्रधानवशेनानुकर्षस्य न्याय्यत्वादनुषङ्ग इति सिद्धान्तितम् । तथा तत्रैव ‘‘अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात्’’ इति सप्तदशेऽधिकरणे ‘‘या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठोग्रं वचो अपावधीं त्वेषं वचो अपावधी स्वाहा । या ते अग्ने रजाशया या ते अग्ने हराशया’’ इति ज्योतिष्टोमे श्रुतं मन्त्रत्रय-मुदाहृत्य तत्रोत्तरयोर्लौकिकः शेषोऽध्याहार्यः किं वा पूर्वमन्त्रानन्तरपठित-स्तनूर्वर्षिष्ठेत्यादिरनुषञ्जनीय इति संशये समाम्नायेन पूर्वत्रैव निबद्धस्य शेषस्यान्यत्र नयनायोगात्सकृदाम्नातस्य सर्वार्थत्वानुपपत्तेरानन्तर्यदेशविशेषाभ्यां विशेषग्रहणेन पूर्वशेष-त्वावसायादनुषङ्गायोगे लौकिकस्य क्वाप्यनिबद्धत्वेन सर्वार्थत्वादध्याहार इति प्राप्ते सर्वा-नन्तर्येण सकृत्पठितुमशक्यो बुद्धिविपरिवृत्तिमात्रेण साकाङ्क्षैः सर्वैः सम्बन्धसिद्धेः पुनः पुनरनाम्नातोऽयं शेषः सर्वार्थेनैवाम्नात इत्यवगमादनुषङ्गो, न लौकिकस्याध्याहार इति सिद्धान्तितम् ।

अत्र यथा ‘‘अच्छिद्रेण पवित्रेण’’ इत्यादेः पूर्वत्रानुषक्तस्य ‘‘चित्पतिस्त्वा पुनातु’’ इति पवनक्रियायां पवित्ररूपकरणसमर्पकतया तनूर्वर्षिष्ठेत्यादेश्च पश्चादनुषक्तस्य रजाशया-हराशयाशब्दितयोः रजतमयत्वहिरण्मयत्वविशेषणयोस् तनूलक्षणविशेष्यार्पकतयाऽन्वयो दृष्टस् तथा ‘‘जन्माद्यस्य’’ इत्यादिसूत्रेष्वोङ्कारस्यान्वयो वाच्य इत्यर्थः ।

चन्द्रिकाबिन्दु

‘किञ्च अपि च’ इत्यादीन्युदाहृतैकैकवाक्येऽनुपपत्तिप्रदर्शनपरतया योजनीयानि । शेषशेषिणोराकाङ्क्षास्थलमादावुदाहरति ॥ ड्याप् प्रातिपदिकादिति ॥ ‘ङ्याप् प्रातिपदिकात्’ ‘स्वौजसमौट्’ इत्यादिसूत्रयोः परस्परसाकाङ्क्षत्वादिति भावः । शेषिणो निराकाङ्क्षा शेषस्यैव साकाङ्क्षादर्शनादिति भावः । शेषिण आकाङ्क्षा शेषस्यानाकाङ्क्षा यत्र तत्स्थलं दर्शयति (तत्स्थलमुदाहरति) ॥ अच्छिद्रेणेति ॥ अत्र ‘‘वाक्पतिस्त्वा पुनातु’’ इत्यादि शेषिणो निराकाङ्क्षत्वेऽपि अच्छिद्रेणेति शेषस्याकाङ्क्षा पतति ॥ तनूर्वर्षिष्ठेति ॥ अत्र अयाशयेत्यादि शेषिणो ऽन्यान्विततनूर्वर्षिष्टेत्यादि-शेषाकाङ्क्षेति भावः ॥

पाण्डुरङ्गि

ङ््याप्प्रातिपदिकादिति ॥ अत्राद्योऽनुषङ्गः । स्वरितेनाधिकार इति परिभाषासापेक्षोऽनुषङ्गमात्रे दृष्टान्तः । अन्त्यौ तु तन्निरपेक्षौ । तत्राप्युत्तरस्य शब्दस्य पूर्वत्रानुषङ्गरूपो द्वितीयो निरपेक्षानुषङ्गमात्रे । तृतीयस्तु प्रस्तुते निरपेक्षे निरपेक्षे पूर्वस्योत्तरत्रानुषङ्गे इति ज्ञेयम् ॥ स चाशक्य इति ॥

अयं भावः । प्रातिपदिकादित्यत्रास्य शेषस्य स्वौजसमौडित्यादेः शेषिणश्चाकाङ्क्षा । अच्छिद्रेण पवित्रेण वसोः सूर्यस्येत्यत्र अस्य शेषस्यैव क्रियायामाकाङ्क्षा । चित्पतिस्त्वा पुनात्विति शेषिणो निराकाङ्क्षत्वात् । अपावधीं स्वाहेति स्वाहान्तपूर्वमन्त्रान्वितस्य विशेष्यसमर्पकस्य याशयेति विशेषणान्तरान्वितस्य शेषिण एवाकाङ्क्षा । तनूरिति शेषस्य निराकाङ्क्षत्वात् । प्रकृते तु जिज्ञासासूत्रान्वितस्य ओङ्काररूपशेषस्य जन्मादिसूत्र-रूपशेषिणश्च निराकाङ्क्षत्वेनार्थान्वयोऽशक्य इति ।