०४ रामानुजमतपरीक्षा

केचित्तु वृद्धव्यवहारेण कार्य एव शब्दानां ..

रामानुजमतपरीक्षा

तात्पर्यचन्द्रिका

केचित्तु वृद्धव्यवहारेण कार्य एव शब्दानां व्युत्पन्नतया सिद्धे ब्रह्मणि वेदान्तानामप्रामाण्याद्विचारो नारम्भणीय इति प्राप्ते अम्बातातादीनङ्गुल्या निर्दिश्याम्बाता-तादिशब्देषु प्रयुक्तेषु बालानां तेषु तच्छब्दानां प्रथमव्युत्पत्तिदर्शनाद् ब्रह्मणि वेदान्तानां प्रामाण्यसम्भवात्तद्विचार आरब्धव्य इति सिद्धान्त इत्याहुः । तत्र ब्रूमः। अथ कर्मविचारानन्तरमतः कर्मणां विचारितत्वादेव ब्रह्मविचारः कर्तव्य इति हि तव सूत्रार्थः । न चात्राथशब्दादिना कार्ये व्युत्पत्तिनिरासः प्रतीयते । न च सौत्रपदनिरस्यैर्हेतुभिः सूत्रावतारिकारूपपूर्वपक्षसम्भवे हेत्वन्तरेण स युक्तः । न च विधिवाक्यस्थस्यास्य ब्रह्मशब्दस्य स्वप्रधाने सिद्धे व्युत्पत्तिरद्यापि सिद्धा । येन तत्प्रयोगात्सा सूच्येत ।

किञ्च ‘‘अथातो धर्मजिज्ञासे’’त्यादि ‘‘अनावृत्तिःशब्दा’’दित्यन्तं विंशतिलक्षणमेकं शास्त्रमिति वदता त्वया चतुर्लक्षणी देवमीमांसा द्वादशलक्षण्याः कर्ममीमांसाया उत्तरा, ब्रह्ममीमांसायास्तु पूर्वेति स्वीकृतत्वेन सिद्धे व्युत्पत्त्यभावे सिद्धरूपदेवमीमांसानुपपत्तेस्तस्यास्तत्रैव सिद्धत्वात्पुनरिह सिद्धे व्युत्पत्त्यभावेन पूर्वपक्षो न युक्तः । अत एव सिद्धान्तोऽप्ययुक्तः । त्वद्रीत्या सिद्धे व्युत्पत्तेरत-श्शब्दादिनाऽबोधनात् । विचारकर्तव्यताहेत्वर्थेनातश्शब्देनोक्तस्याथशब्दादिना सूचितस्य च तत्र हेतुत्वसम्भवे तद्विपरीतायाः सिद्धे व्युत्पत्तेस्तत्र हेतुत्वायोगात् ।

प्रकाशिका

रामानुजीयमतम(प्य)नूद्य निराचष्टे ॥ केचित्त्विति ॥ वृद्धव्यवहारा-दन्येन शब्दानामादौ व्युत्पत्त्यभावाद्वृद्धेन च गामानयेति वाक्ये प्रयुक्ते प्रयोज्यवृद्धेन च गव्यानीतायां पार्श्वस्थो बालोऽस्य गवानयनप्रवृत्तिर्ज्ञानपूर्वा प्रवृत्तित्वान् मत्प्रवृत्तिवत् । ज्ञानं तु सहेतुकमित्यन्यस्य हेतोरदर्शनाद्वाक्यमेव हेतुत्वेन गृहीत्वा पश्चादावापोद्वापक्रमेण कार्य एव शब्दानां व्युत्पत्तिं प्रत्येतीति कार्य एव वाक्यानां प्रामाण्यम् । ब्रह्म तु सिद्धरूपमिति सिद्धे व्युत्पत्त्यभावेन वेदान्ता न ब्रह्म बोधयितुं शक्ता इत्यप्रमाणम् । अतस्तदर्थनिर्णयात्मकमिदं शास्त्रं नारम्भणीयमिति पूर्वपक्षस्याशयः । सिद्धान्तस्य तु नैवं, बालानां प्रथमं कार्ये व्युत्पत्तिग्रहः । एतावदनुसन्धानाशक्तत्वात् । किन्तु सिद्ध एव । तथा हि । मातापित्रादीनङ्गुल्या निर्दिश्य इयं ते अम्बा अयं ते तात इत्यम्बादिशब्देषु केनचिदाप्तेन प्रयुक्तेषु सत्सु तत्रैषां शब्दानां व्युत्पत्तिमवधारयन्ति । न हि निखिल-लोकविदितशब्दार्थसम्बन्धावधारणप्रकारापनोदो युज्यते । अतो ब्रह्मणि सिद्धरूपेऽपि बोधमापादयितुं शक्ता वेदान्ता इति विचारशास्त्रमिदमारभ्यमेव । उक्तं च–

‘‘कार्ये व्युत्पत्तिराद्या नियतिरिति गिरस्तत्परा एव सर्वा

नान्या वेदेऽपि रीतिस्तत उपनिषदामूषरप्रायतैव ।

नातस्तद्वेद्यमीमांसनमुचितमिति प्रत्यवस्थीयमाने

सिद्धे व्युत्पत्तिमाद्यां बहुमुखमवयन्ब्रह्म जिज्ञास्यमाह’’ ॥ इति ।

कर्मविचारानन्तरं तत एव हेतोर्ब्रह्मविचारः कर्तव्य इति तदीयभाष्यं हृदि कृत्वाऽऽह ॥ अथेति ॥ अत्र ‘‘एतत्सर्वं तर्कशास्त्रे ब्रह्मतर्के हि विस्तरात् । उक्तं’’ इत्यादिनाऽनु-व्याख्याने कार्ये व्युत्पत्तिनिरासेन सिद्धे व्युत्पत्तेरतश्शब्दार्थत्वेनोक्तत्वात् । सुधायामपि पूर्वपक्षे कार्ये व्युत्पत्तेरुक्तत्वाद्वक्ष्यमाणं दूषणं न लगतीत्यत उक्तम् ‘‘इति हि तव सूत्रार्थ’’ इति । तथा च तद्रीत्या वक्ष्यमाणं दूषणमिति ध्येयम् ॥ न चात्रेति ॥ यदि कर्मविचाराद्याक्षेपेण पूर्वपक्षः क्रियेत तदैवैतद्घटेत नान्यथेति भावः । सूत्रपदानिरस्योऽप्य-गत्या क्रियत इत्यत आह ॥ न चेति ॥ कोऽयं नियम इत्यत उक्तम् अवतारिकेति । अन्यथाऽसङ्गतिः स्यादिति भावः ॥ सम्भव इति ॥ अस्मद्रीत्येति भावः ।

ननु यथा भवन्मते जीवभेदकगुणपूर्तिवाचिब्रह्मपदप्रयोगाद्विषयसिद्धिस्तथा मन्मतेऽपि सिद्धब्रह्मवाचकब्रह्मपदप्रयोगात्सिद्धे व्युत्पत्तिर्ज्ञायत इत्यत आह ॥ न चेति ॥ ब्रह्मशब्दस्य विजिज्ञासस्वेति लोड्वाच्यकार्यान्वितब्रह्मपरत्वेन सिद्धे व्युत्पत्तेरलाभात्सूत्रे च श्रुत्यनुसरणाय कर्तव्यपदाध्याहाराच्च । यद्यत्र लिङादिविधिप्रत्ययरहितं ब्रह्मपदोपेतं विषयवाक्यं स्यात्, सूत्रे च कर्तव्यपदाध्याहारो न स्यात्तदा सा सूच्येत । न ह्येवमिति भावः । ननु कार्ये व्युत्पत्त्य१निरासे सिद्धे ब्रह्मणि प्रामाण्यायोगात्तन्निरासकस्यान्यस्या-भावाद्भवद्भिरप्यस्मिन्नेव सूत्रे तन्निरासादगत्याऽत्रैव पूर्वपक्षः कृत इत्यत आह ॥ किञ्चेति ॥ विंशतिलक्षणमिति ॥ लक्षणशब्दोऽध्यायपर्यायः । पूर्वतन्त्रे द्वादशलक्षणानि । दैवीमीमांसायां चत्वारि । उत्तरस्यां चत्वारि चेत्यर्थः । अत एवेत्युक्तं हेतुं विशदयति ॥ त्वद्रीत्येति ॥ अगतिं परिहरति ॥ विचारेति ॥ हेत्वर्थेन हेतुबोधकेन ॥ सम्भव इति ॥ वक्ष्यमाणदिशेति भावः । तत्र विचारकर्तव्यतायाम् । त्वन्मते कर्मविचारस्यैव ब्रह्मविचारं प्रति हेतुत्वोक्त्या सिद्धे व्युत्पत्तेर्हेतुत्वस्यातश्शब्देनाबोधनादिति भावः ।

यत्कश्चिदाह ‘‘परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायात् । नास्त्यकृतः कृतेन तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्’’ इति मुण्डकवाक्यमुदाहृत्य इदं शास्त्रमारम्भणीयं न वा । तदर्थं ब्रह्मज्ञानाय तद्विचाराङ्गभूतगुरूपसत्तिं, ‘‘परीक्ष्य लोकान्’’ इत्यादिवाक्यं विधातुं शक्नोति न वा । तदर्थं ब्रह्मविचारार्हं नेति सन्देहे ‘‘अयमात्मा ब्रह्मे’’त्यादिश्रुत्या जीवस्यैव ब्रह्म त्वात्तस्य चाहंधीसिद्धत्वेनासन्दिग्धतया विचारानर्हत्वात् । न चेयं श्रुतिरहंधीसिद्धेन विशिष्टेनाभेदं न बोधयति किन्तु चिन्मात्रेण, तच्चेदानीमावृतत्वा-त्सन्दिग्धमिति वाच्यम् । श्रुतावयमिति प्रत्यक्षसिद्धं विशिष्टमेव परामृश्य ब्रह्मतोपदेशात् । ‘‘मुष्टिलोपात्तु सङ्ख्यालोपस्तद्गुणत्वात्स्या’’दिति दाशमिकाधिकरणन्यायेन प्राथमिकेदं-शब्दस्वारस्यानुरोधेन चरमब्रह्मशब्दस्य देहबृंहणादिना कथञ्चित्तस्मिन्नेव नेयत्वात् । न च ‘‘ध्यायतीवे’’त्यादिश्रुतेः कर्तृत्वादिकं मिथ्येति युक्तम् । प्रत्यक्षविरोधेन श्रुतेः पारतन्त्र्य-मात्रपरत्वात् । अस्तु वा चिन्मात्रैक्यम् । तथापि तस्य निर्विशेषत्वेन शब्देन प्रतिपादना-सम्भवान्न तदयमात्मेत्यादिवाक्यबोध्यम् । किन्तु विशिष्टैक्यमेव । तच्चासन्दिग्धम् । ब्रह्मणो जीवान्यत्वेऽपि तस्य साकल्येन ज्ञानासम्भवात् । एकदेशज्ञानं जातमपि न मोक्षहेतुः स्यादतो ब्रह्मणोऽविचार्यत्वाद्गुरूपसत्तिमिदं वाक्यं न विदधातीति शास्त्रमेतन्नारम्भणीय-मिति प्राप्ते १तेभ्यो विलक्षणस्साक्षी चिन्मात्रोऽहं सदाशिवः ।

ज्ञाज्ञौ च द्वावजावीशानीशा’’वित्यादि श्रुतिभिर्भेदस्याप्यावेदनेन द्विविधवाक्यदर्शनेन सन्दिग्धत्वसम्भवाद्विचारार्हं ब्रह्मेति शास्त्रमारम्भणीयमिति सिद्धान्त इति ॥ यथोक्तं

‘‘आत्मा ब्रह्मेत्यधीतः स्फुरति स तु सदा निर्विशेषः स चेत्स्यात्

तस्यातीतस्य बुद्धेः सरणिमिह नयैः का परिच्छेदवार्ता’’ इत्यादि ।

तन्न । यद्गतन्यायैस्सूत्रनिबद्धैर्यद्वाक्यार्थो निर्णीयते तस्यैवोदाहरणत्वयोग्यतया ‘परीक्ष्ये’ति वाक्यस्यातथात्वेनानुदाहरणत्वात् । न हि ‘अथातो ब्रह्मजिज्ञासा’ इति सूत्रे परीक्ष्येति वाक्यगततद्वाक्यार्थनिर्णायकन्यायनिबन्धनमस्ति । न वाऽत्र सूत्रे स्थित्वा सर्वतीर्थकरैरेतद्वाक्यार्थो निर्णीयते । यदपि क्लेशेनास्य वाक्यस्य जिज्ञासासूत्रेणैकार्थतां व्युत्पाद्योदाहरणत्वकथनं तदपि न । साक्षाज्जिज्ञासापदाद्युपेतस्यैवोदाहरणत्वसम्भवे क्लेशा-योगात् । समानार्थत्वमात्रेणोदाहरणत्वायोगाच्च । निर्णेयार्थकस्यैवोदाहरणत्वात् । पूर्वपक्षोऽप्ययुक्तः । अयमात्मा ब्रह्मेत्यादौ ब्रह्मत्वं यादृशतादृशं निरङ्कुशं वा । नाद्यः । ब्रह्मैक्यासिद्धेः । न द्वितीयः । प्रत्यक्षबाधात् । न हि मायावादिमत इव प्रत्यक्षमतत्वा-वेदकमिति पूर्वपक्षिणो मतम् । तस्य बलवत्त्वेन ध्यायतीवेत्यादेरन्यार्थवर्णनात् । अयमात्मेत्यभेदवाक्यं पश्यतः पूर्वपक्षिणस्तद्भेदावेदकवाक्यादावान्ध्यस्यायुक्तत्वेन सर्व-सामञ्जस्याय चन्द्रिकोक्तदिशाऽद्वैतिरीत्येत्युक्तस्यैवानुसरणीयत्वाच्च । किञ्च जीवस्याहंधी-सिद्धत्वेऽपि देहादिविविक्तत्वादिना सन्दिग्धत्वात्तेन रूपेण जिज्ञासासम्भवेन शास्त्रा-नारम्भासिद्धेश्च । अन्यथा त्वन्मतेऽप्यग्रे जीवविचारो न स्यात् ।

यदपि ‘‘अस्तु वा’’ इत्यादिना चिन्मात्रैक्यमङ्गीकृत्य ‘‘अयमात्मा’’ इत्यादि-वाक्याबोध्यत्ववर्णनं तदप्यचारु । तस्य तादृशागमवाक्यं विनाऽङ्गीकारायोगेनागमेन तदप्रतिपादनोक्तेर्व्याहतत्वात् । यापि ब्रह्मणो जीवान्यत्वमुपेत्य यथावत्तस्या-परिच्छेद्यत्वोक्तिः साप्ययुक्ता । सूत्रे तस्यासमाधानात् । ब्रह्मणः साकल्येना-परिच्छेद्यत्वादिरूपमहामहिमत्वबोधकवचनसहस्रबलेनागत्या तस्य यथायोग्यमेकदेश-परिज्ञानस्यैव मुक्तिहेतुत्वस्य कल्प्यत्वात् । सिद्धान्तोऽप्ययुक्तः । त्वदुक्तसन्देहोपपादक-न्यायस्य सूत्रे केनापि पदेनाप्राप्तेरित्याद्यूह्यम् ।

चन्द्रिकाबिन्दु

अथशब्दादिना कार्यव्युत्पत्तिनिरासाप्रतीतावपि एवमेव पूर्वपक्षो भवत्वित्याशङ्क्याह । न च सौत्रपदेति ॥ न च सिद्धे ब्रह्मवाचिब्रह्मपदप्रयोगादसिद्धे व्युत्पत्तिनिरासो ज्ञायत इत्यत आह । न च विधिवाक्यस्थस्येति ॥ कार्यान्वित एव ब्रह्मणि ब्रह्मशब्दः प्रयुक्त इति भावः । तस्याः सिद्धव्युत्पत्तेः । तत्रैव देवमीमांसायामेव । अतश्शब्दादिना बोधनेऽपि सिद्धव्युत्पत्तेर्हेतुत्वमस्तु इत्यत आह । विचारेति ॥ अथ-शब्दादिना सूचितस्येति । मोक्षस्येति शेषः । मोक्षानन्तरमिति हि तस्यार्थः ।

पाण्डुरङ्गि

रामानुजीयं मतमनूद्य दूषयति ॥ केचित्त्विति ॥ वृद्धव्यवहारस्य कार्यप्रतिपत्तिनिबन्धनतया कार्यमात्रनिष्ठत्वेन तादृशव्यवहारदर्शनजन्यतया प्रत्याय्य-प्रत्यायकभावलक्षणसम्बन्धग्रहणलक्षणव्युत्पत्तेरपि कार्यमात्रविषयतया कार्यमात्र-व्युत्पत्त्यपेक्षशब्दस्य कार्यप्रतिपादकत्वसम्भवेऽपि परिनिष्पन्ने ब्रह्मणि शब्दानामव्युत्पन्नत्वेन तद्बोधकत्वानुपपत्त्या वेदान्तानां ब्रह्मणि प्रामाण्यासम्भवेनानुग्राह्यप्रमाणविरहाद्वेदान्त-विचारस्याकर्तव्यतया वेदार्थनिर्णायकन्यायग्रथनात्मकं शास्त्रमनारम्भणीयमिति पूर्वपक्षाभि-प्रायः । छोटिकावादनादिना अव्युत्पन्नमभिमुखीकृत्य अम्बातातादीनङ्गुल्या प्रदर्श्य ‘‘इयं ते अम्बा, अयं ते पिता’’ इति केनचिदाप्तेन प्रयुक्तेषु सत्सु अम्बादिपदार्थानां वर्तमानत्वेन प्रतिसम्बन्धिनां प्रत्यक्षत्वोपपत्तेरिष्टसाधनत्वेन जिज्ञासायाः सम्भवा-दम्बातातादिशब्दानामम्बातातादिषु प्राथमिकव्युत्पत्तिदर्शनात्सिद्ध एव शब्दानां व्युत्पन्न-त्वेन तत्सापेक्षवेदान्तानां परिनिष्पन्नेऽपि प्रामाण्यसम्भवादनुग्राह्यप्रमाणसद्भावेन वेदान्त-विचारस्य कर्तव्यत्वाच्छास्त्रमारम्भणीयमिति सिद्धान्ताशयः ॥ तव सूत्रार्थ इति ॥ ‘‘कर्मविचारानन्तरं तत एव हेतोर्ब्रह्मविचारः कर्तव्य इति अथात इत्युक्तं’’ इति तद्भाष्योक्तेरिति भावः ।

ननु अथशब्दादिना कार्ये व्युत्पत्तिनिरासाप्रतीतावपि भवत्वेवं पूर्वपक्ष इत्यत आह ॥ न च सौत्रपदेति ॥ सौत्रपदनिरस्यहेतुभिरेव पूर्वपक्षस्य कर्तव्यत्वे सूत्रावतारिकारूपेति हेतुगर्भं विशेषणम् । अन्यथा सूत्रावतारिकात्वानुपपत्तेः ॥ सम्भव इति ॥ अस्मद्रीत्येति शेषः ॥ हेत्वन्तरेणेति ॥ सौत्रपदानुक्तहेतुनिरस्यहेत्वन्तरेणेत्यर्थः । ननु च सौत्रपदोक्त-हेतुनैव पूर्वपक्षः कर्तव्य इति न नियमः । तत्सूचितहेतुनिरस्यहेतुनापि पूर्वपक्षाणां बहुलमुपलम्भात् । प्रकृते च सिद्धे व्युत्पत्तेः सौत्रपदेनानुक्तावपि सूचितत्वमस्त्येव । सूत्रे सिद्धार्थपरब्रह्मशब्दप्रयोगादित्यत आह ॥ न चेति ॥ ब्रह्मशब्दस्य स्वप्रधाने सिद्धे व्युत्पत्त्यभावे हेतुमाह ॥ विधिवाक्यस्थस्येति ॥ तद्विजिज्ञासस्वेति श्रुतौ लोड्वाच्यान्वित- ब्रह्मपरत्वात्सूत्रे च श्रुत्यनुसारेणाध्याहृतकर्तव्यपदोक्तकार्यान्वितब्रह्मपरत्वाद् ब्रह्मशब्दस्य न सिद्धपरत्वमिति भावः ।

ननु कार्ये व्युत्पत्तेरनिराकरणे सिद्धे ब्रह्मणि प्रामाण्यायोगात्तन्निरासकस्यान्यस्या- भावादगत्याऽत्रैवं पूर्वपक्षः कृत इत्यत आह ॥ किञ्चेति ॥ विंशतिलक्षणमिति ॥ लक्षणशब्दोऽध्यायपरः । तस्याः सिद्धे व्युत्पत्तेः । तत्रैव देवमीमांसायामेव ॥ पुनरिति ॥ विशेषहेत्वनुक्तेर्न तदाक्षेपोऽपि सम्भवति । सूचनं तूभयत्राप्यविशिष्टमेवेति भावः । नन्वतश्शब्दादिनाऽबोधनेऽपि सिद्धे व्युत्पत्तेर्हेतुत्वमस्त्वित्यत आह ॥ विचारेति ॥ अथशब्दादिना सूचितस्येति ॥ मोक्षस्येति शेषः । अथशब्दस्य मुमुक्षानन्तर्यार्थत्वादिति भावः । तत्र विचारकर्तव्यतायाम् । सम्भवे वक्ष्यमाणरीत्येति शेषः ॥ तद्विपरीताया इति ॥ तन्मते अतश्शब्देन कर्मविचारस्यैव ब्रह्मविचारं प्रति हेतुताया उक्तत्वेन सिद्धे व्युत्पत्तेर्हेतुत्वस्याप्रतिपादनादिति भावः ।