एतेन न प्रत्यग्ब्रह्मैक्यं विषयः
विवरणमतपरीक्षा
तात्पर्यचन्द्रिका
एतेन न प्रत्यग्ब्रह्मैक्यं विषयः । कर्तृत्वादेर्विरुद्धधर्मस्य सत्यत्वेनैक्यायोगात् । नापि तन्निवृत्तिः प्रयोजनम् । ज्ञानस्याज्ञानमात्रनिवर्तकत्वेन सत्यस्य ज्ञानान्निवृत्त्ययोगादिति प्राप्ते सत्यं कर्तृत्वभोक्तृत्वादिप्रपञ्चस्य सत्यत्वे विषयादिर्न सिध्यतीति । प्रपञ्चस्तु मिथ्यैव । अत एव भाष्येऽध्यासवर्णनमिति विवरणाभिप्रेत-मधिकरणमपि निरस्तम् । कर्तृत्वादिविशिष्टस्य सम्भावितदोषेणातत्वावेदकेन प्रत्यक्षानुमानादिना मिथ्याभेदे गृहीतेऽपि तात्विकाभेदे मानान्तरविरोधाभावेन तत्त्वंपदमुख्यार्थत्वाय तल्लक्षिते चिन्मात्रेऽभेदाप्रसक्त्या तत्त्वमसिवाक्यावैयर्थ्याय च विशिष्टस्यैव निर्दोषया श्रुत्या तात्विकाभेदबोधनसम्भवेन विषयार्थमध्यासस्या-वक्तव्यत्वात् । न च विरुद्धधर्मस्य सदा सत्त्वे भेदस्तात्विक एव स्यादिति वाच्यम् । अस्याप्यनुमानस्य श्रुतिविरुद्धत्वेनातात्विकविषयत्वात् । नापि प्रयोजनार्थं तदुक्तिः । सेत्वज्ञानाकार्यस्यापि पापस्य सेतुज्ञानान्निवृत्तेः । विस्तृतं चैतदन्यत्र । तस्मान्न विवरणमतमपि युक्तम् ।
प्रकाशिका
विवरणमतमप्युक्तातिदेशेन निराह ॥ एतेनेति ॥ आत्मभिन्नः सत्यश्चेदपसिद्धान्त इत्यादिदूषणजातेनेत्यर्थः । तथा हि ब्रह्मैक्यं हि विषय इति सिद्धा-न्त्यभिमतम् । तच्चात्मस्वरूपमुत भिन्नम् । आद्ये तस्य स्वप्रकाशत्वेन शास्त्रवैयर्थ्यम् । न च भेदभ्रमनिरासार्थं शास्त्रम् । अधिष्ठानाप्रकाशं विना भेदभ्रमस्यैवायोगात् । स्वरूपे प्रकाशमानेऽप्यज्ञानविरोधिवृत्त्यभावाद्भ्रम इति त्वयुक्तम् । तद्वेद्ये दुःखादावज्ञानप्रसङ्गात् । द्वितीये स(त्य)त्वेऽपसिद्धान्तः । अभावत्वेऽप्यभावद्वैतस्यान्यत्र निरासात् । मिथ्यात्वे तु न तत्वावेदकशास्त्रवेद्यतेत्यादि ॥ प्रत्यगिति ॥ जीवब्रह्मैक्यमित्यर्थः । विश्वकर्तृत्व-सर्वज्ञत्वादेर्ब्रह्मधर्मस्यासर्वकर्तृत्वाल्पज्ञत्वादेर्जीवधर्मस्य सत्यत्वादित्यर्थः । यद्वा कर्तृत्व-भोक्तृत्वदुःखित्वादिजीवधर्मस्य ब्रह्मधर्मविरुद्धस्य सत्यत्वादित्यर्थः । तन्निवृत्तिः कर्तृत्व-भोक्तृत्वादिबन्धनिवृत्तिः ॥ ज्ञानस्येति ॥ यद्विषयकं हि ज्ञानं तद्विषयकमज्ञानमेव साक्षान्निवर्तयति । यदि च कर्तृत्वादिकमज्ञानकार्यं तदा तद्द्वारा तन्निवर्तकं स्यात् । न हि तत्तथेत्यर्थः । सत्यस्य अज्ञानाकार्यस्येति व्याख्येयम् । मिथ्यैव आविद्यक एवेत्यर्थः । तथा च कर्तृत्वादिविरुद्धधर्माणां मिथ्यात्वेनैक्यस्य विषयत्वमज्ञानकार्यत्वेन च ज्ञाना-न्निवृत्तियोगेन कर्तृत्वादिबन्धनिवृत्तिः फलमिति भावः ।
अत एवेति ॥ यतः कर्तृत्वादेर्मिथ्यात्वे विषयादिसिद्धिरत इत्यर्थः । अन्यथा ‘‘अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य तद्धर्माणां चाध्यास’’ इत्यारभ्य ‘‘मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्वप्रवर्तनः सर्वलोकप्रत्यक्ष’’ इत्यन्तं भाष्यं व्यर्थमेव स्यादिति भावः । यदुक्तं विषयादिसिद्ध्यर्थमध्यासवर्णनं भाष्य इति तदप्य-युक्तमिति भावेन ‘‘बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते’’ इत्यनुव्याख्यानं हृदि कृत्वा दूषणान्तरमाह ॥ कर्तृत्वादीति ॥ विशिष्टस्येति मिथ्याभेदे गृहीतेऽपीत्यन्वयः । मिथ्यात्वे हेतुर् अतत्वावेदकेनेति । तत्र हेतुः ॥ सम्भावितेति ॥ न केवलं विशिष्टाभेदे बाधकाभावः प्रयोजनं चास्तीत्याह ॥ तत्त्वंपदेति ॥ युक्तं च विशिष्टैक्यमेवेत्याह ॥ तल्लक्षित इति ॥ तत्त्वंपदलक्षित इत्यर्थः । यत्र हि भेदः प्रसक्तस्तत्रैव तन्निषेधरूपाभेदो बोधनीयः । न हि चिन्मात्रे भेदः प्रसक्तः । येन तत्राभेदबोधनं सार्थकम् । किन्तु विशिष्ट एवेति । विशिष्टस्य कर्तृत्वादिविशिष्टस्य । विशिष्टाभेदे बाधकं शङ्कते ॥ न चेति ॥ तथा च तत्वावेदकप्रत्यक्षादिमानविरोध इति भावः ।
॥ अस्येति ॥ सदातनविरुद्धधर्मवत्त्वात्तात्विकभेदवन्तौ जीवपरावित्यनुमानस्येत्यर्थः । ‘‘तत्परत्वात्परत्वाच्चे’’ति त्वयैवोक्तेरिति भावः । तदुक्तिर् अध्यासोक्तिः ॥ सेत्विति ॥ ‘‘सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति’’ इत्यादिस्मृतेरिति भावः । पापस्य सेत्वज्ञानकार्यत्वे हि तज्ज्ञानमज्ञाननिवृत्तिद्वारा तन्निवर्तकं स्यात् । न च तत्तथा । तथा च तद्वदेवात्राप्यज्ञानाकार्यस्य विरुद्धधर्मस्य ज्ञानेन निवृत्तिसम्भवान्न तदर्थं तस्य मिथ्यात्व-वर्णनमित्यर्थः । ननु सेतुदर्शनस्याऽपि न साक्षात्पापनिवर्तकत्वं किन्तु स्वजन्यादृष्टद्वारा । साक्षान्निवर्तकत्वेपि न ज्ञानत्वेन किन्तु विहितक्रियात्वेन । ज्ञानत्वेन ज्ञाननिवर्त्यत्वं त्वज्ञानस्यैव । अतः कर्तृत्वादेराविद्यकत्वायाध्यासवर्णनं युक्तमित्यत आह ॥ विस्तृत-मिति ॥ न्यायामृते ज्ञाननिवर्त्यत्वान्यथानुपपत्तिभङ्ग इत्यर्थः ।
चन्द्रिकाबिन्दु
सत्यस्येति ॥ कर्तृत्त्वादेर्विरुद्धधर्मस्येति शेषः । ‘‘अनुमानादिना’’ इत्यादिपदेन द्वासुपर्णेति श्रुतिप्रतिग्रहः । ननु अयोग्यत्त्वात् कथं विशब्देन विशिष्टा-भेदबोधनमित्यत आह । मानान्तरेति ॥ वाक्यावैयर्थ्यायेति ॥ अन्यथा चिन्मात्र-भेदनिरासपरत्त्वे त्वस्य तत्राप्रसक्त्या तन्निषेधार्थं तत्त्वमसिवाक्यप्रवृत्तिर्व्यर्थेति भावः । ननु सेतुज्ञानत्वेन निवर्तकत्वं न सेतुज्ञानस्य, किन्तु पादगमनादिविशिष्टविहितक्रियादिनेति चेत्तर्हि ब्रह्मज्ञानत्वेन न निवर्तकत्वं किन्तु श्रवणादिसाध्यविहितब्रह्मज्ञानत्वेनेति वक्तुं शक्यत इत्यभिप्रेत्याह । विस्तृतं चैतदिति ॥
पाण्डुरङ्गि
॥ प्रत्यगिति ॥ जीवब्रह्मैक्यमित्यर्थः ॥ ऐक्यायोगादिति ॥ पारमार्थिकविरुद्धधर्माधिकरणयोरैक्ये जलानलयोरपि तत्प्रसङ्गादिति भावः ॥ तन्निवृत्ति-रिति ॥ कर्तृत्वादिरूपबन्धनिवृत्तिरित्यर्थः ॥ ज्ञानस्येति ॥ यतो ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तेरिति भावः ॥ प्रपञ्चस्त्विति ॥ तथा कर्तृत्वादिरूपप्रपञ्चस्य मिथ्या-त्वादैक्यस्य विषयत्वं, मिथ्यात्वेनाज्ञानकार्यत्वाज् ज्ञानेन तन्निवृत्त्या प्रयोजनं च सिद्ध-मित्यर्थः ॥ अत एवेति ॥ कर्तृत्वभोक्तृत्वादिरूपप्रपञ्चस्य सत्यत्वे विषयाद्य-सम्भवादेवेत्यर्थः ॥ सम्भावितदोषेणेति ॥ अत्र प्रत्यक्षादेर्मिथ्याभेदग्राहकत्वे अतत्वा-वेदकत्वं हेतुः । तत्र च सम्भावितदोषत्वमिति ज्ञेयम् । न केवलं विशिष्टाभेदे बाधकाभावः प्रयोजनान्तरं चास्तीत्याह ॥ तत्त्वंपदेति ॥ युक्तं च विशिष्टैक्यमेवेत्याह ॥ तल्लक्षित इति ॥ तत्त्वंपदलक्षित इत्यर्थः । यत्र हि भेदः प्रसक्तस्तत्रैव हि तन्निषेधरूपोऽभेदो बोधनीयः । न हि चिन्मात्रे भेदः प्रसक्तः । चिच्चिन्नेत्यनवभासात् । येन तत्राभेदबोधनं सार्थकं स्यादिति भावः ॥ विशिष्टस्यैवेति ॥ कर्तृत्वादिविशिष्टस्यैवेत्यर्थः ॥ न चेति ॥ तथा च तत्वावेदकप्रत्यक्षादिप्रमाणविरोध इति भावः ॥ अस्येति ॥ सदातनविरुद्ध-धर्मवत्त्वात्तात्विकभेदवन्तौ जीवपरावित्यनुमानस्येत्यर्थः ॥ तदुक्तिरिति ॥ अध्यासोक्ति-रित्यर्थः ॥ सेत्विति ॥ ‘‘सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहती’’त्यादि स्मरणादिति भावः । पापस्य सेत्वज्ञानकार्यत्वे हि तज्ज्ञानस्य तदज्ञाननिवृत्तिद्वारा तन्निवर्तकत्वं स्यात् । न च तदस्ति । तथा च तद्वदेवात्राप्यज्ञानाकार्यस्यापि विरुद्धधर्मस्य ज्ञानेन निवृत्तिसम्भवान्न तदर्थं तस्य मिथ्यात्ववर्णनमित्यर्थः ।
ननु सेत्वादिज्ञानस्यादृष्टद्वारेण तन्निवर्तकत्वान्न साक्षात्तन्निवर्तकत्वम् । तत्त्वेऽपि वा न ज्ञानत्वेन तत् । किन्तु विहितक्रियात्वेन । ब्रह्मज्ञानं च न तादृशमिति दृष्टान्त-दार्ष्टान्तिकवैषम्यमिति चेत्समं प्रकृतेऽपीत्याह ॥ विस्तृतमिति ॥ अन्यत्र न्यायामृते ज्ञाननिवर्त्यत्वान्यथानुपपत्तिभङ्ग इत्यर्थः । यद्वा ननु सेतुदर्शनमात्रं न निवर्तकम् । सेतुस्थानामपि तत्प्रसङ्गात् । किन्तु दूरगमनादिविशिष्टमेवेति चेदिहापि न ब्रह्मज्ञानमात्रं निवर्तकम् । भाषाप्रबन्धजन्येन अनधीतवेदान्तजन्येन अधीतवेदान्तजन्येनाप्य-सम्भावनाविपरीतभावनाप्रबलारब्धकर्मादिना प्रतिबद्धेनापि तन्निवृत्तिप्रसक्तेः । किन्तु नियमाधीतवेदान्तश्रवणादिनियमविशिष्टमेवेति साम्यमेवेत्याह ॥ विस्तृतमिति ॥