०२ भामतीमतपरीक्षा

परोक्ते दूष्य एवांशो मितैः शब्दैरनूद्यते

भामतीमतपरीक्षा

तात्पर्यचन्द्रिका

परोक्ते दूष्य एवांशो मितैः शब्दैरनूद्यते ।

दूषणं चापि हनुमद्भाष्यसूचितमुच्यते ।

तत्र भामत्युक्तमधिकरणम् । प्रत्यगात्मन एव ब्रह्मत्वात्तस्य चाहमिति प्रकाशमानत्वेनासन्दिग्धत्वान्न विषयत्वम् । नाप्यविद्यानिवृत्तिः प्रयोजनम् । उक्तरीत्याऽऽत्मनि भासमानेऽपि तदनिवृत्तेः । न च वाच्यमहंप्रत्ययः स्थूलोऽहं कर्ता भोक्ता दुःखीति गृह्णाति तद्विपरीतश्च वेदान्तप्रतिपाद्यः सन्दिग्ध इति विषयादि-सिद्धिरिति । वेदान्तानामध्ययनविध्यापादितप्रयोजनवदर्थावबोधानामपि प्रबलाहं-प्रत्ययबाधितत्वेन जपमात्रोपयोगित्वेनाविवक्षितार्थत्वादुपचरितार्थत्वाद्वा । तथा च वेदान्तविचारो नारब्धव्य इति पूर्वपक्षः ।

सिद्धान्तस्तु । वेदान्तवाक्यैर्ज्ञानानन्दैकरसाद्वितीयोदासीनस्वभाव आत्मोप-क्रमादिभिः प्रतिपाद्यते । न च क्रियासमभिहारेण दृगात्मतत्वमभिदधति तत्पराणि सन्ति युक्तमुपचरितार्थानीति वक्तुम् । प्रत्यक्षं तु सम्भावितदोषमपौरुषेयेण निर्दोषेणागमेन बाध्यते । तेन वेदान्तवेद्यः शुद्धोऽहंप्रत्यये न भातीति विषयादिसिद्धिरिति ॥

प्रकाशिका

‘‘तत्रादिसूत्रस्येदं सङ्गत्यादि’’ इत्यत्रेदंशब्देन परोदीरितसङ्गत्यादिक-मयुक्तमिति टीकायां सूचितम् । तद्विवरितुं प्रतिजानीते ॥ परोक्त इति ॥ इदं तु शिष्यमनःसमाधानाय । उत्तरार्धेन दूषणानां परमाप्तोक्तिमूलत्वेन बलवत्तामाह । तत्र ‘‘हनुशब्दो ज्ञानवाची’’ति स्मृतेर्हनुर्ज्ञानम् ।

भूमनिन्दाप्रशंसासु भवन्ति मतुबादयः ।

संसर्गेऽस्ति विवक्षायां नित्ययोगेऽतिशायने ॥

इत्युक्तेर्भूमार्थे मतुप् । पूर्णबोध इत्यर्थः । यद्वा तस्य हनुमदैक्यात्तथोक्तिः । संज्ञापूर्वकविधेरनित्यत्वाद्धनुशब्दे ‘‘शरादीनां च’’ इति न दीर्घः ‘‘संज्ञाया’’मिति सूत्रेण मतुपो मकारस्य यवादित्वादित्युक्तं धातुवृत्तौ । चोऽवधारणे । सूचितमेवेत्यन्वयः । भाष्येति अनुभाष्यादिकं च ग्राह्यम् । भाष्ये अधिकरणशरीरस्यास्पष्टत्वात्तद्विवरणपरयो-र्वाचस्पत्यविवरणयोः स्पष्टत्वेनादौ वाचस्पत्योक्तमधिकरणप्रकारं दूषयितुमनुवदति । तत्र दूष्येषु मध्य इति ॥ प्रत्यगात्मन एवेति ॥ अतिरिक्तब्रह्मसत्त्वे मानाभावादिति भावः ॥ न विषयत्वमिति ॥ न हि स्फीतालोकमध्यमध्यासीनं कञ्चिज्जिज्ञासत इति भावः ।

नाविवक्षितार्थत्वं वेदान्तानामाशङ्कितुं शक्यम् । स्वाध्यायोऽध्येतव्य इत्यध्ययन-विधेर्दृष्टार्थत्वेन तेन सर्वस्य वेदस्य फलवदर्थावबोधनपरत्वापादनस्य ‘‘अथातो धर्म-जिज्ञासा’’ इत्यत्र निर्णीतत्वादत आह ॥ अध्ययनेत्यादि ॥ अविवक्षितार्थत्वेऽध्ययनं व्यर्थमित्यत आह ॥ जपमात्रेति ॥ क्रियासमभिहारेण पौनःपुन्येन । ज्ञानानन्दादि-स्वरूपमात्मतत्वमभिदधानानि । अत एव तत्र तात्पर्यवत्त्वेन विद्यमानानीत्यर्थः ।

प्रत्यक्षबाधाद्युक्तमित्यत आह ॥ प्रत्यक्षं त्विति ॥ शुक्तिरजतादौ व्यभिचार-दर्शनादिति भावः । बाधकत्वे हेतुर्निर्दोषेणेति ॥ तत्र हेतुरपौरुषेयेणेति ॥ नन्वत्र ‘‘शुद्धो न भाती’’त्यादिना सिद्धान्तांशस्यैवाग्रे दूष्यत्वेन तावन्मात्रमेवानुवदनीयम् । न तु पूर्वपक्षोऽपि । तथात्वे ‘‘परोक्ते दूष्य एवांश’’ इति प्रतिज्ञाव्याकोप इति चेन्न । सिद्धान्तस्य पूर्वपक्षसापेक्षत्वेन तदननुवादे सिद्धान्तमात्रानुवादायोगात् । यद्वा सिद्धान्ते दूषिते पूर्वपक्षोऽपि दूषितप्राय इत्यभिप्रेत्य तदनुवादः । ‘‘निर्विशेषे स्वयं भाते किमज्ञानावृतं भवेत्’’ इत्यनुव्याख्यानं हृदि कृत्वाऽनूदितं दूषयति ।

चन्द्रिकाबिन्दु

हनुमद्भाष्येति । अनेनात्र आचार्यकृतग्रन्थान्तरस्थान्यपि दूषणा-न्युपयुक्तानि गृह्यन्ते । न तु सूत्रभाष्यमात्रसूचितानीति सूचयति । उपचरितार्थत्वाद्वेति । प्रत्यक्षविपरीतार्थप्रतिपादनकल्पने प्रमाणाभावादिति भावः । क्रियासमभिहारेणेति । पौनःपुन्येनेत्यर्थः ।

पाण्डुरङ्गि

‘‘भाष्यसूचितम्’’ इत्यत्र भाष्यपदं भाष्यानुव्याख्यानादिसूत्रसम्बन्धि-समस्तग्रन्थपरम् । न तु भाष्यमात्रपरम् । प्रसिद्धेषु कुभाष्योक्तेष्वधिकरणेषु सत्सु तद्विरुद्धं स्वीयमधिकरणं बुद्धिस्थं न भवतीत्यतोऽनुवादपूर्वकं तानि निराकर्तुमुत्तरो ग्रन्थः । तत्र भामत्युक्तमधिकरणशरीरं दर्शयति ॥ तत्रेति ॥ तत्र दूष्येषु मध्ये ॥ प्रत्यगात्मन एवेति ॥ तदतिरिक्तब्रह्मसत्त्वे मानाभावादिति भावः ॥ न विषयत्वमिति ॥ स्फीतालोक-मध्यवर्तिनो घटस्य जिज्ञास्यत्वादर्शनादिति भावः । ननु नाविवक्षितार्थत्वं वेदान्तानां शङ्कितुं शक्यम् । अध्ययनविधेर्दृष्टार्थत्वेन सर्ववेदस्यार्थज्ञानपर्यन्ततायाः सिद्धत्वादित्यत उक्तम् ॥ अध्ययनविधीति ॥ नन्वर्थज्ञानस्य सुखदुःखाभावेतरत्वान्न पुरुषार्थत्वमित्यत उक्तम् । ‘‘प्रयोजनवत्’’ इत्यर्थावबोधविशेषणम् । नन्वविवक्षितार्थत्वे वेदान्तानां तद-ध्ययनवैयर्थ्यमित्यत उक्तम् ॥ जपमात्रोपयोगितयेति ॥ ननु च उपक्रमादिलिङ्गै-र्निर्णीततात्पर्यत्वाद्वेदान्तानां नाविवक्षितार्थत्वं युक्तमित्यत आह ॥ उपचरितार्थत्वाद्वेति ॥ प्रत्यक्षविपरीतार्थप्रतिपादनकल्पने प्रमाणाभावादुपक्रमादेस्तात्पर्यमात्रनिश्चायकत्वेनार्थे तथात्वानिश्चायकत्वादिति भावः ।

प्रमाणलक्षणे प्रथमपादे प्रथमाधिकरणे चिन्तितं ‘‘अथातो धर्मजिज्ञासा । चोदना-लक्षणोऽर्थो धर्म’’ इत्यारभ्य ‘‘अन्वाहार्ये च दर्शनात्’’ इत्येतदन्तं शास्त्रमस्य विषयः । तत्रैतन्मतद्वयम् । अध्ययनविधिरक्षरग्रहणमात्रपर्यवसायीति केचित् । अपरे तु अर्थज्ञान-रूपदृष्टप्रयोजनायेदमध्ययनं विधीयते । अर्थज्ञानं च विचारमन्तरेण न सम्भवति । ततो विधिर्विचारशास्त्रस्य प्रयोजक इति ।

अत्र विचारशास्त्रमनारम्भणीयमारम्भणीयं वेति चिन्ता । तदर्थम् अधीत्य स्नातव्यं वा धर्मजिज्ञासया गुरुगृहेऽवस्थातव्यं वेति । तदर्थमपि स्वाध्यायाध्ययनविधिरदृष्टार्थमध्ययनं विधत्ते उत दृष्टार्थमिति । यद्यदृष्टार्थं स्वाध्यायाध्ययनं विधीयते ततस्तन्मात्रेणैव शास्त्र-समाप्तेः ‘‘अधीत्य स्नाया’’दिति वचनबलेन समावर्तितव्यम् । अवैधश्चायं विचारो नारम्भणीयः । यदि च अक्षरग्रहणपरम्परोपजायमानवाक्यार्थज्ञानायाध्ययनं विधीयते ततस्तस्य विचारमन्तरेणासम्भवादध्ययनविधिनैवार्थाद्विचारो विहित इति विचारयितव्यो धर्म इति विचारशास्त्रमारम्भणीयम् ।

तत्र विनापि विधिना ज्ञानलाभान्न हि तदर्थता । कल्प्यस्तु विधिसामर्थ्यात्स्वर्गो विश्वजिदादिवत् । तथा हि । अदृष्टार्थ एवायमध्ययनविधिर्न दृष्टार्थः । विनैव विधिनाऽध्ययनस्यार्थज्ञानहेतुताया लोकसिद्धत्वेन विध्यनपेक्षिततयाऽपूर्वविधित्वानुपपत्तेः । न चावघातविधिवन्नियमार्थता । लिखितपाठादिनाऽर्थज्ञानसम्भवे गुरुपूर्वकाध्ययनेनैव एतत्कुर्यादिति तत्सम्भवादिति वाच्यम् । अवघातो हि दर्शाद्यपूर्वे नियम्यते अवघात-निष्पन्नैरेव तण्डुलैरपूर्वं सिध्यतीति । न तण्डुलस्वरूपे । विनाप्यवघातं तण्डुलस्वरूप-सिद्धेर्मानान्तरगृहीतत्वेन तद्विरोधात् । न चेह तथा । विनाप्यध्ययनं लिखितपाठादिनापि ज्ञानदर्शनेन तत्स्वरूपे नियमासम्भवात् । न च तर्ह्यवघातस्य दर्शाद्यपूर्व इव क्रत्वपूर्वे नियमोऽस्तु अधीतैरेव वेदैरवगतानि कर्माणि फलदानीति तत्सम्भवादिति वाच्यम् । अनारभ्याधीततया अध्ययनस्याक्रत्वर्थत्वात् । नाप्यध्ययनस्य क्रत्वर्थत्वे श्रुत्यादिकं मानमस्ति । तस्माद्दृष्टार्थत्वेऽपूर्वनियमनासम्भवान्न दृष्टार्थत्वम् ।

किञ्च ‘‘अधीत्य स्नायात्’’ इत्यध्ययनस्नानयोर्नैरन्तर्यं बोधयन्ती स्मृतिरन्तराऽर्थज्ञान-सम्पादनायासं विरुणद्धि । ततोऽपूर्वद्वारा स्वर्गार्थमध्ययनं विधीयत इति विचारस्य वैधत्वाभावाद्विचारशास्त्रमनारम्भणीयम् । उच्यते । ‘‘लभ्यमाने फले दृष्टे नादृष्टपरिकल्पना । विधेश्च नियमार्थत्वान्नानर्थक्यं भविष्यति’’ इति । यदुक्तं ज्ञानस्वरूपे क्रत्वपूर्वे वा न नियमः सम्भवतीति तदनुमन्यामहे । किन्तु योऽयमग्निहोत्रादिष्वधीतवेदानां त्रैवर्णिकानामेवाधिकारो नानधीतवेदानां शूद्राणामित्यधिकारनियमः स प्रयोजनमध्ययन-विधेः । तथा हि । असत्यध्ययनविधावग्निहोत्रादिशास्त्राणि विद्वांसमलभमानान्य-विद्वांसमेवाधिकृत्य विद्यामन्तरेणानुष्ठानासम्भवाद्विद्यामाक्षिपन्त्यविशेषाच्चतुरो वर्णा-नधिकुर्युः । सति ह्यध्ययनविधौ त्रैवर्णिकानामेव विदुषामधिकारो भवति न तुरीयस्य ।

तथा हि । वसन्ते ब्राह्मणमुपनयीतेत्यादौ द्वितीयानिर्देशादुपनयनसंस्कारकर्मत्वम् । संस्कृताश्च त्रैवर्णिकाः किमस्माभिः कर्तव्यमित्यपेक्षन्ते । शेषस्य परार्थत्वात् । तदाश्रयत्वात्तेषाम् । तत्सन्निधौ चाध्ययनमनिर्दिष्टकर्तृकं विधीयमानं कर्तारमपेक्षते । तत्रा-काङ्क्षासन्निधियोग्यत्वैरेवं ज्ञाप्यते ‘त्रैवर्णिकैरेवोपनीतैरध्ययनेनाक्षरग्रहणादिपरम्परयाऽर्थज्ञानं कर्तव्यम्’ इति । एवं च फलवदध्ययनकर्तृभूतमाणवकसंस्कारत्वादुपनयनमध्ययनाङ्गम् । अध्ययनमपि दृष्टफलज्ञानार्थम् । अर्थज्ञानं त्वनुष्ठानौपयिकत्वात्प्रसिद्धफलमेवेति सर्वेषां फलवत्त्वम् । एवं च त्रैवर्णिकेषु विद्वत्सु लब्धेषु न चतुर्थस्य विद्यामाक्षिपन्त्यग्निहोत्रा-दीनि । किन्तु त्रैवर्णिकानेव विदुषोऽधिकुर्वन्ति । ततोऽग्निहोत्रादिकर्मानुष्ठानौपयिकार्थ-ज्ञानावसानमध्ययनमध्ययनविधिना विधीयत इति विचारमन्तरेणार्थज्ञानानुपपत्तेरध्ययन-विधिरेव विचारमाक्षिपत्स्मार्तमध्ययनसमावर्तनयोर्नैरन्तर्यं बाधत इति सिद्धम् । अध्ययना-नन्तरं वैधो विचारः कर्तव्य इति विचारशास्त्रमारम्भणीयमिति ॥

उपक्रमादिभिरिति ॥ आदिपदेन परामर्शोपसंहारयोः परिग्रहः । परामर्शो नाम मध्ये निर्देशो बोध्यः ॥ क्रियासमभिहारेणेति ॥ क्रियासमभिहारः पौनःपुन्यम् । तेन ज्ञाना-नन्दादिस्वरूपमात्रमात्मतत्वमभिदधानानि अत एव तत्र तात्पर्यवत्त्वेन विद्यमानानि सन्तीत्यर्थः ॥ उपचरितार्थानीति वक्तुमिति ॥ अभ्यासे हि भूयस्त्वमर्थस्य भवति । यथा अहोदर्शनीया अहोदर्शनीयेति । न न्यूनत्वं नाल्पत्वमपीति भावः । ननु तथाप्यहं-प्रत्ययबाधितत्वादुपचरितार्थत्वं वेदान्तानामास्थेयमित्यत आह ॥ प्रत्यक्षं त्विति ॥ प्रत्यक्षस्य बाध्यत्वोपपादनाय सम्भावितदोषमित्युक्तम् । पौरुषेयतया सम्भावितेत्यर्थः । आगमस्य बाधकत्वोपपादनाय निर्दोषेणेति ॥ तत्र हेतुरपौरुषेयेणेति ॥

ननु यजमानः प्रस्तर इत्यादेरिव वेदान्तानामपि प्रबलाहंप्रत्ययबाधितत्वादुपचरितार्थत्वे शङ्किते कथं सिद्धान्ते वेदान्तानामेव प्रत्यक्षबाधकत्वाभिधानम् । वेदान्तवाक्येष्विव यजमान प्रस्तरादिवाक्येऽप्यपूर्वतादितात्पर्यलिङ्गसद्भावेन तस्यापि यजमानप्रस्तरभेदग्राहक-प्रत्यक्षबाधकत्वापातादिति चेन्न । स्थूलोहऽमित्यादिपरोदाहृतप्रत्यक्षस्य नाहं स्थूल इत्यादिप्रत्यक्षेणैव बाधिततया तत्सजातीयस्य कर्ता भोक्ता सुखीत्यादिप्रत्यक्षस्यापि दोषशङ्काकलङ्किततया वेदान्तानां तद्बाधकत्वोपपत्तावपि प्रस्तरयजमानभेदग्राहकप्रत्यक्षे कुत्रापि प्रत्यक्षेण बाधादृष्ट्याऽऽगममात्रेण प्रत्यक्षबाधयोगात् । ‘‘यजमानं सुवर्गं लोकं गमयति यदेतैः प्रस्तरं प्रहरती’’ति वाक्यशेषपर्यालोचनयापि तत्रोपचारस्यैवावगमात् । वेदान्तवत्तात्पर्यलिङ्गाभावाच्च युक्तः प्रत्यक्षेण तद्बाध इत्येवं वैषम्यस्यात्र सिद्धान्तेऽभि-प्रेतत्वात् । अत एव स्थूलोऽहमित्यादित्वेनैवोपन्यासः कृत इति ध्येयम् ॥ विषयादि-सिद्धिरितीति ॥ तथा चाहंप्रत्यये सत्यपि विषयज्ञानाभावान् न फलानुपलम्भबाध इति विषयसिध्यैव फलमपि सिध्यतीत्यर्थः । यद्यपि परोक्ते दूष्य एवांश इति प्रतिज्ञानुरोधेन सिद्धान्तमात्रमेवानुवदनीयम् । शुद्धो न भातीत्युत्तरग्रन्थेन सिद्धान्तांशस्यैव दूष्यत्वात् । तथापि सिद्धान्तस्य पूर्वपक्षसापेक्षत्वेन तदननुवादे सिद्धान्तमात्रानुवादायोगा-त्पूर्वपक्षांशोऽप्यनूदितो न तु तस्यापि दूषणीयत्वाभिप्रायेणेति ध्येयम् ।