०२ मङ्गलमाचरणम्

अस्पृष्टदोषगन्धाय कल्याणगुणसिन्धवे

॥ श्री वेदव्यासाय नमः ॥

श्रीब्रह्मण्यतीर्थश्रीपादशिष्यश्रीव्यासतीर्थविरचिता

तात्पर्यचन्द्रिका

प्रथमाध्यायस्य प्रथमः पादः

जिज्ञासाधिकरणम्

मङ्गलपद्यानि

अस्पृष्टदोषगन्धाय कल्याणगुणसिन्धवे

अस्पृष्टदोषगन्धाय कल्याणगुणसिन्धवे ।

नमोनमो भक्तमुक्तिदायिने शेषशायिने ॥ १ ॥

शमयन् भवसन्तापं रमयन् साधुचातकान् ।

कृष्णमेघः कृपादृष्टिवृष्ट्या पुष्णातु मामपि ॥ २ ॥

श्रीमदानन्दतीर्थार्यपादपङ्कजरेणवः ।

पवित्रयन्तु मां नित्यं पापपाटनपण्डिताः ॥ ३ ॥

शारदावासवदनशारदाम्बुरुहान्मुहुः ।

पद्मनाभमुनीन् वन्दे सर्वशास्त्रविशारदान् ॥ ४ ॥

मिथ्यासिद्धान्तदुर्ध्वान्तविध्वंसनविचक्षणः ।

जयतीर्थाख्यतरणिर्भासतां नो(मे)हृदम्बरे ॥ ५ ॥

कंसध्वंसिपदाम्भोजसंसक्तो हंसपुङ्गवः ।

ब्रह्मण्यगुरुराजाख्यो वर्ततां मम मानसे ॥ ६ ॥

पदवाक्यप्रमाणाब्धिविक्रीडनविशारदान् ।

लक्ष्मीनारायणमुनीन्वन्दे विद्यागुरून्मम ॥ ७ ॥

श्री राघवेन्द्रतीर्थविरचिता प्रकाशिका

प्रकाशिका

समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम् ।

ज्ञानिप्रियतमं वन्दे मुक्तिदं कमलापतिम् ॥ १ ॥

शर्वादिसर्वगीर्वाणनिर्वाणगतिहेतवः ।

पूर्णप्रज्ञपदाम्भोजपांसवः पान्तु नः सदा ॥ २ ॥

विधूतदुर्मतध्वान्तो विशदीकृतपद्धतिः ।

यः सज्जनानुज्जहार जयतीर्थरविं भजे ॥ ३ ॥

पदवाक्यप्रमाणज्ञान्सम्प्रदायार्थकोविदान् ।

व्यासतीर्थमुनीन्सेवे दुर्वादिफणिपक्षिपान् ॥ ४ ॥

अस्मद्देशिकपादानां प्रणम्य चरणाम्बुजम् ।

तात्पर्यचन्द्रिकाव्याख्यां विधास्यामि यथामति ॥ ५ ॥

तत्वप्रकाशिकाव्याख्याव्याजेनाधिसूत्रं प्रवर्तमानेषु ग्रन्थेषु दुर्गमार्थान् सुगमान्विधित्सु-र्व्यासतीर्थमुनिः प्रारिप्सितग्रन्थपरिसमाप्त्याद्यर्थम् अध्यायचतुष्टयोक्तगुणविशिष्टदेवतानतिरूपं मङ्गलं विदधाति ॥ अस्पृष्टेति ॥ असम्बद्धदोषलेशायेति द्वितीयाध्यायार्थः । ‘‘गन्धो गन्धक आमोदे सम्बन्धे लेशगर्वयोः’’ इत्यभिधानात् । यं दोषलेशोऽपि न स्पृशति तस्मा इति यावत् । बहुव्रीहेर्दोषगन्धपदान्तत्वेन केवलगन्धपदान्तत्वाभावात् ‘‘अल्पाख्यायाम्’’ इतीत्वं न भवति । कल्याणानां गुणानां धर्माणां सिन्धुरिव सिन्धुराश्रय इत्याद्या-ध्यायार्थः । सत्त्वादीनां श्रुत्यादौ गुणत्वप्रसिद्धेर् मतान्तरे दुःखादीनां गुणत्वोक्तेश्च तद्व्युदासाय कल्याणेति ॥ आद्यार्थस्यादौ वाच्यत्वेऽपि द्वितीयार्थस्याद्यार्थहेतुत्वादा-दावुक्तिः । कल्याणधर्मत्वोपपादकत्वाद्वा । सदोषत्वे तस्यायोगात् । विघ्नादिदोषनिवृत्ते-रादावपेक्षितत्वाद्वा । ‘‘तं यथा यथोपासते’’ इत्यादेः । भक्तेभ्यो भक्त्युपलक्षित-वैराग्यश्रवणमननादिसाधनवद्भ्यः मुक्तिदायिन इत्यनेन तृतीयचतुर्थार्थोक्तिः । नमोनम इत्यादराद्द्विरुक्तिः । ‘‘नमः स्वस्ति’’ इत्यादिना चतुर्थी । एवंविधश्च नारायण इति सूचयति । शेषशायिन इति ॥ १ ॥ प्रतिपाद्यदेवतां नत्वा सूत्रकर्तुः कृपादृष्टि-मात्मन्याशास्ते ॥ शमयन्निति ॥ कृष्णमेघः वेदव्यासाख्यमेघः । पुष्णातु ज्ञान-भक्त्यादिभिः, भवसन्तापशान्तिविशिष्टस्वरूपानन्दानुभवलक्षणरमणदानेन वा पुष्टङ्करोतु । तस्य मेघत्वोपपादनं विशेषणद्वयेन । इष्टदेवतात्वाद्वसुदेवसुतः कृष्णोऽपि ग्राह्यः ॥ २ ॥

भाष्यकर्तुरादिगुरोः पादरेणुभ्यः कामान्तरं याचते ॥ श्रीमदिति ॥ कथं तेषां पवित्रीकरणशक्ततेत्यत उक्तम् ॥ पापेति ॥ भजकानामिति शेषः ॥ ३ ॥ प्राचीन-टीकाकर्तॄन्नमति ॥ शारदेति ॥ सरस्वत्यावासभूतं वदनाख्यशरत्कालसम्बन्धि पङ्कजं येषां तान् । एतदुपपादयति ॥ सर्वेति ॥ गुरुत्वाद्बहुवचनम् ॥ ४ ॥ व्याख्येयग्रन्थकर्तुर्हृद्यावासं प्रार्थयते ॥ मिथ्येति ॥ तस्य तरणित्वोपपादकमेतत् ॥ ५ ॥ यतः स्वस्य पारमहंस्यं तस्य गुरोर् हृद्यावासमर्थयते ॥ कंसेति ॥ कंसध्वंसी कृष्णः । तस्य पदाख्याम्बुजानुरक्तः । परमहंसाश्रमीत्यर्थः ॥ ६ ॥ स्वस्य विद्योपदेष्टॄन्नमति ॥ पदेति ॥ इदं तु गुरुत्वे शक्त्युपपादकम् ॥ पदं शब्दशास्त्रम् । वाक्यं मीमांसायुग्मम् । प्रमाणं तर्कशास्त्रम् । बहुवचनं प्राग्वत् ॥ ७ ॥

श्रीसत्यप्रियतीर्थविरचितश् चन्द्रिकाबिन्दुः

चन्द्रिकाबिन्दु

अस्पृष्टदोषगन्धाय कल्याणगुणसिन्धवे ।

नमोनमो भक्तमुक्तिदायिने शेषशायिने ॥

॥ अस्पृष्टेति ॥ ‘शेषशायिने’ इति पदोपादानं, सुखासनस्य परमात्मप्रार्थनेन स्वस्य मनस्समाधानसिध्द्या ग्रन्थकरणं युक्तमित्यभिप्रायेण । साधनाध्यायार्थः ‘‘भक्त’’ इत्यनेन सूचितः । ‘मुक्तिदायिने’ इत्यनेन फलाध्यायार्थः । दुःखनिवृत्त्यनन्तरमेवानन्दादि-गुणावाप्तिलक्षणमोक्ष इत्यभिप्रेत्य परमात्मविशेषणमादावुपात्तम् ॥ अस्पृष्टेति, अनन्तरं कल्याणेति ॥ अनेन ‘‘वीर्यदिदेह’’ इत्यत्रादिशब्देन कल्याणगुणा एव ग्राह्या इति सूचितं भवति । ‘दोषगन्धाय’ इत्यत्र गन्धपदोपादानं दोषातिदूरमिति अतिदूरपदाभि-प्रायेण । कृष्णवेदव्यासोभयाभिप्रायेण ‘शमयन्’ इति श्लोकः । पण्डिताः कुशलाः । पदवाक्यप्रमाणपदानि व्याकरणमीमांसाब्रह्मतर्कपराणि ।

पाण्डुरङ्गि केशवाचार्यविरचिता भावदीपिका

पाण्डुरङ्गि

सकल सुगुणपात्रं सर्वदोषैकजैत्रं सुमतिसुगतिदात्रं सुष्ठु १सज्ज्ञाननेत्रम् ।

निखिलजनिजनित्रं२ नित्यदुष्टैकनेत्रं नवनवसुचरित्रं नौमि लक्ष्मीकलत्रम् ॥ १ ॥

शुभगुणगणगात्रं शुद्धविज्ञाननेत्रं श्रुतिविततचरित्रं श्रान्ततापातपत्रम् ।

श्रमजलधिवहित्रं शा(न्त)न्तिमन्तः पवित्रं श्रयत विबुधमित्रं शक्तियोगीन्द्रपौत्रम् ॥ २ ॥

विद्याख्यरत्नप्रभवाय बुद्धौ विद्योतमानाय सुबृंहिताय ।

शुद्धाय नित्यं मुनिसेविताय मध्वाद्भुताम्भोनिधये नमोऽस्तु ॥ ३ ॥

श्रीमद्व्याससुशास्त्रदुग्धजलधिं मध्वोक्तसत्तर्क-

दुस्तर्काख्यामरदानवाभृतमतिश्रेष्ठाहिहृद्भूभृता ।

आलोड्याखिलतत्वभासकमहारत्नानि चाप्नोत्सुधां

सोऽयं योगिमहेन्द्रसन्निभजयार्याख्यो भवेन्मे मुदे ॥ ४ ॥

वेदव्यासमतापगापतिवरं श्रीमज्जयप्रोक्तिसत्

सर्पावेष्टितमध्वसन्मुनिवरग्रन्थागवर्येण यः ।

संलोड्याखिलसन्नयामृतवरं तत्वादिसद्दीपिका

सत्तात्पर्यसुचन्द्रिकातरुवरं यस्तर्कसत्ताण्डवम् ॥ ५ ॥

निष्कास्याद्भुतखण्डनत्रयमुखव्याख्यानरत्नोच्चयं

दृष्ट्वा कुत्सितयुक्त्यरातिपिहितां श्रीव्यासतीर्थो बुधः ।

स्वोक्तिं रक्षितुमत्र यः प्रतिपदं सम्यग्विशेषार्पको

विद्याधीशसुतीर्थसद्गुरुवरः किं नावतीर्णः स हि ॥ ६ ॥

विद्याधीशं चन्द्रिकाब्धिविक्रीडनविचक्षणम् ।

विद्यागुरुं कुलगुरुं नौमि तं मे जगद्गुरुम् ॥ ७ ॥

निशम्य सकलं शास्त्रं विद्याधीशाज्जगद्गुरोः ।

चन्द्रिकायाः प्रकाशोऽयं केशवेन प्रकाश्यते ॥ ८ ॥

ग्रन्थादौ मङ्गलमाचरति ॥ अस्पृष्टेति ॥ अध्यायचतुष्टयप्रतिपाद्यगुणविशिष्टतया परदेवता स्तूयते । तत्र अस्पृष्टेति द्वितीयाध्यायार्थः । अस्पृष्टोऽसम्बद्धो दोषगन्धो दोषलेशो येन स तथोक्तस्तस्मै । अस्पृष्टदोषायेत्यनुक्त्वा अस्पृष्टदोषगन्धायेति गन्धपदो-पादानं तु एतद्व्याख्येय ‘‘चिन्तासन्तापलेपोद्भवमृतिमुखराशेषदोषातिदूरम्’’ इति विशेषणगतातिदूरमिति पदाभिप्रायेण । कल्याणानां गुणानां धर्माणां सिन्धुरिव सिन्धुर् आश्रय इति आद्याध्यायार्थः । ‘‘सज्ज्ञानसुखशक्तिभिः पयोनिधिरिवे’’ति ‘‘ज्ञानेन सूर्य इवे’’ति ‘‘निखिलपूर्णगुणैरर्णः समुद्र इवे’’ति च तत्र तत्र टीकाकारैस्तृतीया-समासाश्रयणादत्रापि कल्याणगुणैः सिन्धुः समुद्र इवेति, ‘‘तृतीये’’ति योगविभागा-त्तृतीयातत्पुरुष इति वा । कल्याणत्वेन गुणविशेषणं तु वीर्यादिदेहमित्यत्रत्यादि-शब्दसङ्ग्राह्यतावच्छेदकधर्मसूचनार्थम् ।

यद्यपि अध्यायद्वयार्थकथनरूपटीकाग्रन्थक्रमानुरोधेन कल्याणगुणसिन्धव इत्याद्या-ध्यायार्थोक्त्यनन्तरमस्पृष्टदोषगन्धायेति द्वितीयाध्यायार्थोक्तिरुचिता न तु व्यत्यासेन । तथापि दुःखनिवृत्त्यनन्तरमेवानन्दादिगुणावाप्तिलक्षणो मोक्ष इति फलक्रममनुसृत्य तत्साधनोपासनविषययोर्निर्दोषत्वकल्याणगुणत्वयोः पौर्वापर्यमुचितमिति भावेनायं व्यत्यास इति ज्ञेयम् । यद्वा द्वितीयाध्यायार्थभूताऽपि भगवन्निर्दोषता विघ्नरूपदोषनिर्हरणाय मुमुक्षुणा प्रथममनुसन्धेयेति भावेन टीकाक्रमपरित्यागेन क्रमान्तराश्रयणमिदमिति ज्ञातव्यम् । भक्तेति तृतीयाध्यायार्थसूचनम् । ततश्च भक्तेभ्यो भक्त्युपलक्षितवैराग्यादि-समस्तसाधनवद्भ्यश्चतुर्विधमोक्षदायिन इत्युक्तं भवति । शेषशायिन इति परदेवतायाः शेषरूपमञ्चस्थत्वकथनेन तादृशस्य परमात्मनः परमानन्दमग्नत्वात्तत्प्रार्थनमविलम्बे-नापेक्षिताशेषपुरुषार्थसाधनमिति सूचितं भवति ॥ १ ॥

मीमांसाशास्त्रकर्तुर्वासिष्ठकृष्णस्य स्वेष्टदेवताया यादवकृष्णस्य च स्वात्मनि कृपा-दृष्टिवृष्टिपुष्टिमाशास्ते ॥ शमयन्निति ॥ कृष्णस्य मेघत्वोपपादनाय विशेषणद्वयमिदम् ॥ साधुचातकानिति ॥ भगवत्पक्षे साधव एव चातकास् तान् रमयन्निति, कालमेघपक्षे चातकान् साधु रमयन्निति योजना ॥ २ ॥ भाष्यकर्तॄन् प्रार्थयते ॥ श्रीमदिति ॥ तेषां पवित्रीकरण शक्तिमुपपादयितुमुक्तम् ॥ पापेति ॥ पण्डिताः कुशलाः ॥ ३ ॥ आदिटीकाकर्तॄन्नमति ॥ शारदेति ॥ शारदायाः सरस्वत्या आवासो यस्मिन् तच्छारदावासं तच्च तद्वदनं च शारदावासवदनम् । तदेव शारदाम्बुरुहं शरत्कालसम्बन्धि पङ्कजं येषां तानित्यर्थः । तस्यैवोपपादनम् ॥ सर्वेति ॥ गुरुत्वाद् बहुवचनम् ॥ ४ ॥ व्याख्येयग्रन्थकर्तुर्हृद्यावासं प्रार्थयते ॥ मिथ्येति ॥ एतच्च टीकाकर्तुस्तरणित्वोपपादनार्थं विशेषणम् ॥ ५ ॥ आश्रमगुरोर्हृद्यावासं प्रार्थयते ॥ कंसेति ॥ कंसध्वंसी श्रीकृष्णस् तस्य पादाख्याम्बुजानुरक्तः। हंसपुङ्गवश् चतुर्थाश्रमीत्यर्थः ॥ ६ ॥ विद्यागुरून्प्रणमति ॥ पदेति ॥ अत्र पदार्थज्ञानोपायभूतं, पद्यते शब्दार्थोऽनेनेति व्युत्पत्त्या व्याकरणं पदम् । वाक्यार्थज्ञानोपायन्यायसमर्पकं प्रमेयमीमांसाशास्त्रं वाक्यम् । उद्देशलक्षणविभागपरीक्षाभिः प्रमाणस्वरूपनिर्धारकं प्रमाणमीमांसाशास्त्रं प्रमाणमिति विवेकः ॥ ७ ॥


श्रीमद्भाष्यस्य टीका या जयतीर्थार्यनिर्मिता

श्रीमद्भाष्यस्य टीका या जयतीर्थार्यनिर्मिता

तात्पर्यचन्द्रिका

श्रीमद्भाष्यस्य टीका या जयतीर्थार्यनिर्मिता ।

गम्भीरा निर्मला चेमां व्याकरिष्ये यथामति ॥ ८ ॥

सूत्रे भाष्येऽनुभाष्ये च सन्न्यायविवृतौ तथा ।

टीकासु च यदस्पष्टं तच्च स्पष्टीकरिष्यते ॥ ९ ॥

प्रतिसूत्रं प्रकाश्येते घटनाघटने मया ।

स्वीयान्यपक्षयोः सम्यग्विदाङ्कुर्वन्तु सूरयः ॥ १० ॥

प्रकाशिका

एवं मङ्गलनिचयमारचय्य शिष्यमनस्समाधानार्थं चिकीर्षितं प्रतिजानीते ॥ श्रीमदिति ॥ तत्वप्रदीपभ्रान्तिं निरस्यति ॥ जयतीर्थेति ॥ या जयतीर्थार्यनिर्मिता तामिमामित्यन्वयः । व्याख्याने हेतुमाह ॥ गम्भीरेति ॥ गाम्भीर्यं गहनार्थत्वम् । निर्मलत्वं चासङ्गतार्थवर्णनादिशून्यत्वम् ॥ ८ ॥ स्वप्रवृत्तेः फलान्तरमाह ॥ सूत्र इति ॥ निरुपपदसूत्रशब्दस्य ब्रह्मसूत्र एव मुख्यत्वात्सूत्र इत्यवादि । एवं भाष्य इत्यपि । अनुभाष्ये अनुव्याख्याने । चशब्दादणुभाष्ये च ॥ टीकास्विति ॥ त्रिविक्रम-पण्डिताचार्यकृता तत्त्वप्रदीपाख्या, अनुव्याख्यानटीका न्यायसुधा, पद्मनाभाचार्यकृता सन्न्यायरत्नावलिश्च न्यायविवरणटीका च तत्वप्रकाशिका चेत्येतासु टीकास्वित्यर्थः ॥ ९ ॥ स्वप्रवृत्तेरन्यच्च फलमाह ॥ प्रतिसूत्रमिति ॥ स्वपरपक्षयोर्यथाक्रमं घटनाघटने । विदाङ्कुर्वन्तु जानन्तु । यद्यपि स्वस्येदमित्यर्थेऽणि कृते स्वशब्दस्य द्वारादिषु पाठेन ‘‘द्वारादीनाञ्चे’’ति सूत्रेण वकारात्पूर्वमैजागमेनौकारे सति सौवेति भाव्यम् । तथापि स्वस्मै हितमित्यर्थे ‘‘प्राक्क्रीताच्छः’’ इति च्छप्रत्यये स्वीयेति साध्विति ज्ञेयम् । चतुर्थस्य द्वितीयपादे ‘‘गाहादिभ्यश्च’’ इत्यत्र दुर्घटवृत्तौ तथैवोक्तेः ॥ १० ॥

पाण्डुरङ्गि

टीकाया व्याख्येयत्वप्रयोजकं निर्दोषत्वगम्भीरत्वादिकं दर्शयन्नेव चिकीर्षितं निर्दिशति ॥ श्रीमद्भाष्यस्येति ॥ तत्वप्रदीपभ्रान्तिं वारयति ॥ जयतीर्थार्यनिर्मितेति ॥ या जयतीर्थार्यनिर्मिता इमामित्यन्वयः । स्वप्रवृत्तेः प्रयोजनमाह ॥ सूत्र इति ॥ चशब्दोऽणुभाष्यसङ्ग्रहार्थः । टीकासु भाष्यानुव्याख्यानसन्न्यायविवृतिटीकासु तत्वप्रदीपसन्न्यायरत्नावलितत्वप्रकाशिकान्यायसुधासु । यद्यप्यभूततद्भावार्थकच्वि-प्रयोगादेवास्पष्टत्वलाभादस्पष्टमिति पृथगस्पष्टत्वकथनमनर्थकं तथापि विशिष्टवाचकानां शब्दानां विशेषणवाचकपदसन्निधाने विशेष्यमात्रपरत्वस्य बहुषु स्थलेषु दृष्टत्वादवैयर्थ्य-मिति ज्ञेयम् । स्वीयान्येत्यत्र स्वीयश्चान्यश्च स्वीयान्यौ । अन्यत्वं च प्रकृतात्स्वीया-दित्यवधेयम् ॥