०५ मुक्तावपि ब्रह्मादीनां तारतम्यसमर्थनम्

ननु मुक्तौ न तारतम्यम् । मानाभावात्

५. मुक्तावपि ब्रह्मादीनां तारतम्यसमर्थनम्

न्यायामृतं

ननु मुक्तौ न तारतम्यम् । मानाभावात् । ‘परमं साभ्युमुपैति’ इति साम्य-श्रुतेश्च । सातिशयत्वे च मुक्तेः स्वर्गादिवदनित्यत्वं स्यात् । अधिकदर्शनेन दुःखद्वेषेर्ष्यादिकं च स्यादिति चेत् । उच्यते । मुक्तावतारतम्यं किं तत्र भेदभोगा-देरेवासत्त्वात् ? किं वा तत्सत्त्वेऽपि साम्यात् ? नाद्यः । भेदप्रस्तावोक्त श्रुत्यादि-भिस्तत्सिद्धेः । अन्त्येऽपि किं मुक्तजीवेशयोरतारतम्यम् ? किं वा मुक्तजीवानामेव ? नाद्यः । त्वन्मतेऽपि तयोर्विभुत्वाणुत्वशेषत्वस्वातन्त्र्यपारतन्त्र्यादिना तारतम्यात् । अनेकेश्वरापत्त्या जगतप्रवृत्त्ययोगाच्च । ‘अल्पशक्तिरसार्वज्ञ्यम्’ इत्यादि भेदप्रस्तावोक्त-श्रुतिभिः ।

ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते ।

तद्यत्स्वभावः कैवल्यं स भवान्केवलो हरे ॥

इत्यादिस्मृतिभिः, ‘जगद्व्यापारवर्जम्’ इत्यादिसूत्रैः,

(१) ‘मुक्तजीवभोग ईश्वरभोगान्निकृष्टः, जीवभोगत्वात् संसारिभोगवत्’ । एवं मुक्तजीवज्ञानादिकमपि पक्षीकृत्य प्रयोक्तव्यम् । (२) ‘ईश्वरानन्दो जीवानन्दादुत्कृष्टः, तदवश्यतन्नियामकानन्दत्वात्, यदेवं तदेवम्, यथा सेवकानन्दात्सेव्या(व्यमाना)-नन्दः’ । (३) ईश्वरो जीवस्वभावानन्दादित उत्कृष्टस्वाभाविकानन्दादिमान्, तत्प्रेप्सुत्वे सति तत्र शक्तत्वात् । यो यत्प्रेप्सुत्वे सति तत्र शक्तः स तद्वान्, यथा सम्मतः’ इत्याद्यनुमानैश्च विरोधाच्च । न द्वितीयः । त्वन्मतेऽपि जीवान् प्रति शेषिणोऽपि लक्ष्मीतत्त्वात् तान् प्रति नियामकाद्विष्वक्सेनादितश्चेतरजीवानां निकृष्टत्वात् । ‘सैषानन्दस्य मीमांसा भवति’ । ‘ते ये शतं मानुषानन्दाः स एको मनुष्य-गन्धर्वाणामानन्दः, श्रोत्रियस्य चाकामहतस्य’ इत्यादितैत्तरीयश्रुत्त्या, ‘अथ ये शतं कर्मदेवानामानन्दाः, स एक आजानजदेवानामानन्दः । यश्च श्रोत्रियोऽवृजि-नोऽकामहतः’ इत्यादिवाजसनेयश्रुत्या, ‘अक्षण्वन्तः कर्णवन्तः सखायो मनोजवे-ष्वसमा बभूवुः’ इत्याद्यैतरेयश्रुत्या,

नृपाद्याः शतधृत्यन्ता मुक्तिगा उत्तरोत्तरम् ।

सर्वैर्गुणैः शतगुणा मोदन्त इति हि श्रुतिः ॥

मुक्तानामपि सिद्धानां नारायणपरायणः ।

सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥

इत्यादिस्मृतिभिः ‘वृद्धिह्नासभाक्त्वमन्तर्भावादुभय सामञ्जस्यादेवम्’ इत्यादिसूत्रैरुक्त-वक्ष्यमाणश्रुतितर्कानुगृहीतैः (१) ‘अस्मदादिमुक्तभोगः, मुक्तचतुर्मुखभोगान्निकृष्टः, अस्मदादिभोगत्वात् संसारस्थास्मदादिभोगवत् । एवम् अस्मदादिज्ञानादिकं च पक्षीकृत्य प्रयोक्तव्यम् । (२) ‘जीवस्वरूपानन्दः परतन्त्रानन्दत्वसाक्षाद्व्याप्यधर्मेण सजातीयानन्दप्रतियोगिकतारतम्य वान्, जीवानन्दत्वात्, तदीयवैषयिकानन्दवत्’ (३) ‘प्रकृतिबन्धनिवृत्तिः, स्वसजातीयबन्धनिवृत्त्याश्रय प्रतियोगिकतारतम्यवन्निष्ठा, बन्ध-निवृत्तित्वात्, निगडबन्धनिवृत्तिवत्’ इत्याद्यनुमानैश्च विरोधाच्च । स्वरूपसुखानां प्रत्येकमेकत्वेनाणुत्वेन च संख्यापरिमाणकृतवैषम्याभावेऽपि जलसुधापानसुखयोरिव मधुरमधुरतरत्वादिवत्स्वरूपकृतवैषम्यं युक्तम् ।

प्रसिद्धं च सालोक्यादिमुक्तितः सायुज्यादेरुत्कृष्टत्वम् । न च सायुज्यमैक्यम् । सारूप्यादिमति सालोक्यादिवत्सायुज्यवत्यपि सारूप्यादेः सत्त्वात् । ‘चन्द्रमसः सायुज्यं सलोकतामाप्नोति’ इत्यादिश्रुतौ ‘सायुज्यं चेदिभूभुजः’ इत्यादिस्मृतौ च भेदे सत्यपि सायुज्योक्तेश्च । ‘सयुजः परमात्मानं प्रविश्य च बहिर्गताः’ इत्यादिस्मृतौ सयुजां प्रवेशमात्रोक्तेश्च । सयुजोर्भावः सायुज्यमिति तच्छब्देन सम्बन्धस्यैवोक्तेश्च । ‘सालोक्यमथ सामीप्यं सारूप्यं योग एव च’ इति स्मृतौ सायुज्ये सम्बन्धार्थयोग-पदप्रयोगाच्च । तस्मात्सायुज्यं नाम क्षीरनीरवदन्यदेहप्रविष्टग्रहदेवतादिवच्च संश्लेषमात्रं, न त्वैक्यम् ।

हरौ नियतचित्तत्वाद् ग्रहवत्तत्प्रवेशनात् ।

मोक्षं तादात्म्यमित्याहुर्न तु तद्रूपतः क्वचित् ॥ इति स्मृतेः ।

न चोक्ततारतम्यश्रुतिरमुक्तविषया । प्रकृते मनुष्यगन्धर्वादौ, अप्रकृतेऽन्यस्मिन्वा संसारिणि तैत्तरीयोक्तस्याकामहतत्वस्य, वाजसनेयोक्तयोरवृजिन त्वाकामहतत्व-योश्चायोगात् । अकामहतत्वं हि कामकृतोपद्रवाभावः । न त्वकामत्वम् । हतशब्द-वैयर्थ्यात् । स च सत्यकामस्य मुक्तस्यैव, ‘सोऽश्नुते सर्वान्कामान्’‘कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि’ इत्यादिश्रुतेः । ‘स हि मुक्तोऽकामहतः’ इति ब्रह्माण्डोक्ते-श्च । अवृजिनत्वमप्यदुःखत्वमपापत्वं वा, उभयमपि मुक्तस्यैव । अपरोक्षज्ञानिन्यपि प्रारब्धपापतत्कार्यदुःखयोः सत्त्वात् । न चाबाधे मुख्यार्थस्त्यागार्हः । श्रोत्रियत्वं च मुक्तस्यैव मुख्यम् ।

प्राप्तश्रुतिफलत्वात्तु श्रोत्रियाः प्राप्तमोक्षिणः ।

त एव चाप्तकामत्वात्तथाऽकामहता मताः ॥ इति भारतोक्तेः ।

किञ्च प्रकृतमनुष्यगन्धर्वादिपरत्वे ‘श्रोत्रियस्य च’ इत्यत्र ‘यश्च श्रोत्रियः’ इत्यत्र चैकवचनं समुच्चयार्थश्चशब्दश्चायुक्तः । न हि सम्भवति वसिष्ठो ब्रह्मिष्ठोऽ-रुन्धतीपतिश्च तथेति । अप्रकृतसंसारिपरत्वे तु बाधः । चतुर्मुखाद्यानन्दस्यान्यस्मि-न्संसारिण्यदर्शनात् । अपि च प्रकृतश्रोत्रियः सर्वत्राप्येकश्चेन्मानुषादिभ्यः सावधारणं शतगुणिमनुष्यगन्धर्वाद्यनेकानन्दा एकस्मिन् विरुद्धाः । भिन्नश्चेदकामहतत्वादेरेक-रूपतया श्रुतस्याव्यवस्थापकत्वादानन्दव्यवस्थाऽयोगः । अथ व्यवस्थार्थं तत्र तत्र तत्तत्पदाकामस् तदितरपदकामश्च विवक्ष्यते, तदाऽश्रुतकल्पना बाधश्च । न हीन्द्रादि-पदे राजपदे वा निष्कामस्य भिक्षुकस्येन्द्राद्यानन्दानुभवोऽस्ति । उक्तं हि–

कुत्रचित्कामिनः पुंसः कामाभावात् क्वचित्क्वचित् ।

इन्द्रादिसुखभोगोऽस्तीत्यनुभूतिर्हि कुप्यति ॥ इति ।

न चाबाधे वैराग्यप्रशंसामात्रपरत्वं युक्तम् । तस्मात् श्रुत्या पूर्ववाक्येनामुक्तानां तारतम्यमुक्त्वा ‘श्रोत्रियस्य च’ इत्यादिना ‘यश्च श्रोत्रियः’ इत्यादिना चोत्तरवाक्येन मुक्तस्य तदुच्यते । ‘अक्षण्वन्तः’ इति श्रुतिस्तु तत्प्रकरणे ‘ऋचां त्वः पोषमास्ते’ इत्यादिना ब्रह्मब्रहुत्वोक्तेर्मुक्तविषया ।

अपि च ‘मुक्तसुखं परस्परं तारतम्यवत्, परस्परं तारतम्यवत्साधनसाध्यत्वात्, सम्मतवत्’ । न चासिद्धिः । मुक्तिः प्रयागमरणभगवद्द्वेषभक्त्यादिना ज्ञानकर्मसमुच्चयेन वा साध्येति मते प्रयागमरणादीनां वर्णाश्रमकर्मणां च विषमत्वात् । ज्ञानैकसाध्येति सिद्धान्तेऽपि ‘कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’। ‘सर्वे गुणा ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैः’ इत्यादिश्रुत्या ‘ब्रह्मापि यं वेद न चैव सम्यगन्ये कुतो देवमुनीन्द्रमर्त्याः’ इत्यादिस्मृत्या देवर्षिमनुष्यादिस्थमुक्तिहेतुब्रह्मज्ञानगतस्य बह्व-ल्पाल्पतरशाखाश्रवणादिसाध्यत्वस्य बह्वल्पाल्पतरब्रह्मगुणविषयकत्वं विनाऽयोगे-नार्थापत्त्या च तत्सिद्धेः । चरमदेहोऽपि हि मर्त्यादिरेव ।

यस्य आशिष आशास्ते न स भृत्यः स वै वणिक् ।

स वै भृत्यः स वै स्वामी गुणलुब्धौ न कामुकौ ॥

मुमुक्षोरमुमुक्षुस्तु वरो ह्येकान्तभक्तिमान् ।

इत्यादिस्मृत्या मुमुक्षुभक्तादमुमुक्षोर्निरुपाधिकभक्तस्याधिक्योक्तेश्च । तत्राधिक्यस्य लोकरीतिसिद्धत्वाच्च । ‘भक्तिः सिद्धेर्गरीयसी’ इत्यादिस्मृत्याऽल्पभक्तिसाध्य-मुक्तितोऽधिकमुक्तिहेतुभक्तेराधिक्योक्तेश्च ।

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।

तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥

इत्यत्रापिशब्देन,

‘स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ।

किं पुनर्ब्राह्मणाः पुण्याः’

इत्यत्र कैमुत्येन साधनतारतम्येन साध्ये तत्प्रतीतेश्च ।

‘साधनस्योत्तमत्वेन साध्यं चोत्तममाप्नुयुः ।

ब्रह्मादयः क्रमेणैव यथानन्दश्रुतौ श्रुताः’ ॥ इति ब्राह्मे,

अधिकं तव विज्ञानमधिका च गतिस्तव’ इति मोक्षधर्मे च साधनतारतम्येन साध्ये तदुक्तेश्च ।

‘विकल्पो विशिष्टफलत्वात्’ इति सूत्रे त्वया विकल्पेन मोक्षहेतुत्वेनोक्तानां दहरादिविद्यानाम् अधिकाल्पगुण विषयत्वेन तारतम्याच्च । १त्वद्रीत्या प्रत्येकं मोक्षहेत्वोर्निरन्तरचिन्ताभरन्यासरूपयोर्भक्तिप्रपत्त्योः स्वरूपतः कर्मापेक्षानपेक्षाभ्या-मावृत्त्यनावृत्तिभ्यां च विषमत्वाच्च । न च तयोरुक्तरीत्याऽधिकाल्पत्वेऽपि विश्वासाल्प त्वाधिक्याभ्यां साम्यमिति वाच्यम् । विश्वासस्यावर्तनीयायां भक्तावेव यावदा-वृत्त्यपेक्षितत्वेनानावर्तनीय प्रपत्तितोऽधिकत्वात् । यदि च फलसाम्येन साधनसाम्यार्थं प्रपत्तावधिकविश्वासः कल्प्येत, तर्ह्यन्योन्याश्रयः । साधनवैषम्येऽपि साध्यसाम्ये चाधिकविधात्र्याः श्रुतेरनुपादेयत्वं फलदातुरीश्वरस्य वैषम्यादिकं च स्यात् । न च देवमनुष्यादीनां तत्र शक्त्यशक्तिमात्रेण शक्ताशक्तानुष्ठितनित्यकर्मण इव न फलवैषम्य-मिति वाच्यम् । अशक्तार्जितस्य ज्ञानस्यान्धपंग्वादिकृतकाम्यकर्मण इव विकलत्वेन काम्यमोक्षसाधनत्वायोगेन तत्साधनत्वाय स्वोचितमुक्तिफलं प्रत्यविकलताया वक्तव्यत्वात् ।

एतेन भक्तिप्रपत्त्योर्विषमत्वेऽपि शक्ताशक्तविषयत्वात्फलसाम्यमिति निरस्तम् । तथाऽश्रवणात् । कल्पने चातिप्रसङ्गात् । तस्मात्साधनतारतम्यान्मुक्तितारतम्यम् । अत एव–

कर्मणामल्पमहतां फलानां च स्वगोचरे ।

विभागस्थानसामान्यादविशेषेऽपि चोदितः ॥

इति वार्तिकेनाविशेषेण स्वर्गसाधनत्वेन श्रुतयोरपि ज्योतिष्टोमाग्निहोत्रयो-स्तारतम्यात्तत्साध्ये स्वर्गेऽपि तदुक्तम् । उक्तं च–

युक्तं च साधनाधिक्यात्साध्याधिक्यं सुरादिषु ।

नाधिक्यं यदि साध्ये स्यात् प्रयत्नः साधने कुतः ॥ इति

किञ्च ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येताथ सम्पत्स्यते’ इत्यादिश्रुत्या ‘तस्य कार्यं न विद्यते’ इत्यादिस्मृत्या च यस्य स्थितप्रज्ञस्य मोक्षाय कर्तव्यान्तराभाव उक्तस्तस्यापरोक्षज्ञानिनो भक्तस्य प्रपन्नस्य वा शुकादेर्नित्यादिकर्मब्रह्मध्यानादिकं च न तावदज्ञस्येव विविदिषादिद्वारा वा, पापक्षयादिद्वारा वा, प्रत्यवायपरिहारद्वारा वा ज्ञानादेः सन्निपत्यङ्गम्, तस्य सिद्धत्वात् । नापि फलोपकार्यङ्गम् । मुक्तौ ज्ञान कर्मणोः समुच्चयापातात्, । कर्मणां विचित्रत्वेन मोक्षवैचित्र्यापाताच्च । मोक्षाय कर्तव्यान्तरा-भावपरोक्त श्रुत्यादिविरोधाच्च । नापि फलान्तरार्थम् । नित्यत्वात्, ज्ञानिनोऽ-निष्टत्वाच्च । नापि लोकसङ्ग्रहार्थमीश्वराज्ञा पालनार्थं वा, तयोरपि स्वतोऽफलत्वात् । नापीश्वरप्रीत्यर्थम् । भक्त्यादिनैव मोक्षहेतुप्रीतेः सिद्धेः । नापि तत्प्रीत्यतिशयार्थम् । फलातिशयाभावे तस्य पारिभाषिकत्वापातात्, तद्वैयर्थ्याच्च । नापीश्वरवल्लीलार्थम् । ‘आचार्याद्विद्यामवाप्यैतमात्मानमभिगम्य शान्तो भवेद्दान्तो भवेत्’ ‘पश्यन्नपीममात्मानं कुर्यात्कर्माविचारयन्’ इत्यादिनापरोक्षज्ञानिनः,

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ॥

इत्यादिना भक्तिप्रपत्तिमतश्च तद्विधानात् ।

शक्रेण वर्षकोटीश्च धूमः पीतोऽतिदुःखतः ।

वर्षायुतं च सूर्येण तपोऽर्वाक्शिरसा कृतम् ॥

इत्यादिस्मृतिषु क्लेशेनानुष्ठानोक्तेश्च । सूर्यादयश्चापरोक्ष ज्ञानिनः । ‘न देवपदवीं प्राप्ता ब्रह्मदर्शनवर्जिताः’ इत्यादिस्मृतेः । औतिभिः ‘यावदधिकारम्’ इति सूत्रे क्लेशेन कर्मानुष्ठातॄणां वसिष्ठादीनाम् अपरोक्षज्ञानित्वोक्तेश्च । तस्मादपरोक्षज्ञानोत्तरं कर्मादिकं मुक्तावानन्दातिशयार्थमेव । ब्रह्माण्डे च–

ज्ञानान्मोक्षो भवत्येव सर्वाकार्यकृतोऽपि तु ।

आनन्दो ह्रसतेऽकार्याच्छुभं कृत्वा च वर्धते ॥ इति ।

स्मर्यते च–

सर्वदुःखनिवृत्तिस्तु ज्ञानिनो निश्चितैव हि ।

उपासया कर्मभिश्च भक्त्या चानन्दचित्रता ॥ इति ।

अत एव ‘स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते’ इति श्रुतौ ज्ञानिकृतस्य कर्मणो मोक्षान्वयादक्षयफलत्वमुक्तम् । न हि मोक्षदन्यत्राक्षयत्वम् । परमसाम्यश्रुतिस्तु दुःखाभावसत्यकामत्वादिना सरःसागरयोरिव स्वयोग्यानन्दपूर्त्या च साम्यात् । ‘लिङ्गभेदः परानन्दो दुःखाभावः समानता’ इति स्मृतेः । अन्यथा मुक्तस्येश्वरवज्जगत्स्रष्टृत्वादि किं न स्यात् । तच्च ‘जगद्व्यापारवर्जम्’ इति सूत्रे त्वयापि निषिद्धम् । अत्र जगद्व्यापारशब्द उपलक्षणार्थ इति तवापि सम्मतम् । अन्यथा मुक्तस्य स्वातन्त्र्याद्यपि स्यात् । ‘भोगमात्रसाम्यलिङ्गाच्च’ इति सूत्रस्थमात्र-शब्दस्य तु मन्मते भोगसामान्य एव साम्यम्, न तु तद्विशेष इत्यर्थः । त्वन्मतेऽपि भोगमात्रे मुक्तस्य ब्रह्मसाम्याल्लिङ्गाज् जगद्व्यापारवर्जम् इति व्याख्यातत्वाद् अवधारणार्थो मात्रशब्दो न कात्स््नर्यार्थः । सत्यकामत्वं च जगत्स्रष्टृत्वादाविवाधिका-नन्देऽपि कामस्यैवाभावाद्युक्तम् । वाराहे च–

स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि ।

मुक्तानां नैव कामः स्यादन्यान्कामांस्तु भुञ्जते ॥ इति ।

सातिशयत्वेऽपि नित्यत्वं चेश्वरादपकृष्टत्व इव मुक्तान्तरेण साम्य इव च श्रुत्यादिबलाद्युक्तम् । अन्यथोत्कर्षस्याप्यनित्यत्वव्याप्त्या ब्रह्मानन्दोऽप्यनित्यः स्यात् । न च द्वेषेर्ष्यादिप्रसङ्गः ।

निःशेषगतदोषाणां बहुभिर्जन्मभिः पुनः ।

स्यादापरोक्ष्यं हि हरेर्द्वेषेर्ष्यादि ततः कुतः ॥

भवेयुर्यदि चेर्ष्याद्याः समेष्वपि कुतो न ते ।

तप्यमानाः समान्दृष्ट्वा द्वेषेर्ष्यादियुता अपि ॥

दृश्यन्ते बहवो लोके दोषा एवात्र कारणम् ।

यदि निर्दोष (ता तत्र)तैवात्र किमाधिक्येन दूष्यते ॥ इत्युक्तेः ।

न च मुक्तिः स्वरूपा (नन्दा) विर्भावमात्ररूपा, स्वरूपाणि चैकरूपाणीति कथं तारतम्यमिति वाच्यम् । ‘यो यद्रूपः स तद्रूपः निसर्गो ह्येष भवति’ इत्यादिश्रुत्या,

अवजानन्ति मां मूढा मानुषी तनुमाश्रितम् ।

राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।

भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।

सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥

श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः’ । इत्यादिस्मृत्या चतुर्मुखादेरितरेभ्य उत्कर्षस्य दृष्टेनादृष्टेन वाऽऽगन्तुकहेतुना साध्यत्वे तत्रापि हेत्वन्तरान्वेषणेऽनवस्था-पत्त्याऽनादियोग्यताहठापरपर्यायस्वभावो हेतुर्वाच्य इत्यादियुक्त्या च तारतम्यस्य स्वभावत्वात् । ‘तद्यथा पेशस्कारी पेशसो मात्रामुपादायान्यन्नवतरं कल्याणं रूपं तनुते एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वाऽन्यन्नवतरं कल्याणं रूपं कुरुते । पित्र्यं वा गान्धर्वं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां भूतानाम्’ इति श्रुतौ लिङ्गशरीरा-विद्यानिवृत्तेरूर्ध्वमपि पितृत्वाद्युक्तेश्च । न च मुक्तस्य देहाद्यस्ति चेद्, दुःखादि स्यात् । न चेद् भोगायोग इति वाच्यम् । ईश्वर वच्चिदात्मकस्य वा कर्मा-नारब्धस्यैच्छिकस्य प्राकृतदेहस्य वा सत्त्वात् । अस्ति हि तावच्चिद्रूपं शरीरम् ।

चिदानन्दशरीरेण सर्वे मुक्ता यथा हरिः ।

भुञ्जते कामतो यो(भो)गांस्तदन्तर्बहिरेव च ॥ इति श्रुतेः ।

न्यायविवरणे– ‘न च मुक्तस्य चिदात्मको देहोऽपि नास्तीति वाच्यम् । अकृत्रि-मत्वेन तस्यानपगमात्’ इत्युक्तेश्च । अस्ति च जडशरीरम्–

स्वेच्छया वा शरीराणि तेजोरूपाणि कानिचित् ।

स्वीकृत्य जागरितवद् भुक्त्वा त्यागः कदाचन ॥ इति ब्रह्मवैवर्तोक्तेः ।

तत्त्वप्रदीपे– ‘शुद्धप्रकृतिमयानि ज्योतीरूपाणि सुखैकतानानि शरीराण्यनुप्रविश्य’ इत्युक्तत्वाच्च । ‘चिता वाऽचिता वाऽनित्येन वा नित्येन वाऽथानन्दी ह्येष भवति’ इति देहद्वयश्रुतेश्च । मोक्षधर्मे च–

प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम् ।

परं नारायणात्मानं निर्द्वन्द्वं प्रकृतेः परम् ॥

इन्द्रियाण्यनुबुध्यन्ति स्वदेहं योगिनो नृप ।

करणान्यात्मनस्तानि सूक्ष्मैः पश्यति तैस्तु सः ॥

‘स जिघ्रति यथान्यायं स्पर्शान्स्पृशति च प्रभो’ इति । न च प्राकृतदेहयोगे दुःखाद्यापत्तिः । मुक्तस्य वश्यप्रकृतित्वेन प्रकृतिवशत्वाभावात् । न हि यस्य वह्न्यादिर्वश्यस्तस्य तद्योगजं दुःखम् । उक्तं हि न्यायविवरणे– ‘मुक्तानां वशिता यतः’ इति । तत्त्वप्रदीपे च– ‘वश्यप्रकृतीनाम्’ इति । भाष्ये च– ‘शरीरमनुप्रविश्य पुण्यानेव भोगाननुभवति, न तु दुःखादीन् । यथा प्रदीपो दीपिकादिषु प्रविष्टस्तत्स्थं तैलाद्येव भुङ्क्तेन तु कार्ष्ण्यादीन्’ इति । सूत्रितं च ‘प्रदीपवदावेशस्तथा हि दर्शयति’ इति । ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति’ इति श्रुतिस्तु कर्मारब्ध-देहविषया । मुक्तस्याशरीरत्वश्रुतिरपि तन्निरुक्त्यभावात् । न हि तानि शार्यन्ते । तच्छशरीरस्य लोकविलक्षणत्वाच्चाभावोक्तिः । ‘अप्रहर्षमनानन्दम्’ इत्यादिवत् । उक्तं च– ‘ग्रामस्था अपि न ग्राम्या वैलक्षण्याद्धि सज्जनाः’ इति । कथमन्यथा देहि-(सदेहे)ष्वेव जयादिषु ‘देहेन्द्रियासुहीनानाम्’ इत्युक्तिः । तस्मात्फलाध्यायोक्तन्यायै-स्तरतमभावापन्नमुक्तब्रह्मरुद्रादिनियामको भगवान् श्रीपतिः सर्वोत्तम इति सिद्धम् ॥५॥

नमो निरस्तदोषाय समस्तगुणराशये ।

विमलानन्ददेहाय कमलापतये सदा ॥ ५ ॥

मत्प्रेरकेण हरिणा या पूजा स्वस्य कारिता ।

वाग्यज्ञरूपा लक्ष्मीशस्तया प्रीणातु केशवः ॥ २ ॥

॥ इति मुक्तावपि ब्रह्मादीनां तारतम्यसमर्थनम् ॥ ५ ॥

॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमद्ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण व्यासयतिना सङ्गृहीते न्यायामृते चतुर्थः परिच्छेदः ।

अद्वैतसिद्धिः

यत्तु परमतेऽपरोक्षज्ञानिनोऽपि स्वयोग्यपरमानन्दहेतुपरमकाष्ठापन्नभक्त्यभावे तत्साध्यस्य मोचकस्य ईश्वरप्रसादस्याभावेन प्रारब्धकर्मणा संसारानुवृत्तौ जीवन्मुक्तिः । तद्भावे तु प्रसादस्यापि भावेन निश्शेषदुःखनिवृत्तिविशिष्ट स्वतोनीचोच्चभावापन्नस्वरूपानन्दाविर्भावरूपा मुक्तिरिति, तन्न । ‘तावदेवास्य चिरम्’ इत्यादिश्रुत्या अस्योत्पन्नतत्त्व साक्षात्कारस्य प्रारब्धकर्मक्षयमात्रमपेक्षणीयं कैवल्यसम्पत्त्यर्थमिति प्रतिपादनेन ईश्वरप्रसादापेक्षाया वक्तुमशक्यत्वात् । स्मृतिपुराणादीनां श्रुतिविरोधेन स्तुतिपरत्वात् । ‘यमेवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम्’ इति भक्तिजन्येश्वरप्रसादस्यापि तत्साक्षात्कारस्वरूप एवोपयोगस्य बोधितत्वेन स्मृत्यादीनामपि तदनुसारित्वाद् वैपरीत्येन साध्यसाधनभावे मानाभावात् । न च प्रारब्धकर्मक्षये प्रसादविनियोगः । प्रसादनिरपेक्षभोगादेव तत्सिद्धेः । नापि मुक्तावुच्चनीचभावः । तस्य द्वितीयसापेक्षत्वेन तदाऽसम्भवात् । ‘परमं साम्यमुपैति’ इति साम्यश्रुतेश्च । सातिशयत्वे मुक्तेः स्वर्गादिवदनित्यत्वं स्यात् । अधिकदर्शने दुःखद्वेषादिकं च स्यात् ।

ननु मुक्तौ अतारतम्यं किं भेदाभावात्, उत सत्यपि भेदे तत्साम्यात् । नाद्यः । श्रुत्या भेदसिद्धेः । नान्त्यः । साम्यं किं जीवेश्वरयोः, उत जीवानामेव । नाद्यः । तयोर्विभुत्वाणुत्वशेषशेषिभावस्वातन्त्र्य-पारतन्त्र्यादिना तारतम्याद् अनेकेश्वरापत्त्या जगत्प्रवृत्त्ययोगात् । तद्द्वयतारतम्यप्रतिपादकस्मृतिभिः, ‘जगद्व्यापारवर्जम्’ इत्यादिसूत्रैरुत्कृष्टत्वनिकृष्टत्वग्राहकानुमानैर्विरोधाच्च । नान्त्यः । जीवान् प्रति शेषिणो लक्ष्मीतत्त्वात् तान् प्रति नियामकाद् विष्वक्सेनादितश्च(इतर)जीवानां निकृष्टत्वात् । ‘सैषानन्दस्य’ इत्यादितैत्तरीयादिश्रुतिभिः,

मुक्तानामपि सिद्धानां नारायणपरायणः ।

सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥

इत्यादिस्मृतिभिः, ‘वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम्’ इत्यादिसूत्रैरुक्तश्रुतितर्कानुगृहीतै-रनुमानैर्विरोधाच्चेति चेन्न । भेदाभावेन तारतम्यासिद्धेः । यथा च श्रुत्यादेर्न भेदपरत्वं तथा प्रागेव गतम् । यत्तु द्वितीयपक्षमाशङ्क्य दूषणं, तदकाण्डताण्डवम् । भेदसत्त्वे अभेदात्मकपरमसाम्याभावात् तत्सत्त्वे भेदस्यैवाभावात् । किञ्च तारतम्याभिधानं परममुक्तौ ? उत ब्रह्मलोकादिवासरूपापरममुक्तौ वा ? नाद्यः । ‘एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः’ इति तृतीयान्त्याधिकरणे ‘ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात्’ इत्येतत्सूत्रोक्तज्ञानगतैहिकत्वामुष्मिकत्वरूपविशेषवन्मुक्तावपि तारतम्यमाशङ्क्य निषेधात् । द्वितीये त्विष्टापत्तिः ।

यत्तु ‘मुक्तजीवभोग ईश्वरभोगान्निकृष्टः, जीवभोगत्वात्, संसारिभोगवत्’ । एवं जीवज्ञानादिकमपि पक्षीकृत्य प्रयोग ऊहनीयः । ‘ईश्वरानन्दः जीवानन्दादुत्कृष्टः, तन्नियामकानन्दत्वात्, यदेवं तदेवं यथा सेवकानन्दात् सेव्यानन्दः’ । ‘ईश्वरः जीवस्वभावानन्दादित उत्कृष्टस्वभावानन्दादिमान्, तत्प्रेप्सुत्वे सति तत्र शक्तत्वाद्, यो यत्प्रेप्सुत्वे सति यत्र शक्तः स तद्वान् यथा सम्मतः’ इत्यादीनि तारतम्यसाधकानि इति, तन्न । आद्ये मुक्तस्य ब्रह्मरूपतया उपाधिकृत जीवत्वाभावेनाश्रयासिद्धेः । ईश्वरत्वाभावेन साध्याप्रसिद्धेः, स्वरूपासिद्धेश्च । द्वितीयाद्यनुमाने जीवेश्वरविभागकाले तारतम्यसाधनं चेत्सिद्धसाधनम् । तद्भिन्ने काले चेत्, पूर्वदोषानतिवृत्तिः । ‘सैषानन्दस्य’ इत्यादिश्रुतिभिर् मानुषानन्दमारभ्य ब्रह्मानन्दपर्यन्तेषु उत्तरोत्तरशतगुणत्वरूपतारतम्यमुपाधितारतम्येन वदन्तीभिर्निरुपाधिके स्वरूपानन्दे तारतम्यस्य वक्तुमशक्यत्वात् । एतेन ‘प्रकृता बन्धनिवृत्तिः, स्वसजातीयबन्धनिवृत्त्याश्रय-प्रतियोगिकतारतम्यवन्निष्ठा, बन्धनिवृत्तित्वात्, निगडबन्धनिवृत्तिवत्’ इति निरस्तम् । तारतम्यस्य गुणगतजातित्वेन बन्धनिवृत्त्याश्रयात्मनि वक्तुमशक्यत्वात् । अत एव निवृत्तिगततारतम्यसाधन-मप्यपास्तम् । निवृत्तेर्निरतिशयत्वादानन्दस्य स्वरूपतया उभयवादिसिद्धत्वेन गुणत्वाभावेन तत्रापि तस्य वक्तुमशक्यत्वात् । एतेन स्वरूपसुखानां प्रत्येकमेकत्वेनाणुत्वेन च सङ्ख्यापरिमाणकृत वैषम्याभावेऽपि जलसुधापानजन्यसुखयोरिव मधुरमधुरतरत्वादिवच्च स्वरूपकृतवैषम्यं मुक्ताविति निरस्तम् । वैषयिकसुखे साधनतारतम्यप्रयुक्ततारतम्येऽपि स्वरूपानन्दे तदभावाच्च ।

न च सालोक्यादिमुक्तिः सायुज्यादिमुक्तितोऽपकृष्टेति प्रसिद्धिविरोधः । परापरमुक्तिरूपतया तदुपपत्तेः । सायुज्यादिमुक्तावुत्कृष्टत्वव्यपदेशोऽपकृष्टत्वाभावमात्रेण । ननु सायुज्यं नैक्यम् । ‘चन्द्रमसः सायुज्यं सलोकतामाप्नोति’ इत्यादिश्रुत्या सत्यपि भेदे सायुज्योक्तेः ‘सयुजः परमात्मानं प्रविश्य च बहिर्गताः’ इत्यादौ सयुजां प्रवेशमात्रोक्तेश्च । सयुजो भावः सायुज्यमिति युजशब्देन सम्बन्धस्यैवोक्तेः । ‘सालोक्यमपि सामीप्यं सारूप्यं योग एव च’ इति स्मृतौ सायुज्ये सम्बन्धवाचकयोगशब्दप्रयोगाच्च । तस्मात्सायुज्यं नाम क्षीरनीरवद् अन्यदेहाविष्टग्रहदेवतादिवच्च संश्लेषमात्रं, न त्वैक्यमिति चेत्, न, व्यापकेनेश्वरेण संश्लेषस्य नित्यसिद्धत्वेनापुमर्थत्वात् । न चैतल्लोकस्थितस्य जीवस्य लोकान्तरस्थिता-लोकिकशरीरावच्छिन्नेनेश्वरेण संश्लेषः साध्यः, ‘अत्र ब्रह्म समश्नुते’ इति श्रुतेः । उत्क्रमण गमनादिसाध्यब्रह्मलोकावाप्तिवदुपाध्यवच्छिन्नजीवस्यानवच्छिन्नब्रह्माभेदरूपपरममुक्तेः पारलौकिक-फलत्वाभावात्, ‘ब्रह्मविदाप्नोति परम्’ इत्यादौ अवाप्तेर् ब्रह्मरूपत्वात् सायुज्यस्यापि तद्रूपतया अङ्गीकरणीयत्वाच्च । ‘चन्द्रमसः सायुज्यम्’ इत्यादौ एकोपाध्यवच्छिन्नस्योपाध्यन्तरावच्छिन्नेन ऐक्यानुपपत्तिवदत्रानुपपत्तेरभावात्, प्रसिद्धार्थस्वीकारे बाधकस्योक्तत्वाच्च सायुज्यशब्दस्तावद्विभक्तत्वा-भावाभिप्रायकः ।

यच्च उत्तरोत्तरं शतगुणानन्दप्रकाशकवाक्येषु प्रतिवाक्यं मुक्तावकामहतशब्दप्रयोगान् मानुषानन्दवद् अकामहतमुक्तानन्देऽपि तारतम्यम् इति, तन्न, ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इति सर्वेषां लौकिकानन्दानां परमानन्दान्तर्भावाभिधानोपपत्तेः, न तु तस्य तस्याकामहतस्य तावा-नेवानन्द इति । येन तत्रापि तारतम्यं कल्प्येत । तथा च ‘सोऽश्नुते सर्वान् कामान्’‘कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि’ इत्यादिश्रुतेः ‘स हि मुक्तोऽकामहतः’ इत्यादिब्रह्माण्डोक्तेश्च न विरोधः । ननु एकस्यैव श्रोत्रियस्य सर्वत्र परामर्शे मानुषानन्दादिभ्यः सावधारणशतगुणितमनुष्य-गन्धर्वाद्यनेकानन्दा एकस्मिन् विरुद्धाः । भिन्नाश्चेदकामहतत्वादेरेकरूपतया श्रुतस्याव्यवस्थापकत्वा-दानन्दव्यवस्थाऽयोगः । अथ व्यवस्थार्थम् एतत्पदाकाम एतदितरपदकामश्च लक्ष्यते, तदाऽश्रुतकल्पना बाधश्च । न हीन्द्रादिपदे वा राजपदे वा निष्कामस्य भिक्षुकस्य इन्द्राद्यानन्दानुभवोऽस्ति । तस्माच्छ्रत्या पूर्ववाक्येनामुक्तानां तारतम्यमुक्त्वा, ‘श्रोत्रियस्य च’ इत्यादिना ‘यश्च श्रोत्रिय’ इत्यादिना चोत्तर-वाक्येन मुक्तस्य तदुच्यत इति चेन्न । सर्वेषु वाक्येषु अकामहतस्य मुक्तस्यैकत्वेऽपि तदानन्दे सर्वानन्दानामन्तर्भावात् स एव तस्मिन् तस्मिन्नानन्दे वक्तव्ये परामृश्यते । तत्तदिन्द्रादिसाम्येन तस्य सर्वत्राभिधानोपपत्तेः ‘अधिकं प्रविष्टं न तु तद्धानिः’ इति न्यायात् । साम्ये हि तत्सजातीयधर्मवत्त्वं तन्त्रम्, न तु तदितरधर्मानधिकरणत्वमपि । गौरवात् ।

यच्च मुक्तसुखं परस्परतारतम्यवत्, परस्परतारतम्यवत्साधनकत्वात्, सम्मतवदिति, तन्न, असिद्धेः । ननु मुक्तिः प्रयागमरणभगवद्द्वेषादिसाध्येति मते ज्ञानकर्मसमुच्चयसाध्येति मते च प्रयागमरणादीनां वर्णाश्रमकर्मणां च विषमत्वान् नासिद्धिः । ज्ञानैकसाध्येति मतेऽपि ‘कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’‘सर्वे गुणा ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैः’ इत्यादिश्रुत्या ‘ब्रह्मादि तद्वेद न चैव सम्यगन्ये कुतो देवमुनीन्द्रमर्त्याः’ इत्यादिस्मृतिभिर् देवादिमनुष्यादिस्थ-मुक्तिहेतुब्रह्मज्ञानगतस्य बहुबहुतरशाखाश्रवणसाध्यत्वस्य बहुबहुतरगुणविषयत्वं विनाऽयोगेनार्थापत्त्या च तत्सिद्धिरिति चेन्न । केवलकर्मपक्षे समुच्चयपक्षे वा कर्मसाध्यत्वेन मुक्तेरनित्यत्वापत्तेः । ‘नान्यः पन्थाः’ इत्यादि श्रुतिविरोधाच्च । तृतीयपक्षे तूदाहृतश्रुतीनां ब्रह्मविद्यादुर्लभत्वप्रतिपादनपरत्वेन तदुक्तसाधनसाध्यत्वाप्रतिपादकत्वात् । न चार्थापत्त्या तत्सिद्धिः । ब्रह्मसाक्षात्कारस्य निर्गुणविषयतया गुणविषयत्वायोगात् । यत्तु–

‘यस्त आशिष आशास्ते न स भृत्यः स वै वणिक् ।

स वै भृत्यः स वै स्वामी गुणलुब्धौ न कामुकौ’ ॥

‘मुमुक्षोरमुमुक्षुस्तु वरश्चैकान्तभक्तिमान्’ इत्यादिस्मृत्या मुमुक्षुभ(क्त्य)क्तापेक्षया अमुमुक्षोर्भक्त-स्याधिक्योक्तेः, तदाधिक्यस्य लोकरीतिसिद्धत्वाच्च ‘भक्तिः सिद्धेर्गरीयसी’ इति स्मृत्या अल्पभक्ति-साध्यमुक्त्यपेक्षया अधिकमुक्तिहेतुभक्तेरपि आधिक्यस्योक्तेश्च इति, तन्न, ‘यस्त आशिषः’ इत्यादिना फलमनिच्छतो गुणलोभेन या भक्तिस्तस्यास्तु गरीयस्त्वं यत् प्रतिपादितं, तत्तत्त्वसाक्षात्कारे त्वरा-सम्पादकं न तु मुक्तितारतम्याक्षेपकम् । ‘भक्तिः सिद्धे ’रित्यादिना प्रतिपादितं गरीयस्त्वमपि तज्जनकत्वमात्रेण पुत्रात्पितुरिव । यत्तु–

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।

तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ इत्यत्रापिशब्देन,

स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ।

किं पुनर्ब्रह्मणाः पुण्या भक्ता राजर्षयस्तथा ॥

इत्यत्र कैमुत्येन च साधनतारतम्येन साध्ये तत्प्रतीतिर् इति, तन्न । न हि तरणे ‘अपि’ इत्यस्यान्वयः, किन्तु अधिकारिणि । तथा च विलम्बिततरणरूपफलसम्बन्धमात्रपर्यवसानात् कैमुत्यस्यापि त्वराफललाभमात्रेणोपपत्तेः साधनमात्रतारतम्यस्य फलतारतम्याप्रयोजकत्वाच्च । न हि दण्डतारतम्येन घटतारतम्यं क्वचिदपि दृश्यते । यत्तु–

‘साधनस्योत्तमत्वेन साध्यमुत्तममाप्नुयुः ।

ब्रह्मादयः क्रमेणैव यथानन्दश्रुतौ श्रुताः’ ॥

इति ब्राह्मे, ‘अधिकं तव विज्ञानमधिका च गतिस्तव’ इति साक्षान्मोक्षधर्मे च साधनतारतम्येन साध्ये तदुक्तिरिति, तन्न । साधनोत्तमत्वेन साध्योत्तमत्वस्यापरममुक्तिविषयत्वात्, विज्ञान-गताधिक्योक्तेरपि साक्षात्कारप्रयोजकसगुणविषयकज्ञानपरत्वाच्च । अत एव दहरादिविद्यानामधिकाल्प-गुणविषयकत्वेन साधनतारतम्यं यत्पराभिमतं तदप्येवमिति न कश्चिद्दोषः ।

तस्मात्स्वरूपानन्दस्य स्वप्रकाशात्मरूपिणः ।

प्राप्तिर्मुक्तिर्न तत्रास्ति तारतम्यं कथञ्चन ॥ १ ॥

॥ इत्यद्वैतसिद्धौ मुक्तौ तारतम्यभङ्गः ॥

यो लक्ष्म्या निखिलानुपेक्ष्य विबुधानेको वृतः स्वेच्छया

यः सर्वान् स्मृतमात्र एव सततं सर्वात्मना रक्षति ।

यश्चक्रेण निकृत्य नक्रमकरोन्मुक्तं महाकुञ्जरं

द्वेषेणापि ददाति यो निजपदं तस्मै नमो विष्णवे ॥ १ ॥

श्रीमाधवसरस्वत्यो जयन्ति यमिनां वराः ।

वयं येषां प्रसादेन शास्त्रार्थे परिनिष्ठताः ॥ २ ॥

सहजसरलां प्रेम्णा दीर्घां समस्तविशोधिनीं सकृदपि कृपादृष्टिं सन्तो दिशन्तु भवद्विधाः ।

कथमपि सती पूता सद्यस्तया विषयीकृता मम कृतिरियं हित्वा दोषान्भवत्वतिसद्गुणा ॥ ३ ॥

गुरूणां माहात्म्यान्निजविविधविद्यापरिचयाच्छ्रुतेर्यन्मे सम्यङ्मननपरिनिष्पन्नमभवत् ।

परब्रह्मानन्दस्फुरणमखिलानर्थशमनं तदेतस्मिन् ग्रन्थे निखिलमतियत्नेन निहितम् ॥ ४ ॥

इह कुमतिरतत्त्वे तत्त्ववादी वराकः प्रलपति यदकाण्डे खण्डनाभासमुच्चैः ।

प्रतिवचनममुष्मै तस्य को वक्तु विद्वान्न हि रुतमनुरौति ग्रामसिंहस्य सिंहः ॥ ५ ॥

कुतर्कगरलाकुलं भिषजितुं मनो दुर्धियां मयायमुदितो मुदा विषविघातिमन्त्रो महान् ।

अनेन सकलापदां विघटनेन यन्मेऽभवत् परं सुकृतमर्पितं तदखिलेश्वरे श्रीपतौ ॥ ६ ॥

ग्रन्थस्यैतस्य यः कर्ता स्तूयतां वा स निन्द्यताम् ।

मयि नास्त्येव कर्तृत्वमनन्यानुभवात्मनि ॥ ७ ॥

श्रीव्यासशङ्करसुरेश्वरपद्मपादान् वेदान्तशास्त्रसुनिबन्धकृतस्तथान्यान् ।

विद्याप्रदानिह यतिप्रवरान्दयालून् सर्वान् गुरून् सततमेव नमामि भक्त्या ॥ ८ ॥

सिद्धीनामिष्टनैष्कर्म्यब्रह्मगानामियं चिरात् । औतसिद्धिरधुना चतुर्थी समजायत ॥ ९ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वती श्रीचरणशिष्यश्रीमधुसूदनसरस्वती-विरचितायाम् औतसिद्धौ मुक्तिनिरूपणं नाम चतुर्थः परिच्छेदः ॥

न्यायामृततरङ्गिणी

भेदभोगेति ॥ भेदे सत्यपि तार्किकमत इव भोगाभावात्तारतम्याभावः, आनन्दानुभव-रूपभोगे सत्यपि मायिमत इव भेदाभावात्तदभावः ॥ ब्रह्मेशानादिभिरिति ॥ ब्रह्मेशा-नादिभिर्देवैर्यत्कैवल्यं प्राप्तुं न शक्यते तत्कैवल्यं यत्स्वभावः यस्यासाधारणधर्मः स कैवल्याश्रयो भवान् ॥ जगद्व्यापारवर्जमिति ॥ जगत्सर्जनादिव्यतिरिक्तसर्वसामर्थ्य युक्तो भवतीति ॥ तदवश्येति ॥ प्रजानन्दादनुत्कृष्टे राजानन्दे व्यभिचारवारणाय तदवश्येति । समानन्दे तद्वारणाय तन्नियामकेति ॥ श्रोत्रियस्य चेति ॥ मानुषशतानन्दपरिमितैकानन्दयुक्तो मनुष्यगन्धर्वो मुक्तो यथा तथा तावदानन्दयुक्तः प्राप्तश्रोत्रफलोऽकामहतो मुक्तमनुष्यगन्धर्वोऽपि ॥ असमा इति ॥ मनोजवेषु ज्ञानादिष्वसदृशाः ॥ वृद्धिह्रासेति ॥ मुक्तेर्न्यूनाधिकत्वं भाक्तं, कुतः, ब्रह्मादीनां मुमुक्षुषु अन्तर्भावात्, तेषां साधनस्य न्यूनाधिकत्वात् । एवं सति ब्रह्मादीनां मुमुक्ष्वन्तर्भावो मुक्तिश्चेत्युभयसामञ्जस्यं भवति ॥ परतन्त्रानन्दत्वेति ॥ परतन्त्रानन्दत्वस्य साक्षाद्व्याप्यो धर्मो देवानन्दत्वादिः । तेन सजातीयः यो देवान्तरानन्दः, तत्प्रतियोगिकं तारतम्यं देवानन्द इत्यर्थः ॥ सजातीयबन्धेति ॥ निगडबन्धादिना सजातीयो बन्धः निगडबन्धाद्यन्तरं तन्निवृत्तेराश्रयो देवदत्तादिः, तत्प्रतियोगिकतारतम्यवान् यज्ञदत्तादिः, तन्निष्ठा यथानिगडबन्धनिवृत्तिस् तथा पक्षीभूता देहादिरूपप्रकृतिबन्धनिवृत्तिरपि तदाश्रय-प्रतियोगितारतम्यवन्निष्ठेति साध्यार्थः ॥

प्रसिद्धमिति ॥ समानलोकनिवासापेक्षया तदन्तःप्रवेशस्याभ्यर्हितत्वेन लोके प्रसिद्धत्वात्, श्रुतिस्मृत्योश्च ॥ सारूप्यादिमतीति ॥ सारूप्यादेर्भेदसामानाधिकरण्यनियमेन सारूप्य-नियतसायुज्यस्यापि भेदनियतत्वात् ॥ भेदे सत्यपीति ॥ चन्द्रमस इत्यादिषष्ठीश्रुत्या चन्द्रचेदिभूभुजादिना भेदे सत्यपि सायुज्योक्तेः ॥ तच्छब्देनेति ॥ सायुज्यशब्देन ॥ सालोक्यमिति ॥ अस्मिन्वाक्ये सारूप्यानन्तरं सायुज्ये वक्तव्ये वृद्धिमन्त्रन्यायेन सम्बन्धार्थको योगशब्दः प्रयुक्त इति योगशब्देन निर्दिश्यमानं सायुज्यं सम्बन्धरूपमेव ॥ संश्लेषमात्रमिति ॥ अभिव्यक्तप्रसाद विशेषवदीश्वरसम्बन्धः संश्लेषः । एतेन व्यापकेश्वरेण संश्लेषस्य नित्यसिद्धत्वादपुमर्थत्वम् । न चोत्क्रमणश्रुत्या लोकान्तरस्थितालौकिकशरीरा-वच्छिन्नेश्वरेण योगः स इति वाच्यम् । ‘न तस्य प्राणा उत्क्रामन्ति’ अत्र ब्रह्म समश्नुत’ इति श्रुतेर्मुक्तेः पारलौकिकत्वाभावात् । ब्रह्मलोकाद्यवाप्तेरेवोत्क्रमणगमनादिसाध्यत्वादिति निरस्तम् ॥ संसारिणीति ॥ एतच्च प्रकृतेऽप्रकृतेऽपि सम्बध्यते ॥ स चेति ॥ कामकृतोपद्रवाभावः सत्यकामस्य । आप्तकामस्य मुक्तस्यावाप्तकामत्वे श्रुतिमाह– सोश्नुत इत्यादि ॥ उक्तश्रुतेर्जीवन्मुक्तिविषयत्वम् अपाकरोति– अपरोक्षेति ॥

ननु छन्दोध्येतर्यनुशिष्टः श्रोत्रियशब्द एव बाधक इत्यत आह– श्रोत्रियत्वं चेति ॥ प्रकृतेति ॥ श्रोत्रियशब्दस्य मनुष्यगन्धर्वान्वितत्वे ॥ एकवचनमिति ॥ मनुष्यगन्धर्वाणां बहुवचनेन प्रस्तुतत्वान्न तत्र तदन्वयः ॥ चशब्दश्चेति ॥ उद्देश्यविधेययोरेकत्वेन समुच्चेतव्या-भावात् । ननूद्देश्यादेरेकत्वेऽपि तदुपस्थितिभेदाच्चशब्दो युज्यत इत्यत आह– न हीति ॥ वसिष्ठादिशब्दैस्तदुपस्थितिभेदेऽपि तत्र चशब्दार्थानन्वयात् ॥ अप्रकृतेति ॥ मनुष्यगन्धर्वादिभिन्नो यः कश्चित्संसारी श्रोत्रियपदेन बोध्यत इत्यङ्गीकारे ॥ मानुषादिभ्य इति ॥ मनुष्यगन्धर्वश्रोत्रिये मानुषानन्दशतगुणित एवानन्दो न तु मनुष्यगन्धर्वानन्द इत्यादिरूपमानन्दावधारणं न स्यात् । श्रोत्रियस्य मनुष्यगन्धर्वदेवगन्धर्वादिष्वेकत्वेन देवगन्धर्वश्रोत्रियादौ श्रुतस्य मनुष्यगन्धर्वानन्दशतगुणितानन्दादेरपि मनुष्यगन्धर्वे वक्तव्यत्वात् । तस्य च विरुद्धत्वादित्यर्थः ॥ भिन्नश्चेदिति ॥ मनुष्यगन्धर्वश्रोत्रियस्य देवगन्धर्वादिश्रोत्रियस्य च भिन्नत्वे तत्र तत्र श्रोत्रिये मनुष्यानन्दशतगुणितानन्द एव मनुष्यगन्धर्वसमीपश्रुतश्रोत्रियस्यैव मनुष्यगन्धर्वानन्दशतगुणितानन्द एव गन्धर्वसमीपश्रुतश्रोत्रियस्यैवेत्यादिव्यवस्था न सिध्यति । मानुषानन्दशतगुणितानन्दं प्रत्याधारत्वेनाकामहतत्वावृजिनत्वयुक्त एव श्रोत्रिय उपादीयते । तथाविधस्य देवगन्धर्वश्रोत्रियस्य देवगन्धर्वादिश्रोत्रियस्यैव मनुष्यगन्धर्वानन्दशतगुणितानन्द इत्याद्यव्यवस्थापत्तेरित्यर्थः ।

अकामहतत्वादेरिति ॥ आदिपदेनावृजिनत्वम् ॥ अथेति ॥ मनुष्यगन्धर्वपदाकामस्य देवगन्धर्वपदकामस्य श्रोत्रियस्य मनुष्यगन्धर्वानन्दशतगुणितानन्दः । एवं देवगन्धर्वपदाकामस्य आजानजादिपदकामस्य देवगन्धर्वानन्दशत गुणितानन्दः । एवमुत्तरत्रापीत्यानन्दव्यवस्था सिध्यतीत्यर्थः ॥ अश्रुतेति ॥ तत्पदकामत्वादिबोधकपदाभावात् । नन्वश्रुतमपि योग्यत्वा-दियुक्तं कल्प्यमित्यत आह– बाधश्चेति ॥ योग्यत्वमेव नास्तीत्यर्थः ॥ तस्मादिति ॥ अमुक्तमनुष्यानन्दापेक्षयाऽमुक्तमनुष्यगन्धर्वाणां शतगुणगुणितानन्दः । तेषां मध्ये यः श्रोत्रियादिर्मुक्तो मनुष्यगन्धर्वस्तस्याविमुक्तमनुष्यानन्दशतगुणितानन्द इति श्रुतेरर्थः । अत एवैकवचनं समञ्जसम् । बहूनां मनुष्यगन्धर्वाणां मध्ये कदाचित्कश्चिन्मुच्यत इत्येवं सूचनार्थ-त्वाच्च । तदिदमाह– मुक्तस्येति ॥ अत एव चशब्दोऽपि सङ्गच्छते । मुक्तामुक्तमनुष्यगन्धर्व-स्यैकत्वेऽप्यमुक्तत्वमुक्तत्वरूपावस्थाभेदेन तदवस्थितोद्देश्यभेदात् । अयं कुमारः साधुर्युवा चेतिवत् । ननु विदितवेद्यानां बृहस्पतिशिष्यणां स्तुतिरूपः ‘अक्षण्वन्तः’ इति मन्त्रः कथं मुक्तपरो व्याख्यायत इत्यत आह– अक्षण्वन्त इतीति ॥ साक्षात्कृतपरमात्मतत्वानामेव विदितवेद्यत्वान् मुक्तानामेवात्र स्तुतिरतोऽस्य सूक्तस्य मुक्तविषयत्वम् ॥ ऋचां त्व इति ॥ यज्ञे ब्रह्मणां गौणानां बहुत्वम् ॥ देवर्षिमनुष्यादिस्थेति ॥ मनुष्यज्ञानगतं यदल्पशाखा-श्रवणजन्यत्वं तदल्पतरगुणविषयत्वं विनाऽनुपपन्नमित्यादिरूपार्थापत्तिः ।

ननु देवादिदेहावच्छेदेन न ब्रह्मज्ञानं किन्तु चरमदेहावच्छेदेनैवेति देवर्ष्यादीत्याद्ययुक्तमित्यत आह– चरमदेहोऽपीति ॥ चरमदेहोऽपि देवादिरूप एव ॥ लोकरीतीति ॥ लोके भृतिग्राहिसेवकात्तदग्राही सेवको राजाप्रियो दृष्टः ॥ सिद्धेरिति ॥ मुक्तेः ॥ गतिरिति ॥ श्वेतद्वीपादिमुक्तिस्थाननिवासः ॥ दहरेति ॥ दहरविद्यायां सत्यकाम त्वादयोऽक्षरविद्यायां प्रशासितृत्वादयोऽल्पगुणा उक्ताः ॥ भरन्यासेति ॥ रक्षिष्यत्येवेत्यादिविश्वासः ॥ स्वरूपत इति ॥ भक्तिस्वरूपं कर्मापेक्षम् । न तु प्रपत्तिस्वरूपम् । ननु भक्तिस्वरूपे कर्मावृत्तिभ्या-माधिक्येऽपि विश्वासोऽल्पः, प्रपत्तौ तु कर्मावृत्त्योरभावेऽपि विश्वासो भूयानिति दशरूप्यैक-सुवर्णन्यायेन भक्तिप्रपत्त्योः साम्यमित्याशङ्क्य निराकरोति– न च तयोरिति ॥ प्रपत्त्यपे-क्षया भक्तावेव विश्वासाधिक्यमित्याह– विश्वासस्येति ॥ सकृद्भोजने बहुघृतभोक्तुरपेक्षया बहुषु भोजनेष्वल्पघृतभोक्तुरेव बहुघृतभोक्तृत्ववदनेकभक्त्यावृत्तिष्वल्पाल्पविश्वासस्यापि सकृन्निवृत्तप्रपत्तिगतविश्वासा पेक्षयाऽधिकत्वादित्यर्थः ॥ अन्धेति ॥ अन्धेन कृते यागे आज्येक्षणाद्यङ्गवैकल्यं पङ्गुकृते विष्णुक्रमणाद्यङ्गवैकल्यम् ॥ कर्मणामिति ॥ अल्पस्य कर्मणोऽल्पं फलं महतो महदित्येवं विशेषवेदनाभावेऽप्यल्पस्य कर्मणः स्वविषयेऽल्पफलं महतो महदिति विभागो नियमो भवति ॥ स्थानसामान्यादिति ॥ यथा ब्राह्मणकाण्डे प्रथमस्थान-गतेन कर्मणा मन्त्रकाण्डे प्रथमस्थानगतस्य मन्त्रस्य क्रमप्रमाणेन सम्बन्धस्तथाऽल्पफलं प्रत्यल्पमेव कर्म साधनत्वेन सम्बध्यते महत्फलं प्रति महदित्यर्थः ।

अपरोक्षज्ञानोत्तरमनुष्ठितानि विचित्रकर्माणि मोक्षेतरफलानि । मोक्षाहेतुत्वे सति फल-वत्त्वादिति सामान्य व्याप्तिकानुमानेन मोक्षे वैचित्र्यं सिध्यतीत्याह– तस्य तावदेवेति ॥ विशेषणासिद्धिं परिहरति– नापीति ॥ वैचित्र्यापाताच्चेति ॥ तदङ्गीकारे त्विष्टापत्तिः । अर्थान्तरं परिहरति– नापि फलेति ॥ बाधान्न तत्सिद्धिः ॥ नित्यत्वादिति ॥ मोक्षा-नन्वयेऽपि फलत्वात् । विशेष्यासिद्धिं परिहरति– नापीश्वरेति ॥ लीलार्थं निष्फलम् । ‘अपरोक्षज्ञानिकृतं कर्म लीलार्थम्, सांसारिकभोगार्थम् अक्रियमाणज्ञानिकर्मत्वात्, ईश्वरकृतकर्मवत्’ । इत्यत्र विवक्षितस्याविधिबद्धकृतत्वस्योपाधेः पक्षाद्व्यावृत्तिं वक्तुं ज्ञानिनां कर्मविधिमाह– आचार्यादित्यादि ॥ पक्षासिद्धिं परिहरति– सूर्यादय इति ॥ शुकशक्र-सूर्यादयः ॥ यावदधिकारमिति ॥ ‘यावदधिकारमवस्थितिराधिकारिकाणाम्’ इति सूत्रम् ॥ भोगसामान्य एव साम्यमिति ॥ मुक्तभोगे ईश्वरभोगगतभोगत्वसदृशभोगत्वमस्तीत्यर्थः । न त्वीश्वरगतसामान्यभोगसदृशो मुक्तभोग इत्यर्थः । विशेषान्यसामान्यस्याभावात् ॥ त्वन्मतेऽपीति ॥ मुक्तानामैश्वरभोग विशेषवत्त्वे जगद्व्यापारस्यापीश्वरगतत्वेन तद्वर्जनं मुक्तानां न स्यादित्यर्थः ॥ सातिशयत्वेऽपीति ॥ साति शयस्येवापकृष्टस्य समस्य विनाश-दर्शनात्त्वत्पक्षेऽपि स स्यात् । श्रुतिबलात्तत्त्यागस्तु ममापि सम इत्यर्थः ॥ उत्कर्षस्येति ॥ गन्धर्वाद्युत्कर्षस्य ॥ प्रकृतिमिति ॥ स्वभावम् । स्वभावजेति स्वभावस्य त्रैविध्या-च्छ्रद्धात्रैविध्यमिति गम्यते ॥ हठापरपर्यायेति ॥ हठस्य कारणान्तरापूर्वकत्वान्नानवस्था ॥ लिङ्गशरीराविद्यानिवृत्तेरिति ॥ तथा च पितृत्वगन्धर्वत्वादिकं न देहाद्युपाधिकं किन्तु स्वरूपकृतमिति गम्यत इत्यर्थः ।

मुक्तानां भोगानुपपत्तिनिरासाय ‘अभावं बादरिराह ह्येवम्’ इत्यधिकरणसिद्धजडाजड-देहवत्त्वं तेषां साधयितुमाह– न च मुक्तस्येति ॥ अभावं बादरिरिति सूत्रसिद्धचिच्छरीरत्वं मुक्तानां साधयति– अस्ति (हि) तावदिति ॥ ‘भावं जैमिनिर्विकल्पाम्नानात्’ इति सूत्रसिद्धजडशरीरवत्त्वं साधयति– अस्ति चेति ॥ यथा जाग्रदवस्थायां देहसद्भावेन भोगसम्भवस्तथा मुक्तावपि देहसद्भावेन भोगोपपत्तिरित्येवमर्थकेन ‘भावे जाग्रद्वत्’ इति सूत्रे सूचितं प्रमाणमाह– स्वेच्छया वेति ॥ इन्द्रियवत्त्वं तेषां साधयति– मोक्षधर्मे चेति ॥ शरीरमनुप्रविश्येति ॥ इतः परं तत्प्रकाशयन्त इति शेषः । भाष्ये तथा पाठात् । एतद्भाष्य-व्याख्यातं सूत्रमाह– प्रदीपवदिति ॥ जीवस्य शरीर प्रवेशेऽपि न दुःखानुभवप्राप्तिः । यतः साधूनेव भोगाननुभवन्ति प्रदीपवदिति सूत्रार्थः ॥ तन्निरुक्त्यभावादिति ॥ ‘तदशीर्यता-शारीति तच्छरीरमभवत्’ इत्याद्युक्तविशरणरूपतन्निरुक्तेस् तस्मिन्मुक्तशरीरेऽभावादित्यर्थः । अत एवाह– न हि तानीति ॥ शरीरे सत्येव वैलक्षण्यमात्रेण शरीराभावोक्तौ दृष्टान्तमाह– कथमन्यथेति ॥ तारतम्य समर्थनमुपसंहरति– तस्मादिति ॥ तत्प्रयोजनमाह– नियामक इति ॥ स्वयं नियच्छति ब्रह्मादिभ्यो नियमयति चेत्यर्थः । एतद्ग्रन्थस्य ब्रह्ममीमांसा-सम्बन्धित्वमुक्तमुपसंहरिष्यंस्तदवधृतविशेषणवत्तयेष्टदेवतानमस्काररूपं मङ्गलं ग्रन्थ-समाप्तावाचरति– नम इति ॥ स्वस्य स्वातन्त्र्येण कर्तृत्वस्याभावेऽपि पराधीनस्य तस्य सत्त्वादेतद्ग्रन्थकरणेन भगवत्प्रीतिमाशास्ते– मत्प्रेरकेणेति ॥ सङ्गृहीत इति ॥ अनेनात्रोक्त-न्यायानां मूलशास्त्रोक्तत्वं सूचितम् ॥ इति मुक्तावपि ब्रह्मादीनां तारतम्यसमर्थनम् ॥ ५ ॥

सद्योजातजटाजपावनसरिद्गोदावरीतीरतो

गव्यूतिर्वसतिस्सतां कुलवतामम्बापुरी तत्र ये ।

व्यासाख्या उपमन्युगोत्रजबुधास्तेष्वास्त यो मुद्गलस्

तत्राजज्ञत ये मुरारिचरणा व्यासाभिधाना बुधाः ॥ १ ॥

तेभ्योऽजायत विश्वनाथ इति यस्सज्ज्ञानरत्नाकर-

स्तस्मादाविरभूत्सुरद्रमयशा आचार्यनारायणः ।

रामाचार्य इतीरितस्तदनुजो यस्तत्ववादाम्बुधे-

रातानीत्सतरङ्गिणीमिह परिच्छेदश्चतुर्थोऽपि यः ॥ २ ॥

॥ इति श्रीमद्रामाचार्यविरचितायां न्यायामृततरङ्गिण्यां चतुर्थः परिच्छेदः ॥ ४ ॥

न्यायामृतकण्टकोद्धारः

‘नीचोच्चभावमापन्ने’त्यनेन तारतम्यमभिप्रेतम् । तदसहमानः प्रत्यवतिष्ठते– नन्विति ॥ मुक्तौ तारतम्याभावः किं प्रमाणाभावात् ? उत बाधकसत्वात् । नाद्यः । तत्र प्रमाणस्य वक्ष्यमाणत्वात् । द्वितीयं विकल्पयति– उच्यत इति ॥ न च भेदाभावेन तारतम्यासिद्धिरिति वाच्यम् । साधकसत्त्वेन बाधकासद्भावेन च द्वितीयसत्वस्य निपुणतरमुपपादितत्वात् ॥ अनेकेश्वरेति ॥ तारतम्याभावे ईशवन्मुक्तानामपि सार्वज्ञ्यापत्त्याऽनेकेश्वरत्वं स्यादिति भावः ॥ अल्पशक्तिरित्यादि ॥ न च भेदसत्त्वे नाभेदात्मकपरमसाम्याभावः । तत्सत्त्वे भेद एव नास्तीति वाच्यम् । परमसाम्यस्य भेदाविरोधित्वात् । न च सादृश्यमात्रविवक्षायां परमशब्दोऽनर्थक इति वाच्यम् । संसारदशायां सत्यपि साम्येऽनभिव्यक्तत्वेनापरमत्वस्य सम्भवात् । मुक्तौ चाभिव्यक्त्या परमत्वसम्भवेन वैय्यर्थ्याभावेन त्वदुक्तेरेवाबोधविजृम्भितत्वे-नाकाण्डताण्डवत्वात् । न चैतत्तारतम्याभिधानं किं परममुक्तौ ? उत ब्रह्मलोकावासरूपापरम मुक्तौ । नाद्यः । ‘एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः’ इति तृतीयान्त्याधि-करणे मुक्तावपि तारतम्यमाशङ्क्य निषेधात् । न द्वितीयः । इष्टापत्तेरिति वाच्यम् । पक्षद्वयस्यापि निदुर्ष्टत्वेन स्वीकारात् । ‘वृद्धिह्रासभाक्त्वं’ इत्यत्र सूत्रकृतैव तारतम्यस्योक्त-त्वात् । एवं ‘मुक्तिफलानियमः’ इत्यस्यार्थान्तरपरत्वेन तारतम्यनिषेधपरत्वाभावात् । ‘तदवश्यतन्नियामकानन्दत्वात्’ इति हेतुद्वयम् । ‘तदवश्यत्वात्, तन्नियामकानन्दत्वात्’ इति । तेन न तदवश्येति विशेषणानर्थक्यमिति भावः । न चाधिकमुक्तस्य ब्रह्मरूप-तयोपाधिकृतजीवत्वस्याभावेन तारतम्यं वक्तुमशक्यमिति वाच्यम् । मुक्तानां ब्रह्मभेदस्य समर्थितत्वेन जीवत्वस्य स्वाभाविकतया तारतम्यस्य वक्तुं सुकृतत्वात् ॥

त्वन्मतेऽपीति ॥ एतच्च रामानुजान् प्रति । सत्यपि भेदे साम्यस्यैव तैरङ्गीकारात् ॥ परतन्त्रेति ॥ परतन्त्रानन्दत्वस्य साक्षाद्व्याप्यो धर्मः जीवस्वरूपानन्दत्वं, तेन सजातीयो य आनन्दः जीवान्तरस्वरूपानन्दः, तत्प्रतियोगिकं यत् तारतम्यं तद्वानित्यर्थः ॥ स्व-सजातीयेति ॥ स्वशब्देन पक्षीकृतबन्धनिवृत्तिः । सजातीया बन्धनिवृत्तिर् अन्यपुरुषीया । तदाश्रयीभूतपुरुषान्तरम् । तत्प्रतियोगिकतारतम्यवान् पक्षीकृतबन्धनिवृत्त्याश्रयस् तन्निष्ठेत्यर्थः । ननु स्वरूपे तारतम्यमयुक्तम् । स्वरूपसुखानामेकत्वात्; अणुत्वाच्च स्वरूपकृतवैषम्यस्या-भावादित्यत आह– स्वरूपेति ॥ न च वैषयिकसुखे साधनतारतम्येऽपि स्वरूपानन्दे तदभाव इति वाच्यम् । स्वरूपानन्देऽपि तारतम्यस्य श्रुतिस्मृति सूत्रैर्निपुणतरमुपपादितत्वात् ।

प्रकारान्तरेणापि तारतम्यमुपपादयति– प्रसिद्धं चेति ॥ न च परापरमुक्तितया तदुपपत्तिः । उत्कृष्टत्व व्यपदेशस्त्वपकृष्टत्वाभावमात्रेणेति वाच्यम् । त्वदभिमतपरममुक्तेर-प्रामाणिकत्वात् । सति ह्यपकृष्टे उत्कृष्टत्वव्यपदेशो न तु तदभावे । न हि दीर्घाभावे ह्रस्व-व्यपदेशो दृष्टः ॥ तस्मादिति ॥ नन्वेतदयुक्तम् । व्यापकेनेश्वरेण संश्लेषस्य नित्यसिद्धत्वात् । ‘ब्रह्मविदाप्नोति परम्’ इत्यत्रावाप्तेर्ब्रह्यरूपत्वोक्त्या सायुज्यस्यापि तद्रूपताया अङ्गीकरणीय-त्वात् । ‘चन्दमसः सायुज्यं’ इत्यादौ अवच्छिन्नस्योपाध्यन्तरावच्छिन्नेनैक्यानुपपत्तिवत् प्रकृते तदभावात् । प्रसिद्धार्थस्वीकारे बाधकस्योक्तत्वाच्चेति चेत् । मैवम् । न हि संश्लेषमात्रं सायुज्यशब्दार्थः । किन्तु ‘आदत्ते हरिहस्तेन हरिपादेन गच्छति । पश्येच्च हरिदृष्टिभ्यां’ इत्युक्तसंश्लेषविशेषस्य विवक्षितत्वात् । तस्य चासिद्धत्वेन पुमर्थत्वोपपत्तेः । ‘अवाप्ति-र्ब्रह्मरूपत्वे’त्यप्ययुक्तम् । तथा सति देवदत्तस्य ग्रामप्राप्तेरपि देवदत्तस्वरूपापत्तेः । ऐक्यानु-पपत्तिस्तु प्रकृतेऽप्यस्यैव सावर्ज्ञ्यादेः स्वाभाविकस्योपपादितत्वेन विरुद्धधर्मवतोरैक्यस्यानु-पपन्नत्वात् । बाधकाभावाच्च प्रसिद्ध एव सायुज्यशब्दार्थः ॥ प्रकृते मनुष्यगन्धर्वादाविति ॥ तथा चोत्तरोत्तरशतगुणानन्दप्रकाशकवाक्येषु प्रतिवाक्यं मुक्तेऽकामहतशब्दप्रयोगान् मुक्ता-नन्देऽपि तारतम्यमिति भावः । न च ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इति सर्वेषां लौकिका नन्दानां परमानन्दान्तर्भावाभिधानोपपत्तेरिति । न तु तस्याकामहतस्य तावानेवानन्द इति, येन तारतम्यं कल्प्येदिति वाच्यम् । अत्र भगवदानन्दस्योपजीव्यत्वम् अन्यानन्दस्य तूपजीवकत्वोक्त्या भेदस्यैवाभिप्रेतत्वेनान्तर्भावस्यैवाभावात् । अंशत्वस्य च ‘देवदत्तचतुर्भागबलो मैत्रः’ इतिवद् भिन्नत्वेऽप्युपपत्तेः । नन्वपरोक्षज्ञानिन एवावृजिनत्वं किं न स्यात् ? अत्राह– अपरोक्षेति ॥

दूषणान्तरमाह– अपि चेति ॥ ननु सर्वेषु वाक्येषु अकामहतस्य मुक्तस्यैकत्वेऽपि तदानन्दे सर्वानन्दानामन्तर्भावात् स एव तस्मिन् तस्मिन्नानन्दे वक्तव्ये परामृश्यते । तत्तदिन्द्रादिसाम्येन तस्य सर्वत्राभिधानोपपत्तेः । साम्यं हि तत्सजातीयधर्मवत्वम् । न तु तदितरधर्मानाधिकरणत्वमपि । गौरवादिति । मैवम् । सर्वेषु वाक्येषूक्तस्यैकत्वे एकेनैव वाक्येन तस्य प्रतिपादितत्वाद् वाक्यान्तरस्यानर्थक्यं स्यात् । सर्वानन्दानां तदानन्देऽन्तर्भाव इत्यप्ययुक्तम् । विरुद्धानामेकत्रान्तर्भावस्य बाधितत्वात् । तथा सति जलस्याप्यनलेऽन्त-र्भावापत्तिः । न च सर्ववाक्यप्रतिपादितस्य मुक्तस्यैकत्वादन्तर्भावो युक्त इति वाच्यम् । तदैक्यस्यैव गगनकुसुमायितत्वात् । एकस्यैवानन्दस्य सर्वत्राभिधानं च पुनरुक्तम् । न च तत्तदिन्द्रादिसाम्येन तदुपपत्तिरिति वाच्यम् । साम्यं हि तत्सजातीयधर्मवत्वम् । न च निर्विशेषानन्दे धर्मवत्वमुपपद्यते इत्ययुक्तमेवैतदिति, बाधमेव व्यक्तीकरोति– न हीति ॥ उक्तार्थे आचार्यसम्मतिमाह– उक्तं हीति ॥ उपसंहरति– तस्मादिति ॥ तथापि ‘अक्षण्वन्तः’ इत्यस्य मुक्तविषयत्वं कथम् ? ज्ञापकाभावादित्यत आह– अक्षण्वन्त इति ॥

नन्वेतन्मतमेवायुक्तम् । तथा हि– द्वेषस्य मोक्षसाधनताया प्रमाणबाधितत्वात् । कर्ममात्रस्य मोक्षसाधनताया प्रमाणबाधितत्वात् । कर्ममात्रस्य मोक्षसाधनत्वे स्वर्गादिवदेव मुक्तेरनित्यत्वापत्तिः । ‘नान्यः पन्थाः’ इत्यादिश्रुतिविरोधाच्च । ज्ञानैकसाध्यत्वपक्षेऽप्युदाहृत-श्रुतीनां ब्रह्मविद्यादुर्लभत्वप्रतिपादनपरत्वेनोक्तसाध्यसाधनभावप्रतिपादकत्वात् । नाप्यर्थापत्त्या तत्सिद्धिः । ब्रह्मसाक्षात्कारस्य निर्गुणविषयतया गुणविषयत्वस्यैवाभावादिति । मैवम् । द्वेषस्य मनोऽभिनिवेशहेतुत्वम् । मुक्तिस्तु ज्ञानादेवेत्यङ्गीकारेण प्रमाणबाधाभावात् । अनित्यत्वापादनमयुक्तम् । कर्ममात्रसाध्यत्वानङ्गीकारात् । कर्मणश्चोपसर्जनत्वं, ज्ञानस्यैव प्राधान्यमित्यङ्गीकारेण श्रुतिविरोधाभावात् । ‘मदन्यः कः ज्ञातुमर्हति’ ‘सर्वे गुणा ब्रह्मणैव’ इत्यादिश्रुत्यादिभिरन्यवेद्यत्वान्योपास्यत्वादिनिषेधेन तारतम्यपरत्वस्य स्पष्टप्रतिभासेन दौर्लभ्यमात्रपरकत्वाभावात् । सगुणातिरिक्तनिर्गुणाप्रामाणिकत्वस्योपपादितत्वेन साक्षात्कारस्य निर्गुणविषयत्वासम्भवेनार्थापत्तेरुपपन्नत्वात् । ननूक्तविधतारतम्यवत्साधनसाध्यश्चरमदेह एव । न तु सुखरूपमोक्ष इत्यत आह– चरमदेह इति ॥ तस्य मर्त्यादिरूपस्यानित्यतयाऽपुमर्थत्वेन नोक्तविधसाधनसाध्यतेति भावः ।

प्रकारान्तरेणापि तारतम्यमुपपादयति– यस्त आशिष इति ॥ न चैतद् भक्तेर्गरीयस्त्व-प्रतिपादनं तत्वसाक्षात्कारे त्वरासम्पादकत्वादन्यथासिद्धमिति न मुक्तितारतम्याक्षेपकमिति वाच्यम् । उक्तरीत्या श्रुतिसंवादेन च तारतम्यपरत्व सम्भवेऽन्यथासिद्धिकल्पकाभावात् ॥ भक्तिः सिद्धेरिति ॥ न चैतज् जनकत्वमात्रेणैव गरीयस्त्वप्रतिपादनं पुत्रात् पितुरिवेति वाच्यम् । कल्पकाभावेन दृष्टान्तमात्रस्याप्रयोजकत्वात् ॥ अन्ये त्वेवमिति ॥ न चैतद् विलम्बिततरणरूप फलसम्बन्धमात्रे पर्यवसन्नम् । कैमुत्यमपि त्वराफललाभमात्रेणोपपन्नमिति वाच्यम् । दत्तोत्तरत्वात् ॥ साधनस्येति ॥ न चास्य सगुणमुक्तिविषयत्वेन न परममुक्ति-विषयत्वम् । विज्ञानगताधिक्योक्तेरपि निर्गुणसाक्षात्कारप्रयोजक सगुणज्ञानविषयत्वमिति वाच्यम् । निर्गुणब्रह्मणो निर्गुणमुक्तेश्चाप्रामाणिकत्वस्योपपादितत्त्वेन तद्विषयत्वकल्पका-भावात् । एतेन दहराक्षरादिविद्यानां यदन्यथासिद्धिवर्णनं तदपि निरस्तम् ।

तारतम्यानङ्गीकारिणं रामानुजं प्रत्याह– विकल्प इति ॥ भक्तिप्रपत्त्योः स्वरूपविवरणं चिन्तेत्यादि । तत्र चिन्ताभारो भक्तिः । न्यासः प्रपत्तिः ॥ उक्तरीत्येति ॥ आवृत्त्यनावृत्ति-रूपोक्तरूपेत्यर्थः ॥ तर्ह्यन्योन्याश्रय इति ॥ फलसाम्यसिद्धौ सत्यां प्रपत्तावधिकविश्वा-सकल्पना । तस्यां च सत्यां साधनसाम्यात् फलसाम्यसिद्धिरित्यन्यो न्याश्रय इत्यर्थः । सत्यपि साधनसाम्ये फलं विषममित्यत आह– साधनेति ॥ ऐतेनेत्यस्यार्थमाह– तथेति ॥ शक्ताशक्तविषयत्वात् फलसाम्यमित्येतत् किं श्रुतम् ? उत कल्प्यते ? नाद्य इत्याह– तथाऽ-श्रवणादिति ॥ द्वितीयं प्रत्याह– कल्पन इति ॥ साधनतारतम्येन साध्यतारतम्योपपादन-मुपसंहरति– तस्मादिति ॥ उक्तार्थे सम्मतिमाह– अत एवेति ॥

अपरोक्षज्ञानोत्तरकालं क्रियमाणस्य कर्मब्रह्मध्यानादेः प्रयोजनान्तरार्थत्वासम्भवेन मुक्ता-वानन्दातिशयार्थत्वस्यैव वक्तव्यत्वेनावश्यं मुक्तौ तारतम्यं स्वीकर्तव्यमित्याशयेनापरोक्ष-ज्ञानिकृतस्य कर्मणः प्रयोजनान्तरार्थत्वाभावमुपपादयति– किञ्चेति ॥ उक्तश्रुत्यादीति ॥ ‘तस्य कार्यं न विद्यते’ इत्याद्युक्तश्रुत्यादीर्त्यर्थः । अनित्यत्वेऽपि कुतो न तदर्थत्वमित्यत उक्तम्– ज्ञानिन इति ॥ आचार्यादिति ॥ विहितस्य लीलात्वाभावादिति भावः । ननु सूर्यादीनाम् अपरोक्षज्ञानित्वाभावात् तदीयं क्लेशेनानुष्ठानं नानन्दातिशयार्थमित्यत आह– सूर्यादय इति ॥ उक्तार्थे प्रमाणसम्मतिमाह– ब्रह्माण्ड इति ॥ अत एवेति ॥ आनन्दाति-शयार्थत्वादेवेत्यर्थः । ‘साम्यमुपैति’ इति श्रुतेः का गतिरित्यत आह– परमेति ॥ अन्यथेति ॥ स्मृत्युक्तसाम्यानङ्गीकार इत्यर्थः । अस्तु तदित्यत आह– तच्चेति ॥ ननु स्रष्ट्रत्वादिनिषेधो न सूत्रात् प्रतीयत इत्यत आह– अत्रेति ॥ अन्यथेति ॥ उपलक्षणार्थत्वा-भाव इत्यर्थः । ननु भोगमात्रेति सूत्रे सर्वसाम्यस्योक्तत्वात् कथं तन्निषेध इत्यत आह– भोगमात्रेति ॥ मन्मते तस्य कात्स््नर्याथत्वात् कथमेतदित्यत आह– त्वन्मत इति ॥ ननु मुक्तानन्दस्य सातिशयत्वे कथं नित्यत्वम् ? अत आह– सातिशयत्वेऽपीति ॥ तारतम्यस्य स्वभावत्वं श्रुतिस्मृतियुक्तिभिरुपपादयति– यो यद्रूप इति ॥ ननु मुक्तानां द्विविधशरीरसद्भावोऽप्रामाणिक इत्यतस्तदुपपादयति– अस्ति तावदिति ॥ जडशरीरसद्भाव-मप्युपपादयति– अस्ति चेति ॥ वश्यप्रकृतित्वेनेति ॥ वश्या प्रकृतिर्यस्य तत्त्वेनेति विग्रहः । तर्हि ‘न वै सशरीरस्य सतः प्रियाप्रिययोः’ इत्यादिश्रुतेः का गतिरित्यत आह– न ह वा इति ॥ ‘तन्निरुक्त्याभावात्’ शीर्यत इति शरीरमिति शरीरशब्दार्थाभावादित्यर्थः । प्रसिद्ध्याऽप्येतदुपपादयति– किञ्चेति ॥

परिच्छेदार्थमुपसंहरति– तस्मादिति ॥ एवं समापितैतद्ग्रन्थो व्यासतीर्थमुनिरन्तेऽपि मङ्गलमाचरति– नम इति ॥ इति मुक्तावपि ब्रह्मादीनां तारतम्यसमर्थनम् ॥

कल्याणगुणसम्पूर्णो वारिताखिलदूषणः ।

भक्त्या तुष्टो ददातीष्टं जानते श्रीरमापतिः ॥

रघूत्तमार्यशिष्येणानन्दनाम्ना यथामति ।

कृतोऽयं कण्टकोद्धारः प्रीयतां तेन माधवः ॥

॥ इति श्रीमद्रघूत्तमतीर्थपूज्यपादानां निजशिष्येण पाण्डुरङ्गि आनन्दाचार्येण कृते न्यायामृतकरण्टकोद्धारे चतुर्थः परिच्छेदः ॥ ५ ॥

न्यायामृतप्रकाशः

भेदभोगादेरिति ॥ वैशेषिकरीत्या भेदसहितभोगादेरित्यर्थः । ‘किं वा तस्य सत्त्वेऽपि साम्यात्’ इति रामानुजमताभिप्रायेण ॥ तदवश्येति ॥ अत्र यो यन्नियामकानन्दः स तदानन्दादुत्कृष्ट इत्येवोक्ते कश्चिद्राजा दरिद्रः धनिकप्रजादत्तान्नादिभोक्ता राजत्वेन तन्नियामकश्चास्ति । तदानन्दे प्रजानियामकस्य राज्ञ आनन्दत्वमस्ति प्रजानन्दादुत्कृष्टत्वरूपं साध्यं नास्ति । राजापेक्षया धनिकप्रजाया एव परम-सुखित्वदर्शनादतस्तत्र व्यभिचारवारणाय तदवश्येत्युक्तम् । राज्ञो दरिद्रत्वेऽपि प्रजानन्दस्य तद्वश्यत्वेन तदवश्यत्वाभावान्न व्यभिचार इत्यर्थः । समानन्द व्यभिचारवारणाय विशेष्यभागः । त्वन्मते रामानुजस्य तव मते । शेषिणः प्रधानभूतात् ॥ तान्प्रतीति ॥ लक्ष्मीतत्वनियम्यजीवान्प्रतीत्यर्थः ॥ परतन्त्रेत्यादि ॥ आनन्दप्रतियोगिकतारतम्यवानित्येवोक्ते जीवानन्दस्येश्वरानन्द प्रतियोगिकतारतम्य-वत्त्वस्य रामानुजैरङ्गीकृतत्वात्सिद्धसाधनता स्यात् । अतः ‘सजातीये’त्युक्तम् । नन्वीश्वरानन्दोऽप्या नन्दत्वेन धर्मेण जीवानन्दसजातीयोऽपि भवत्येवेति पुनः सिद्धसाधनवारणायोक्तं परतन्त्रानन्द त्वेत्यादि ॥ परतन्त्रानन्दत्वस्य साक्षाद्व्याप्यो धर्मो देवानन्दत्वं तेन धर्मेण सजातीयो य आनन्दो देवानां परस्परमानन्दः । तथा परतन्त्रानन्दत्वसाक्षाद्व्याप्यो धर्म ऋष्यानन्दत्वं तेनापि सजातीयो य ऋष्यादीनां परस्पर मानन्दस्तत्प्रतियोगिक तारतम्यवानिति साध्यार्थः ॥ प्रकृतिबन्धनिवृत्तिरिति ॥ देवादीनां जायमाना प्रकृतिबन्ध निवृत्तिरित्यर्थः ॥ स्वसजातीयेत्यादि ॥ स्वशब्देन पक्षीभूतदेवादि-बन्धनिवृत्तिस्तज्जातीया या बन्धनिवृत्तिर्ऋष्यादि बन्धनिवृत्तिस्तदाश्रयो ऋष्यादिस्तत्प्रतियोगिक-तारतम्यवन्तो देवास्तन्निष्ठेत्यर्थः । एवं च जीवानामन्योन्यतारतम्यसिद्धिः ॥ निगडबन्धेति ॥ देवदत्त-निष्ठनिगडबन्धनिवृत्तिः स्वसजातीया या बन्धनिवृत्तिर्यज्ञदत्तीया तदाश्रयो यज्ञदत्तस्तत्प्रति योगिक-तारतम्यवान् देवदत्तस्तन्निष्ठेत्यर्थः ।

ननु स्वरूपसुखे कथं तारतम्यम् । तेषामेकैकत्वेन सङ्ख्याकृततारतम्याभावात् । अणुभूत-जीवस्वरूपत्वेन परिमाणकृततारतम्याभावाच्चेति शङ्काभासं निराकरोति– स्वरूपेति ॥ जलपानं सुधापानं च तदुभयजन्येत्यर्थः ॥ सारूप्यादीति ॥ सालोक्यसामीप्यसारूप्यसायुज्यरूपं मुक्तिचतुष्टयम् । तत्रोत्तरोत्तरमुक्तिमति तदधस्तना मुक्तिरस्ति । सारूप्यादिमति सालोक्यादिदर्शनात् । एवं सायुज्यवति सारूप्यादिमुक्तिदर्शनात् । सारूप्यादेश्च भेदगर्भत्वेन भेदगर्भसारूप्यादिमुक्तेः सायुज्यस्यैक्य-रूपत्वपक्षेऽयोगादित्यर्थः ॥ भेदे सत्यपीति ॥ न हि विशिष्टेन चन्द्रेणैक्यरूपं सायुज्यं युक्तमित्यर्थः ॥ अन्यस्मिन्वा संसारिणीति ॥ श्रोत्रियादिपदवाच्ये विरक्तपुरुष इत्यर्थः । किञ्च त्वत्पक्षे प्रकृतो विरक्तरूपः श्रोत्रियो यः स एक एव मनुष्यगन्धर्वमारभ्य ब्रह्मपर्यन्तं श्रुतेषु श्रोत्रियस्येत्यादिवाक्ये-षूच्यते । उत भिन्नः । नाद्य इत्याह– अपि चेत्यादिना ॥ न द्वितीय इत्याह– भिन्नश्चेदिति ॥ अकामहतत्वादेः सर्वेष्वपि श्रोत्रियेष्वेकप्रकारतया श्रवणेन तत्साध्यानन्देष्वपि तारतम्यरूपव्यवस्थाया अयोग इत्यर्थः ॥ तदितरपदकामश्चेति ॥ तथा चाकामहतत्वं न सर्वत्रैकप्रकारमित्यर्थः । अतो व्यवस्थोपपत्तिरिति भावः ॥ उक्तं हीति ॥ अनुव्याख्यान इत्यर्थः ।

ननु चरमदेहस्य सर्वेषामेकप्रकारत्वान्न तारतम्यमित्यत आह– चरमदेहोऽपीति ॥ मर्त्यादिरेव मर्त्यऋषिदेवादिरूप एवेति तत्रैव तारतम्यमिति भावः । त्वत्पक्षे रामानुजपक्षे । निरन्तरचिन्ता भक्तिः । भरन्यासो ऽन्तःकरणभरन्यासः । प्रपत्तिर्विश्वास इति यावत् । ‘स्वरूपतो विषमत्वात्’ इत्यन्वयः ॥ कर्मेति ॥ निरन्तरचिन्तारूपभक्तिर् अन्तःकरणशुद्धिद्वारा कर्मापेक्षा । प्रपत्तिस्तु कर्मानपेक्षेत्यर्थः ॥ आवृत्तीति ॥ चिन्तारूपा भक्तिर्निरन्तरमावृत्तिसापेक्षा । नैवं प्रपत्तिरित्यर्थः । ननु भक्तिस्वरूपकर्मावृत्तिभ्याम् आधिक्येऽपि विश्वासोऽल्पः । प्रपत्तौ तु कर्मावृत्त्योरभावेऽपि विश्वासो भूयानिति दशरूप्यैकसुवर्णन्यायेन भक्तिप्रपत्त्योः साम्यमित्याशङ्क्य निराकरोति– न च तयोरिति ॥ प्रपत्त्यपेक्षया भक्तावेव विश्वासाधिक्यमित्याह– विश्वासस्येति ॥ सकृद्भोजने बहुघृतभोक्त्रपेक्षया बहुषु भोजनेष्वल्प घृतभोक्तुरेव बहुघृतभोक्तृत्ववदनेकभक्त्यावृत्तिष्वल्पाल्पविश्वासस्यापि सकृन्निवृत्ति-प्रपत्तिगतविश्वासापेक्षयाऽधिक त्वादित्यर्थः ॥ अन्धेति ॥ अन्धेन कृते यागे आज्येक्षणाद्यङ्गवैकल्यं, पङ्गुकृते विष्णुक्रमाद्यङ्गवैकल्यम् ॥ कर्मणामिति ॥ अल्पकर्मणोऽल्पफलं महतो महदित्येवं विशेषचोदनाभावेऽप्यल्पस्य कर्मणः स्वविषयेऽल्पफले महति विभागो नियमो भवति स्थानसाम्यात् । यथा ब्राह्मणकाण्डे प्रथमस्थानगतेन कर्मणा प्रथमकाण्डे प्रथमस्थानगतस्य मन्त्रस्य स्थानप्रमाणेन सम्बन्धस्तथाऽल्पफलं प्रत्यल्पमेव कर्म साधनं सम्बध्यते महत्फलं प्रति महदित्यर्थः ।

अपरोक्षज्ञानोत्तरमनुष्ठितानि विचित्रकर्माणि मोक्षे तत्प्रयोजकानि । मोक्षाहेतुत्वे सति सफलत्वादिति सामान्यव्याप्तिकानुमानेन मोक्षे वैचित्र्यं सिध्यतीत्याह– तस्य तावदेवेति ॥ विशेषणासिद्धिं परिहरति– नापीति ॥ वैचित्र्यापाताच्चेति ॥ तदङ्गीकारे त्विष्टापत्तिः । अर्थान्तरं परिहरति– नापि फलेति ॥ बाधान्न तत्सिद्धिरिति भावः । विशेष्यासिद्धिं परिहरति– नापीश्वरेति ॥ लीलार्थं निष्फलम् । ‘अपरोक्षज्ञानिकृतं कर्म लीलार्थं सांसारिकभोगार्थम् अक्रियमाणज्ञानिकर्मत्वाद् ईश्वरकृतकर्मवत्’ इत्यत्र विवक्षितस्य विधिबद्धाकृतत्वस्योपाधेः पक्षाद्व्यावृत्तिं वक्तुं ज्ञानिनां कर्मविधिमाह– आचार्यादिति ॥ पक्षासिद्धिं परिहरति– सूर्यादय इति ॥ शुकशक्रसूर्यादयः ॥ यावदधिकारमिति ॥ ‘यावदधिकार-मवस्थितिराधिकारिकाणाम्’ इति सूत्रम् ॥ भोगसामान्य एव साम्यमिति ॥ मुक्तभोगे ईश्वरभोग-गतभोगत्वमस्तीत्यर्थः ॥ त्वन्मतेऽपीति ॥ मुक्तानामैश्वरभोगविशेषवत्त्वे जगद्व्यापारस्यापीश्वर गतभोगत्वेन तद्वर्जनं मुक्तानां न स्यादित्यर्थः ॥ सातिशयत्वेऽपीति ॥ सातिशस्येवापकृष्टस्य समस्य विनाशदर्शनात्त्वत्पक्षेऽपि स स्यात् । श्रुतिबलात्तत्त्यागस्तु ममापि सम इत्यर्थः ॥

उत्कर्षस्येति ॥ गन्धाद्युत्कर्षस्य ॥ प्रकृतिमिति ॥ स्वभावम् ॥ स्वभावजेति ॥ स्वभावस्य त्रैविध्यात् श्रद्धात्रैविध्यमिति गम्यते ॥ हठापरपर्यायेति ॥ हठस्य कारणान्तरपूर्वकत्वान् नानवस्था ॥ लिङ्गशरीराविद्यानिवृत्तेरिति ॥ तथा च पितृत्वगन्धर्वत्वादिकं न देहाद्युपाधिकं किन्तु स्वरूपकृत-मिति गम्यत इत्यर्थः । मुक्तानां भोगानुपपत्तिपरिहाराय ‘अभावं बादरिराह ह्येवम्’ इत्यधिकरणसिद्ध-जडाजडदेहवत्त्वं तेषां साधयितुमाह– न च मुक्तस्येति ॥ ‘अभावं बादरिः’ इति सूत्रसिद्धं चिच्छरीरत्वं मुक्तानां साधयति– अस्ति हि तावदिति ॥ ‘भावं जैमिनिर्विकल्पाम्नानात्’ इति सूत्रसिद्धं जडशरीरत्वं साधयति– अस्तीति ॥ यथा जाग्रदवस्थायां देहसद्भावेन भोगसम्भवस्तथा मुक्तावपि देहसद्भावेन भोगोपपत्तिरित्येवमर्थकेन ‘भावे जाग्रद्वत्’ इति सूत्रेण सूचितं प्रमाणमाह– स्वेच्छया वेति ॥ इन्द्रियवत्त्वं तेषां साधयति– मोक्षधर्मे चेति ॥ ‘शरीरमनुप्रविश्य’ इत्यनन्तरं ‘तत्प्रकाशयन्त’ इति शेषः । एतद्भाष्यव्याख्यातं सूत्रमाह– प्रदीपवदिति ॥ तन्निरुक्त्यभावादिति ॥ ‘तदशीर्यताशरीति तच्छरीरमभवत्’ इत्याद्युक्तविशरणरूपतन्निरुक्तेस्तस्मिन् मुक्तशरीरेऽभावादित्यर्थः । अत एवाह– न हीति ॥ शरीरे सत्येव वैलक्षण्यमात्रेण शरीराभावोक्तौ दृष्टान्तमाह– कथमन्यथेति ॥ तारतम्य-समर्थनमुपसंहरति– तस्मादिति ॥ तत्प्रयोजनमाह– नियामक इति ॥ स्वयं नियच्छति ब्रह्मादिभ्यो नियमयति चेत्यर्थः ॥ एतद्ग्रन्थस्य ब्रह्ममीमांसासम्बन्धित्वमुक्तमुपसंहरिष्यन् तदवधृतविशेषणवत्तयेष्ट देवतानमस्काररूपमङ्गलं ग्रन्थसमाप्तावाचरति– नम इति ॥ स्वस्य स्वातन्त्र्येण कर्तृत्वस्याभावेऽपि पराधीनस्य सत्त्वादेतद्ग्रन्थकरणेन भगवत्प्रीतिमाशास्ते– मत्प्रेरकेणेति ॥ सङ्गृहीत इत्युक्त्याऽत्रोक्त-न्यायानां मूलशास्त्रोक्तत्वं सूचितमिति ज्ञातव्यम् ॥ इति मुक्तावपि ब्रह्मदीनां तारतम्यसमर्थनम् ॥५॥

॥ इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकश्रीनिवासेन विरचिते

न्यायामृतप्रकाशे चतुर्थः परिच्छेदः ॥

न्यायकल्पलता

परममुक्तौ तारतम्यमसहमानः शङ्कते– नन्विति ॥ विकल्पानुपपत्त्या समादधति– मुक्ताव-तारतम्यमिति ॥ भेदभोगेति ॥ सत्यपि भेदे वैशेषिकमत इव भोगाभावात्तारतम्याभावः । आनन्दानुभवरूपभोगे सत्यपि मायिमत इव भेदाभावात्तदभावः ॥ ब्रह्मेशानादिभिरिति ॥ ब्रह्मरुद्रादिभिर्देवैर्यत्कैवल्यं स्वातन्त्र्यलक्षणं सर्वोत्तमत्वं प्राप्तुं न शक्यते तत्कैवल्यं यत्स्वभावः यस्यानागन्तुकोऽसाधारणधर्मः स कैवल्याश्रयो भवान् ॥ जगद्व्यापारवर्जमिति ॥ जगत्सृष्टृत्वादि-व्यतिरिक्तसर्वसामर्थ्ययुक्तो भवतीत्यर्थः ॥ तदवश्येति ॥ आचार्यकेण वृतस्यानन्दस्य सकाशाद् उत्कृष्टे राजाद्यानन्दे व्यभिचारवारणाय तदवश्य इत्युक्तम् । समानन्दे तद्वारणाय तन्नियामकेति ॥ श्रोत्रियस्य चेति ॥ यथा मानुषशतानन्दपरिमितैकानन्दयुक्तो मनुष्यगन्धर्वोऽमुक्तस्तथा तावानानन्दयुक्तः प्राप्तश्रोत्रफलोऽकामहतो मुक्तमनुष्यगन्धर्वोऽपि ॥ असमा इति ॥ मनोजवेषु ज्ञानादिष्वसदृशाः ॥ वृद्धिह्रासभाक्त्वमिति ॥ मुक्तेर्न्यूनाधिकत्वं भाक्त्वं, कुतः, ब्रह्मादीनां मुमुक्षुषु अन्तर्भावात्, तेषां च साधनस्य न्यूनाधिकत्वात् । एवं सति ब्रह्मादीनां मुमुक्षुष्वन्तर्भावो मुक्तिश्चेत्युभयसामञ्जस्यं भवति ॥ परतन्त्रेति ॥ परतन्त्रानन्दत्वस्य साक्षाद्व्याप्यो धर्मो देवानन्दत्वादिः । तेन सजातीयो देवान्तरानन्दः, तत्प्रतियोगिकं तारतम्यं देवानन्दे इत्यर्थः ॥ सजातीयबन्धेति ॥ निगडबन्धादिना सजातीयो बन्धः निगडबन्धाद्यन्तरं तन्निवृत्तेराश्रयो देवदत्तादिः, तत्प्रतियोगिकतारतम्यवान् यज्ञदत्तादिः, तन्निष्ठा या यथा निगडबन्धनिवृत्तिस् तथा पक्षीभूता देहादिरूपप्रकृतिबन्धनिवृत्तिरपि तदाश्रयप्रतियोगि कतारतम्यवन्निष्ठेति साध्यार्थः ॥

प्रसिद्धमिति ॥ समानलोकनिवासापेक्षया तदन्तःप्रवेशस्याभ्यर्हितत्वेन लोके प्रसिद्धत्वाद् लोके श्रुतिस्मृत्योश्च प्रसिद्धत्वात् ॥ सारूप्यादिमतीति ॥ सारूप्यादेर्भेदसामानाधिकरण्यनियमेन सारूप्यनियतसायुज्यस्यापि भेदनियतत्वादित्यर्थः ॥ भेदे सत्यपीति ॥ ‘चन्द्रमसः’ इत्यादिषष्ठीश्रुत्या चन्द्रचेदिभूभुजादिना भेदे सत्यपि सायुज्योक्तेः ॥ तच्छब्देनेति ॥ सायुज्यशब्देन ॥ सालोक्यमिति ॥ अस्मिन्वाक्ये सारूप्यानन्तरं सायुज्ये वक्तव्ये दधिमन्त्रन्यायेन सम्बन्धार्थको योगशब्दः प्रयुक्त इति योगशब्देन निर्दिश्यमानं सायुज्यं सम्बन्धरूपमेव ॥ संश्लेषमात्रमिति ॥ अभिव्यक्तप्रसादविशेषवदीश्वरसम्बन्धः संश्लेषः । एतेन व्यापकेश्वरसंश्लेषस्य नित्यसिद्धत्वादपु-मर्थत्वम् । न चोत्क्रमणश्रुत्या लोकान्तरस्थितालौकिकशरीरावच्छिन्नेश्वरेण योगः स इति युक्तम् । ‘न तस्य प्राणा उत्क्रामन्ति’ अत्र ब्रह्म समश्नुत’ इति श्रुतेर्मुक्तेः पारलौकिकत्वाभावात् । ब्रह्मलोका-द्यवाप्तेरेवोत्क्रमण गमनादिसाध्यत्वादिति निरस्तम् ॥ संसारिणीति ॥ एतच्च ‘प्रकृतेऽप्रकृतेऽपि’ इत्यनेन सम्बध्यते ॥ स चेति ॥ कामकृतोपद्रवाभावः । सत्यकामस्य आप्तकामस्य । मुक्तस्या-वाप्तकामत्वे श्रुतिमाह– सोश्नुत इति ॥ विविधं विलक्षणं च पश्यं जीवजडात्मकं चेतति जानातीति विपश्चित् । ‘पृषोदरादीनि यथोपजुष्टम्’ इति साधुत्वम् ।तेन विपश्चिता ब्रह्मणा सह तदविनाभूतः सन् सर्वान् स्वयोग्यान् काकाननुभवतीत्यर्थः । एतेन ‘ब्रह्मविदाप्नोति परम्’ इत्यादौ अवाप्तेर्ब्रह्मरूपत्ववत् सायुज्यस्यापि तद्रूपतैवेत्यङ्गीकरणीयम् । ‘चन्द्रमसः सायुज्यम्’ इत्यादौ एकोपाध्यवच्छिन्नस्य उपाध्यन्तरावच्छिन्नेनैक्यानुपपत्तिवदत्रानुपपत्तेरभाव इति निरस्तम् । तेनैव सायुज्यशब्दोऽत्र विभक्तत्वाभावाभिप्रायक इति व्युदस्तम् । मुख्यार्थे बाधकाभावात् । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति ब्रह्मानन्दप्रति बिम्बानन्दानुभवस्यैवोक्तेश्च ॥ कामस्य यत्राप्ता इति ॥ देहादुच्चिक्रमिषुर्मुख्यवायुम् अभ्यर्थयते । उदाहृतश्रुतेर्जीवन्मुक्ति विषयत्वम् अपाकरोति– अपरोक्षेति ॥

ननु ‘श्रोत्रिमं छन्दोऽधीत’ इति छन्दोध्येतर्यनुशिष्टः श्रोत्रियशब्द एव बाधक इत्यत आह– श्रोत्रियत्वं चेति ‘स्वाध्यायोऽध्येतव्यः’ इति अध्ययनविधेरक्षरग्रहणमात्रस्यापुरुषार्थत्वेन फलवदर्थावबोधपर्यवसायितया श्रोत्रियशब्दः प्राप्ताध्ययनफले मुक्ते मुख्यः ‘मुख्यामुख्ययोर् मुख्ये कार्यसम्प्रत्ययः’ इति न्यायादित्यर्थः । न्याय्यमर्थम् इतिहासेन दर्शयति– प्राप्तेति ॥ पराभिमतेऽर्थे बाधकं चाह– प्रकृतेति ॥ श्रोत्रियशब्दस्य मनुष्यगन्धर्वान्वितत्वे ॥ एकवचनमिति ॥ मनुष्य-गन्धर्वाणां बहुवचनेन प्रस्तुतत्वान्न तत्र तदन्वयः ॥ चशब्दश्चेति ॥ उद्देश्यविधेययोरेकत्वेन समुच्चेतव्याभावात् । ननूद्देश्यादेरेकत्वेऽपि तदुपस्थितिभेदाच्चशब्दो युज्यत इत्याशङ्काम् अपाकरोति– न हीति ॥ वसिष्ठादिशब्दैस्तदुपलक्षित भेदेऽपि तत्र चशब्दानन्वयात् । विशेषणसमुच्चयस्तु अगतिकागतिः ॥ अप्रकृतेति ॥ मनुष्यगन्धर्वादिभिन्नो यः कश्चित्संसारी श्रोत्रियपदेन बोध्यत इत्यङ्गीकारे ॥ मनुष्यादिभ्य(मानुषादिभ्य) इति ॥ मनुष्यगन्धर्वश्रोत्रिये मानुषानन्दशतगुणित एवानन्दो न तु मनुष्यगन्धर्वानन्दशतगुणितानन्द इत्यादिरूपमानन्दावधारणं न स्यात् । श्रोत्रियस्य मनुष्यगन्धर्वदेवगन्धर्वादिष्वेकत्वेन देवगन्धर्वश्रोत्रियादौ श्रुतस्य मनुष्यगन्धर्वानन्दशतगुणितानन्दादेरपि मनुष्यगन्धर्वे वक्तव्यत्वात् । तस्य च विरुद्धत्वादित्यर्थः ॥ भिन्नश्चेदिति ॥ मनुष्यगन्धर्वश्रोत्रियस्य देवगन्धर्वादिश्रोत्रियस्य च भिन्नत्वे तत्र तत्र श्रोत्रिये मानुषानन्दशतगुणितानन्द एव मनुष्यगन्धर्वसमीप-श्रुतश्रोत्रियस्यैव मनुष्यगन्धर्वानन्द शतगुणगुणितानन्द एव देवगन्धर्वसमीपश्रुतश्रोत्रियस्यैवेत्यादिव्यवस्था न सिध्यति । मानुषानन्दशतगुणितानन्दं प्रत्याधारत्वेनाकामहतत्वावृजिनत्वयुक्त एव श्रोत्रिय उपादीयते । तथाविधश्च देवगन्धर्वश्रोत्रियोऽपीति तस्य मानुषानन्द शतगुणितानन्दः । मनुष्यगन्धर्व-श्रोत्रियस्य तु मनुष्यगन्धर्वानन्दशतगुणितानन्द इत्याद्यव्यवस्थापत्तेरित्यर्थः ।

अकामहतत्वादेरिति ॥ आदिपदेनावृजिनत्वम् । शङ्कते– अथेति ॥ मनुष्यगन्धर्वपदाकामस्य देवगन्धर्वपदकामस्य श्रोत्रियस्य मानुषा(गन्धर्वा)नन्दशतगुणि(गणि)तानन्दः । एवं देवगन्धर्वपदाकामस्य आजानजादिपदकामस्य मनुष्यगन्धर्वानन्दशतगुणितानन्दः । एवमुत्तरत्रापीत्यानन्दव्यवस्था सिध्यती-त्यर्थः । प्रतिक्षिपति– तदेति ॥ तत्तत्पदाकामत्वादिबोधकपदाभावादश्रुतकल्पनेत्यर्थः । नन्वश्रुतमपि योग्यं कल्प्यमित्यत आह– बाधश्चेति ॥ योग्यत्वमेव नास्तीत्यर्थः । अयोग्यतां विशदयति– न हीति ॥ तस्मादिति ॥ अमुक्तमनुष्यानन्दापेक्षयाऽमुक्त मनुष्यगन्धर्वाणां शतगुणगुणितानन्दः । तेषां मध्ये यः श्रोत्रियः प्राप्तश्रुतिमूलो ऽकामहतश्च मुक्तो मनुष्यगन्धर्वस्तस्याविमुक्तमनुष्यानन्द-शतगुणितानन्द इति श्रुतेरर्थः । अत एवैकवचनं समञ्जसम् । बहूनां मनुष्यगन्धर्वाणां मध्ये कदाचित्कश्चिन्मु(च्यत)क्त इत्येवं सूचनार्थत्वाच्च । तदिदमाह– मुक्तस्येति ॥ तत एव चशब्दोऽपि सङ्गच्छते । मुक्तामुक्तमनुष्यगन्धर्वस्यैकत्वेऽप्यमुक्तत्वमुक्तत्वरूपावस्थाभेदेन तदवस्थितोद्देश्यभेदात् । अयं कुमारः साधुर्युवा चेतिवत् ।

ननु विदितवेद्यानां बृहस्पतिशिष्यणां स्तुतिरूपः ‘अक्षण्वन्तः’ इति मन्त्रः कथं मुक्तपरो व्याख्यायत इत्यत आह– अक्षण्वन्त इतीति ॥ साक्षात्कृतपरमात्मतत्त्वानामेव विदितवेद्यत्वात् । भूतपूर्वगत्या बृहस्पतिशिष्यत्वात् । मुख्यतया वेदगर्भस्यैव बृहस्पतित्वाच्च । मुक्तानामेवात्र स्तुतिरतोऽस्य सूक्तस्य मुक्तविषयत्वम् ॥ ऋचां त्व इति ॥ ‘ऋचां त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उ त्वः’ (ऋ.सं.१०–७१–११) इति मन्त्रस्यायमर्थः । त्वशब्दोऽन्यार्थः । मुक्तलोके त्वः कश्चिद् ब्रह्मा ऋचां पोषं पुपुष्वानास्ते । ऋचः पुष्टाः कुर्वन्नास्ते । त्वो ब्रह्मा शक्वरीषु ऋक्ष्वारूढं गायत्रं साम गायति । त्वो ब्रह्मा जातविद्यां पौरुषेयविद्यां वदति । त्वो ब्रह्मा यज्ञस्य विष्णोर् मात्रां ? अशमेव? विमिमीते ध्यायतीति । इज्यतेऽसौ यज्ञ इति व्युत्पत्तेः । यज्ञशब्दो विष्णुवाची । ‘यज्ञेन यज्ञमयजन्तदेवाः’ इति मन्त्रवर्णात् । ‘यज्ञो विष्णुर्देवता’ इति हि श्रुतिः । अत्र ब्रह्मबाहुल्यश्रवणात्परममुक्तित्वम् । न च मन्त्रस्यास्य ऋत्विग्विषयत्वम् । ब्रह्मणो जातविद्यावादित्वस्याप्रसिद्धत्वात् । चतुर्णामपि पादानां होत्रादिभिन्नविषयत्वे तृतीयपादे त्व इति व्यर्थं स्यात् । तस्मादपवृक्तानेकगर्भविषयत्वमेव । अतीतकल्पेषु मुक्तानामनेकेषां ब्रह्मणां भावात् । यज्ञे तु ब्रह्मणां गौणानां बहुत्वम् ॥ मदामदमिति ॥ निरतिशयानन्दरूपमित्यर्थः ॥ देवर्षिमनुष्यादिस्थेति ॥ मनुष्यगते ज्ञाने यद् अल्पशाखाश्रवणजन्यत्वं तत्, अल्पतरगुणविषयत्वमन्तरेणानुपपन्नमित्यादिरूपार्थापत्तिरित्यर्थः ।

ननु देवादिदेहावच्छेदेन न ब्रह्मज्ञानं किन्तु चरमदेहावच्छेदेनैवेति देवर्ष्यादीत्याद्ययुक्तमित्यत आह– चरमदेहोऽपीति ॥ चरमदेहोऽपि देवादिरूप एव ॥ लोकरीतीति ॥ लोके भृतिग्राहिसेवकात्तदग्राही सेवको राजाप्रियो दृष्टः ॥ भक्तिरिति ॥ ‘अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी’ इति भागवते ॥ सिद्धेर् अल्पसाधनसाध्यमुक्तेः ॥ गतिरिति ॥ श्वेतद्वीपादि मुक्तिस्थाननिवासः ॥ दहरेति ॥ दहरविद्यायां सत्यकामत्वादयोऽक्षरविद्यायां प्रशासितृत्वादयोऽल्पगुणा उक्ताः ॥ त्वद्रीत्येति ॥ विशिष्टाद्वैतिरीत्या ॥ भरन्यासेति ॥ रक्षतीत्येवेत्यादिविश्वासः ॥ स्वरूपत इति ॥ भक्तिस्वरूपं कर्मापेक्षं, न तु प्रपत्तिस्वरूपम् । ननु भक्तिस्वरूपे कर्मावृत्तिभ्याम् आधिक्येऽपि विश्वासोऽल्पः, प्रपत्तौ तु कर्मावृत्त्योरभावेऽपि विश्वासो भूयानिति दशरूप्यैक सुवर्णन्यायेन भक्तिप्रपत्त्योः साम्यमिति विशिष्टाद्वैतिशङ्कां निराकरोति– न च तयोरिति ॥ प्रपत्त्यपेक्षया भक्तावेव विश्वासाधिक्यमित्याह– विश्वासस्येति ॥ सकृद्भोजने बहुघृतभोक्तुरपेक्षया बहुषु भोजनेष्वल्प घृतभोक्तुरेव बहुघृतभोक्तृत्व-वदनेकभक्त्यावृत्तिष्वल्पाल्प विश्वासस्यापि सकृन्निवृत्तप्रपत्तिगत विश्वासापेक्षयाऽधिकत्वादित्यर्थः ॥

अन्धेति ॥ अन्धेन कृते यागे आज्येक्षणाद्यङ्गवैकल्यं पङ्गुकृते विष्णुक्रमणाद्यङ्गवैकल्यम् ॥ कर्मणामिति ॥ अल्पस्य कर्मणोऽल्पं फलं महतो महदित्येवं विशेषवेदनाभावेऽप्यल्पस्य कर्मणः स्वविषयेऽल्पफलं महतो महदिति विभागो नियमो भवति ॥ स्थानसामान्यादिति ॥ यथा ब्राह्मणकाण्डे प्रथमस्थानगतेन कर्मणा मन्त्रकाण्डे प्रथमस्थानगतस्य मन्त्रस्य क्रमप्रमाणेन सम्बन्ध-स्तथाऽल्पफलं प्रत्यल्पमेव कर्म साधनत्वेन सम्बध्यते महत्फलं प्रति महदित्यर्थः ।

अपरोक्षज्ञानोत्तरमनुष्ठितानि विचित्रकर्माणि मक्तिावतिशयितफलानि । मुक्त्यहेतुत्वे सति फलवत्त्वादिति सामान्यव्याप्तिकानुमानेन मोक्षे वैचित्र्यं सिध्यतीत्याह– तस्य तावदेवेति ॥ विशेषणासिद्धिं परिहरति– नापीति ॥ वैचित्र्यापाताच्चेति ॥ तदनङ्गीकारे त्विष्टापत्तिः । अर्थान्तरं परिहरति– नापि फलान्तरार्थमिति ॥ बाधान्न तत्सिद्धिरिति भावः ॥ नित्यत्वादिति ॥ मोक्षा-नन्वयिफलत्वादित्यर्थः । विशेष्यासिद्धिम् उद्धरति– नापीश्वरेति ॥ लीलार्थं निष्फलम् । ‘अपरोक्षज्ञानिकृतं कर्म लीलार्थम्, सांसारिकभोगार्थम् अक्रियमाणज्ञानिकर्मत्वात्, ईश्वरकृतकर्मवत्’ इत्यत्र विवक्षितस्याविधिबद्धकृतत्वस्योपाधेः पक्षाद्व्यावृत्तिं वक्तुं ज्ञानिनां कर्मविधिमाह– आचार्यादित्यादि ॥ पक्षासिद्धिं निरस्यति– सूर्यादय इति ॥ रुद्रशक्रसूर्यादयः ॥ यावदधिकार-मिति ॥ ‘यावदधिकारमवस्थितिराधिकारिकाणाम्’ इति सूत्रम् ॥ भोगसामान्य एव साम्यमिति ॥ मुक्तभोगे ईश्वरभोगगतभोगत्व सदृशभोगत्वमस्तीत्यर्थः । न त्वीश्वरगतसामान्यभोगसदृशो मुक्तभोग इत्यर्थः । विशेषान्यसामान्यस्याभावात् ॥ त्वन्मतेऽपीति ॥ मुक्तानामैश्वरभोगविशेषवत्त्वे जगद्व्यापारस्यापीश्वरगतभोगत्वेन तद्वर्जनं मुक्तानां न स्यादित्यर्थः ॥ सातिशयत्वेऽपीति ॥ सातिशयस्येवापकृष्टस्य समस्य विनाशदर्शनात्त्वत्पक्षेऽपि स स्यात् । श्रुतिबलात्तत्त्यागस्तु ममापि सम इत्यर्थः । उक्तानङ्गीकारे बाधकमाह– अन्यथेति ॥ उत्कर्षस्य गन्धर्वाद्युत्कर्षस्य ॥ प्रकृतिमिति ॥ स्वभावम् । स्वभावजेति ॥ स्वभावस्य त्रैविध्याच्छ्रद्धात्रैविध्यमिति गम्यते ॥ हठापरपर्यायेति ॥ हठस्य कारणान्तरापूर्वकत्वान्नानवस्था ॥ निहत्येति त्यक्त्वा ॥ लिङ्गशरीरा-विद्यानिवृत्तेरिति ॥ तथा च पितृत्वगन्धर्वत्वादिकं न देहाद्युपाधिकं (किन्तु) स्वरूपसिद्धमिति गम्यत इत्यर्थः ।

मुक्तानां भोगानुपपत्तिनिरासार्थं ‘अभावं बादरिराह ह्येवम्’ इत्यधिकरणसिद्धजडाजडदेहवत्त्वं तेषां साधयितुमाह– न च मुक्तस्येति ॥ अभावं बादरिरिति सूत्रसिद्धचिच्छरीरत्वं मुक्तानां साधयति– अस्ति तावदिति ॥ ‘भावं जैमिनिर्निर्विकल्पाम्नानात्’ इति सूत्रसिद्धजडशरीरवत्त्वमाह– अस्ति जडमिति ॥ यथा जाग्रदवस्थायां देहसद्भावेन भोगसम्भवस्तथा मुक्तावपि देहसद्भावेन भोगोपपत्ति-रित्येवमर्थकेन ‘भावे जाग्रद्वत्’ इति सूत्रेण सूचितं प्रमाणमाह– स्वेच्छया वे(चे)ति ॥ इन्द्रियवत्त्वं तेषां साधयति– मोक्षधर्मे चेति ॥ शरीरमनुप्रविश्येति ॥ अतः परं तत्प्रकाशयन्त इति शेषः । भाष्ये तथा पाठात् । एतद्भाष्यव्याख्यातं सूत्रमाह– प्रदीपवदिति ॥ जडशरीरप्रवेशेऽपि न दुःखानुभव-प्राप्तिः । यतः साधूनेव भोगाननुभवन्ति प्रदीपवदिति सूत्रार्थः ॥ तन्निरुक्त्यभावादिति ॥ ‘तदशीर्यता-शारीति तच्छरीरमभवत्’ इत्याद्युक्तविशरणरूपतन्निरुक्तेस् तस्मिन्मुक्तशरीरेऽभावादित्यर्थः । अत एवाह– न हि तानीति ॥ शरीरे सत्येव वैलक्षण्य१ मात्रेण शरीराभावोक्तौ दृष्टान्तमाह– कथमन्यथेति ॥ तारतम्यसमर्थनमुपसंहरति– तस्मादिति ॥ तत्प्रयोजनमाह– नियामक इति ॥ स्वयं नियच्छति ब्रह्मादिभ्यो नियमयति चेत्यर्थः । एतद्ग्रन्थस्य ब्रह्ममीमांसा सम्बन्धित्वमुक्तमुपसंहरिष्यंस्तदवधृत-विशेषणवत्तयेष्टदेवतानमस्काररूपं मङ्गलं ग्रन्थसमाप्तावाचरति– नम इति ॥ स्वस्य स्वातन्त्र्येण कर्तृत्वस्याभावेऽपि पराधीनस्य तस्य सत्त्वादेतद्ग्रन्थकरणेन भगवत्प्रीतिमाशास्तेमत्प्रेरकेणेति ॥ सङ्गृहीत इति ॥ अनेनात्रोक्तन्यायानां मूलशास्त्रोक्तत्वं सूचितम् ॥ इति मुक्तावपि ब्रह्मादीनां तारतम्यसमर्थनम् ॥ ५ ॥

सर्वसद्गुणरूपाय सर्वा(वद्यप्र)हाणये ।

सर्ववेदैकवेद्याय परस्मै ब्रह्मणे नमः ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमद्व्यासतीर्थश्रीचरणकृतन्यायामृतटीकायां श्रीमत्कूर्मनृसिंहाचार्यविरचितायां न्यायकल्पलतायां चतुर्थः परिच्छेदः ॥ ४ ॥

न्यायकल्पलता समाप्ता ॥