०६ अध्ययनविधेर्नित्यत्वेऽपि विचारविधायकत्वम्

यत्तु भामत्युक्तम् ‘श्रवणादिविध्यभावादध्ययनविधिरेव काण्डद्वयविचराक्षेपकः’ इति..

६. अध्ययनविधेर्नित्यत्वेऽपि विचारविधायकत्वम्

न्यायामृतं

यत्तु भामत्युक्तम् ‘श्रवणादिविध्यभावादध्ययनविधिरेव काण्डद्वयविचराक्षेपकः’ इति, तत् ‘स्वाध्यायस्य हि तथात्वेन’ इत्यत्र सूत्रभाष्यादौ ‘अध्ययनस्य चार्थज्ञान-पर्यन्तत्वात्’ इति टीकायां च तस्य तदाक्षेपकताया उक्तत्वादिष्टम् । श्रवणादिविधिस्तु समर्थयिष्यते । ननु तत्रैव टीकायां ‘योऽनधीत्य’ इत्यकरणे प्रत्यवायस्मरणे-नाध्ययनस्य नित्यताप्युक्ता, तत्कथं तस्यार्थज्ञानपर्यन्तत्वमिति चेन्न, अर्थज्ञा-(नार्थत्वे)न पर्यन्तत्वेऽप्यध्ययनविधेरवैयर्थ्यायाधीतेनैव वेदेन कर्तव्यतां ज्ञात्वाऽनुष्ठितं कर्म फलायालमित्यादिनियमा श्रयणात् । असत्यध्ययने यथोक्तनित्यादिकर्मा-नुष्ठानासिद्ध्या प्रत्यवायश्रवणोपपत्तिः । तथा चार्थज्ञानार्थ स्याप्यध्ययनस्य फलतो नित्यत्वमिति केचित् । अपरे त्वनध्ययनेन सन्ध्यानुपासनेनेव साक्षात्प्रत्यवायस्मरणे-नाध्ययनस्यादृष्टार्थत्वेऽप्यर्थज्ञानस्यापि दृष्टत्वादपेक्षितत्वाच्च तादर्थ्यमपीत्युभयार्थता पशुपुरोडाशादिवदित्याहुः ।

अथवा श्रुतिबलाद्दध्यादेः क्रत्वर्थत्वपुरुषार्थत्ववद्दर्शपूर्णमासादे१र्नित्यकाम्यत्व-वच्चाध्ययनस्याप्युभयार्थता । प्रत्यवायस्येव ‘सर्वे वेदा यत्पदमामनन्ति’ इत्यादिश्रुत्या ‘वेदैश्च सर्वैरहमेव वेद्य’ इति स्मृत्या च ब्रह्मज्ञानार्थत्वस्याप्यवगमात् । यद्वोक्तश्रुत्याऽध्ययनस्य ब्रह्मज्ञानार्थत्वेऽपि ‘यदेव विद्यया करोति’ इत्यादिश्रुत्या ब्रह्मज्ञानस्यैवावश्यकत्वाज् ज्ञानार्थत्वेऽप्यध्ययनस्याकरणे प्रत्यवायश्रवणं युक्तम् । एतेन नित्यत्वादध्ययनविधिर्न विचाराक्षेपक इति यद्विवरणाभिप्रेतं तन्निरस्तम् । तस्मात्–

ब्रह्मज्ञानफलस्यापि स्वाध्यायाध्ययनस्य या ।

टीकायां नित्यता प्रोक्ता सापि नैव विरुध्यते ॥

॥ इति अध्ययनविधेर्नित्यत्वेऽपि विचारविधायकत्वम् ॥ ६ ॥

अद्वैतसिद्धिः

प्रस्थानान्तरे तु अध्ययनविधेरेवार्थावगमपर्यन्तत्वात् काण्डद्वयविचाराक्षेपकत्वम्, श्रवणादिषु च न विधिः । तेषामन्वयव्यतिरेकसिद्धसाक्षात्कारसाधनताकत्वादित्युक्तम् । न च अध्ययनाभावे प्रत्यवायश्रवणादध्ययनस्य नित्यताया अप्यवगमात् कथं तस्यार्थावगमपर्यन्तत्वमिति वाच्यम्, अर्थज्ञानार्थत्वेऽपि अध्ययनविधेरवैयर्थ्याय अधीतेनैव वेदेन कर्तव्यतां ज्ञात्वा अनुष्ठितं कर्म फलायालमित्यादिनियमाश्रयणादसत्यध्ययने यथोक्तनित्यादिकर्मानुष्ठानासिद्ध्या प्रत्यवायश्रवणोपपत्तिः । तथा चार्थज्ञानार्थस्यापि अध्ययनस्य फलतो नित्यत्वमिति केचित् । अपरे तु अनध्ययने सन्ध्यानुपासन इव साक्षात् प्रत्यवायश्रवणेनाध्ययनस्यादृष्टत्वेऽप्यर्थज्ञानस्यापि दृष्टत्वादपेक्षितत्वाच्च तादर्थ्यमपीत्यु-भयार्थता पशुपुरोडाशादिवदिति आहुः । अत्र चाध्ययनविधेर्नित्यत्वे सत्युभयविचाराक्षेपकत्वं परेणा-प्यङ्गीकृतं, तदयुक्तम्, जिज्ञासासूत्रस्य मननविधिमूलत्ववादिनस्तस्य तदङ्गीकारानर्हत्वात् । अयुक्तत्व-शङ्कानिवर्तकमननरूपविचारस्यापि अध्ययनविध्याक्षिप्तत्वेन तत्र विधिवैयर्थ्यात् सूत्रस्य तन्मूलत्वा-सिद्धेः ॥ इत्यद्वैतसिद्धौ वाचस्पत्युक्तस्वाध्यायविधि विचाराक्षेपकत्वस्योपपत्तिः ॥ ६ ॥

न्यायामृततरङ्गिणी

॥ श्रवणादीति ॥ श्रवणादेर्ज्ञानरूपत्वात्तस्यैव विधेयत्वात्तव्यादयः श्रूयमाणा अर्हार्था एव न विधायका इत्याहुः ॥ स्वाध्यायस्येति ॥ सर्वशाखानामेकेन पुंसाऽध्येतुमशक्य-त्वात्सर्ववेदान्तप्रत्ययं ब्रह्म न भवतीति शङ्कायां तत्परिहारत्वेन ‘स्वाध्यायस्य हि तथात्वेन समाचारेऽधिकाराच्च’ इति सूत्रम् । तस्यार्थः । ‘स्वाध्यायोऽध्येतव्यः’ इति सामान्यविधिना, ‘वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना’ इति स्मृत्या च, हिशब्दसूचितया सर्वैः सर्वशाखोक्त कर्मानुष्ठानरूपसमाचाराच्च सर्वशाखाध्ययनमस्ति शाखाभेदस्त्वशक्तित इति । अत्र भाष्ये सरहस्य इत्यादिनाऽध्ययनस्यार्थ ज्ञानपर्यन्तत्वावगमाद् अध्ययनविधेर्विचाराक्षेप-कत्वम् अनुमतम् । अत्रैव सूत्रे टीकायाम् अध्ययनं च तदुक्तार्थज्ञानार्थमेवेत्युक्त मित्यर्थः ॥ अध्ययनविधेरिति ॥ वाक्यग्रहणं विना वाक्यार्थावधारणानुपपत्तेर्वेदार्थ ग्रहणकामस्य वेदाध्ययनं रागतः प्राप्तम् अतोऽध्ययनविधिवैयर्थ्यं, तन्मा भूत् ॥ उभयार्थतेति ॥ प्रत्यवायपरिहारोऽर्थज्ञानं चेत्युभयम् ॥

पशुपुरोडाशेति ॥ चतुर्थस्य प्रथमे विचारितम् आश्रयिष्यविशेषेण भावोऽप्यप्रतीयते । अग्नीषोमीयपश्वङ्गत्वेन पुरोडाशयागः श्रुतः । ‘अग्नीषोमीयस्य वपया प्रचर्याग्नीषोमीयं पशु-पुरोडाशं निर्वपति’ इति । अग्नीषोमीयपशुयागस्य देवतास्मरणरूपसंस्कारं कुर्वन्पुरोडाशयागोऽ-ग्नीषोमीयस्य सन्निपत्योपकारक इति दाशमिकमर्थं सिद्धवत्कृत्य किमयं पशुपुरोडाशयागः पशुदेवतायाः स्मरणरूपं संस्कारं कुर्वन् दृष्टार्थ एव उतादृष्टार्थोऽपीति संशये एकं वा चोदने-नैकत्वादित्येकेनैव प्रयोजनेन विध्युपपत्तेः प्रयोजनद्वयं नाश्रयणीयमिति पूर्वपक्षे, देवतोद्देशेन त्यागरूपस्य यागस्योद्देशांशे दृष्टार्थत्वेऽपि त्यागांशेऽदृष्टार्थत्वं विनाऽनुपपत्तेरुभयार्थत्वमिति सिद्धान्तः ॥ श्रुतिबलादिति ॥ ‘दध्ना जुहोति’ दध्नेन्द्रियकामस्य जुहुयादिति तृतीया-श्रुतिबलात् ॥ क्रत्वर्थत्वेति ॥ चतुर्थस्य तृतीयेऽभिहितम् ‘एकस्य तूभयार्थत्वे संयोग-पृथक्त्वम्’ । अग्निहोत्रे श्रूयते ‘दध्ना जुहोति दध्नेन्द्रियकामस्य जुहुयात्’ इति । तत्र किं फलार्थमेव दध्युत क्रत्वर्थमपीति संशये फलवाक्येन दध्नः फलसम्बन्धविधायकेन तस्य होमसम्बन्धविधानायोगात्फलवाक्यापेक्षितदधिहोमसम्बन्धविधायकतया होमवाक्यस्य फलवाक्यैकवाक्यतया होमे दधिविधायकस्य वाक्यान्तरस्याभावात्फलार्थमेव दधीति प्राप्ते सिद्धरूपस्य दध्नः स्वतोऽननुष्ठेयस्य फलार्थत्वेन विधानायोगात्तदुपपत्तये स्वतःसाध्यरूप-क्रियाश्रयापेक्षायामपि प्रकरणेनैव होमरूपाश्रयसम्बन्धलाभान्न तदर्थं ‘दध्ना जुहोति’ इत्यस्य तदेकवाक्यतेति तेन पृथगेव क्रत्वर्थतया दधिविधानादुभयार्थं दधीति सिद्धान्तः ।

नित्यत्वकाम्यत्वेति ॥ द्वितीयस्य चतुर्थेऽभिहितम् । ‘यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात्’ । ‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इति श्रूयते । तत्र यावज्जीववाक्येन स्वर्गकामवाक्योक्ते काम्यप्रयोगे यावज्जीवमभ्यासलक्षणो गुणो विधीयत इति प्राप्ते गुणविधौ जीवनशब्देन तत्सहचरितकालो लक्षणीयो जुहोतिशब्देन चाभ्यासः । अधिकारान्तरचोदनायां श्रुत्यर्थस्य जीवनस्याधिकारिविशेषणत्वाद्यागस्यैव विधेयत्वान्न क्वापि लक्षणा । ततश्च वाक्यद्वयवशात्काम्यो नित्यश्च दर्शपूर्णमास इति सिद्धान्तः ॥ आवश्यकत्वादिति ॥ वीर्यवत्तरफलसाधनत्वेन ॥ प्रत्यवायेति ॥ तादृश-फलासिद्धिरूपः प्रत्यवायः ॥ एतेनेति ॥ ‘अध्ययनविधेरवैयर्थ्याय’ इत्याद्युक्तेन ॥ ब्रह्मज्ञानफलस्यापीति ॥ ‘सर्वे वेदाः’ इत्यादिश्रुतेः ॥ इति अध्ययविधेर्नित्यत्वेऽपि विचारविधायकत्वम् ॥ ६ ॥

न्यायामृतकण्टकोद्धारः

नन्वध्ययनविधेः काण्डद्वयविचाराक्षेपकत्वं भामत्युक्तं कुतो न दूष्यत इत्यत आह– यत्त्विति । ननु ‘श्रोतव्यः’ इत्यादिः किमनुवाद उत विधिरिति जिज्ञासायामाह– श्रवणादीति । अध्ययन विधेरर्थज्ञानपर्यन्तत्वमुक्तम् आक्षिपति– ननु तत्रैवेति । अन्यथा प्रत्यवायस्मरणं विरुध्येतेति भावः । अर्थज्ञानार्थत्वेऽपि प्रत्यवायश्रवणोपपत्तिरित्यन्वयः ॥ अवैयर्थ्यायेति ॥ अन्वयव्यतिरेकाभ्याम् अध्ययनस्यार्थज्ञानहेतुतायाः प्राप्तत्वाद् अध्ययनविधेर्वैयर्थ्ये प्राप्ते तत्परिहाराय नियम आश्रीयत इत्यर्थः ॥ पशुपुरोडाशादिवदिति ॥ यथा पश्वादेः प्रकृत यागस्वरूपनिष्पादकत्वेन दृष्टार्थत्वम् अदृष्टार्थत्वं च एवं प्रकृतेऽपीत्यर्थः । नन्वर्थज्ञानस्यापेक्षित्वेऽप्यध्ययनस्यार्थज्ञानार्थताया अप्रामाणिकत्वादयुक्तमुभयार्थत्वमित्यत आह– अथवेति । प्रकारान्तरेण प्रत्यवायश्रवणमुपपादयति– यद्वेति । एतेनेति । अर्थज्ञानार्थताया उपपादितत्वेनेत्यर्थः । उक्तमर्थं कारिकारूढं करोति– तस्मादिति । न चैतज्जिज्ञासूत्रस्य मननविधिमूलत्ववादिनाऽङ्गीकारानर्हम् । मननरूपविचारस्याप्यध्ययनविध्या-क्षिप्तत्वेन तत्र विधिवैयर्थ्यादिति वाच्यम् । तेन हि सामान्यतो विचाराक्षेपेऽपि अप्राप्तार्थताया वक्ष्यमाणत्वेनापूर्वविधित्वस्य नियमविधित्वस्य च सम्भवात् । ॥ इति अध्ययनविधे-र्नित्यत्वेऽपि विचारविधायकत्वम् ॥ ६ ॥

न्यायकल्पलता

श्रवणादेर्ज्ञानरूपत्वात्तस्य चाविधेयत्वात्तव्यादयः श्रूयमाणा अर्हार्था एव न विधायका इति परमतं दूषयितुम् अनुवदति– यत्त्वित्यादिना ॥ स्वाध्यायस्येति ॥ सर्वशाखानामेकेन पुंसाऽध्येतुम-शक्यत्वात्सर्ववेदान्तप्रत्ययं ब्रह्म न भवतीति शङ्कायां तत्परिहारत्वेन ‘स्वाध्यायस्य हि तथात्वेन समाचारेऽधिकाराच्च’ इति सूत्रम् । तस्यार्थः । ‘स्वाध्यायोऽध्येतव्यः’ इति सामान्यविधिना, ‘वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना’ इति स्मृत्या च, हिशब्दसूचितया सर्वैः सर्वशाखोक्तकर्मा-नुष्ठानरूपसमाचाराच्च सर्वशाखाध्ययनमस्ति । शाखाभेदस्त्वशक्तित इति । अत्र भाष्ये ‘सरहस्यः’ इत्यादिनाऽध्ययनस्यार्थज्ञानपर्यन्तत्वावगमाद् अध्ययनविधेर्विचाराक्षेपकत्वम् अनुमतम् । अत्रैव सूत्रे टीकायाम् अध्ययनं च तदुक्तार्थज्ञानार्थमेवेत्युक्तमित्यर्थः ॥ अध्ययनविधेरिति ॥ वाक्यग्रहणं विना वाक्यार्थावधारणानुपपत्तेर्वेदार्थ ग्रहणकामस्य वेदाध्ययनं रागतः प्राप्तम् अतोऽध्ययनविधिवैयर्थ्यं, तन्मा भूदित्यर्थः ॥ उभयार्थतेति ॥ प्रत्यवायपरिहारोऽर्थज्ञानं चेत्युभयम् ॥

पशुपुरोडाशेति ॥ चतुर्थस्य प्रथमे विचारितम् आश्रयिष्वविशेषेण भावोऽ(र्थः प्रतीयते)प्य-प्रतीयते । ज्योतिष्टोमे अग्नीषोमीयपश्वङ्गत्वेन पुरोडाशयागः श्रुतः । ‘अग्नीषोमीयस्य वपया प्रचर्य्याग्नी-षोमीयं पशुपुरोडाशं निर्वपति’ इति । अग्नीषोमीयपशुयागस्य देवतास्मरणरूपसंस्कारं कुर्वन्पुरोडाश-यागोऽग्नीषोमीयस्य सन्निपत्योपकारक इति दाशमिकमर्थं सिद्धवत्कृत्य किमयं पशुपुरोडाशयागः पशुदेवतायाः स्मरणरूपं संस्कारं कुर्वन् दृष्टार्थ एव उतादृष्टार्थोऽपीति संशये एकं वा चोदनेनैकत्वा-दित्येकेनैव प्रयोजनेन विध्युपपत्तेः प्रयोजनद्वयं नाश्रयणीयमिति पूर्वपक्षे, देवतोद्देशेन त्यागरूपस्य यागस्योद्देशांशे दृष्टार्थत्वेऽपि त्यागांशेऽदृष्टार्थत्वं विनाऽनुपपत्तेरुभयार्थत्वमिति सिद्धान्तः ॥ श्रुति-बलादिति ॥ ‘दध्ना जुहोति’ दध्नेन्द्रियकामस्य जुहुयादिति तृतीयाश्रुतिबलात् ॥ क्रत्वर्थत्वेति ॥ चतुर्थस्य तृतीये चिन्तितम्– ‘एकस्य तूभयार्थत्वे संयोगपृथक्त्वम्’ । अग्निहोत्रे श्रूयते ‘दध्ना जुहोति दध्नेन्द्रियकामस्य जुहुयात्’ इति । तत्र किं फलार्थमेव दध्युत क्रत्वर्थमपीति संशये फलवाक्येन दध्नः फलसम्बन्धविधायकेन तस्य होमसम्बन्धविधानायोगात्फलवाक्यापेक्षितदधिहोमसम्बन्धविधायकतया होमवाक्यस्य फलवाक्यैकवाक्यतया होमे दधिविधायकस्य वाक्यान्तरस्याभावात्फलार्थमेव दधीति प्राप्ते सिद्धरूपस्य दध्नः स्वतोऽननुष्ठेयस्य फलार्थत्वेन विधानायोगात्तदुपपत्तये स्वतः साध्यक्रिया-रूपाश्रयापेक्षायामपि प्रकरणेनैव होमरूपाश्रयसम्बन्धलाभान्न तदर्थं ‘दध्ना जुहोति’ इत्यस्य तदेकवाक्यतेति तेन पृथगेव क्रत्वर्थतया दधिविधानादुभयार्थं दधीति सिद्धान्तः ।

नित्यत्वकाम्यत्वेति ॥ द्वितीयस्य चतुर्थेऽभिहितम् । ‘यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात्’ । ‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इति श्रूयते । तत्र यावज्जीववाक्येन स्वर्गकामवाक्योक्ते काम्यप्रयोगे यावज्जीवम् अभ्यासलक्षणो गुणो विधीयतेऽधि-कारान्तरं वेति संशये प्रकरणानुग्रहात्प्रकृत एव काम्यप्रयोगे यावज्जीवनकालम् अभ्यासलक्षणो गणिो विधीयते पूर्वः पक्षः । गुणविधौ जीवनशब्देन तत्सहचरितकालो लक्षणीयः । जुहोतिशब्देन चाभ्यासः । अधिकारान्तरचोदनायां श्रुत्यर्थस्य जीवनस्याधिकारिविशेषणत्वाद्यागस्यैव च विधेयत्वान्न क्वापि लक्षणेत्यधिकारान्तरचोदना । ततश्च वाक्यद्वयवशात्काम्यो नित्यश्च दर्शपूर्णमासप्रयोग इति सिद्धान्तः

॥ आवश्यकत्वादिति ॥ वीर्यवत्तरफलसाधनत्वेन ॥ प्रत्यवायेति ॥ तादृशफलासिद्धिरूपः प्रत्यवायः ॥ एतेनेति ॥ ‘अध्ययनविधेरवैयर्थ्याय’ इत्याद्युक्तेन ॥ ब्रह्मज्ञानफलस्यापीति ॥ ‘सर्वे वेदाः’ इत्यादिश्रुतेः ॥

**॥ इति अध्ययविधेर्नित्यत्वेऽपि विचारविधायकत्वम् ॥ ६ ॥ **