०५ श्रवणविधेर्विवरणोक्तविचारविधायकत्वभङ्गः

यच्चोक्तं विवरणे– श्रवणविधिरेव विचारविधायक इति ..

५. श्रवणविधेर्विवरणोक्तविचारविधायकत्वभङ्गः

न्यायामृतं

यच्चोक्तं विवरणे– श्रवणविधिरेव विचारविधायक इति विचारविधायकं जिज्ञासासूत्रं श्रवणविधिमूलमिति । तन्न । त्वया विचारविधौ श्रवणासाद्य(श्रवणसाध्य)-परोक्षज्ञानाधीनाया अपरोक्षज्ञानकामनाया अधिकारि विशेषणत्वाङ्गीकारेणान्योन्याश्रया-पातात् । किञ्चायं जिज्ञासासूत्रोक्तो विचारस्तत्त्व १निर्णायकन्यायानुसन्धानरूपः । अन्यथा न्यायग्रथनात्मकशास्त्रारम्भसिद्धये तत्कर्तव्यतोक्त्ययुक्तेः । इतरस्य वेदेति-कर्तव्यता(तात्वा)नुपपत्तेश्च । न च श्रवणम् उक्तन्यायानुसन्धानरूपम् । मननाभेद-प्रसङ्गात् । नन्वद्वितीये ब्रह्मणि वेदान्तानां शक्तितात्पर्यावधारणं श्रवणम् । तच्चोप-क्रमोपसंहारादितात्पर्यलिङ्ग विचाराधीनमिति विचारविधायकं श्रवणविधिमूलमेव जिज्ञासासूत्रम् । मननं तु श्रुतस्यार्थस्य युक्तिभिरनुचिन्तनमिति चेन्न, विवरणे ‘श्रवणमङ्गि, प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात्’ इति करणत्वोनोक्तस्य श्रवणस्येति कर्तव्यतारूपविचारत्वायोगात् ।

किञ्च युक्तिभिरनुचिन्तनं नाम यदि श्रवणनिश्चितस्य तात्पर्यस्य तद्विषयस्य वा स्मरणं वा प्रत्यभिज्ञा वा संस्कारदार्ढ्यफलकं श्रवणसमानाकारम् अभिज्ञान्तरं वा, तर्हि तस्याऽऽवश्यकश्रवणावृत्त्यैव सिद्धेर्मननविधिवैयर्थ्यम् । त्रिविधस्यापि तस्य श्रवणानन्तर्गतयुक्त्यनपेक्षत्वेन ‘श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः’ इति व्यवस्थापकस्मृतिविरोधश्च । ‘श्रवणं यावदज्ञानं मतिर्यावदयुक्तता’ इति मननस्य श्रवणानिवर्त्यायुक्तत्वशङ्कानिवर्तकत्ववाचिस्मृतिविरोधश्च । यदि त्वनुचिन्तनं श्रवणेन तात्पर्ये गृहीतेऽप्यस्यात्र तात्पर्यं युक्तं न वेति संशयादिनिवर्तकयुक्त्यनुसन्धानरूपम्, तर्हि युक्तायुक्तत्वसंशयादेः संशयपूर्वपक्षसिद्धान्तैर्मीमांसाशास्त्रे ग्रथितात् संशयादि-निवर्तकान्न्यायजातादन्येनानिवृत्तेस्तादृशन्यायग्रथ नात्मकमीमांसाशास्त्रारम्भोप-युक्तविचारकर्तव्यतां प्रतिपादयदाद्यं सूत्रं मननविधिमूलमेव स्यात् ।

एतेन गुरुमुखाद्वेदान्तानां ब्रह्मणि संयोजनं श्रवणम् । मननं तु युक्तितोऽ-सम्भावनानिरसनमिति कौमुद्युक्तस्तयोर्भेदः प्रत्युक्तः । श्रवणे १उक्तयुक्त्यननुप्रवेश इष्टसिद्धेः । अनुप्रवेशे च भेदासिद्धेः । तेनैवासम्भावना निरसनसिद्धेश्च । युक्त्य-ननुसन्धानेऽपि श्रुतपदप्रयोगाच्च । न च कौमुद्युक्तस्य वादकथारूपश्रवणस्य युक्त्यनु-सन्धानात्मकमननाद्भेदः । वादकथायास्तत्त्वनिर्णायकन्यायचर्चारूपत्वेन मननाद्भेदा-योगात् । वाक्यार्थग्रहणं विना निरालम्बनचर्चायोगेन तदर्थवाक्यार्थग्रहणरूपत्वे चेष्टापत्तेः । न्यायानुसन्धानार्थ (प्रश्नार्थ)प्रश्नोत्तररूपवाक्यविशेषप्रयोगरूपत्वे च तत्र श्रवणपदाप्रयोगात् । विचारविधायकस्याद्यसूत्रस्य श्रवणविधिमूलत्वासिद्धेश्च । ननु समन्वयाध्यायोक्ततात्पर्यनिर्णायकोपक्रमादियुक्त्यनुसन्धानं श्रवणम् । द्वितीया-ध्यायोक्तार्थासत्त्वाशङ्कानिवर्तकयुक्त्यनुसन्धानं तु मननम् । सुरेश्वरेण–

वेदान्तश्रवणं यत्तदुपायस्तर्क एव च ।

श्रुतिलिङ्गादिको न्यायः शब्दशक्तिविवेककृत् ॥

आगमार्थविनिश्चित्यै मन्तव्य इति भण्यते ।

वेदशब्दानुरोध्यत्र तर्कोऽपि विनियुज्यते ॥ इत्युक्तेः ।

अन्यैरपि–

वेदान्तानामशेषाणामादिमध्यावसानतः ।

ब्रह्मात्मन्येव तात्पर्यमिति धीः श्रवणं भवेत् ॥

समन्वयाध्याय एतत्सूक्तं धीस्वास्थ्यकारिभिः ।

तर्कैः सम्भावनार्थस्य द्वितीयाध्याय ईरिताः ॥

इत्युक्तेरिति चेन्न, विवरणे– ‘यौक्तिकासम्भावना विपरीतभावनानिरासिततर्काणां प्रथमज्ञानेऽन्तभूर्तत्वात्’ इत्यादिनाऽर्थोपपत्तीनामपि श्रवणान्तर्गतिमुक्त्वा ब्रह्मात्म-परिभावनाप्रचयनिमित्तकतदेकाग्रवृत्त्ययोग्यत्वम् असम्भावना, विपरीतभावना तु शरीराद्यध्यास संस्कारप्रचयः’ इत्यादिनाऽसम्भावनानिवर्तकस्य मननस्यार्थनिश्चया-नन्तरभाविभावनाप्रचयहेतु चित्तैकाग््रयहेतुताया एवोक्तत्वात् । जिज्ञासासूत्रस्यांशे मननविधिमूलत्वापाताच्च । ‘मन्तव्यश्चोपपत्तिभिः’ इति स्मृतिस्थोपपत्तिशब्दस्य ‘मतिर्यावदयुक्तता’ इति स्मृतिस्थायुक्तशब्दस्य च ‘श्रोतव्यः श्रुतिवाक्येभ्यः’ इति श्रुतिशब्दस्येव सामान्यपरताहानेन ‘आदौ यच्छ्रद्धया सिद्धं पश्चान्न्यायेन साधितम्’ इति न्यायेन युक्त्यनपेक्षश्रद्धामात्रेण प्रतिवाक्यम् ‘अयम् अस्य वाक्यस्यार्थः’ इति गुरुमुखाद्वाक्यार्थग्रहणं श्रवणं, पश्चान्न्यानुसन्धानं मननमिति भेदसम्भवे युक्तिष्वेव श्रवणमननभेदकल्पनायोगाच्च । उक्तस्य वाक्यार्थग्रहणस्य श्रवणादित्रयानन्तर्भावेन चतुर्थस्यापि मुमुक्ष्वनुष्ठेयत्वापाताच्च । केवलं गुरुमुखाद्वेदार्थं श्रुतवति न श्रुतमनेनेति प्रसङ्गाच्च । प्रमाणभूतश्रुतितात्पर्ये निश्चितेऽर्थसत्त्वार्थमुपपत्त्यपेक्षायोगेन मननस्यार्था-सत्त्वरूपाप्रामाण्यशङ्कानिवर्तकत्वे वक्तव्ये निश्चितप्रामाण्यस्य पुंसो मननाभावप्रसङ्गाच्च ।

न चापेक्षितसर्वतर्काणां श्रवणान्तर्गतावपि श्रुत्यविरुद्धम् अनुमानम् अर्थापत्तिर्वा मननमिति युक्तम् । ब्रह्मण औपनिषदत्वश्रुत्याऽनुमानाद्यगोचरत्वात् । श्रवणनियमेन शब्देतरस्य सर्वस्य करणस्य निषेद्धव्यत्वाच्च । अन्यथा कदाचिदनुमानादिनापि ब्रह्मनिश्चय सम्भवेन श्रवणे नियमेन न प्रवर्तेतापि । तस्माद्युक्त्यनुसन्धानरूपो विचारो न श्रवणम्, किन्तु मननमेवेति मननविधिमूलमेव जिज्ञासासूत्रम् । उक्तं हि सुधायां– ‘जिज्ञासा नाम युक्त्यनुसन्धानात्मकविचारापरपर्यायं मननम्’ इति ॥

किञ्च त्वन्मते कर्मकाण्डविचारो यथोत्तरक्रतुविधिप्रयुक्तस्तथा ब्रह्मकाण्डविचारो ज्ञानविधिप्रयुक्तः किं न स्यात् ? उत्तरक्रतुविधिभिः स्वानुष्ठाप्यार्थनिर्णयाय तद्विचारस्येव ‘तरति शोकमात्मवित्’ इत्यादिना शोकनिवृत्तिहेतुत्वेनावगतेनात्मज्ञानेन स्वसिद्धये वेदान्तविचारस्याऽऽक्षेपात् । युक्तं चानेकेषां क्रतुविधीनामाक्षेपकत्वादप्येकस्यैव तत् । यदि चाध्ययनविधेर्नित्यत्वेनार्थज्ञानार्थत्वाभावेनादृष्टार्थत्वाद्विचार विध्यभावे विषनिर्हरण-मन्त्रस्येव तरतीत्यादेरर्थपरत्वाभावान्न तदाक्षेपकता, तर्हि तत एवोत्तरक्रतुविधीनामपि सा न स्यात् । अथाध्ययनविधेर्नित्यत्वेऽपि शब्दसामर्थ्यात् प्रतीतार्थो न त्याज्य इति क्रतुविधीनामाक्षेपकता, तर्हि तत एव तरतीत्यादेरपि सा स्यात् । अस्ति च ब्रह्मकाण्डवत्कर्मकाण्डेऽपि साक्षाद्विचारविधिः । ‘स्थाणुरयं भारवाहः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । ‘पठेद्वेदानथार्थानधीयीत,

यदधीतमविज्ञातं निगदेनैव शब्द्यते ।

अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥

इत्यादि तस्माच्छ्रवणविध्याक्षिप्तो विचार इति विवरणमतं न युक्तम् । अत एव कर्मकाण्डविचारस्यार्थज्ञानपर्यन्ताध्ययनविधिप्रयुक्तत्वेऽपि ब्रह्मविचारः श्रवणविधिप्रयुक्त इति कौमुद्युक्तं च निरस्तम् । विचारस्य श्रवणविधिप्रयुक्तत्वनिरासात् । कर्मविचारवद् ब्रह्मविचारस्याप्यध्ययनविधिप्रयुक्तत्वसम्भवाच्च ।

ननु साक्षात्कारफलकमावृत्तिगुणकं मननाद्यङ्गकमिदं श्रवणमध्ययनविधिप्रयुक्त-श्रवणमात्राद्भिन्नमिति विध्यन्तरं युक्तमिति चेन्न, ब्रह्मविचारस्याध्ययनविधिप्रयुक्तत्वेऽपि साक्षात्कारस्यापरोक्षैकरसात्मविषयकत्वेनैव सिद्धेः । आवृत्तेश्च विध्यन्तराङ्गीकारेऽ-प्यवघातादिवद् दृष्टफलत्वेनैव वक्तव्यत्वात् । कर्मकाण्डेऽपि तात्पर्यावधारणपर्यन्तं विचारावृत्तेरपेक्षितत्वात् । ततः परं ब्रह्मकाण्डेऽपि तदावृत्तेरनपेक्षणात् । मननस्य च कर्मकाण्डेऽपि तदर्थनिश्चयायापेक्षितत्वादध्ययनविधिविहितैकदेशारण्यकाध्ययनानु-वादेन वाक्यान्तरेणारण्याद्यङ्गान्तरविधानवन् मुण्डककारीर्याद्यध्ययनानुवादेन शिरोव्रत-भूभोजनाद्यङ्गविधानवत् ‘तां चतुर्भिरादत्ते’ इत्यत्रार्थप्राप्तादानानुवादेन सङ्ख्याविधान-वच्चाध्ययनविध्याक्षिप्तविचारैकदेशानुवादेन त्वद्रीत्या मननाद्यङ्गविधानस्य सम्भवात्, तस्मात्–

युक्तिचिन्तनरूपस्य विचारस्य विधायकम् ।

सूत्रं तद्रूपमननविधातृ श्रुतिमूलकम् ॥

न तु विवरणकारमत इव श्रवणविधिमूलम् । इति श्रवणविधेर्विचारविधायकत्व-भङ्गः ॥ ५ ॥

अद्वैतसिद्धिः

एवं विचारविधायकश्रवणविधिरेव जिज्ञासासूत्रमूलम् । न च विचारविधौ श्रवणसाध्या-परोक्षज्ञानाधीनाया अपरोक्षज्ञानकामनाया अधिकारिविशेषणत्वाङ्गीकारेण अन्योन्याश्रयापात इति वाच्यम् । अधीतवेदस्य विदितपदपदार्थसङ्गतिकस्यापाततो जायमानपरोक्षज्ञानाधीनापरोक्षज्ञानकामनाया अधिकारिविशेषणत्वेनोक्तान्योन्याश्रयानव तारात् । न च जिज्ञासासूत्रोक्तो विचारस्तत्त्वनिर्णायक-न्यायानुसन्धानरूपः, अन्यथा न्यायग्रथनात्मकशास्त्रारम्भसिद्धये तत्कर्तव्यतोक्त्ययुक्तेः, इतरस्य वेदेतिकर्तव्यतात्वानुपपत्तेश्च । श्रवणं च नोक्तन्यायानुसन्धानरूपं, मननाभेदप्रसङ्गात् । अतो न श्रवणविधिजिज्ञासासूत्रयोर्मूलमूलिभाव इति वाच्यम् । जिज्ञासासूत्रस्य श्रवणविधिसमानविषयकतया मूलमूलिभावाभावेऽपि श्रवणविधिविषयशक्तितात्पर्यावधारणात्मकश्रवणाक्षिप्तोपक्रमोपसंहारादि-तात्पर्यलिङ्गविचारमादाय समानविषयत्वसम्भवेन तदुपपत्तेः । मननं तु श्रुतस्यार्थस्य युक्तिभि-श्चिन्तनमिति न तदभेदोऽपि, अर्थाक्षिप्त विचारस्येतिकर्तव्यतात्वेऽपि तात्पर्यावधारणरूपे श्रवणे उक्तस्याङ्गित्वस्यानपायात् ।

यत्तु युक्तिभिरनुचिन्तनं नाम यदि श्रवणनिश्चितस्य तात्पर्यस्य तद्विषयशब्दस्य वा स्मरणम्, प्रत्यभिज्ञानं वा, संस्कारदार्ढ्यफलकं श्रवणसमानाकारम् अभिज्ञान्तरं वा, तर्हि तस्यावश्यकश्रवणावृत्त्यैव सिद्धेर् मननविधिवैयर्थ्यम्, त्रिविधस्यापि तस्य श्रवणानन्तर्गतयुक्त्यनपेक्षत्वेन ‘श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः’ इति स्मृतिविरोधश्च, ‘श्रवणं यावदज्ञानं मतिर्यावदयुक्तता’ इति मननस्य श्रवणानिवर्तितायुक्तत्वशङ्कानिवर्तकत्वप्रतिपादकस्मृतिविरोधश्च इति । तन्न, अनुचिन्तनस्य श्रुतार्थ-विषयकयुक्तायुक्तत्वादिसंशयनिवर्तकयुक्त्यनुसन्धानरूपत्वेन विवक्षिततया त्वदुक्त दोषानवकाशात् । न च एवं युक्तायुक्तत्वसंशयादेः संशयपूर्वपक्षसिद्धान्तान् मीमांसाशास्त्रारम्भोपयुक्तविचारकर्तव्यतां प्रतिपादयदाद्यसूत्रं मननविधिमूलमेव स्यात्, न तु श्रवणविधिमूलमिति वाच्यम् । तात्पर्यविषय-युक्तायुक्तत्वादिसंशयादिनिवर्तक विचारापेक्षया तात्पर्यनिर्णायकश्रवणाक्षिप्तलिङ्गविचारस्याभ्यर्हिततया तदाक्षेपकश्रवणविधिमूलत्वस्यैव वक्तुं शक्यत्वात्, युक्तायुक्तत्वविचारस्यानुषङ्गिकत्वाच्च ।

यद्वा समन्वयाध्यायोक्ततात्पर्यनिश्चायकोपक्रमादियुक्त्यनुसन्धानं श्रवणं द्वितीयाध्यायोक्तार्थासत्त्वशङ्का निवर्तकयुक्त्यनुसन्धानं मननम् । ननु एवं विवरणोक्तिविरोधः, यौक्तिकासम्भावनाविपरीतभावना-निरासितर्काणां प्रथमज्ञानान्तर्भूतत्वाद् इत्यादिना अर्थापत्तीनामपि श्रवणान्तर्गतिमुक्त्वा ‘ब्रह्मात्मत्व-विपरीतभावनाप्रचयनिमित्त तदेकाग्रवृत्त्ययोग्यत्वमसम्भावना, विपरीतभावना तु शरीराध्याससंस्कार-प्रचयः’ इत्यादिना असम्भावनानिवर्तकस्य मननस्यार्थनिश्चयानन्तरभाविभावनाप्रचयहेतुचित्तैकाग््रय-हेतुताया एवोक्तत्वादिति चेन्न । भिन्नप्रस्थानतया विवरण विरोधस्याकिञ्चित्करत्वात् । न च जिज्ञासासूत्रस्यांशे मननविधिमूलत्वापातः, समन्वयोक्तविचारस्याभ्यर्हिततया श्रवणविधिमूलत्वस्यैव वक्तव्यत्वोपपत्तेः ।

ननु ‘मन्तव्यश्चोपपत्तिभिः’ इति स्मृतिगतोपपत्तिशब्दस्य ‘मतिर्यावदयुक्तता’ इति स्मृतिस्थायुक्त-शब्दस्य ‘श्रोतव्यः श्रुतिवाक्येभ्यः’ इति श्रुतिशब्दस्येव सामान्यपरत्वाहानेन ‘आदौ यच्छ्रद्धया सिद्धं पश्चान्न्यायेन साधितम्’ इति न्यायेन युक्त्यनपेक्षश्रद्धामात्रेण प्रतिवाक्यम् ‘अयमस्य वाक्यस्यार्थः’ इति गुरुमुखाद्वेदार्थग्रहणं श्रवणं, पश्चान् न्यायानुसन्धानं मननमिति भेदसम्भवे युक्तिष्वेव श्रवणमनन-भेदकथनायोग इति चेन्न । वाक्यार्थग्रहणस्य प्रमारूपतया अविधेयत्वस्योक्तत्वात् । ननु उक्तस्य वाक्यार्थग्रहणस्य श्रवणादित्रयानन्तर्भावे चतुर्थस्यापि मुमुक्ष्वनुष्ठेयत्वापात इति चेन्न । तस्य ज्ञानरूपतया अनुष्ठानानर्हत्वात्, श्रद्धामात्रात् स्वत एव जातत्वेनापुन्तन्त्रत्वाच्च । न चैवं केवलं गुरुमुखात्तदर्थं श्रुतवति ‘श्रुतम् अनेन’ इति प्रयोगानुपपत्तिः, विधेयत्वान्यथानुपपत्त्या अर्थान्तरत्वे स्थिते अस्य प्रयोगस्य गौणतादिना कथञ्चिदुपपादनीयत्वात् । अत एव स्मृतिगतोपपत्त्ययुक्ततापदयोर्न सामान्य-परता । न च प्रमाणभूतश्रुतितात्पर्ये निश्चिते अर्थसत्वार्थमुपपत्यपेक्षायोगीन मननस्यार्थासत्वरूपा-प्रामाण्यशङ्कानिवर्तकत्वे वक्तव्ये निश्चितप्रामाण्यस्य पुंसो मननाभावप्रसङ्ग इति वाच्यम् । तादृशं प्रति तदभावस्येष्टत्वात्, कृष्णले अतिदेशप्राप्तस्यावघातस्य द्वारबाधेन बाधदर्शनात् । तस्मात्तात्पर्याव-धारणं श्रवणम् । तच्च लिङ्गविचाराधीनमिति विचारकर्तव्यतापरमाद्यसूत्रं श्रवणविधिमूलकम्, न तु मननविधिमूलकमिति सिद्धं जिज्ञासासूत्रस्य श्रवणविधिमात्रमूलकत्वम् ॥

ननु त्वन्मते कर्मकाण्डविचारो यथोत्तरक्रतुविधिप्रयुक्तः, तथा ब्रह्मकाण्डविचारोऽपि ज्ञानविधिप्रयुक्त इत्येव किं न स्यात् ? उत्तरक्रतुविधिभिः स्वानुष्ठाप्यार्थनिर्णयान्तविचारस्येव ‘तरति शोकमात्मवित्’ इत्यादिना शोकनिवृत्ति हेतुत्वेनावगतेनात्मज्ञानेन स्वसिद्धये वेदान्तविचारस्याक्षेपात् । युक्तं चानेकेषां क्रतुविधीनामाक्षेपकत्वादप्ये– कस्यैवाक्षेपकत्वमिति चेन्न, यद्यपि कार्येण कारणाक्षेपः सम्भवति, तथापि तस्य वैधत्वसिद्ध्यर्थं विधिमूलत्वस्यावश्यं वक्तव्यत्वात् । अन्यथा कर्मकाण्डविचारस्यापि कर्मज्ञानादेवाक्षेपे अध्ययनविधेर्वोत्तरक्रतुविधीनां वा आक्षेपकत्वोक्तिरयुक्ता स्यात् । मननविधिमूलत्वं वदता त्वयापि अस्याक्षेपस्यावश्यं परिहरणीयत्वात् । एतेन अर्थावगमपर्यन्ताध्ययनविधिप्रयुक्तत्वस्य कर्मविचारवद् ब्रह्मविचारेऽपि सम्भवे, न श्रवणविधिप्रयुक्तत्वम् । न च साक्षात्कारफलकमावृत्तिगुणक-मननाद्यङ्गकमिदं श्रवणम् अध्ययनविधिप्रयुक्तश्रवणमात्राद् भिन्नमिति विध्यन्तरं युक्तमिति वाच्यम् । ब्रह्मविचारस्याप्यध्ययनविधिप्रयुक्तत्वेऽपि साक्षात्कारस्यापरोक्षैकरसात्मविषयत्वेनैव सिद्धेः । आवृत्तेश्च विध्यन्तराङ्गीकारेऽपि अवघातवद् दृष्टफलत्वेन वक्तव्यत्वात् कर्मकाण्डेऽपि तात्पर्यावधारणपर्यन्त-विचारावृत्तेरपेक्षितत्वात्, ततः परं ब्रह्मकाण्डेऽपि तदावृत्तेरनपेक्षितत्वात् । मननस्य च कर्मकाण्डेऽपि तदर्थनिश्चयायापेक्षितत्वादध्ययनविधि विहितैकदेशारण्यकाध्ययनानुवादेन वाक्यान्तरेणारण्याद्यङ्गान्तर-विधानवन् मुण्डककारीर्याद्यध्ययनानुवादेन शिरोव्रतभूमिभोजनाद्यङ्गविधानवत् ‘तां चतुर्भिरादत्ते’ इत्यर्थ-प्राप्ताभ्यादानानुवादेन सङ्ख्याविधानवच्चाध्ययनविध्याक्षिप्त विचारैकदेशानुवादेन त्वद्रीत्या मननाद्यङ्ग-विधानस्य सम्भवादिति निरस्तम् । मननविधिमूलत्ववादिनोऽपि समानत्वादध्यनविधेः स्वाध्यायावाप्ति-फलकतया अर्थज्ञानफलकत्वाभावाद्, ‘अध्येतव्यः’ इति कर्मप्रधानतव्यप्रत्ययेन स्वाध्यायस्यैव फलत्वावगमात् । न च तस्यापुरुषार्थतया फलवदर्थावबोधपर्यन्तं व्यापारः, ‘चित्रया यजेत पशुकामः’ इत्यादावपि काम्यमानपश्वादेरप्यफलत्वापत्तेः । परम्परया पुरुषार्थसाधनतया फलत्वे प्रकृतेऽपि तस्य सम्भवात् । तस्माच्छ्रवणविधिर्मूलं विचारविधायकजिज्ञासासूत्रस्य, न तु मननविधिरिति सिद्धम् ॥ इत्यद्वैतसिद्धौ विचारस्य श्रवणविधिमूलत्वोपपत्तिः ॥ ५ ॥

न्यायामृततरङ्गिणी

॥ श्रवणविधिरेवेति ॥ श्रवणस्य विचारगर्भत्वात् ॥ श्रवणसाध्येति ॥ अपरोक्षज्ञाने सति तज्जन्यापरोक्षज्ञानकामनायां श्रवणविध्यधीनविचारविधिः । श्रवणविधौ च सति परोक्षज्ञानमित्यन्योन्याश्रयः । नन्वधीतवेदस्य विदितपदपदार्थसङ्गतिकस्यापाततो जायमानं परोक्षज्ञानं श्रवणं विनैवेति नान्योन्याश्रयः । मैवम् । अध्ययनोत्तरस्य विचारप्राग्भाविनो वेदार्थज्ञानस्य श्रवणफलत्वाच्छ्रवणविचारयोरत्यन्तवैलक्षण्याच्छ्रवणविधिर्न विचारविधायक इत्याह– किञ्चायमिति ॥ निर्णयात्मको निर्णयहेतुः ॥ अन्यथेति ॥ न्यायानुसन्धानस्य कर्तव्यत्वं न्यायं विनाऽनुपपन्नमिति न्यायग्रथनात्मकशास्त्रमारम्भणीयं जिज्ञासासूत्रोक्तविचारस्य न्यायानुसन्धानात्मकत्वाभावे तथा विधविचारस्य कर्तव्यता केनापि नोक्तेति न न्याय-ग्रथनात्मकशास्त्रारम्भसाधकं किञ्चिदस्तीत्यर्थः ॥ इतरस्येति ॥ विचारस्य वेदापेक्षित-न्यायानुसन्धानरूपत्वे तस्य वेदं प्रतीतिकर्तव्यतारूपम् अङ्गत्वम् इत्यन्यथाश्रवणवदङ्गित्वमेव स्यात् ॥

मननाभेदप्रसङ्गादिति ॥ मननवदङ्गत्वप्रसङ्ग इत्यपि बोध्यम् । तथा च श्रवण-विधिजिज्ञासासूत्रयोर्भिन्नविषयतया न मूलमूलिभाव इति भावः । ननु जिज्ञासासूत्रस्य श्रवण-विधिविषयशक्तितात्पर्यावधारणात्मकश्रवणाक्षिप्तोपक्रमोपसंहारादि तात्पर्यलिङ्गविचारमादाय समानविषयत्वमस्तीति शङ्कते– नन्वद्वितीये इति ॥ एवं सति श्रवणस्य मननाभेदं निरस्यति– मननन्त्विति ॥ वेदान्तवाक्यनिष्ठम् अद्वितीयब्रह्मविषयकं यत्तात्पर्यं तस्य विचारितोपक्रमादिलिङ्गैर्यदवधारणं तच्छ्रवणमित्युक्तं भवति । तत्र च त्वदभ्युपगमविरोध इत्याह– विवरण इति ॥ उक्तविधस्य श्रवणस्येति कर्तव्यतात्वमेवायाति तच्च त्वदनभिमत-मित्यर्थः । एतेनार्थाक्षिप्तविचारस्येतिकर्तव्यतात्वेऽपि तात्पर्यावधारणरूपे श्रवणे उक्तस्याङ्गि-त्वस्यानपाय इति निरस्तम् । त्वदभिमतश्रवणस्यैव तद्रूपत्वेनाक्षेपासम्भवात् ॥ श्रवणा-वृत्त्यैवेति ॥ उक्तस्मरणादित्रितयान्यतमदृष्टमेव श्रवणफलं प्रकल्प्य दृष्टार्थानां च फलसिद्धि-पर्यन्तमावृत्तेरर्थसिद्धत्वान्मननविधिं विनैव तत्सिद्धिरित्यर्थः ॥

त्रिविधस्यापीति ॥ श्रवणे युक्तीरविधाय मनने ता विदधतीति स्मृतिर्मनने तदपेक्षां सूचयति । न चोक्तत्रिविधस्यापि मननस्य श्रवणानपेक्षितयुक्त्यपेक्षातो न स्मार्ता व्यवस्था युक्तेत्यर्थः ॥ श्रवणं यावदज्ञानमिति ॥ न चोक्तविधश्रवणमननयोर्विषयभेदः । येन श्रवणा-निवर्तितशङ्कानिवर्तकं मननं स्यात् ॥ तर्हि युक्तायुक्तत्वेति ॥ न्यायरूपयुक्त्यनुसन्धान-कर्तव्यताबोधकमननविधेर् न्यायग्रथनात्मकशास्त्रारम्भकर्तव्यताबोधस्य न्यायानुसन्धानरूप-विचारकर्तव्यताविधायकस्याद्यसूत्रस्य च समानविषयत्वाद्युक्तो मननविधेराद्यसूत्रमूलभावो न तु श्रवणविधेरित्यर्थः । एतेन तात्पर्यविषययुक्तायुक्तत्वादिसंशयनिवर्तकविचारापेक्षया तात्पर्यनिर्णायकश्रवणाक्षिप्तलिङ्ग विचारस्याभ्यर्हितत्वेन तदाक्षेपकश्रवणविधिरेव सूत्रमूलमिति निरस्तम् । विशिष्टतात्पर्यनिर्णयस्य मन्मते श्रवणत्वेन तस्य तदाक्षेपकत्वायोगस्योक्तत्वात् । लिङ्गविचारस्य लिङ्ग्यर्थत्वेन लिङ्गिन एवाभ्यर्हितत्वाच्च ॥ उक्तयुक्तीति ॥ मननेऽन्तर्गतानाम् असम्भावनानिरासिनीनाम् ॥ तेनैवेति ॥ श्रवणेनैवासम्भावनानिरासे मननवैयर्थ्याच्च ॥ युक्त्यननुसन्धानेऽपीति ॥ श्रुतपदप्रयोगेण सिद्धश्रवणभावे युक्त्यनुप्रविष्टश्रवणलक्षणमव्याप्तं स्यादित्यर्थः ।

कौमुद्युक्तं लक्षणान्तरं निराकरोति– न च कौमुदीति ॥ इष्टापत्तेरिति ॥ मननान्तर्गत-युक्तीनामुक्तरूपे श्रवणेऽनन्तर्भावात् ॥ विचारविधायकस्येति ॥ एतच्च मध्यमपक्षेऽपि दूषणं बोध्यम् ॥ वेदान्तश्रवणमिति ॥ शब्दशक्तिनिर्णायको यः श्रुतिलिङ्गादिको न्यायस्तदनु-कूलश्च तर्कस्तद्वेदान्तश्रवणम् । आगमार्थनिश्चयार्थो यो न्यायः यश्च तदनुकूलस्तर्कस्स मन्तव्य इति शब्देन भण्यत इत्यर्थः ॥ वेदशब्देति ॥ शुष्कतर्कस्य निषेधेऽपि वैदिकतर्कस्य मीमांसन्त इत्यादिना वेदेनैव नियुक्तत्वात् ॥

सम्भावनेति ॥ तर्कैः कृत्वाऽर्थस्य सम्भावना या तन्मननमिति पूरणीयम् । शब्द-तात्पर्यतदर्थनिर्णायकयुक्तीनाम् अनुसन्धाने श्रवणमनने इत्यस्मिन्नर्थे दूषणमाह– विवरण इति ॥ अयमत्र टीकाविवरणादीनामभिप्रायः– ‘आत्मैकत्वविद्याप्रतिपत्तये’ इत्यत्र भाष्ये प्रतिपत्तिशब्दस्याप्त्यर्थत्वमभिसन्धाय, ननु न विद्या गवादिवत्तटस्था सिध्यति किन्तु वेदित्राश्रिता वेद्यं प्रकाशन्त्येवोत्पद्यतेऽतस्तस्या आप्तिर्न सम्भवतीत्याशङ्क्य अत्र भाष्ये विद्याशब्देन शक्तितात्पर्यविचारसहकृतशब्दजन्यं प्रत्यक्षरूपं प्रमाणज्ञानमभिधीयते । तच्च दूरदेशवर्त्यार्द्रमरीच फलसाक्षात्कारवदप्रतिष्ठितमेव प्रथममुत्पद्यत इत्याप्तिशब्देन विद्यायाः स्वविषयेण सह पुनरप्यापरोक्ष्यरूपा प्रतिष्ठोच्यते तच्चापरोक्ष्यं ब्रह्मात्मपरिभावनाप्रचय-निमित्ततदेकाग्रवृत्तिं प्रति चित्तस्य यदयोग्यत्वं तद्रूपा याऽसम्भावना तस्यां मननेन निवृत्तायां शरीराद्यध्याससंस्कारप्रचयरूपविपरीतभावनायां च निदिध्यासनेन निवृत्तायां सम्यगापरोक्ष्यं भवतीति परिहृत्य, ‘ननु शब्दगताया अर्थगताया वाऽसम्भावनाया विपरीतभावनाया निवर्तके मनननिदिध्यासने उच्येतां किमर्थं चित्तैकाग्रवृत्त्ययोग्यत्वनिरासेन चित्तस्य प्रत्यगात्मप्रवण-संस्कारनिष्पन्नतदेकाग्रवृत्तियोग्यत्वहेतू उच्येते इत्याशङ्क्य यौक्तिकासम्भावनाविपरीत-भावनानिरासितर्काणां प्रथमज्ञानेऽन्तर्भूतत्वात्’ इत्यादिना परिहृतम् ।

प्रथमज्ञाने इति ॥ श्रवणे ॥ उक्त्वेति ॥ वक्ष्यमाणम् अभिसन्धायेत्यर्थः । तेन विवरण-वाक्ययोः पौर्वापर्यव्यत्यासनिमित्तो विरोधो नाशङ्क्यः ॥ ब्रह्मात्मेति ॥ ब्रह्मण आत्मभावेन या परिभावना तस्याः प्रचयो निमित्तं यस्याः सा तथोक्ता एवंभूता या तदेका वृत्तिस्तां प्रति चित्तस्य यदयोग्यत्वं तदसम्भावनेत्यर्थः ॥ भावनाप्रचयेति ॥ भावनाप्रचयो हेतुर्यस्य एवंभूतं यच्चित्तैकाग््रयं तत्प्रति हेतुताया मननस्योक्तत्वादित्यर्थः । अत्र भिन्नप्रस्थानतया विवरणविरोधोऽकिञ्चित्कर इति कस्यचित्प्रलपितमयुक्तम् । जिज्ञासासूत्रस्य श्रवणविधि-मूलताया विवरणोक्ताया निषिध्यमानत्वेन तत्रैव तद्विरोधस्योच्यमानत्वात् । अत एवाह– जिज्ञासासूत्रस्येति ॥ समन्वयेऽविरोधादौ च न्यायानुसन्धानकर्तव्यत्वं विदधदाद्यसूत्रं समन्वयांशे श्रवणविधिमूलकम्, अविरोधे च मननविधिमूलकं स्यात् । साधनाद्यंशे चानुभवमूलकं स्यादित्यपि बोध्यम् ।

यत्तु समन्वयोक्तविचारस्याभ्यर्हिततया श्रवणविधिमूलत्वोक्तिरिति, तन्न । समन्वयादप्यविरोधस्य परपक्ष दूषणपर्यवसायिनो वैतण्डिकान्प्रत्यभ्यर्हिततरत्वात् ॥ मन्तव्यश्चोपपत्तिभिरितीति ॥ शब्दसम्बन्धिनीनाम् अर्थसम्बन्धिनीनां चोपपत्तीनां मनन एवान्तर्भावसम्भवेन स्मृतिस्थोपपत्तिशब्दस्य शब्दार्थविषयत्वेनावान्तरभेदकल्पने मानाभावात् । श्रवणमननयोर्भेदस्तु प्रकारान्तरेणापि सम्भवतीत्यर्थः ॥ उक्तस्येति ॥ न चास्य ज्ञानरूपतया नानुष्ठेयत्वमिति वाच्यम् । ज्ञानस्याप्यनुष्ठेयताया वक्ष्यमाणत्वात् । श्रवणादितुल्यत्वाच्च ॥ केवलमिति ॥ त्वन्मते तस्याश्रवणत्वात्तत्र श्रुतशब्दो गौणः स्यात् ॥ निश्चितप्रामाण्य-स्येति ॥ न च कृष्णलेऽवघातस्येव तादृशपुरुषं प्रति मननविधिबाध इति युक्तम् । मुमुक्षुकर्तव्यत्वेन नित्यवत् श्रुतत्वात् । उक्तविधयाऽन्यथाप्युपपत्तेश्च ॥ श्रवणनियमेनेति ॥ अनुमानादिप्राप्तिपक्षेऽपि वेदान्तवाक्यस्यैवाप्राप्तस्य नियमविधिना पूरणादित्यर्थः ॥ अन्यथेति ॥ सर्वस्मिन्नपि पक्षे वेदान्तवाक्यस्य पूरणाभावे ॥ जिज्ञासा नामेति ॥ टीका-स्थस्य ‘श्रवणादिरूपा जिज्ञासा कर्तव्येत्युक्तम्’ इत्यादौ श्रवणेऽपि जिज्ञासापदप्रयोगस्या-तद्गुणसंविज्ञानबहुव्रीह्याश्रयणादिना गतिश्चन्द्रिकायामुक्ता ॥ उत्तरक्रतुविधिप्रयुक्त इति ॥ ज्योतिष्टोमादिक्रतुविधयो यागादिकम् अनुष्ठापयन्ति । अनुष्ठानं च विचारसाध्यज्ञानं विना न सम्भवतीति क्रतुविधेः कर्मकाण्डविचाराक्षेपकत्वं यथा तथा ‘तरति शोकम्’ इति शोकनिवृत्तिहेतुत्वेन श्रुतमात्मज्ञानमपि स्वसिद्धये ब्रह्मकाण्डविचारमाक्षिपेत् । कार्येण कारणाक्षेपसम्भवात् ।

यत्तु विचारस्य वैधत्वसिध्द्यर्थं विधिमूलत्वमेवावश्यवक्तव्यम् । अन्यथा कर्मज्ञानादेव कर्मविचाराक्षेपेऽध्ययन विधेर्वोत्तरक्रतुविधीनां वा तदाक्षेपकत्वोक्तिरयुक्ता स्यात् । मनन-विधिमूलत्वं वदता त्वयाऽप्ययमाक्षेपोऽवश्यं परिहरणीय इति । तन्न । ज्ञानविधिव्यापार-विषयत्वेनापि वैधत्वोपपत्तेः । अन्यथा विवरणमते श्रवणविधेरपि न विचारविधायकत्वं किन्तु तदाक्षेपकत्वमिति तस्य वैधत्वं न स्यात् । अध्ययनविधेर्ज्ञानार्थत्वे तु तस्य साक्षा-द्विचारविधायकत्वम् । मम मते मननविधिस्तु साक्षादेव विचारविधायक इति वैषम्यम् ॥ एकस्यैवेति ॥ तरति शोकमित्यादिज्ञानविधेः ॥ ननु ब्रह्मकाण्डविचारविधायकस्य श्रोतव्य इत्यादिविधेः सत्त्वेन नाध्ययनविधेर्विचाराक्षेपकत्वं कल्प्यते गौरवादित्यत आह– अस्ति चेति ॥ दृष्टफलत्वेनैवेति ॥ दृष्टफलानां फलपर्यन्तमनुष्ठेयत्वात् ॥ मुण्डकेति ॥ मुण्डक आथर्वणोपनिषत् । तदध्ययने शिरोव्रतं विधिवद्यैस्तु चीर्णमिति शिरोव्रतस्याङ्गत्वं विहितम् । कारीरी कारीरीप्रतिपादकोऽनुवाकः । तदध्ययने भूभोजनस्याङ्गत्वम् ॥ तां चतुर्भिरिति ॥ ताम् इष्टकां मृत्खननार्थाम् । अभ्रिं वैणवीम्, कुद्दालसदृशीम् । चतुर्भिर् मन्त्रैः । ते च ‘देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां’ ‘गायत्रेण त्वा छन्दसाददेऽङ्गिर-स्वत्’ । ‘अभ्रिरसि नारिरसि पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदाभर त्रैष्टुभेन त्वाछन्द-साददेऽङ्गिरस्वत् । अभ्रिरसि नारिरसि त्वया वयं सधस्थ अग्निं शकेम खनितुं पुरीष्यं जागतेन त्वाछन्दसाददेऽङ्गिरस्वत् । हस्त आधाय सविता बिभ्रदभ्रिं हिरण्ययीं तयोज्योतिरजस्रमिदग्नी खर्त्वा न आभारानुष्टुभेन त्वा छन्दसाददेऽङ्गिरस्वत् । इत्येवंरूपा न्यायसुधायामुक्ताः ॥ अर्थप्राप्तेति ॥ अभ्रेरभिघरणं विना मृत्खननायोगात्तदादानम् अन्यथानुपपत्तिप्राप्तमित्यर्थः ॥ सङ्ख्येति ॥ यद्यपि लिङ्गापेक्षया श्रुतेः शीघ्रत्वात्सङ्ख्याविशिष्टमन्त्रयुक्तादानविधिरिति वार्तिकात्प्रतीयते । तथापि गुणार्थत्वमेव फलत इति तदत्राभिमतम् । तथैव न्यायसुधायां व्याख्यातम् । तथोक्तम् । ‘आदानविध्यभावादरुणैकहायनीन्यायानुपपत्तेरर्थप्राप्तस्य चादा-नस्यानुवाद्यत्वेनैकविधावितरेण विशेष्टुमशक्यत्वाल्लिङ्गतश्चैकैकस्यैव मन्त्रस्य प्राप्तेः सङ्ख्या-नाकाङ्क्षत्वात्समुच्चयासिद्धेः फलतो गुणार्थत्वमिति ॥ इति श्रवणविधेर्विवरणोक्तविचार-विधायकत्वभङ्गः ॥ ५ ॥

न्यायामृतकण्टकोद्धारः

जिज्ञासासूत्रस्य मननविधिमूलत्वं समर्थयितुं विवरणोक्तं श्रवणविधिमूलत्वं दूषयितु-मनुवदति– यच्चोक्तमिति ॥ त्वयेति ॥ तथा चापरोक्षज्ञानकामनायां सत्याम् अधिकारित्व-सिध्या श्रवणसाध्यपरोक्षज्ञानम् । तस्मिंश्च सत्यपरोक्षज्ञानकामनेत्यन्योन्याश्रय इति भावः ॥ अन्यथेति ॥ विचारस्य तत्वनिर्णायकन्यायानुसन्धानरूपत्वाभाव इत्यर्थः ॥ तत्कर्तव्य-तेति ॥ तत्वनिर्णायकन्यायानुसन्धानरूपविचारकर्तव्यतेत्यर्थः ॥ इतरस्येति ॥ तत्वनिर्णायकन्यायानुसन्धानरूपविचारेतरस्येत्यर्थः । मननभेदकं शङ्कते– नन्विति । ननु मननविधेः श्रवणानन्तर्गतयुक्ति सापेक्षत्वान्न वैयर्थ्यमित्यत आह– त्रिविधस्येति । उक्तत्रयातिरिक्तश्रवणपदार्थाङ्गीकारे तु मननवैयर्थ्यमित्याशयेन त्रिविधस्येत्युक्तम् । तथा चोक्तश्रवणपदार्थाङ्गीकारे उपपत्तिमात्रस्य श्रवणान्तर्गतत्वेन व्यवस्थापकस्मृतिविरोध इति भावः । श्रवणमिति । अयुक्तत्वशङ्कायाः श्रवणेनैव निवर्तितत्वादिति भावः । ननु नोक्तरूपम् अनुचिन्तनं स्वीक्रियते किन्तु तात्पर्यविषयकायुक्तत्वशङ्कानिवर्तकयुक्त्यनुसन्धानरूपम् । अतो न दोष इत्याशङ्क्याह– यदि त्विति । युक्तायुक्तत्वसंशयादेरन्येनानिवृत्तेरित्यन्वयः । एतेनेत्यस्यार्थमाह– श्रवण इति । किञ्च युक्त्यनुसन्धानस्य श्रवणप्रवेशाङ्गीकारे तेनैवा-सम्भावनानिरसनसिद्धेर्मननानर्थक्यमित्याह– तेनैवेति । वादकथा हि किं तत्वनिर्णायकन्याय-चर्चारूपा, उत वाक्यार्थग्रहणरूपा, अथवा वाक्यविशेषप्रयोगरूपा ? नाद्य इत्याह– वादेति । न द्वितीय इत्याह– वाक्यार्थेति । तृतीयं प्रत्याह– न्यायेति ॥ विचारेति । किं तर्हि प्रयोगमूलं स्यादिति भावः ।

प्रकारान्तरेण श्रवणमननयोर्भेदं शङ्कते– ननु समन्वयेति । उक्तेऽर्थे सुरेश्वरसम्मतिं दर्शयति– सुरेश्वरेणेति । यद् वेदान्तश्रवणं तत् तर्क एवोपक्रमादिः । तदुपायः श्रुतिलिङ्गा-दिको यो न्यायो युक्त्यनुसन्धानरूपः स च आगमार्थविनिश्चित्यै मन्तव्य इति भण्यते । अत्र मननेन वेदशक्त्यनुरोधी वेदानुकूल उपक्रमादिरूपस्तर्कोऽपि अर्थनिर्णयाङ्गं भवतीत्यर्थः । धीस्वास्थ्यकारिभिस्तर्कैर् अर्थासत्वशङ्कया सम्भावनार्थस्य संशयविषयस्यार्थस्य निरूपणप्रकारः द्वितीयाध्याये ईरित इत्यर्थः । विवरणविरोधेन दूषयति– विवरण इति ॥ जिज्ञासेति ॥ युक्त्यनुसन्धानरूपांशस्य मननश्रवणयोरुभयोरपि अविशिष्टत्वादिति भावः । उक्तरूपश्रवणाङ्गीकारे दोषान्तरमाह– उक्तस्येति । युक्त्यनपेक्षस्य श्रद्धामात्रेण प्रतिवाक्यम् ‘अयमस्य वाक्यस्यार्थः’ इत्युक्तस्येत्यर्थः । किञ्चैवं मननस्याप्यावश्यकता न स्यादित्याह– प्रमाणेति । श्रवणनियमेनेति । अन्यथा तस्य नियमविधित्वं न स्यादिति भावः ॥ अन्यथेति ॥ शब्देतरकारणानिषेध इत्यर्थः । प्रकारान्तरेण श्रवणविधिप्रयुक्तत्वं दूषयति– किञ्चेति । एतदेव विशदयति– उत्तरक्रतुविधिभिरिति ।

एकस्यैवेति । ननु यदि ह्यध्ययनविधिर्दष्टार्थः स्यात् तदाऽर्थज्ञानार्थत्वाद् अर्थज्ञानस्य च विचारं विनाऽसम्भवाद् विचाराक्षेपकत्वं युज्यते । न चैवम् । अध्यनविधेर्नित्यत्वेन दृष्टार्थत्वाभावादित्यत आह– यदि चेति । ननु ब्रह्मकाण्डे साक्षाद्विचारविधेर्विद्यमानत्वान् नाध्ययनविधेस्तदाक्षेपकतेत्यत आह– अस्ति चेति । अत एवेत्यस्यार्थमाह– विचारस्येति । साक्षात्कारफलकत्वाद् ब्रह्मविचारस्य अध्ययनविधिप्रयुक्तत्वाभावो वाच्यः । आत्मनोऽ-परोक्षैकरसत्वान्नैवम् । तद्विचारस्य साक्षात्कारफलकत्वसम्भवात्, अपरोक्षार्थविषयकविचारस्य साक्षात्कारफलकत्वनियमादित्याह– ब्रह्मेति । तथाऽप्यध्ययनविधिप्रयुक्तत्वे आवृत्तिगुणकत्वं न सम्भवतीत्यत आह– आवृत्तेश्चेति । अपिशब्दाद् विध्यन्तरानङ्गीकारेऽपि । अवघातादेर्दृष्ट-वैतुष्यफलकत्वाद् विध्यन्तराभावेऽपि यावद् वैतुष्यं तावदावृत्तिः क्रियते । एवं प्रकृतेऽपि साक्षात्कारफलकस्य श्रवणस्य यावत्साक्षात्कारम् आवृत्तिरावश्यकीति विध्यन्तराङ्गीकारोऽनर्थक इति भावः । तथापि मननाद्यङ्गविधानम् अध्ययनविधिप्रयुक्तत्वे न सम्भवति । कर्मकाण्डे अभावादित्यत आह– मननस्यैवेति । न चैतन्मननविधिमूलत्ववादिनोऽपि समानमिति वाच्यम् । विचाराक्षेपकतया तन्मूलत्वस्येष्टत्वात् । न चाध्ययनविधेः स्वाध्यायावाप्ति-फलकत्वेनार्थज्ञानपर्यन्तत्वाभाव इति वाच्यम् । अर्थावबोध पर्यन्तत्वस्याग्रे वक्ष्यमाणत्वात् । स्वाध्यायावाप्तेरपुरुषार्थतयाऽर्थावबोधपर्यन्तताया आवश्यकत्वाच्च । न चैवं ‘चित्रया यजेत’ इत्यादौ पश्वादेरप्यफलत्वापत्तिरिति वाच्यम् । तत्र पुरुषार्थसाधनतया फलत्वसम्भवात् । काम्यमानत्वेन श्रुतत्वाच्च । प्रकृते दृष्टफलस्योपपत्तौ अदृष्टस्वीकारस्य व्यर्थत्वात् । उक्तमर्थं कारिकारूढं करोति– तस्मादिति । तद्रूपं युक्तिचिन्तनरूपम् ॥ इति श्रवणविधेर्विवरणोक्त-विचारविधायकत्वभङ्गः ॥ ५ ॥

न्यायकल्पलता

॥ श्रवणविधिरेवेति ॥ श्रवणस्य विचारगर्भत्वात् ॥ श्रवणसाध्येति ॥ अपरोक्षज्ञाने सति तज्जन्यापरोक्षज्ञानकामनायां श्रवणविध्यधीनविचारविधिः । श्रवणविधौ च सति परोक्षज्ञान-मित्यन्योन्याश्रयः । नन्वधीतवेदस्य विदितपदपदार्थसङ्गतिकस्यापाततो जायमानं परोक्षज्ञानं श्रवणं विनैवेति नान्योन्याश्रय इति चेन्न । अध्ययनोत्तरस्य विचारप्राग्भाविनो वेदार्थज्ञानस्य श्रवणफलत्वा-च्छ्रवणविचारयोरत्यन्तवैलक्षण्यान्न श्रवणविधिर् विचारविधायक इत्याह– किञ्चायमिति ॥ निर्णयात्मको निर्णयहेतुः ॥ अन्यथेति ॥ न्यायानुसन्धानस्य कर्तव्यत्वं न्यायमन्तरेणानुपपन्नमिति न्यायग्रथनात्मक-शास्त्रमारम्भणीयं, जिज्ञासासूत्रोक्तविचारस्य न्यायानुसन्धान रूपत्वाभावे तथाविधविचारस्य कर्तव्यता केनापि नोक्तेति न्यायग्रथनात्मकशास्त्रारम्भसाधकं न किञ्चिदस्तीत्यर्थः ॥ इतरस्येति ॥ मननादिति शेषः । विचारस्य वेदापेक्षितन्यायानुसन्धानरूपत्वे तस्य वेदं प्रतीतिकर्तव्यतारूपम् अङ्गत्वम् । अन्यथा श्रवणवदङ्गित्वमेव स्यात् ॥ मननाभेदप्रसङ्गादिति ॥ मननवदङ्गत्वप्रसङ्गाच्चेत्यपि बोध्यम् । तथा च श्रवणविधिजिज्ञासासूत्रयोर्भिन्नविषयतया न मूलमूलिभाव इति भावः ।

ननु जिज्ञासासूत्रस्य श्रवणविधिविषय शक्तितात्पर्यावधारणात्मकश्रवणाक्षिप्तोपक्रमोपसंहारादि-तात्पर्यलिङ्गविचारमादाय समानविषयत्वमस्तीति शङ्कते– नन्वद्वितीये इति ॥ एवं सति श्रवणस्य मननाभेदं निरस्यति– मननन्त्विति ॥ वेदान्तवाक्यनिष्ठम् अद्वितीयब्रह्मविषयकं यत्तात्पर्यं तस्य विचारितोपक्रमादिलिङ्गैर्यदवधारणं तच्छ्रवणमित्युक्तं भवति । तत्र च त्वदभ्युपगम(विरोध) इत्याह– विवरण इति ॥ उक्तविधस्य श्रवणस्येतिकर्तव्यतात्वमेवायाति तच्च त्वदनभिमतमित्यर्थः । एतेनार्थाक्षिप्तविचारस्येति– कर्तव्यतात्वेऽपि तात्पर्यावधारणरूपे श्रवणे उक्तस्याङ्गित्वस्यानपाय इति निरस्तम् । त्वदभिमतश्रवणस्यैव तद्रूपस्यैवाक्षेपासम्भवात् ॥ श्रवणावृत्त्यैवेति ॥ उक्तस्मरणादि-त्रितयान्यतमदृष्टमेव श्रवणफलं प्रकल्प्य दृष्टार्थानां च फलसिद्धिपर्यन्तमावृत्तेरर्थसिद्धत्वान्मननविधिं विनैव तत्सिद्धिरित्यर्थः ॥ त्रिविधस्यापीति ॥ श्रवणे युक्तीरविधाय मनने ता विदधतीति स्मृतिर्मनने तदपेक्षां सूचयति । न चोक्तत्रिविधस्यापि मननस्य श्रवणानपेक्षितयुक्त्यपेक्षातो न स्मार्ता व्यवस्था युक्तेत्यर्थः ॥ श्रवणं यावदज्ञानमिति ॥ न चोक्तविध श्रवणमननयोर्विषयभेदः । येन श्रवणा-निवर्तितशङ्कानिवर्तकं मननं स्यात् ॥ तर्हि युक्तायुक्तत्वेति ॥ न्यायरूप युक्त्यनुसन्धानकर्तव्यता-बोधकमननविधेर् न्यायग्रथनात्मकशास्त्रारम्भकर्तव्यताबोधस्य न्यायानुसन्धानरूप विचारकर्तव्यता विधायकस्याद्यसूत्रस्य च समानविषयत्वाद्युक्तो मननविधेराद्यसूत्रमूलभावो न तु श्रवणविधेरित्यर्थः । एतेन तात्पर्यविषय युक्तायुक्तत्वादिसंशयनिवर्तकविचारापेक्षया तात्पर्यनिर्णायकश्रवणाक्षिप्तलिङ्ग-विचारस्याभ्यर्हितत्वेन तदाक्षेपकश्रवणविधिरेव सूत्रमूलमिति निरस्तम् । विशिष्टतात्पर्यनिर्णयस्य मन्मते

श्रवणत्वेन तस्य तदाक्षेपकत्वायोगस्योक्तत्वात् । लिङ्गविचारस्य लिङ्ग्यर्थत्वेन लिङ्गिन एवाभ्यर्हि-तत्वाच्च ॥

उक्तयुक्तीनामिति ॥ मननेऽन्तर्गतानाम् असम्भावनानिरासिनीनाम् ॥ तेनैवेति ॥ श्रवणेनैवा-सम्भावनानिरासे मननवैयर्थ्याच्च ॥ युक्त्यननुसन्धानेऽपीति ॥ श्रुतपदप्रयोगेण सिद्धश्रवणभावे युक्त्यनुप्रविष्टश्रवणलक्षणमव्याप्तं स्यादित्यर्थः । कौमुद्युक्तं लक्षणान्तरं निराकरोति– न च कौमुदीति ॥ इष्टापत्तेरिति ॥ मननान्तर्गतयुक्तीनामुक्तरूपे श्रवणेऽनन्तर्भावात् ॥ विचारविधायकस्येति ॥ एतच्च मध्यमपक्षेऽपि दूषणं बोध्यम् ॥ वेदान्तश्रवणमिति ॥ शब्दशक्तिनिर्णायको यः श्रुतिलिङ्गादिको न्यायस्तदनुकूलश्च तर्कस्तद्वेदान्तश्रवणम् । आगमार्थनिश्चयार्थो यो न्यायः यश्च तदनुकूलस्तर्कस्स मन्तव्य इति शब्देन भण्यत इत्यर्थः ॥ वेदशब्देति ॥ शुष्कतर्कस्य निषेधेऽपि वैदिकतर्कस्य (एतं त्वेव बह्वृचामहत्युक्थे) मीमांसन्त इत्यादिना वेदेनैव विनियुक्तत्वात् ॥ सम्भावनेति ॥ तर्कैः कृत्वाऽर्थस्य सम्भावना या तन्मननमिति पूरणीयम् । शब्दतात्पर्यतदर्थनिर्णायकयुक्तीनाम् अनुसन्धाने श्रवणमनने इत्यस्मिन्नर्थे दूषणमाह– विवरण इति ॥ अयमत्र टीकाविवरणादीनामभिप्रायः– ‘आत्मैकत्वविद्याप्रतिपत्तये’ इत्यत्र भाष्ये प्रतिपत्तिशब्दस्याप्त्यर्थत्वमभिसन्धाय, ननु न विद्या गवादिवत्तटस्था सिध्यति किन्तु वेदित्राश्रिता वेद्यं प्रकाशन्त्येवोत्पद्यतेऽतस्तस्या आप्तिर्न सम्भवतीत्या-शङ्क्य अत्र भाष्ये विद्याशब्देन शक्तितात्पर्यविचारसहकृतशब्दजन्यं प्रत्यक्षरूपं प्रमाणज्ञानमभिधीयते । तच्च दूरदेशवर्त्यार्द्रमरीच फलसाक्षात्कारवदप्रतिष्ठितमेव प्रथममुत्पद्यत इत्याप्तिशब्देन विद्यायाः स्वविषयेण सह पुनरप्यापरोक्ष्यरूपा प्रतिष्ठोच्यते । तच्चापरोक्ष्यं ब्रह्मात्मपरिभावनाप्रचयनिमित्ततदेकाग्रवृत्तिं प्रति चित्तस्य यदयोग्यत्वं तद्रूपा याऽसम्भावना तस्यां मननेन निवृत्तायां शरीराद्यध्याससंस्कारप्रचयरूप-विपरीतभावनायां च निदिध्यासनेन निवृत्तायां सम्यगापरोक्ष्यं भवतीति परिहृत्य, ‘ननु शब्दगताया अर्थगताया वाऽसम्भावनाया विपरीतभावनाया निवर्तके मनननिदिध्यासने उच्येतां किमर्थं चित्तैका-ग्रवृत्त्ययोग्यत्वनिरासेन चित्तस्य प्रत्यगात्मप्रवण संस्कारनिष्पन्नतदेकाग्रवृत्तियोग्यत्वहेतू उच्येते

इत्याशङ्क्य यौक्तिकासम्भावनाविपरीतभावनानिरासितर्काणां प्रथमज्ञानेऽन्तर्भूतत्वात्’ इत्यादिना परिहृतम् ।

प्रथमज्ञाने इति ॥ श्रवणे ॥ उक्त्वेति ॥ वक्ष्यमाणम् अभिसन्धायेत्यर्थः । तेन विवरणवाक्ययोः पौर्वापर्य व्यत्यासनिमित्तो विरोधो नाशङ्क्यः ॥ ब्रह्मात्मेति ॥ ब्रह्मण आत्मभावेन या परिभावना तस्याः प्रचयो निमित्तं यस्याः सा तथोक्ता एवम्भूता या तदेका वृत्तिस्तां प्रति चित्तस्य यदयोग्यत्वं तदसमम्भावनेत्यर्थः ॥ भावनाप्रचयेति ॥ भावनाप्रचयो हेतुर्यस्य एवम्भूतं यच्चित्तैकाग््रयं तत्प्रति हेतुताया मननस्योक्तत्वादित्यर्थः । अत्र भिन्नप्रस्थानतया विवरणविरोधोऽकिञ्चित्कर इति कस्यचित्प्रलपितमयुक्तम् । जिज्ञासासूत्रस्य श्रवणविधिमूलताया विवरणोक्ताया निषिध्यमानत्वेन तत्रैव तद्विरोधस्योच्यमानत्वात् । अत एवाह– जिज्ञासासूत्रस्येति ॥ समन्वयेऽविरोधादौ च न्यायानुसन्धानकर्तव्यत्वं विदधदाद्यसूत्रं समन्वयांशे श्रवणविधिमूलम्, अविरोधे च मननविधिमूलकं स्यात् । साधनाद्यंशे चानुभवमूलकं स्यादित्यपि बोध्यम् ।

यत्तु समन्वयोक्तविचारस्याभ्यर्हिततया श्रवणविधिमूलत्वोक्तिरिति, तन्न । समन्वयादप्यविरोधस्य परपक्ष दूषणपर्यवसायिनो वैतण्डिकं त्वां प्रत्यभ्यर्हिततरत्वात् ॥ मन्तव्यश्चोपपत्तिभिरितीति ॥ शब्दसम्बन्धिनीनाम् अर्थसम्बन्धिनीनां चोपपत्तीनां मनन एवान्तर्भावसम्भवेन स्मृतिस्थोपपत्तिशब्दस्य शब्दार्थविषयत्वेनावान्तरभेदकल्पने मानाभावात् । श्रवणमननयोर्भेदस्तु प्रकारान्तरेणापि सम्भवतीत्यर्थः ॥ उक्तस्येति ॥ न चास्य ज्ञानरूपतया नानुष्ठेयत्वमिति वाच्यम् । ज्ञानस्याप्यनुष्ठेयताया वक्ष्यमाणत्वात् । श्रवणादितुल्यत्वाच्च ॥ केवलमिति ॥ त्वन्मते तस्याश्रवणत्वात्तत्र श्रुतशब्दो गौणः स्यात् ॥ निश्चितप्रामाण्यस्येति ॥ न च कृष्णलेऽतिदेशप्राप्तस्यावघातस्य द्वारबाधेन बाधवत्तादृशपुरुषं प्रति मननविधिबाध इति वाच्यम् । मुमुक्षुकर्तव्यत्वेन नित्यवत् श्रुतत्वात् । उक्तविधयाऽन्यथाप्युपपत्तेश्च ॥ श्रवणनियमेनेति ॥ अनुमानादिप्राप्तिपक्षेऽपि वेदान्तवाक्यस्यैवाप्राप्तस्य नियमविधिना पूरणादित्यर्थः ॥ अन्यथेति ॥ सर्वस्मिन्नपि पक्षे वेदान्तवाक्यस्य पूरणाभावे ॥ जिज्ञासा नामेति ॥ तत्वप्रकाशिकास्थस्य ‘श्रवणादिरूपा जिज्ञासा कर्तव्येत्युक्तम्’ इत्यादौ श्रवणेऽपि जिज्ञासापदप्रयोगस्यातद्गुणसंविज्ञानबहुव्रीह्याश्रयणादिना गतिश्चन्द्रिकायामुक्ता । श्रवणादेरसन्वाच्यतेत्यत्र श्रवणम् आदिः कारणम् अस्य विचारस्येत्यर्थोऽवगन्तव्यः । उत्तरक्रतुविधिप्रयुक्त इति ॥ यथा ज्योतिष्टोमादिक्रतुविधयो यागादिकम् अनुष्ठापयन्ति । अनुष्ठानं च विचारसाध्यज्ञानं विना न सम्भवतीति क्रतुविधेः कर्मकाण्डविचाराक्षेपकत्वं तथा ‘तरति शोकम्’ इति शोकनिवृत्तिहेतुत्वेन श्रुतमात्मज्ञानमपि स्वसिद्धये ब्रह्मकाण्डविचारमाक्षिपेत् । कार्येण कारणाक्षेपसम्भवात् ।

ननु विचारस्य वैधत्वसिध्द्यर्थं विधिमूलत्वम् (अवश्यं)वक्तव्यम् । अन्यथा कर्मज्ञानादेव कर्मविचाराक्षेपेऽध्ययन विधेर्वोत्तरक्रतुविधीनां वा तदाक्षेपकत्वोक्तिरयुक्ता स्यात् । मननविधिमूलत्वं वदता त्वयाऽप्ययमाक्षेपोऽवश्यं परिहरणीय इति । मैवम् । ज्ञानविधिव्यापारविषयत्वेनापि वैधत्वोपपत्तेः । अन्यथा विवरणमते श्रवणविधेरपि न विचारविधायकत्वं किन्तु तदाक्षेपकत्वमिति तस्य वैधत्वं न स्यात् । कर्मज्ञानस्य कर्मविचाराक्षेपकत्वमेव क्रतुविधीनां तदाक्षेपकत्वम् । अध्ययनविधेर्ज्ञानार्थत्वे तु तस्य साक्षाद्विचारविधायकत्वम् । मम मते मननविधिस्तु साक्षादेव विचारविधायक इति वैषम्यम् ॥ एकस्यैवेति ॥ तरति शोकमित्यादिज्ञानविधेः ॥ ननु ब्रह्मकाण्डविचारविधायकस्य श्रोतव्य इत्यादिविधेः सत्त्वेन नाध्ययनविधेर्विचाराक्षेपकत्वं कल्प्यते गौरवादित्यत आह– अस्ति चेति ॥ दृष्टफलत्वेनैवेति ॥ दृष्टफलानां फलपर्यन्तमनुष्ठेयत्वात् ॥ मुण्डकेति ॥ मुण्डक आथर्वणोपनिषत् । तदध्ययने शिरोव्रतं विधिवद्यैस्तु चीर्णमिति शिरोव्रतस्याङ्गत्वं विहितम् । कारीरीति ॥ कारीरीप्रतिपादकोऽनुवाकः । तदध्ययने भूभोजनस्याङ्गत्वम् ॥ तां चतुर्भिरिति ॥ इष्टका मृत्खननार्था । अभ्रिं वैणवीम्, कुद्दालसदृशीम् । चतुर्भिर् मन्त्रैः । ते च ‘देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां’ ‘गायत्रेण त्वा छन्दसाददेऽङ्गिरस्वत्’ । ‘अभ्रिरसि नारिरसि पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदाभर त्रैष्टुभेन त्वा छन्दसाददेऽङ्गिरस्वत् । अभ्रिरसि नारिरसि त्वया वयं सधस्थ अग्निं शकेम खनितुं पुरीष्यं जागतेन त्वा छन्दसाददेऽङ्गिरस्वत् । हस्त आधाय सविता बिभ्रदभ्रिं हिरण्मयीं तयोज्योतिरजस्रमिदग्नी खर्त्वा न आभारानुष्टुभेन त्वा छन्दसाददेऽङ्गिरस्वत् । इत्येवंरूपाः पूर्वतन्त्रन्यायसुधायामुक्ताः ॥ अर्थप्राप्तेति ॥ हस्तेअभ्रिघारणं विना मृत्खननायोगात्तदादानम् अन्यथानुपपत्तिप्राप्तमित्यर्थः ॥ सङ्ख्येति ॥ यद्यपि लिङ्गापेक्षया श्रुतेः शीघ्रत्वात्सङ्ख्याविशिष्टमन्त्रयुक्तादानविधिरिति वार्तिकात्प्रतीयते । तथापि गुणार्थत्वमेव फलत इति तत्राभिमतम् । तथैव तदीयन्यायसुधायां व्याख्यातम् । तथोक्तम् । ‘आदानविध्यभावादरुण-यैकहायनीन्यायानुपपत्तेरर्थप्राप्तस्य चादानस्यानुवाद्यत्वेनैकविधावितरेण विशेष्टुमशक्यत्वाल्लिङ्गतश्चैकैकस्यैव मन्त्रस्य प्राप्तेः सङ्ख्यानाकाङ्क्षत्वात्समुच्चयासिद्धेः फलतो गुणार्थत्वमिति ॥ निगमयति– तस्मादिति ॥

॥ इति श्रवणविधेर्विवरणोक्तविचारविधायकत्वभङ्गः ॥ ५ ॥