यच्चोक्तं विवरणे श्रवणादीनां विषयावगमं..
२. श्रवणादिविधेर् विवरणोक्तनियमविधित्वभङ्गः
न्यायामृतं
यच्चोक्तं विवरणे श्रवणादीनां विषयावगमं प्रत्यन्वयव्यतिरेकसिद्धोपायत्वादिना १तद्विधेरपूर्वसङ्ख्याविधित्वायोगेन नियमविधित्वमिति । तन्न, यतः
श्रवणं ह्यापरोक्ष्याय त्वन्मते श्रवणेन च ।
नापरोक्ष्यं क्वचिद्दृष्टं तेनापूर्वविधिर्भवेत् ॥
तथा हि– त्वन्मते परोक्षज्ञाने कामनाभावात् तत्कामस्य विचारविध्यनधिकारित्वेन परोक्षज्ञानं प्रति साधनत्वेन विचारविधानायोगात् त्वदभिप्रेतायाश्चापरोक्षज्ञानं प्रतिविचारसाधनताया अत्यन्ताप्राप्तत्वेनापूर्व विधित्वमेव युक्तम् । ननु गान्धर्व-शास्त्रादिविचारस्य षड्जादिसाक्षात्कारहेतुता कप्तेति चेन्न, न तावद्विचार्य शास्त्रार्थ-साक्षात्कारे स हेतुः कप्तः । कर्मकाण्डविचारेण तदर्थसाक्षात्कारादर्शनात् । आत्मनोऽपरोक्ष त्वात्तद्विचारस्तथा, कर्माणि तु नैवमिति चेन्न, अपरोक्षे विचारवैयर्थ्यात् । न हि यो योऽपरोक्षः, स स विचार्यते । नापि विचारेण वा विचार्यशास्त्रेण वा जन्यसाक्षात्कारे स हेतुः कप्त आत्मसाक्षात्कारोद्देशेन शास्त्र-विचारविधिं विनाऽत्मसाक्षात्कारस्य शास्त्रविचारजन्यत्वानिश्चयात् । नापि विचार्य-शास्त्रार्थस्य साक्षात्कारयोग्यस्य साक्षात्कारे स हेतुः कप्तः । कालान्तरे साक्षा-त्करिष्यमाणत्वेन तद्योग्ये विचार्यशास्त्रार्थे स्वर्गादौ निध्यादौ च विचारेण तददर्शनात् । तस्मात्षड्जादिसाक्षात्कारे गान्धर्वादिशास्त्रविचारो हेतुत्वेन कप्त इति वाच्यम् । न च प्रकृतकार्यविजातीयकार्ये प्रकृतविचारविजातीयविचारस्य हेतुताकप्तिमात्रेण प्रकृते तस्यापूर्वविधित्वहानिः, अपूर्वविधिमात्रोच्छेदापातात् ।
किञ्च पाक्षिकप्राप्तौ हि नियमः, सा च साधनान्तरप्राप्तौ । न च रूपादि-रहितात्मज्ञानेऽन्यप्राप्तिरस्ति । नन्वपूर्वार्थेषु व्रीहिषु नखविदलनादेरप्राप्तावपि व्रीहिमात्रे तत्प्राप्त्या ‘व्रीहीनवहन्ति’ इति यथा नियमः, तथा निर्विशेषात्मनि मानान्तरा-प्राप्तावप्यात्ममात्रे तप्प्राप्त्या नियम इति चेन्न । ‘व्रीहीन्’ इत्यत्र व्रीहिशब्दोऽपूर्वीय द्रव्यपरो न तु व्रीहिपरः । अन्यथा यवेष्यवघात औपदेशिको न स्यात् । ‘नीवारेषु च व्रीहिरूपद्वाराभावेनाति दिष्टोऽपि बाध्येत’ इति नवमे स्थापितत्वेनापूर्वीयद्रव्य एव विदलनादिप्राप्तेर्वक्तव्यत्वात् । अन्यथा वैतुष्यमात्रेऽवघातनियमे द्रव्यार्जने याजनाद्यु-पायनियमवत् तस्य पुरुषार्थत्वप्रसङ्गेन लौकिकेष्वपि व्रीहिषु दलने प्रत्यवायः स्यात् । न च सामान्ये दलनादिप्राप्त्या विशेषेऽवघातनियमः । इह निर्विशेषसविशेष रूपविशिष्टद्वयानुगते विशेषाभावादिद्वारा वेदान्तवेद्ये चिन्मात्रे मानान्तराप्राप्तेः । यत्रापूर्वीयेष्ववघातनियमस्तत्रैव दलनप्राप्तिसम्भवे वैयधिकरण्यायोगाच्च । सम्भवति ह्यपूर्वीयेष्वपि व्रीहिषु नियमादृष्टाजनकस्यापि दलनस्य प्राप्तिः । न हि तस्य प्राप्तिर्नाम तेन तस्य वैतुष्यसम्पादनम् । तथात्वेऽवघातनियमायोगात्, किन्तु शक्तत्वेन प्रसक्तिमात्रम् । तच्च दलनादेरपूर्वीयेष्वप्यस्ति । निर्विशेषात्मनि तु प्रत्यक्षादेः प्रसक्तिरपि नास्तीति विशेषः । अवघातसाध्यवैतुष्यस्य दलनादिसाध्याद्वैजात्येऽपि विध्यन्तरापेक्षितवैतुष्यस्य सामान्यस्य दलनेनापि सिद्धेर्नियमः ।
कौमुद्यां तु यथा मन्त्रार्थज्ञानस्य तन्मूलकल्पसूत्रीयग्रहणकवाक्यादिप्राप्त्या पक्षेऽप्राप्तमन्त्रसाध्यत्वं नियम्यते ‘मन्त्रैरेव स्मृतिः साध्या’ इति । तथा वेदान्तमूलस्त्री-शूद्रसाधारणस्मृतिपुराणादिप्राप्त्या पक्षेऽप्राप्तवेदान्त श्रवणादिपरिपूर्णार्थो नियमः । तस्माद् ‘ब्राह्मणो नावैदिकमधीयीते’ इति श्रुतेः । ‘श्रोतव्यः श्रुतिवाक्येभ्यः’ इति स्मृतेश्चेत्युक्तम् । तन्न, ‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्’ इत्यादिस्मृतिविरोधात् । न ह्यविचारितेन गहनेन तेनोपबृंहणं युक्तम् । ‘अपि स्मर्यते’ इत्यादिना सूत्रकारेणाप्यु-बृंहणाच्च । न च वेदान्ततात्पर्यनिर्णयायैव तद्विचारो न तु ब्रह्मज्ञानायेति वाच्यम् । कर्मविषयकस्मृतिभिः कर्मज्ञानस्येव ब्रह्मविषयकाद् भारतादौ मुमुक्षून् शुकादीन् प्रत्युपदिष्टादितिहासादपि साक्षाद्ब्रह्मज्ञानस्योदयात् । ‘समुपबृंहयेत्’ इत्यस्य तु वेदतात्पर्यं वेदवाक्यानुसारेणेवाऽनेकशाखाद्यभिज्ञऋषिप्रणीतनिर्णयात्मकेतिहासानुसारेणैव ज्ञेयमित्यर्थः । न तु सर्वेणापीतिहासादिना वेदतात्पर्यमेव ज्ञेयम् । अर्थस्तु न ज्ञेय इति । ‘नावैदिकम्’ इति श्रुतिस्तु अवैदिक बाह्यागमाध्ययनं निषेधति । न तु वैदिकेतिहासादेः । ‘ऋग्वेदं भगवोऽध्येमि’ इत्यारभ्य ‘इतिहासपुराणं पञ्चमं वेदानां वेदम्’ इति श्रुत्या ‘वेदानध्यापयामास महाभारतपञ्चमान्’ इत्यादि स्मृत्या च विरोधात् । वेदाङ्गाध्ययनस्यापि निषेधापाताच्च । ‘श्रोतव्यः श्रुतिवाक्येभ्यः’ इति तु श्रुतीनां मूलप्रमाणत्वाभिप्रायम् ।
किञ्च विप्रकीर्णनानाशाखार्थसङ्ग्रहादिरूपेणेतिहासादिना तत्त्वनिश्चयदर्शनात् । सति च तस्मिन् विविदिषाद्वारा तदर्थाया अन्तःकरणशुद्धेरपेक्षितत्वात् । आपरोक्ष्यस्य च विषयस्वभावादेव सिध्या वेद जन्ये ब्रह्मज्ञाने इतिहासादिजन्यादधिकस्यापरोक्ष्यस्या-ननुभवेन च तस्य नियमादृष्टासाध्यत्वात् । ज्ञानस्य च स्वप्रागभावनिवर्तन इवाज्ञान-निवर्तनेऽप्यदृष्टनिरपेक्षत्वादन्यस्य च नियमादृष्टसाध्यस्याभावान्न नियमविधिर्युक्तः । तस्मात्–
नियमादृष्टसाध्यस्य व्यावर्त्यस्याप्यभावतः ।
श्रवणादेर्नियमनं परपक्षे न युज्यते ॥
एतेन शूद्रप्रणीतात्मविद्याप्रबन्धादिप्राप्तिनिमित्तका प्राप्तांश पूरणार्थो नियमविधिरिति निरस्तम् । इति श्रवणादिविधेर्विवरणोक्तनियमविधित्वभङ्गः ॥ २ ॥
अद्वैतसिद्धिः
तच्च श्रवणादिकं विषयावगमं प्रत्यन्वयव्यतिरेकसिद्धोपाय इति तद्विधेर्नापूर्वविधित्वम्, किन्तु नियमविधित्वमेव । नन्वत्र श्रवणस्यापरोक्षफलं प्रति साधनत्वम् । तच्चान्यतो नावगतमित्यपूर्व-विधित्वमिति चेन्न । गान्धर्वशास्त्रविचारे षड्जादिसाक्षात्कारे हेतुताया दृष्टत्वात् । न चैतावता शास्त्रविचारः सर्वत्रार्थसाक्षात्कारहेतुरिति न सिद्धम् । धर्मशास्त्रविचारे व्यभिचारादिति वाच्यम् । अपरोक्षार्थकशास्त्रविचारत्वेन साक्षात्कारजनकतायास्तद्दर्शनबलेन सिद्धेः । आत्मा च षड्जादि-वदपरोक्षः, न धर्मादिः । न चापरोक्षे विचारवैयर्थ्यम्, न हि यद्यदपरोक्षं तत्तद्विचार्यत इति नियम इति वाच्यम् । अपरोक्षे विचार्यत्वनियमाभाववदविचार्यत्वनियमोऽपि नास्ति । षड्जादावपरोक्षेऽपि विचार्यत्वदर्शनात् तद्वदेव साफल्यसम्भवाच्च । सन्दिग्धत्वसप्रयोजनत्वयोरेव सर्वत्र विचार्यत्वे प्रयोजकत्वात् । एतेन विचार्यशास्त्रार्थस्य साक्षात्कारयोग्यस्य साक्षात्कारे स हेतुरिति न युज्यते । कालान्तरे साक्षात्करिष्यमाणत्वेन तद्योग्ये विचार्यशास्त्रार्थे स्वर्गनिध्यादौ विचारेण तदभावादिति निरस्तम् । निध्यादिसाक्षात्कारे तदसन्निकर्षादजातेऽपि विचारस्य तद्धेतुता न गच्छति । तत्र विचार इन्द्रियसहकारित्वेन तद्विलम्बेन विलम्बात् । प्रकृते तु शाब्दत्वात् साक्षात्कारस्य न तदपेक्षा, अपरोक्षयोग्यार्थसात्कारत्वेन कार्यत्वस्य तादृशार्थकशास्त्रविचारत्वेन साधनत्वस्य सत्त्वात् । एतेन प्रकृतकार्यविजातीयकार्ये प्रकृतविचारविजातीयविचारस्य हेतुताकप्तिमात्रेण तस्यापूर्वविधित्वत्यागे अपूर्वविधिमात्रोच्छेदापात इति निरस्तम् ।
ननु पाक्षिकप्राप्तौ नियमः । सा च साधनान्तरप्राप्तौ । न च रूपादिरहितात्मज्ञाने तत्प्राप्तिरस्तीति चेन्न । निर्विशेषात्मनि मानान्तराप्राप्तावपि आत्मनि सामान्यतस्तत्प्राप्तिरस्तीति नियमसम्भवात् । यथाऽपूर्वीयेषु व्रीहिविशेषेषु नखविदलनादेरप्राप्तावपि व्रीहिसामान्ये तत्प्राप्त्या ‘व्रीहीनवहन्ति’ इति नियमविधिः ।
ननु ‘व्रीहीनवहन्ति’ इत्यत्र व्रीहिपदमपूर्वीयद्रव्यपरं न तु व्रीहिमात्रपरम् । अन्यथा यवेष्ववघात औपदेशिको न स्यात् । ‘नीवारेषु च व्रीहित्वाभावेनातिदिष्टोऽपि बाध्येत’ इति नवमे स्थापितत्वेनापूर्वीयद्रव्य एव नखविदलनादि प्राप्तिर्वक्तव्या । अन्यथा वैतुष्यमात्रे अवघातनियमे द्रव्यार्जने याजनाद्युपायनियमवत् तस्य पुरुषार्थत्वप्रसङ्गेन लौकिकेष्वपि व्रीहिषु दलने प्रत्यवेयादिति चेन्न, नियम्यमानावघातस्यापूर्वीयद्रव्यमात्रविषयत्वेऽपि सामान्यविषयकप्राप्त्यैव नियमोपपत्तौ विशेषविषयप्राप्तेरनपेक्षितत्वात् । न च निर्विशेषसविशेषरूपविशिष्टद्वयानुगते विशेषाभावादिद्वारा वेदान्तवेद्ये चिन्मात्रे न मानान्तरप्राप्तिरिति वाच्यम् । उभयानुगते सविशेषतया प्रमेयतायां मानान्तरप्राप्तेः सत्त्वात् । सजातीये प्राप्त्यापि यत्र सजातीयान्तरे नियमसम्भवः, तदा किमु वाच्यमेकस्मिन्नेवात्मनि अवस्थाविशेषेण मानान्तरप्राप्त्या विशेषान्तरे नियम इति । न चैवं विशेषान्तरे प्राप्त्या विशेषान्तरनियमे वैयधिकरण्यमिति वाच्यम् । व्यक्तिसामानाधिकरण्याभावेऽपि अनन्यगत्या सामान्यधर्ममादाय सामानाधिकरण्याङ्गीकारात् । नन्वत्रान्यैव गतिरस्ति अपूर्वीयव्रीहिषु नियमादृष्टाजनकस्यापि दलनस्य प्राप्तिरस्ति । न हि यत्र तेन वैतुष्यसम्पादनं तत्र तत्प्राप्तिः, किन्तु शक्तत्वेन प्रसक्तिमात्रमिति चेन्न, एवं तद्योग्यत्वमिति पर्यवसितोऽर्थः । तच्च तज्जातीयेऽन्वयी न तु तत्र । तथा च वैयधिकरण्यतादवस्थ्यम् । प्रकृते च सविशेषनिर्विशेषरूपदशाद्वयानुगतैकात्मविषयतया वैयधिकरण्य शङ्कानवकाशाच्च ।
तत्त्वकौमुदीकृतस्तु– ‘यथा मन्त्रार्थज्ञानस्य कल्पसूत्रात्मीयग्राहकवाक्यादिनापि प्राप्तत्वेन पक्षेऽप्राप्तमन्त्रसाध्यत्वं नियम्यते मन्त्रैरेव स्मृतिः साध्येति । तथा वेदान्तमूलस्त्रीशूद्रसाधारण-स्मृतिपुराणादिप्राप्त्या पक्षेऽप्राप्तवेदान्तश्रवणादि परिपूरणार्थो नियमः । ‘तस्मान्न ब्राह्मणोऽवैदिकमधीयीत’ इति श्रुतेः ‘श्रोतव्यः श्रुतिवाक्येभ्यः’ इत्यादिस्मृतेश्चेति आहुः । न च ‘इतिहासपुराणाभ्यां वेदं समुपबृम्हयेत्’ इत्यादिस्मृतिविरोधः । अविचारितेन उपबृम्हणायोगादिति वाच्यम् । वेदान्ततात्पर्य-निर्णयाय तद्विचारापेक्षायामपि ब्रह्मज्ञाने तद्विचारापेक्षाविरहात् । न च कर्मविषयकस्मृतिभिः कर्मज्ञान-स्येव ब्रह्मविषयाद् भारतादेरितिहासादपि साक्षाद् ब्रह्मज्ञानस्योदयाद् ब्रह्मज्ञानेऽपि तदपेक्षेति वाच्यम् । उभयत्रपि स्मृत्यादेः स्वातन्त्र्येणाप्रमाणतया श्रुतितात्पर्यनिर्णायकत्वात् । अत एवोक्तं– ‘वेदं समुपबृम्हयेत्’ इति, न तु वेदार्थं जानीयादिति । यत्तु– ‘श्रोतव्यः श्रुतिवाक्येभ्यः’ इत्यादिकं श्रुतिमूल-प्रमाणाभिप्रायकम् इति, तन्न, पञ्चमी प्रतीतहेतुत्वस्य साक्षात् सम्भवे पारम्पर्यकल्पनायोगात् ।
न च विप्रकीर्णनानाशाखार्थसङ्ग्रहादिरूपेणेतिहासादिना तत्त्वनिश्चयदर्शनात् सति च तस्मिन् विविदिषाद्वारा तदर्थाया अन्तःकरणशुद्धेरनपेक्षितत्वाद् आपरोक्षस्य विषयभावादेव सिध्या वेदजन्यब्रह्मज्ञाने इतिहासजन्यादधिकस्या परोक्ष्यस्याननुभवेन तस्य नियमादृष्टासाध्यत्वाद् ज्ञानस्य च स्वप्रागभावनिवर्तन इव अज्ञाननिवर्तने अदृष्टनिरपेक्षत्वात्, अन्यस्य च नियमादृष्टसाध्यस्याभावान्न नियमविधिरिति वाच्यम् । ‘तमेतं वेदानुवचनेन’ इत्यादिश्रुतिबलाद् यज्ञादिजन्यादृष्टस्य नियमादृष्टस्य च विविदिषाद्वारकान्तःकरणशुद्धेरेव सर्वादृष्टसाध्यायाः सम्भवेन ज्ञानस्वरूपोपकारितया तत्साध्या-ज्ञाननिवृत्तौ तदपेक्षत्वाच्च विद्यायुक्ततदयुक्तकर्मजन्यफलगतचिराचिरस्वरूपातिशयवन् नियमादृष्ट-जन्यसाक्षात्कारे तदजन्यतत्त्वनिश्चयापेक्षयाऽतिशयकल्पनस्यावश्यकत्वाच्च नियमविधित्वसम्भवात् । तस्मात्–
नियमादृष्टसाध्यस्य व्यावर्त्यस्यापि सम्भवात् ।
श्रवणादेर्नियमनं सर्वथैवोपपद्यते ॥ इति ।
अत एव शूद्रप्रणीतात्मप्रबन्धादिप्राप्तिनिमित्तकाप्राप्तांशपूरणार्थो नियमविधिरित्याचार्यान्तरोक्तिरपि व्याख्याता ॥ इति विवरणोक्तनियमोपपत्तिः ॥ २ ॥
न्यायामृततरङ्गिणी
परोक्षज्ञाने कामनाभावादिति ॥ परोक्षज्ञानज्ञानं विना तत्कामनाया अयोगेन तज्ज्ञाने सति तद्विषयस्यापि ज्ञातत्वान्न तत्रेच्छा सम्भवति । सिद्धे इच्छाविरहात् ॥ स्वर्गादौ निध्यादाविति ॥ यत्तु स्वर्गनिधिसाधनसाक्षात्कारेऽपि विचारस्येन्द्रियसहकारित्वाद्धेतुत्व-मेवेति । तन्न । न्यायानुसन्धानादिनाऽलौकिकेनाञ्जनादिना पामराणामपि स्वर्गनिधि साक्षात्कारसत्त्वात् ॥ प्रकृतविचारेति ॥ श्रुत्याद्यविरोधितदनुग्राहकन्यायानु-सन्धान-रूपप्रकृतविचारः ॥ अपूर्वविधीति ॥ स्वर्गविजातीये लौकिकसुखे यागविजातीय-लौकिकक्रियाया हेतुत्वदर्शनाद्यागादिविधिरप्यपूर्वविधिर्न स्यात् ॥ अन्यथेति ॥ ‘व्रीहीन-वहन्ति’ इत्यत्र व्रीहिशब्दस्य व्रीहिमात्रपरत्वे हि वैतुष्यमात्रेऽवघातनियम इति स्यात् तथा चावघातः पुरुषार्थः स्यान्न तु क्रत्वर्थः । ननु ‘व्रीहीनवहन्ति’ इत्यत्र व्रीहिशब्दोऽपूर्वद्रव्यपरोऽतो नावघातस्य पुरुषार्थत्वं व्रीहित्वेन विदलनप्राप्तिरित्यत आह– न च सामान्य इति ॥ ननूभयानुगते सविशेषतया प्रमेयतायां मानान्तरप्राप्तिरस्त्येव सजातीये प्राप्त्यापि यत्र सजातीयान्तरे नियमसम्भवस्तदा किमु वाच्यमेकस्मिन्नेवात्मन्यवस्थाविशेषेण मानान्तरप्राप्त्या विशेषान्तरे नियम इतीत्यत आह– यत्रापूर्वीयेष्विति ॥ यत्र यद्रूपेषु यदवस्थेषु भिन्नभिन्नावस्थयोः प्राप्तिनियमयोरुक्तौ वैयधिकरण्यं भिन्नविषयत्वं स्यात् । तच्चाङ्गीकारानर्हम् ।
ननु सामानाधिकरण्यासम्भवाद्वैयधिकरण्यमप्यवघाते प्रकृते चाऽऽश्रयणीयमत आह– सम्भवति हीति ॥ यद्रूपाणां यदवस्थानां व्रीहीणामपूर्वीयत्वं तत्रैव विदलनप्राप्तिरस्ति प्रकृते तु न तथेत्यर्थः ॥ तथात्व इति ॥ अपूर्वीयेषु व्रीहिषु दलनस्य प्राप्तिश्चेद्वैरूपस्य तेनैव सिद्धत्वादवघातनियमायोगः । अप्राप्तिश्चेत्सुतरां तदयोगः ॥ प्रसक्तिमात्रमिति ॥ तदन्वयितावच्छेदकसम्बन्धः । स च व्रीहिष्वपूर्वीयेष्वस्ति निर्विशेषात्मनि तु न कस्यापि सम्बन्ध इति वैषम्यम् । ननु व्रीहिवैतुष्ये साधनान्तरप्राप्तावपि नियमविषये तद्वैतुष्यविशेषे न तत्प्राप्तिरिति वैयधिकरण्यमत आह– अवघातसाध्येति ॥ अपूर्वीयेष्ववघातसामान्य-साधनप्राप्तिमात्रेण सामानाधिकरण्यम् । निर्विशेषात्मनि तु ज्ञानसामान्यसाधनस्य वेदान्त-वाक्यभिन्नस्य प्राप्तिर्नेति वैषम्यम् । ग्रहणकवाक्यं सङ्ग्रहवाक्यम् ॥ परिपूर्णार्थ इति ॥ अस्मिन्पक्षे वेदान्तवाक्यं न प्राप्तं तस्मिन्नपि पूर्यते ॥ कर्मविषयकेति ॥ ननूभयत्र स्मृत्यादेः स्वातन्त्र्येणाप्रमाणतया श्रुतितात्पर्यनिर्णायकत्वमेव । मैवम् । श्रुतेरिव स्मृतेरपि धर्मादौ प्रामाण्यात् । अन्यथा स्मृत्यनुमितश्रुतेरपि श्रुत्यन्तरतात्पर्यग्राहकत्वं स्यात् । श्रुतिविरोधे स्मृतिर्दुर्बलेत्येव स्मृतेरस्वातन्त्र्यम् ॥ समुपबृंहयेदिति ॥ इतिहासादिनैव बृंहयेन्न तु तेन बृंहयेदेवेत्यर्थः ॥ मूलप्रमाणत्वेति ॥ स्मृतीनामपि श्रुतिमूलत्वात्ताभ्यः श्रुतमपि श्रुतिभ्य एव श्रुतमिति नानेन स्मृतिनिषेधः । श्रुतिवाक्येभ्य इति पञ्चमी तु प्रयोजकत्वेऽपि । ‘इतिहासपुराणं पञ्चमं वेदानां वेदम्’ इत्यादिवचनादेव श्रवणनियमादृष्टस्य किञ्चिद्विषयाज्ञान-हेतुभूतायामन्तःकरणशुद्धावुपयोगो वा शबलापरोक्षे वा तद्विशेषे वा तज्जन्याज्ञाननिवृत्तौ वा मोक्षीयानन्दानुभवे वा । नाद्य इत्याह– विप्रकीर्णेति ॥ न द्वितीय इत्याह– आपरोक्ष्यस्येति ॥ न तृतीय इत्याह– वेदजन्येति ॥ न चतुर्थ इत्याह– ज्ञानस्येति ॥ न पञ्चम इत्याह– अन्यस्य चेति ॥ आनन्दानुभवादेः । एतेन ‘तमेवं वेदानुवचनेन’ इत्यादिश्रुतयज्ञादिजन्यादृष्टस्य नियमादृष्टस्य चान्तःकरणशुद्धावुपयोग इति निरस्तम् । यज्ञादिकर्मणां ज्ञानार्थत्वेऽपि नियमादृष्टस्य तथात्वे मानाभावात् ॥ नियमादृष्टसाध्यस्येति ॥ अपिशब्दश्चशब्दार्थे ॥ इति श्रवणादिविधेर्विवरणोक्तनियमविधित्वभङ्गः ॥ २ ॥
न्यायामृतकण्टकोद्धारः
श्रवणविधेर्विवरणोक्तनियमविधित्वं दूषयितुमनुवदति– यच्चोक्तमिति । अपूर्वपरि-सङ्ख्येति । अत्यन्ताप्राप्ते ह्यपूर्वविधिः । तत्र चान्यत्र च प्राप्तौ परिसङ्ख्याविधिः । प्रकृते चान्वयव्यतिरेकाभ्यां श्रवणादेर्विषयावगमं प्रति साधनतायाः प्राप्तत्वेनापूर्वपरिसङ्ख्याविधित्वयोर-सम्भवान्नियमविधित्वमेवाश्रीयत इत्यर्थः । अत्र हि विषयावगमं प्रति श्रवणादेः साधनता श्रुत्यैव ज्ञेया नान्येनेति साधनतायां नियमः, उत विषयावगमः श्रवणादिनैव साध्यः नान्येनेति फले नियमः ? इति विकल्पं मनसि निधाय आद्यं दूषयति यत इत्यादिना । श्रवणस्या-परोक्षसाधनतया त्वया स्वीकृतत्वात् तस्याश्चान्वयव्यतिरेकाभ्यामप्राप्तत्वान्न नियमविधिरिति । ननु च श्रवणस्य परोक्षज्ञानसाधनत्वमेवाङ्गीक्रियते तस्य चात्यन्तं प्राप्तत्वाद्युज्यते नियमविधिरित्यतः स्वकारिकां स्वयमेव व्याचष्टे– तथा हीति । परोक्षज्ञान इति । ज्ञाते वा ज्ञाने कामना, अज्ञाते वा ? नान्त्यः । कामनाया धर्मिज्ञानसाध्यत्वेनाज्ञाते ज्ञाने कामनाऽयोगाद् इत्येवं त्वया कामनाया निषिद्धत्वादिति भावः । ननु गान्धर्वेति । तथा च विचारस्य साक्षात्कारहेतुताया अदृष्टत्वान्न प्रकृते नियमविधित्वं युज्यते इति भावः ।
नन्वपरोक्षार्थकशास्त्रविचारत्वेन विचारस्यापरोक्षज्ञानजनकत्वम् । आत्मनश्चापरोक्ष-स्वरूपत्वाच्छास्त्रेण तदापरोक्षं युज्यते । न तु कर्मादेः । तस्यातीन्द्रियत्वादिति शङ्कते– आत्मन इति । अपरोक्षस्यापि कुतो न विचार्यतेत्यत आह– न हीति । नन्वपरोक्षेऽ-विचार्यत्वनियमोऽपि नास्ति । अपरोक्षेऽपि षड्जादौ विचार्यत्वदर्शनात् । सन्दिग्धत्वप्रयोजन-वत्वयोरेव विचार्यत्वप्रयोजकत्वे प्रकृते तत्सत्वेन न वैयर्थ्यमिति चेन्न । प्रत्यहं ब्रह्मणि भासमानेऽपि प्रयोजनानुपलम्भात् स्वरूपमात्रस्य च स्वप्रकाशत्वेन नित्यसिद्धत्वात् सन्दिग्धत्वसप्रयोजनत्वयोरभावेन विचार्यत्वासम्भवात् । न च स्वरूपमात्रस्य नित्यसिद्धत्वेऽपि नित्यशुद्धबुद्धाद्वितीयत्वादि रूपेणासिद्धत्वात् सन्दिग्धत्वं, तादृशस्य ब्रह्मणोऽप्रकाशमानत्वात् सप्रयोजनत्वं च युक्तमिति वाच्यम् । नित्यशुद्धत्वादेर् ब्रह्मस्वरूपत्वेन ब्रह्मणि प्रकाशमाने तदप्रकाशासम्भवात् । न च तदस्वरूपमिति वाच्यम् । अस्वरूपत्वे मिथ्यात्वप्रसङ्गेन ब्रह्मणः सद्वितीयत्वापत्तिः । अन्यथा सदद्वैतभङ्गात् । त्वया ब्रह्मणो निर्विशेषत्वस्याभ्युपगतत्वेन सामान्यतो ज्ञातत्वस्य विशेषेणाज्ञातत्वस्य चायोगाच्च । विशिष्टप्रत्यये विशेष्यभान-नियमाच्चेत्यलम् ॥ आत्मसाक्षात्कारेति । तथा चात्मसाक्षात्कारस्य शास्त्रविचारजन्यत्व-सिद्धौ तमुद्दिश्य शास्त्रविचारविधिः, सति च तस्मिन् तस्य तज्जन्यत्वनिश्चय इत्यन्योन्याश्रय इत्यर्थः ।
ननु मास्तु साधनतायां नियमः । तथापि ब्रह्मरूपविषयावगमः श्रवणेनैव सम्पादनीयो, न तु साधनान्तरेणेत्येवं फल एव नियमोऽङ्गीक्रियत इति न कश्चिद् दोष इति द्वितीयः पक्षोऽस्त्वित्यत आह– किञ्चेति । साधनान्तरप्राप्तिः किं निर्विशेषात्मज्ञाने वा आत्ममात्रे वा ? नाद्य इत्याह– न च रूपादीति । द्वितीयं शङ्कते– नन्वपूर्वीयेष्विति । अन्यथेति । अपूर्वीयद्रव्य एव विदलनादिप्राप्तिर्नोच्यते चेदित्यर्थः । पुरुषार्थत्वप्रसङ्गेन अदृष्टार्थत्वप्रसङ्गेन । इह निर्विशेषेति । निर्विशेषत्वाङ्गीकारेणोभयानुगतसामान्याभावादिति भावः । नन्वपूर्वीये-ष्ववघातप्राप्तिरेव नास्ति । प्राप्तिर्हि तेन तत्र वैतुष्यसम्पादनम् । न चापूर्वीयेषु विदलनेन वैतुष्यं सम्पादितमित्यत आह– सम्भवति हीति । ननु प्रसक्तिमात्रं प्रकृतेऽपि स्यादित्यत आह– निर्विशेषेति । नन्ववघातसाध्यवैतुष्यस्य दलनसाध्यवैतुष्य विजातीयत्वेनाप्राप्तेर्न नियमविधिर्युज्यते इत्यत आह– अवघातेति । कौमुद्युक्तनियमविधिपक्षं दूषयितुमनुवदति– कौमुद्यां त्विति । ननु स्मृतिपुराणाभ्यां श्रवणं कर्तव्यम् । न तु वेदान्तेभ्यः । प्रमाणा-भावादित्यत आह– तस्मादिति । इतिहासेति । अत्र हि वेदसमूहबृंहणोक्त्या इतिहास-पुराणयोरपि श्रवणसाधनताया उक्तत्वात् तद्विरोध इति भावः । नन्वविचारिताभ्यामेव ताभ्यां वेदोपबृंहणसम्भवान्न तयोः श्रवणाङ्गतेत्यत आह– न हीति । ब्रह्मज्ञानाय इतिहासपुराण-विचाराकरणं किमितिहासादेर्ब्रह्मविषयत्वाद्वा मुमुक्ष्वनुपयोगाद्वा ब्रह्मबोधाजनकत्वाद्वा साक्षात्तदजनकत्वाद्वेति विकल्पान् मनसि कृत्वा सर्वानपि दूषयति– कर्मेति ।
ननु ‘समुपबृंहयेत्’ इत्यस्य इतिहासादिना वेदतात्पर्यमेव ज्ञेयम्, अर्थो न ज्ञेय इत्यर्थकत्वान्न तद्विरोध इत्यत आह– समुपेति । तर्हि नावैदिकमित्यस्य का गतिरित्यत आह– नावैदिकमिति । वेदातिरिक्तसर्वाध्ययननिषेधपरता किं न स्यादत्राह– ऋग्वेदमिति । श्रोतव्य इति । एवं च ‘श्रुतिवाक्येभ्यः’ इत्यस्य श्रुतिरूपाणि वाक्यानीति श्रुतिमूलानि वाक्यानीति चार्थ इति द्रष्टव्यम् । किं चायं विधिः किं तत्वनिश्चयार्थमुतान्तःकरणशुध्यर्थमथ वा अपरोक्षार्थमुताज्ञाननिवृत्त्यर्थमथ प्रयोजनान्तरार्थम् ? नाद्य इत्याह– किञ्च विप्रकीर्णेति । ननु नेतिहासादेर्वेदार्थत्व निश्चायकत्वं, वेदान्तानामनन्तत्वेन तदर्थतत्वस्यातिगहनस्य भूयस इतस्ततो विक्षिप्योक्तस्येतिहासेनाप्रतिपादनादित्यत उक्तं– विप्रकीर्णेति । तथा च नानार्थ-सङ्ग्रहरूपत्वाद् युज्यते तत्वनिश्चायकत्वमिति भावः । द्वितीयं प्रत्याह– सति चेति । तत्वनिश्चये सतीत्यर्थः । तदर्थाया इति । तत्वनिश्चयार्थाया इत्यर्थः । तृतीयं निरस्यति–आपरोक्ष्यस्येति । नन्वितिहासजन्याद् ब्रह्मज्ञानाद् वेदजन्ये ज्ञाने अधिकापरोक्ष्यस्य सद्भावान्नियमविधिः स्वीक्रियत इत्यत उक्तं– वेदजन्य इति । चतुर्थं प्रत्याह– ज्ञानस्येति । पञ्चममनुपलम्भेन पराकरोति– अन्यस्येति । उक्तमर्थं कारिकया सङ्गृह्णाति– तस्मादिति । एतेनेति । नियमादृष्टसाध्यव्यावर्त्याभावेनेत्यर्थः ॥ इति श्रवणादिविधेर्विवरणोक्तनियमविधित्व-भङ्गः ॥ २ ॥
न्यायकल्पलता
परोक्षज्ञाने कामनाभावादिति ॥ परोक्षज्ञानज्ञानं विना तत्कामनाया अयोगेन तज्ज्ञाने सति तद्विषयस्यापि ज्ञातत्वान्न तत्रेच्छा सम्भवति । सिद्धे इच्छाविरहात् ॥ स्वर्गादौ निध्यादाविति ॥ ननु स्वर्गनिधिसाधनसाक्षात्कारेऽपि विचारस्येन्द्रियसहकारित्वाद्धेतुत्वमेवेति । मैवम् । न्यायानु-सन्धानादिविचारं विना लौकिकेनालौकिकेनाञ्जनादिना पामराणामपि स्वर्गनिधिसाक्षात्कारसत्त्वात् ॥ प्रकृतविचारेति ॥ श्रुत्याद्यविरोधितदनुग्राहकन्यायानुसन्धानरूप प्रकृतविचारः ॥ अपूर्वविधीति ॥ स्वर्गविजातीयेलौकिकसुखे यागविजातीयलौकिकक्रियाया हेतुत्वदर्शनाद्यागादि रप्यपूर्वविधिर्न स्यादित्यर्थः ॥ अन्यथेति ॥ ‘व्रीहीनवहन्ति’ इत्यत्र व्रीहिशब्दस्य व्रीहिमात्रपरत्वे व्रीहिवैतुष्यमात्रेऽवघात नियम इति स्यात् । तथा चावघातः पुरुषार्थः स्यान्न तु क्रत्वर्थः । ननु ‘व्रीहीनवहन्ति’ इत्यत्र व्रीहिशब्दोऽपूर्वीयसतुषद्रव्य परोऽतो नावघातस्य पुरुषार्थता व्रीहित्वेन विदलनप्राप्तिरित्याशङ्क्य निराकरोति– न च सामान्य इति ॥ ननूभयानुगते सविशेषतया प्रमेयतायां मानान्तरप्राप्तिरस्त्येव । सजातीये प्राप्त्यापि यत्र सजातीयान्तरे नियमसम्भवस्तदा किमु वाच्यमेकस्मिन्नेवात्मन्यवस्थाविशेषेण मानान्तरप्राप्त्या विशेषान्तरे नियम इतीत्यत आह– यत्रापूर्वीयेष्विति ॥ यत्र यद्रूपेषु यदवस्थेषु भिन्नभिन्नावस्थयोः प्राप्तिनियमयोरुक्तौ वैयधिकरण्यं भिन्नविषयत्वं स्यात् । तच्चाङ्गीकारानर्हम् ।
ननु सामानाधिकरण्यासम्भवाद्वैय्यधिकरण्यमप्यवघाते प्रकृते चाऽऽश्रयणीयमत आह– सम्भवति हीति ॥ यद्रूपाणां यदवस्थानां व्रीहीणाम् अपूर्वीयत्वं तत्रैव विदलनप्राप्तिरस्ति प्रकृते तु न तथेत्यर्थः ॥ तथात्व इति ॥ अपूर्वीयेषु व्रीहिषु दलनस्य प्राप्तिश्चेद्वैतुष्यस्य तेनैव सिद्धत्वादवघातनियमायोगः । अप्राप्तिश्चेत्सुतरां तदयोगः ॥ प्रसक्तिमात्रमिति ॥ तदन्वयितावच्छेदकसम्बन्धः । स च व्रीहिष्वपूर्वीयेष्वस्ति । निर्विशेषात्मनि तु न कस्यापि सम्बन्ध इति वैषम्यम् । ननु व्रीहिवैतुष्ये साधनान्तरप्राप्तावपि नियमविषये तद्वैतुष्यविशेषे न तत्प्राप्तिरिति वैयधिकरण्यमत आह– अवघात-साध्येति ॥ अपूर्वीयेष्ववघातसामान्यसाधनप्राप्तिमात्रेण सामानाधिकरण्यम् । निर्विशेषात्मनि तु ज्ञानसामान्यसाधनस्य वेदान्तवाक्यभिन्नस्य प्राप्तिर्नेति वैषम्यम् । ग्रहणकवाक्यं सङ्ग्रहवाक्यम् ॥ परिपूर्णार्थ इति ॥ यस्मिन्पक्षे वेदान्तवाक्यं न प्राप्तं तस्मिन्नपि पूर्यते ॥ कर्मविषयकेति ॥ श्रुतेरिव स्मृतेरपि धर्मादौ प्रामाण्यात् । अन्यथा स्मृत्यनुमितश्रुतेरपि श्रुत्यन्तरतात्पर्यग्राहकत्वं स्यात् । श्रुतिविरोधे स्मृतिर्दुर्बलेत्येव स्मृतेरस्वातन्त्र्यम् ॥ समुपबृंहयेदित्यस्य त्विति ॥ इतिहासादिनैव बृंहयेन्न तु तेन बृंहयेदेवेत्यर्थः ॥ मूलप्रमाणत्वेति ॥ स्मृतीनामपि श्रुतिमूलत्वात्ताभ्यः श्रुतमपि श्रुतिभ्य एव श्रुतमिति नानेन स्मृतिनिषेधः । ‘श्रुतिवाक्येभ्यः’ इति पञ्चमी तु प्रयोजकत्वेऽपि । ‘इतिहासपुराणं पञ्चमं वेदानां वेदम्’ इत्यादिवचनादेव श्रवणनियमादृष्टस्य (किञ्चिद्विषया)-किंविविदिषाद्वारा ज्ञानहेतुभूतायाम् अन्तःकरणशुद्धावुपयोगो वा (शबला) ब्रह्मापरोक्षे वा तद्विशेषे वा तज्जन्याज्ञाननिवृत्तौ वा मोक्षीयानन्दानुभवे वा । नाद्य इत्याह– विप्रकीर्णेति ॥ न द्वितीय इत्याह– आपरोक्ष्यस्य चेति ॥ नापि तृतीय इत्याह– वेदजन्येति ॥ न चतुर्थ इत्याह– ज्ञानस्येति ॥ न पञ्चम इत्याह– अन्यस्य चेति ॥ आनन्दानुभवादेः । एतेन ‘तमेतं वेदानुवचनेन’ इत्यादिश्रुत्या यज्ञादिजन्यादृष्टस्य नियमादृष्टस्य चान्तःकरणशुद्धावुपयोग इति निरस्तम् । यज्ञादिकर्मणां ज्ञानार्थत्वेऽपि नियमादृष्टस्य तथात्वे मानाभावात् ॥ नियमादृष्टसाध्यस्येति ॥ अपिशब्दश्चशब्दार्थे ॥ एतेनेति ॥ विषयान्तराभावादिना ॥
॥ इति श्रवणादिविधेर्विवरणोक्तनियमविधित्वभङ्गः ॥ २ ॥