०१ मनननिदिध्यासनयोर् विवरणोक्तश्रवणाङ्गत्वभङ्गः

नन्वेतदयुक्तं विवरणे श्रवणमङ्गि, प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात्

तृतीयः परिच्छेदः

१. मनननिदिध्यासनयोर् विवरणोक्तश्रवणाङ्गत्वभङ्गः

न्यायामृतं

नन्वेतदयुक्तं विवरणे श्रवणमङ्गि, प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात् । मनननिदिध्यासने तु चित्तस्य प्रत्यगात्मप्रवणसंस्कारपरिनिष्पन्नतदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभवहेतुतां प्रपद्येते इति फलतोपकार्यङ्गे इत्युक्तत्वादिति चेन्न ।यतो

विचारः करणं नैव बोधे शब्दप्रमाणजे ।

न चायं सन्निपत्याङ्गं शब्दस्य करणात्मनः ॥

करणान्तर्गतो येन विचारो हन्तिवद्भवेत् ।

सन्निपात्यपि नैवासौ शेषी मत्यादिकं प्रति ॥

अन्यथा हि भवेद्धन्तेः प्रयाजान्प्रति शेषिता ।

हीषादेश्च यथा भिन्नफले सौभरशेषिता ॥

श्रवणादेस्तथा भिन्नफले स्याच्छब्दशेषिता ।

तस्मान्न युक्ता मत्यादेः श्रवणं प्रति शेषिता ॥

तथा हि– न तावच्छ्रवणरूपो विचारः शाब्दज्ञाने करणं वेदेन धर्म इव ब्रह्मणि प्रमीयमाणे विचारस्यानुमानादौ तर्कस्येव शब्दरूपे शब्दज्ञानरूपे वा करणे इति कर्तव्यमात्रत्वात् । एतेन ‘अनुमितौ लिङ्गज्ञानवत् शाब्दज्ञाने तात्पर्यविशिष्टशब्दज्ञानं करणम्’ इति विद्यासागरोक्तं निरस्तम् । आकाङ्क्षादियुक्तशब्दज्ञानस्यैव करणत्व-सम्भवेऽपि विवरणे अन्योन्याश्रयात् शाब्दप्रमाकरणतां निषिध्य तात्पर्यभ्रमरूपप्रतिबन्ध निरासोपक्षीणतयोक्तस्य तात्पर्यज्ञानस्यापि करणकोटित्वे मननादेरपि तदापत्तेः । किञ्च तात्पर्यज्ञानस्यापि करणत्वे वेदेऽपि तात्पर्यभ्रमसम्भवात् । बाह्यागमेऽपि तात्पर्य-प्रमासम्भवात् शाब्दज्ञानकरणस्य दुष्टत्वादुष्टत्वव्यवस्था न स्यात् । तस्मान्न तात्पर्य-ज्ञानं करणम् । न चाकरणमपि तद्यागस्यावघातादिकमिव शब्दस्य सन्निपत्योपकारकं येन करणकोटिनिविष्टं स्यात् । तद्वत्करणीयद्रव्यशेषत्वादेरभावात् ।

किञ्च सन्निपत्योपकारकत्वेऽपि न फलोपकारकमनननिदिध्यासनरूपाङ्गं प्रति शेषिता, अन्यथाऽवघातादिः प्रयाजादि प्रति शेषी स्यात् । एतेन ‘करणभूतशब्द-गतातिशयहेतुत्वाच्छ्रवणस्य करणत्वेनाङ्गित्वं, मनननिदिध्यासनयोस्तु सहचारिभूतचित्त-गतातिशयहेतुत्वाच्छ्रवणे फलोपकार्यङ्गता’ इति चित्सुखोक्तं प्रत्युक्तम् । सोमयाग-सहकारिभूतदीक्षणीयाद्यङ्गत्वेन तद्गतातिशयहेतोः प्रयाजप्रोक्षणादेः सोमयागे सन्निपत्याङ्ग-त्वेन तद्गतातिशयहेत्वभिषवग्रहणादिकं प्रत्यङ्गत्वप्रसङ्गात् । गौणाङ्गत्वं त्वनङ्गत्वे पर्यवस्यति । एतेन ‘करणीभूतशब्दधर्मशक्तितात्पर्यविषयत्वाच्छ्रवणस्य करणान्त-र्भावेनाङ्गित्वम्’ इति तत्त्वशुद्ध्युक्तं निरस्तम् ।

किञ्च शब्देनापरोक्षज्ञप्तावप्रतिबद्धापरोक्षज्ञप्तौ वोत्पाद्यायां मनननिदिध्यासन-योरिवापरोक्षज्ञप्तौ प्रतिबद्धापरोक्षज्ञप्तौ वोत्पाद्यायां श्रवणस्याप्यपेक्षितत्वात् त्रयाणामपि शब्दं प्रति फलोपकार्यङ्गत्वे कथं परस्परमङ्गाङ्गिभावः ? अन्यथा ‘यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत, हीषिति वृष्टिकामाय निधनं कुर्याद् ऊर्गित्यन्नाद्यकामाय ऊ इति स्वर्गकामाय’ इति श्रुतानां वृष्ट्यादिफलाय सौभरेति-कर्तव्यताभूतानां निधनगतहीषादीनां परस्परमङ्गाङ्गिभावः स्यात् । करणापूर्वोत्पत्तौ च यागार्थस्यावघातादेः परमापूर्वोत्पत्तौ तदर्थप्रयाजादिः शेषः स्यात् । कप्तं च परोक्षज्ञानं लोके शब्दफलम् । न चाकरणमपि श्रवणं प्रति निदिध्यासनस्याङ्गत्वे श्रुतिवाक्ये स्तः । लिङ्गं तु विपरीतम् । नापि प्रकरणम्, श्रवणस्य फलासम्बन्धेन प्राधान्यासिद्धावितिकर्तव्यताकाङ्क्षायोगात् । स्थानसमाख्ये त्वसम्भाविते ।

किञ्च तात्पर्यज्ञानस्य शाब्दप्रमाहेतुतायास्त्वया निषेधात्तदर्थस्य विचारस्य कथं प्रमाफलम्, येन मननादेः फलोपकार्यङ्गता स्यात् । यच्चोक्तं– ‘मननस्य चित्तैकाग््रया-योग्यत्वरूपासम्भावनानिरसनं द्वारं निदिध्यासनस्य तु विपरीतसंस्काररूपविपरीत-भावनानिरसनं द्वारम्’ इति । तन्न । सूक्ष्मवस्तुज्ञाने चित्तैकाग््रयस्य हेतुत्वे दृष्टेऽपि युक्त्यनुसन्धानरूपमननस्यायुक्तत्वशङ्कानिवर्तकताया एव दृष्टत्वेन तद्रहिते उक्तायोग्यत्व-शङ्कानिवर्तकताया अदृष्टत्वेन च दृष्टहानाद्यापातात् । मननविधेरपूर्वविधित्वापाताच्च । ‘मतिर्यावदयुक्तता’ इत्यादिस्मृतिविरोधाच्च । निदिध्यासनस्य तु विपरीतसंस्कार-निवर्तकत्वे दृष्टेऽपि तन्निवृत्तेर्न ज्ञानहेतुता दृष्टा । रूप्यसंस्कारानुवृत्तावपि शुक्ति-साक्षात्कारदर्शनात् । तस्माच्छ्रवणसामर्थ्यरूपलिङ्गेन ‘ततस्तु तं पश्यते निष्कलं ध्यायमानः’ इत्यादि वाक्येन निदिध्यासनस्य फलसम्बन्धात् प्रकरणेन च श्रवणादिकं निदिध्यासने सन्निपात्यङ्गम् । युक्तश्च विप्रकृष्टात्फलोपकारात् सन्निकृष्टः स्वरूपोप-कारः । अत एव नवमे पार्वणहोमयोरारादुपकारकत्वत्यागेन सन्निपत्योपकारकतोक्ता । न च ‘द्रष्टव्यः श्रोतव्यः’ इति दर्शनाव्यवहितपाठरूपसन्निधानाच्छ्रवणस्य दर्शनान्वयः । सन्निधानस्य लिङ्गादितो दुर्बलत्वात् । किञ्च ‘श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञान-विपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’ इति स्मृत्या श्रवणस्याज्ञान-निवृत्तिद्वारा, मननस्य तु संशयविपर्ययनिवृत्तिद्वारा परोक्षतत्त्वनिश्चयसाध्ये साक्षात्कार-फलके निदिध्यासनेऽङ्गता सिद्धा । तदुक्तम्–

अपरोक्षदृशिश्चैव श्रवणान्मननादनु ।

सम्यङि्नश्चिततत्त्वस्य निदिध्यासनया भवेत् ॥ इति ।

उक्तं च सुधायां ‘निदिध्यासनं ब्रह्मदर्शनसाधनं तत्सिद्धये श्रवणमनने अपि कर्तव्ये’ इति । न च भावनाप्रकर्षजन्यत्वेन साक्षात्कारस्य कामुकस्य कामिनो-साक्षात्कारवदप्रमात्वापातः, त्वयापि–

वेदान्तवाक्यजज्ञानभावनाजापरोक्षधीः ।

मूलप्रमाणदार्ढ्येन प्रामाण्यं प्रतिपद्यते ॥ इत्युक्तेः ।

न च निदिध्यासनस्य प्रमाकरणत्वम् असिद्धमिति वाच्यम् । त्वया प्रतिबन्ध-निरासकत्वेनोक्तस्य श्रवणस्यापि तदसिद्धेः । निदिध्यासनानन्तरं पुनरनुस्मृतः शब्द एव करणं, निदिध्यासनं तु तत्सहकारि, श्रवणादि तु निदिध्यासनाङ्गमिति सम्भवाच्च । अथवा श्रवणाद्यङ्गकनिदिध्यासनम् अपरोक्षज्ञानकरणमनः सहकारी । तस्मात्–

ध्याने श्रुत्यादिभिः साक्षात्काररूपफलान्विते ।

मननश्रवणे ओ निरस्याज्ञानसंशयौ ॥

न तु विवरणमत इव श्रवणमङ्गि निदिध्यासनादिकं तु तदङ्गम् ॥ इति मनन-निदिध्यासनयोर्विवरणोक्तश्रवणाङ्गत्वभङ्गः ॥ १ ॥

अद्वैतसिद्धिः

तदेवमैकात्म्ये व्यवस्थिते तत्साक्षात्काराय श्रवणमङ्गि, मनननिदिध्यासने तदङ्गतया मुमुक्षुभि-रनुष्ठेये । तदुक्तं विवरणे– ‘श्रवणमङ्गि, प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात्, मनननिदिध्यासने तु चित्तस्य प्रत्यगात्मप्रवणसंस्कार परिनिष्पन्नतदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभवहेतुतां प्रतिपद्येते’ इति फलोपकार्यङ्गे । ननु श्रवणं तावद्विचाररूपं शाब्दज्ञाने न करणम्, वेदेन धर्म इव ब्रह्मणि प्रमीयमाणे विचारस्यानुमानादौ तर्कस्येव शब्दरूपे तज्ज्ञानरूपे वा करणे इतिकर्तव्यमात्रत्वादिति चेन्न, शब्दशक्तितात्पर्यावधारणं तावद् विचारः । अवधृततात्पर्यकश्च शब्दः करणमिति विचारस्य करणकोटिप्रवेशेनेतिकर्तव्यतात्वाभावाद् अङ्गित्वनिर्णयात् । तदुक्तं विद्यासागरे– ‘अनुमितौ लिङ्गज्ञान-वत्तात्पर्यविशिष्टशब्दज्ञानं करणम् । अतस्तात्पर्यावधारणरूपविचारस्याङ्गित्वम् । न चाकाङ्क्षादिसहित शब्दज्ञानस्यैव करणत्वसम्भवे तात्पर्यभ्रमनिरासोपक्षीणतयोक्ततात्पर्यज्ञानस्य करणकोटिप्रवेशे मननादेरपि तत्कोटिप्रवेशः स्यादिति युक्तम् । एवं साकाङ्क्षादिधियोऽपि निराकाङ्क्षत्वादिभ्रमनिरासकत्व-मात्रेणोपयोगापत्तौ आकाङ्क्षादिकमपि करणकोटिप्रविष्टं न स्यात् । न चान्योन्याश्रयः । सामान्यतोऽर्थाव-गमनेन तात्पर्यग्रहसम्भवात् । अन्यथा नानार्थादौ विनिगमनादिकं च न स्यात् । तथा च सर्वत्र तात्पर्यज्ञानस्याजनकत्वेऽपि यत्र तात्पर्यसंशयविपर्ययोत्तरं शाब्दधीः, तत्र तात्पर्यज्ञानस्य हेतुता ग्राह्या संशयविपर्ययोत्तरप्रत्यक्षे विशेषदर्शनस्येव । अत एव न विवरणविरोधोऽपि ।

ननु तात्पर्यज्ञानस्य करणकोटिप्रवेशे वेदेऽपि तात्पर्यभ्रमसम्भवाद् बाह्यागमेऽपि तात्पर्यप्रमासम्भवात् शाब्दज्ञान करणस्य दुष्टत्वादुष्टत्वव्यवस्था न स्यादिति चेन्न, वेदे कदाचित् कस्यचित् कुत्रचित्तात्पर्य-भ्रमेऽपि निर्दुष्टत्वेन यथार्थतात्पर्यमस्त्येव, परागमे तु पौरुषेयतया प्रतारणादिमत्पुरुषप्रणीततया दुष्टत्वेन न तथेति दुष्टत्वादुष्टत्वव्यवस्थासम्भवात् । तात्पर्यांशस्यावघातादेरिव योगे, शब्दे सन्निपत्योपकारकतया करणकोटिप्रविष्टत्वेनाङ्गित्वम् । न च दृष्टान्ते करणद्रव्यशेषत्वात् तथा, सर्वसाम्यस्य दृष्टान्तत्वा-प्रयोजकत्वात् । ननु सन्निपत्योपकारकत्वेऽपि न फलोपकारकमनननिदिध्यासनरूपाङ्गं प्रति शेषिता, अन्यथा प्रयाजादिकं प्रत्यवघातादिः शेषी स्यादिति चेन्न, विशिष्टयागप्रविष्टतया शेषित्वे इष्टापत्तेः । असाधारण्येन शेषिता तु असाधारणफलोपकारकत्वे स्यात्, असम्भावनाविशेषनिवृत्तिरूपा-साधारणोपकारजनकत्वात् सापि श्रवणस्य सम्भावितैव । अत एवोक्तं चित्सुखाचार्यैः– ‘करणी-भूतशब्दगतातिशयहेतुत्वात् श्रवणस्य करणत्वेनाङ्गित्वम्, मनननिदिध्यासनयोस्तु सहकारि भूतचित्तगतातिशयहेतुत्वात् फलोपकार्यङ्गता’ इति । न चैवं सोमयागसहकारिभूतदीक्षणीयाद्यङ्गस्य तद्गतातिशयहेत्वभिषवग्रहणादिकं प्रत्यङ्गत्वप्रसङ्ग इति वाच्यम् । पूर्ववदुक्तोत्तरत्वात् । तदुक्तं तत्त्वशुद्धौ– ‘करणीभूतशब्दधर्मशक्तितात्पर्यविषयत्वात् श्रवणस्य करणान्तर्भावेनाङ्गित्वम्’ इति ।

न च शब्देनापरोक्षज्ञप्तौ अप्रतिरुद्वापरोक्षज्ञप्तौ चोत्पाद्यायां मनननिदिध्यासनयोरिव परोक्षज्ञप्तावप्रतिरुद्धपरोक्षज्ञप्तौ चोत्पाद्यायां श्रवणस्याप्यपेक्षिततया त्रयाणामपि फलोपकार्यङ्गत्वमेवेति कथं परस्पराङ्गाङ्गिभाव इति वाच्यम् । मनन निदिध्यासने फले जनयितव्ये शब्दस्य सहकारिणं सम्पादयतः । श्रवणं तु तस्य जनकतामेवेति विशेषात् । यत्र च नैवं, तत्र तुल्यवदङ्गतैव । एतेन– ‘यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत, हीषिति वृष्टिकामाय निधनं कुर्याद् ऊर्गित्यन्नाद्यकामाय ऊ इति स्वर्गकामाय’ इति श्रुतानां वृष्ट्यादिफलाय सौभरेतिकर्तव्यतानिधन-गतहीषादीनां श्रवणमननादिवत् परस्परमङ्गाङ्गिभावप्रसङ्ग इति निरस्तम् । करणस्वरूपसम्पादकत्व–सहकारिसम्पादकत्वरूपतत्प्रयोजकस्यात्रेव तत्राभावात् । न चैवं करणापूर्वोत्पत्तौ यागार्थस्यावघातादेः परमापूर्वोत्पत्तौ तदर्थः प्रयाजादिः शेषः स्यादिति वाच्यम् । एकफल उभयोर्यागार्थत्वाभावेन विशेषात् । ननु कप्तं परोक्षज्ञानं लोके शब्दस्य फलम् । तथा च शब्दातिशयाधायकस्य श्रवणस्य साक्षात्कार-फलजनकाङ्गित्वं कथमिति चेत्, साक्षात्त्वं न जातिर् न वा इन्द्रियजन्यत्वादिकं नियामकम्, किन्तु विषयगताज्ञाननिवर्तकत्वमेवापरोक्षत्वे प्रयोजकम् । तथा चाज्ञाननिवर्तकत्वं विषयपर्यन्तत्वेन । तच्चात्मपर्यन्तत्वादत्रास्त्येवेति नादृष्टकल्पना । इत्थं च प्रकरणबलादपि सिद्धमस्याङ्गित्वम् । श्रवणस्य फलसम्बन्धेन प्राधान्यसिद्धावितिकर्तव्यताकाङ्क्षायाः सम्भवात् ।

ननु यद्यपि चित्तैकाग््रयस्य सूक्ष्मवस्तुज्ञानहेतुत्वं दृष्टमस्ति, तथापि मननं न चित्तैकाग््रयहेतुर् युक्त्यनुसन्धानरूप मननस्यायुक्तत्वशङ्कानिवर्तकताया एव दृष्टात्वेन चित्तैकाग््रयहेतुत्वकल्पने सति दृष्टहान्यापत्तेर् मननविधेरपूर्वविधित्वापाताच्च ‘मतिर्यावदयुक्तता’ इति स्मृतिविरोधाच्चेति चेन्न, तादृक्छङ्कायां सत्यां नानाकोटौ चित्तविक्षेपस्य तस्याश्च निवृत्तौ युक्तत्वेनावधारणविषयकोटौ चित्त-प्रवणतायास्तावत्पर्यन्तत्वस्य दृष्टत्वेन दृष्टहान्यपूर्वविधिस्मृतिविरोधाभावात् । निदिध्यासनस्य तु विपरीतभावनानिवर्तकता सकलसिद्धा । ननु तन्निवृत्तेर् न ज्ञानहेतुता दृष्टा । रूप्यसंस्कारानुवृत्तावपि शुक्तिसाक्षात्कारदर्शनादिति चेत्, ‘इयं शुक्तिः’ इति ज्ञानानन्तरं तद्रजततया ज्ञातमिति स्मृतेर्ज्ञानगोचरसंस्कारसत्त्वेऽपि तद्रजतमित्यस्मरणेन विपरीतसंस्कारनिवृत्तेस्तत्रापि सत्त्वात् ।

ननु शब्दसामर्थ्यरूपलिङ्गेन ‘ततस्तु तं पश्यते निष्कलं ध्यायमान’ इत्यादिवाक्येन निदिध्यासनस्य फलसम्बन्धात् प्रकरणेन च श्रवणादिकं निदिध्यासने सन्निपत्याङ्गमिति चेन्न । निदिध्यासनपदस्य ‘बर्हिर्देवसदनम्’ इत्यादाविव साक्षात्काररूपफलसम्बन्धे न शक्तिरिति शब्दसामर्थ्याभावात् । वाक्येऽपि योग्यताबलाच्छ्रवणमेवाध्याह्नियते । तथा च तच्छ्रवणाद् ध्यायमानो निष्कलं ब्रह्म पश्यतीत्यनुकूलार्थस्यैव पर्यवसानात् । तस्मात् ‘द्रष्टव्यः श्रोतव्यः’ इति दर्शनेनाव्यवहितपाठरूपसन्निधानात् श्रवणस्य दर्शनेन साक्षादन्वयाङ्गित्वम् । किञ्च निदिध्यासनरूपभावनाप्रकर्षजन्यत्वे साक्षात्कारस्य कामिनीसाक्षात्कारवद् अप्रमात्वापातः । न च मूलप्रमाणदाढ्यर्यात् प्रमात्वं तर्हि तदेव साक्षात् करणमस्तु ? किं तदुपजीविनान्येन ? एतेन निदिध्यासनसहकृतमनःकरणत्वमपि निरस्तम् ॥ इत्यद्वैतसिद्धौ मनननिदिध्यासनयोः श्रवणाङ्गत्वम् ॥ १ ॥

न्यायामृततरङ्गिणी

सद्गुणाङ्कुरधृतार्वसद्गुणं दूरदोषमुरुदोषमप्यलम् ।

पार्थसारथिमपार्थसारथिं नन्दनन्दनतिसाधनं नुमः ॥ १ ॥

निदिध्यासनमङ्गि श्रवणादिकमङ्गमित्येतदाक्षिपति– नन्वेतदिति ॥ विवरणे इति ॥ नन्वपरोक्षफलोदये निदिध्यासनाङ्गतैव श्रवणमननयोः किं न स्यात् । त्रयाणामपि सन्निपत्योपकाराविशेषात् । दर्शपूर्णमासवत्समप्रधानता वा किं न स्यादिति । उच्यते । शक्तितात्पर्यविशिष्टशब्दावधारणं प्रमेयावगमं प्रत्यव्यवधानेन करणं भवति । प्रमाणस्य प्रमेयावगमं प्रतीत्याद्युक्तम् ॥ मनननिदिध्यासने इति ॥ तत्रापि मननस्य चित्तैकाग््रयायोग्यरूपासम्भावना निरसनद्वारेण चित्तस्य प्रत्यगात्मैकाग्रवृत्तिहेतुत्वं, निदि-ध्यासनस्य तु विपरीतसंस्काररूपविपरीतभावनानिरसनद्वारा तद्धेतुत्वम् ॥ प्रत्यगात्मेति ॥ प्रत्यगात्मप्रवणतालक्षणो यः संस्कारस् तेन परिनिष्पन्ना या ब्रह्मैकाग््रयलक्षणावृत्तिः सैव कार्यं तद्द्वारेणेत्यर्थः ॥ इतीति ॥ फलं प्रत्यव्यवहितस्य कारणस्य विशिष्टशब्दावधारणस्य व्यवहिते मनननिदिध्यासने इति हेतोरित्यर्थः । शक्तितात्पर्यविशिष्टशब्दावधारणरूपस्य श्रवणस्य ब्रह्मानुभवं प्रति साक्षाद्धेतुत्वेन करणत्वमित्युक्तं दूषयति– विचार इति ॥ शाब्दज्ञाने शब्दस्य तज्ज्ञानस्य वा साक्षात्कारणत्वं नान्यस्य । ननु शक्त्यादीनां सन्देहादौ सति शाब्दज्ञानाभावेन विशिष्टस्य हेतुत्वे वाच्ये विशेषणस्यापि हेतुत्वेन व्यवधानद्वाराऽवघाततण्डुलादेरिव करणान्तर्गतिरस्तीत्यतः करणवदेव शेषित्वं भविष्यतीत्यत आह– न चेति ॥

अस्तु वा करणान्तर्गतिः शक्त्याद्यवधारणस्य तथापि न तस्य शब्दवन्मत्याद्यपेक्षया शेषित्वमित्याह– सन्निपात्यपीति ॥ प्रधानं प्रति सन्निपात्यङ्गस्यारादुपकारकाङ्गानां च परस्परमङ्गाङ्गित्वाभावात् । अन्यथाऽवघातं प्रति प्रयाजादेः शेषत्वं स्यादित्यर्थः । तर्ह्याग्नेयादिवत् त्रयाणामपि प्राधान्यमस्त्वित्यत आह– हीषादेरिति ॥ सौभराख्येन साम-विशेषेण वृष्टावन्नाद्ये स्वर्गे च फले जननीये सति हीष् ऊर्क ऊ इत्येषां सौभराख्यसाम-समाप्त्यवयवानां सौभरेण वृष्टौ जननीयायां ‘हीष्’ इत्येतस्य अन्नाद्ये जननीये, ‘ऊर्क’ इत्येतस्य स्वर्गे जननीये, ‘ऊ’ इत्येतस्य सौभरं प्रत्येव यथाऽङ्गत्वं तथा शब्देन परोक्षज्ञाने जननीये शक्त्याद्यवधारणरूपविचारस्याङ्गत्वम् । अपरोक्षज्ञाने शब्देन जननीये मननादे-रङ्गत्वमिति शब्दं प्रत्येव त्रयाणामङ्गत्वं वक्तुं युक्तम् । न तु परस्पराङ्गत्वम् । अन्यथा हीष् इत्यादीनामपि परस्पराङ्गत्वं स्यात् ॥ भिन्नफले इति ॥ शब्देन जननीय इति शेषः । स्याच्छब्दोऽनास्थायाम् । निदिध्यासनं प्रति श्रवणादेरङ्गत्वस्य वक्ष्यमाणत्वात् । मौनिश्लोकादौ शब्दाभावादाह– शब्दज्ञाने वेति ॥ शक्त्यवधारणस्य विचारात्पूर्वभावित्वेन विचारानन्त-र्गतत्वात्तात्पर्यावधारणमेव तदन्तर्गतमिति मत्वाऽऽह– तात्पर्यविशिष्टेति ॥ अन्योन्याश्रया-दिति ॥ तात्पर्यविषयशब्दार्थमज्ञात्वा तत्र तात्पर्यस्य ग्रहीतुमशक्यत्वात्तात्पर्यज्ञाने शाब्दज्ञानापेक्षा तस्मिंश्च तात्पर्यज्ञानापेक्षेत्यन्योन्याश्रयः । नन्वेवमाकाङ्क्षादिधियोऽपि निराकाङ्क्षत्वादिभ्रमनिरासिका एव न तु शाब्दधीहेतव इति स्यात् । न स्यात् । निराकाङ्क्षत्वादिज्ञानाभावेऽप्याकाङ्क्षादिज्ञानं विना शब्दज्ञानाभावस्यानुभवसिद्धत्वात् । ननु तात्पर्यज्ञानाहेतुत्वे कथं नानार्थे विनिगमना । अन्वयविशेषयोग्यतयेति गृहाण ।

यत्तु ग्राह्यसंशयविपर्ययोत्तरप्रत्यक्षे विशेषदर्शनमिव तात्पर्यसंशयोत्तरशाब्दज्ञाने तात्पर्यधीः कारणमिति, तन्न । उभयत्रोभयस्य प्रतिबन्धनिरासमात्रोपयोगित्वेनाहेतुत्वात् । तदिदमुक्तं प्रतिबन्धनिरासेत्यादि । तात्पर्यभ्रमस्य प्रतिबन्धकत्वं च कार्यबलान्मणिमन्त्रादिवत् । अत एव साक्षादविरोधिनो ज्ञानस्य जनकज्ञानविघटकतयैव प्रतिबन्धकत्वमित्यादेरनवकाशः ॥ बाह्यागमेऽपीति ॥ शब्दार्थस्य बाधितत्वेऽपि तद्वक्तुस्तत्र तात्पर्यमबाधितमेव ॥ दुष्टत्वेति ॥ ज्ञानरूपेषु ज्ञानकरणेषु भ्रमरूपं दुष्टं प्रमारूपमदुष्टमित्यन्यत्र दृष्टा व्यवस्था न स्यात् । यादृच्छिकसंवादिलिङ्गविभ्रमस्य तु दुष्टत्वमेव । स्वव्यापकभ्रमहेतुत्वात् । तत्र प्रतीतस्य तदव्यापकत्वात् । ननु वेदे कुत्रचिदेव तात्पर्यभ्रमो बाह्यागमे तु कुत्रचिदेव तत्प्रमेति । मैवम् । यत्रैव तद्भ्रमप्रमे तदंश एव तयोर्दुष्टत्वादुष्टत्वापातात् ॥ करणीयेति ॥ करणं द्व्यवदानयागः । तस्य द्रव्यं व्रीह्यादि । तत्रावघातादेः शेषत्वं यथाऽस्ति तथा प्रकृते नास्तीत्यर्थतात्पर्यावधारणं शब्दं प्रति न सन्निपात्यङ्गमित्यर्थः ।

यत्तु दृष्टान्ते सर्वसाम्यं नापेक्षितमतोवघातवैषम्येपि तात्पर्यावधारणं शब्दं प्रति न सन्निपत्याङ्गमेवेति । तन्न । मीमांसकप्रक्रियालेशस्याप्यज्ञानेनोक्तत्वात् ॥ सन्निपत्येति ॥ दृष्टार्थानि क्रियारूपाणि स्वकारकस्योत्पत्त्यादि कुर्वन्ति अदृष्टार्थानि सन्निपातीनि तु स्वकारकेष्वतिशयमादधति तत्तदङ्गभावमनुभवन्ति तात्पर्यावधारणं त्वनुभयं कथं सन्निपाति स्यात् ॥ अन्यथाऽवघातादिरिति ॥ ननु विशिष्टयागप्रविष्टतयाऽवघातस्य शेषित्वमिष्टमेव । असाधारण्येन शेषिता तु न । असाधारण्येन फलोपकारत्वाभावादिति । न । श्रवणत्वेन श्रवणस्य शेषित्ववदवघातत्वेनावघातस्य प्रयाजादिशेषित्वस्यापाद्यमानत्वात् ॥ एतेनेति ॥ प्रधानं प्रति सन्निपत्योपकारकस्य प्रधानोपकारकान्तरापेक्षया शेषित्वेऽवघातादेः प्रयाजाद्यपेक्षया शेषित्वापातेनेत्यर्थः । ननु प्रयाजादिकं यागस्यैव सहकारि मननादिकं तु शब्दसहकारिभूतस्य चित्तस्य सहकारीति वैषम्यमित्यत आह– सोमयागेति ॥ ‘सोमम् अभिषुणोति, ‘आश्विनं गृह्णाति’ इत्यादिना विहितमभिषवग्रहणादिकं सोमयागे सन्निपात्यङ्गम् । अत एवाभिषवादिकं करणभूते शब्दस्थानीये सोमयागे अतिशयाधायकं करणान्तर्गततात्पर्यावधारणस्थानीयं तत्प्रति सोमयागसहकारिभूताया दीक्षणीयचित्तस्थानीयान्तरगम् । अत एव तद्गतातिशयहेतुः प्रयाजप्रोक्षणादिमननादिस्थानीयम् अङ्गं स्यात् ।

नन्वभिषवादियुक्तसोमयागं प्रत्यङ्गस्य प्रयाजादेरभिषावादिकं प्रत्यपि तदस्त्येवेति वदन्तं प्रत्याह– गौणाङ्गत्वमिति ॥ श्रुत्यादिगम्येऽङ्गत्वे तद्विनापि कल्पनेऽतिप्रसङ्गः । शब्दा-दापरोक्ष्यं वदता शब्दत्रयाणामङ्गत्वं वक्तुं युक्तमित्याह– किञ्चेति ॥ अन्यथेति ॥ अनेकफलानि साधयतैकेन तत्तत्फले जनयितव्येऽपेक्षितानां सहकारिविशेषाणां परस्परमङ्गाङ्गि-भावाङ्गीकार इत्यर्थः । सौभरेण सौभरनामकेन साम्ना । निधनं साम्नोन्त्योवयवः । द्वितीयस्य चतुर्थेऽभिहितम् । ‘सौभरे पुरुषश्रुतेर्निधने कामसंयोगः’ । ब्रह्मसामाख्यं स्तोत्रं प्रकल्प्य तदाश्रितं सौभरं फलत्रयसाधनत्वेन ‘यो वृष्टिकामः’ इति वाक्येन विधाय वृष्ट्यादिसाधने सौभरे निधनसाधनत्वेन हीषादयो हीषादिवाक्येन विहिताः । तत्र संशयः । किं हीषादयो निधनविशेषाः सौभरफलात्फलान्तरार्थेन विधीयन्ते उत सौभरस्यैव तत्तत्फलं साधयतस् तत्तन्निधनमनियमेन पाठतः प्राप्तं नियम्यत इति । तदर्थं किं वृष्टिकामादिशब्दोक्तपुरुषशेषत्वेनैते साक्षाद्विधीयन्ते उत वृष्टिसाधनसौभरशेषत्वेनेति । तत्र वृष्टिकामादिशब्दैः पुरुषस्य श्रुतत्वात्तादर्थ्यमेव हीषादीनां चतुर्थ्या विज्ञायते । पुरुषशेषता च तदभिलषितफलसाधनतयेति फलार्थत्वमेवैषाम् । वृष्टिकामशब्देन वृष्टिकामस्येच्छाविषयवृष्टिसाधनसौभरोक्तौ लक्षणा स्यात् । न च श्रुतिसम्भवे सा युक्ता । तस्माद्धीषादयो गुणाः सौभरफलाद्वृष्ट्यादेर्भिन्नस्य हेतव इति ।

अत्राहुः । वृष्ट्यादीनि पूर्वोक्तान्येव विपरिवर्तमानानि प्रत्यभिज्ञायन्त इति न फलान्त-रावगमः । किञ्च हीषादिशब्दमात्रे फलाय विहिते सत्याश्रयापेक्षाया न तावन्निधनमाश्रयो भवितुं युक्तम् । तस्याप्रकृतत्वात् । नापि सौभरम् । प्रकृतत्वेऽप्यनेकावयवत्वान्नियमेन निधनसम्बन्धायोगात् । तथात्वे निधनमित्यनर्थकं स्यात् । निधनस्यापि विधाने वाक्यभेदः । तस्माद्वृष्टिकामादिशब्दलक्षिते सौभरे निधनत्वेनैवानियतप्राप्ता हीषादयो नियम्यन्ते । अथवा लक्षणापि नास्ति । न हि यदेव फलस्य कारणं तस्यैव पुरुषशेषत्वं तदङ्गस्यापि तद्द्वारेणास्ति पुरुषशेषिता । तथा च प्रयोगो दृश्यते । ‘वासिष्ठानां नाराशंसो द्वितीयः प्रयाजः’ इति । सौभराङ्गभूतास्तद्द्वारेण वृष्टिकामादीनां पुरुषाणामनियमेन शेषभूताः प्राप्तास्तानेव प्रति यथा प्राप्तरूपा नियम्यन्त इति न लक्षणा । तदुक्तम्–

‘तस्मात्फलान्तरार्थेन नैव हीषादयो गुणाः ।

विधीयन्ते नियम्यन्ते ते यथा प्राप्तसौभर’ ॥ इति ।

एकस्य भिन्नभिन्नकार्यजननेऽपेक्षितानां भिन्नभिन्नसहकारिणां परस्परमङ्गाङ्गिभावे दूषणान्तरमाह– करणापूर्वेति ॥ यागेन करणापूर्वे जननीयेऽवघातादिः सहकारी । परमापूर्वे तु जननीये प्रयाजादिः सहकारी । न त्ववघातादिकं प्रति प्रयाजादिः शेषः । त्वद्रीत्या तु स्यादित्यर्थः । करणापूर्वं नाम प्रधानमात्रेण जननीया पूर्वम् । साङ्गेन तेन जननीयं तु परमापूर्वमिति । ननु शब्दस्य परोक्षज्ञानं प्रति हेतुत्वे तदवच्छेदेन श्रवणस्य शब्दं प्रत्यङ्गत्वं स्यात्तदेव तु नास्तीत्यत आह– कप्तं चेति ॥ एतेन यागेऽपूर्वभेदवत्प्रकृते न कार्यभेद इति निरस्तम् । नन्वकरणमपि प्रयाजादिकं प्रत्याज्यग्रहणादेरिव श्रवणं प्रति मननादेरङ्गत्वं भविष्यतीत्यत आह– न चाकरणमपीति ॥ चतुर्जुह्वां गृह्णाति प्रयाजेभ्यस्तदित्यादेरिवात्र श्रुत्यादेरभावात् ॥ लिङ्गन्त्विति ॥ श्रुतस्यार्थस्य मन्तव्यादिरूपतया श्रवणस्य मननाद्युप-कारकत्वरूपसामर्थ्यवन्मननध्यानयोः श्रोतव्यत्वाभावेन तयोस्तथासामर्थ्याभावाद्विपरीतं लिङ्गं सामर्थ्यम् ॥ प्रकरणमिति ॥ इतिकर्तव्यताकाङ्क्षा प्रकरणम् ॥ श्रवणस्येति ॥ तात्पर्याव-धारणरूपश्रवणस्य शाब्दप्रमारूपफलाहेतुत्वात् ॥ स्थानेति ॥ स्थानं सादेश्यम् । समाख्या यौगिकी सञ्ज्ञा ।

ननु तात्पर्यावधारणरूपश्रवणस्य शाब्दप्रमां प्रत्यहेतुत्वेनाप्रधानतयेतिकर्तव्यता-रूपाकांक्षाविरहेऽपि तात्पर्यावधारणहेतोर्विचारस्य शाब्दप्रमाहेतुत्वादिकं स्यादित्यत आह– किञ्चेति ॥ मननादेः शाब्दज्ञानेऽहेतुत्वेन श्रवणं प्रति मतयोः फलोपकार्यङ्गत्वमित्याह – यच्चोक्तमिति ॥ तत्र मननस्य न शाब्दज्ञानहेतुत्वं द्वाराभावादित्याह – सूक्ष्मेति ॥ चित्तैकाग््रयस्य शाब्दज्ञानविशेषत्वेऽपि न तस्य मननसाध्यत्वम् । किन्त्वयुक्तत्वं शङ्कानिवृत्तिरेव तत्साध्या । तद्रहिते अयुक्तत्वशङ्कारहिते ॥ उक्तेति ॥ चित्तैकाग््रयम् ॥ शङ्केति ॥ असम्भावनेत्यर्थः । अयुक्तत्व शङ्कानिवृत्तिस्तु मननद्वारा । तस्याः प्रतिबन्धकाभाव-रूपत्वादिति भावः ॥ मननविधेरिति ॥ चित्तैकाग््रयस्य मननसाध्यताया मानान्तराप्राप्तत्वात् ॥ मतिरिति ॥ अयुक्तत्वशङ्कानिवर्तकत्वमेव मनने प्रतीयते । न तु चित्तैकाग््रयहेतुत्वम् । निदिध्यासनस्यापि न शाब्दधीहेतुत्वम् । द्वाराभावादित्याह– निदिध्यासनस्येति ॥ रूप्येति ॥ ननु इयं शुक्तिरिति ज्ञानानन्तरं तद्रजततया ज्ञातमिति स्मृतेर्ज्ञानगोचरसंस्कार-सत्त्वेऽपि तद्रजतमिति स्मरणेन विपरीतसंस्कारनिवृत्तिस्तत्राप्यस्तीति । मैवम् । रूप्य-संस्कारसत्त्वेन शुक्तिसाक्षात्कारवत्प्रपञ्चसंस्कारसत्त्वेऽपि ब्रह्मसाक्षात्कारसम्भवात् । तत्प्रवृत्ति-निदिध्यासनस्य द्वारमित्युक्तावेतस्य व्यधिकरणत्वात् ॥ श्रवणसामर्थ्येति ॥ श्रुतार्थस्यैव मतस्यैव ध्यातव्यत्वात् ॥ निदिध्यासनस्येति ॥ फलसाधनस्यैवेतिकर्तव्यताकाङ्क्षारूपप्रकरणं फलसाधनं च निदिध्यासनमेव ‘ततस्तु तं पश्यत’ इति वाक्यात् ।

ननु श्रवणमनने ध्यानं प्रति लिङ्गप्रकरणाभ्यां सन्निपात्यङ्गे इति न युक्तम् । तयोर्ध्यानं प्रति फलोपकारकत्वसम्भवादित्यत आह– युक्तश्चेति ॥ अत एवेति ॥ स्वरूपोपकार-स्यान्तरङ्गत्वादेव । नवमे द्वितीयपाद इति शेषः । ‘पार्वणहोमयोस्त्वप्रवृत्तिः समुदायार्थसंयोगा-त्तदभीज्या हि दर्शपूर्णमासयोः’ । ‘स्रुवेण पार्वणहोमौ जुहोति’ इति तद्धितश्रुत्या पर्वदैवत्यौ होमौ श्रुतौ । तौ किं विकृतिर्दृश्यते न वेति संशयः । तदर्थमिदं विचार्यते किं पर्वशब्दः कालवचनः कालोऽस्य देवता तस्य चासंस्कार्यत्वादारादुपकारकौ होमौ उताग्नेयादिसमुदाय-वचनः समुदायदैवत्यौ होमौ तत्संस्कार्याविति । तत्र पृणातेर्दानकर्मणः पर्वशब्दः । स च दीयतेऽस्मिन्नित्यधिकरणव्युत्पत्त्या कालेऽपि मुख्यो भावव्युत्पत्त्या कर्मण्यपि । तत्र प्रकरणात्सामवायिकत्वलाभाच्च कर्मवचनत्वमङ्गीकृत्य तत्संस्कारार्थता होमयोः । तेषां च कर्मणां तन्त्रेणाभिहितानाम् अग्नीषोमयोरिव व्यासक्तं देवतात्वम् । नैकैकशः । तेन समुदायस्य देवतात्वात् । तस्य च विकृतिस्वभावादतद्विकारत्वाच्च सौर्यादेस्तत्र होमयोरप्रवृत्तिः । न हि सौर्यादयः समुदायविकाराः । तदुक्तम्–

‘काले शब्दस्य मुख्यत्वात्कालामज्येह गम्यते ।

पृणातेर्दानकर्मत्वात्कर्मण्यपि च मुख्यता’ इति ॥

पाठरूपेति ॥ यथा सान्नाय्यापात्रशुन्धनक्रमाच्छुन्धध्वमिति मन्त्रस्य सान्नाय्यपात्राङ्गत्वम् ॥ सन्निधानस्येति ॥ यथा दर्शपूर्णमासयोः श्रूयते– ‘हस्ताववनिक्ते उलुपराजिंस्तृणाति’ इति । तत्र हस्तावनेजनं हस्तसंस्कारार्थं सत् करिष्यमाणसर्वाङ्गं वा अनन्तरोक्तोलुप-राजिस्तरणाङ्गं वेति संशये आनन्तर्यरूपसन्निधानात्तन्मात्राङ्गमिति प्राप्ते लिङ्गेन सर्वाङ्गमिति सिद्धान्तितं तृतीयस्य द्वितीये । आदिपदेन ‘श्रुत्वा मत्वा’ इत्यादिका श्रुतिः सन्निधानं च गृह्यते । श्रवणमननयोर्दृष्टद्वारा ध्यानस्वरूपनिष्पादकतया ध्याने सन्निपात्यङ्गत्वम् । ध्यानस्य तु फलसम्बन्धेन प्राधान्यमित्यर्थे पाठसादृश्यलक्षणः सन्निधिरप्यस्तीत्याह– श्रुत्वा मत्वेति ॥ परोक्षनिश्चयं विना ध्यानस्वरूपासिद्धेस्तत्र तयोः सन्निपातित्वमपि ॥ प्रमाकरणत्व-मसिद्धमितीति ॥ ‘ततस्तु तं पश्यत’ इति वाक्ये दर्शनमात्रश्रवणादिति भावः ॥ निदिध्यासनानन्तरमिति ॥ अत एव ध्यानममानकमित्यत आह– अथवेति ॥ ॥ इति मनननिदिध्यासनयोर्विवरणोक्तश्रवणाङ्गत्वभङ्गः ॥ १ ॥

न्यायामृतकण्टकोद्धारः

यो योगिभिर्विरक्त्यादियुक्तैः सेव्यो हि नित्यदा ।

भक्त्यैकलभ्यः पुरुषस्तं भजे वल्लभं श्रियः ॥

ननु यदुक्तं मुमुक्षुणा श्रवणाद्यङ्गकमङ्गीभूतं निदिध्यासनं ब्रह्मसाक्षात्कारायानुष्ठेयमिति तदयुक्तम् । श्रवणस्याङ्गित्वेन मनननिदिध्यासनयोश्चाङ्गत्वेन श्रवणस्याङ्गत्वासम्भवात् । न च तस्याङ्गित्वं कुत इति वाच्यम् । ‘द्रष्टव्यः श्रोतव्यः’ इति दर्शनरूपफलवत्त्वात् प्रमाणत्वाच्चेत्याशयेन शङ्कते– नन्वेतदिति । विवरणे इत्युक्तत्वादित्यन्वयः ॥ प्रमाणस्येति । प्रमेयभूतब्रह्मावगमं प्रति श्रवणरूपप्रमाणस्याव्यवधानेनाङ्गित्वमिति भावः । ननु मनननिदिध्यासनयोरङ्गत्वमयुक्तम् । तथा हि– तद्धि प्रोक्षणादेरिव करणस्वरूपनिष्पादकत्वेन सन्निपत्योपकारकत्वं वा प्रयाजादेरिव फलोपकार्युपकारसम्पादकत्व रूपमारादुपकारकत्वं वा? नाद्यः । मनननिदिध्यासनयोरभावेऽपि श्रवणस्य सम्भवेन कारणस्वरूपनिष्पादकत्वा-भावात् । न द्वितीयः । तादृशोपकारादर्शनादित्यत आह– मननेति । मनननिदिध्यासने फलोपकार्यङ्गे इत्यन्वयः । तत्र हेतुश्चित्तस्येत्यादिः । प्रत्यगात्मप्रवणः प्रत्यगात्मविषयो यः श्रुतिदृढः संस्कारस् तेन परिनिष्पन्ना या चित्तस्य तदेकाग्रा वृत्तिस् तद्रूपं यत् कार्यं तद्द्वारेणेत्यर्थः । अयमभिसन्धिः । मनननिदिध्यासनयोः फलोपकार्युपकारसम्पादकत्वेनारादुप कारकत्वमेव । न च तादृश उपकारो न दृश्यत इत्युक्तमिति वाच्यम् । प्रत्यगात्मविषयातिदृढसंस्कार-सञ्जातचित्तैकाग््रयवृत्तेरेव तादृशोपकारस्य सम्भवादिति ।

अत्र यदुक्तं– ‘फलवत्त्वात् प्रमाणत्वाच्च श्रवणस्याङ्गित्वम्’ इति, तत्र न तावदाद्यो हेतुः । ‘ततस्तु तं पश्यते निष्कलं ध्यायमानः’ ‘श्रुत्वा मत्वा तथा ध्यात्वा’ इत्यादि श्रुतिस्मृतिभि-र्ध्यानस्यापि फल वत्त्वात् । द्वितीयेऽपि श्रवणं किं प्रत्यक्षमुतानुमानम् अथवा शब्दः, आहोस्वित् स्वतन्त्रमेव प्रमाणम् ? नाद्यद्वितीयौ । तथा सति ‘नेन्द्रियाणि नानुमानम्’ इति श्रुतेर्ब्रह्मणः शब्दैकसमधिगम्यत्वेन श्रवणविषयताभावप्रसङ्गात् । नापि तृतीयः । विवरणे श्रवणस्य विचाररूपताया उक्तत्वेन, विचारस्य च युक्त्यनुसन्धानात्मकत्वेन शब्दरूपत्वा-सम्भवादित्यभि प्रेत्य चतुर्थपक्षं प्रतिषेधति– न यत इति । ‘शब्दप्रमाणज’ इति हेतुगर्भं विशेषणम् । अन्यथा शब्दप्रमाणजन्यत्वं न स्यादित्यर्थः । ननु मास्तु श्रवणरूपविचारस्य स्वातन्त्र्येण करणत्वम् । तथापि ब्रह्मविषयकबोधं प्रति करणीभूतशब्दाङ्गत्वेन भविष्यतीति चेन्न । अङ्गत्वं हि तस्य किं सन्निपत्योपकारकत्वरूपमुतारादुपकारकत्वरूपम् ? नाद्य इत्याह– न चायमिति । हन्तिवद् अवघातवत् । अवघातादेः पुरोडाशस्वरूपनिष्पादकत्व-मिति द्वितीयः पक्षोऽप्यपास्तः । तथा सत्यन्योन्यं शेषिभावो न स्यात् ॥ अन्यथेति ॥ सन्निपत्याङ्गत्वेऽपि यदि शेषित्वं तर्हीत्यर्थः । अत्र दृष्टान्तमाह– हीषादेश्चेति । उपसंहरति– तस्मादिति । ननूक्तरीत्या द्विविधाङ्गत्वासम्भवेऽपि श्रवणरूपविचारस्य शब्दशक्ति-तात्पर्यावधारणरूपत्वादवधृतशक्तितात्पर्यकशब्दस्यैव करणत्वे करणकोटिनिवेशेन करणत्वं स्यादेवेति न कोऽपि दोष इत्याशङ्कां परिहरन् स्वकारिकां स्वयमेव विशदयति– तथा हीति । शब्दरूपे शब्दज्ञानरूपे वा इति मतभेदाभिप्रायेण ।

इतिकर्तव्यतामात्रत्वादिति । न चैवमपि अवधृततात्पर्यकशब्दस्यैव करणत्वाद् विचारस्य करणकोटिनिवेशेन करणत्वादितिकर्तव्यतात्वाभावाद् अङ्गित्वं स्यादित्युक्तस्य न परिहार इति वाच्यम् । अवधृत तात्पर्यकशब्दस्य करणत्वं किं शाब्दज्ञानत्वावच्छेदेन, ब्रह्मविषयकशाब्दज्ञानत्वावच्छेदेन वा ? नाद्यः । तात्पर्यावधारणा भावेऽपि लोके शब्दादर्थ-बोधस्य जायमानत्वेन व्यभिचारात् । न द्वितीयः । अन्यत्र कप्तपूर्ववर्तिन एव कारणत्व-मसम्भवे अधिककल्पने मानाभावात्, वक्ष्यमाणान्योन्याश्रयग्रासाच्च । तात्पर्यविशिष्टेति । विशेषणीभूततात्पर्यविचारस्यापि करणकोटिनिवेश इति भावः । एतेनेत्येतदेव विशदयति– आकाङ्क्षेति । तात्पर्यज्ञानस्य करणकोटिनिवेशः किं प्रकारान्तरेण शब्दज्ञानस्य करणत्वा-सम्भवाद्वा त्वदभियुक्तोक्तेर्वा ? नाद्य इत्याह– आकाङ्क्षेति । न द्वितीय इत्याह– विवरण इति । अन्योन्याश्रयादिति । सत्यां शाब्दप्रमायामस्य शब्दमात्रे तात्पर्यमित्यवधृततात्पर्यकं शाब्दज्ञानम् । तस्मिंश्च सति शाब्दप्रमेत्यन्योन्याश्रय इत्यर्थः । ननु यदि तात्पर्यज्ञानस्य तात्पर्यभ्रमरूपप्रतिबन्धनिरासोपक्षीण त्वेनान्यथासिद्धत्वान्न करणकोटिनिवेशस्तर्हि आकाङ्क्षादिज्ञानस्यापि निराकाङ्क्षत्वभ्रमनिरासकत्वमात्रेणोपयोगापत्तौ आकाङ्क्षादेरपि करण-कोटिनिवेशो न स्यादिति चेन्न । अनन्यथासिद्धान्वयव्यतिरेकाभ्यां शाब्दज्ञानत्वावच्छेदे-नाकाङ्क्षादि ज्ञानस्य करणत्वावधारणेनान्यत्रोपक्षयकल्पनासम्भवात् । न चैवमनन्यथा-सिद्धान्वयव्यतिरेकौ तात्पर्यज्ञानस्य विद्येते । तात्पर्यज्ञानाभावेऽपि शाब्दबोधस्य जायमानत्वेन व्यभिचारात् ।

किञ्चाकाङ्क्षाभ्रमाच्छाब्दभ्रमस्य जायमानत्वात् ‘यद्विशेषयोः कार्यकारणभावोऽसति बाधके तत्सामान्ययोरपि कार्यकारणभावः’ इति न्यायेन शाब्दज्ञानमात्रे आकाङ्क्षादिज्ञानस्य कारण-त्वम् । न चैवं तात्पर्यभ्रमादपि शाब्दभ्रमस्य जायमानत्वेनैतन्न्यायविषयत्वमिति वाच्यम् । अत्र व्यभिचाररूपबाधकसत्वेन ‘असति बाधके’ इत्यस्याभावेनैतन्न्यायाविषयत्वाच्च । नन्वेवं सर्वत्र तात्पर्यज्ञानस्याजनकत्वेऽपि संशयविपर्ययोत्तरशाब्दज्ञानविशेषे तस्य हेतुत्वं स्यादेव संशय विपर्ययोत्तरप्रत्यक्षे विशेषदर्शनस्येवेति चेन्न । तथा सति विशेषदर्शनवदेव तात्पर्यज्ञानस्य शाब्दज्ञानविशेषे स्वातन्त्र्येणैव कारणत्वसम्भवेन कारणकोटिनिवेशकल्पनस्यायुक्तत्वात् । कारणकोटिनिवेशे हि शाब्दज्ञानमात्रे कारणत्वं समायाति । तच्च स्वोक्तिविरुद्धम् । अन्यथा विशेषदर्शनस्यापि कारणकोटिनिवेशः स्यादिति विशेषदर्शनसहितचक्षुरादेः कारणत्वं स्यात् । अभ्युपेत्य चेदमुदितम् । वस्तुतस्तु संशयोत्तरप्रत्यक्षे विशेषादर्शनस्य प्रतिबन्धकत्वेन प्रतिबन्धकाभाव सम्पादकत्वेनान्यथासिद्धत्वाद् विशेषदर्शनस्य न कारणत्वम् । किञ्च विशेषदर्शनस्य प्रत्यक्षमात्रे वा कारणत्वं, संशयोत्तरप्रत्यक्षे वा, तदुत्तरैकमात्रकोटिकप्रत्यक्षे वा ? नाद्यः । व्यभिचारात् । न द्वितीयः । संशयानन्तरसंशयान्तरोदयात् । न तृतीयः । तथा सत्येकमात्रकोटिकं प्रत्यक्षं भवतु । उभयकोट्यारोपरूपसंशयानुत्पादः कथम् ? न च तस्य संशयोत्पादे प्रतिबन्धकत्वान्न तदुत्पाद इति वाच्यम् । तर्ह्यन्यथासिद्धत्वेन कारणत्वाभावः स्यादिति न तद्दृष्टान्तेन शाब्दज्ञानविशेषे तात्पर्यज्ञानं कारणमिति न तस्य कारणकोटिनिवेशकल्पनं युक्तम् । न च सामान्यतोऽर्थावगमेन तात्पर्यग्रहसम्भवान्ना-न्योन्याश्रय इति वाच्यम् । यस्मिन्कस्मिंश्चिदर्थसामान्ये शब्दतात्पर्यावगमस्यातिप्रसङ्गित्वाद् विशेषतात्पर्यावगमस्य चान्योन्याश्रयग्रस्तत्वात् । नानार्थे च प्रकरणादेरेव नियामकत्व-सम्भवात् । अन्यत्रोपक्षीणत्वोक्त्या विशेषकारणत्वस्यानभिप्रेतत्वेन विवरणविरोधापरिहारा-च्चेत्यलम् ।

ननु तात्पर्यज्ञानस्य यथाकथञ्चिदपि शाब्दज्ञानोपयुक्तत्वात् कारणकोटिनिवेशो युज्यते । न तु मननादेः । यथाकथञ्चिदपि शाब्दज्ञानोपयुक्तत्वाभावादित्यत आह– किञ्चेति । न च वेदबाह्यागमयोः सत्वेऽपि दुष्टत्वादुष्टत्वव्यवस्था युज्यते । वेदस्यापौरुषेयत्वेन निर्दोषत्वात् । बाह्यागमस्य तु पौरुषेयतया प्रतारणादिमत्पुरुषकृतत्वेन दुष्टत्वादयथार्थं तदिति वाच्यम् । एवमपि तात्पर्यभ्रमप्रमयोरुभयत्र सत्वेन सङ्करस्यापरिहारात् । न च योग्यताप्रमात्वा-प्रमात्वाभ्यामेव व्यवस्थेति वाच्यम् । तथा सति तत्प्रमात्वाप्रमात्वाभ्यामेव दुष्टत्वादुष्टत्व इति तस्यैव करणकोटिनिवेशसम्भवे तात्पर्यज्ञानस्य तदुपवर्णनायोगात् । ननु शब्दस्वरूपानु-प्रविष्टत्वेनाकारणत्वेऽपि शब्दस्य सन्निपत्त्योपकारकत्वेन कारणकोटिनिवेशः स्यादित्याशङ्क्य परिहरति– न चेति । न च सर्वसाम्यं दृष्टान्तत्वे न प्रयोजकम् अतिप्रसङ्गादिति वाच्यम् । यत्साम्यमुपादाय दृष्टान्तत्वं तत्साम्यस्य दार्ष्टान्तिके अवश्याश्रयणीयत्वात् । सन्निपत्योप-कारकत्वं हि करणस्वरूपनिष्पादकत्वम् । तदभावे एवमेव तु सन्निपत्योपकरत्वोक्तेः रिक्तत्वाद् अतिप्रसङ्गाच्च । तुष्यतु दुर्जन इति न्यायेन सन्निपत्योपकारकत्वमभ्युपेत्यापि दूषणमाह– किञ्चेति । सन्निपत्योपकारकफलोपकारकयोरङ्गाङ्गिभावस्य क्वाप्यदर्शनेनेति भावः । अन्यथेति । सन्निपत्योपकारकस्यापि फलोपकारकं प्रति शेषित्वे इत्यर्थः ।

ननु विशिष्टयागप्रविष्टत्वेन वा शेषित्वमापाद्यते असाधारण्येन वा ? नाद्यः । इष्टापत्तेः । असाधारण्येन फलोपकारकत्वाभावेन असाधारण्येन शेषित्वस्य वक्तुमशक्यत्वात् । युज्यते च श्रवणस्य, करणोपकारकजनकत्वादिति चेन्न । श्रवणं हि किं तात्पर्यावधारणरूपम्, उत युक्त्यनुसन्धानात्मकविचाररूपम्, अथवा शाब्दज्ञानम् ? नाद्यः । असम्भावनानिवृत्त्य-भावेऽपि उपक्रमादिनैव तात्पर्यावधारणरूपश्रवणसम्भवेन मननादेस्तदुपयोग्युपकारजनकत्वा-सम्भवेन शेषित्वानुपपत्तेः । न द्वितीयः । तथा सति श्रवणस्य मननरूपतापत्त्या स्वजन्योप-कारस्य स्वापेक्ष्यत्वासम्भवात् । स्वस्यैव स्वं प्रति शेषित्वापाताच्च । न तृतीयः । असम्भावनानिवृत्तेरसंसर्गाग्रहरूपत्वेन तस्य च विशिष्टज्ञानमात्रकारणत्वेन श्रवणोपयोग्य-साधारणोपकारजनकत्वाभावात् । निदिध्यासनस्य चित्तसन्ततिरूपत्वेनोपकारजनकत्वस्य सर्वथाभावाच्च । एतेनेत्यस्यार्थमाह– सोमयागेति । न चासाधारणोपकारजनकत्वोक्त्या उक्तोत्तरमेतदिति वाच्यम् । तस्य दूषितत्वात् । श्रवणस्योक्तरित्या तात्पर्यवधारणरूपत्वे विचाररूपत्वे शाब्दज्ञानरूपत्वे वा शब्दगतस्य जातिरूपस्योपाधि रूपस्य वाऽजननात् । मननादिजन्यचित्तैकाग््रयरूपचित्तगतातिशयस्योक्तरूपश्रवणोपकारकत्वाभावाच्च ।

यत्तु श्रवणजन्यः शब्दगतोऽतिशयः शक्तितात्पर्यविषयत्वरूप एवेति न दोष इति तत्वशुध्युक्तं तदतिदेशेन निरसितुमनुवदति– एतेनेति । ननु सन्निपत्योपकारकफलोपकारकयोः परस्परमङ्गाङ्गिभावाभावेऽपि त्रयाणामपि फलोपकार्यङ्गत्वेन परस्परमङ्गाङ्गिभावः स्यादित्यत आह– किञ्चेति । न च त्रयाणां फलोपकार्यङ्गत्वेऽपि मनन निदिध्यासनयोः फले जनयितव्ये शब्दसहकारिसम्पादकत्वात्, श्रवणस्य तु शब्दे फलजनकतासम्पादकत्वेन विशेषा-द्युज्यतेऽङ्गाङ्गिभाव इति वाच्यम् । श्रवणं हि किं शब्दे साक्षात्काररूपफलजनकतां सम्पादयति, उत परोक्ष ज्ञानरूपफलजनकताम् ? नाद्यः । शब्दस्य साक्षात्काररूपफल-जनकत्वाभावेन श्रवणस्य तत्सम्पादकत्वायोगात् । धर्मादेरपि शब्दादापरोक्ष्यसम्भवे-नातीन्द्रियोच्छेदापत्तेश्च । न द्वितीयः । जनकत्वस्य शक्तिरूपतया स्वत एव सिद्धत्वेन श्रवणस्य तज्जनकत्वानुपपत्तेः । वक्ष्यमाणरीत्या श्रवणस्य शाब्दज्ञानरूपत्वेन स्वस्य स्वजनकत्वापाताच्च । फलोपकार्यङ्गानामपि परस्परमङ्गाङ्गिभावाङ्गीकारे बाधकमाह– अन्यथेति । न च करणस्वरूपसम्पादकत्वरूप प्रयोजकस्यात्रेव तत्राभाव इति वाच्यम् । करणीभूतशब्दस्वरूपस्य नित्यतया तत्सम्पादकत्वानुपपत्तेः । श्रवणस्य शाब्दज्ञानरूपतया तत्सम्पादकत्वासम्भवाच्च ।

अतिप्रसङ्गान्तरमाह– करणेति । नचैकफले उभयोर्यागार्थत्वाभावेन विशेष इति वाच्यम् । एवमप्यनेकफलेऽति प्रसङ्गापरिहारात् । किञ्चैकफलेऽपि उभयोर्यागार्थत्वाभावः कुतः ? न च पूर्वगतसदाप्रधानजन्यापूर्वसहितैककपाल होमरूपक्रिययैव परमापूर्वोत्पत्तिसम्भवे एककपालजन्यकरणापूर्वं नाभ्युपेयत इति वाच्यम् । समप्रधानपूर्वसहितैककपाल होमाख्य-क्रियाकाल एव परमापूर्वोत्पत्तिर्न सम्भवति । उत्तराङ्गजन्यापूर्वस्य सहकारिभूतस्याभावात् । क्रियायाश्च त्रिक्षणावस्थायित्वेन परमापूर्वोत्पत्तिकालेऽभावान् मध्ये करणापूर्वोत्पत्ति-रावश्यकीति उभयोर्यागार्थत्वसत्वेन विशेषाभावापादनं युक्तमेवेति । न च परोक्षज्ञानस्यैव शब्दफलत्वात् कथं शब्दस्यापरोक्षज्ञप्तौ उत्पाद्यायां श्रवणस्यापेक्षितत्वेन फलोपकार्यङ्गत्व-मित्यत्राह– कप्तं चेति । लोक इत्युपलक्षणम् । वेदेऽपीति द्रष्टव्यम् । तथा च शब्दे अतिशयाधायकत्वेनाङ्गी कृतस्य श्रवणस्य साक्षात्कारफलजनकाङ्गित्वकल्पनेऽदृष्टकल्पनेति भावः । ननु किमिदं साक्षात्त्वम् ? न तावज्जातिः । नाप्युपाधिरिन्द्रियजन्यत्वादिकम् । किन्तु विषयगताज्ञाननिवर्तकत्वमेवापरोक्षत्वे प्रयोजकम् । तच्चातिशयाधायकत्वेऽपि युज्यत एवेति नादृष्टकल्पनेति चेन्न । विषयगताज्ञाननिवर्तकत्वस्यापरोक्षत्वप्रयोजकत्वे धर्मादि-विषयकानुमित्यादेरपि अपरोक्षत्वापत्तिः । न चानुमित्यादेर्विषयगताज्ञाननिवर्तकत्वमेव नेति वाच्यम् । तथा सति धर्मादौ ज्ञातेऽपि न जानामीति बुध्यापत्तिः । अस्तु वा साक्षात्त्वं जातिः । न च प्रमात्वेन साङ्कर्यम् । तस्योपाधिरूपतया जातित्वाभावात् । जातित्वेऽपि तद्व्याप्यं प्रमात्वं नानैवेति न साङ्कर्यापातः । अस्तु वा उपाधिरूपं तत् । न चेन्द्रियजन्यत्वमनुमितावप्यस्तीति वाच्यम् । इन्द्रियत्वेनेन्द्रियजन्यत्वस्य विवक्षितत्वात् । अनुमितौ च मनस्त्वेन जनकत्वसत्वेन इन्द्रियत्वेन तदभावात् । तथा चादृष्टकल्पनाता-दवस्थ्यमेवेति ॥

श्रुतिवाक्ये इति ॥ अनपेक्षः शब्दः श्रुतिः । पदसङ्घातमात्रं वाक्यमित्यर्थः । लिङ्गं तु विपरीतमिति । तच्चान्वयव्यतिरेकावसेयम् । यदि हि निदिध्यासनाभावे श्रवणाभावः स्यात् तदा निदिध्यासनस्याङ्गत्वं स्यात् । न चैवं, किन्तु श्रवणाभावे निदिध्यसनाऽसम्भवात् तस्मिन् सत्येव च निदिध्यासनसम्भवेन श्रवणस्यैवाङ्गत्वं प्रतीयत इति लिङ्गं विपरीतमित्यर्थः ॥ नापि प्रकरणमिति ॥ इतिकर्तव्यताकाङ्क्षारूपमित्यर्थः । इतिकर्तव्यताकाङ्क्षा हि प्रधाने भवति । प्राधान्यं हि फलसम्बन्धिन एव । न च श्रवणस्य फलसम्बन्धोऽस्तीति प्राधान्यासिद्धावितिकर्तव्यता काङ्क्षाऽसम्भवादित्यर्थः ॥ स्थानसमाख्ये त्विति ॥ पाठा-नुष्ठानसादेश्यरूपस्य स्थानस्य प्रकृतेऽसम्भावितत्वात् । पाठसादेश्यं हि यथासङ्ख्यसन्निधि-रूपम् । न च तत् प्रकृतेऽस्तीति भावः । समाख्या हि यौगिकी सञ्ज्ञा । न च प्रकृते आध्वर्यवमित्यादि सञ्ज्ञावद् यौगिकी सञ्ज्ञास्ति, यया शेषशेषिभावोऽवगन्तव्य इति भावः ।

किञ्च श्रवणरूपविचारस्य सति प्रमाफलकत्वे मननादेः फलोपकार्यङ्गत्वं वक्तव्यम् । तच्च न युज्यते । तद्धि किं साक्षाद्वा, तात्पर्यज्ञानद्वारा वा ? नाद्यः । अनुपलम्भात् । न द्वितीयः । तात्पर्यज्ञानस्य शाब्दप्रमाहेतुतायास्त्वयैव निषिद्धत्वादित्याह– किञ्चेति । ननु मननादेः श्रवणं प्रति फलोपकार्यङ्गत्वं किं दृष्टद्वारा, उतादृष्टद्वारा ? नान्त्यः । अनङ्गीकारात् । आद्येऽपि मनननिदिध्यासनयोरेकमेव दृष्टद्वारमङ्गीक्रियते भिन्नमेव वा ? एकद्वारत्वेऽपि समुच्चित्य वा कारणत्वमुत प्रत्येकमेव वा ? नाद्यः । एकैकेनापि तस्य जायमानत्वात् । न द्वितीयः । अन्यतरवैयर्थ्यापत्तेः । विकल्पापत्तेश्च । न द्वितीयः । अदर्शनात्, इत्याशङ्का-परिहाराय यत् परैर्भिन्नत्वपक्षमभ्युपेत्य द्वारद्वैविध्यमुक्तं तद् दूषयितुमनुवदति– यच्चोक्तमिति । असम्भावनाविपरीतभावनयोरेकत्वादेकद्वारत्वमित्यत उक्तं– चित्तैकाग््रयेति । विपरीत-संस्कारेति । तद्रहित इति । अयुक्तत्वशङ्कारहित इत्यर्थः । ‘दृष्टहान्यादी’त्यादिपदेनादष्ट-कल्पनपरिग्रहः । मननविधेरिति । मननस्यायुक्तत्वशङ्कानिवर्तकत्वे हि तस्या अन्वयव्यतिरेकाभ्यां प्राप्तत्वान् नियमविधित्वं युज्यते । उक्तयोग्यत्वशङ्कानिवर्तकत्वे हि तस्याप्राप्तत्वाद् अपूर्वविधित्वं स्यादित्यर्थः । न च तादृशशङ्कायां सत्यां चित्तविक्षेपस्य जायमानत्वाच् चित्तप्रवणताया अभावे उक्तशङ्कानिवृत्तौ चित्तविक्षेपस्य निवृत्तेस् तावत्पर्यन्त-त्वस्य दृष्टत्वेन दृष्टहान्याद्यभाव इति वाच्यम् । एतादृशचित्तप्रवणताया ज्ञानमात्रहेतुत्वेन मननस्य ज्ञानमात्रकारणत्वापत्तेः । निदिध्यासनस्यापि उक्तविधं द्वारं नोपपद्यत इत्याह– निदिध्यासनस्येति ।

ननु भवत्पक्षेऽपि निदिध्यासनस्याङ्गित्वं, श्रवणमनयोश्चाङ्गत्वमयुक्तम् । निदिध्यासन-स्याङ्गित्वे प्रमाणाभावात् । श्रवणादेश्चाङ्गत्वं किं सन्निपत्याङ्गत्वमुतारादुपकारकत्वम् ? नाद्यः । ध्यानस्वरूपनिष्पादकत्वाभावात् । न द्वितीयः । अनङ्गीकारादित्याशङ्कां परिहरन्नुपसंहरति– तस्मादिति । श्रवणस्य सामर्थ्यं कारणत्वं च सति श्रवणे ध्यानं, श्रवणाभावे तदभाव इत्यन्वयव्यतिरेकाभ्यामवसीयते । तथा च तेन लिङ्गेन प्रकरणेन चाङ्गत्वम् । नन्विति कर्तव्यताकाङ्क्षा प्रकरणम् । इतिकर्तव्यताकाङ्क्षा च प्रधानस्यैव । प्राधान्यं च फलसम्बन्धे सत्येव भवति । न च निदिध्यासनस्य फलसम्बन्धोऽस्ति प्रमाणाभावात् । इत्यत उक्तं ‘ततस्तु तं पश्यत’ इत्यादि । न च निदिध्यासनपदस्य ‘बर्हिर्देवसदनं दामी’ इत्यादाविव साक्षात्काररूपफलसम्बन्धे न शक्तिरिति सामर्थ्याभाव इति वाच्यम् । निदिध्यासनपदस्य साक्षात्काररूपफलसम्बन्धे शक्तेरनुक्तत्वेनोक्तदूषणस्य ग्रन्थार्थाबोध-विजृम्भितत्वात् । वाक्ये च मध्ये श्रवणाध्याहारो न युक्तः । योग्यताबलस्यैवाभावात् । तथा च श्रवणमननयोर्ध्यानस्वरूपनिष्पादकत्वात् सन्निपत्योपकारकत्वमिति भावः ।

ननु फलोपकारकत्वमेव कुतो नाभ्युपेयत इत्यत आह– युक्तिश्चेति । अत एवेति । फलोपकारात् स्वरूपोपकारस्य सन्निकृष्टत्वादेवेत्यर्थः । सन्निधानस्येति । तस्य समाख्यारूपत्वेन षष्ठप्रमाणत्वादिति भावः । ननु श्रवणमननयोर्ध्यानाङ्गत्वं किं साक्षाद्वा परम्परया वा ? नाद्यः । श्रवणे सत्यनन्तरमेव ध्यानादर्शनात् । न द्वितीयः । परम्परा-घटकद्धाराभावाद् इत्यत आह– किञ्चेति । उक्तेऽर्थे आचार्यसम्मतिमाह– तदुक्तमिति । यदि हि भावनाप्रकर्षजन्यत्वमात्रस्य साक्षात्काराप्रमात्वे प्रयोजकत्वं स्यात् तदैवमापादनम् । न चैवम् । किन्तु भावनामूलभूत करणस्याप्रामाण्ये सत्येव तस्याप्रामाण्यम् । प्रकृते भावनामूलभूतकरणवेदान्तानां प्रामाण्याद् युज्यते साक्षात्कारस्य प्रमात्वम् । न केवलमेतन्मयैवोच्यते अपि तु त्वयाप्युक्तमित्याह– त्वयापीति । न चैवं मूलभूतशब्दस्यैव साक्षात्कारकारणत्वमस्तु । किं तदुपजीविनान्येनेति वाच्यम् । शब्दस्य परोक्षज्ञानजनकत्वेना-परोक्षज्ञानजनकत्वाभावात्, परोक्षनिश्चयादिजनकतयाऽन्यथासिद्धत्वाच्च । अन्यथा धर्मादेरपि शब्दादापरोक्ष्येऽतान्द्रियोच्छेदापत्तिः । न च निदिध्यासनस्येति । इन्द्रियलिङ्गज्ञानशब्द-रूपत्वाभावेन त्रिकान्तर्भावासम्भवाद् अतिरिक्तप्रमाणस्य चानङ्गीकारात् प्रमाकरणत्वा-सिद्धिरिति भावः ॥ त्वयेति ॥ तथा चान्यथासिद्धत्वात् तात्पर्यावधारणरूपत्वेनोक्त प्रमाणान्तर्भावासम्भवाच्च न प्रमाकरणत्वमिति भावः । ननु नैतावताऽप्युक्तदोषः परिहृत इत्यत आह– निदिध्यासनेति । स्वेन शब्दस्य साक्षात्कारकरणत्वानभ्युपगमात् स्वमतेन परिहारमाह– अथवेति । उक्तमर्थं कारिकारूढं करोति– तस्मादिति । परपक्षनिरास-मुपसंहरति– न त्विति ॥ इति मनननिदिध्यासनयोर्विवरणोक्तश्रवणाङ्गत्वभङ्गः ॥ १ ॥

न्यायकल्पलता

श्रीमत्सद्गुणसम्पूर्णविग्रहं विष्णुमव्ययम् ।

वन्दे श्रुत्यादिसम्भूतप्रसादादपवर्गदम् ॥ १ ॥

निदिध्यासनमङ्गि, श्रवणादिकम् अङ्गम् इत्येतदाक्षिपति– नन्वेतदिति ॥ विवरणे ॥ ननु मनननिदिध्यासनयोः कथं श्रवणं प्रत्यङ्गतावगमः? यावता ब्रह्मण्येव शक्तितात्पर्यविशिष्टवेदान्त-शब्दावधारणात् श्रवणशब्दाभिधेयाद् आत्मन्यवबुद्धे पश्चान्मननम् अर्थसम्भावनोपपत्तिपर्यालोचनद्वारा जनिता ब्रह्मणि प्रत्ययावृत्तिरुत्पद्यते । ततश्च प्रमाणयुक्तिसम्भावनाभ्यां परिनिश्चिते विषये तदेकाकारं चित्तसमाधानं निदिध्यासनमुत्पद्यते । तदेवं निदिध्यासनस्वरूपोपकारितया श्रवण मननयोस्तदङ्ग-भावेऽवगते न युज्यते श्रवणाङ्गता मनननिदिध्यासनयोरिति । अत्रोच्यते– यस्मिन् पक्षे शक्तितात्पर्य विशिष्टशब्दावधारणं प्रथमं ब्रह्मणि परोक्षज्ञानमुत्पाद्य मनननिदिध्यासनसंस्कारविशिष्टान्तः-करणापेक्षयाऽपरोक्षज्ञानम् उत्पादयति । तत्र ब्रह्मणि परोक्षज्ञानस्य निदिध्यासनोपकारितया तदङ्गत्वेऽपि तात्पर्यवद्विशिष्टशब्दावधारणाद् अपरोक्षज्ञानोत्पत्तौ मनननिदिध्यासने श्रवणस्य फलोपकार्यङ्गताम् अश्नुवाते । नन्वपरोक्षफलोदयेऽपि निदिध्यासनाङ्गतैव श्रवणमननयोः किं न स्यात् । त्रयाणामपि सन्निपत्योपकाराविशेषाद्दर्शपूर्णमासवत्समप्रधानता वा किं न स्यादिति । उच्यते । शक्तितात्पर्यविशिष्ट-शब्दावधारणं प्रमेयावगमं प्रत्यव्यवधानेन कारणं भवति । प्रमाणस्य प्रमेयावगमं प्रतीत्याद्युक्तम् ॥ मनननिदिध्यासने इति ॥ तत्रापि मननस्य चित्तैकाग््रयायोग्यरूपासम्भावनानिरसनद्वारेण चित्तस्य प्रत्यगात्मैकाग्रवृत्तिहेतुत्वं, निदिध्यासनस्य तु विपरीतसंस्काररूपविपरीतभावनानिरसनद्वारा तद्धेतुत्वम् ॥ प्रत्यगात्मेति ॥ प्रत्यगात्मप्रवणतालक्षणो यः संस्कारस् तेन परिनिष्पन्ना या ब्रह्मैकाग््रयलक्षणा वृत्तिः सैव कार्यं तद्द्वारेणेत्यर्थः ॥ इतीति ॥ फलं प्रत्यव्यवहितस्य कारणस्य विशिष्टशब्दावधारणस्य व्यवहिते मनननिदिध्यासने इति हेतोरित्यर्थः । शक्तितात्पर्यविशिष्टशब्दावधारणरूपस्य श्रवणस्य ब्रह्मानुभवं प्रति साक्षाद्धेतुत्वेन करणत्वमित्युक्तं दूषयति– विचार इति ॥ शाब्दज्ञाने शब्दस्य तज्ज्ञानस्य वा साक्षात्कारणत्वं नान्यस्य । ननु शक्त्यादीनां सन्देहादौ सति शाब्दज्ञानाभावेन विशिष्टस्य हेतुत्वे वाच्ये विशेषणस्यापि हेतुत्वेन व्यवधानद्वाराऽवघाततण्डुलादेरिव करणान्तर्गतिरस्तीत्यतः करणवदेव शेषित्वं भविष्यतीत्यत आह– न चेति ॥

अस्तु वा करणान्तर्गतिः शक्त्याद्यवधारणस्य तथापि न तस्य शब्दवन्मत्याद्यपेक्षया शेषित्वमित्याह– सन्निपात्यपीति ॥ प्रधानं प्रति सन्निपात्यङ्गस्यारादुपकारकाङ्गानां च परस्परमङ्गाङ्गित्वाभावात् । अन्यथाऽवघातं प्रति प्रयाजादेः शेषत्वं स्यादित्यर्थः । तर्ह्याग्नेयादिवत् त्रयाणामपि प्राधान्यमस्त्वित्यत आह– हीषादेरिति ॥ सौभराख्येन साम विशेषेण वृष्टावन्नाद्ये स्वर्गे च फले जननीये सति ‘हीष् ऊर्क ऊ’ इत्येषां सौभराख्यसामसमाप्त्यवयवानां सौभरेण वृष्टौ जननीयायां ‘हीष्’ इत्येतस्य अन्नाद्ये जननीये, ‘ऊर्क’ इत्येतस्य स्वर्गे जननीये, ‘ऊ’ इत्येतस्य सौभरं प्रत्येव यथाऽङ्गत्वं तथा शब्देन परोक्षज्ञाने जननीये शक्त्याद्यवधारणरूपविचारस्याङ्गत्वम् । अपरोक्षज्ञाने शब्देन जननीये मननादेरङ्गत्वमिति शब्दं प्रत्येव त्रयाणामङ्गत्वं वक्तुं युक्तम् । न तु परस्पराङ्गत्वम् । अन्यथा हीष् इत्यादीनामपि परस्पराङ्गत्वं स्यात् ॥ भिन्नफले इति ॥ शब्देन जननीये सतीति शेषः । स्याच्छब्दोऽनास्थायाम् । निदिध्यासनं प्रति श्रवणादेरङ्गत्वस्य वक्ष्यमाणत्वात् । मौनिश्लोकादौ शब्दाभावादाह– शब्दज्ञानरूपे वेति ॥ शक्त्यवधारणस्य विचारात्पूर्वभावित्वेन विचारानन्तर्गतत्वा-त्तात्पर्यावधारणमेव तदन्तर्गतम् । अतस्तात्पर्यावधारणरूपविचारस्याङ्गित्वमित्याशङ्कां निरस्यति– एतेनेति ॥ अन्योन्याश्रयादिति ॥ तात्पर्यविषयशब्दार्थमज्ञात्वा तत्र तात्पर्यस्य ग्रहीतुम् अशक्यत्वा-त्तात्पर्यज्ञाने शाब्दज्ञानापेक्षा, तस्मिंश्च तात्पर्यज्ञानापेक्षेत्यन्योन्याश्रय इत्यर्थः । नन्वेवमाकाङ्क्षादि धियोऽपि निराकाङ्क्षत्वादिभ्रमनिरासिकत्वमात्रेणोपयोगोपपत्तौ आकाङ्क्षादिकमपि कारणकोटौ प्रविष्टं न स्यादिति मैवम् । निराकाङ्क्षत्वादिज्ञानाभावेऽप्याकाङ्क्षादिज्ञानं विना शब्दज्ञानाभावस्यानुभवसिद्ध-त्वात् । ननु तात्पर्यज्ञानाहेतुत्वे कथं नानार्थे विनिगमना । अन्वयविशेषयोग्यतयेति ब्रूमः । अयोग्यताविरहाद्वा ।

यत्तु ग्राह्यसंशयविपर्ययोत्तरप्रत्यक्षे विशेषदर्शनमिव तात्पर्यसंशयाद्यु(दु)त्तरशाब्दज्ञाने तात्पर्यधीः कारणमिति, तन्न । उभयत्रोभयस्य प्रतिबन्धनिरासमात्रोपयोगित्वेनाहेतुत्वात् । तदिदमुक्तं प्रतिबन्धनिरासेत्यादि । तात्पर्यभ्रमस्य प्रतिबन्धकत्वं च कार्यबलान्मणिमन्त्रादिवत् । अत एव साक्षादविरोधिनो ज्ञानस्य जनकज्ञानविघटकतयैव प्रतिबन्धकत्वमित्यादेर(न)वकाशः ॥ बाह्यागमेऽपीति ॥ शब्दार्थस्य बाधितत्वेऽपि तद्वक्तुस्तत्र तात्पर्यमबाधितमेव ॥ दुष्टत्वेति ॥ ज्ञानरूपेषु ज्ञानकरणेषु भ्रमरूपं दुष्टं प्रमारूपमदुष्टमित्यन्यत्र दृष्टा व्यवस्था न स्यात् । यादृच्छिकसंवादिलिङ्ग विभ्रमस्य तु दुष्टत्वमेव । स्वव्यापकभ्रमहेतुत्वात् । तत्र प्रतीतस्य तदव्यापकत्वात् । ननु वेदे कुत्रचिदेव तात्पर्यभ्रमो बाह्यागमे तु कुत्रचिदेव तत्प्रमेति । मैवम् । यत्रैव तद्भ्रमप्रमे तदंश एव तयोर्दुष्टत्वादुष्टत्वापातात् ॥ करणीयेति ॥ करणं द्व्यवदानयागः । तस्य द्रव्यं व्रीह्यादि । तत्र यथा•वघातादेः शेषत्वम् अस्ति तथा प्रकृते नास्तीति तात्पर्यावधारणं शब्दं प्रति न सन्निपात्यङ्गमित्यर्थः ।

यत्तु दृष्टान्ते सर्वसाम्यं नापेक्षितम् अतोऽवघातवैषम्येऽपि तात्पर्यावधारणं शब्दं प्रति न सन्निपात्याङ्गमेवेति । तन्न । मीमांसकप्रक्रियालेशस्याप्यज्ञानेनोक्तत्वात् । सन्निपातीनि दृष्टार्थानि क्रियारूपाणि कारकस्योत्पत्त्यादि कुर्वन्ति अदृष्टार्थानि सन्निपातीनि तु स्वकारकेष्वतिशयमादधति तत्तदङ्गभावमाप्नुवन्ति तात्पर्यावधारणं त्वनुभयं कथं सन्निपाति स्यात् ॥ अन्यथाऽवघातादिरिति ॥ ननु विशिष्टयागप्रविष्टतयाऽवघातस्य शेषित्वमिष्टमेव । असाधारण्येन शेषिता तु न । असाधारण्येन फलोपकारत्वाभावादिति । मैवम् । श्रवणत्वेन श्रवणस्य शेषित्ववदवघातत्वेनावघातस्य प्रयाजादि-शेषित्वस्यापाद्यमानत्वादिति भावः ॥ एतेनेति ॥ प्रधानं प्रति सन्निपत्योपकारकस्य प्रधानोपकार-कान्तर मननापेक्षया शेषित्वेऽवघातादेः प्रयाजाद्यपेक्षया शेषित्वापातेनेत्यर्थः । ननु प्रयाजादिकं यागस्यैव सहकारि मननादिकं तु शब्दसहकारिभूतस्य चित्तस्य सहकारीति वैषम्यमित्यत आह– सोमयागेति ॥ ‘सोमम् अभिषुणोति, ‘आश्विनं गृह्णाति’ इत्यादिना विहितमभिषवादिकं करणभूते शब्दस्थानीये सोमयागेऽतिशयाधायकम् । करणान्तर्गतं तात्पर्यावधारणस्थानीयं तत्प्रतिसोमयागसहकारिभूताया दीक्षणीयान्वितस्थानीया तदङ्गम् अत एव तद्गतातिशयहेतुः प्रयाजप्रोक्षणादिमननादिस्थानीयम् अङ्गं स्यादित्यर्थः ।

नन्वभिषवादियुक्तसोमयागं प्रत्यङ्गस्य प्रयाजादेरभिषावादिकं प्रत्यपि तदस्त्येवेति वदन्तं प्रत्याह– गौणाङ्गत्वमिति ॥ श्रुत्यादिगम्येऽङ्गत्वे तद्विनापि कल्पनेऽतिप्रसङ्गः । शब्दादापरोक्ष्यं वदता शब्दे त्रयाणामङ्गत्वं वक्तुं युक्तमित्याह– किञ्चेति ॥ अन्यथेति ॥ अनेकफलानि साधयतैकेन तत्तत्फले जनयितव्येऽपेक्षितानां सहकारिविशेषाणाम् अन्योन्यम् अङ्गाङ्गिभावाङ्गीकार इत्यर्थः । सौभरेण सौभरनामकेन साम्ना । निधनं साम्नोऽन्त्योऽवयवः । द्वितीयस्य चतुर्थेऽभिहितम् ‘सौभरे पुरुषश्रुतेर्निधने कायसंयोगः’ । ब्रह्मसामाख्यं स्तोत्रं प्रकृ(ल्प्य)त्य तदाश्रितं सौभरं फलत्रयसाधनत्वेन ‘यो वृष्टिकामः’ इति वाक्येन विधाय वृष्ट्यादिसाधने सौभरे निधनसाधनत्वेन हीषादयो हीषादिवाक्येन विहिताः । तत्र संशयः । किं हीषादयो निधनविशेषाः सौभरफलात्फलान्तरार्थेन विधीयन्ते उत सौभरस्यैव तत्तत्फलं साधयतस् तत्तन्निधनमनियमेन पाठतः प्राप्तं नियम्यत इति । तदर्थं किं वृष्टिकामादिशब्दोक्तपुरुषशेषत्वेनैते साक्षाद्विधीयन्ते उत वृष्टिसाधनसौभरशेषत्वेनेति । तत्र वृष्टिकामादिशब्दैः पुरुषस्य श्रुतत्वात्तादर्थ्यमेव हीषादीनां चतुर्थ्या विज्ञायते । पुरुषशेषता च तदभिलषित(फल)साधनतयेति फलार्थत्वमेवैषाम् । वृष्टिकामशब्देन वृष्टिकामस्येच्छाविषयभूतवृष्टि साधनसौभरोक्तौ लक्षणा स्यात् । न च श्रुतिसम्भवे सा युक्ता । तस्माद्धीषादयो गुणाः सौभरफलाद्वृष्ट्यादेर्भिन्नस्य वृष्ट्यादिफलहेतव इति ।

स्वातन्त्र्येण तदर्थतया विधीयमानत्वादिति पूर्वः पक्षः । सिद्धान्तस्तु सौभरफलत्वेन पूर्वोक्तान्येव वृष्ट्यादीनि विपरिवर्तमानानि प्रत्यभिज्ञायन्ते इति न फलान्तरावगमः । किञ्च ‘हीष्’ इति शब्दमात्रे फलाय विहिते सत्याश्रयापेक्षाया न तावन्निधनमाश्रयो भवितुं युक्तम् । तस्याप्रकृतत्वात् । नापि सौभरम् । प्रकृतत्वेऽप्यनेकावयवत्वान्नियमे(न) निधनसम्बन्धायोगात् । तथात्वे निधनमित्यनर्थकं स्यात् । निधनस्यापि विधाने वाक्यभेदः । तस्माद्वृष्टिकामादिशब्दलक्षिते सौभरे निधनत्वेनैवानियतप्राप्ता हीषादयो नियम्यन्ते । अथवा लक्षणापि नास्ति । न हि यदेव फलस्य कारणं तस्यैव पुरुषशेषत्वं तदङ्गस्यापि तद्द्वारेणास्ति पुरुषशेषिता । तथा च प्रयोगो दृश्यते । ‘वासिष्ठानां नराशंसो द्वितीयः प्रयाजः’ इति । तेन हीषादयः सौभराङ्गभूतास्तद्द्वारेण वृष्टिकामादीनां पुरुषाणामनियमेन शेषभूताः प्राप्तास्तानेव प्रति यथा प्राप्तरूपा नियम्यन्त इति न लक्षणा । तदुक्तम्–

‘तस्मात्फलान्तरार्थेन नैव हीषादयो गुणाः ।

विधीयन्ते नियम्यन्ते ते यथा प्राप्तसौभर’ ॥ इति ।

एकस्य भिन्नभिन्नकार्यजननेऽपेक्षितानां भिन्नभिन्नसहकारिणां परस्परमङ्गाङ्गिभावे दूषणान्तरमाह– करणापूर्वेति ॥ यागेन करणापूर्वे जननीयेऽवघातादिः सहकारी । परमापूर्वे तु जननीये प्रयाजादिः सहकारी । न त्ववघातादिकं प्रति प्रयाजादिः शेषः । त्वद्रीत्या तु स्यादित्यर्थः । करणापूर्वं नाम प्रधानमात्रेण जननीयम् अपूर्वम् । साङ्गेन तेन जननीयं तु परमापूर्वमिति । ननु शब्दस्य परोक्षज्ञानं प्रति हेतुत्वे तदवच्छेदेन श्रवणस्य शब्दं प्रत्यङ्गत्वं स्यात्तदेव तु नास्तीत्यत आह– कप्तं चेति ॥ एतेन यागेऽपूर्वभेदवत्प्रकृते न कार्यभेद इति निरस्तम् । नन्वकरणमपि प्रयाजादिकं प्रत्याज्यग्रहणादेरिव श्रवणं प्रति मननादेरङ्गत्वं भविष्यतीत्यत आह– न चाकरणमपीति ॥ ‘चतुर्जुह्वां गृह्णाति प्रयाजेभ्यस्तत्’ इत्यादेरिवात्र श्रुत्यादेरभावात् ॥ लिङ्गन्त्विति ॥ श्रुतस्याप्यर्थस्य मन्तव्यादिरूपतया श्रवणस्य मननाद्युपकारकत्वरूपसामर्थ्यवन्मननध्यानयोः श्रोतव्यत्वाभावेन तयोस्तथासामर्थ्या-भावाद्विपरीतं लिङ्गं सामर्थ्यम् ॥ प्रकरणमिति ॥ इतिकर्तव्यताकाङ्क्षा प्रकरणम् ॥ श्रवणस्येति ॥ तात्पर्यावधारणरूपश्रवणस्य शाब्दप्रमारूपफलाहेतुत्वात् ॥ स्थानेति ॥ स्थानं सादेश्यम् । समाख्या यौगिकी सञ्ज्ञा ।

ननु तात्पर्यावधारणरूपश्रवणस्य शाब्दप्रमां प्रत्यहेतुत्वेनाप्रधानतयेतिकर्तव्यतारूपाकाङ्क्षाविरहेऽपि तात्पर्यावधारणहेतोर्विचारस्य शाब्दप्रमाहेतुत्वादिकं स्यादित्यत आह– किञ्चेति ॥ मननादेः शाब्दज्ञानेऽहेतुत्वेन श्रवणं प्रति तयोः फलोपकार्यङ्गत्वमित्याह– यच्चोक्तमिति ॥ तत्र मननस्य न शाब्दज्ञानहेतुत्वं, द्वाराभावादित्याह– सूक्ष्मेति ॥ चित्तैकाग््रयस्य शाब्दज्ञानविशेषे हेतुत्वेऽपि न तस्य मननसाध्यत्वम् । किन्त्वयुक्तत्वशङ्कानिवृत्तिरेव तत्साध्या । तद्रहिते अयुक्तत्वशङ्कारहिते ॥ उक्तेति ॥ चित्तैकाग््रयम् ॥ शङ्का असम्भावनेति यावत् । अयुक्तत्व शङ्कानिवृत्तिस्तु मननद्वारा । तस्याः प्रतिबन्धकाभावरूपत्वादिति भावः ॥ मननविधेरिति ॥ चित्तैकाग््रयस्य मननसाध्यताया मानान्तराप्राप्तत्वात् ॥ मतिरिति ॥ अयुक्तत्वशङ्कानिवर्तकत्वमेव मनने प्रतीयते । न तु चित्तैकाग््रय-हेतुत्वम् । निदिध्यासनस्यापि न शाब्दधीहेतुत्वम् । द्वाराभावादित्याह– निदिध्यासनस्येति ॥ रूप्येति ॥ ननु इयं शुक्तिरिति ज्ञानानन्तरं तद्रजततया ज्ञातमिति स्मृतेर्ज्ञानगोचरसंस्कारसत्त्वेऽपि तद्रजतमिति अस्मरणेन विपरीतसंस्कारनिवृत्तिस्तत्राप्यस्तीति । मैवम् । रूप्यसंस्कारसत्त्वेऽपि शुक्तिसाक्षात्कारवत्प्रपञ्चसंस्कारसत्त्वेऽपि ब्रह्मसाक्षात्कारसम्भवात् । (तत्प्रवृत्ति) तन्निवृत्तिर् निदि-ध्यासनस्य द्वारमित्युक्तावेतस्य व्यधिकरणत्वात् ॥ श्रवण सामर्थ्येति ॥ श्रुतार्थस्यैव मतस्यैव ध्यातव्यादिरूपत्वात् ॥ निदिध्यासनस्येति ॥ फलसाधनस्यैवेतिकर्तव्यताकाङ्क्षा रूपप्रकरणित्वं, फलसाधनं च निदिध्यासनमेव ‘ततस्तु तं पश्यत’ इति वाक्यात् ।

ननु श्रवणमनने ध्यानं प्रति लिङ्गप्रकरणाभ्यां सन्निपात्यङ्गे इति न युक्तम् । तयोर्ध्यानं प्रति फलोपकारकत्वसम्भवादित्यत आह– युक्तश्चेति ॥ अत एवेति ॥ स्वरूपोपकारस्यान्तरङ्गत्वादेव । नवमे द्वितीयपाद इति शेषः । ‘पार्वणहोमयोस्त्वप्रवृत्तिः समुदायार्थसंयोगात्तदभीज्या हि । दर्शपूर्ण-मासयोः । ‘स्रुवेण पार्वणहोमौ जुहोति’ इति तद्धितश्रुत्या पर्वदैवत्यौ होमौ श्रुतौ । तौ किं विकृतिष्वतिदिश्येते उत नेति संशयः । तदर्थमिदं विचार्यते किं पर्वशब्दः कालवचनः कालोऽस्य देवता तस्य चासंस्कार्यत्वादारादुपकारकौ होमौ उताग्नेयादिसमुदायवचनः समुदायदैवत्यौ होमौ तत्संस्कार्याविति प्राप्ते सिद्धान्तः– पृणातेर्दानकर्मणः पर्वशब्दः । स च दीयतेऽस्मिन्नित्यधिकरणव्युत्पत्त्या कालेऽपि मुख्यो भावव्युत्पत्त्या कर्मण्यपि । तत्र प्रकरणात्सामवायिकत्वलाभाच्च कर्मवचनत्वमङ्गीकृत्य तत्संस्कारार्थता होमयोः । तेषां च कर्मणां तन्त्रेणाभिहितानाम् अग्नीषोमयोरिव व्यासक्तं देवतात्वम् । नैकैकशः । तेन समुदायस्य देवतात्वात्, तस्य च विकृतिस्वभावाद् अतद्विकारत्वाच्च सौर्यादेस्तत्र होमयोरप्रवृत्तिः । न हि सौर्यादयः समुदायविकाराः । तदुक्तम्–

काले शब्दस्य मुख्यत्वात्कालाभीज्येह गम्यते ।

पृणातेर्दानकर्मत्वात्कर्मण्यपि च मुख्यता ॥ इति ॥

पाठरूपेति ॥ यथा सान्नाय्यपात्रशुन्धनक्रमात् ‘शुन्धध्वम्’ इति मन्त्रस्य सान्नाय्यपात्राङ्गत्वम् ॥ सन्निधानस्येति ॥ यथा दर्शपूर्णमासयोः श्रूयते– ‘हस्ताववनिक्ते उलपराजिंस्तृणाति’ इति । तत्र हस्तावनेजनं हस्तसंस्कारार्थं सत् करिष्यमाणसर्वाङ्गं वा अनन्तरोक्तोलपराजिस्तरणाङ्गं वेति संशये आनन्तर्यरूपसन्निधानात्तन्मात्राङ्गमिति प्राप्ते लिङ्गेन सर्वाङ्गमिति सिद्धान्तितं तृतीयस्य द्वितीये । आदिपदेन ‘श्रुत्वा मत्वा’ इत्यादिका श्रुतिः सन्निधानं च गृह्यते । श्रवणमननयोर्दृष्टद्वारा ध्यान-स्वरूपनिष्पादकतया ध्याने सन्निपात्यङ्गत्वम् । ध्यानस्य तु फलसम्बन्धेन प्राधान्यमित्यर्थे पाठसादृश्य-लक्षणः सन्निधिरप्यस्तीत्याह– श्रुत्वा मत्वेति ॥ परोक्षनिश्चयं विना ध्यानस्वरूपासिद्धेस्तत्र तयोः सन्निपातित्वमपि ॥ प्रमाकरणत्वमसिद्धमितीति ॥ ‘ततस्तु तं पश्यत’ इति वाक्ये दर्शनमात्रश्रवणादिति भावः ॥ निदिध्यासनानन्तरमिति ॥ अत एव ध्यानस्य न प्रमाणान्तरत्वापत्तिरपि । ननु पुनःशब्दानुसन्धानममानकमित्यत आह– अथवेति ॥ उपसंहरन् सङ्गृह्णाति– तस्मादिति ॥ परपक्षं प्रतिक्षिपति– न त्विति ॥

॥ इति मनननिदिध्यासनयोर्विवरणोक्तश्रवणाङ्गत्वभङ्गः ॥ १ ॥