किञ्च त्वन्मते पदद्वये लक्षणा, ततो वरं मद्रीत्यैकस्मिंस्तत्पदे त्वंपदे वाऽमुख्य-वृत्तिः
२८. तत्त्वमस्यादिवाक्यार्थः
न्यायामृतं
किञ्च त्वन्मते पदद्वये लक्षणा, ततो वरं मद्रीत्यैकस्मिंस्तत्पदे त्वंपदे वाऽमुख्य-वृत्तिः । १तथा हि– तत्साहचर्यात्तदितिव्यपदेशः । ‘वसन्तादिभ्यष्ठक्’ इत्यत्र ‘साहचर्यात्ताच्छब्द्यं भविष्यति वसन्तसहचरितम् अध्ययनं वसन्ते’ इति महा-भाष्योक्तेः । प्रसिद्धं च जीवस्य ब्रह्मसहचरितत्वं ‘द्वा सुपर्णा’ इत्यादौ । यद्वा तदाश्रितत्वात्तदितिव्यपदेशः । ‘समर्थः पदविधिः’ इत्यत्र समर्थपदाश्रितत्वात्पद-विधिरुपचारेण समर्थ इति पदेनोच्यत इति महाभाष्योक्तेः । ‘सर्वाः प्रजाः सदायतना’ इति वाक्यशेषाच्च । अथवा ‘ब्राह्मणोऽस्य मुखमासीदि‘त्यादिवत् ततो जातत्वात्तदि-तिव्यपदेशः । ‘इग्यणः सम्प्रसारणम्’ इत्यत्र यथा काकाज्जातः काकः श्येनाज्जातः श्येनः । एवं सम्प्रासारणाज्जातो वर्णः सम्प्रसारणमिति महाभाष्योक्तेः । ‘सन्मूलाः सोम्येमाः सर्वाः प्रजाः’ इति वाक्यशेषाच्च ।
ब्राह्मणो मुखमित्येव मुखाज्जातत्वहेतुतः ।
यथाऽवदत् श्रुतिस्तद्वज्जीवो ब्रह्मेतिवाग्भवेत् ॥ इति स्मृतेश्च ।
अथवा ‘धान्यमसि धिनुहि’ इत्यत्र तण्डुले धान्यशब्दवत् तदधीनत्वात्तदिति व्यपदेशः । ‘प्राणबन्धनं हि सोम्य मनः’ इति वाक्यशेषे जीवस्येशाधीनत्वोक्तेः । ‘यदधीना यस्य सत्ता तत्तदित्येव भण्यते’ इति २भारतोक्तेश्च । अथवा अतिदेशोऽयं तद्वत्त्वमसीत्यर्थः । ‘बहुगण’ इत्यादिसूत्रे बहुगणवतुडतयः सङ्ख्यावद्भवन्ति अन्तरेणापि वतिम् अतिदेशो गम्यते अब्रह्मदत्तं ब्रह्मदत्त इत्याह । तेन वयं मन्यामहे ब्रह्मदत्तवदयं भवति’ इति महाभाष्योक्तेः । ‘सारूप्यात्’ इति जैमिनिसूत्रे ‘आदित्यो यूपः’ इत्यादिकं सादृश्यादित्युक्तत्वाच्च । ‘तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्’ इति ब्रह्मसूत्रे ब्रह्मगुणयोगाज्जीवे तदिति व्यपदेश इत्युक्तत्वाच्च ।
भिन्नाज्जीवात् परो भिन्नस्तथापि ज्ञानरूपतः ।
प्रोच्यन्ते ब्रह्मरूपेण वेदवादेषु सर्वशः ॥ इति स्मृतेश्च ।
अन्यथा तत्त्वमसीति वाक्यम् अबोधकं स्यात् । यथोक्तं महाभाष्ये ‘यो गामश्व इति ब्रूयान् न जातुचित्सम्प्रत्ययः स्यात्’ इति । यद्वा शाखासदेशे चन्द्रे शाखा-शब्दवज् जीवान्तर्यामितया जीवसदेशे ब्रह्मणि त्वमिति व्यपदेशः । ‘य आत्मनि तिष्ठन्’ इत्यादि श्रुतेः । यद्वा ‘ब्राह्मणो वै सर्वा देवताः’ इत्यादिवज् जीवाश्रयत्वाद् ब्रह्मणि त्वमिति व्यपदेशः । यद्वा ब्रह्मणः सर्वकर्तृत्वाद् ‘यजमानः प्रस्तरः’ इत्यादिवत्तत्सिद्ध्या त्वमिति व्यपदेशः । एवञ्च–
तदधीनत्वताद्देश्यतात्स्थ्यताद्धर्म्यपूर्वकैः ।
निमत्तैस्तत्त्वमस्यादिसामानाधिकरण्यगीः ॥
न चैवं मुख्यार्थत्यागदोषः । अन्तर्यामिणि ‘त्वम्’ इत्यादेर्मुख्यताया वक्ष्य-माणत्वात् । त्वद्रीत्या पदद्वयलक्षणातः मद्रीत्या एकपदलक्षणाया ज्यायस्त्वाच्च । किञ्च जहदजहल्लक्षणायां वाच्यान्तर्गतत्वेन प्राग्धीस्थस्याप्यनन्तरम् अनुपपत्तिदर्शनेन त्यक्तस्य पुनः स्वीकारः । जहल्लक्षणायां तु अधीस्थस्याप्यत्यक्तस्यैव स्वीकारः । त्यक्तस्वीकारादपि वरम् अधीस्थस्वीकारः । एवञ्च–
एकस्यामुख्यवृत्त्यैव तत्त्वमित्यस्य सम्भवे ।
भेदेनैवैक्यपरताऽनेकलक्षणया कुतः ॥
न च सदेवेत्यादिवाक्ये लक्षणया प्रकृते शुद्धे प्रकृत वाचिनस्तत्पदस्याऽभिधैवेति वाच्यम् । शुद्धस्यावाच्यत्वात् । तदित्येकपदलक्षणानिरासाय ‘तदैक्षत तत्तेजोऽसृजत’ इत्याद्यनेकपदलक्षणायोगाच्च ।
यद्वा ‘सुपां सुलुक्’ इत्यादि सूत्रात् तृतीयाविभक्त्यादेर्लुक् प्रथमैकवचनादेशो वा । ततश्च तेन ‘त्वं तिष्ठसि’ इति वा ‘ततस्त्वं जातः’ इति वा, ‘तस्य त्वम्’ इति वा, ‘तस्मिंस्त्वम्’ इति वाऽर्थः । ‘अनेन जीवेनात्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति,’ ‘सन्मूलाः सोम्येमाः सर्वाः प्रजाः’ ‘ऐतदात्म्यमिदं सर्वम्’ इत्यादिवाक्यशेषात् । मीमांसकैः ‘उत यत्सुन्वन्ति सामिधेनीस्तदन्वाहुः’ इत्यत्र यत्र सुन्वन्ति तत्र हविर्धाने स्थित्वा सामिधेनीरनुब्रूयादिति सप्तम्यर्थे प्रथमास्वीकाराच्च । न्याय्यं च निरवकाशप्रधानभूतानेक प्रातिपदिकस्वारस्याय सङ्ख्यार्थत्वेन सावकाशा-प्रधानैकविभक्त्यस्वारस्यम् । ‘प्रोद्गातॄणाम्’ इत्यत्र तु विभक्त्यन्तरे प्रथमैकवचनस्येव षष्ठीबहुवचनस्यान्यत्राविधानाद् बहुवचनानुसारेण प्रातिपदिकस्य प्रस्तोत्रादिच्छन्दोगेषु लक्षणाऽऽश्रिता । दृष्टं च ‘प्रयाजशेषेण हवींष्यभिघारयति’ इत्यत्र प्रयाजशेष-प्रातिपदिकस्वारस्याय प्रयाजाशेषं हविःषु प्रक्षिपतीति विभक्त्यस्वारस्यम् । एवं च–
आवकाशोज्झितानेकमुख्यनामानुसारतः ।
युक्तोऽतादृग्विभक्तेर्हि बाधः प्रयाजशेषवत् ॥
यद्वा ‘तस्य त्वम्’ इत्यर्थे ‘तत्त्वम्’ इति समस्तं पदम् । यद्वा ‘ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि’ इत्यत्र तदित्यनेन नात्मा परामृश्यते, किंत्वै-तदात्म्यं, नपुंसकलिङ्गत्वात् । ऐतदात्म्यमित्यस्य चैष चासावात्मा च एतदात्मा तस्येदम् ऐतदात्म्यम् । एतदीयं वस्तु त्वमसीत्यर्थः । परमते हि एतत् सद् आत्मा यस्य तदैतदात्म्यमिति व्याख्यातत्वाद् भावप्रत्ययो व्यर्थः । ततो वरम् अर्थान्तराश्रयणम् । विचित्रा हि तद्धितगतिरिति वचनात् ।
स स्रष्टा चैव संहर्ता नियन्ता रक्षिता हरिः ।
तेन व्याप्तमिदं सर्वमेतदात्म्यमतो विदुः ॥ इति स्मृतेश्च ।
अद्वैतसिद्धिः
ननु– एवं पदद्वयेऽपि लक्षणा स्यात् । तथा च मन्मतमाश्रित्य एकपदलक्षणैवाश्रयणीया । तथा हि– ‘द्वा सुपर्णा सयुजा’ इत्यादौ जीवस्य ब्रह्मसाहचर्योक्तेस्तत्साहचर्यात् ‘तत्’ इति व्यपदेशः, ‘वसन्तादिभ्यष्ठक्’ इत्यत्र वसन्तसहचरितेऽध्ययने वसन्तपदप्रयोगस्य महाभाष्ये उक्तत्वात् । ‘सन्मूलाः प्रजाः सदायतनाः ’इत्यादिवाक्यशेषात् । प्रसिद्धतदाश्रितत्वाद्वा ‘तत्’ इति व्यपदेशः । ‘समर्थः पदविधिः’ इति सूत्रे समर्थपदाश्रितत्वेन पदविधिः समर्थपदप्रयोगस्य महाभाष्योक्तेः । ‘सन्मूलाः सोम्येमाः प्रजाः सर्वाः’ इति वाक्यशेषात् । प्रसिद्धतज्जत्वाद्वा तत्पदप्रयोगः । ‘ब्राह्मणोऽस्य मुखमासीत्’ इत्यादिवत् । ‘इग्यणः सम्प्रसारणम्’ इत्यत्र सम्प्रसारणाज्जातो वर्णः सम्प्रसारणमिति भाष्योक्तेः । ‘प्राणबन्धनं हि सोम्य मनः’ इति वाक्यशेषेण जीवस्येशाधीनत्वोक्त्या तदधीनत्वाद्वा तच्छब्दप्रयोगः ।‘धान्यमसि धिनुहि’ इत्यत्र मन्त्रे तण्डुले धान्यपदप्रयोगवत् । तत्सादृश्याद्वा तत्पदप्रयोगः । ‘सारूप्यात्’ इति जैमिनिसूत्रे ‘आदित्यो यूपः’ इत्यादिकं सादृश्यादित्युक्तत्वात् । ‘तदगुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्’ इत्यत्र ब्रह्मसूत्रे ब्रह्मगुणयोगाज्जीवे तद्व्यपदेश इत्युक्तेः । महाभाष्ये च ‘बहुगण’ इत्यादिसूत्रे वतिं विनैव सङ्ख्यावदिति वत्यर्थो गम्यते । अब्रह्मदत्तं ब्रह्मदत्तेत्याह तेन वयं मन्यामहे ब्रह्मदत्तवदयं भवति’ इत्युक्तेश्चेति– चेन्न । अभेदे तात्पर्येऽवधृते तन्निर्वाहकलक्षणाबाहुल्यस्यादोष-त्वात् । न हि लक्षणैक्यानुरोधेन तात्पर्यपरित्यागः । तदुक्तं न्यायचिन्तामणौ– ‘तात्पर्यात्तु वृत्तिः, न तु वृत्तेस्तात्पर्यम्’ इति । जहदजहल्लक्षणया मुख्यपरत्वे सम्भवति तत्सहचरिताद्यर्थपरत्वकल्पन-स्यानुचितत्वाच्च । यथा अभेदपरत्वे न बोधकत्वानुपपत्तिः, तथोक्तं प्राक् । ‘द्वा सुपर्णा सयुजा’ इत्यादिना न जीवस्य ब्रह्मणा सहचरितत्वोक्तिः, किन्त्वन्तःकरणेनेति न तेन सहचरितत्वप्रसिद्धिरपि । न वा ‘सन्मूलाः प्रजाः’ इत्यादिना जीवस्य तदाश्रितत्वप्रसिद्धिः । प्रजाशब्दस्य प्रजायमानवाचकत्वेन जीवस्य नित्यस्याप्रतिपादनात् । अत एव न तज्जन्यत्वेनापि तच्छब्दप्रयोगः ।
ब्राह्मणो मुखमित्येव मुखाज्जातत्वहेतुतः ।
यथावदुच्यते तद्वज्जीवो ब्रह्मेति वाग्भवेत् ॥
इति स्मृतिरप्यस्मृतिरेव, श्रुतिविरोधात् । यत्तु ‘तद्गुणसारत्वात्’ इत्यादिना जीवे ब्रह्मगुणयोग उक्त इत्युक्तम्, तन्न । बुद्धिगुणसूक्ष्मत्वयोगाज् जीवे ब्रह्मणीव सूक्ष्मत्वमित्येवं परत्वात्सूत्रस्य । एतेन– शाखासदेशे चन्द्रे शाखेतिवज् जीवान्तर्यामितया जीवसदेशे ब्रह्मणि त्वमिति प्रयोगः, आत्मनि तिष्ठन्निति श्रुतेः, ‘ब्राह्मणो वै सर्वा देवताः’ इत्यादिवत् । जीवाश्रयत्वाद्वा ब्रह्मणः सर्वकर्तृत्वेन ‘यजमानः प्रस्तरः’ इत्यादिवत् तत्सिद्ध्या वा ब्रह्मणि त्वमिति व्यपदेश इति निरस्तम् ।
ननु– जहदजहल्लक्षणायां वाच्यान्तर्गतत्वेन प्राग्धीस्थस्य बाधकात् त्यक्तस्य पुनः स्वीकारः । जहल्लक्षणायाम् अधीस्थस्यात्यक्तस्यैव स्वीकारः । त्यक्तस्वीकाराद्वरम् अधीस्थस्य स्वीकार इति– चेन्न, अनुपपत्त्या विशेषणत्यागेऽपि विशेष्यांशात्यागात् । एतेन– तच्छब्दात् परतृतीयादिविभक्तेः ‘सुपां सुलुक्’ इत्यादिना प्रथमैकवचनादेशो वा लुग्वा । तथा च तेन ‘त्वं तिष्ठसि’ इति वा, ‘ततः सञ्जातः’ इति वा, ‘तस्य त्वम्’ इति वा, ‘तस्मिन् त्वम्’ इति वाऽर्थः । ‘अनेन जीवे-नात्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति, ‘सन्मूलाः सोम्येमाः सर्वाः प्रजाः’ ‘ऐतदात्म्यमिदं सर्वम्’ इत्यादिवाक्यशेषात् । तथा च मीमांसका ‘उत यत्सुन्वन्ति सामिधेनीस्तदन्वाहुः’ इत्यत्र यत्तच्छब्दयोः सप्तम्यर्थे प्रथमां स्वीकृत्य ‘यत्र सुन्वन्ति तत्र हविर्धाने स्थित्वा सामिधेनीरनुब्रूयात्’ इति व्याख्याञ्चक्रुः । न्याय्यं च निरवकाशप्रधानभूतानेकप्रातिपदिकस्वारस्याय सङ्ख्यार्थत्वेन सावकाश-प्रधानैकविभक्त्यस्वारस्यमिति निरस्तम् । ‘प्रोद्गातॄणाम्’ इत्यत्र विभक्तिस्वारस्याय प्रातिपदिकस्या-न्यथानयनवदत्रापि प्रातिपदिकस्यैवान्यथानयनाच्च । न च– षष्ठीबहुवचनस्य प्रथमैकवचनवदन्यत्रा-विधानेन तस्यान्यथानयनम् असम्भवीति बहुवचनानुसारेण प्रातिपदिकस्य प्रस्तोत्रादिछन्दोगेषु लक्षणाऽऽश्रितेति वाच्यम् । ‘सक्तून् जुहोति’ इत्यत्रेवान्यत्र नयनस्य सम्भावितत्वात् ।
किञ्च न तावत् प्रातिपादकस्य निरवकाशत्वम् । विभक्तेः सङ्ख्यामिव विशेष्यांशे सावकाशत्वात् । नापि प्राधान्यं, प्रधानार्थवाचकप्रत्ययस्यैव प्राधान्यात् । तदुक्तं ‘प्रकृतिप्रत्ययौ सहार्थं बूतस् तयोः प्रत्ययः प्राधान्येन’ इति । नापि प्रातिपदिकानेकत्वं स्वारस्ये तन्त्रम् । ‘गभीरायां नद्याम्’ इत्यादौ अनेकत्वेऽप्यस्वारस्यदर्शनात् । तात्पर्यबलात्तत्र तथेति चेत्, समं प्रकृतेऽपि । यत्तु ‘प्रयाजशेषेण हवींष्यभिघारयति’ इत्यत्र प्रयाजशेषं हविःषु प्रक्षिपतीति तृतीयाविभक्त्यस्वारस्यं, ‘सक्तून् जुहोति’ इत्यादावपि द्वितीयाविभक्त्यस्वारस्यं, तदगत्या, ‘प्रयाजशेषेण’ इत्यादौ उपयुक्तसंस्कारव्यतिरेकेण प्रकारान्तरस्यासम्भवात्, सक्तूनित्यादौ भूतभाव्युपयोगाभावेन संस्कार्यत्वाभावात् । एतेन– ‘तस्य त्वं तत्त्वमिति समस्तं पदम्’ इति निरस्तम् । असमासेनैव षष्ठ्यर्थलक्षणादिरहितेनोपपत्तौ षष्ठीसमासस्यान्याय्यत्वात् । अन्यथा स्थपत्यधिकरणविरोधापत्तेः । ननु– ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसीत्यत्र तत्पदेन नात्मा परामृश्यते, किन्तु ऐतदात्म्यम्, नपुंसकत्वाद्, ऐतदात्म्य-मित्यस्य एष चासावात्मा च एतदात्मा तस्येदमैतदात्म्यम् । एवं च एतदीयं वस्तु त्वमसीत्यर्थः, न त्वभेदः, एतदात्मा यस्य तदैतदात्म्यमित्यर्थे भावप्रत्ययवैयर्थ्यापत्तेः । ततो वरम् अर्थान्तराश्रयणम्; विचित्रा हि तद्धितगतिरिति वचनात् ।
स स्रष्टा चैव संहर्ता नियन्ता रक्षिता हरिः ।
तेन व्याप्तमिदं सर्वमैतदात्म्यमतो विदुः ॥
इति स्मृतेश्चेति– चेन्न, तस्येदमित्यर्थे ष्यञोऽविधानात् प्रयोगादर्शनाच्च । स्वार्थे च सौख्यमित्यादिप्रयोगदर्शनात् । तथा च एतत् सद् आत्मा यस्य सर्वस्य तदेतदात्मा तस्य भाव ऐतदात्म्यं, सामानाधिकरण्यं च स्वार्थिकत्वाद्वा, भावभवित्रोरभेदोपचाराद्वा, ‘यो वै भूमा तत्सुखम्’ इतिवत् । यत्तु स्मृतावेतद्व्यापकत्वेन ऐतदात्म्योक्तिः, सा न युक्ता, एकविज्ञानेन सर्वविज्ञान-प्रतिज्ञाविरोधात् ।
न्यायामृततरङ्गिणी
॥ एकस्मिन्निति ॥ दशमस्य चतुर्थपादे चिन्तितम् । ‘अग्निष्टोमे उपावर्तध्वम्’ इत्यनेन मन्त्रेण दर्भाभ्यां च स्तोत्रोपाकरणमस्ति । वाजपेये श्रूयते ‘रथघोषेण माहेन्द्रस्य स्तोत्र-मुपाकरोति । तदिह किं रथो दर्भयोर्निवर्तको घोषो मन्त्रस्य उत रथस्य घोष उभयोर्निवर्तक इति संशये षष्ठीतत्पुरुषे पूर्वपदस्य लक्षणापत्त्या द्वन्द्व एवाश्रयणीयः । एवं च द्रव्यत्व-सामान्याद्रथोदर्भयोर्निवर्तकः शब्दत्वसामान्याद् घोषो मन्त्रस्य । एवञ्च नावश्यं रथस्यैव घोष आदर्तव्यः । घोषस्याविशेषणाद्येन केनचिद्धोषेण कार्यसिद्धेरिति पूर्वपक्षे यद्यपीतरेतरयोगद्वन्द्वे पदद्वयमपि श्रुतिवृत्तं भवति तथापि रथघोषाभ्यामिति द्विवचनं प्राप्नोतीति । समाहारार्थे तु द्वे अपि पदे लक्षणार्थे स्याताम् । तत्र पूर्वपदमात्रे लक्षणामङ्गीकृत्य षष्ठीसमासाश्रयणम् । तस्माद्रथस्य घोष उपाकरणस्य साधनम् । स च प्राकृतसाधनं मन्त्रदर्भौ निवर्तयतीति । उपाकरणं नाम स्तोत्रपाठायोद्गातुः प्रेरणम् ॥ तत्साहचर्यादिति ॥ ‘वसन्तादिभ्यष्ठक्’ इत्यत्र भाष्ये ‘तदधीते तद्वेद’ इत्यधिकाराद् ‘वसन्तमधीते’ इत्यर्थासम्भवाद्वसन्तशब्देन वसन्तसहचरित उच्यते । यत्र वसन्तो वर्ण्यते यो वा वसन्ते यो वा वसन्तेऽध्येयः स ग्रन्थो यः स ग्रन्थो वसन्तसाहचर्यात्ताच्छब्द्यं लभत इत्युक्तम् ॥
तदाश्रितत्वादिति ॥ ‘समर्थः पदविधिः’ इत्यत्र समर्थाधिकारस्य विधेयसामानाधि-करण्यान्निर्देशानर्थक्यमिति वार्तिकम् । अस्यार्थः कैयटे विधिशब्दः कर्मसाधन उपात्तस् तस्य सम्बन्धी समासादिरर्थो वाच्यः । तत्समानाधिकरणं च समर्थपदमुपात्तम् । तत्रासमर्थानां समासस्यानिवर्तितत्वात्समर्थवचनेन न किञ्चित्कृत्यम् । तथा हि । समर्थानां यः समासः स समर्थ एव यो ह्यसमर्थानां, भार्या राज्ञः, पुरुषो देवदत्तस्येत्यादौ सोपि नियमाभावान्निवृत्त एव । तस्यासमर्थस्याप्यनेन समर्थग्रहणेन न किञ्चित्क्रियते । निवृत्तत्वात् । तदनेन पूर्वपक्षयित्वा सिद्धान्तितम् । समर्थपदाश्रयत्वात्पदविधिरुपचारेण समर्थपदेनोच्यते । एवं च क्रुद्धस्य राज्ञः पुरुष इत्यादौ समासो व्यावर्तितो भवति समर्थवचनेनेति ॥ इग्यण इति ॥ ‘इग्यणः सम्प्रसारणम्’ इति सूत्रेण यणः स्थाने य इग्वर्णः स सम्प्रसारणसञ्ज्ञश्चेत् ष्यङः सम्प्रसारणमित्यादौ दोषः । न हि अङो यणस्थाने इक्सिद्धोऽस्ति यो ऽङः सम्प्रसारण-मित्यनेन विधीयेतेत्यादिना वर्णसञ्ज्ञापक्षं दूषयित्वा यणः स्थाने इग्भवनरूपो यो वाक्यार्थः स सम्प्रसारणसञ्ज्ञ इति द्वितीयं पक्षमुद्भाव्य तमपि वाक्यार्थस्यासत्त्वभूतस्य स्थानित्वाभावात् सम्प्रसारणस्येत्यादौ दोष इति सूचयित्वा नैष दोषः यथा काकाज्जातः काकः श्येनाज्जातः श्येन एवं सम्प्रसारणाज्जातं सम्प्रसारणं तथा च वाक्यार्थस्यासत्वरूपस्य स्थानित्वाद्यभावेऽपि सम्प्रसारणसञ्ज्ञकार्थाज्जातो य इकारादिवर्णः सोऽपि सम्प्रसारणसञ्ज्ञक इति तस्य स्थानित्वा-द्युपपत्तिरित्युक्तं महाभाष्ये । ननु काकत्वाभिसम्बन्धात्काकस् तत्कथमुच्यते काकाज्जातः काक इत्याशङ्क्य यदानुपजातजात्यभिव्यञ्जक संस्थानविशेषः काको भवति निर्ज्ञातञ्च तस्य काकाज्जन्म भवति तदैतदुक्तम् एवमिहापि सम्प्रसारणाज्जातत्वाद्वर्णोऽपि ताच्छब्द्यं लभत इत्युक्तं कैयटे ॥
धान्यमसीति ॥ दर्शपूर्णमासयोः प्रेषणार्थं दृषदि निक्षिप्तानां तण्डुलानाम् अनुमन्त्रणार्थं ‘धान्यमसि धिनुहि देवान् धिनुहि यज्ञम्’ इत्यादिमन्त्रः पठ्यते । अस्ति च शाक्यानामयनं नाम सत्रम् । तत्र तरसमांसमयाः सवनीयपुरोडाशा विहिताः । तत्र मांसमयपुरोडाशेऽस्मि-न्मन्त्रेऽतिदेशे न प्राप्ते संशयः किमत्र धान्यपदस्थाने तरसमित्यूहनीयं न वेति । तत्र प्रकृतौ तण्डुलावस्थायां प्रयुज्यमानेऽस्मिन्मन्त्रे धान्यशब्दस्य सतुषवचनस्य समवेतार्थत्वाभावाद् असमवेतार्थस्य ‘देवस्य त्वा सवितुः’ इत्यादिमन्त्रे सवित्रादिपदवदनूह्यत्वान्नैवमूहितव्यमिति प्राप्ते धान्यशब्दस्य द्रव्यप्रकाशनरूपदृष्टार्थकल्पनौचित्यात्तस्य च सतुषवाचिनो लक्षणया तत्प्रकृतिकतण्डुलप्रकाशकत्व सम्भवात्समवेतार्थतया तदूहितव्यमिति सिद्धान्तितं नवमस्य प्रथमपादे ।
धान्याधीनत्वतो धान्यशब्दस्तण्डुलगो यथा ।
एवं जीवे तदितिगीरीशाधीनतया भवेत् ॥
नन्वभेदे तात्पर्येऽवधृते तन्निर्वाहाय लक्षणाबाहुल्यं न दोषः । मैवम् । तात्पर्यस्यैवेदानीं विचार्यमाणत्वात्तदवधारणस्यासिद्धेः । अत एव ‘अन्यथा तत्वमसीत्यादिवाक्यम् अबोधकं स्यात्’ इत्यादिना तात्पर्याभावमेवाविष्करोति ॥ अतिदेशोऽयमिति ॥ ‘बहुगणवतुडति सङ्ख्या’ इत्यत्र बहुगणादीनां सङ्ख्यासञ्ज्ञा वाच्या चेदेकद्वित्रीत्यादिकायाः सङ्ख्यायाः ‘सङ्ख्यापूर्वो द्विगुः’ इत्यादिषु सङ्ख्याप्रदेशेषु ग्रहणं न स्यात् । ‘कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः’ इति न्यायेन कृत्रिमसङ्ख्यासञ्ज्ञानां बहुगणादीनामेव स्यादिति पूर्वपक्षयित्वा नेदं सञ्ज्ञाकरणं किन्त्वतिदेशोऽयम् । बहुगणवतुडतयः सङ्ख्यावद्भवन्तीति परिहृते ननु तर्हि सूत्रे वतिनिर्देशः कर्तव्यः न त्वन्तरेण वतिम् अतिदेशो गम्यत इति पुनराशङ्क्यान्तरेणापि वतिमतिदेशो गम्यते तद्यथा अब्रह्मदत्तमित्यादिना परिहृतम् । ननु जहदजहल्लक्षणायां विशेषणांशत्यागेऽपि विशेष्यांशात्यागान्मुख्यार्थपरत्वे सम्भवति न तत्सहचरिताद्यर्थक जहल्लक्षणा युक्ता । तस्यां मुख्यार्थस्य सर्वथा त्यागादित्याशङ्क्य निराकरोति– न चैवं मुख्यार्थत्यागेति ॥ तद् ब्रह्म त्वमन्तर्यामीत्यर्थे मुख्यार्थत्यागाभावादित्याह– अन्तर्यामिणीति ॥ तव मते न कोऽपि तत्त्वमसीत्यस्य मुख्यार्थोऽस्तीति भावः । ननु तथापि लक्षणापक्षेऽन्तरङ्गत्वाद् अजहल्लक्षणैवास्तु न तु जहल्लक्षणा बहिरङ्गत्वादत आह– त्वद्रीत्येति ॥ नन्वेकत्वेऽपि बुद्धिस्थमुख्यार्थसंस्पर्शेत्यत आह– किञ्चेति ॥ प्रकृते शुद्ध इति ॥ शुद्धस्य कथमप्यप्रकृतत्वे तत्पदलक्षणापि तत्र न स्यादित्यर्थः ॥ शुद्धस्येति ॥ न हि वाचकमपि गोपदं गोपदावाच्यस्यापि वाचकं स्यादिति । तथा च पदद्वयेऽपि लक्षणैवेत्यर्थः ॥
तदित्येकपदेति ॥ ‘तत्त्वमसि’ इत्यत्र मुख्यार्थत्वाय तत्पदस्य प्रकृतचिन्मात्रपरत्वे ‘तदैक्षत तत्तेजोऽसृजत’ इत्यादावपि तत्पदस्य चिन्मात्रपरतायामीक्षतिसृजती अमुख्यार्थौ स्याताम् । चिन्मात्रे लक्षणाद्ययोगादित्यर्थः ॥ प्रथमैकवचनेति ॥ ‘सुपां सुलुक्’ इति सूत्रे ‘यत्सुन्वन्ति तत्सामिधेनीरन्वाहुर् यस्मिन् तस्मिन्निति प्राप्ते’ इत्यादिना सप्तम्येकवचनस्य प्रथमैकवचनादेश इति काशिकायामुक्तत्वात्तद्वदत्रापि प्रथमैकवचनादेश इत्यर्थः ॥ मीमांसकै-रिति ॥ हविर्धानाख्यगृहमध्ये दक्षिणोत्तरप्रदेशयोः सोमाख्यहविर्धारणार्थं हविर्धानसञ्ज्ञके द्वे शकटे स्थाप्येते । तयोर्मध्ये दक्षिणहविर्धाने सोमाभिषवः क्रियते । तत्र सामिधेन्यनुवचनं विधातुम् उत यत्सुन्वन्तीत्यादिवाक्यम् । तत्र यत्तत्पदयोः सप्तम्यर्थकत्वं मीमांसकैरुक्त-मित्यर्थः ॥ हविर्धान इति ॥ हविर्धानसमीपे स्थित्वेत्यर्थः । अत एव तृतीयस्य सप्तमे उक्तं ‘हविर्धानस्य हविर्धारणाद्यर्थत्वान्न प्रयोजनान्तरापेक्षा । प्रकृतितस्त्वाहवनीयप्रत्यग्देशः सामिधेन्यङ्गत्वेन प्राप्तः । स च दक्षिणस्योत्तरस्य वा हविर्धानस्य समीपे भवतीति तन्नियममात्रं लाघवाद् विधेयम् । हविर्धानस्य त्वन्त्यन्ताप्राप्तम् अनपेक्षितं च न युक्तं विधातुम् । तस्मात् सोमाभिषवहविर्धाने समीपदेशे स्थित्वा सामिधेनीरनुब्रूयात्’ इति ॥ न्याय्यञ्चेति ॥ अग्नीषोमीयपशुसम्बन्धिनः पाशस्य मन्त्रे अदितिः पाशान्प्रमुमोक्तेतानिति बहुवचनस्य कर्मकारकार्थतया सावकाशस्यैकत्वसङ्ख्योपेतपाशाख्यप्रकृतिस्वारस्यायास्वारस्यमुक्तं मीमांसकै-र्यथा । तथा तत् त्वम् आद्यनेकप्रातिपादिकानां सर्वज्ञत्वादिकर्तृत्वादिविशिष्टरूपस्वार्था-त्यागलक्षणस्वारस्याय तत्पदगतप्रथमायास् तृतीयाद्यर्थकत्वरूपम् अस्वारस्यं वक्तुं न्याय्य-मित्यर्थः ।
ननु प्रैतुहोतुश्चमसः प्रब्रह्मणः प्रयजमानस्य प्रोद्गातॄणामिति चमसाऽध्वर्यून्प्रत्यध्वर्योः प्रैषः श्रूयते । सदः सञ्ज्ञकगृहमध्ये होत्रादयः सोमस्य भक्षयितारः सन्ति । तेषां मध्ये होतारं प्रति होतृचमसः प्रैतु प्रगच्छतु ब्रह्मणश्चमसोऽपि प्रैत्वित्याद्यर्थः । साम्नो या द्वितीया भक्तिरुद्गानाख्या सैकेनैवोद्गातृसञ्ज्ञकेनर्त्विजा क्रियते । गानमात्रं तु प्रस्तोतृप्रतिहर्तृ सञ्ज्ञकाभ्यामपि क्रियते । एवं स्थिते प्रोद्गातॄणामित्यत्र बहुवचनस्वारस्यायोद्गान-कर्त्रैकपुरुष-वाचकस्योद्गातृशब्दस्य गानकर्तृत्वेन रूपेणाजहल्लक्षणयोद्गातृप्रस्तोतृप्रतिहर्तृपरत्वं कल्प्यते । उद्गात्रादीनां त्रयाणामेकस्तोत्रसम्बन्धात्सदसि सन्निधानभक्षवेलायां च व्यापृतत्वात् त्रयाणामपि भक्षोऽस्तीत्युक्तं तृतीयस्य पञ्चमे । तस्माद्विभक्त्यस्वारस्यम् अन्याय्यमित्यत आह– प्रोद्गातॄणामिति ॥ विभक्त्यन्तर इति ॥ एतच्चोपलक्षणम् । गानकारिषु त्रिष्वपि कथञ्चि-दवयवयोगेन वर्तमानं प्रातिपदिकं बहुवचनं च द्वयमपि श्रुत्यर्थं भवतीत्यपि बोध्यम् ॥ छन्दोगेष्विति ॥ अपसुब्रह्मण्येष्वित्यर्थः । सुब्रह्मण्याख्यस्य ऋत्विजः सदसि स्थितत्वा-भावात्सदसि स्थितान्प्रति भक्षणार्थं चमसानां नीयमानत्वान्न सुब्रह्मण्यस्य भक्षोऽस्तीति वार्तिककारो मन्यते ॥ दृष्टञ्चेति ॥ दर्शपूर्णमासयोः श्रुतं ‘प्रयाजशेषेण हवींष्यभिघारयति’ इति प्रयाजशेषाज्येन पुरोडाशादिहविषामभिघारणं किं हविषां संस्कार उत प्रयाजशेषस्य प्रतिपत्तिरिति संशये द्वितीयया हविषां संस्कार्यत्वेन प्राधान्यावगमात्तत्संस्कारः न तु शेषस्य प्रतिपत्तिः । तृतीयानिर्दिष्टस्य गुणत्वेन प्रतिपाद्यत्वायोगादिति प्राप्ते प्रतिपत्तिरेव युक्ता शेषशब्दस्य श्रवणात् । उपयुक्तशेषस्य हि द्रव्यस्य क्वचित् क्षारणरूपा प्रतिपत्तिरपेक्षिता न तु हविःसंस्कारः । अतः प्रयाजशेषं हविष्षु क्षारयेदिति वाक्यार्थकल्पनया प्रयाजशेषस्य प्रतिपत्तिरेव ग्राह्येति चतुर्थस्य प्रथमपादे निर्णीतम् । यथा वा ‘सक्तून् जुहोति’ इत्यत्र होमेन सक्तूनां संस्कार्यत्वासम्भवाद्विभक्तिविपरिणामेन सक्तुभिर्जुहोतीति वाक्यार्थमाश्रित्य प्रातिपदिकस्वारस्यमुक्तं न तु प्रातिपदिके लक्षणाश्रिता तथाऽत्रापि ।
न्यायामृतकण्टकोद्धारः
किञ्चेति ॥ न चैक्ये तात्पर्येऽवधृते लक्षणाबाहुल्यं न बाधकम् । तात्पर्याद्धि वृत्तिः, न तु वृत्तेस्तात्पर्यमित्यभियुक्तवचनादिति वाच्यम् । प्रमाणाभावेनैक्ये तात्पर्यावधारणायोगात् । न चोपक्रमादिनैव तदवधारणम् । उपक्रमादीनामैक्यपरत्वाभावेनैक्ये तात्पर्यनिर्णायकत्वा-सम्भवात् । प्रमाणविरुद्धार्थे उपक्रमादीनामनवकाशात् । न च जहदजहल्लक्षणायां मुख्यार्थात्यागाद् एकपदलक्षणातः सा वरेति वाच्यम् । एकपदलक्षणायां मुख्यसहचरितादे-र्लक्षितत्वेन मुख्यार्थत्यागाभावात् । विशिष्टवाचकस्य पदस्य विशेष्यमात्रं न मुख्यार्थ इति त्वत्पक्षे सर्वथा मुख्यार्थत्यागाच्च । द्वा सुपर्णेति ॥ न चात्रान्तःकरणसहचरितत्वमेवोक्तं, न जीवसहचरितत्वं, पैङ्गिब्राह्मणेन तथा व्याख्यानादिति वाच्यम् । एतत् श्रुत्युदाहरण एव दत्तोत्तरत्वात् । सर्वा इति ॥ न च प्रजाशब्दस्य जायमानपरत्वेन न जीवपरत्वं, तस्य नित्यत्वादिति वाच्यम् । योगरूढिभ्यां जीवपरत्वस्य सर्वसम्मतत्वात् । शरीरयोगेन जायमानत्वाच्च । अन्यथा ज्ञान एवेत्यनुपपन्नं स्यात् । अत एवाथवेत्याद्युपपन्नम् ॥ अथवेति ॥
नवमेऽध्याये प्रथमपादे ‘गुणशब्दस्तथेति चेत्’ इत्यस्य द्वितीयवर्णके चिन्तितम् । दर्शपूर्णमासयोः श्रूयते ‘धान्यमसि धिनुहि देवान्’ इति मन्त्रः । अस्ति च शाक्यानामयनं, तत्र संस्थितेऽहीने गृहपतिर्मृगयां याति । स यान् यान् मृगान् हन्ति तेषां तरसमयाः सवनीयपुरोडाशाः कर्तव्या इति मांसमयाः पुरोडाशा विहिताः । तत्रायं मन्त्रोऽतिदेशतः प्राप्तः । तत्र सन्देहः– धान्यमिति स्थाने तरसमित्यूहनीयं न वेति । पूर्वपक्षस्तु नोहितव्य इति । प्रकृतौ तण्डुलावस्थायामयं मन्त्रः प्रयुज्यते । स च न समवेतार्थः । तस्य सतुषद्रव्यवचनत्वात् । तण्डुलावस्थायां च सतुषत्वाभावात् । न च भूतपूर्वगत्या सतुषत्वात् समवेतार्थत्वम्, अस्तीति वर्तमानप्रयोगात् । तस्मान्नोहितव्य इति । सिद्धान्तस्तु– धान्य-शब्दस्य दृष्टार्थत्वसम्भवेऽदृष्टार्थत्वकल्पनायोगात् सतुषद्रव्यवाचकस्यापि मन्त्रस्य लक्षणया तण्डुलपरत्वमास्थेयम् । अदृष्टकल्पनापेक्षया लक्षणायाः श्रेष्ठत्वात् । तथा च प्रकृतौ दृष्टार्थत्वात् तदनुरोधेन तरसमित्यूहितव्यमिति ।
द्वितीयाध्याये भेदलक्षणे प्रथमपादे तृतीयाधिकरणे चिन्तितम् । तानि द्वेधा गुणप्रधान-भूतानि । दर्शपूर्णमासयोः श्रूयते– ‘व्रीहीनवहन्ति, तण्डुलान् पिनष्टी’ ति । तत्र सन्देहः किमवघातादिभ्योऽपूर्वमस्ति न वेति । पूर्वपक्षस्तु अवधातादिभ्योऽपूर्वमस्तीति । कुतः ? अवधातादिकम् अपूर्वजनकं, विहितधात्वर्थत्वात्, यज्यादिधात्वर्थवद् इत्यनुमानात् । विपक्षे विधिवैयर्थ्यम् । दृष्टार्थतायाः प्रत्यक्षसिद्धत्वादिति । सिद्धान्तस्तु– अवघातादिभ्यो नापूर्वमिति । दृष्टे सम्भवत्यदृष्टकल्पनाया अन्याय्यत्वात् । न च यज्यादिभ्योऽप्यपूर्वं न स्यादिति वाच्यम् । तत्र क्रियायाः प्राधान्येन ततो दृष्टाभावेनापूर्वकल्पनात् । इह तु व्रीहीनिति द्वितीयया व्रीहीणां प्राधान्यं गम्यते । ततो द्रव्य एवातिशयं जनयति, नापूर्वम् । न च विधिवैयर्थ्यम् । नखभेदनादिनापि तुषविमोकसम्भवेनावधातेनैव तुषविमोकः सम्पादनीय इति नियमस्या-पूर्वसाधनत्वेन विधेः सार्थक्यादिति ॥ प्राणेति ॥ अत्र मनःशब्देन जीवः । प्राणः परमात्मेति ज्ञातव्यम् । यथा चैतत् तथोपपादयिष्यते । सारूप्यमितीति । इदम् अधिकरणं तत्सिद्धि-पेटिकाविवरणे विवृतम् । तद्गुणेति । न च बुद्धिगुणसूक्ष्मत्ववज्जीवेऽपि ब्रह्मणीव सूक्ष्मत्व-मित्येवं परं सूत्रमिति वाच्यम् । तच्छब्दस्य प्रकृतब्रह्मपरत्वे सम्भवति अप्रकृतबुद्धि-परत्वायोगात् । ‘उत्क्रान्तिगत्यागतीनाम्’ इत्याद्युक्तन्यायेन जीवस्याणुत्वेनान्योपाधिक सूक्ष्मत्वायोगाच्च । त्वत्पक्षे सारशब्दवैयर्थ्याच्च । अन्यथेति । प्रमाणबाधितत्वेनायोग्यता-निश्चयादिति भावः । यथा चैतत् तथाऽखण्डतावादे व्युत्पादितम् ।
एवं ‘तत्’ पदलक्षणया वाक्यार्थमुपपाद्य ‘त्वं’ पदलक्षणयाप्युपपादयति– यद्वेति । यजमान इति । इदमपि तत्सिद्धिपेटिकायां विवृतम् । ताद्देश्येति । ताद्देश्यं तद्देशसमान-देशत्वम् । तदधीनत्वेन तात्स्थ्यं तदधीनत्वतात्स्थ्यम् । ताद्धर्म्यं च तद्धर्मसमानधर्मत्वम् । अत्र ताद्धर्म्यपूर्वकैरित्यनेन तत्पदलक्षणा सङ्गृहीता । शिष्टेन त्वंपदलक्षणेति विवेकः । अन्तर्यामिणीति । ‘अहं ब्रह्मास्मि’ इति वाक्यार्थकथनावसर इति शेषः । ननु मन्मते पदद्वयलक्षणायामपि जहदजहल्लक्षणात्वान्मुख्यार्थात्यागः । त्वन्मत एकपदलक्षणायामपि मुख्यार्थत्यागः । अतो मन्मतमेव समीचीनं, मुख्यार्थात्यागादित्यत आह– किञ्चेति । उपलक्षणमेतत् । जहदजहल्लक्षणायां विशेष्यमात्रस्य मुख्यार्थत्वाभावेन मुख्यार्थात्याग इत्यस्यार्थशून्यत्वात् । अन्यथा लक्षणैव नेत्येव वक्तव्यमित्यपि द्रष्टव्यम् । न चेति । तथा च मन्मतेऽप्येकपदलक्षणैवेति भावः । शुद्धेति । वचनवृत्तिविषयतावच्छेदकाभावात् । तस्यात्मत्वादिपुरस्कारेण प्रवृत्तेः । अन्यथा सर्वशब्दवाच्यत्वं स्यात् । तदित्येकपदेति । शुद्धस्य निस्सङ्गस्य सर्जनादिक्रियावेशस्य त्वयाऽनङ्गीकारात् तत्पदेन विशिष्टं लक्षणीयमिति भावः । एतावतैकपदलक्षणया वाक्यार्थ उक्तः । इदानीं सापि नेत्याह– यद्वेति । उक्तेष्वर्थेषु प्रमाणमाह ।
ननु प्रथमायाः सप्तम्यर्थत्वं क्वापि नोपलब्धमित्यत आह– उत यदिति । तृतीयाध्याये सप्तमपादे चिन्तितम् । ‘सामिधेनीस्तदन्वाहुर्हविर्धानयोर्वचनात् सामिधेनीनाम्’ ज्योतिष्टोमे श्रूयते ‘उत यत् सुन्वन्ति सामिधेनीस्तदन्वाहुः’ इति । दक्षिणेऽस्मिन् हविर्धानेऽभिषवस् तत्र स्थितः सामिधेनीर्ब्रूयादित्यर्थः । तत्र संशयः किं हविर्धानं सामिधेन्यङ्गम् उत तल्लक्षितो देश इति । हविर्धानस्य हविर्धारणार्थत्वेन प्रयोजनानन्तरापेक्षाभावाद् लक्षणापरिहारात् हविर्धान-मेवाङ्गमिति । सिद्धान्तस्तु तल्लक्षितो देश इति । हविर्धानस्य हविर्धारणार्थत्वेन प्रयोजनान्तरा-पेक्षाभावात् । प्रकृतितश्चाहवनीय प्रत्यग्देशः सामिधेन्यङ्गत्वेन प्राप्तः । स च दक्षिणस्योत्तरस्य वा हविर्धानस्य समीपे भवति । तत्र नियममात्रं लाघवाद् विधेयं दक्षिणस्यैव हविर्धानस्य समीपदेश इति । तथा च हविर्धानस्य ह्यङ्गत्वमत्यन्ताप्राप्तमनपेक्षितं विधातुमयुक्तमिति देशलक्षणा । तथा च सप्तम्यर्थस्यापेक्षितत्वात् । यत्तदिति प्रथमा सप्तम्यर्थ इत्यर्थः । ननु प्रकृतिप्रत्यययोस् तुल्यत्वेन प्रत्ययास्वारस्यं किमित्यङ्गीक्रियते ? प्रकृत्यस्वारस्यमेव किमिति नाद्रियत इत्यत आह– न्याय्यं चेति । प्रत्ययस्याप्रधानत्वं प्रकृत्युपसर्जनस्वार्थाभि-धायकत्वेन । नन्वेवं प्रोद्गातृणामित्यत्रापि विभक्त्यनुरोधेन प्रातिपदिकलक्षणा न स्यात्, तस्या अप्राधान्यादित्यत आह– प्रोद्गातॄणामित्यत्रेति ।
तृतीयाध्याये पञ्चमपादे चिन्तितम्– ‘उद्गातृचमसमेकस्य श्रुतिसंयोगात्’ । सोमे श्रूयते ‘प्रैतु होतुश्चमसः प्रब्रह्मणः प्रोद्गातॄणां प्रयजमानस्य’ इति । अयमध्वर्योः प्रैषः, यत्र सदसि भक्षयितारः स्थितास्तत्र भक्षणीयानां चमसानां नयनार्थम् । तत्रोद्गातृतचमससमाख्यया उद्गातुर् भक्ष इति स्थितम् । तत्र सन्देहः– किमुद्गातैव तं भक्षयेदुत सदसि स्थितौ एकस्तोत्रसम्बन्धिनौ प्रस्तोतृप्रतिहर्तारावपीति । पूर्वपक्षस्तु उद्गातैक एव भक्षयेत् । उद्गातृशब्दश्रवणात् । न च बहुवचनानुपपत्तिः । तस्य प्रधानप्रातिपदिकार्थानुसारेण ‘अदतिः पाशान्’ इत्यादाविव कथञ्चिन्नेयत्वादिति । सिद्धान्तस्तु– त्रयोऽपि भक्षयेयुः । उद्गातृशब्दस्याजहल्लक्षणया प्रस्तोतृ-प्रतिहर्तृपरत्वेन बहुवचनस्यार्थवत्वे सम्भवति अन्याय्यत्वस्यायुक्तत्वात् । तस्मात् त्रयोऽपि भक्षयेयुरिति । ननु मीमांसायां प्रातिपदिकानुसारेण विभक्तेरस्वारस्यं क्व दृष्टमिति तत्राह– दृष्टं चेति । चतुर्थाध्याये प्रथमपादे चिन्तितम् ‘अभिधारणे विप्रकर्षादनुयाजवत् पात्रभेदः स्यात्’ इति । दर्शपूर्णमासयोः श्रूयते ‘प्रयाजशेषेण हवींष्यभिधारयति’ इति । तत्र सन्देहः– अभिधारणं किं हविषां संस्कारः किं वा प्रयाजशेषस्य प्रतिपत्तिरिति । पूर्वपक्षस्तु हविषां संस्कार इति । हवींषीति द्वितीयया हविषां प्राधान्यावगमात् । न तु प्रतिपत्तिः । तृतीयानिर्दिष्टस्य गुणत्वेन प्रतिपाद्यत्वायोगादिति । सिद्धान्तस्तु । प्रतिपत्तिरेव, अपेक्षित-त्वात् । न तु संस्कारः, अनपेक्षितत्वात् । शेषशब्दश्रवणाद् उपयुक्तस्य क्वचित् क्षारणरूपा प्रतिपत्तिरेवापेक्षिता । न च तृतीयानिर्दिष्टस्य कथं प्रतिपाद्यत्वमिति वाच्यम् । द्वितीयार्थे तृतीयाव्याख्यानात् । न च तृतीयानुसारेण प्रातिपदिकस्य द्रव्यान्तरलक्षकत्वमस्त्विति वाच्यम् । अप्रधानानुसारेण प्रधानस्य लक्षणाया अयुक्तत्वात् । तस्मात् प्रतिपत्तिरिति । प्रयाजशेषं हविष्षु क्षारयेदिति वाक्यं योजनीयमिति ।
ननु प्रातिपदिकस्य किं प्रधानत्वम् ? निरवकाशत्वं किं वाऽनेकत्वम् ? नाद्यः । बहुवचनस्य सङ्ख्यायामिव प्रातिपदिकस्य विशेष्यांशे सावकाशत्वात् । न द्वितीयः । गभीरायां नद्यां घोष इत्यत्रेवानेकेषामपि लक्षणासम्भवादिति चेन्न । विभक्तेः सङ्ख्याया इव विशेष्यमात्रस्य प्रातिपदिकमुख्यार्थत्वाभावेन तत्र सावकाशत्ववर्णनस्यायुक्तत्वात् । गभीरायामित्यादौ च तात्पर्यात् तथाऽवगमात् । न च प्रकृतेऽप्यैक्यतात्पर्यात् तथाऽस्त्विति वाच्यम् । तत्तात्पर्यस्य सन्दिग्धत्वादित्युक्तत्वात् । अत एव सङ्ग्रहेणाह– एवं चेति । असमस्तपदपक्षमुपेत्य वाक्यार्थमभिधाय समस्तपदपक्षमुपेत्यापि तमाह– यद्वेति । न च षष्ठीलक्षणारहितेना-समस्तपक्षेणैवोपपत्तौ लक्षणाश्रयणेन समस्तपक्षो न युक्त इति वाच्यम् । असमस्तपक्षे पदद्वयलक्षणाया उक्तत्वात् । सम्बन्धस्यान्वयप्रकारतया लुप्तस्मृतषष्ठ्या वा, शक्त्यैव वा बोधो-पपत्तौ लक्षणाया अन्याय्यत्वात् । न च स्थपत्यधिकरणविरोधः । तस्य परमताभिप्रायेण प्रवृत्तत्वात् । सति सामानाधिकरण्ये वैयधिकरण्यम् अन्याय्यमित्येवम्परत्वाद्वा । एवं सन्निहितात्मपरामर्शम् अभ्युपेत्य वाक्यार्थ उक्तः । इदानीं किञ्चिद् व्यवहितैतदात्म्य-परामर्शाङ्गीकारे न काप्यनुपपत्तिः । नाप्येकपदलक्षणा । नपुंसकलिङ्गं चोपपन्नमिति भावेन यद्वेति । नन्वैतदात्म्यपरामर्शाङ्गीकारेऽपि ब्रह्मणि जीवैक्यमेव स्यात् । ते तत्प्रतिपादनाद् इत्यत आह– ऐतदात्म्यमित्यस्य चेति । ननु परकीय एवार्थः किं न स्यादित्यत आह– परमते हीति । नन्वर्थान्तरे प्रमाणाभावात् कथं तदाश्रयणमित्यत आह– विचित्रा हीति । न चेदमर्थेऽञनभिधानात् सौख्यमित्यादौ तदभिधानान् नेदमर्थेऽप्यञिति वाच्यम् । अज्ञानां तत्रैव प्रयोगेण निर्देशोपपत्तेः । यथा देवतावाचिनां मृदादिशब्दानां भूतएवाज्ञानां प्रयोगेण तद्वाचित्वव्यपदेशः । न च मनुष्यादिशब्दप्रवृत्तिनिमित्तमनुष्यत्वादिजातेर्जीवेऽभावात् कथं तत्र शक्तिरिति वाच्यम् । तादृशशरीरसम्बन्धित्वस्यैव प्रवृत्तिनिमित्ततया तस्य जीवे सत्वात् । अत एव ब्राह्मणत्वादिकं जीवनिष्ठमित्युक्तम् । अखण्डजातिश्चावयोरसम्मतैवेति । तथा च पदद्वयं मुख्यार्थमेवेति नान्यतरलक्षणोभयलक्षणा वा युक्तेति ।
न्यायामृतप्रकाशः
जीवाश्रयत्वादिति ॥ जीवं प्रत्याश्रयो जीवाश्रयः । तत्त्वादिति तत्पुरुषः । जीव आश्रयो यस्येति व्याख्याने उत्तरग्रन्थेन पौनरुक्त्यं स्यादिति ध्येयम् ॥ तत्सिद्ध्येति ॥ ब्रह्मणः सर्वकर्त्तृत्वेन जीवकार्यस्य तेन सिध्द्या तत्कार्यकर्त्तृत्वादित्यर्थः ॥ त्यक्तस्य पुनरिति ॥ समुदायस्य समुदाय्य-नन्यत्वादिति भावः ॥ सङ्ख्यार्थत्वेनेति ॥ एकत्वादिसङ्ख्याया एव प्रथमादिविभक्त्यर्थत्वादिति भावः ॥ एकविभक्त्यस्वारस्यमिति ॥ तन्मते तत् त्वमिति एकविभक्त्यन्तसामानाधिकरण्येनैवैक्यं बोध्यते । ‘असि’ इति सामानाधिकरण्यलब्धाभेदानुवादकमित्यङ्गीकारात् । तत्र तदित्येकविभक्तेरेव स्वारस्यमस्तु । प्रातिपदिकापेक्षया विभक्तेरप्रधानत्वादिति भावः । ननु यदि प्रातिपदिकस्वारस्याय विभक्त्यस्वारस्यम् अङ्गीक्रियते तर्हि ‘प्रोद्गातॄणाम्’ इत्यत्रोद्गातुरेकत्वाद्बहुवचनानुपपत्तिमाशङ्क्य षष्ठीबहुवचनरूपविभक्ति स्वारस्यम् अङ्गीकृत्य तदर्थम् उद्गातृप्रातिपदिकस्य प्रस्तोत्रादिषु सामगानकर्तृषु लक्षणाऽङ्गीकृता । सा न स्यादित्यत आह– प्रोद्गृतृणामित्यत्रेति ॥ अस्माभिः ‘तत्’ इत्यत्र प्रथमाविभक्तेस् तृतीयाद्यर्थकत्वेन प्रथमाविभक्त्यस्वारस्यं प्रथमैकवचनस्य ‘सुपाम्’ इति विभक्त्यन्तरे विधानादाश्रितम् । न हि तद्वत् षष्ठीबहुवचनस्यैकवचनादिरूपे विभक्त्यन्तरे विधानमस्ति । येन प्रातिपदिकस्वारस्याय विभक्त्यस्वारस्यमुच्यते । अतस्तत्र विभक्तिस्वारस्यमङ्गीकृत्य प्रातिपदिका-स्वारस्यमङ्गीकृतमित्यर्थः । छन्दोगेषु अपसुब्रह्मण्येषु ॥ विभक्त्यस्वारस्यमिति ॥ तृतीयाया द्वितीयात्वेन विपरिणतत्वाङ्गीकारादिति भावः । मुख्यनामानुसारतः मुख्यप्रातिपदिकानुसारतः । ननु कथं तदीयत्वरूपार्थान्तराश्रयणं युक्तम् ‘ऐतदात्म्यम्’ इत्ययं ष्यञ्प्रत्ययान्तः । ष्यञ्च स्वार्थे भावे वा विहितो न तदीयत्वरूपार्थ इत्यत आह– विचित्रा हीति ॥
न्यायकल्पलता
॥ एकस्मिन्निति ॥ दशमस्य चतुर्थपादे चिन्तितम् । ‘अग्निष्टोमे उपावर्तध्वम्’ इत्यनेन मन्त्रेण दर्भाभ्यां च स्तोत्रोपाकरणमस्ति । वाजपेये श्रूयते ‘रथघोषेण माहेन्द्रस्य स्तोत्रमुपाकरोति । तदिह किं रथो दर्भयोर्निवर्तको घोषो मन्त्रस्य उत रथस्य घोष उभयोर्निवर्तक इति संशये षष्ठीतत्पुरुषे पूर्वपदस्य लक्षणापत्त्या द्वन्द्व एवाश्रयणीयः । एवं च द्रव्यत्वसामान्याद्रथो दर्भयोर्निवर्तकः । शब्दत्व-सामान्याद् घोषो मन्त्रस्य । एवञ्च नावश्यं रथस्यैव घोष आदर्तव्यः । घोषस्याविशेषणाद्येन केन-चिद्धोषेण कार्यसिद्धेरिति पूर्वपक्षे यद्यपीतरेतरयोगद्वन्द्वे पदद्वयमपि श्रुतिवृत्तं भवति तथापि रथघोषाभ्यामिति द्विवचनं प्राप्नोति । समाहारार्थे तु द्वे अपि पदे लक्षणार्थे स्याताम् । तत्र पूर्वपदमात्रे लक्षणामङ्गीकृत्य षष्ठीसमासाश्रयणम् । तस्माद्रथघोष उपाकरणस्य साधनम् । स च प्राकृतसाधनं मन्त्रदर्भौ निवर्तयतीति । उपाकरणं नाम स्तोत्रपाठायोद्गातुः प्रेरणम् ॥ धान्यमसीति ॥ नवमे प्रथमपादे ‘गणिशब्दस्तथेति चेत्‘ इत्यधिकरणस्य द्वितीयवर्णके चिन्तितम् – दर्शपूर्णमासयोः प्रेषणार्थं दृषदि निक्षिप्तानां तण्डुलानाम् अनुमन्त्रणार्थं ‘धान्यमसि धिनुहि देवान् धिनुहि यज्ञम्’ इत्यादिमन्त्राः पठ्यन्ते । अस्ति च शाक्यानामयनं नाम सत्रम् । तत्र तरसमांसमयाः सवनीयपुरोडाशा विहिताः । तत्र मांसमयपुरोडाशेऽस्मिन्मन्त्रेऽतिदेशे न प्राप्ते संशयः किमत्र धान्यपदस्थाने तरसमित्यूहनीयं न वेति । तत्र प्रकृतौ तण्डुलावस्थायां प्रयुज्यमानेऽस्मिन्मन्त्रे धान्यशब्दस्य सतुषवचनस्य समवेतार्थत्वा-भावाद् असमवेतार्थस्य ‘देवस्य त्वा सवितुः’ इत्यादिमन्त्रे सवित्रादिपदवदनूह्यत्वान्नैवमूहितव्यमिति प्राप्ते धान्यशब्दस्य द्रव्यप्रकाशनरूपदृष्टार्थकल्पनौचित्यात्तस्य च सतुषवाचिनो लक्षणया तत्प्रकृतिक-तण्डुलप्रकाशकत्व सम्भवात्समवेतार्थतया तदूहितव्यमिति सिद्धान्तितम् । सङ्ग्रहश्च–
धान्याधीनत्वतो धान्यशब्दस्तण्डुलगो यथा ।
एवं जीवे तदितिगीरीशाधीनतया भवेत् ॥
नन्वभेदे तात्पर्येऽवधृते तन्निर्वाहाय लक्षणाबाहुल्यं न दोष इति । मैवम् । तात्पर्यस्यैवेदानीं विचार्यमाणत्वात्तदवधारणस्यासिद्धेः । तदुक्तं न्यायचिन्तामणौ– ‘तात्पर्याद्धि वृत्तिर्न तु वृत्तेस्तात्पर्यम् इत्यस्मदनुकूलं न तु परस्य । अत एव ‘अन्यथा तत्वमसीत्यादिवाक्यम् अबोधकं स्यात्’ इत्यादिना तात्पर्याभावमेवाविष्करोति ॥ तत्साहचर्यादिति ॥ ‘वसन्तादिभ्यष्ठक्’ इत्यत्र भाष्ये ‘तदधीते तद्वेद’ इत्यधिकाराद् ‘वसन्तमधीते’ इत्यर्थासम्भवाद्वसन्तशब्देन वसन्तसहचरित उच्यते । यत्र वसन्तो वर्ण्यते यो वा वसन्ते यो वा वसन्तेऽध्येयः स ग्रन्थो यः स ग्रन्थो वसन्तसाहचर्यात्ताच्छब्द्यं लभत इत्युक्तम् ॥ तदाश्रितत्वादिति ॥ ‘समर्थः पदविधिः’ इत्यत्र । समर्थाधिकारस्य विधेयसामानाधि-करण्यान्निर्देशानर्थक्यमिति वार्तिकम् । अस्यार्थः कैयटे विधिशब्दः कर्मसाधन उपात्तः । तस्य सम्बन्धी समासादिरर्थो वाच्यः । तत्समानाधिकरणं च समर्थपदमुपात्तम् । तत्रासमर्थानां समासस्यानिवर्तितत्वा-त्समर्थवचनेन न किञ्चित्कृत्यम् । तथा हि । समर्थानां यः समासः स समर्थ एव । यो हि ‘अ समर्थानां भार्या, ‘राज्ञः पुरुषो देवदत्तस्य’ इत्यादौ सोऽपि नियमाभावान्निवृत्त एव । तस्यासमर्थ-स्याप्यनेन समर्थग्रहणेन न किञ्चित्क्रियते । निवृत्तत्वात् । तदनेन पूर्वपक्षयित्वा सिद्धान्तितम् । समर्थपदाश्रयत्वात्पदविधिरुपचारेण समर्थपदेनोच्यते । एवं च क्रुद्धस्य राज्ञः पुरुष इत्यादौ समासो व्यावर्तितो भवति समर्थवचनेनेति ॥
इग्यण इति ॥ ‘इग्यणः सम्प्रसारणम्’ इति सूत्रेण यणः स्थाने य इग्वर्णः स सम्प्रसारणसञ्ज्ञश्चेत् ‘ष्यङः सम्प्रसारणम्’ इत्यादौ दोषः । न हि ष्यङो यणः स्थाने इक् सिद्धोऽस्ति । यः ‘ष्यङः सम्प्रसारणम्’ इत्यनेन विधीयेतेत्यादिना वर्णसञ्ज्ञापक्षं दूषयित्वा यणः स्थाने इग्भवनरूपो यो वाक्यार्थः स सम्प्रसारणसञ्ज्ञ इति द्वितीयं पक्षमुद्भाव्य तमपि वाक्यार्थस्यासत्त्वभूतस्य स्थानिवत्वाद्यभावात् सम्प्रसारणस्येत्यादौ दोष इति दूषयित्वा (सूचयित्वा) नैष दोषः यथा काकाज्जातः काकः श्येनाज्जातः श्येन एवं सम्प्रसारणाज्जातं सम्प्रसारणम् । तथा च वाक्यार्थस्यासत्वरूपस्य स्थानित्वाद्यभावेऽपि सम्प्रसारणसञ्ज्ञकाद्वाक्यार्थाज्जातो य इकारादिवर्णः सोऽपि सम्प्रसारणसञ्ज्ञक इति तस्य स्थानिवत्वा-द्युपपत्तिरित्युक्तं महाभाष्ये । ननु काकत्वाभिसम्बन्धात्काकस् तत्कथमुच्यते काकाज्जातः काक इत्याशङ्क्य यदाऽनुपजातजात्यभिव्यञ्जक संस्थानविशेषः काको भवति निर्ज्ञातञ्च तस्य काकाज्जन्म भवति तदेतदुक्तम् एवमिहापि सम्प्रसारणाज्जातत्वाद्वर्णोऽपि ताच्छब्द्यं लभत इत्युक्तं कैयटे ॥
॥ अतिदेशोऽयमिति ॥ ‘बहुगणवतुडति सङ्ख्या’ इत्यत्र बहुगणादीनां सङ्ख्यासञ्ज्ञा चेत् ‘एक–द्वि–त्रि’ इत्यादिकायाः सङ्ख्यायाः ‘सङ्ख्यापूर्वो द्विगुः’ इत्यादिषु सङ्ख्याप्रदेशेषु ग्रहणं न स्यात् । ‘कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः’ इति न्यायेन कृत्रिमसङ्ख्यासञ्ज्ञानां बहुगणादीनामेव स्यादिति पूर्वपक्षयित्वा नेदं सञ्ज्ञाकरणं किन्त्वतिदेशोऽयम् । बहुगणवतुडतयः सङ्ख्यावद्भवन्तीति परिहृते, ननु तर्हि सूत्रे वतिनिर्देशः कर्तव्यः न त्वन्तरेण वतिम् अतिदेशो गम्यत इति पुनराशङ्क्यान्तरेणापि वतिमतिदेशो गम्यते तद्यथा अब्रह्मदत्तमित्यादिना परिहृतम् । ननु जहदजहल्लक्षणायां विशेषणांश-त्यागेऽपि विशेष्यांशात्यागान्मुख्यार्थपरत्वे सम्भवति न तत्सहचरिताद्यर्थकजहल्लक्षणा युक्ता । तस्यां मुख्यार्थस्य सर्वथा त्यागादित्याशङ्क्य निराकरोति– न चैवं मुख्यार्थत्यागेति ॥ तद् ब्रह्म त्वं तवान्तर्यामीत्यर्थे मुख्यार्थत्यागाभावादित्याह– अन्तर्यामिणीति ॥ तव मते न कोऽपि तत्त्वमसीत्यस्य मुख्यार्थोऽस्तीति भावः ।
ननु तथापि लक्षणापक्षेऽन्तरङ्गत्वाद् अजहल्लक्षणैवास्तु न तु जहल्लक्षणा बहिरङ्गत्वादत आह– त्वद्रीत्येति ॥ नन्वेकत्वेऽपि बुद्धिस्थमुख्यार्थसंस्पर्शित्वादजहल्लक्षणैव युक्तेत्यतो युक्त्यन्तरमन्वाचिनोति– किञ्चेति ॥ प्रकृते शुद्ध इति ॥ शुद्धस्य कथमप्यप्रकृतत्वे तत्पदलक्षणापि तत्र न स्यादित्यर्थः ॥ शुद्धस्येति ॥ न हि वाचकमपि गोपदं गोपदावाच्यस्यापि वाचकं स्यादिति । तथा च पदद्वयेऽपि लक्षणैवेत्यर्थः ॥ तदित्येकपदेति ॥ ‘तत्त्वमसि’ इत्यत्र मुख्यार्थत्वाय तत्पदस्य प्रकृतचिन्मात्रपरत्वे ‘तदैक्षत तत्तेजोऽसृजत’ इत्यादावपि तत्पदस्य चिन्मात्रपरतायामीक्षतिसृजती अमुख्यार्थौ स्याताम् । चिन्मात्रे ईक्षितृत्वाद्ययोगादित्यर्थः ॥ प्रथमैकवचनेति ॥ ‘सुपां सुलुक्’ इति सूत्रे ‘यत्सुन्वन्ति तत्सामिधेनीरन्वाहुर्यस्मिंस्तस्मिन्निति प्राप्ते’ इत्यादिना सप्तम्येकवचनस्य प्रथमैकवचनादेश इति काशिकायामुक्तत्वात्तद्वदत्रापि प्रथमैकवचनादेश इत्यर्थः ॥ मीमांसकैरिति ॥ हविर्धानाख्यगृहमध्ये दक्षिणोत्तरप्रदेशयोः सोमाख्यहविर्धारणार्थं हविर्धानसञ्ज्ञके द्वे शकटे स्थाप्येते । तयोर्मध्ये दक्षिणहविर्धाने सोमाभिषवः क्रियते । तत्र सामिधेन्यनुवचनं विधातुम् उत यत्सुन्वन्तीत्यादिवाक्यम् । तत्र यत्तत्पदयोः सप्तम्यर्थकत्वं मीमांसकैरुक्तमित्यर्थः ॥
हविर्धान इति ॥ हविर्धानसमीपे स्थित्वेत्यर्थः । अत एव तृतीयस्य सप्तमे उक्तं ‘हविर्धानस्य हविर्धारणाद्यर्थत्वान्न प्रयोजनान्तरापेक्षा । प्रकृतितस्त्वाहवनीयप्रत्यग्देशः सामिधेन्यङ्गत्वेन प्राप्तः । स च दक्षिणस्योत्तरस्य वा हविर्धानस्य समीपे भवतीति तन्नियममात्रं लाघवाद् विधेयम् । हविर्धानस्य त्वन्त्यन्ताप्राप्तम् अनपेक्षितं च न युक्तं विधातुम् । तस्मात् सोमाभिषवहविर्धानसमीपदेशे स्थित्वा सामिधेनीरनुब्रूयात्’ इति ॥ न्याय्यञ्चेति ॥ अग्नीषोमीयपशुसम्बन्धिनः पाशस्य मन्त्रे ‘अदितिः पाशान्प्रमुमोक्तेतान्’ इति बहुवचनस्य कर्मकारकार्थतया सावकाशस्यैकत्वसङ्ख्योपेतपाशाख्यप्रकृति स्वारस्यायास्वारस्यमुक्तं मीमांसकैर्यथा । तथा तत् त्वम् आद्यनेकप्रातिपादिकानां सर्वज्ञत्वादिकर्तृत्वादि-विशिष्टरूप स्वार्थात्यागलक्षणस्वारस्याय तत्पदगतप्रथमायास् तृतीयाद्यर्थकत्वरूपम् अस्वारस्यं वक्तुं न्याय्यमित्यर्थः । ननु प्रैतु होतुश्चमसः प्रब्रह्मणः प्रयजमानस्य प्रोद्गातॄणामिति चमसाऽध्वर्यून्प्रत्यध्वर्योः प्रैषः श्रूयते । सदः सञ्ज्ञकगृहमध्ये होत्रादयः सोमस्य भक्षयितारः सन्ति । तेषां मध्ये होतारं प्रति होतृचमसः प्रैतु प्रगच्छतु ब्रह्मणश्चमसोऽपि प्रैत्वित्याद्यर्थः । साम्नो या द्वितीया भक्तिरुद्गानाख्या सैकेनैवोद्गातृसञ्ज्ञकेनर्त्विजा क्रियते । गानमात्रं तु प्रस्तोतृप्रतिहर्तृसञ्ज्ञकाभ्यामपि क्रियते । एवं स्थिते प्रोद्गातॄणामित्यत्र बहुवचनस्वारस्यायोद्गानकर्त्रैकपुरुषवाचकस्योद्गातृशब्दस्य गानकर्तृत्वेन रूपेणाजहल्लक्षणयोद्गातृप्रस्तोतृप्रतिहर्तृपरत्वं कल्प्यते । उद्गात्रादीनां त्रयाणामेकस्तोत्रसम्बन्धात्सदसि सन्निधानाद् भक्षवेलायां च व्यापृतत्वात् त्रयाणामपि भक्षोऽस्तीत्युक्तं तृतीयस्य पञ्चमे । तस्मा-द्विभक्त्यस्वारस्यम् अन्याय्यमित्यत आह– प्रोद्गातॄणामिति ॥
विभक्त्यन्तर इति ॥ एतच्चोपलक्षणम् । गानकारिषु त्रिष्वपि कथञ्चिदवयवयोगेन वर्तमानं प्रातिपदिकं बहुवचनं च द्वयमपि श्रुत्यर्थं भवतीत्यपि बोध्यम् ॥ छन्दोगेष्विति ॥ अपसुब्रह्मण्ये-ष्वित्यर्थः । सुब्रह्मण्याख्यस्य ऋत्विजः सदसि स्थितत्वाभावात्सदसि स्थितान्प्रति भक्षणार्थं चमसानां नीयमानत्वान्न सुब्रह्मण्यस्य भक्षोऽस्तीति वार्तिककारो मन्यते ॥ दृष्टञ्चेति ॥ दर्शपूर्णमासयोः श्रुतं ‘प्रयाजशेषेण हवींष्यभिघारयति’ इति प्रयाजशेषाज्येन पुरोडाशादिह विषामभिघारणं किं हविषां संस्कार उत प्रयाजशेषस्य प्रतिपत्तिरिति संशये द्वितीयया हविषां संस्कार्यत्वेन प्राधान्यावगमात् तत्संस्कारः न तु शेषस्य प्रतिपत्तिः । तृतीयानिर्दिष्टस्य गुणत्वेन प्रतिपाद्यत्वायोगादिति प्राप्ते प्रतिपत्तिरेव युक्ता शेषशब्दस्य श्रवणात् । उपयुक्तशेषस्य हि द्रव्यस्य क्वचित् क्षारणरूपा प्रतिपत्तिरपेक्षिता न तु हविःसंस्कारः । अतः प्रयाजशेषं हविष्षु क्षारयेदिति वाक्यार्थकल्पनया प्रयाजशेषस्य प्रतिपत्तिरेव ग्राह्येति चतुर्थस्य प्रथमे निर्णीतम् । यथा वा ‘सक्तून् जुहोति’ इत्यत्र होमेन सक्तूनां संस्कार्यत्वा-सम्भवाद्विभक्तिविपरिणामेन सक्तुभिर्जुहोतीति वाक्यार्थमाश्रित्य प्रातिपदिकस्वारस्यमुक्तं न तु प्रातिपदिके लक्षणाऽऽश्रिता तथाऽत्रापि ।