१५ विशिष्य भेदखण्डनोद्धारः

सम्भवति च भेदस्य स्वरूपत्वेन निर्वाहः

१५. विशिष्य भेदखण्डनोद्धारः

न्यायामृतं

सम्भवति च भेदस्य स्वरूपत्वेन निर्वाहः । तत्र यदुक्तं निरपेक्षघटस्वरूपत्वे तद्वदेव भेदस्यापि निरपेक्षत्वं स्यादिति तन्न । व्याप्तेः स्वपरासम्मतेः । त्वन्मते सापेक्षाया अविद्यानिवृत्तेर्जीवब्रह्मैक्यस्य मत द्वयेऽपि स्थितौ व्यक्तिसापेक्षस्य जातिमात्रस्य प्रतीतौ सापेक्षस्य नीलतरत्वादिजातिविशेषस्यार्थप्रकाशात्मक ज्ञानस्य ब्रह्मणि ब्रह्माभेदस्यास्ति ब्रह्मेत्यादौ कालसापेक्षस्यास्तित्वस्य च निरपेक्षब्रह्मव्यक्त्यादिस्वरूपत्वात् । व्याप्त्यभावे चानुमानस्य तर्कस्य चाभासत्वात् । ऐक्यस्यास्वरूपत्वे च सत्त्वेऽद्वैतहानिः । मिथ्यात्वे च तत्परस्य ‘तत्त्वमसि’ इत्यादेरतत्त्वावेदकत्वं, भेदस्य सत्यता च स्यात् । यत्र यदध्यस्तं तत्र तद्विरोधि तज्ज्ञानाबाध्यं, यथा शुक्तावरूप्यत्वमिति वा, यत्र यदैक्य-मध्यस्तं तत्र तद्भेदस्तज्ज्ञानाबाध्यो यथा दूरस्थवनस्पत्योर्भेद इति वा, यत्र यदध्यस्तं तत्र तद्विरोधि तात्त्विकं यथा ब्रह्मण्यनृतत्वस्याध्यस्तत्वे सत्यत्वं तात्त्विकमिति वा व्याप्तेः । ऐक्यस्य च निरपेक्षत्वे तत्त्वंपदार्थपराणां ‘सत्यं ज्ञानं विज्ञानघनः’ इत्यादीनाम् ऐक्यपरमहावाक्यैकवाक्यत्वाभावेन वैयर्थ्यं स्यात् । न च प्रतियोगिनो भेदस्य सापेक्षत्वादैक्यं सापेक्षवदिति वाच्यम् । घटः पटो नेति नञर्थस्य भेदस्यैव तादात्म्यनिषेधत्वेन वैपरीत्यस्यैवोचितत्वात् । ऐक्ये भेदसापेक्षत्वस्य दुर्वारत्वाच्च ।

अथ तत्र प्रतीत्योरेव सापेक्षत्वनिपेक्षत्वे इति तयोरेव भेदः न तु तद्विषयस्य । एकस्यामेव तत्तायां संस्कारसापेक्षनिरपेक्षस्मृत्यनुभवविषयत्वस्य एकस्मिन्नेवाग्न्यादौ व्याप्त्यादिधीसापेक्षनिरपेक्षानुमितिप्रत्यक्षविषयत्वादेर्दर्शनादिति चेत्समं प्रकृतेऽपि । एवं च–

अज्ञानहानिवद् ब्रह्मरूपधीवदभेदवत् ।

स्वरूपत्वेऽपि भेदस्य सापेक्षत्वं हि युज्यते ॥

अथ तत्र स्वरूपेण निरपेक्षस्यापि ब्रह्मणोऽभेदत्वेन सापेक्षत्वं तर्हि स्वरूपेण निरपेक्षस्यापि घटस्य भेद त्वेन सापेक्षत्वमस्तु । प्रमेयत्वादिना निरपेक्षस्याप्यभाव-सादृश्यादेरभावत्वादिना सापेक्षत्वस्य स्वरूपेण निरपेक्षस्यापि दण्डादेर्ब्रह्मणश्च कारणत्वेन ज्ञानत्वेन च सापेक्षत्वस्य दर्शनात् । सप्रतियोगिकनिष्प्रतियोगिक व्यवस्था तु यदसाधारण्येन स्ववाचकपदप्रवृत्तिनिमित्तावच्छेदेन प्रतीतौ प्रतियोगिप्रतीतिसापेक्षं तत्सप्रति योगिकम्, अन्यत्तु निष्प्रतियोगिकमिति । यदि च तत्रैकस्यैवार्थस्य लघुत्वकठिनत्व-शब्दोल्लेखेन निरपेक्षस्याप्य गुरुत्वाद्रवत्वशब्दोल्लेखेन सापेक्षत्ववद् ब्रह्मशब्दोल्लेखेन निरपेक्ष-स्याप्यभेदशब्दोल्लेखेन सापेक्षत्वं तर्हीहापि घटशब्दोल्लेखेन निरपेक्षस्यापि भेदशब्दोल्लेखेन सापेक्षत्वमस्तु । एकस्यैव गमनस्य गच्छतिचलतिशब्दोल्लेखाभ्यां प्रयत्नस्य च करोति-यततिशब्दोल्लेखाभ्यां कर्मसापेक्षत्वनिरपेक्षत्वयोः शब्दस्वभावप्रयुक्तयोर्दर्शनात् ।

यदि च तत्राभेदत्वादिकमेव सापेक्षं न त्वभेदरूपो विशेष्यः, तर्ह्यत्राप्यन्योन्या-भावत्वरूपं भेदत्वमेव सापेक्षं न तु भेदरूपो विशेष्य इति समम् । न च तर्ह्यन्योन्या-भाव एव भेदोऽस्त्विति वाच्यम् । अन्योन्या भावस्यैव स्वरूपत्वोक्तेः । उक्तं हि–‘भावाभावस्वरूपत्वान्नान्योन्याभावता पृथग्’ इति । उक्तं च– ‘न स्वरूपमात्रं भेदः किन्त्वन्योन्याभावः । स च वस्तुतः सविशेषाभिन्नः’ इति । कथम् अभावस्य भावैक्यमिति चेद्, अविद्यानिवृत्त्यद्वैतयोरपि कथं ब्रह्मैक्यम् ? भावः स्वाभावेन विरुद्धो न त्वन्याभावेनेति चेत्समम् प्रकृतेऽपि, अभावाभावस्य भावत्वदर्शनात् । यदि चाविद्यानिवृत्तेर्ब्रह्मत्वं नाम प्राभाकरमत इवाधिकरणस्यैव निवृत्तिव्यवहारालम्बनता, तर्हीहापि घटस्यैवान्योन्याभावव्यवहारालम्बनतेत्यस्तु । यदि चाद्वैतं न द्वैताभावः, किन्तु तद्विरोधिभावान्तरं द्वैताभावोपलक्षितं ब्रह्मैव वा, तर्हि भेदोऽपि न तादात्म्याभावः, किन्तु तद्विरोधि भावान्तरं तदभावोपलक्षितं स्वरूपमेव वाऽस्तु ।

केचित्तु तत्तादात्म्यायोग्यत्वं वा (तर.पा)तदैक्यधीव्यवहारविरोधित्वं वा तद्भेदत्वं यत्र यद्दर्शनं यत्तादात्म्या ध्यासविरोधि तत्र तत्त्वं वा तद्भेदत्वमित्याहुः । इतरे तु स्ववृत्तियत्किञ्चिद्धर्मानाधारनिष्ठ यत्किञ्चिद्धर्मानाधार त्वरूपं वा स्वावृत्तिधर्माधारा-निष्ठधर्माधारत्वरूपं वा स्वरूपत्वं भेदत्वम् । अनाधारत्वं चाधारत्वराहित्यं न त्वाधारान्यत्वमिति नान्योन्याश्रय इत्याहुः । एतेन प्रतियोगिनिरूप्यस्य भेदस्य वस्तुस्वरूपत्वे प्रति योगिनोऽपि वस्तुस्वरूपत्वं स्यादिति निरस्तम् । व्याप्तेः स्वपरासम्मतेः । दुःखनिवृत्तेः पुमर्थत्वेऽपि दोषाभावस्य साधकत्वप्रयोजकत्वेऽप्यनृत-व्यावृत्यज्ञाननिवृत्योर् अज्ञानादिप्रकाशरूपज्ञानस्य च ब्रह्म स्वरूपत्वेऽपि अज्ञाननिवृत्ते-र्मोक्षत्वेऽपि दुःखेऽदोषेऽनृतेऽज्ञाने च पुमर्थत्वस्य साधकत्वप्रयोजकत्वस्य ब्रह्मस्वरूपत्वस्य मोक्षत्वस्य चादर्शनात् । तत्राज्ञानादिकं कार्यानन्वयित्वेनोपलक्षणं सन् निरूपकमात्रम्, न तु कार्यान्वयित्वेन विशेषणमिति चेत्, समं प्रकृतेऽपि ।

लोकेऽपि निरूपके ‘लम्बकर्णमानय’ इत्यादौ कार्यान्वयस्येव ‘चित्रगुमानय’ ‘काशीवासी समागतः’ इत्यादौ तदनन्वयस्यापि दर्शनात् । न च व्याप्तिग्रहणेऽनुसृता लौकिकी रीतिर्व्यभिचारे नानुसरणीया । न च कर्णस्य कार्यान्वयदर्शनेन गवामपि तदापादनम् । वैपरीत्यापत्तेः, अज्ञानादेर्ब्रह्मस्वरूपत्वापत्तेश्च । ननु प्रतियोगिन उपलक्षणत्वे कदाचित् काकाज्ञानेऽपि गृहज्ञानवत् प्रतियोग्यज्ञानेऽपि भेदज्ञानं स्यादिति चेत्, तर्ह्यज्ञानाद्यज्ञानेऽपि कदाचित्तन्निवृत्त्यादिज्ञानं स्यात् । अथोपलक्षणस्यापि प्रतियोग्यादेर्ज्ञानमुपलक्ष्याभाव सादृश्यादिज्ञानकारणं दृष्टमित्यदोषमिति चेत्, समं प्रकृतेऽपि । तस्मात्प्रतियोगिन उपलक्षणत्वान्न धर्मिण्यन्तर्भावः । एवं च–

पुरुषार्थे दुःखमिव ब्रह्मण्यज्ञानवत्तथा ।

मोक्षे च मोहवन्नाऽन्तर्गतं कुम्भादिकं पटे ॥

तटस्थत्वेऽपि कुम्भादेरप्रतीतौ न भेदधीः ।

अज्ञानादेरप्रतीतौ तद्धान्याद्यप्रतीतिवत् ॥

(१) केचित्तु प्रतियोगिनो विशेषणत्वेऽपि न दोषः । शब्दोऽनित्य इत्यादौ शब्दत्वादेरिव कार्यानन्वयेऽपि विशेषणत्वोपपत्तेरित्याहुः ।

अद्वैतसिद्धिः

ननु निरपेक्षस्वरूपत्वे सापेक्षत्वानुपपत्तिरिति यदुक्तं, तत्तावदयुक्तम्, अविद्यानिवृत्तेर्जीवब्रह्मैक्यस्य च तव मते मतद्वयेऽपि स्थितौ व्यक्तिसापेक्षस्य जातिमात्रस्य प्रतीतौ सापेक्षस्य नीलतरत्वादे-रिवार्थप्रकाशात्मकज्ञानस्य ब्रह्मणि ब्रह्माभेदस्य ‘अस्ति ब्रह्म’ इत्यादौ कालसापेक्षस्यास्तित्वस्य (च) निरपेक्षब्रह्मव्यक्त्यादिरूपताया दर्शनादिति– चेन्न, अविद्यानिवृत्तिजीवब्रह्मैक्ययोः प्रतीतौ सापेक्षत्वस्या-विद्यकतया तात्त्विकनिरपेक्षत्वविरोधित्वाभावात् । जातिमात्रस्य व्यक्त्यभेदासिद्धेः । व्यक्तिसमानसत्ताक-घटत्वादौ तदभावात् । व्यक्त्यसमानसत्ताकसत्तादिजातौ तु सापेक्षत्वस्य काल्पनिकत्वात् । नीलतर-त्वादेर्व्यक्तिरूपत्वासिद्धौ हेतोरभावादर्थप्रकाशात्मकज्ञानस्य ब्रह्माभेदस्य च सापेक्षतायाः काल्प-निकत्वात् । अस्ति ब्रह्मेत्यादावप्येवमेव । तथा च तत्त्वतो निरपेक्षस्य सामानाधिकरण्यासिद्ध्या न तर्काभासताव्याप्तिसिद्धिः । अत एव– ऐक्यस्यास्वरूपत्वे औतहानिः, मिथ्यात्वे भेदस्य सत्यत्व-प्रसङ्गः, यत्र यदध्यस्तं तत्र तद्विरोधि तज्ज्ञानाबाध्यम्, यथा शुक्तावरूप्यत्वम् । यत्र यदैक्यं बाध्यं, तत्र तद्भेदस्तज्ज्ञानाबाध्यः । यथा दूरस्थवनस्पत्योर्भेद इति वा । यत्र यदध्यस्तं तत्र तद्विरोधि तात्त्विकम्, यथा ब्रह्मण्यनृतत्वस्याध्यस्तत्वे सत्यत्वं तात्त्विकमिति वा व्याप्तेरिति– निरस्तम् । ऐक्यस्य ब्रह्मभेदानङ्गीकारात् । विरोध्यनुरोधिनां सर्वेषां ब्रह्मणि कल्पितत्वेन तज्ज्ञानबाध्यत्वेन व्याप्तीनामसिद्धेः ।

ननु– ऐक्यस्य निरपेक्षत्वे तत्त्वंपदार्थपराणां ‘सत्यं विज्ञानघनः’ इत्यादीनामैक्यपरमहावाक्यैक-वाक्यत्वाभावेन वैयर्थ्यं स्यादिति चेन्न । ऐक्यस्य स्वप्रकाशब्रह्माभिन्नतया स्थितिप्रतीत्यादौ निरपेक्ष-त्वेऽपि यथा लक्ष्यार्थभेदभ्रमनिवर्तकवृत्ति जनने पदार्थसापेक्षतया स्वरूपपरवाक्यानामेकवाक्यतायाः सत्त्वात् । भेदरूपप्रतियोगिसापेक्षत्वेन तत्र सापेक्षत्वव्यवहारात् । न च घटः पटो नेति नञर्थस्य भेदस्येव तादात्म्यनिषेधरूपत्वेन वैपरीत्यम्, तादात्म्यस्य तन्निष्ठासाधारणधर्मरूपत्वे भेदस्याभेदा-नपेक्षत्वात् । अभेदरूपत्वे भेदसापेक्षत्वेनैव तस्य तदनपेक्षत्वात् । न चैतावता ऐक्यस्य सापेक्षत्वा-पत्तिः । काल्पनिकस्येष्टत्वात् । अत एव– अज्ञानहानिवद् ब्रह्मरूपधीवदभेदवत्स्वरूपत्वेऽपि भेदस्य सापेक्षत्वं हि युज्यत इति निरस्तम् । तव सापेक्षत्वयोस्तात्त्विकतया दृष्टान्तवैषम्यात् । न च भेदेऽप्येवमेवास्तु, भेदस्य निषेधप्रतियोगितया श्रुतत्वेन ब्रह्मरूपत्वाभावात् । न च तत्राभेदश्रुतिरस्ति । एतेन स्वरूपेण निरपेक्षस्याप्यभेदस्याभेदत्वेन सापेक्षत्ववत् स्वरूपेण निरपेक्षस्यापि घटस्य भेदत्वेन सापेक्षत्वमस्तु, अवच्छेदकभेदेन सप्रतियोगित्वाप्रतियोगित्वे अपि यथा तद्वदिति– निरस्तम् । भेदस्य स्वरूपतो निरपेक्षत्वे निष्प्रतियोगिकत्वे च परान् प्रतीव स्वमपि प्रति अविशिष्टतया स्वव्याघातः । न चैवमभेदस्यापि स्वान् प्रतीव परान् प्रति तथा सति तथात्वापत्तिः । इष्टापत्तेः । घटत्वादिना भेदः परं कल्पितः, स्वरूपतस्त्वभेद एव । तथा सति परत्वं परं व्याहतम्, न स्वरूपत्वमपि ।

यत्तु सप्रतियोगिकत्वनिष्प्रतियोगिकत्वव्यवस्था तु यदसाधारण्येन स्ववाचकप्रवृत्तिनिमित्तावच्छेदेन प्रतीतौ प्रतियोगिप्रतीतिसापेक्षं तत्सप्रतियोगिकम्, अन्यत्तु निष्प्रतियोगिकमिति, तन्न । भेदस्य स्वरूपत्वे तदन्यत्वासिद्धेः । एतेन– एकस्यार्थस्य लघुत्वकठिनत्वादिना उल्लेखेन निरपेक्षत्वेऽपि अगुरुत्वाद्रवत्वादिना उल्लेखेन सापेक्षत्वमपि यथा, तथा घट इत्युल्लेखेन निरपेक्षस्यापि भेद इत्युल्लेखे सापेक्षत्वोपपत्तिरिति– निरस्तम्, शब्दानुल्लेखेऽपि सापेक्ष निरपेक्षयोरनुभवाच्च, लयादिवन् नञनुल्लेख-मात्रेण दृष्टान्तासम्प्रतिपत्तेश्च । न च– एकस्यैव गमनस्य गच्छतिचलतिशब्दोल्लेखाभ्यामेकस्यैव च प्रयत्नस्य करोति प्रवर्तत इति शब्दोल्लेखाभ्यां कर्मसापेक्षत्वनिरपेक्षत्वयोः शब्दस्वभावप्रयुक्ति दर्शनादत्रापि घटभेदशब्दोल्लेखेन सापेक्षत्वनिरपेक्षत्वे स्यातामिति– वाच्यम् । अर्थगतसकर्मकत्वादीनां शब्दस्वभावान धीनत्वात् । प्रत्युत एकस्मिन्नेव तपधातावर्थभेदेन तयोर्दर्शनात् ‘तपति ऋषिस्तपति पृथिवीं सविता’ इत्यादौ । एवं च दृष्टान्तेष्वर्थभेद एव, फलं धात्वर्थ इति मते संयोगरूपार्थभेदात् । मतान्तरे तूत्तर-संयोगावच्छिन्नस्पन्दस्य गम्यर्थत्वं, पूर्वविभागफलकस्पन्दस्य चलत्यर्थत्वम्, अनुकूलयत्नस्य करोत्यर्थत्वं, यत्नमात्रस्य यत्यर्थत्वमिति । न च भेदत्वमेव सापेक्षं न तु भेद इति वाच्यम् । सापेक्षतया विशेष्यस्यैवानुभवात् । अन्यथा घटप्रतियोगिकं भेदत्वम् इत्युल्लेखः स्यात् ।

एतेन ‘भावाभावस्वरूपत्वान्नान्योन्यभावता पृथक्’ इत्युक्तेर् न स्वरूपमात्रं भेदः, किन्त्व-न्योन्याभावः । स च वस्तुनः सविशेषाभिन्नः’ इत्युक्तेश्च घटादिरेव भावाभावरूपतया भेद इति निरस्तम् । घटतदभावस्थले भावत्वाभावत्वयो र्विरुद्धत्वेन कल्पनात्कथं तदाश्रयैक्यम् ? न च अविद्यानिवृत्त्यद्वैतयोरपि कथं ब्रह्मैक्यमिति वाच्यम् । अस्मन्मते तत्राभावत्वस्य कल्पितत्वेन मायिकतया विरोधाभावात् । तव तु द्वयोरपि तात्त्विकत्वेन विरोधस्य दुष्परिहरत्वात् । अत एव– तत्तादात्म्यायोग्यत्वं वा तदैक्यप्रमित्यविषयत्वं वा, यत्र यद्दर्शनं तत्र तत्तादात्म्याध्यासविरोधित्वं वा, स्ववृत्तियत्किञ्चिद्धर्मानाधारनिष्ठयत्किञ्चिद्धर्मानाधारत्वस्वरूपं वा स्वावृत्तियत्किञ्चिद्धर्माधारानिष्ठधर्मा-धारत्वरूपं वा स्वरूपत्वं तद्भेदत्वम्, अनाधारत्वं चाधारत्वराहित्यम्, न त्वाधारादन्यत्वमिति नान्योन्याश्रय इति निरस्तम् । स्वरूपत्वे सापेक्षत्वानुपपत्तेः । अतिरेकेऽनवस्थानात् । अत्यन्ता-भावान्योन्याभावयोरैक्यापत्तेः, प्रमितिदर्शनादिघटितत्वेन चक्षुराद्यगम्यतापत्तेश्च । किञ्च भेदस्य घटस्वरूपत्वे तन्निरूपकप्रतियोगिनोऽपि तत्स्वरूपतापत्तिः । न हि भेदरूपमात्रं घटः, किन्तु पटप्रतियोगिकभेदरूप इति ।

ननु नायं दोषः । भेदप्रतियोगिन उपलक्षणत्वेन स्वरूपतायामनन्वयात् । अन्यथा दुःखनिवृत्तेः पुमर्थतया दुःखस्यापि पुमर्थत्वं, दोषाभावस्य साधकताप्रयोजकत्वे दोषस्यापि साधकताप्रयोजकत्वम् । अनृतव्यावृत्त्यज्ञान निवृत्त्योरज्ञानादिप्रकाशरूपज्ञानस्य च ब्रह्मरूपत्वेऽनृतादीनामपि तद्रूपत्वम् । अज्ञाननिवृत्तेर्मोक्षत्वे अज्ञानस्य च मोक्षत्वं च स्यात् । न च लम्बकर्णादौ कर्णादेर्विशेषणतयाऽन्वय-दर्शनादत्रापि तथा । चित्रग्वादिष्वनन्वयात्तथैव किं न स्यात् । अन्यथोदाहृतस्थले अगतेः । न च प्रतियोगिन उपलक्षणत्वे तदज्ञानेऽपि काकाज्ञाने गृहज्ञानवत्तज्ज्ञानापत्तिः, इष्टापत्तेः । अन्यथो-दाहृतागतेश्च । केचितु प्रतियोगिनोऽनन्वयेऽपि ‘शब्दो ऽनित्य’इत्यादौ शब्दत्वादेर्विशेषणत्वमिवात्रापि विशेषणत्वमित्याहुरिति– चेन्न, न हि वयं पटभेदो घटस्वरूपमित्यन्वयप्रविष्टत्वेन प्रतियोगितया निरूपकत्वमात्रेण वा पटस्य घटरूपतामापादयामः, किन्तु समानाधिकरणप्रतीतिविषयस्वरूपं प्रति प्रतियोगितया निरूपकत्वेन । अभेदनिरूपकप्रतियोगिवत् । न चाज्ञाननिवृत्त्यादयः समानाधिकरण-प्रतीतिविषयाः । भेदस्तु घटः पटो नेति समानाधिकरणप्रतीतिविषयः । अन्यथा समानाधिकरण-निषेधबुद्धिविषयत्वं भेदलक्षणं न स्यात् । एतेन–

पुरुषार्थे दुःखमिव ब्रह्मण्यज्ञानवत्तया ।

मोक्षे च मोहवन्नान्तर्गतं कुम्भादिकं पटे ॥

तटस्थत्वेऽपि कुम्भादेरप्रतीतौ न भेदधीः ।

अज्ञानादेरप्रतीतौ तद्धान्याद्यप्रतीतिवत् ॥ इति निरस्तम् ।

न्यायामृततरङ्गिणी

अविद्यानिवृत्तेरिति ॥ नन्वविद्यानिवृत्तिब्रह्मैक्ययोरतात्विकं सापेक्षत्वं तात्विकनिरपेक्ष-ब्रह्मस्वरूपाविरोधि । मैवम् । अतात्विकसापेक्षस्य भेदस्य तात्विकनिरपेक्षघटस्वरूपा-विरोधित्वस्यापि सुवचत्वात् । ब्रह्मस्वरूपं तात्विकं घटस्वरूपं त्वतात्विकमित्यस्यासिद्धेः । भेदस्य सत्यता स्यादित्युक्तमुपपादयति– यत्र यदध्यस्तमित्यादिना ॥ ब्रह्माधिकरणको भेदो ब्रह्मज्ञानाबाध्यः । स्वविरोध्यध्यासाधिष्ठानाधिकरणकत्वात् । सामान्यव्याप्तौ शुक्ताव-रूप्यत्ववत् ॥ ऐक्यमिति ॥ ऐक्याध्यासाधिष्ठानाश्रित्यत्वं हेतुः । तात्विकं वेति साध्य-निर्देशः । स्वविरोधीत्याद्युक्तो हेतुः ॥ ऐक्यस्य चेति ॥ नन्वैक्यस्य निरपेक्षत्वेऽपि तत्तदर्थभेदभ्रमनिवर्तकवृत्तिजनने तत्तत्पदार्थसापेक्षतया स्वरूपपर वाक्यानामेकवाक्यताऽस्ति । मैवम् । तत्तत्पदप्रतिपाद्यतत्तदर्थप्रतियोगिकैक्यविषयकत्वं विना वृत्तेर्भेदभ्रमनिवर्तकत्वायोगात् । ऐक्यस्य निरपेक्षत्वे वृत्तेस्तादृशैक्यविषयकत्वायोगात् ॥ तादात्म्यनिषेधत्वेनेति ॥ तन्निष्ठा-साधारणधर्मत्वादेस्तादात्म्य स्यैक्यरूपत्वात् । यदि चाभेदस्तादात्म्यं तदैक्यमेव भेदापेक्ष-मित्याह– ऐक्य इति ॥ सापेक्षत्वं हि युज्यत इति ॥

ननु मम मते काल्पनिकं सापेक्षत्वं तव तु सापेक्षत्वनिरपेक्षत्वे द्वे अपि तात्विके इति दृष्टान्तवैषम्यम् । न । भेदस्यापि ब्रह्मस्वरूपत्वेन तत्र सापेक्षत्वं काल्पनिकमित्यपि वक्तुं शक्यत्वात् । न च भेदस्य ब्रह्मस्वरूपत्वे मानाभावः । ऐक्येऽपि साम्यात् ॥ प्रमेयत्वदि-नेति ॥ ननु भेदस्य निरपेक्षत्वे परान्प्रतीव स्वमपि प्रत्यविशिष्टतया स्वस्मिन्भेदत्वापत्तिः । मैवम् । अभेदस्यापि तथात्वे स्वं प्रतीवान्यान्प्रत्यप्यभेदत्वापत्तेः । न चेष्टापत्तिः । घट-त्वादिना भेदः कल्पितः । स्वरूपतस्त्वभेद एवेति वाच्यम् । भेदेऽपि साम्यात् । घटभेदत्वेन घटावृत्तित्वेऽपि भेदत्वेन भेदस्य घटेऽपि वृत्तेः । ननु निरपेक्षघटस्वरूपस्य भेदस्य प्रतीत्योरपि कथं प्रतियोगिप्रतीतिसापेक्षत्वानपेक्षत्वादिकमत आह– शब्दस्वभावप्रयुक्तयोरिति ॥ घटकर्मत्वमानयनमित्यादिशब्दाद् घटमानयेति शब्दाज्जन्ययोः प्रतीत्योरन्वयबोधाजनकत्व तज्जनकत्वयोर्दर्शनादिहापि तदुपपत्तेः । एतच्चोपपादितं दृग्दृश्यसम्बन्धानुपपत्तिभङ्गे । अन्यथैक्येऽपि समम् । तदेतदाह– ब्रह्मशब्दोल्लेखेनेत्यादिना ॥

ननु गच्छतिचलत्योरर्थभेद एव । उत्तरसंयोगावच्छिन्नस्पन्दो गम्यर्थः । पूर्वविभागफलक-स्पन्दश्चलत्यर्थ इति । मैवम् । उभयत्रापि पूर्वदेशविभागस्योत्तरदेशसंयोगस्य च प्रतीतेः सत्त्वेन गमिचलत्योरर्थाभेदात् । धात्वर्थः फलमिति मण्डनाचार्यमते तु संयोगस्योभयफलत्वेन तयोरैकार्थ्यात् । न चानुकूलयत्नः करोत्यर्थः फलमानयत्यर्थ इति वाच्यम् । आख्यात-समानार्थतया यत्नमात्रस्य करोत्यर्थत्वात् । एतदप्युपपादितं प्रतिकर्मव्यवस्थाभङ्गे । नियमा-नङ्गीकाराच्च क्वचिद्धात्वभेदेऽपि ‘तपति ऋषिः, तपति पृथिवीं सविता’ इत्याद्यकर्मकसकर्मक-प्रतीतिरप्युपपद्यते ॥ नान्योन्याभावतेति ॥ ननु नान्योन्याभावः पृथगिति वक्तव्यम् । सत्यम् । नायं भावशब्दो भावसाधनः किन्तु कर्तृसाधनः । ज्वलितिकसन्तेभ्योऽण इति णप्रकरणे ‘भवतेश्च’ इत्यनेन कर्तरि भवतेर्णविधानात् । भवतीति भावस्तस्य भावो भावता भवनम् । एवं चान्योन्याभावताऽन्योन्याभवनमन्योन्याभाव एव । स न पृथगित्यर्थः । तथा च तल्प्रत्ययोपपत्तिः । केचित्तु ‘अकर्तरि च कारके सञ्ज्ञायाम्’ इति कर्तरि प्रतिषिद्ध-मपि घञ्प्रत्ययम् ‘उणादयो बहुलम्’ इति बहुलवचनात्कर्तर्यपि विधाय कर्तृसाधनं भावशब्दमाहुः ॥ अविद्यानिवृत्त्यद्वैतयोरपि कथं ब्रह्मैक्यमिति ॥

ननु मम मते तत्राभवत्वस्य कल्पितत्वेन विरोधाभावस् तव तु द्वयोरपि तात्विकत्वेन विरोधः । मैवम् । निर्विशेषब्रह्माभिन्नेऽविद्यानिवृत्त्यादौ भावत्वाभावत्वयोः कल्पितत्वेन तव विरोधस्य दुर्वारत्वात् । वुरुद्धयोरुभय तात्विकत्ववदुभयकल्पितत्वेऽपि विरोधात् ॥ तदैक्यप्रमित्यविषयत्वमिति ॥ दर्शनादिघटितत्वेऽचाक्षुषत्वाद्यापत्तिः । संस्कारोपनीतभानात् ॥ इतरे त्विति ॥ न चात्यन्ताभावान्योन्याभावयोरैक्यापत्तिः । इष्टत्वात् ॥ प्रतियोगि-निरूप्यस्येति ॥ घटस्य पटप्रतियोगिकभेदस्वरूपत्वे पटस्वरूपत्वमपि स्यादित्यर्थः । ननु न घटस्वरूपभेदं प्रति पटस्य निरूपकत्वमात्रेण घटस्य पटरूपताऽऽपाद्यते किन्तु समानाधिकरणप्रतीतिविषयस्वरूपं प्रति प्रतियोगितया निरूपकत्वेन । अज्ञाननिवृत्त्यादयस्तु न समानाधिकरणप्रतीतिविषयाः । भेदस्तु ‘घटः पटो न’ इति समानाधिकरण प्रतीतिविषय इत्याशङ्का तुच्छेत्याह– अनृतेत्यादिना ॥ ‘अनृतं न ब्रह्म, अज्ञानप्रकाशो ब्रह्म’ इत्यादि समानाधिकरणप्रतीतिविषयो यद् ब्रह्म तत्स्वरूपा याऽनृतव्यावृत्तिरज्ञानप्रकाशश्च तत्र प्रतियोगितया निरूपक स्यानृतस्याज्ञानस्य च ब्रह्मरूपतापत्तेरुक्ताशङ्कायास्तुच्छत्वात् । ‘अद्वितीयं ब्रह्म’ इत्यत्र द्वितीयस्य ‘अदुःखं ब्रह्म’ इत्यादौ दुःखादेर्ब्रह्मरूपतापाताच्च ।

न्यायामृतकण्टकोद्धारः

नन्वेवमस्तु प्रतिवादिनं प्रति प्रतिबन्द्या समाधानम् । तत्वविचारकं, धर्मिस्वरूपत्वमुत तदतिरिक्तत्वमिति पक्षयोः कस्मिन् पक्षे निर्वाह इति जिज्ञासमानं प्रति कथं समाधानमित्यत आह– सम्भवति चेति ॥ यद्वा प्रतिवादिनं प्रत्येवं प्रतिबन्द्या समाधानमभिधाय, अस्तु धर्मिस्वरूपत्वमेव भेदस्य तथापि न काप्यनुपपत्तिरित्याह– सम्भवति चेति ॥ ब्रह्मव्यक्त्यादीति ॥ तथा च व्यभिचारान्न तर्कमूलभूतव्याप्तिरिति भावः । न च जातिमात्रस्य व्यक्तिभेद एव न व्यक्तिसमानसत्ताकघटकत्वादौ भेदाभावात् । तदसमानसत्ताकसत्तादौ सापेक्षस्य काल्पनिकत्वान् नीलघटत्वादिकं व्यक्त्यभिन्नमेव । अन्यत्र सर्वत्र प्रतीतौ सापेक्षत्वकाल्यमेवेति नैक्यादिप्रतिबन्दीति वाच्यम् । जातौ पृथक् सत्ताभावेन समानासमानविभागकल्पनानुपपत्तेः । न च जातावपि स्वरूप-सत्त्वमस्तीति वाच्यम् । तथापि जातिमात्रस्य व्यक्तिसमान सत्ताकत्वेनासमानसत्ताकजात्यसिद्धेः । न च सत्तैव तादृशीति वाच्यम् । घटत्वादावप्येवं वक्तुं शक्यत्वात् । विनिगमकाभावात् । न च सत्ता ब्रह्मात्मिकैवेति वाच्यम् । घटनिष्ठतयाऽनुभवात् । अन्यथा घटत्वादेरपि ब्रह्मात्मकत्व-प्रसङ्गात् ।

यच्च सापेक्षकत्वमाविद्यकतया काल्पनिकमिति तन्न । बाधकाभावात् । भेदेऽपि तथा वक्तुं शक्यत्वाच्च । ननु मास्तु व्याप्तिस्तथापि तर्कस्य किं दूषणमित्यत आह– व्याप्त्यभावे चेति ॥ नन्वैक्यं ब्रह्मस्वरूपमेव न भवति । तथा च कथं तत्र व्यभिचार इत्यत आह– ऐक्यस्येति ॥ ननु भेदस्य सत्यता स्यादित्यापादितं तदयुक्तम् । यत्रैक्यं मिथ्या तत्र भेदः सत्य इति व्याप्तेरस्माकमसिद्धेऽपि भेदसत्यत्वस्य क्वाप्यनभ्युपगमादित्यत आह– यत्रेति ॥ नन्वियं सामान्यव्याप्तिर्न विशेषव्याप्तिः । सैव प्रकृतोपयोगिनीत्यभिमानं ? तं ‘तुष्यतु दुर्जन’ इति न्यायेनाह– यत्र यदैक्यमिति ॥ सत्यपदेन तज्ज्ञानाबाध्यत्वस्यैव विवक्षितत्वान्नापादन-व्याप्त्योर्भिन्नविषयत्वमिति भावः । नन्वैक्यं सापेक्षमेव न । तथा च सापेक्षत्वरूपहेतोरेवाभावात्कथं व्यभिचार इत्यत आह– ऐक्यस्य चेति ॥ न चैक्यस्य स्वरूपप्रतीत्यादौ निरपेक्षत्वेऽपि भेदभ्रमनिवर्तकवृत्तिजनने सापेक्षतया स्वरूपपराणामप्येकवाक्यतेति वाच्यम् । भेदभ्रमनिवर्तिका ऐक्यवृत्तिरेव । तथा चैक्यस्य निरपेक्षत्वे तद्वृत्तेरपि सुतरां निरपेक्षत्वेन पुनरपि पदार्थपराणां वैयर्थ्यं दुष्परिहरमिति भावः ।

वैपरीत्यस्यैवेति ॥ ऐक्यस्य तादात्म्यरूपत्वेन तन्निषेधरूपत्वात् । भेदस्य तत्सापेक्षतयैव सापेक्षत्वमिति भावः । अस्तु वैक्यस्य भेदनिषेधरूपत्वं तथापि भेदरूपप्रतियोगिसापेक्षत्वं दुर्वारमित्याह– ऐक्य इति ॥ ननु सापेक्ष निरपेक्षप्रतीतिविषयत्वं विरुद्धमेकत्र कथमङ्गीकर्तुं शक्यम् । कुत्राप्यदृष्टत्वादित्यत आह– एकस्यामेवेति ॥ उक्त मर्थं कारिकया सङ्गृह्णाति– एवञ्चेति ॥ ब्रह्मरूपा या धीस्तद्वदित्यर्थः । ननु दृष्टान्ते काल्पनिकत्वाकाल्पनिकत्वयोर्द्वयो स्तात्विकत्वाभावाद् दार्ष्टान्तिके च तद्भावाद् वैषम्येण दृष्टान्तदार्ष्टान्तिकभावोऽनुपपन्न इति चेन्न । दृष्टान्तेऽप्युभयोस्तात्विकत्वावश्यम्भावाद् दार्ष्टान्तिकेऽपि तथा वक्तुं शक्यम् । स्वभेदस्य निषेधप्रतियोगितया तत्र वक्तुमशक्यमिति वाच्यम् । ?भेदः स्वातन्त्र्यसार्वज्ञेत्यादिप्रमाणा-नामन्यत्रोदाहृतत्वाद् अभेदस्यैव स्वरूपत्वे न किमपि प्रमाणं पश्यामः । नन्वेकस्यैव केनचिद्रूपेण सापेक्षत्वं केनचिद्रूपेण निरपेक्षत्वमिति न दृष्टम् । तथा चादृष्टकल्पनेत्यत आह– प्रमेयत्वादि-नेति ॥ नन्वेवं सर्वस्यापि सापेक्षत्वनिरपेक्षत्वयोः सर्वत्र सत्त्वात् सप्रतियोगित्वव्यवस्था न स्यादित्यत आह– शब्दाभ्यामप्रतियोगिकेति ॥ न च भेदस्य स्वरूपत्वे तदन्यासिद्धिरिति वाच्यम् । स्वरूपत्वेऽपि तदन्यसिद्धेर्वक्ष्यमाणत्वात् ।

ननु न मया एकस्य वस्तुनस्सापेक्षत्वनिरपेक्षत्वे स्वीक्रियते किं शब्दद्वारकमेव सापेक्षत्वादिकमित्यत एतदपि तुल्यमिति सदृष्टान्तकमाह– यदि चेति ॥ बुद्ध्युपारोहाय दृष्टान्तान्तराण्याह– एकस्यैवेति ॥ न चार्थ एव सापेक्षत्वनिरपेक्षत्वयोरनुभवात् कथमैक्यमिति वाच्यम् । शब्दोपाधिकतयाऽर्थेऽनुभवसम्भवात् । ननु विधिनिषेधमुखेन प्रवृत्तशब्दाभ्यामेव सापेक्षत्वनिरपेक्षत्वदर्शनेऽपि विधिमुखप्रवृत्तशब्दाभ्यां तयोरदर्शनात् प्रकृते कथं विधिमुख-प्रवृत्तशब्दाभ्यामेव सापेक्षत्वनिरपेक्षत्वे इत्यत आह– एकस्यैवेति ॥ न चार्थगतं सकर्मत्वादिकं न शब्दस्वभावाधीनम् । किञ्च तत्रार्थभेदेनैव धातुद्वयं प्रवृत्तम् । यथा ‘तपति ऋषिः, तपति पृथिवीं सविता’ इत्यादाविवेति वाच्यम् । अस्मिन् पक्षे शब्दोपाधिकयोरेव सापेक्षत्वनिरपेक्षत्वयो-रर्थेऽभ्युपगमात् । न च धात्वोरर्थभेदः । यतिकरोत्योरेकार्थत्वस्मरणात् । यतिकरोतिभ्यां यत्नमात्रस्यैवानुभवाच्च । न चानुकूलयत्नत्वं करोत्यर्थो यत्नमात्रं यत्यर्थ इति वाच्यम् । अर्थभेदकल्पने प्रमाणाभावात् । तथा च शब्दोपाधिकमेव सापेक्षत्वमिति ॥ सममिति ॥ न च विशेष्यस्य भेदस्यैव सापेक्षत्वं वक्तव्यम् । अन्यथा घटप्रतियोगिकं भेदत्वमित्युल्लेखः स्यादिति वाच्यम् । अभेदेऽप्यस्य तुल्यत्वात् । अभेदे सापेक्षत्वं कल्पितमनुपरास्तम् । निरपेक्षित्वस्यैव कल्पितत्वस्य वक्तुं शक्यत्वाच्च ।

भेदशब्दः कस्मिंश्चिद् भावान्तरे सङ्केतित इति शङ्कानिरासार्थम् ‘अन्योन्याभावत्वरूपम्’ इत्युक्तम् । अन्योन्याभावत्वरूपं भेदत्वं चेदन्योन्याभाव एव भेदः स्यात् । तस्य च स्वरूपत्वं नाङ्गीक्रियत इत्याशङ्क्य निषेधति– न च तर्हीति ॥ तर्ह्यपसिद्धान्त इत्यत आह– उक्तं हीति ॥ कथमिति ॥ भावाभावयोः परस्परविरुद्धरूप त्वेनैक्यायोगादिति भावः । प्रतिवादिमुखेन प्रतिबन्दीमाह– अविद्येति ॥ न च मन्मते भावत्वं काल्पनिकम् उभयोः काल्पनिकत्वे वस्तुनः शून्यत्वापातात् । अन्यतरस्य काल्पनिकत्वे विनिगमकाभावात् ॥ समं प्रकृतेऽपीति ॥ स्वाभावेनैव विरोधोऽनुभवसिद्धो न त्वन्योन्याभावेन । प्रत्युत घटः पटो नेति सामानाधि-करण्यादैक्यमेवानुभूयते । अत ऐक्योपपत्तिरिति भावः । नन्वेवं कुत्रापि न दृष्टमित्यत आह– अभावाभावस्येति ॥ अस्त्विति ॥ उपलक्षणमेतत् । ब्रह्मण एवाविद्यानिवृत्तिव्यवहारालम्बनत्वे ब्रह्मणोऽनादिनित्यत्वेन तत्वज्ञानार्थं श्रवणादिप्रयासवैयर्थ्यं स्यादित्यपि द्रष्टव्यम् ॥ तर्हीति ॥ अत्रापि भावान्तरस्य सत्यत्वेऽद्वैतहानिः । असत्यत्वे द्वैतसत्यत्वापातः ब्रह्मरूपत्वे साध्यत्वापत्तिरित्यपि द्रष्टव्यम् ।

केचित्त्विति ॥ ‘अयोग्यत्वम्’ अयोग्यतावच्छेदकरूपवत्त्वमित्यर्थः । अत्र ‘अविषयत्वम्’ अविषयतावच्छेदक रूपवत्वमित्यर्थः । तत्त्वं तादृशधर्मवत्वमित्यर्थः । अत्र पक्षत्रये असाधारणधर्म एव भेद इति पर्यवस्यति । अग्रिमपक्षद्वये असाधारणधर्माधिकरणं स्वरूपम् । सर्वत्र उपाधिभेदादौपाधिकभेदो द्रष्टव्यः । न च स्वरूपत्वे निरपेक्षत्वापातोऽतिरेकेऽनवस्थेति वाच्यम् । अभेदवत् स्वरूपत्वेऽपि निरपेक्षत्वोपपत्तेरुक्तत्वात् । न चानाधारत्वमाधारभिन्नत्वं, तथा चान्योन्याश्रय इत्यत आह– अनाधारत्वं चेति ॥ एषु पक्षेषु भेदस्यानेकोपाधिघटितत्वेन तेषाञ्चोपनायकप्रमाणनियमाभावेन स्वरूपप्रतीतावेव भेदप्रतीतिर्न स्यात् । भेदाप्रतीतौ च सर्वात्मकत्वसन्देहविपर्ययादिप्रसङ्ग इत्यस्वरसो द्रष्टव्यः । एतावता ग्रन्थेन भेदस्य स्वरूपत्वे सापेक्षत्वं न स्यादिति बाधकं परिहृतम् । इदानीं भेदप्रतियोगिनामनन्तत्वेन तद्धटितभेदस्य धर्मिस्वरूपत्वे धर्मिणः सर्वाद्वैतप्रसङ्ग इति बाधकं परिहरति– एतेनेति ॥ अत्र यन्निरूप्यस्य यस्य यत्स्वरूपत्वं तन्निरूपकस्यापि तत्स्वरूपत्वमिति व्याप्तिः ? उत प्रतियोगिनिरूप्यस्य भेदस्य धर्मिस्वरूपत्वे प्रतियोगिनोऽपि धर्मिस्वरूपत्वापत्तिरिति वा ? न द्वितीयः । तदभावात् । नाद्यः, व्यभिचारादित्याह– व्याप्तेरिति ॥

ननु नोक्तस्थले व्यभिचारः । मया निरूपके विशेषणत्वं विवक्षितम् । दुःखादेश्च न विशेषणत्वम् । भेदे च प्रतियोगी विशेषणम् । अतो वैषम्यमित्यत आह– तत्रेति ॥ ननु लोके सर्वत्र कार्यान्वय एव दृष्टोऽतः कार्यानन्वयित्वं कथमित्यत आह– लोक इति ॥ ननु व्याप्तिग्रहे लौकिक एव न्यायोऽनुश्रियते । न व्यभिचार इत्यत आह– न चेति ॥ विनिगमकाभावादिति भावः ॥ अज्ञानादेरिति ॥ यदि करणस्य कार्यान्वयदर्शनात् प्रतियोगि-नोऽपि धर्मिस्वरूपत्वमापाद्यते तर्हीत्यर्थः ॥ तर्हीति ॥ यदि तत्रेष्टापत्तिस्तदा प्रकृतेऽपीति भावः ॥ समं प्रकृतेऽपीति ॥ ननु न वयं प्रतियोगितया निरूपकत्वमात्रेण वा घटस्य पटरूपता-मापादयामः किन्तु समानाधिकरणप्रतीति स्वरूपविषयप्रतियोगितया निरूपकत्वेनाभेदनिरूपक-प्रतियोगित्वात् । न चाज्ञाननिवृत्त्यादयः समानाधिकरणप्रतीति विषयाः । अन्यथा समानाधिकरण-बुद्धिविषयत्वं भेदत्वं न स्यात् । अतिप्रसङ्गादिति चेन्न । अनृतादेर्ब्रह्मात्मकतापत्तेः । तस्यापि ब्रह्मानृतं नेति समानाधिकरणविषयप्रतियोगित्वात् । किञ्चैवं समानाधिकरणप्रतीतिविषयत्व-मात्रेणैवोपपत्तौ निरूपकत्वस्य वैयर्थ्याच्च । अयमयञ्च परस्परसदृश इति सामानाधिकरण्य-प्रतीतिविषयनिरूपकत्वात् सादृश्यप्रतियोगिनोऽपि तदात्मकतापत्तेः । सुखस्यापि दुःखात्मकता-पत्तेश्चेति यत्किञ्चिदेतत् । उपसंहरति– तस्मादिति ॥ उक्तमर्थं कारिकया सङ्गृह्णाति– एवञ्चेति ॥ नन्वेवं कुम्भादेस्तटस्थत्वे तदप्रतीतौ भेदधीर्न स्यादित्यत आह– तटस्थत्वेऽपीति ॥ एवं वास्तव-पक्षमुक्त्वाऽभ्युच्चयपक्षमाह– यद्वा कार्यान्वायि विशेषणं तदन्वयि उपलक्षणमिति पक्षमाश्रित्य भेदप्रतियोगिन उपलक्षणत्वमुक्तम् । इदानीन्तु यस्मिन् ज्ञात एव यज्ज्ञानं तद्विशेषणमिति पक्षमाश्रित्याह– केचित्त्विति ॥

न्यायामृतप्रकाशः

तत्रेति । भेदस्य स्वरूपत्व इत्यर्थः ॥ व्याप्तेरिति ॥ यत्सापेक्षं तन्न निरपेक्षाभिन्नमिति व्याप्तेः स्वरीत्या पररीत्या चासम्मतेरित्यर्थः । तदेवोपपादयति– त्वन्मत इति ॥ सापेक्षाया इति ॥ अविद्यारूपप्रतियोगिसापेक्षाया इत्यर्थः । अविद्यानिवृत्तेर्निरपेक्षब्रह्मस्वरूपत्वादित्यन्वयः । अधिकरणाति-रिक्ताभावानङ्गीकारेण आत्मैवाज्ञानहानिरित्यङ्गीकारादिति भावः ॥ जीवेति ॥ धर्मिप्रतियोगिभावेन जीवब्रह्मसापेक्षस्याप्यैक्यस्य ब्रह्मस्वरूपत्वादित्यन्वयः ॥ मतद्वयेऽपीति ॥ आवयोर्मत इत्यर्थः ॥ स्थिताविति ॥ गोत्वादेः ससम्बन्धिपदार्थत्वाभावेन स्थितावेव व्यक्त्यपेक्षा, न प्रतीतावित्यर्थः । जातिमात्रस्य समस्तजातेरित्यर्थः । निरपेक्षव्यक्तिस्वरूपत्वादित्यर्थः ॥ नीलतरत्वादीति ॥ नीलरूपनिष्ठोत्कर्षरूपजातिविशेषस्य ‘नीलादिदं नीलतरम्’ इत्येवं प्रतीतौ अवध्यादि सापेक्षस्या-प्युत्कर्षरूपगुणगतजातिविशेषस्य व्यक्तिरूपत्वादित्यर्थः ॥ अर्थेति ॥ अर्थप्रकाशरूपज्ञान-स्यार्थसापेक्षस्य निरपेक्षब्रह्मस्वरूपत्वात् । ब्रह्मणि विद्यमानस्य ब्रह्माभेदस्य ब्रह्मस्वरूपत्वात्, अस्तित्वस्य च ब्रह्मस्वरूपत्वादित्यन्वयः । अस्त्वेवं व्यभिचारेण व्याप्त्यभावः, ततः किमित्यत आह– व्याप्तीति ॥

ननु जीवब्रह्मैक्ये न व्यभिचारः । सापेक्षस्य तस्य ब्रह्मस्वरूपत्वानङ्गीकारादित्यत आह– ऐक्यस्येति ॥ स्वरूपातिरिक्तमैक्यं सत्यं मिथ्या वा । नाद्य इत्याह– सत्व इति ॥ द्वितीये त्वाह– मिथ्यात्वे चेति ॥ दूषणान्तरमाह– भेदस्येति ॥ नन्वैक्यस्य मिथ्यात्वे भेदस्य सत्यत्वं कुत इत्यतस्तत्र व्याप्तिमुपपादयति– यत्रेत्यादिना ॥ यत्र शुक्तौ यद्रूप्यत्वमध्यस्तं तत्र शुक्तौ तद्विरोधि अरूप्यत्वं तज्ज्ञानाबाध्यं शुक्तिज्ञानाबाध्यं दृष्टम्, एवं ब्रह्मण्यप्यैक्यम् अध्यस्तं तत्र ब्रह्मणि तद्विरोधिभेदो ब्रह्मज्ञानाबाध्य इत्यर्थः । व्याप्त्यन्तरमाह– यत्रेति ॥ यदैक्यमिति ॥ येनैक्यमित्यर्थः । तद्भेदस् तेन भेदः ॥ यथेति ॥ यत्र चूते पनसैक्यम् अध्यस्तं तत्र चूते तेन पनसेन भेदश्चूत-ज्ञानाबाध्यो दृष्टः, एवं ब्रह्मणि जीवेनैक्यम् अध्यस्तमिति तेन जीवेन भेदो ब्रह्मज्ञानाबाध्य इत्यर्थः । व्याप्त्यन्तरमाह– यत्रेति ॥ एवञ्चैक्यमध्यस्तमिति तद्विरोधी भेदस्तात्विक इत्यर्थः । नन्वैक्ये सापेक्षत्वस्यैवाभावान्न व्यभिचार इति चेत्तत्राह– ऐक्यस्येति ॥ एकवाक्यत्वेति ॥ ऐक्यापेक्षित-जीवब्रह्मस्वरूपप्रतिपादकत्वेन तदेकवाक्यत्वं वाच्यम् । ऐक्यस्य निरपेक्षत्वे तन्न स्यादित्यर्थः । ऐक्यं भेदनिषेधरूपम् ॥ सापेक्षवदिति ॥ वास्तवं सापेक्षत्वं नास्तीत्यर्थः ।

ऐक्यस्यैव सापेक्षत्वात्तन्निषेधरूपो भेद एव सापेक्ष इवोच्यत इति वैपरीत्यमेवास्त्वित्याह– घट इति ॥ भेदस्य कथमैक्यनिषेधरूपत्वमिति चेदुच्यते, ऐक्यं तादात्म्यं, तन्निषेधो हि भेदः । तत्र तादात्म्यं नाम तन्निष्ठासाधारणधर्मवत्त्वमेव वा अभेदो वा । आद्ये तन्निष्ठेत्यादितच्छब्दोक्तपदार्थसापेक्षं यत् तन्निष्ठासाधारणधर्मवत्त्वरूपं तादात्म्यं तन्निषेधरूपत्वाद्भेदः सापेक्ष इवेत्यर्थः । तादात्म्यस्या-भेदरूपत्वे त्वाह– ऐक्य इति ॥ तादात्म्यस्यैक्येऽभेदरूपत्वे । अभेदरूपैक्यमेव भेदसापेक्षमिति न तस्य निरपेक्षब्रह्मरूपत्वमिति भावः । ननु जीवब्रह्मणोस्तदैक्ये च न निरपेक्षत्वसापेक्षत्वे येन व्यभिचारः किन्तु तत्प्रतीत्योरेवेत्याशङ्कते– अथेति ॥ तयोरेव प्रतीत्योरेव ॥ न त्विति ॥ तथा च सापेक्ष निरपेक्षयोरैक्यायोगाज्जीवब्रह्मणोरैक्यस्य भेदः स्यादिति वक्तुं न शक्यत इति भावः । ननु सापेक्षनिरपेक्षप्रतीतिविषयत्वादेव विषयस्यापि भेदोऽस्त्विति चेन्न । व्यभिचारादित्याह– एकस्या-मेवेति ॥ संस्कारसापेक्षस्मृतिविषयत्वस्य तन्निरपेक्षानुभव विषयत्वस्य चेत्यर्थः ॥ सममिति ॥ प्रकृतेऽपि घटादिरूपधर्मिभेदप्रतीत्योरेव सापेक्षत्वनिरपेक्षत्वे इति तयोरेव भेदो न तु तद्विषययोर्घट-भेदयोरित्यर्थः ॥ अज्ञानेति ॥ प्रतीतौ प्रतियोगिसापेक्षाज्ञानहानिवद्, ब्रह्मरूपधीवन् निरपेक्ष ब्रह्मस्वरूपधीवत्, प्रतीतौ निरपेक्षब्रह्मस्वरूपधीवदिति यावत् । अभेदवत् प्रतीतौ सापेक्षाभेद-स्वरूपवद्, भेदस्य स्वरूपत्वेऽपीत्यन्वयः ।

ननु जीवब्रह्मैक्ययोः सापेक्षत्वादेरवच्छेदभेदेनोपपत्तेरैक्यं युक्तमिति चेत्समं घटभेदयोरपीत्याह– अथेति ॥ स्वरूपेण ब्रह्मत्वेन । स्वरूपेण घटत्वेन । युक्तं चैतत् । केनचिद्रूपेण निरपेक्षस्यापि केनचिद्रूपेण सापेक्षत्वं दृष्टत्वादित्याह– प्रमेयत्वादिनेति ॥ अभावादेः प्रमेयत्वेन प्रतीतौ प्रतियोग्यादिसापेक्षत्वाभावेऽपि अभावत्वादिना प्रतीतौ तत्सापेक्षत्वादित्यर्थः ॥ स्वरूपेणेति ॥ दण्डत्वादिना निरपेक्षस्यापि दण्डादेः कारणत्वेन प्रतीतौ निरूपक सापेक्षत्वाद् ‘अस्येदं कारणम्’ इति हि प्रतीतिः । तथा ब्रह्मत्वेन विषयनिरपेक्षस्यापि ब्रह्मणो ज्ञानरूपत्वेन प्रतीतौ विषय-सापेक्षत्वादित्यर्थः । नन्वेवं सर्वस्यापि पदार्थस्य केनचिद्रूपेण प्रतियोग्यादिसापेक्षत्वनिरपेक्षत्वादेः सम्भवेन इदं सप्रतियोगिकमिदं निष्प्रतियोगिकमिति व्यवस्था न स्यादित्यत आह– सप्रतियोगिकेति ॥ यद् अभावादिकम् । असाधारण्येन इत्यस्य विवरणं स्ववाचकेत्यादि । अभाववाचकं यत्पदं तस्य यत्प्रवृत्तिनिमित्तमभावत्वं तदवच्छेदेन प्रतीतावित्यर्थः ॥ अन्यत्त्विति ॥ घटादिकं घटादिवाचकपदप्रवृत्तिनिमित्तभूतघटत्वाद्यवच्छेदेन प्रतीतौ प्रतियोग्यादिनिरपेक्षत्वान्निष्प्रतियोगिकमित्यर्थः ।

ननु तथापि ऐक्यब्रह्मणोरेकत्वेऽपि ब्रह्मशब्दोल्लेखे धर्म्यादिनिरपेक्षत्वेऽपि अभेदशब्दोल्लेखे सापेक्षत्व-मिति व्यवस्थासम्भवेन न व्यभिचार इत्याशङ्कते– यदि चेति ॥ शब्दोल्लेखभेदेन निरपेक्षत्वादिकं कुत्र दृष्टमित्यत आह– लघुत्वेति ॥ लघुत्वम् अगुरुत्वम् । अगुरुत्वशब्देन प्रतीतौ प्रतियोगिभूत-गुरुत्वादिसापेक्षत्वमस्तीत्यर्थः ॥ एकस्यैवेति ॥ गच्छति चलतीत्यत्र गमनक्रियैकैव प्रतीयते तत्रैकस्यैव गमनरूपार्थस्य सकर्मकगच्छतिशब्दोल्लेखेन कर्मसापेक्षत्वम्, अकर्मकचलतिशब्दोल्लेखेन कर्मनिरपेक्षत्वम्। यथा वा करोतिप्रयतत्योरेकार्थत्वमेव । प्रयत्नस्यैव समस्ताख्यातार्थत्वात् । एवं चैकस्यैव प्रयत्नस्य सकर्मकाकर्मककरोतिप्रयततिशब्दोल्लेखविषयत्वमस्ति । पुनः सापेक्षत्वादि व्यवस्थामाशङ्क्य प्रकृतेऽपि साम्यमाह– यदि चेति ॥ तर्हीति ॥ भेदत्वस्यान्योन्याभावत्वरूपत्व इत्यर्थः ॥ अस्त्विति ॥ तथा चान्योन्याभावरूपभेदस्य न धर्मिस्वरूपत्वम् । भावाभावयोरैक्यायोगादिति भावः ॥ स्वरूप-त्वोक्तेरिति ॥ अन्योन्याभावरूपभेदाख्यविशेषस्यैव धर्मिस्वरूपत्वोक्तेरित्यर्थः । भावाभावयोरैक्यायोग इति शङ्कापरिहारस्तु–

‘अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः ।

नास्ति दोषः क्वचिद्भावो ह्यभावश्च स एव हि ॥

सर्वे भावा अभावाश्च पदार्था एव सर्वदा ।

तथापि प्रथमं बुद्धेर्यो निषेधस्य गोचरः ॥

सोऽभावो विधिबुद्धेस्तु गोचरः प्रथमं परः’ ॥ इत्युनव्याख्यानोक्तरीत्या द्रष्टव्यः । स्वयं प्रतिबन्द्या समाधत्ते– अविद्येति ॥ अविद्यानिवृत्त्यद्वैतयोर् अभावरूपयोरित्यर्थः । ब्रह्मैक्यं भावरूपब्रह्मैक्यम् । स्वाभावेन स्वप्रतियोगिकात्यन्ताभा(वेन)वत्वेन ॥ अन्याभावेनेति ॥ अन्यप्रतियोगिकाभावेनेत्यर्थः । तथा चाविद्यानिवृत्त्यद्वैत प्रतियोगिकाभावत्वेन स्वाभावत्वाभावान्न विरोधोऽतस्तयोर्बह्मैक्यं युक्तमिति भावः ॥ सममिति ॥ अत्रापि घटः स्वाभावेनाविरुद्धो न त्वन्योन्याभावेन । तादात्म्यरूपान्य-प्रतियोगिकेनान्योन्याभावेनातस्तयोरैक्यं युक्तमित्यर्थः । ननु यथाकथञ्चिद्भावाभावरूपत्वे तयोरैक्यं विरुद्धमिति तत्राह– अभावेति ॥ लोके भावस्य स्वाभावाभावरूपत्वेन भावाभावयोरैक्यं दृष्टं तदपि न स्यात् । अतः भावः स्वाभावेनैव विरुद्धो न त्वन्याभावेनेत्येव वक्तव्यम् । तत्प्रकृतेऽपि सममित्यर्थः ।

ननु अविद्यानिवृत्तेः कथं ब्रह्मैक्यमित्युक्तमयुक्तम् । प्राभाकररीत्याऽधिकरणातिरिक्ताभावानङ्गीकारे-णाऽधिकरण स्यैवाभावव्यवहारालम्बनत्वाद् ब्रह्मरूपाधिकरणस्य व्यतिरिक्तोऽविद्यानिवृत्तिरूपः पदार्थ एव नास्तीति चेत् । तर्हि अधिकरणीभूतघटातिरिक्तोऽन्योन्याभाव एव नास्तीति सममित्याह– यदि चेति ॥ तद्विरोधीति ॥ द्वैतविरोधीत्यर्थः । यथा हि अधर्मो धर्मविरोधी भावरूप एवमित्यर्थः । ननु द्वैतविरोधिभावरूपभेदत्वं नाम किमित्यतस्तन्निर्वचन प्रकारमन्यापदेशेन दर्शयति– केचित्त्विति ॥ तदिति ॥ घटे पटभेदत्वं नाम पटतादात्म्यायोग्यत्वमित्यर्थः । अस्याभावरूपत्वाद्भावरूप-भेदत्वायोगादाह– तदैक्येति ॥ अत्र ‘तदैक्यधीव्यवहारविरोधित्वम्’ इत्येव स्वरसः पाठः न तु ‘तदैक्यप्रमित्यविषयत्वम्’ इति । तथात्वे पुनरभावरूपत्वापत्तेरिति ध्येयम् । पटैक्यधी-व्यवहारविरोधित्वमेव घटे पटभेदत्वमित्यर्थः ॥ यत्रेति ॥ यत्र घटे पटभेददर्शनं पटतादात्म्याध्यास-विरोधि तत्र घटे तत्त्वं तत्तादात्म्याध्यासविरोधित्वमेव पटभेदत्वमित्यर्थः । पुनः स्वरूपभेदत्व-मन्यापदेशेन स्वयमेव दर्शयति– इतरे त्विति ॥ ‘अनाधारत्वरूपं वा स्वरूपभेदत्वम्’ इत्यन्वयः । अत्र यत्किञ्चिच्छब्दद्वयं व्यतिरेकिपरम् । यत्किञ्चित्पदद्वयाभावे प्रमेयत्वादिकेवलान्वयि धर्मप्राप्त्या तदनाधाराप्रसिद्धिरित्यवगन्तव्यम् ।

अयमर्थः– स्वशब्देन घटस् तद्वृत्तिर्यत्कञ्चिद्धर्मो घटत्वं तदनाधारः पटस् तन्निष्ठो यत्किञ्चिद्धर्मः पटत्वं तदनाधारस्वरूपत्वमेव घटे पटभेदत्वम् । तथा च पटत्वानाधारत्वं पटभेद इत्युक्तं भवति । तथा च स्वशब्देन घटस्तदवृत्तिधर्मः पटत्वं तदाधारः पटस् तदनिष्ठो धर्मो घटत्वं तदाधाररूपत्वमेव घटे पटभेदत्वम् । तथा च घटत्वमेव स्वरूपभेदत्वमित्युक्तं भवति । अत्राद्यपक्षे भावरूपत्वालाभा-त्स्वावृत्तीति द्वितीयनिर्वचनम् । नन्वनाधारत्वं नाम आधारान्यत्वम् । अन्यत्वं च भेद एवेति भेदज्ञाने तद्धटितलक्षणज्ञानं तज्ज्ञाने च भेदज्ञानमित्यन्योन्याश्रय इत्यत आह– अनाधारत्वं चेति ॥ स्यादिति ॥ यन्निरूप्यस्य यद्भवति तन्निरूपकस्यापि तद्भवतीति व्याप्तेरित्याशयः । एतेनेत्युक्तमेव विशदयति– व्याप्तेरिति ॥ दुःखनिवृत्तेः पुमर्थत्वेऽपि दुःखे पुमर्थत्वस्यादर्शनात् । अनुमानादौ व्यभिचारादिदोषाभावस्य साध्यादिसाधकत्वप्रयोजकत्वेऽपि दोषेऽपि साधकत्वप्रयोजकत्वस्यादर्शनात् । अनृतव्यावृत्तेर्ब्रह्म स्वरूपत्वेऽपि अनृते च ब्रह्मस्वरूपत्वस्यादर्शनात्, आत्मैवाज्ञानहानिरित्युक्तत्वेना-ज्ञाननिवृत्तेर्ब्रह्मस्वरूपत्वेऽपि अज्ञाने ब्रह्मस्वरूपत्वस्यादर्शनात् । अज्ञानादिप्रकाशरूपज्ञानस्य ब्रह्म-स्वरूपत्वेऽपि अज्ञाने ब्रह्मस्वरूपत्वस्यादर्शनात् । अज्ञाननिवृत्तेर्मोक्षत्वेऽपि अज्ञाने मोक्षत्वस्य चादर्शनाद्व्यभिचार इति विवेको द्रष्टव्यः ।

कार्यानन्वयित्वेनेति ॥ मोक्षत्वाद्यनन्वयित्वेनेत्यर्थः ॥ सममिति ॥ अत्रापि प्रतियोगिनो वस्तुस्वरूप त्वानन्वयित्वेन भेदं प्रत्युपलक्षणत्वेन निरूपकमात्रत्वमनेन तु कार्यान्वयित्वेन विशेषणत्व-मिति सममित्यर्थः । ननु ‘लम्बकर्णमानय’ इत्यादौ निरूपककर्णादेः कार्यान्वयो दृष्ट इति चेत्, ‘चित्रगुमानय’ इत्यादौ तदभावोऽपि किं न दृष्ट इत्याह– लोक इति ॥ वैपरीत्येति ॥ ‘लम्बकर्णमानय’ इत्यादौ कर्णस्य कार्यान्वयदर्शनेन ‘चित्रगुमानय’ इत्यादावपि कार्यान्वयापादनेन पक्षतुल्यत्वान्न व्यभिचार इत्युच्यते चेत्तर्हि ‘चित्रगुमानय’ इत्यादौ गवादेः कार्यान्वयादर्शनेन ‘लम्बकर्ण-मानय’ इत्यादावपि कर्णादेः कार्यान्वयो न स्यादित्यापादनसम्भवेन व्याप्तिग्रहणस्थलाभावाद्व्याप्तिग्रहो न स्यादित्यर्थः । कर्णादेः कार्यान्वयदर्शनेन गवादेरपि तदापादने कर्णदृष्टान्तेनैवाज्ञाननिवृत्ते-र्ब्रह्मस्वरूपत्वेनाज्ञानस्यापि ब्रह्मस्वरूपत्वापत्तिरित्याह– अज्ञानादेरिति ॥

ननु प्रतियोगिनो घटादेर्भेदं प्रत्युपलक्षणत्वमयुक्तं यथा गृहं प्रत्युपलक्षणस्य काकस्याज्ञानेपि गृहज्ञानं भवति एवमुपलक्षणस्य प्रतियोगिभूतघटादेर्ज्ञानाभावेऽपि कदाचिद्भेदज्ञानप्रसङ्गादित्याशङ्कते– ननु प्रतियोगिन इत्यादिना ॥ तथात्वे उपलक्षणाज्ञानाद्यज्ञानेऽपि उपलक्ष्याज्ञाननिवृत्त्यादिज्ञान-प्रसङ्गसाम्यमित्याह– तर्ह्यज्ञानाद्यज्ञानेऽपीति ॥ अज्ञानादेरपि त्वयोपलक्षणत्वाङ्गीकारादिति भावः । यदि चाज्ञानाद्युपलक्षणज्ञानम् उपलक्ष्याज्ञाननिवृत्त्यादिज्ञानं प्रति कारणम् । तदभावे काकज्ञानाभावे, गृहस्येव उपलक्ष्याज्ञाननिवृत्त्यादेर्ज्ञानं न भवतीत्युच्यते । (ननु अज्ञानाद्यज्ञानेपि कदाचित्तन्निवृत्त्यादि-ज्ञानं न भवति । तथाहि । अभावं सादृश्यं च प्रति उपलक्षणं यत्प्रतियोग्यादि तस्य नियमेनोप-लक्ष्याभाव सादृश्यमानहेतुत्वं दृष्टम् । ननु गृहादिवत्तज्ज्ञानाभावेऽप्यभावादिज्ञानम् । तद्वदिदमुपलक्षणम् । अतोऽज्ञानाद्यज्ञाने तन्निवृत्तिज्ञानं न भविष्यतीति चेत् ।) तर्हि भेदप्रतियोग्यादिरपि अभावसादृश्यादि-प्रतियोगिवन्नियमेनोपलक्ष्यज्ञापक इति न गृहादिवत्तज्ज्ञानाभावेऽपि भेदज्ञानं भविष्यतीत्याह– अथेत्यादिना ॥ दुःखमिव दुःखं यथा नान्तर्गतम् अज्ञानवद् अज्ञानं यथा नान्तर्गतं मोहवन् मोहोऽज्ञानं यथाऽनन्तर्गतम् । एवं कुम्भादिकं प्रतियोगिभूतं पटे तत्स्वरूपे नान्तर्गतमित्यर्थः ।

अथोपलक्षणस्यापीत्युक्तदूषणं सङ्गृह्णाति– तटस्थत्वेऽपीति ॥ अभावसादृश्यादिवदुप-लक्षणस्याप्यज्ञानादेर प्रतीतौ नियमेन तन्निवृत्त्याद्यप्रतीतिर्यथा एवं तटस्थत्वेनोपलक्षणत्वे समानेऽपि उपलक्षणभूतकुम्भादेरप्रतीतौ नियमेन भेदधीर्न भवत्येवेत्यर्थः । ननु कार्यान्वय्येव कर्णादिविशेषणं दृष्टं प्रतियोगिनस्तु धर्मिस्वरूपान्वयाभावात्कथं भेदं प्रति विशेषणत्वमिति चेन्न । शब्दो नित्य इत्यादौ विधेयभूतानित्यत्वानन्वयेऽपि शब्दत्वादेर्विशेषणत्वं दर्शनादेवमिहाप्युपपत्ते रित्यन्यापदेशेनाह– केचित्त्विति ॥

न्यायकल्पलता

स्वपक्षं समादधति– सम्भवति चेति ॥ अविद्यानिवृत्तेरिति ॥ नन्वविद्यानिवृत्तिब्रह्मैक्ययोः प्रतीतौ सापेक्षत्वस्याविद्यकतया तात्विकनिरपेक्षब्रह्मस्वरूपाविरोधित्वमिति । मैवम् । प्रतीतौ सापेक्षस्य भेदस्य तात्विकनरिपेक्षघटस्वरूपाविरोधित्वस्य सुवचत्वात् । ब्रह्मस्वरूपं तात्विकं घटस्वरूपं त्वतात्विकमित्यस्यासिद्धेः । भेदस्य सत्यता स्यादित्युक्तमुपपादयति– यत्र यदध्यस्तमित्यादिना ॥ ब्रह्माधिकरणको भेदो ब्रह्मज्ञानाबाध्यः । स्वविरोध्यध्यासाधिष्ठानाधिकरणकत्वात् । सामान्यव्याप्तौ च शुक्तावरूप्यत्वं यथा ॥ ऐक्यमिति ॥ ऐक्याध्यासाधिष्ठानाश्रितत्वं हेतुः । तात्विकं वेति साध्यनिर्देशः । स्वविरोधीत्याद्युक्तौ हेतुः ॥ ऐक्यपदेेति ॥ नन्वैक्यस्य स्वप्रकाशब्रह्माभिन्नतया निरपेक्षत्वेऽपि तत्तदर्थभेदभ्रमनिवर्तकवृत्तिजनने तत्तत्पदार्थसापेक्षतया स्वरूपपरवाक्यानामेकवाक्य-ताऽस्ति । मैवम् । तत्तत्पदप्रतिपाद्यतत्तदर्थप्रतियोगिकैक्यविषयकत्वं विना वृत्तेर्भेदभ्रमनिवर्तकत्वानुपपत्तेः । ऐक्यस्य निरपेक्षत्वे वृत्तेस्तादृशैक्यविषयकत्वायोगात् ॥ तादात्म्यनिषेधत्वेनेति ॥ तन्निष्ठासाधारण-धर्मवत्वादेस्तादात्म्यस्यैक्यरूपत्वात् । यदि चाभेदस्तादात्म्यं तदैक्यमेव भेदा(भेदो)पेक्षमित्याह– ऐक्य इति ॥ सापेक्षत्वं हि युज्यत इति ॥

यत्तु मम मते काल्पनिकं सापेक्षत्वं, तव तु सापेक्षत्वनिरपेक्षत्वे द्वे अपि तात्विके इति दृष्टान्त-वैषम्यम् । तन्न । भेदस्यापि ब्रह्मस्वरूपत्वेन तत्र सापेक्षत्वं काल्पनिकमित्यपि वक्तुं शक्यत्वात् । न च भेदस्य ब्रह्मस्वरूपत्वे मानाभावः । अभेदेऽपि साम्यात् ॥ प्रमेयत्वदिनेति ॥ ननु भेदस्य निरपेक्षत्वे परान्प्रतीव स्वमपि प्रत्यवशिष्टतया स्वस्मिन्भेदत्वापत्तिः । मैवम् । अभेदस्यापि तथात्वे स्वं प्रतीवान्यान्प्रत्यप्यभेदत्वापत्तेः । न चेष्टापत्तिः । घटत्वादिना भेदः कल्पितः । स्वरूपतस्त्वभेद एवेति युक्तम् । भेदेऽपि साम्यात् । घटभेदत्वेन घटावृत्तित्वेऽपि भेदत्वेन भेदस्य घटेऽपि वृत्तेः । ननु निरपेक्षघटस्वरूपस्य भेदस्य प्रतीत्योरपि कथं प्रतियोगिप्रतीतिसापेक्षत्वानपेक्षत्वादिकमत आह– शब्दस्वभावप्रयुक्तयोरिति ॥ घट(ः)कर्मत्वम् आनयनम् (कृतिः)इत्यादिशब्दाद् घटमानयेति शब्दाच्च जन्ययोः प्रतीत्योरन्वयबोधाजनकत्वतज्जनकत्वयोर्दर्शनादिहापि तदुपपत्तेः । एतच्चोपपादितं दृग्दृश्यसम्बन्धानुपपत्तिभङ्गे । अन्यथैक्येऽपि समम् । तदेतदुक्तं ब्रह्मशब्दोल्लेखेनेत्यादिना ॥

ननु गच्छतिचलत्योरर्थभेद एव । उत्तरसंयोगावच्छिन्नस्पन्दो गम्यर्थः । पूर्वविभागफलकः स्पन्दश्चलत्यर्थ इति । मैवम् । उभयत्रापि पूर्वदेशविभागस्योत्तरदेशसंयोगस्य च प्रतीतेः सत्त्वेन गमिचलत्योरर्थाभेदात् । धात्वर्थः फलमिति मण्डनाचार्यमते तु संयोगस्योभयफलत्वेन तयोरैकार्थ्यात् । न चानुकूलयत्नः करोत्यर्थः यत्नमात्रं यत्यर्थ इति देश्यम् । आख्यातसमानार्थतया यत्नमात्रस्य करोत्यर्थत्वात् । एतदप्युपपादितं प्रतिकर्मव्यवस्थाभङ्गे । नियमानङ्गीकाराच्च क्वचिद्धात्वर्थभेदेऽपि ‘तपति ऋषिः, तपति पृथिवीं सविता’ इत्याद्यकर्मकसकर्मकप्रतीतिरप्युपपद्यते । भेदस्य धर्मिस्वरूपत्वे तत्वविवेकवाक्यं प्रमाणयति– उक्तं हीति ॥ नान्योन्याभावतेति ॥ ननु नान्योन्याभावः पृथगिति वक्तव्यम् । सत्यम् । नायं भावशब्दो भवनं भाव इति भावसाधनः किन्तु भवतीति भाव इति । यद्यपि‘अकर्तरि च कारके संज्ञायाम्’ इति प्रतिषेधान्न कर्तरि घञ्, तथापि ‘श्रिणीभवोऽनुपसर्गः’ इत्यनेनैव भवतेः कर्तर्यपि घञ् भविष्यति । ‘उणादयो बहुलम्’ इति बहुलग्रहणात् । अकर्तरीति प्रतिषेधस्य ‘मिषत्यसौ मेषः’ इत्यादौ घञ् प्रतिषेधार्थत्वेन सावकाशत्वात् । ‘दारयन्तीति दाराः, हारयन्तीति हाराः, जारयन्तीति जाराः’ इति कर्तर्यपि घञो दर्शनाच्च । यद्वा ‘ज्वलितिकसन्तेभ्योऽणः’ इति णप्रकरणे ‘भवतेश्च’ इत्यनेन कर्तरि भवतेर्णविधानात् । भवतीति भावः भवनं, (न भावो ऽभावः) । तस्य भावोऽभावताऽभवनम् । एवं च (भवतेश्च)इत्यनेन कर्तृ(रि)अन्योन्यस्याभावताऽ-न्योन्याभावताऽन्योन्याभवनम् अन्योन्याभाव एव । स न पृथक् धर्मिभिन्नो नेत्यर्थः । तथा च तल्प्रत्ययोपपत्तिः ।

अविद्यानिवृत्त्यद्वैतयोरपि कथं ब्रह्मैक्यमिति ॥ ननु मम मते तत्राभवत्वस्य कल्पितत्वेन विरोधाभावस् तव तु द्वयोरपि तात्विकत्वेन विरोध इति । मैवम् । निर्विशेषब्रह्माभिन्नेऽविद्यानिवृत्त्यादौ भावत्वाभावत्वयोः कल्पितत्वेन तव विरोधस्य दुर्वारत्वात् । विरुद्धयोरुभयतात्विकत्ववदुभय-कल्पितत्वेऽपि विरोधात् ॥ तदैक्यप्रमित्यविषयत्वमिति ॥ न च प्रमितिदर्शनादिघटितत्वेऽ-चाक्षुषत्वाद्यापत्तिः । संस्कारोपनीतस्य साक्ष्युपनीतस्य वा भानात् ॥ इतरे त्विति ॥ न चात्यन्ताभावान्योन्याभावयोरैक्यापत्तिः । तन्मतेनेष्टत्वात् । ननु घटस्य पटप्रतियोगिकभेदस्वरूपत्वे पटस्वरूपत्वमपि स्यादित्याशङ्कां निरस्यति– एतेनेति ॥ उक्तं हेतुं विशदयति– व्याप्तेरिति ॥ ननु न घटस्वरूपभेदं प्रति पटस्य निरूपकत्वमात्रेण घटस्य पटरूपताऽऽपाद्यते किन्तु समानाधिकरण-प्रतीतिविषयस्वरूपं प्रति प्रतियोगितया निरूपकत्वेन । अज्ञाननिवृत्त्यादयस्तु न समानाधिकरण-प्रतीतिविषयाः । भेदस्तु ‘घटः पटो न’ इति समानाधिकरणप्रतीतिविषय इत्याशङ्कां तुच्छयति– अनृतेत्यादिना ॥ ‘अनृतं न ब्रह्म, अज्ञानप्रकाशो ब्रह्म’ इत्यादि समानाधिकरणप्रतीतिविषयो यद् ब्रह्म तत्स्वरूपा याऽनृतव्यावृत्तिरज्ञानप्रकाशश्च तत्र प्रतियोगितया निरूपकस्यानृतस्याज्ञानस्य च ब्रह्मरूपतापत्तेरुक्ताशङ्कायास्तुच्छत्वात् । ‘अद्वितीयं ब्रह्म’ इत्यत्र द्वितीयस्य ‘अदुःखं ब्रह्म’ इत्यादौ दुःखादेर्ब्रह्मरूपतापाताच्चेत्यर्थः ।


ननु तथापि विदारणात्मनो भेदस्य घटस्वरूपत्वे घटस्यापि विदारणम्

न्यायामृतं

ननु तथापि विदारणात्मनो भेदस्य घटस्वरूपत्वे घटस्यापि विदारणम् । एवं तदवयवानामपीति परमाणुरपि नैक इति शून्यतापत्तिरिति चेन्न, अविदारणात्मकस्या-भेदस्य ब्रह्मस्वरूपत्वे पारमार्थिकस्य ब्रह्मणो व्यावहारिकेण घटादिना प्रातिभासिकेन रूप्यादिना शून्येन चाप्यविदारणेन तदैक्यं स्यादिति साम्यात् । यदि च तत्र जीवाभेद एव ब्रह्मस्वरूपं न तु घटाद्यभेदः, तर्ह्यत्रापि पटादिभ्यो भेद एव घटस्वरूपम्, न तु स्वस्मादिति समम् । एवं च–

विदारकत्वेऽपि पटाद् घटस्य स्याद्विदारणम् ।

न तु स्वतो यथा ह्यैक्यं स्वेनैव न परेण तु ॥

किञ्च भेदस्य स्वस्माद्विदारकत्वेऽपि (अवयवानां) कार्याणां विभागेन सूक्ष्मत्वमेव स्यात्, न तु शून्यत्वम्, न हि शून्यानां संयोगात्कस्यचिज्जन्म । येनावयवानां विभागेन शून्यपरिशेषः स्यात् । अपि च विदारकमपि लवित्रादि स्वयं यत्सम्बन्धि, तदेव विदारयति । न तु स्वात्मानं ततो धर्मभेदवादे कथञ्चिदेवं वक्तव्यम्, न तु स्वरूपभेद-वादे । वस्तुतस्तु भेदो न विदारकः, किन्तु विदारणं, भावसाधनत्वाद्भेदशब्दस्य । तथा च घटोऽपि विदारणं स्यान्न तु घटस्य । न हि विदारणस्य विदारणम्, स्ववृत्ति-विरोधात् । एवं च–

विदारणस्य भेदस्य घटत्वे हि घटोऽपि च ।

विदारणं स्यान्न घटे स्वस्य स्वस्मिन्नवृत्तितः ॥

अङ्गीकृत्य चेदमुदितम् । वस्तुतस्तु न विभागरूपविदारणात्मा भेदः किन्त्व-न्योन्याभावः ।

क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्श्यते ।

प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातवः ।

इति वचनेन भिदेर्विभागोऽन्यत्वं चार्थो यतः । अन्यथा संयुक्तयोरोष्ठयोर्भिन्नाविति व्यवहारो न स्यात् । उक्तं च–

भेदस्य च स्वरूपत्वे ये वदन्ति च शून्यताम् ।

अद्भुतास्ते यतोऽन्यस्य प्रतियोगित्वमिष्यते ॥ १ ॥

प्रतियोगिनो हि भेदोऽयं न तु स्वस्मात्कथञ्चन ।

विभागेनाल्पतैव स्यात्कुत एव च शून्यता ॥ २ ॥

न शून्यानां हि संयोगाद्भावो वस्तुन इष्यते ।

विदारणार्थो धातुश्च विभागगुणवाचकः ॥ ३ ॥

अविदारणेऽपि ह्यास्यस्य भिन्नावोष्ठौ तु तस्य हि । इति । एतेनानेकत्वैकार्थ-समवायिनो भेदस्य घटस्वरूपत्वे घटस्याप्यनेकत्वं स्यात् । तथा तदवयवानामपीति तद्विरुद्धमेकत्वं क्वापि न स्यात् । एकत्वाभावे चानेकत्वमपि न भवेत् । तथा च सङ्ख्यारहितस्य द्रव्यस्य शून्यतापत्तिरिति निरस्तम् । एकत्वैकार्थसमवायिनो घटेन घटाभेदस्य घटस्वरूपत्वे घटस्य पटेन सह धर्मिज्ञानाबाध्यत्वमनेकत्वम् । ब्रह्मणा च ब्रह्मभेदस्य ब्रह्मस्वरूपत्वे भावाद्वैतमते ब्रह्मणोऽभावेन सहाप्यनेकत्वं स्यादिति साम्यात् । अथ स्वेनैकत्वेऽप्यन्येन सहानेकत्वमविरुद्धम्, तर्ह्यन्येन सहानेकत्वेऽपि स्वेनैकत्वमविरुद्ध मिति समम् । किञ्च भेदस्य सादृश्यादिवदन्यनिरूप्यस्यैकमात्रवृत्तित्वादनेकत्वैकार्थ-समवायित्वमसिद्धम् ।

अपि च भेदस्यानेकत्वैकार्थसमवायित्वेऽपि यत्र भेदात्मको घटस्तस्यानेकत्वं स्यात्, न तु घटस्य, कथञ्चानेकत्वबलेन एकत्वाभावमुक्त्वा पुनस्तेनैवानेकत्वाभावं वदतः न पूर्वोत्तरविरोधः ? न ह्यत्र काप्यस्मद्रीतिरस्तीत्युक्तम्, येन पररीत्यापादनमिति निस्तारः स्यात् । एतेन भेदस्य धर्मिस्वरूपत्वे संशयादिकं न स्यात् । धर्मिज्ञानस्य संशयादि-हेतुत्वात्तज्ज्ञानेनैव च तदभिन्नस्य भेदस्य ग्रहणाद्भेदज्ञानस्य च संशयादिविरोधित्वादिति निरस्तम् । प्रत्यक्चैतन्ये स्वयं भातेऽपि तदभिन्नस्यैक्यस्यानवच्छिन्नानन्दस्य चाप्रकाशवद् धर्मिणः प्रकाशेऽपि तदभिन्नस्य भेदस्याप्रकाशोपपत्तेः । ऐक्यस्य च प्रकाशे च तत्र विप्रतिपत्तिर्न स्यात्तदुपदेशानर्थक्यं च स्यात् । न च स्वरूपज्ञानेनैक्यस्य स्वतो मानेऽप्यज्ञानविरोधिन्या वृत्तेरभावाद् विप्रतिपत्यादीति वाच्यम् । प्रत्यगर्थवदेव वृत्त्य-भावेऽपि स्वतोभानेनैवैक्येऽपि विप्रतिपत्त्याद्ययोगात् । यदि चैक्यस्याविद्यावरणादप्रकाशः, तर्हि भेदस्यापि सादृश्यादिदोषादप्रकाश इति समम् । एवं च–

स्वरूपत्वेऽपि भेदस्य युज्यते संशयादिकम् ।

स्वप्रभप्रत्यगात्मत्वेऽप्यभेदे संशयादिवत् ॥

किञ्च भेदः स्वरूपेण प्रकाशत एव । उक्तरूपेण भेदत्वेन तु न प्रकाशते । भेदत्वेन भेदज्ञानमेव च संशयादि विरोधि । किञ्च संशयादिस्थलेऽपि भेदस्य भेदत्वेनाप्रतीति-रप्यसिद्धा । प्रायः सर्वतो भिन्नमेव हि वस्तु तत्र प्रतीयते । अन्यथा सर्वकोटिः संशयः स्यात् । किन्तु तस्य घटप्रतियोगिकत्वं पटप्रतियोगिकत्वमित्यादयोऽनेके धर्माः सन्ति । तत्र सादृश्यादिवशाद्यत्प्रतियोगिकत्वं न भाति तत्र संशयः । न हि निरूपकभेदेन निरूप्यभेदः । एकघटनिरूप्ययोः प्रागभावप्रध्वंसयोर्भेददर्शनात् । अनेकविषय-निरूप्यस्यापि ईश्वरज्ञानादेरनेक द्वैतनिरूप्यस्याद्वैतस्य चैक्यदर्शनात् । केचित्तु स्वरूपभेदवादे भेदज्ञानं न भ्रमविरोधि, किन्त्वधिष्ठाने आरोप्यविरुद्धधर्मादिज्ञानमित्याहुः । केचित्तु अदोषमूलताद्रूप्येणाप्रतीतौ प्रतीतिः स्वरूपभेदलक्षणम् । शुक्तेः शुक्त्यात्म-त्वेनाप्रतीतिश्च दोषमूलेति नातिव्याप्तिः । एवं च भ्रमस्थले ताद्रूप्येणाप्रतीत्यभावादभेद भ्रमोपपत्तिरित्याहुः । एवं च–

सापेक्षत्वात्सावधेश्च तत्त्वेऽद्वैतप्रसङ्गतः ।

एकाभावादसन्देहान्न रूपं वस्तुनो भिदा ॥ इति श्लोकः,

सापेक्षत्वात्सावधेश्च तत्त्वे द्वैतप्रसङ्गतः ।

नैकाभावादसन्देहान्न रूपं वस्तुनोऽभिदा ॥ इति पठनीयः ।

एतेन भेदस्य घटस्वरूपत्वे घटभेदयोरेकतरपरिशेषः स्यादिति निरस्तम् । ऐक्यस्या-नन्दस्य ज्ञानस्य च ब्रह्मस्वरूपत्वेऽप्येकतरपरिशेषः स्यादिति युक्तिसाम्यात् । तत्र वस्तुभेदाभावादिष्टापत्तिरिति चेत्, समम् प्रकृतेऽपि । तथा हि–एकतरपरिशेषः स्यादिति कोऽर्थः, ‘किं वस्तुभेदो न स्यात्, किन्त्वेकमेव स्यात्’ इति ? किं वा ‘घट इति वा, भेद इति वा व्यवहारः स्यान्न तूभयथे’ति, यद्वा एतयोरेकस्यैवार्थक्रिया स्यान्नो-भयार्थक्रियेति ? अथवा ‘द्विवचनप्रयोगो न स्यादि’ति ? नाद्यः । इष्टापत्तेः । न द्वितीयः, प्रवृत्ति निमित्तभेदेन तदुपपत्तेः । न तृतीयः, एकत्रैव दीपे शुक्लभास्वररूपोष्ण-स्पर्शावच्छेदेन प्रकाशदाहरूपार्थक्रिया वदेकत्रैव घटत्वभेदत्वावच्छेदेन तदुपपत्तेः । न चतुर्थः, अर्थप्रकाशात्मकत्वनिरुपाधिकेष्टत्वरूपयोर्ज्ञानत्वा नन्दत्वरूपविशेषणयोरनेकत्वेन विज्ञानानन्दावितिवदिहापि घटत्वभेदत्वयोरनेकत्वेन तदुपपत्तेः । एतेन भेदस्य स्वरूपत्वे घटभेदशब्दयोः पर्यायत्वं स्यादिति निरस्तम् । ऐक्यब्रह्मशब्दयोः पर्यायत्वं स्यादिति साम्यात् ।

यदि तत्रैकार्थपर्यवसानेऽपि शुक्लः पट इत्यादाविव प्रवृत्तिनिमित्तानेकत्वादपर्यायत्वम्, तर्हि प्रकृतेऽपि समम् । एतेन भेदस्य स्वरूपत्वे अस्य भेद इदं भिन्नमिति च सम्बन्धित्वेन धीर्न स्यात् । प्रत्युत घटो भेद इति धीः स्यादिति निरस्तम् । जीवब्रह्मणोरैक्यं ‘आनन्दं ब्रह्मणः’ इत्यादिवदुपपत्तेः । न ह्येकं ब्रह्मेतिवदैक्यं ब्रह्मेत्यस्ति । जीवब्रह्मणोरैक्यमिति व्यपदेशमात्रमिति चेत्, मात्रशब्देन किमर्थो निषिध्यते व्यवहारस्याबाधितत्वं वा व्यवहारनिमित्तं वा । आद्येऽपि किं ब्रह्मस्वरूपं निषिध्यते ऐक्यं वा तत्सम्बन्धो वा । नाद्यः । निराश्रयस्यैक्यस्यानिर्वाहात् । निर्वाहे वा ब्रह्माद्वैतं शून्याद्वैते पर्यवस्येत् । न द्वितीयः भेदोन्मज्जनापातात् । न ह्युभयोदासीनतत्त्वसिद्धिः । उभयात्मकत्ववत् तस्यापि व्याहतत्वात् । तृतीयेष्वैक्यस्यान्यसम्बन्धित्वं वा मेरुमन्दरादिवत्स्वातन्त्र्यं वा स्यादिति प्रत्यग्ब्रह्मैक्यासिद्धिः । ऐक्यमात्रस्य मन्मते सत्त्वेन सिद्धसाधनादिकं च स्यात् । न द्वितीयः, उक्तरीत्या अर्थाबाधेन व्यवहारबाधायोगात् । न तृतीयः, निमित्ताभावे कार्यासम्भवात् । कप्तभेदाख्यनिमित्ताभावाद् व्यपदेशमात्र-त्वोक्तिरिति चेत्प्रकृतेऽपि तथाऽस्तु । एवं च–

अपर्यायत्वैकतरापरिशेषविशेष्यताः ।

अभेदस्येव भेदस्य स्वरूपत्वेऽपि सङ्गताः ॥

अद्वैतसिद्धिः

किञ्च विदारणात्मनो भेदस्य घटस्वरूपत्वे घटस्यापि विदारणं स्यात् । एवं तदवयवानामपीति परमाणुरपि नैक इति शून्यतापत्तिः । एकाभावे तत्समाहाररूपानेकस्याप्यभावात् । ननु अविदारणात्म-कस्याभेदस्य ब्रह्मरूपत्वे पारमार्थिकब्रह्मणो व्यावहारिकप्रातिभासिकशून्यैरपि अविदारणे तदैक्यमपि स्यात् । न च जीवाभेद एव स्वरूपम्, न तु घटाद्यभेदः, तर्ह्यत्रापि घटादिभ्यो भेद एव पटस्वरूपम्, न तु स्वस्मादिति सममिति– चेन्न । स्वरूपत्वे भेदस्य स्वज्ञानाप्रतिबध्यज्ञानप्रतियोगिकत्वे स्वरूपत्वे-नाभेदवत् स्वप्रतियोगित्वनियमेन स्वविदारकत्वस्यावश्यकत्वात् । घटधर्मेषु पटप्रतियोगिकभेदत्ववद् घटप्रतियोगकभेदत्वस्याप्यभ्युपगमात् । पटाद् भिन्नो घट इतिवद् घटाद्भिन्नो घट इति प्रतीतेर्वज्र-लेपत्वाच्च । यत्तु स्वस्माद्विदारकत्वेऽवयवानां विभागेन सूक्ष्मत्वमेव स्यान्न तु शून्यत्वम् । न हि शून्यसंयोगात् किञ्चिदुत्पन्नमिति, तन्न । विभाजकत्वं न विदारकत्वम्, किन्त्वेकत्वविरोधित्वम् । तथा चैकस्याभावेऽनेकस्य सुतरामभावाच्छून्यतायामेव पर्यवसानाच्च । एतेन विदारकलवित्रादेः स्वसम्बन्धिन्येव विदारकत्वम्, न तु स्वस्मिन्निति भेदश्चेत्स्वरूपं, तदा स्वं न विदारयेत् । किञ्च भेदस्य न विदारकत्वम्, भावव्युत्पत्त्या विदारणत्वात् । तथा च स्वरूपभेदेन घटस्य न विदारणं स्यात्, स्ववृत्तिविरोधादिति निरस्तम् । भेदस्य विदारणरूपविभागात्मकत्वेन विभागस्य विभज्यमानवृत्तित्वनियमेनावयवानवस्थया शून्यतापत्तेस्तादवस्थ्यात् । अत एव विभागरूपविदारणात्मा न भेदः, किन्त्वन्योन्याभावः । धातूनामनेकार्थत्वात् । तदुक्तम्–

क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्श्यते ।

प्रयोगतोऽनुसर्तव्या अनेकार्था हि धातवः ॥ इति ।

अन्यथा संयुक्तयोर्भिन्नाविति व्यवहारो न स्यादिति निरस्तम् । अन्योन्याभावस्वरूपत्वे कपालादि-रूपाश्रयप्रतियोगिकभेदस्य घटादिरूपाश्रितरूपतया स्वप्रतियोगिकभेदाश्रयत्वादेकत्वं कपालादिषु भज्येते-त्यवयवानवस्थया शून्यतायामेव पर्यवसानात् । अत एव– नानेकत्वैकार्थसमवायिना भेदेन एकत्वं निराकृत्य तेन पुनरनेकत्वनिराकरणं युज्यते, उपजीव्यविरोधादिति निरस्तम् । अनेकत्वमस्पृष्ट्वैव स्वप्रतियोगिकभेदमात्रेण ऐक्यविरहस्यापाद्यत्वात् । अत एवोक्तमाचार्यैः– ‘अभेदैकार्थ समवायिन्या एकताया भेदेन विरोधात्’ इति ।

यदुक्तं स्वस्मिन्वृत्तिविरोधादिति, तन्न, विभागादिरूपव्यापारस्यानङ्गीकारादितरविरोधितादिरूप-व्यापारस्य सर्वत्र सत्त्वात् । किञ्च स्वरूपत्वे भेदस्य संशयादिर्न स्यात् । धर्मिज्ञाने भेदाज्ञानाभावात् । तदज्ञाने हेतोरेवाभावात् । नन्वभेदस्यापि स्वरूपत्वे संशयाद्यनुपपत्तिस्तवापि समा । यदि चाभेदत्वेना-ज्ञानात्तथा, ममापि भेदत्वेनाज्ञानात्तदिति चेन्न । भेदस्य स्वरूपत्वे शून्यतापादकयुक्त्या कोटीनामे-वोच्छेदात् । न चाभेदस्यापि स्वरूपत्वे भेदकोट्युच्छेदस्तवापीति वाच्यम् । कल्पितकोटिमादाय संशयोपपत्तेः । न च तवापि भेदकसत्त्वादिकोटिः कल्पिता । शून्यतापत्तेरित्युक्तत्वात् ।

यत्तु प्राक् चैतन्ये स्वयम्भातेऽपि तदभिन्नस्यैक्यस्यानवच्छिन्नस्यानन्दस्य चाप्रकाशवद्धर्मिणः प्रकाशेऽपि तदभिन्नस्य भेदस्याप्रकाशो भविष्यति । किञ्चैक्यप्रकाशे तत्र विप्रतिपत्तिर्न स्यात् । तदुपदेशानर्थक्यं च स्यादिति, तन्न । ऐक्यादीनां स्वप्रकाशस्वरूपत्वेऽपि तस्याज्ञानतत्कार्यविप्रति-पत्त्यादीन् प्रत्यविरोधितया तद्गोचरविरोधिवृत्ति पर्यन्तमुक्तानुपपत्याभावात् । न च तर्हि प्रत्यगर्थेऽपि विप्रतिपत्तिः स्यात् । चार्वाकादीनां तस्या अपि दर्शनात् । तस्मादज्ञानाश्रयत्वादिना प्रत्यगर्थ-प्रकाशमुपजीव्यं नाविद्या वृणोति । ऐक्याद्यंशं त्वावृणोत्येवेति तत्र विप्रतिपत्त्यादयः । न चैवं सादृश्यादिदोषादत्रापि भेदांश आवृत इति वाच्यम् । कोट्यनुपस्थितेः प्रधानपूर्वमारोपवादिनस्तव तदसम्भवात् ।

यत्तु स्वरूपभेदो भेदत्वेन भासत एव । प्रायः सर्वभिन्नत्वेनैव प्रतीतेः । अन्यथा सर्वकोटिकः संशयः स्यात् । तत्र च घटप्रतियोगिकत्वादिरूपा अनेकधर्माः सादृश्यादिवशादगृहीताः संशयविषया भविष्यन्ति । न चानेकनिरूप्यस्य भेदस्य निरूपकानेकत्वादनेकत्वापत्तिः । तादृशस्यापीश्वरज्ञानादे-रनेकद्वैतनिरूप्याद्वैतस्य चैक्यदर्शनात् । एक निरूप्यप्रागभावध्वंसयोरनैक्यदर्शनाच्चेति, तन्न । न वयं निरूपकभेदेन भेदं ब्रूमः, किन्तु प्रतियोगितावच्छेदकभेदेनाभाव भेदस्यावश्यकतया, अन्यथा एकघटप्रतियोगिनां चतुर्णां ध्वंसादीनामैक्यापत्तेः । न चाधिकरणरूपाभाववादिनामधिकरण भेदेनैवा-भावभेदः । ध्वंसप्रागभावयोरैक्यापत्तौ विलक्षणव्यवहारानापत्तेः । न चैवमद्वैतेऽप्यैक्यानुपपत्तिः । ब्रह्मेतरत्वरूप प्रतियोगितावच्छेदकस्यैक्यात् । प्रतियोगिभेदाभेदयोरतन्त्रत्वात् । यदपि भेदज्ञानं न भ्रमविरोधि, किन्त्वधिष्ठान आरोप्यविरुद्धधर्मादिज्ञानमिति, तन्न, शाब्दाभेदभ्रमस्य शाब्दभेदज्ञानाद-निवृत्त्यापत्तेः । यदपि कैश्चिदुक्तम्– अदोषमूला ताद्रूप्येणाप्रतीतौ प्रतीतिः स्वरूपभेदलक्षणम् । शुक्तेश्च शुक्त्यात्मनाऽप्रतीतिर् दोषमूलेति न तत्रातिव्याप्तिः । अदोषमूलेत्यस्य यद्यपि सप्तम्यन्तविशेषणत्वं न सम्भवति, तथापि विशिष्टविशेषणत्वेन तद्विशेषणत्वपर्यवसानादिति, तन्न, ताद्रूप्येणाप्रतीतौ प्रतीतेरभेदसाधारण्येनादोषमूलत्वपर्यन्तज्ञानं भेदव्यवहारकारणं वाच्यम् । तत्रादोषमूलत्वं फलैकोन्नेयमिति चाक्षुषत्वं न स्यात्, प्रतीतिघटितत्वात्, अप्रत्ययकाले च भेदो न स्यात् ।

किञ्च रजतात्मना शुक्तेः प्रतीतिसमये तत्र तद्भेदस्ते न स्यात् । अदोषमूलेत्यस्याभावविशेषण-त्वेनाव्याप्तिवारणे असामर्थ्यात् । विशेष्यानधिकरणस्य सुतरां विशिष्टानधिकरणत्वात् । न हि पुरुषहीने दण्डिपुरुषसम्भवः । न चादोषमूलेति अशरीरजन्यत्वमित्यत्र शरीरमिव प्रतियोगिविशेषणं बाधित-सङ्ग्रहाय । नञा समस्तप्रतीतेरसमस्तेनानन्वयात् । न ह्यब्राह्मणः समीचीन इत्यनेन समीचीनविप्राभावः प्रतीयते । अदोषमूलतादात्म्यप्रकारप्रतीत्यभावोक्तौ च शुक्ते रूप्यात्मना अप्रतीतिकाले सामग्रीविरहात् । शुक्त्यात्मना चाप्रतीतौ स्वभेदापत्तेस् तादवस्थ्यात् । न च तदापि प्रतीयमानशुक्त्यात्मना प्रतीयमानत्व-मीश्वरज्ञानमादायास्त्येवेति वाच्यम् । एवं सत्यप्रतीतिदशाविरहेण प्रतीयमानपदवैयर्थ्यात् । न चान्योन्याभावत्वं तत् । तस्यानिरूपणात् । तदुक्तमाचार्यैः–

सापेक्षत्वात्सावधेश्च तत्वेऽद्वैतप्रसङ्गतः ।

एकाभावादसन्देहान्न रूपं वस्तुनो भिदा ॥ इति ।

किञ्च घटस्य भेदत्वे एकतरपरिशेषापत्तिः । ननु– ऐक्यस्य ज्ञानस्यानन्दस्य च ब्रह्मस्वरूपत्वे एकतरपरिशेषापत्तिस्तवापि समाना । न च वस्तुन एकत्वेनेष्टापत्तिः प्रकृतेऽपि साम्यादिति– चेन्न, एकतरपरिशेषापत्त्या घट इति भेद इति विलक्षणव्यवहाराभावस्यापादनात् । न च प्रवृत्तिनिमित्त-घटत्वभेदत्वयोर्भेदात्तदुपपत्तिर् भेदत्वस्य निर्वक्तुमशक्यत्वात् । तथा हि– न तावज्जातिः । जात्यादि-साधारणत्वात्, नोपाधिस् तादात्म्यावच्छिन्नप्रतियोगिकाभावत्वादिरूपः । तादात्म्यस्य भेदविरहरूपत्वेऽ-न्योन्याश्रयात् । तन्निष्ठासाधारणधर्मरूपत्वे तदवच्छिन्नप्रतियोगिकात्यन्ताभावेऽतिव्याप्तेः । तस्यापि स्वरूपत्वेऽनुगतव्यवहारानापत्तेः । न च ज्ञानानन्दादावपि विलक्षणव्यवहारो न स्यादिति वाच्यम् । कल्पितधर्मभेदमादायोपपत्तेः । न च भेदत्वमपि तथाऽस्त्विति वाच्यम् । तर्ह्यनिराकार्योऽसि । किञ्च भेदस्य स्वरूपत्वे इदं भिन्नमस्य भेद इति सम्बन्धित्वेन धीर्न स्यात् । न चानन्दं ब्रह्मण इतिवदुपपत्तिः, प्रमाणसिद्धे ह्यैक्ये भेदव्यवहारस्यौपचारिकत्वं कल्प्यते राहोः शिर इत्यादिवत् । न च प्रकृते तथा, ऐक्ये मानाभावाद् बाधकाच्च । न च पक्षान्तरानुपपत्तेरेव पक्षान्तरपरिग्रहः । शशशृङ्गादौ भावत्वाभावत्वयोरन्यतरानुपपत्त्याऽन्यतरग्रहणापत्तेः । न च तत्रोभयत्र बाधकादली-कत्वेनोपपत्तिः । प्रकृतेऽप्युभयत्र बाधकादाविद्यकत्वेनोपपत्तेः सम्भवात् ।

न्यायामृततरङ्गिणी

ननु भेदस्य स्वरूपत्वे घटधर्मेषु पटप्रतियोगिकभेदत्ववद्धटप्रतियोगिकभेदत्वस्याप्य-भ्युपगमात्पटाद्भिन्नो घट इतिवद्धटाद्भिन्नो घट इति प्रतीतिः स्यात् । मैवम् । पटप्रतियोगिक-भेदस्वरूपा ये घटत्वादयो धर्मास्तद्वत्त्वेन घटे पटभिन्नत्वप्रतीतेरनङ्गीकारात् । किन्तु पटप्रतियोगिको यो घटस्वरूपो भेदस्तेनैव साकं विशेषरूपसम्बन्धसत्वात्तद्वत्त्वेन घटे पटभिन्न-त्वधीः ॥ स्ववृत्तिविरोधादिति ॥ ननु भेदस्य विभागात्मकविदारणरूपत्वे विभागस्य विभज्यमानवृत्तित्व नियमेनावयवानवस्थया शून्यवादापत्तिः । मैवम् । दत्तोत्तरत्वात् । न हि लवित्रादिकं स्वावयवं लुनाति किन्त्वन्यदेव । विभज्यमानवृत्तित्वं चासिद्धम् । घटस्य स्वावयवान्प्रति विभागत्वे हि तेषां विभज्यमानता स्यात् । न त्वेवम् । किन्तु पटादिकं सम्बन्ध्येव घटो भेदो विदारणं विभागश्च । ननु स्वावयवैः सह घटस्य भेदोऽस्ति । मैवम् । अभेदस्याप्यङ्गीकारात् । क्वचिद्विशेषाङ्गीकाराच्च । अत्यन्तभेद एव विदारणरूप इत्यङ्गीकारात् ॥ संयुक्तयोरोष्ठयोरिति ॥ संयोगकाले भेदव्यवहारहेतोर्विभागस्याभावाद्भिन्नाविति व्यवहारो न स्यात् ॥ उक्तञ्चेति ॥ समयपादेऽनुव्याख्यान इति शेषः । अद्भुताः पिशाचाः ॥ अविदारण इति ॥ एकाक्षराधिक्येऽपि न च्छन्दोभङ्गः ॥ यत्र भेदात्मको घट इति ॥

ननु घटस्यावयवानामनेकत्वं स्यात् । न । अनेकावयवानामनेकत्वस्येष्टत्वात् । एकस्मिन्नवयवे तु घटाख्य स्यानेकत्वस्यापर्याप्तेः । एतेनान्योन्याभावस्य स्वरूपत्वे कपालादि-रूपाश्रयप्रतियोगिकभेदस्य घटादिरूपाश्रितरूपा श्रितरूपतया स्वप्रतियोगिकभेदायत्तत्वादेकत्वं कपालादिषु भज्येतेति निरस्तम् । अनेकेषु कपालेष्वनेकत्वस्येष्टत्वात् । एकस्मिंस्तु घटाख्यभेदस्यापर्याप्तेः । स्वप्रतियोगिकात्यन्तभेद एवानेकत्वमित्यङ्गीकाराच्च ॥ ऐक्येऽपि विप्रतिपत्त्याद्य योगादिति ॥ नन्वज्ञानाश्रयत्वादिना प्रत्यगर्थप्रकाशमुपजीव्यन्नावृणोत्यविद्या । ऐक्याद्यंशन्त्वावृणोत्येवेति तत्र विप्रतिपत्त्यादयः । मैवम् । निरंशेंऽशाभावस्योक्तत्वात् ॥ उक्तरूपेणेति ॥ स्वरूपत्वेनेत्यर्थः । भेदस्वरूपं स्वयं स्वरूपत्वेन प्रकाशत एवेति यावत् । ननु प्रतियोगिभेदेनाभावभेदस्यावश्यकत्वात्पटादीनां प्रतियोगिनां नानात्वात्त-त्प्रतियोगिक भेदरूपो घटोऽपि नाना स्यादत आह– न हि निरूपकभेदेनेति ॥ ननु तथापि प्रतियोगितावच्छेदकभेदेनाभावभेद आवश्यकः । घटप्रतियोगिकानां चतुर्णां प्रागभावादीनां भेदप्रतियोगितावच्छेदकभेदस्य प्रयोजकत्वेन कप्तत्वात् । न हि तत्र प्रतियोगिभेदोऽस्ति ।

मैवम् । अधिकरणरूपाभाववादेऽधिकरणभेदेनैवाभावभेदात् । न च प्रागभावप्रध्वंसयोरैक्यापत्तिः ।

अन्योन्याभावस्यैवाधिकरणरूपत्वाङ्गीकारात् । प्रतियोगितावच्छेदकभेदेनाभावभेदे ऐक्यस्यापि भेदः स्यादित्याह ॥ अनेकद्वैतेति ॥ ननु ब्रह्मेतरत्वरूपप्रतियोगितावच्छेदक-स्यैक्यान्नैक्यस्य भेदः स्यात् । मैवम् । तादृशस्यैक्यस्य ब्रह्मस्वरूपत्वानुपपत्तेः । भेदसापेक्ष-त्वाच्च ॥ भेदज्ञानं न भ्रमविरोधीति ॥ न चैवं शाब्दाभेदभ्रमस्य शाब्दभेदज्ञानाद-निवृत्त्यापत्तिः । एतन्मत इष्टापत्तेः । शाब्दभ्रमेऽप्यधिष्ठानसत्वात् । भेदस्याप्यभेदविरोधित्वाच्च । अभेदभ्रमविरोधिनीं भेदप्रतीतिमाह– अदोषमूलेति ॥ एतच्चाप्रतीतौ विशेषणम् । अदोषमूलो यस्ताद्रूप्यप्रकाशक प्रतीत्यभावस्तस्मिन्सति प्रतीतिस्वरूपभेदलक्षणं स्वरूपभेदो लक्ष्यते विषयीक्रियतेऽनया सा तथा । अभेदभ्रमविरोधिनीति यावत् । अदोषमूलेत्यस्य व्यावर्त्यमाह– शुक्तेरिति ॥ शुक्तिः शुक्तेः स्वरूपभेदेन भवतीति शुक्तिप्रतीतिर्न शुक्तिस्वरूपभेदविषयेति न सा तत्वेन सङ्ग्राह्या । दोषकाले शुक्तिरूपत्वेनाप्रतीतिः शुक्तेः प्रतीतिश्च सा भवति तत्र लक्षणमस्तीत्यतिव्याप्तिः । दोषमूलेति विशेषणे तु न तत्रातिव्याप्तिः ।

ननु रजतात्मना शुक्तेः प्रतीतिसमये शुक्तौ रजतभेदो न स्यात् । तत्र ताद्रूप्येण प्रतीत्य-भावरूप विशेष्यस्याभावेनादोष मूलत्वविशेषणविशिष्टस्यापि तस्याभावात् । न हि विशेष्यहीने विशिष्टसम्भवः । मैवम् । अबोधमूलत्वात् । स्वरूपभेदलक्षणस्यात्रानभिधानात् । अभेदभ्रम-विरोधिस्वरूपभेदप्रतीतेरभिधित्सितत्वात् । अत एवाह– एवञ्च भ्रमस्थल इति ॥ ताद्रूप्येण घटस्य पटादिरूपत्वेन । अत एवोक्तम् अभेदभ्रमोपपत्तिरिति । लक्षणविवक्षायां हि स्वरूप-भेदलक्षणोपपत्तिरित्यवक्ष्यत् । यदपि केनचिदुक्तं ताद्रूप्येणाप्रतीतौ प्रतीतेरभेदसाधारण्येनादोष-मूलपर्यन्तज्ञानं भेदव्यवहारकारणं वाच्यम् । एवं च स्वरूपभेदस्य चाक्षुषत्वं न स्यात् । प्रतीतिघटितत्वात् । शुक्तेः रूप्यात्मनाऽप्रतीति काले सामग्रीविरहाच्छुक्त्यात्मना चाप्रतीतौ रूप्यभेदत्वं शुक्तेर्न स्याच्च । न च तदापि प्रतीयमानत्वमीश्वरज्ञान मादायास्त्येवेति वाच्यम् । एवं सत्यप्रतीतिदशाविरहेण प्रतीयमानपदवैयर्थ्यादिति । तदयुक्तम् । अबोधात् । स्वरूप-भेदवादे भेदज्ञानं न भ्रमविरोधीत्यत्र पूर्ववाक्येऽभेदभ्रमविरोधिभेदज्ञानस्य प्रकृतत्वेन तस्यैवा-त्रोच्यमानत्वेन स्वरूपभेदलक्षणस्यात्रानभिधानादित्युक्तत्वात् ।

तत्त्वेऽद्वैतप्रसङ्गत इति ॥ पटादिनिरूप्यस्य भेदस्य घटस्वरूपत्वे पटादिरपि घटस्वरूपः स्यादित्यद्वैतमेव तत्वं स्यात् ॥ एकाभावादिति ॥ अनेकत्वैकार्थसमवायिनो भेदस्य घटस्वरूपत्वे घटरूपभेदाश्रयो नैकः स्यात् । एवं तदाधारोऽपीत्येकः कोऽपि न स्यात् ॥ सापेक्षत्वादिति ॥ अभिदा ऐक्यम् । वस्तुनो रूपं न । तत्र हेतवः सापेक्षत्वादय अभेदस्य भेदसापेक्षत्वम् । स्वाभेदः स्वं प्रत्येव न त्वन्यं प्रत्यपीति सावधित्वम् । अविदारणात्म-कस्याभेदस्य ब्रह्मरूपत्वेन शून्येनाप्यविदारणे तदैक्यं स्यादिति शून्यैक्यं तत्वं स्यात् ॥ नैकाभावादिति ॥ न एकं नैकम् अनेकम् । तस्याभावात् । एकत्वैकार्थसमवायिना घटेन घटभेदस्य पटस्वरूपत्वे घटस्य पटेन सह धर्मिज्ञानाबाध्यमनेकत्वं न स्यात् । अभेदस्य प्रकाशमानब्रह्मस्वरूपत्वे अभेदे संशयाद्यभावः स्यात् ॥ वस्तुभेद इति ॥ वस्तुनः सकाशा-द्भेदस्य भेदो न स्यात् । किन्तूभयमेकमेव स्यादित्यर्थः ॥ घटत्वभेदत्वयोरिति ॥ न च भेदत्वानिरुक्तिः । ज्ञानत्वानन्दयोरपि ब्रह्मण्यनिरुक्तेः । न च तत्र तत्कल्पितं भेदत्व-मपीश्वरशक्तिवशाद्भेदे तात्विकम् । वस्तुतस्त्वनिरुक्तावपि न वस्तुक्षतिरित्युक्तं दृग्दृश्य-सम्बन्धानुपपत्तिभङ्गे ।

न्यायामृतकण्टकोद्धारः

एवं भेदस्य धर्मिस्वरूपत्वे सर्वाद्वैतलक्षणं बाधकं परिहृत्य भेदशब्दस्य विदारणार्थत्वमादाय शून्यतापत्तिरूपं बाधकं परिहर्तुमाशङ्कामुत्थापयति– नन्विति ॥ परमुखेनोत्तरं वक्तुं प्रतिबन्द्या समाधत्ते– अविदारणात्मकस्येति ॥ अत्र पारमार्थिकानृतादीनि विशेषणानि अभेदाङ्गीकारे बाधकसूचकानि । उक्तमर्थं कारिकया सङ्गृह्णाति– एवञ्चेति ॥ ‘विदारकत्वेऽपि’ इत्यभ्युपगम-वादः । अभ्युच्चयेनैवाह– किञ्चेति ॥ सूक्ष्मत्वमेव निरवधिकमिति शेषः । ननु शून्यसंयोगात् कार्योत्पत्तेः शून्यता स्यादिति तत्राह– न हीति ॥

ननु भेदस्य विदारकत्वेऽविशेषणात् सर्वस्माद् विदारयेत् । विशेषनियामकाभावात् । न चाभेदप्रतिबन्द्युक्तेति वाच्यम् । प्रतिबन्द्या अनुत्तरत्वात् । शिष्यं प्रत्युत्तराभावप्रसङ्गाच्चेत्यतो नियामकं दर्शनमेवेत्याह– अपि चेति ॥ विदारयतीति दृष्टमिति शेषः । धर्मभेदवादे– भेदो धर्मि, धर्म इति वादे इत्यर्थः । तथा सति धर्मिसम्बन्धित्वाद् लवित्रादितुल्यतया विदारकत्वं स्यादिति । किञ्च भेदशब्दो विदारकपर इत्यङ्गीकृत्योक्तम् । न तावद् भेदशब्दस्य विदारके रूढिः । लवित्रादावप्रयोगात् । नापि योगशब्दः । योगस्य योगरूढयोर्दुर्बलत्वात् । विदारणे च तयोः सत्त्वादित्याह– वस्तुतस्त्विति ॥ भावसाधनत्वाद् भेदनं भेद इति भावार्थे व्युत्पन्नत्वात् । एवं पूर्वोक्तापादनदोषं परिहरति– तथा चेति ॥ इममर्थं कारिकया सङ्गृह्णाति– एवञ्चेति ॥ अतिवास्तवपक्षमाह– अङ्गीकृत्येति ॥ ननु भिद विदारण इति पठितत्वात् कथं विदारणार्थो नेत्यत आह– क्रियेति ॥ अनेकार्थत्वेऽपि विदारणार्थः किं न स्यादित्यत आह– अन्यथेति ॥ इदं सर्वसिद्धान्तारूढमित्याह– उक्तं चेति ॥ एवं धात्वर्थमादाय शून्यतापत्तिरूपं बाधकं परिहृत्य सङ्ख्याराहित्येन शून्यतापत्तिरूपं बाधकं परिहरति– एतेनेति ॥ तद्विरुद्धमिति ॥ अयमेको नानेक इति बुद्ध्या एकानेकत्वयोर्विरोधादित्यर्थः ।

ननु मास्त्वेकत्वं ततः को दोष इति तत्राह– एकत्वाभावे चेति ॥ अनेकत्वसङ्ख्याया एकत्वसङ्ख्यापूर्वकत्वादिति भावः । परमुखेनैवैकत्वानेकत्वयोर्विरोधं परिहर्तुं प्रतिबन्दीमाह– एकत्वेति ॥ भावाद्वैतमत इति ॥ अन्यथा द्वितीयस्य कल्पितत्वात् तेन सहानेकत्वमपि कल्पितमिति ब्रूयादिति भावः । (किं) भेदस्यानेकार्थसमवायित्वमङ्गीकृत्य समाहितम् । वस्तुतस्तु भेदो धर्मिमात्रनिष्ठ एव । अन्यमात्रनिष्ठत्वेऽप्युभयसापेक्षत्वं युज्यते, दृष्टत्वादित्याह– किञ्चेति ॥ तथा चापादकाभावादेकत्वाभावापादनम् असङ्गतमिति भावः । आपादने अत्यकौशलतां व्युत्पादयितुमाह– अपि चेति ॥ कथञ्चेति ॥ यथा ह्यश्वसद्भावेन गोत्वाभावं प्रसाध्य पुनर्गोत्वाभावेनाश्वत्वाभावसाधने विरोधस्तथेत्यर्थः । न चानेकत्वसद्भावस्यैकत्वसद्भावसापेक्षत्वात्, प्रकृते च तदभावाद्युक्तमापादनमिति वाच्यम् । अत्यन्तविरुद्धयोरन्योन्य सद्भावस्यान्योन्य-सद्भावसापेक्षत्वायोगात् । सापेक्षत्वे चात्यन्तविरोधायोगादिति ।

ननु भवद्रीत्या भवतामापादानम् । अतो न विरोध इत्यत आह– न हीति ॥ तथा चैकत्वानेकत्वयोः स्वभिन्नप्रतियोगिकयोरविरोधात् । भेदस्य घटादिस्वरूपत्वेऽपि एकत्वानेकत्वसम्भवात् सङ्ख्यारहितत्वेन न शून्यतापत्तिरिति भावः । एवमुभयथा शून्यतापत्तिरूपं बाधकं परिहृत्य भेदस्य स्वरूपत्वे संशयानुपपत्तिरूपं बाधकं परिहरति– एतेनेति ॥ नन्वैक्यमपि प्रकाशत एवातो न प्रतिबन्दिग्रह इत्यत आह– ऐक्यस्येति ॥ प्रत्यगर्थवदेवेति ॥ यदि भावेऽपि वृत्त्यभावापराधेन विप्रतिपत्यादि तर्हि प्रत्यगर्थेऽपि तत् स्यात् । अविशेषात् । विप्रतिपत्याद्य-विरोधिनो भानत्वायोगस्योक्तत्वाच्च । ननु स्वरूपभूतस्याप्यैक्यस्याभाने बीजमावरणमस्ति । न तु भेदभानेऽतो वैषम्यमित्यत आह– यदि चेति ॥ प्रकृतेऽपि सादृश्यादिदोष एव भेदाभानबीजमिति भावः । उक्तमर्थं कारिकारूढं करोति– एवञ्चेति ॥ पूर्वं भेदो धर्मिस्वरूपभूतोऽपि त्वाचज्ञाने रूपमिव सर्वथा न प्रकाशते इत्युक्तम् । इदानीन्तु भेदो भासत एव । न तु भेदत्वेन । तावतापि संशयो युज्यते ।

यथाकथञ्चिद् धर्मिज्ञानं न संशयविरोधि । प्रमेयत्वेन धर्मिज्ञानेऽपि संशयदर्शनात् । किन्तु भेदत्वप्रकारकम् । तच्च न प्रवृत्तमिति संशयो युज्यत इत्याह– किञ्चेति ॥ किञ्च भेदत्व-प्रकारकमपि सर्वत्र ज्ञानमस्तीत्याह– किञ्चेति ॥ अपिपदेनान्यत्र भेदत्वेनाप्रतीतिरसिद्धेति किमु वक्तव्यमिति भावः । अत्र प्रमाणमाह– प्राय इति ॥ अन्यथेति ॥ प्रायः सर्वतो वैलक्ष्यण्येन प्रतीत्यनङ्गीकारे इत्यर्थः । नन्वेवं सर्वतो वैलक्ष्यण्ये निश्चिते कथं संशयादीति पृच्छति– किन्त्विति ॥ नन्वेवं निरूपकभेदाद् भेदानन्त्यं स्यादित्यत आह– न हीति ॥ एकेति ॥ अन्वय व्यतिरेकाभ्यां व्यभिचारान्न निरूपकभेदो निरूप्यभेदे प्रयोजक इति भावः ॥ अनेकद्वैतेति ॥ न प्रतियोगितावच्छेदक भेदेनाभावभेदः स्वीक्रियते । भेदप्रतियोगितावच्छेदका-नामनन्तत्वाद् भेदानन्त्यप्रसङ्गो दुर्वारः । ऐक्यात्तु ब्रह्मेतरद्वैतत्वमेकमेव । प्रतियोगितावच्छेदकस्यै-कत्वात् । न चेदं प्रतियोगितावच्छेदकं ज्ञातुमशक्यमिति वाच्यम् । ब्रह्मस्वरूपे श्रुत्या प्रतिपन्ने तद्भिन्नस्य सुज्ञानत्वात् ।

किञ्च तवाभेदप्रतियोगितावच्छेदकज्ञानमभेदज्ञानविरोधि । भिन्नत्वेन ज्ञाते भेदज्ञानायोगात् । सत्यत्वमिथ्यात्वाभ्यां विरोधपरिहारो मिथ्यात्वासिद्धेरयुक्त इति ॥ केचित्त्विति ॥ न च शाब्द-भेदज्ञानाच्छाब्दाभेदभ्रमनिवृत्तिर्न स्यादिति वाच्यम् । शब्देन भेदबोधने पदार्थतावच्छेदकपुरस्कारेण स्वतन्त्रभेदबोधनासम्भवात् । तथा च तत्रापि विरुद्धधर्मज्ञानम् अविकलमिति क्व व्यभिचारः । केचित्त्वित्यस्वरसोद्भावनम् । भेदज्ञानस्य भ्रमविरोधित्वमनुभवसिद्धम् । तदनङ्गीकारेऽनुभव विरोधः । किञ्च भेदकधर्माणां विरोधः भेदद्वारकः । भावाभावयोः साक्षाद्विरोधः । अन्येषां तु तद्द्वारक इति स्थिते तदिह भेदज्ञानस्याविरोधित्वे भेदकधर्मज्ञानं सुतरां विरोधि न स्यादित्यादि ॥ केचित्त्व-दोषेति ॥ अत्र दोषमूलताद्रूप्येणाप्रतीयमान त्वाभावे सति प्रतीयमानत्वमित्यर्थः । तादृशभेदज्ञानं शुक्तेः रजतत्वेन प्रतीतिकाले नास्तीत्याह– शुक्तेरिति ॥ अत्र स्वरूपभेदाज्ञाने दोषो मूलमिति भावः । न चैवं शुक्तेः रजतत्वेन प्रतीतिकाले भेदो न स्यात् । दोषमूलताद्रूप्येणाप्रतीय मानत्वाभावादिति वाच्यम् । ईश्वरप्रतीतिमादाय तदापि दोषसत्त्वात् । न चादोषमूलेति व्यर्थम् इति वाच्यम् । ईश्वरप्रतीतिमादाय ताद्रूप्येणाप्रतीयमानत्वस्यासम्भवशङ्कानिवर्तकत्वेन सार्थकत्वात् ।

न च पूर्वप्रतीकमेव व्यर्थम् । प्रतीयमानत्वज्ञानस्य भ्रमकालेऽपि सत्त्वेन भेदज्ञान-प्रसङ्गनिवारणार्थत्वात् । उक्तविशेषणे हि तादृशविशिष्टस्वरूपज्ञानाभावेन भेदज्ञानाप्रसङ्गात् । न च विशेष्यवैयर्थ्यम् । सर्वथा प्रतीतिदशायां भेदज्ञाननिवारणार्थत्वात् । न च प्रतीत्यादिघटितत्वेन भेदस्याचाक्षुषत्वमिति वाच्यम् । उपनीतप्रतीत्यादेश्चाक्षुषत्वसम्भवात् । उपनायकस्य च साक्षिणो विद्यमानत्वात् संशयो न स्यादिति दूषणं परिहरति– एवञ्चेति ॥ भ्रमस्थल इत्युपलक्षणम् । संशयस्थल इत्यपि द्रष्टव्यम् ॥ ताद्रूप्येण प्रतीत्यभावादिति ॥ विशिष्टभेदप्रतीत्यभावादित्यर्थः । अत्रास्वरसबीजमन्योन्याभावमादाय उक्तरूपेण सन्देहोपपादनसम्भवे प्रतीत्यादिघटितभेदवर्णन-मयुक्तम् । किञ्च प्रतीयमानत्वं किं स्वरूपेणाथासाधारणधर्मेण ? नाद्यः । व्यर्थविशेष्यत्वात् । द्वितीये विशेषणवैयर्थ्यम् । विशेष्यमात्रेणैव सामञ्जस्यात् । चाक्षुषत्वादेर्निरुपपादत्वाच्चेति । एवञ्च यानि भेददूषणानि तानि सर्वाण्यभेददूषणानीत्याह– एवञ्चेति ॥ ‘सावधेश्च तत्वे’ सप्रतियोगिकस्य भेदस्य धर्मिस्वरूपत्व इत्यर्थः । नैकत्वाभावाद् अनेकत्वाभावादित्यर्थः । न समासोऽयमित्यदोषः । तथा चास्वव्याघातकैरेव दूषणीयमिति भावः ।

बाधकान्तरं परिहर्तुमनुवदति– एतेनेति ॥ प्रतिबन्द्या समाधत्ते– ऐक्यस्येति ॥ प्रवृत्ति-निमित्तभेदेनेति ॥ न च भेदस्य निर्वक्तुमशक्यत्वात् प्रवृत्तिभेदानुपपत्तिरिति वाच्यम् । भेदत्वस्य जात्यादिसाधारणत्वेन जातित्वासम्भवेऽप्यु पाधित्वसम्भवात् । न चोपाधेरतिरिक्तः भेद इत्युक्तव्यवहारविषयत्वस्य तादात्म्यारोपपूर्वकनिषेधधीविषयत्वस्य वा भेदत्वस्य सम्भवात् । तादात्म्यञ्च तदैक्यं तदसाधारणधर्मो वेति न कश्चित् क्षुद्रोपद्रवः । तदैक्यं च न तेन सह भेदा-भावः । येनान्योन्याश्रयः । तेन सहैकत्वयुक्तमिति । संसर्गाभावस्य च प्रतियोग्यारोपपूर्वकत्वा-न्नातिव्याप्तिः । न च भेदत्वस्य स्वरूपत्वेऽनुगतव्यवहारानुपपत्तिर् धर्मत्वेऽनवस्थेति वाच्यम् । स्वरूपत्वेऽप्यनुगतव्यवहारोपपादकत्वस्य सत्तादौ दर्शनादिति । किञ्च ज्ञानानन्दयोरपि विलक्षण-व्यवहारविषयत्वं न स्यात् । न च कल्पितभेदेन तदुपपत्तिः । अधिष्ठाने तत्त्वतो भासमाने भेदकल्पनायोगात् । कल्पितसद्व्यवहारापत्तौ न वस्तुतः शून्यतापत्तेश्च ॥ एकत्रैवेति ॥ न च तत्र शुक्लभास्वररूपोष्णस्पर्शौ भिन्नावेव । तयोरेव सार्थक्रियेति नायं दृष्टान्त इति वाच्यम् । तद्भेदे मानाभावात् । गुणगुणिनोरभेदस्य भट्टमतानुसारिणा त्वया वाच्यत्वाच्च । विशेष(ष्य)त्वे प्रकृतेऽपि समम् । अयमेव न्यायोऽग्रेऽपि द्रष्टव्यः ॥ ज्ञानानन्दावितिवदिति ॥ कल्पितभेदेनोपपत्तिश्चेत् प्रागेव निराकृतेति भावः । एतेनेति परामृष्टं हेतुमाह– ऐक्यब्रह्मशब्दयोरिति ॥

एवं पर्यायत्वरूपं बाधकं परिहृत्य सम्बन्धितया प्रतीतिरूपबाधकं परिहरति– एतेनेति ॥ प्रत्युतेति ॥ घटो द्रव्यमिति प्रत्ययव्यवहारदर्शनादिति भावः । नन्वैक्यब्रह्मणोरैक्यव्यवहाराद्विषमो दृष्टान्त इत्याह– न हीति ॥ आद्येऽपीति ॥ अर्थो निषिध्यत इत्यस्मिन् पक्षे इत्यर्थः ॥ तृतीयेऽपीति ॥ ऐक्यस्य ब्रह्मसम्बन्धो निषिध्यते इति पक्षेऽपीत्यर्थः ॥ न द्वितीय इति ॥ व्यवहारस्याबाधितत्वं निषिध्यत इति पक्षो नेत्यर्थः । उक्तमर्थं कारिकया सङ्गृह्णाति– एवञ्चेति ॥

न्यायामृतप्रकाशः

विदारणात्मनो विदारकत्वस्वभावतः विभागाख्यद्वैधीभावहेतुत्वादात्मन इति यावत् । विदारणं द्वैधीभावः ॥ परमाणुरपीति ॥ परमाणावपि भेदस्य सत्वेन तस्यापि तत्स्वरूपत्वात्तत्रापि द्वैधीभाव-रूपविभागापत्त्या सोऽप्येको न स्यादित्यर्थः । ऐक्येऽपीदं दूषणं समानमित्याह– अविदारणेति ॥ अविभागात्मकस्येत्यर्थः । अविदारणेन अविभागेन व्यावहारिकघटाभेदः प्रातिभासिकरूप्याद्यभेदः शून्यो भेदश्च घटे रूप्ये शून्ये च तावदस्ति सोऽपि ब्रह्मस्वरूपमेव । अभेदमात्रस्य तत्स्वरूपत्वात् । एवं च भेदस्य विदारणात्मकत्वेऽभेदस्या विदारणात्मकत्वापत्त्या घटाद्यविभागात्मकाभेदस्य तत्स्व (ब्रह्मस्व) रूपत्वाद्धटादेरपि ब्रह्मस्वरूपत्वं स्यादित्यर्थः ।

‘प्रतियोगिनो हि भेदोऽयं न तु स्वस्मात्कथञ्चन’ इत्यनुव्याख्यानं हृदि निधायाह– तर्हीति ॥ न त्विति ॥ तथा च घटस्यापि विदारणं स्यादित्यापादनायोग इत्याशयः ॥ यथा हीति ॥ यथा हि जीवैक्यमेव ब्रह्मात्मकं तथा च स्वस्यैव जीवाविभागरूपाविदारणसम्पादकं, न परेण घटादिना तदभेदस्य ब्रह्मात्मकत्वाभावादित्यर्थः । स्वस्मिन्निति पाठः । स्वाभिन्ने घट इत्यर्थः । स्वस्मादिति पाठे स्वस्मिन्नित्येव विभक्तिव्यत्ययेनार्थो द्रष्टव्यः ॥ कार्याणां विभागेनेति ॥ कार्याणां विभागे स्वकारणपरिशेषेण भाव्यम् । एवं च कार्याणां विभागेन शून्यत्वं न प्राप्नोति । कुत इत्यत आह– न हीति ॥ धर्मभेदवाद इति ॥ यदि भेदो घटादिधर्मः स्यात् । तर्हि विदारक स्वभावभूतो भेदः लवित्रवद्धटादिसम्बद्धः सन् तत्र द्वैधीभावरूपं विभागं कुर्यादिति वक्तुं शक्यम् । न ह्येवमस्ति स्वरूपत्वाङ्गीकारेण घटादिसम्बन्धित्वानङ्गीकारादित्यर्थः ॥ भावेति ॥ ‘भिदिर् विदारणे’ इति धातुः । कुत इत्यत आह– न हीति ॥ विदारणस्येति ॥ घटस्यैव विदारणत्वादित्यर्थः ॥ स्ववृत्तीति ॥ स्वस्य स्वस्मिन्वृत्तीत्यर्थः । न घटे विदारणत्वादित्यर्थः ।

स्ववृत्तीति ॥ स्वस्य स्वस्मिन्वृत्तीत्यर्थः । न घटे विदारणमित्यर्थः । कुत इत्यत आह– स्वस्येति ॥ तर्हि (भिदिर् विदारणे) इति धातुविरोध इति चेत्तत्राह– क्रियेति ॥ ‘भूवादयो धातवः’ इति स्मरणादित्यर्थः ॥ अन्यथेति ॥ विभागरूपविदारणस्यैव भिदिधात्वर्थत्व इत्यर्थः । ऐक्यपक्षेऽपि साम्यादित्याह– एकत्वेति ॥ पटेन सहानेकत्वं न स्यादित्यन्वयः । तस्यैकत्वेन विरुद्धत्वादित्यर्थः । वास्तवं पटेन सहानेकत्वं नास्त्येव तस्यापि मिथ्यात्वादित्यत उक्तं धर्मीति ॥ घटेत्यर्थः । तथा च व्यावहारिकमप्यनेकत्वं न स्यादिति भावः ॥ ब्रह्मणा चेति ॥ एकत्वैकार्थ-समवायिन इति वर्तते । तथा चैकत्वैकार्थसमवायिनो ब्रह्मणा सह ब्रह्माभेदस्य ब्रह्मस्वरूपत्वे ब्रह्मणोऽभावेन सहाप्यनेकत्वं न स्यात् । तस्यैकत्वेन सह विरोधादित्यर्थः । ननु द्वितीयाभावस्यापि मिथ्यात्वात्तेन सहानेकत्वं नास्त्येवेत्यत उक्तम् भावाद्वैतमत इति ॥ द्वितीयो भाव एव नास्ति । अभावरूपद्वितीयमस्तीति मत इत्यर्थः ॥ एकमात्रेति ॥ भेदस्य द्विष्ठत्वपक्ष एवानेकत्वैकार्थसमवायित्वं न त्वन्यनिरूप्यमेकमात्रवृत्तीति पक्ष इत्यर्थः । यथोक्तं ‘संयोगश्च विभागश्च भेदश्चैव पृथक् पृथक् । अन्योन्यप्रतियोगेन ह्युभयोरपि दृश्यते’ इति ॥ अपि चेति ॥ अनेकत्वेन सह भेदस्य एकार्थरूप-घटसमवायोऽपि नास्ति । अस्मन्मते घटस्यैव भेदात्मकत्वेनानेकत्वेन सह एकार्थे मृदादावधिकरणे भेदात्मको घटः समवेतस्तस्यैवोपपत्तेरिति ॥ तथा च संशयविरोधिनो भेदस्याप्रतीतत्वात्संशयः सम्भवतीति भावः । ननु प्रत्यच्कैतन्ये स्वयं भातेऽपि तदभिन्नैक्यस्याप्रकाशो नास्तीति चेत्तत्राह–

ऐक्यस्य चेति ॥ विप्रतिपत्तिः संशयः ॥ उपदेशेति ॥ तत्त्वमस्यादीत्यर्थः ॥ १५ ॥ (अत्र ग्रन्थपातः)

न्यायकल्पलता

ननु भेदस्य स्वरूपत्वे घटधर्मेषु पटप्रतियोगिकभेदत्ववद्धटप्रतियोगिकभेदत्वस्याप्यभ्युपगमा-त्पटाद्भिन्नो घट इतिवद्धटाद्भिन्नो घट इति प्रतीतिः स्यादिति । मैवम् । पटप्रतियोगिकभेदस्वरूपा ये घटत्वादयो धर्मास्तद्वत्त्वेन घटे पटभिन्नत्वप्रतीतेरनङ्गीकारात् । किन्तु पटप्रतियोगिको यो घटस्वरूपो भेदस्तेनैव साकं विशेषरूपसम्बन्धसत्वात्तद्वत्त्वेन घटे पटभिन्नत्वधीः ॥ स्ववृत्तिविरोधादिति ॥ ननु भेदस्य विभागात्मकविदारणरूपत्वे विभागस्य विभज्यमानवृत्तित्व नियमेनावयवानवस्थया शून्यवादापत्तिः । मैवम् । दत्तोत्तरत्वात् । न हि लवित्रादिकं स्वावयवं लुनाति अपि त्वन्यदेव । विभज्यमानवृत्तित्वं चासिद्धम् । घटस्य स्वावयवान्प्रति विभागत्वे हि तेषां विभज्यमानता स्यात् । न त्वेवम् । किन्तु पटादिकं सम्बन्ध्येव घटे भेदो विदारणं विभागश्च । ननु स्वावयवैः सह घटस्य भेदोऽस्ति । सत्यम् । अभेदस्यापि सत्वात् । क्वचिद्विशेषस्य भेदप्रतिनिधेरभ्युपगमाच्च । अत्यन्तभेद एव विदारणरूप इत्यङ्गीकारात् ॥ संयुक्तयोरोष्ठयोरिति ॥ संयोगकाले भेदव्यवहारहेतोर्विभागस्या-भावाद्भिन्नाविति व्यवहारो न स्यात् ॥ उक्तञ्चेति ॥ समयपादेऽनुव्याख्यान इति शेषः । अद्भुताः पिशाचाः ॥ अविदारण इति ॥ एकाक्षराधिक्येऽपि न च्छन्दोभङ्गः । ‘न वा एकेनाक्षरेण छन्दांसि वियन्ति’ इति श्रुतेः । एतेनाभेदैकार्थसमवायिन्य एकताया भेदेन विरोध इति निरस्तम् ॥ यत्र भेदात्मको घट इति ॥ ननु घटस्यावयवानामनेकत्वं स्यात् । न । अनेकावयवानाम् अनेकत्वस्योचितत्वेनेष्टत्वात् । एकस्मिन्नवयवे तु घटाख्यस्यानेकत्वस्यापर्याप्तेः । एतेनान्योन्याभावस्य स्वरूपत्वे कपालादिरूपाश्रयप्रतियोगिकभेदस्य घटादिरूपाश्रितरूपाश्रितरूपतया स्वप्रतियोगिक-भेदाश्रयत्वादेकत्वं कपालादिषु भज्येतेति निरस्तम् । अनेकेषु कपालेष्वनेकत्वस्येष्टत्वात् । एकस्मिंस्तु घटाख्यभेदस्यापर्याप्तेः । स्वप्रतियोगिकात्यन्तभेद एवानेकत्वमित्यङ्गीकाराच्च ।

ऐक्येऽपि विप्रतिपत्त्याद्ययोगादिति ॥ नन्वज्ञानाश्रयत्वादिना प्रत्यगर्थप्रकाशमुपजीव्यं नावृणोत्यविद्या । ऐक्याद्यंशन्त्वावृणोत्येवेति तत्र विप्रतिपत्त्यादयः । मैवम् । चितो निरंशत्वेनांशा-भावस्योक्तत्वात् । कल्पितांशस्याविद्यापेक्षत्वात् ॥ उक्तरूपेणेति ॥ स्वरूपत्वेनेत्यर्थः । भेदस्वरूपं स्वरूपत्वेन प्रकाशत एवेति यावत् । ननु प्रतियोगिभेदेनाभावभेदस्यावश्यकत्वात्पटादीनां प्रतियोगिनां नानात्वात्तत्प्रतियोगिकभेदरूपो घटोऽपि नाना स्यादत आह– न हि निरूपकभेदेनेति ॥ ननु तथापि प्रतियोगितावच्छेदकभेदेनाभावभेद आवश्यकः । घटप्रतियोगिकानां चतुर्णां प्रागभावादीनां भेदप्रतियोगितावच्छेदकभेदस्य प्रयोजकत्वेन कप्तत्वात् । न हि तत्र प्रतियोगिभेदोऽस्ति । मैवम् । अधिकरणरूपाभाववादेऽधिकरणभेदेनैवाभावभेदात् । न च प्रागभावप्रध्वंसयोरैक्यापत्तिः । अन्योन्याभावस्यैवाधिकरणरूपत्वाभ्युपगमात् । प्रतियोगितावच्छेदकभेदेनाभावभेदे ऐक्यस्यापि भेदः स्यादित्याह – अनेकद्वैतेति ॥ ननु ब्रह्मेतरत्वरूपप्रतियोगितावच्छेदकस्यैक्यान्नैक्यस्य भेदः स्यादिति । मैवम् । एतादृशस्यैक्यस्य ब्रह्मस्वरूपत्वानुपपत्तेः । भेदसापेक्षत्वाच्च ॥ भेदज्ञानं न भ्रमविरोधीति ॥ न चैवं शाब्दाभेदभ्रमस्य शाब्दभेदज्ञानादनिवृत्त्यापत्तिः । एतन्मत इष्टापत्तेः । शाब्दभ्रमेऽप्यधिष्ठान-सत्वात् । भेदस्याप्यभेदविरोधित्वाच्च । अभेदभ्रमविरोधिनीं भेदप्रतीतिमाह– अदोषमूलेति ॥ एतच्चा-प्रतीतौ विशेषणम् । अदोषमूलो यस्ताद्रूप्यप्रकारकप्रतीत्यभावस्तस्मिन्सति प्रतीतिः स्वरूपभेदलक्षणं स्वरूपभेदो लक्ष्यते विषयीक्रियतेऽनया सा तथा । अभेदभ्रमविरोधिनीति यावत् । अदोषमूलेत्यस्य व्यावर्त्यमाह– शुक्तेरिति ॥ शुक्तिः शुक्तेः स्वरूपभेदो न भवतीति शुक्तिप्रतीतिर्न शुक्तिस्वरूप-भेदविषयेति न सा तत्वेन सङ्ग्राह्या । दोषकाले शुक्तिरूपत्वेनाप्रतीतिः शुक्तेः प्रतीतिश्च सा भवतीति तत्र लक्षणम् अस्तीत्यतिव्याप्तिः । दोषमूलेति विशेषणे तु न तत्रातिव्याप्तिः ।

ननु रजतात्मना शुक्तेः प्रतीतिसमये शुक्तौ रजतभेदो न स्यात् । तत्र ताद्रूप्येण प्रतीत्यभावरूपविशेष्यस्याभावेनादोष मूलत्वविशेषणविशिष्टस्यापि तस्याभावात् । न हि विशेष्यहीने विशिष्टसम्भवः । मैवम् । अबोधमूलत्वात् । स्वरूपभेदलक्षणस्यात्रानभिधानात् । अभेदभ्रम-विरोधिस्वरूपभेदप्रतीतेरभिधित्सितत्वात् । अत एवोक्तम् एवञ्च भ्रमस्थल इति ॥ ताद्रूप्येण घटस्य पटादिरूपत्वेन । अत एवाह– अभेदभ्रमोपपत्तिरिति । लक्षणविवक्षायां हि स्वरूपभेदलक्षणोपपत्ति-रित्यवक्ष्यत् । यदपि केनचिदुक्तं ताद्रूप्येणाप्रतीतौ प्रतीतेरभेदसाधारण्येनादोषमूलपर्यन्तज्ञानं भेद-व्यवहारकारणं वाच्यम् । एवं च स्वरूपभेदस्य चाक्षुषत्वं न स्यात् । प्रतीतिघटितत्वात् । शुक्तेः रूप्यात्मनाऽप्रतीति काले सामग्रीविरहाच्छुक्त्यात्मना चाप्रतीतौ रूप्यभेदत्वं शुक्तेर्न स्याच्च । न च तदापि प्रतीयमानत्वमीश्वरज्ञान मादायास्त्येवेति युक्तम् । एवं सत्यप्रतीतिदशाविरहेण प्रतीयमानपदवैयर्थ्यादिति । तदसारम् । स्वरूप(भेदवादे) भेदज्ञानं न भ्रमविरोधीत्यत्र पूर्ववाक्येऽभेद-भ्रमविरोधिभेदज्ञानस्य प्रकृतत्वेन तस्यैवात्रोच्यमानतया स्वरूपभेद लक्षणस्यात्रानभिधानादित्युक्ताबोध-विलसितत्वात् । तत्त्वेऽद्वैतप्रसङ्गत इति ॥ पटादिनिरूप्यस्य भेदस्य घटस्वरूपत्वे पटादिरपि घटस्वरूपः स्यादित्यद्वैतमेव तत्वं स्यात् ॥ एकाभावादिति ॥ अनेकत्वैकार्थसमवायिनो भेदस्य घटस्वरूपत्वे घटरूपभेदाश्रयोऽनेकः स्यात् । एवं तदाधारोऽपीत्येकः कोऽपि न स्यात् ॥

सापेक्षत्वादिति ॥ अभिदा ऐक्यम् । वस्तुनो रूपं न । तत्र हेतवः सापेक्षत्वादयः । अभेदस्य भेदसापेक्षत्वम् । स्वाभेदः स्वं प्रत्येव न त्वन्यं प्रत्यपीति सावधित्वम् । अविदारणात्मकस्याभेदस्य ब्रह्मस्वरूपत्वेन शून्येनाप्यविदारणे तदैक्यं स्यादिति शून्यैक्यं तत्वं स्यात् ॥ नैकाभावादिति ॥ न एकं नैकम् अनेकम् । तस्याभावात् । ‘सुप्सुपेति प्रतिषेधार्थेननिरनुबन्धकेन नकारेण समासः । एकत्वैकार्थसमवायिनो घटेन घटाभेदस्य पटस्वरूपत्वे घटस्य पटेन सह धर्मिज्ञानाबाध्यमनेकत्वं न स्यात् । अभेदस्य प्रकाशमानब्रह्मस्वरूपत्वे अभेदे संशयाद्यभावः स्यात् ॥ वस्तुभेद इति ॥ वस्तुनः सकाशाद्भेदस्य भेदो न स्यात् । किन्तूभयमेकमेव स्यादित्यर्थः ॥ घटत्वभेदत्वयोरिति ॥ न च भेदत्वानिरुक्तिः । ज्ञानत्वानन्दत्वयोरपि ब्रह्मण्यनिर्वचनात् । न च तत्र तत्कल्पितं भेदत्वमपीश्वरशक्तिवशाद्भेदे तात्विकम् । वस्तुतस्त्वनिरुक्तावपि न वस्तुतः क्षतिरित्यु(त्ययु)क्तं दृग्दृश्यसम्बन्धानुपपत्तिभङ्गे ।