१३ अवाच्यत्वभङ्गः

यच्चेदमुच्यते ब्रह्म सर्वशब्दावाच्यमिति

१३. अवाच्यत्वभङ्गः

न्यायामृतं

यच्चेदमुच्यते ब्रह्म सर्वशब्दावाच्यमिति । तत्रावाच्यपदेनोच्यते चेद्वाच्यत्वसिद्धिः । नापि तेनापि लक्ष्यते । अवाच्यरूपमुख्यार्थस्यान्यस्याभावात् । भावे वा ब्रह्म नावाच्यं किन्तु तीरवद् अवाच्यरूपमुख्यार्थ सम्बन्धिमात्रमिति स्यात् । मुख्यार्थहीनस्यापि ब्रह्मलक्षकत्वे घटशब्दोऽपि घटलक्षकः स्यात् । एवं निर्विशेषं स्वप्रकाशं परमार्थ-सदित्यादिशब्दैर्ब्रह्मोच्यते चेद्वाच्यत्वसिद्धिः । नापि तैरपि लक्ष्यते । निर्विशेष स्वप्रकाशादिरूपमुख्यार्थस्यान्यस्याभावात् । एवं लक्ष्यशब्देनोच्यते चेद्वाच्यत्वसिद्धिः । लक्ष्यते चेल्लक्ष्यत्वहानिः । गङ्गाशब्दलक्ष्यस्याऽगङ्गात्ववल्लक्ष्यपदलक्ष्यस्यालक्ष्यत्वात् । ननु निर्विशेषादिशब्दानां विशेषाभावादिविशिष्टं वाच्यम् । तच्च न ब्रह्म । तस्य विशेषाभावा-द्युपलक्षितत्वादिति चेत्, तर्हि विशेषाभावोपलक्षितशब्दवाच्यत्वम् अनिवार्यम् ।

ननु विशेषाभावोपलक्षितत्वादिकं वा तद्विशिष्टत्वं वा निर्विशेषादिपदवाच्यम् । तच्च न ब्रह्म किन्तु तदाश्रयव्यक्तिभूतं विशेष्यम् । एवं च मुख्यार्थसिद्धिः । ब्रह्मणो निर्विशेषादिशब्दलक्ष्यत्वेऽपि निर्विशेषत्वाद्य हानिश्चेति चेन्न, व्यक्तिः शब्दार्थः जातिस्तूपधानमिति मते, जातिविशिष्टा व्यक्तिः शब्दार्थ इति मते च यत्र विशेष्ये निर्विशेषत्वादिकं तस्य तदवाच्यत्वायोगात् । जातिरेव शब्दार्थः, व्यक्तिस्तु लक्ष्येति मतस्य च व्युत्पत्तिविरोधादिनाऽन्यत्र निरासात् । अस्मिन्पक्षे घटादिव्यक्तेरपि घटादिशब्दावाच्यत्वेन ब्रह्मणस्ततो विशेषार्थं जातिवाचिभिः सत्यादिशब्दैर् मञ्चशब्देन पुरुष इव ब्रह्म जात्याधारव्यक्तिसम्बन्धितयैव लक्ष्यत इति वक्तव्यत्वेन मुख्यार्था-भावादिदोषतादवस्थ्याच्च । सत्यं ज्ञानमित्यादौ ब्रह्मणः सत्यत्वादिधर्माश्रयतयैव लक्ष्यत्वे घटादिवत् सखण्डार्थत्वापाताच्च । किञ्च निर्गुणस्वप्रकाशादेरब्रह्मत्वे यद्यद् ब्रह्मतयेष्टं तत्तदब्रह्मेति साधु समर्थितो ब्रह्मवादः ।

नन्ववाच्यादिशब्दाः समस्तरूपा लक्ष्यादिशब्दास्तु यौगिकाः । उभयेषामपि वाक्यतुल्यत्वान्न वाचकतेति चेन्न, अन्विताभिधानपक्षे तेषामपि वाचकत्वात् । अभिहितान्वयपक्षेऽपि वाक्य एवाभिहितान्वय स्वीकारेण प्रकृतिप्रत्यययोरन्विताभि-धायित्वात् । समासे पदार्थसंसर्गस्य यौगिके प्रकृतिप्रत्ययार्थसंसर्गस्य चानभिधेयत्वेऽपि पदार्थस्य प्रत्ययार्थस्य च वाच्यत्वात् । तदर्थस्य च ब्रह्मणः वाच्यत्वापरिहाराच्च । यदि तु ब्रह्म न पदाद्यर्थः किन्तु पदाद्यर्थसंसर्गरूपं तर्हि सखण्डं स्यात् । यदि तु अवाच्य-मित्यादौ पदद्वयादिकं न स्वार्थसंसर्गपरं किन्तु ब्रह्ममात्रलक्षकं तर्हि न तेनावाच्य-त्वादिसिद्धिः । तस्मान्निर्विशेषादिशब्दवाच्यत्वं दुर्वारम् । तदुक्तम्–

पदं च निर्गुण इति कथं गौणं वदिष्यति ।

गुणाभावोपलक्ष्यं चेत्पदं तदपि वाचकम् ॥ इति ।

येन लक्ष्यमिति प्रोक्तं लक्ष्यशब्देन सोऽवदम् ॥ एवं च–

अवाच्यलक्ष्यादिपदैर्लक्ष्यं चेद्वाच्यतादिकम् । इति ।

स्यान्नदीशब्दलक्ष्यस्यानदीत्वमिव हि ध्रुवम् ॥ ‘यतो वाचो निवर्तन्ते, अशब्द-मस्पर्शम्’ इत्यादिश्रुतिस्तु अद्भुतत्वाद्यभिप्राया ।

न तदीदृगिति ज्ञेयं न वाच्यं न च तर्क्यते ।

पश्यन्तोऽपि न पश्यन्ति मेरो रूपं विपश्चितः ॥ इत्यादौ दर्शनात् ।

‘अद्भुतत्वादवाच्यं तदतर्क्याज्ञेयमेव च ।

आनन्दगुणपूर्णत्वादित्यूदे पैङ्गिनां श्रुतिः ॥

अवाच्यमिति लोकोऽपि वक्त्याश्चर्यतमं भुवि ॥ इत्युक्तेश्च ।

पराभिमतार्थे अशब्दमित्यादिशब्दवाच्य त्वस्यापि निषेधेन अशब्दशब्दावाच्यस्या-शब्दत्वासिद्ध्या स्वव्याघाताच्च । ‘यतो वाचः’ इत्यत्र मनसा सहेति श्रुतम् । अतो वृत्तेरिवान्तःकरणवृत्तिव्याप्ये ब्रह्मणि वाग्वृत्तेरपि सर्वथा निषेधायोगाच्च । ‘यतः’ ‘आनन्दं ब्रह्मणः’ इति यदानन्दाद्यनेकशब्दमुख्यार्थत्वाय निवर्तन्त इत्येकामुख्यार्थ त्वस्यैव न्याय्यत्वाच्च । त्वन्मते ‘यतो वाचो निवर्तन्ते’ इत्यादेरपि लक्षणया चिन्मात्रपरत्वेन वाच्यत्वा विरोधित्वाच्च । ‘अथ कस्मादुच्यते ब्रह्मेति तस्मादुच्यते परं ब्रह्मेति’ इति श्रुत्या ‘वचसां वाच्यमुत्तमं परमात्मेति चाप्युक्तः’ इत्यादिस्मृत्या ‘वेदान्ततात्पर्यविषयो ब्रह्म वाच्यम्, वस्तुत्वाल्लक्ष्यत्वाच्च, तीरवत् । परमार्थसदादिपदं कस्यचिद्वाचकं पदत्वाद्, घटपदवत् । सत्यज्ञानादिवाक्यं वाच्यार्थतात्पर्यवत्पदयुक्तम्, वाक्यत्वात्, अग्निहोत्रादिवाक्यवदित्याद्यनुमानैश्च विरोधाच्च ।

विपक्षे लक्ष्यत्वं न स्यात् । तथा हि– लाक्षणिकशब्दो न श्रुत एवार्थान्तरधीहेतुः । तत्रागृहीतशक्तिक त्वात् । किन्तु पूर्वधीस्थे वाच्यार्थेऽनुपपत्तिदर्शने सति तत्त्यागेन स्वरूपतो वाच्यार्थसम्बन्धित्वेन चावगत स्यार्थान्तरस्य बोधकः । गङ्गाशब्दादौ तथा दर्शनात् । अन्यथाऽतिप्रसङ्गाच्च । तथा च ब्रह्मणोऽपि लक्ष्यत्वे वाच्यार्थसम्बन्धित्वेन ज्ञेयत्वात् । औपनिषदत्वश्रुत्या वेदैकगम्यस्य चाशब्देनाज्ञेयत्वात् । स्वप्रकाशतया नित्यसिद्धौ च शब्दवैयर्थ्यात् । अवाच्ये च शब्दस्य लक्षकस्यैव वक्तव्यत्वात् । तत्रापि वाच्यसम्बन्धित्वेन ज्ञेयत्वेनानवस्थेति कथमवाच्ये लक्षणा । एवं च–

वाच्ययोगितया बुद्धं लक्ष्यं ब्रह्म च वैदिकम् ।

अवाच्यं चेति वक्तव्ये लक्षके ह्यनवस्थितिः ॥

न च वाचकस्यापि गृहीतसङ्गतिकस्यैव बोधकत्वात्सम्बन्धग्रहणस्य च सम्बन्धि-ज्ञानाधीनत्वात्, सम्बन्धिनश्च ब्रह्मणः शब्दैकगम्यत्वात्, तवाप्यनवस्थेति वाच्यम् । यौगिकशब्दानां वाक्यतुल्यत्वेन सङ्गतिग्रहणानपेक्षणात् । एवमवाच्यं चेद् ब्रह्म न सिद्ध्येत् । स्वतः सिद्धेर्निरस्तत्वात् । औपनिषदत्वेन चाशब्देनासिद्धेः । लक्षकस्य च शब्दस्य वाच्यार्थसम्बन्धित्वेन ज्ञातं प्रत्येव साधकत्वेनावाच्यस्य सिद्ध्ययोगात् । ननु चात्र पक्षो ब्रह्म पदवाच्यं चेत्सिद्धसाधनम् । लक्ष्यं चेद्विरोधः । अत एवावाच्यत्वे लक्ष्यत्वं न स्यादिति तर्कोऽप्ययुक्तः । आपाद्यापादकयोरप्रसिद्ध्या व्याप्त्यसिद्धेश्च । उक्तं हि–

कथं लक्ष्यत्वमत्यन्तावाच्यस्येति न चोद्यताम् ।

अत्यन्तावाच्यशब्देन लक्ष्यस्यैवावबोधनात् ॥

इति चेन्न, वेदान्ततात्पर्यविषयत्वादिना रूपेण पक्षीकरणात् । अन्यथा त्वदीयेऽ-वाच्यत्वानुमानेऽपि पक्षो ब्रह्म वाच्यं चेद्विरोधः, लक्ष्यं चेदाश्रयासिद्धिरिति स्यात् । अस्ति च यत्र प्रयोजकाभावस्तत्र प्रयोज्याभाव इति सामान्यव्याप्तिः । उक्ता च लक्ष्यत्वे वाच्यत्वस्य तन्त्रता । न चेक्षुक्षीरमाधुर्यादौ वाक्यार्थे च व्यभिचारः । तस्यापि माधुर्य-वाक्यार्थादिसाधारणशब्दवाच्यत्वात् ।

विशदं क्षीरमाधुर्यं स्थिरमाज्यस्य तीक्ष्णकम् ।

गुडस्य पनसादीनां निर्हारीत्यभिधीयते ॥

इत्युक्तत्वेन अन्विताभिधानस्यान्यत्र समर्थितत्वेन चासाधारणशब्दवाच्यत्वाच्च । अभिहितान्वयपक्षेऽपि वाक्यार्थो नोच्यते नापि लक्ष्यते किन्त्वन्विताभिधाने विशेषान्वय इव वृत्तिं विनैव संसर्गमर्यादया प्रतीयत इति तार्किकमते वाक्यार्थे लक्ष्यत्वस्याप्य-भावाच्च । न च वाक्यार्थशब्दस्य समासत्वेन लक्षकत्वान्न वाचकतेति वाच्यम् । समासस्य लक्षकत्वपक्षेऽपि राजपुरुष इत्यत्र राजशब्दस्येव वाक्यशब्दस्य षष्ठ्यर्थ लक्षकत्वेऽपि पुरुषशब्दस्येव अर्थशब्दस्य वाचकत्वात् । एतेन समासस्य वाक्यतुल्य-त्वेनाभिहितान्वयेऽभिधानं विनैव स्वार्थबोधकतेति निरस्तम् । वाक्यशब्दार्थशब्दयोर्यावर्थौ तत्संसर्गत्वेन रूपेण समासावाच्यत्वेऽपि अर्थत्वरूपेणार्थपदवाच्यत्वात् । ननु प्रवृत्तिनिमित्ताभावात्कथं वाच्यत्वम् ? उक्तं हि–

‘‘दृष्टा गुणक्रियाजातिरूढयः शब्दहेतवः । नात्मन्यन्यतमोऽमीषां तेनात्मा नाभि-धीयते’’ ॥ इति । न च घटादाविवारोपितं निमित्तमस्तीति शङ्क्यम् । आरोपिते श्रुतितात्पर्यायोगेन तात्पर्यविषयस्य वाच्यत्वायोगादिति चेन्न । सत्यादिशब्दानां लक्षकत्वे सिद्धे निमित्ताभावस्तस्मिंश्च सिद्धे लक्षकत्वम् इत्यन्योऽन्याश्रयात् । स्वरूपमात्र-प्रश्नोत्तरत्वेन तल्लक्षकतेत्यस्य च निरासात् । निर्विशेषवाक्यस्य च स्वरूपमात्रपरत्वे सत्यत्वाद्यविरोधात् । तस्य निर्विशेषत्वविशिष्टपरत्वे तु निमित्तस्य सत्वेन निर्विशेष-शब्दवाच्यत्वापातात् । अभावनिमित्तकशब्दवाच्यत्वे च निर्गुणत्वभङ्गे उक्तरीत्या प्रामाणिक त्वाविशेषेण भावनिमित्तकशब्दवाच्यत्वस्यापि दुर्वारत्वात् । तस्माद् ब्रह्मणि सर्वेषां वैदिकशब्दानां लक्षणेत्येतदयुक्तम् । उक्तं हि–

एकस्यापि च शब्दस्य गौणार्थस्वीकृतौ सताम् ।

महती जायते लज्जा यत्र तत्राखिला रवाः ॥

अमुख्यार्था इति वदन्यस्तन्मार्गानुवर्तिनाम् ।

कथं न जायते लज्जा वक्तुं शाब्दत्वमात्मनः ॥ इति ।

तस्माद्यौगिकानन्तवैदिकशब्दवाच्यत्वादनन्तगुणं ब्रह्म जीवादिभिन्नम् ।

॥ इति अवाच्यत्वभङ्गः ॥ १३ ॥

अद्वैतसिद्धिः

निर्धर्मकतयाऽवेद्यतया च ब्रह्म आनन्दादिपदलक्ष्यं, न वाच्यम्, प्रवृत्तिनिमित्ताभावादिति । ननु अवाच्यशब्देनोच्यते चेद्वाच्यत्वसिद्धिः । लक्ष्यते चेदवाच्यरूपमुख्यार्थस्याभावात्कथं लक्षणा ? भावे वा ब्रह्म नावाच्यं, किन्तु तीरवदवाच्यरूप मुख्यार्थसम्बन्धिमात्रमिति स्यात् । मुख्यार्थहीनस्यापि ब्रह्मलक्षकत्वे घटपदमपि घटलक्षकं स्यादिति चेन्न, अवाच्यरूपमुख्यार्थाभावेऽपि नञ्समभिव्याहृत-वाच्यशब्देन वाच्यत्वात्यन्ताभावबोधनद्वारा स्वरूपे लक्षणयैव पर्यवसानात् । एवं निर्विशेषपदमपि, अखण्डपदलक्षकतायामेव मुख्यार्थावश्यम्भावनियमात् । नन्वेवं लक्ष्यपदेनापि लक्ष्यत्वे तीरस्यागङ्गात्ववद् ब्रह्मणोऽलक्ष्यत्वापत्तिरिति चेन्न, इष्टत्वात्, सर्वथा निर्धर्मकत्वात्, लक्ष्यव्यवहारस्य च वाच्यत्वाभाव निबन्धनत्वात् । तथा प्रतिपादिकं प्राक् । न चैवं लक्ष्यत्वाभावेन वाच्यत्वव्यवहारप्रसङ्गः । गौणस्य तस्यापीष्टत्वात् । सत्यज्ञानादिपदानां च कल्पितधर्मवाचिनां ब्रह्मरूपव्यक्तिलक्षकतयाऽखण्डार्थत्वा-नपायात् । न च सत्त्वादिधर्माश्रयतया लक्ष्यत्वाभावे मञ्चसम्बन्धित्वमात्रेण लक्ष्यस्य पुंसो ऽमञ्चत्ववत् सत्त्वादिसम्बन्धित्वमात्रेण लक्ष्यस्य ब्रह्मणो ऽसत्त्वाद्यापत्तिरिति वाच्यम् । कल्पितचन्द्रत्वादिजातेः परमार्थचन्द्रादिव्यक्तितादात्म्येनाचन्द्रत्वाभाववदत्रापि सत्त्वाद्यभावानापत्तेः । तदुक्तम्– ‘लक्ष्यव्यक्तिरपि ब्रह्म’ इति । अत एव– स्वप्रकाशादेरब्रह्मत्वे यद्यद् ब्रह्मतयेष्टं तत्तदब्रह्मेति साधु समर्थितो ब्रह्मवाद इति निरस्तम् ।

यत्तु निर्विशेषादिपदानां च समासपदतया लक्ष्यादिपदानां यौगिकतया वाक्यतुल्यत्वान्न वाचकतेति वक्तुमशक्यम् । अन्विताभिधानपक्षे तेषामपि वाचकत्वात् । अभिहितान्वयपक्षेऽपि वाक्य एवाभि-हितान्वयस्वीकारेण प्रकृतिप्रत्ययोरन्विता भिधायकत्वाद्वाक्यतुल्यस्यापि वाचकत्वाद् ब्रह्मणः पदार्थसंसर्ग-रूपत्वे सखण्डत्वापत्त्या पदार्थत्वे वाच्यत्वापरिहारादिति । तन्न । पदलक्ष्यत्वेऽप्यपदार्थत्वोपपत्तेः । अखण्डत्वेऽपि वाक्यार्थत्वस्योपपादितत्वाद् अन्विताभिधानेऽन्वितवाचकस्यापि स्वरूपे लक्षणाङ्गी-कारात् । न च तर्ह्यवाच्यत्वासिद्धिः । अखण्डब्रह्मसिद्ध्युपायत्वेन प्राप्तस्यावाच्यत्वादेर् निवारका-भावेनानुषङ्गिकतया सिद्धेः । ‘यतो वाचो निवर्तन्ते, अशब्दमस्पर्शम्’ इत्यादिश्रुतयश्चात्रानुसन्धेयाः । अवाच्यशब्दवदशब्दशब्देऽपि व्याघाताभावात् । न चेयं श्रुतिरद्भुतत्वाभिप्राया । श्रूयमाणार्थत्वे बाधकाभावात् । न च ‘यतो वाचः’ इत्यत्रापि मनसा सहेति श्रुतमतो वृत्तेरिवान्तःकरणवृत्तिव्याप्ये ब्रह्मणि वाग्वृत्तेरपि सर्वथा निषेधायोगः । लक्षणायाः स्वीकारेण शक्तिमात्रस्यैव निराकरणात् । न च आनन्दाद्यनेकपदामुख्यार्थत्वापेक्षया निवर्तन्त इत्येकपदार्थामुख्यत्वमेव युक्तमिति– वाच्यम्, ब्रह्मणो निर्धर्मकतया तत्र शक्त्यभावेन बहुत्वस्याप्रयोजकत्वाद्वाच्यत्व विरोध्यर्थद्वारैवाखण्डार्थपरतया तद्विरोधतादवस्थ्यात् । अत एव कस्मादुच्यते परं ब्रह्मेत्यादिश्रुतेः ‘परमात्मेति चाप्युक्त’ इत्यादिस्मृतेश्च तत्तच्छब्दबोध्यत्वमात्रेण वाच्यत्वाभिलापः, न तु शक्यत्वाभिप्रायेणेति ताभ्यां न विरोधः । तात्पर्यविषयो ब्रह्म वाच्यं, वस्तुत्वाल्लक्ष्यत्वाच्च तीरवदिति चेत्, निर्धर्मकतया वाच्यत्वबाधात्, तदुन्नीतसधर्मकत्वाद्युपाधि सम्भवाच्च । परमार्थसत्यपदादिकं कस्यचिद्वाचकम्, पदत्वादित्यपि न, किमत्र पदत्वम् ? न तावत्सुप्तिङन्तत्वम् । समासपदस्याशक्तत्वेन राजपुरुषादौ व्यभिचारात् । नापि शक्तत्वम्, साध्याविशेषाद्, अवयवद्वारा समासपदस्य वाचकत्वं चेदिष्टमेव । नापि सत्य-ज्ञानादिवाक्यं वाच्यार्थतात्पर्यवच्छब्दयुक्तं वाक्यत्वादित्यपि, ‘विषं भुङ्क्ष्व’ इत्यादौ व्यभिचारात् ।

ननु– अवाच्यत्वे लक्ष्यत्वानुपपत्तिः, वाच्यार्थसंबन्धित्वेन ज्ञातस्यैव लक्ष्यत्वात्, तज्ज्ञानं च न शब्दभिन्नेन, उपनिषन्मात्रगम्यत्वात्, नापि स्वप्रकाशतया, नित्यसिद्धे शब्दवैयर्थ्यात् । अवाच्य-शब्दस्य च लक्षकस्यैव वक्तव्यत्वात्तत्रापि वाच्यसम्बन्धित्वेन ज्ञेयत्वेऽनवस्थेति चेन्न, तथा ज्ञानमुपस्थितावुपयोगि । ब्रह्म स्वप्रकाशतया स्वत एवोपस्थितमिति किं तेन ? न चैवं शब्दवैयर्थ्यम् । आवरणाभिभावकवृत्तावुपयोगात् । अत एव नानवस्था । तस्मात् प्रवृत्तिनिमित्तस्य दुर्निरूपत्वाद-वाच्यत्वम् । तदुक्तम्–

दृष्टा गुणक्रियाजातिसम्बन्धाः शब्दहेतवः ।

नात्मन्यन्यतमो ह्येषां तेनात्मा नाभिधीयते ॥ इति ।

न चारोपितगुणाश्रयतया वाच्यता । तस्य तात्पर्याविषयतया तात्पर्यविषयेऽवाच्यत्वस्य स्थितत्वात् । न च सत्यादिपदानां लक्षकत्वे सिद्धे निमित्ताभावः, तस्मिंश्च लक्षकत्वमिति परस्पराश्रयः । निर्विशेषवाक्येन नेति नेतीत्यनेनैव निमित्ताभावस्य सिद्धत्वात् । न च निर्विशेषवाक्यस्य स्वरूपमात्रपरत्वे प्रवृत्तिनिमित्ताविरोधः । निर्विशेषत्वविशिष्टपरत्वे च तस्यैव सत्त्वेन निर्विशेष-पदवाच्यत्वस्यैव प्रसङ्ग इति वाच्यम् । द्वारतया उपस्थितस्य स्वपरविरोधित्वान्निर्विशेषस्य वाच्यत्वा-सम्भवाच्च । तस्मान्निर्विशेषत्वादेव जीवब्रह्माभेदः सिद्धः, भेदकासम्भवात् ।

तथा च–

ब्रह्मण्यवाच्ये यो विद्वान्वाच्यतामधिगच्छति ।

स निस्त्रपो निमित्तानां विरहैः प्रतिबोध्यताम् ॥

॥ इत्यद्वैतसिद्धौ ब्रह्मणः शब्दावाच्यत्वोपपत्तिः ॥ १३ ॥

न्यायामृततरङ्गिणी

अवाच्येति ॥ नन्ववाच्यरूपमुख्यार्थाभावेऽप्यवाच्यपदस्य वाच्यत्वात्यन्ताभावबोधनद्वारा स्वरूपे लक्षणयैव पर्यवसानम् । मैवम् । अवाच्यपदजन्यज्ञानविषये ब्रह्मणि वाच्यत्वात्यन्ता-भावोऽस्ति चेद् ब्रह्मावाच्यपदवाच्यं स्यात् । न चेत्तर्हि तद्विरुद्धवाच्यत्वापत्त्या ब्रह्मणो वाच्य-पदवाच्यत्वापत्तेः । परस्परविरहरूपयोरेकस्य बाधेऽपरस्य धर्मिसत्वनियमात् ॥ मुख्यार्थ-सिद्धिरिति ॥ निर्विशेषादिपदानामित्यनुषङ्गः ॥ निर्विशेषत्वाद्यहानिरिति ॥ निर्विशेषत्व-रूपधर्मबहि र्भावेन निर्विशेषत्वाश्रयव्यक्तेर्लक्ष्यत्वान्न निर्विशेषत्वहानिः । गङ्गापदेन गङ्गात्वा-नाश्रयस्य लक्ष्यत्वाद्गङ्गापदलक्ष्ये गङ्गात्वहानिरेव ॥ उपधानमिति ॥ शक्तिग्रहदशायां तटस्थैव जातिर्व्यक्तीनामनुगमिकेत्यर्थः ॥ मुख्यार्थाभावादीति ॥ शक्यमञ्चत्वतदाश्रयव्यक्तितल्लक्ष्य-पुरुषाणामिव शक्यनिर्विशेषत्वतदाश्रयव्यक्तितल्लक्ष्यब्रह्मणां त्रयाणामभावात् । ब्रह्मभिन्नस्य निर्विशेषपदस्य वाच्यत्वाभावात् । ब्रह्मणश्च निर्विशेषपदलक्ष्यत्वाङ्गीकारादित्यर्थः ॥ सत्यं ज्ञानमिति ॥ जातिः शब्दार्थ इति मते गोत्वाश्रयतया गोर्लक्ष्यत्ववत्सत्यत्वाश्रयतयैव ब्रह्मव्यक्तिर्लक्ष्येति सखण्डार्थत्वम् ।

निर्विशेषलक्ष्यादिपदानां ब्रह्मान्यस्य मुख्यार्थस्याभावात्ते ब्रह्मवाचका इत्युक्तं तत्र शङ्कते– नन्विति ॥ समासे प्रत्येकपदयोरिव समासस्याप्यन्वितवाचकत्वमस्तीत्याह– अन्वितेति ॥ ननु न समासेऽपि शक्तिकल्पनं, गौरवादत आह– समास इति ॥ तदुक्तमिति ॥ ईक्षत्यधिकरणनुव्याख्यान इति शेषः ॥ पदं चेति ॥ निर्गुण इति पदं गुणवद्वस्तु कथं वदिष्यति । व्याघातात् । तत्परिहाराय निर्गुणपदेन स्ववाच्यगुणाभावविशिष्टद्वारा निर्गुणमुप-लक्ष्यं चेदपि तथापि तत्पदं लक्ष्यपदम् । ब्रह्मणो वाचकमङ्गीकरणीयमित्यर्थः ॥ येनेति ॥ येन पुरुषेण ब्रह्म लक्ष्यमिति प्रोक्तं स लक्ष्यशब्देन ब्रह्मावदत् । लक्ष्यपदं वाचकं तत्र प्रयुक्तवानित्यर्थः । ऊदे ऊचे ॥ यतो वाच इत्यत्रेति ॥ अन्तःकरणवृत्तिव्याप्ये ब्रह्मणि श्रुतस्यापि मनोवृत्तिनिषेधस्य सङ्कोचवद्वाग्वृत्तिनिषेधस्यापि सङ्कोचः कार्यः ॥ यत इति ॥ ‘यतो वाचो निवर्तन्ते अप्राप्यमनसा सह । आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन’ इति श्रुतौ यत इति शब्दस्य आनन्दब्रह्मशब्दादीनां च ब्रह्मवाचकत्वरूपमुख्यार्थात् ‘निवर्तन्ते’ इति पदमेव प्रच्यावनीयम् । तथा च यत्पदस्य आनन्दादिपदानां च बहूनामनुग्रहः स्यादित्यर्थः ।

त्वन्मत इति ॥ यतो वाचो निवर्तन्त इत्यस्य ब्रह्मवाच्यत्वनिषेधार्थकत्वाभावात् ॥ वेदान्तेति ॥ अत्र पक्षासिद्ध्यादिकं स्वयमनुपदमेव परिहरिष्यति । न च सधर्मकत्वमुपाधिः । साध्योपाध्योः केवलान्वयितया तद्व्यतिरेकाद्यसाधनात् ॥ पदत्वादिति ॥ न च समासादिपदे व्यभिचारः । तस्याप्यवयवद्वारा वाचकत्वात् । ब्रह्मणस्त्ववयवार्थत्वे सखण्डत्वापातः ॥ सत्येति ॥ न च ‘विषं भुंक्ष्व’ इत्यादौ व्यभिचारः । तत्रापि वाच्यार्थपरत्वस्योपपादितत्वात् ॥ शब्दवैयर्थ्यादिति ॥ न चावरणाभिभावकवृत्तौ शब्दस्योपयोगः, घटादेः प्रत्यक्षत्वमेव, शब्दस्तु तदावरणनिवर्तकवृत्तौ हेतुरित्यापातात् ॥ वाच्येति ॥ गङ्गापदादौ वाच्यसम्बन्धितया ज्ञातं तीरादिकं लक्ष्यं दृष्टम् । ब्रह्मणो वाच्यसम्बन्धितयाऽवगतिस्तु मानान्तरागम्यत्वाद-वाच्यत्वाच्च लक्षकपदेनैव वाच्या । लक्षकपदं तु वाच्यसम्बन्ध्यवयवसम्बन्धितया ज्ञातमेव बोधयतीति । तथा ज्ञानार्थं ब्रह्मणि लक्षकपदान्तरमेव प्रयोक्तव्यमित्यनवस्थितिर्लक्षकपद इत्यर्थः ।

यौगिकेति ॥ यौगिकपदावयवार्थसंसृष्टरूपेणोपस्थिते ब्रह्मरूपे सम्बन्धिनि पदान्तरस्य शक्तिरूपः सम्बन्धो ग्रहीष्यते । तव तु नैवं परिहारः । अखण्डार्थत्वहानेः ॥ ब्रह्म न सिद्ध्येदिति ॥ प्रत्यक्षानुमानलौकिकशब्दानां ब्रह्मण्यप्रवृत्तेर्वैदिकशब्द वाच्यत्वस्याप्यनङ्गीकारे वाच्यत्वव्याप्यलक्ष्यत्वस्याप्यभावापत्त्या ब्रह्म न सिद्ध्यदित्यर्थः ॥ अप्रसिद्ध्येति ॥ वाच्यत्वलक्ष्यत्वयोः केवलान्वयितया तदभावाप्रसिद्धिः ॥ व्याप्तीति ॥ वाच्यत्वं न लक्ष्यत्वव्यापकमित्यर्थः । पक्षमदृढमतर्कोपि युक्त इत्यत आह– अस्ति चेति ॥ न वयं यत्र वाच्यत्वं न तत्र लक्ष्यत्वं नेति व्याप्तिं ब्रूमः किन्तु यत्र प्रयोजकं न तत्र प्रयोज्यं नेति । भवति च वाच्यत्वं लक्ष्यत्वे प्रयोजकम् । वाच्यसम्बन्धित्वेनोपस्थितिं विना लक्ष्यत्वायोगात् । लक्ष्यत्ववाच्यत्वयोर्व्याप्यव्यापकभावे व्यभिचारं परिहरति– न चेक्षुक्षीरेति ॥ उक्ताश्च गन्धादिषु विशेषा महाभाष्ये षष्ठी इत्यत्र सूत्रे । घनस्य तीव्रः वदनस्य मृदुरिति तत्रैव कैयटे । तीव्रो गन्धस्य विशेषः मृदुत्वं स्पर्शस्येति ।

अभिहितेति ॥ अभिहितान्वयपक्षे तार्किकमते च वाक्यार्थे हेतोरेवगमनान्न व्यभिचार इत्यर्थः । वाक्यार्थादिसाधारणशब्दवाच्यत्वाद्वाक्यार्थे न व्यभिचार इत्यत्र शङ्कां निरस्यति– न च वाक्यार्थेति ॥ समासस्य लक्षकत्वे वाचकत्वमप्यस्तीत्याह– समासस्येति ॥ पुरुषशब्दस्येवार्थशब्दस्य वाचकत्वादित्यर्थः । नन्वर्थशब्दस्य वाचकत्वेऽपि वाक्यार्थशब्दस्य न वाचकत्वम् । मैवम् । वाक्यशब्दस्य लक्षकत्वेऽपि वाक्यार्थशब्दस्य न लक्षकत्वमिति समत्वात् ॥ संसर्गरूपेणेति ॥ तेन रूपेण समासालक्ष्यत्वाच्च न व्यभिचार इति भावः ॥ एकस्यापि चेति ॥ यत्र वेदे सतां विदुषामेकस्यापि शब्दस्य मुख्यार्थपरित्यागे-नामुख्यार्थस्वीकृतौ कृतायां सत्यां महती लज्जा जायते तत्राखिला अपि शब्दा अमुख्यार्था इति वदतां, तस्यात्मनः शाब्दत्वं शब्दशक्तितात्पर्यज्ञत्वं लज्जा कथं न जायेत । केभ्यः । तन्मार्गानुवर्तिनां शब्दशक्तितात्पर्यानुसारिणां विदुषां सकाशादिति योजना ।

॥ इति अवाच्यत्वभङ्गः ॥ १३ ॥

न्यायामृतकण्टकोद्धारः

ननु ब्रह्मणोऽपि निर्धर्मिकतया प्रवृत्तिनिमित्तविधुरतयाऽवाच्यत्वात्कथमपुनरुक्तानन्त-शब्दवाच्यत्वं तथाऽनन्तगुणत्वमित्यतो निर्धर्मकत्वमसिद्धम् । सगुणवादे सधर्मकत्वस्य स्थापित-त्वात् । तथा च प्रवृत्तिनिमित्त सम्भवाद्वाच्यत्वं युक्तमित्यभिप्रेत्यावाच्यत्वे बाधकानि वक्तुं परमतमनुवदति– यच्चेदमिति ॥ अभावादिति ॥ तथा च मुख्यार्थसम्बन्धरूपलक्षणासिद्धिरिति भावः ॥ स्यादिति ॥ तथा च ब्रह्मणो वाच्यत्वसिद्ध्यर्थं सर्वपदलक्ष्य त्वस्याभावेऽन्यस्यैव वाच्यत्वं सिद्ध्यतीत्यर्थान्तरमिति भावः । ननु मुख्यार्थाभावेऽपि लक्षणा स्वीक्रियत इत्यत आह– मुख्यार्थहीनस्यापीति ॥ न च नञ्समभिव्याहृतवाच्यशब्दस्य मुख्यार्थाभावे वाच्यत्वात्यन्ता-भावबोधनद्वारा स्वरूपे लक्षणयैव पर्यवसानमिति वाच्यम् । मुख्यार्थाभावेन लक्षणानुपपत्तौ चोदितायामस्य व्यधिकरणत्वात् । किञ्च वाच्यत्वात्यन्ताभावो ब्रह्मणि बोध्यतेऽन्यत्र वा ? तटस्थ-तया वा ? नाद्यः । वाच्यत्वप्रतिपादकश्रुतिविरोधेन तस्य बोधयितुमशक्यत्वात् । न द्वितीयः । अन्यस्यैव वाच्यत्वापत्तेः । न तृतीयः । ब्रह्मणीव घटादावपि पर्यवसानस्य वक्तुं शक्यत्वात् । ब्रह्मणो वाच्यत्वासिद्धेश्च ॥ मुख्यस्यान्यस्याभावादिति ॥ तथा च लक्षणासिद्धिः । ब्रह्मणो

निर्विशेषत्वाद्यसिद्धिश्चेति शेषः ॥ अनिवार्यमिति ॥ तथा च न सर्वथा वाच्यत्वसिद्धिरिति भावः ।

ननु यत्र लक्ष्यं वाच्यानन्तर्गतं तत्र लक्ष्यं वाच्यसम्बन्धितया सिद्ध्यद् वाच्यान्यदेव सिद्ध्यति । यत्र च तदन्तर्गतं तत्र न तत्सम्बन्धितया सिद्धिः । प्रकृते च विशिष्टं वाच्यम् । तदन्तर्गतमेव विशेष्यं ब्रह्म वाच्यत्वेऽपि ब्रह्मणो नावाच्यत्वाद्यसिद्धिरिति शङ्कते– नन्विति ॥ तत्पदावाच्यत्वा-योगादिति ॥ तथा च निर्विशेषत्वादिकं तत्प्रतिपादकपदावाच्यत्वञ्च व्याहतमिति भावः । उपलक्षणमेतत् । लक्षणायामपि निर्विशेषत्वादिसिद्ध्यङ्गीकारे सत्यादिपदलक्ष्यत्वेऽपि सत्त्वादि-सिद्धिर्दुर्वारेति लक्षणयाऽखण्डार्थत्वमिति मतं भज्येतेत्यपि द्रष्टव्यम् । न चानन्त्य व्यभिचाराभ्यां व्यक्तिपक्षस्य दुष्टत्वाज्जातिपक्षे लाघवाज्जातिरेव पदार्थ इत्यत एवमपि पूर्वोक्तदोषतादवस्थ्य-मित्याह– अस्मिन्पक्ष इति ॥ मञ्चशब्देन यथा मञ्चाश्रितपुरुषलक्षणा तथेत्यर्थः । अवाच्यादि-शब्देभ्यः ब्रह्मणः सिद्धिर् वाक्यार्थतया उत पदार्थतया । न द्वितीय इत्याह– अन्वितेति ॥ न चान्वितवाचकत्वेऽपि स्वरूपलक्षणैवेति वाच्यम् । अन्वितस्वरूपातिरिक्तरूपाभावात् । अन्वयाना-लिङ्गिते लक्षणेति वाच्यम् । तादृशस्य शब्दात्पूर्वमसिद्धत्वेन तत्र लक्षणायोगात् ।

अन्विताभिधायित्वादिति ॥ तथा च ब्रह्मणः प्रत्ययार्थत्वेन वाच्यत्वसिद्धिरिति भावः ॥ तस्येति ॥ न च वाच्यत्वाभावेऽपि लक्षणया पदार्थत्वमिति वाच्यम् । ब्रह्मातिरिक्तशक्त्यभावेन तत्र लक्षणानुपपत्तेः । प्रथममाशङ्क्य निषेधति– यदि चेति ॥ संसर्गस्य सखण्डत्वनियमादिति भावः । नन्ववागादिपदं नञर्थसंसर्गपरलक्षणया ब्रह्ममात्र परमित्यत आह– यदि त्विति ॥ उपसंहरति– तस्मादिति ॥ उक्तानि दूषणानि सिद्धान्तसिद्धानीत्याह– उक्तञ्चेति ॥ निर्गुण इत्यादिपदं कथं गुणादिविशिष्टं वदिष्यति व्याघातात्, गुणाभावोपलक्ष्यं निर्गुण इति पदं वदिष्यतीति यदि तर्हि तदपि गुणाभावोपलक्ष्यपदमपि वाचकमिति सर्वथा वाच्यत्वसिद्धिरिति सम्मतिश्लोकार्थः । उक्तमर्थं श्लोकेन सङ्गृह्णाति– एवञ्चेति ॥ ननु यदि ब्रह्मणो वाच्यत्वमङ्गीक्रियते तर्हि यतो वेत्यादि श्रुतिविरोधः । तत्रावाच्यत्वस्याप्रतिपादनादित्यत आह– यत इति ॥ न च श्रूयमाणार्थबाधका-भावान्नाद्भुतत्वाद्यभिप्रायता श्रुतेरिति वाच्यम् । बाधकानामुक्तत्वाद्वक्ष्यमाणत्वाच्च ।

नन्वद्भुतत्वाद्यभिप्रायेणावाच्यत्वप्रयोगस्य क्वाप्यदर्शनाद् ब्रह्मणि अद्भुतत्वाभिप्रायेणावाच्यतेत्यत्र किं प्रमाणमित्यत आह– अद्भुतत्वादिति ॥ लोकव्यवहारोऽपि प्रमाणमित्याह– अवाच्य-मितीति ॥ भुवि लोकोऽपि आश्चर्यतमम् अवाच्यमिति वक्तीत्यर्थः । नन्वेवं कल्पना किमर्थं क्रियते पराभिमत एवार्थः किं न स्यादित्यतो बाध्यबाधकादित्युक्त मात्रानुपपत्तेश्चेत्याह– पराभिमतार्थ इति ॥ शब्दावाच्यत्वसिद्ध्यर्थमशब्दवाच्यत्वं स्वीकर्तव्यम् । अन्यथा गङ्गाशब्दा-वाच्यस्यागङ्गात्ववद् अशब्दशब्दवाच्यस्याशाब्दत्वासिद्धेः । तथा च व्याघात इत्यर्थः । किञ्च यतो वेत्यत्र सर्वथा वाक्प्रवृत्तिनिषेधोऽयुक्तः । मनसा सहेत्यनेन सहपाठादित्याह– यतो वाच इत्यत्रेति ॥ न च लक्षणया वाक्प्रवृत्तेरङ्गीकारान्नोक्तदोष इति वाच्यम् । सङ्कोचस्यावश्यकत्वे साकल्येनावाच्यमित्येव न्याय्यम् । अन्यथा वाच्यत्वाभावे लक्षणाभावेन पूर्वोक्तदोषतादवस्थ्यात् ॥ यत इति ॥ न च ब्रह्मणो निर्धर्मकत्वेन प्रवृत्तिनिमित्ताभावेन वाच्यत्वायोगादनेकेषाम् अमुख्यार्थतेति वाच्यम् । निर्धर्मकत्वभावाभावाभ्यां व्याघातात् । सधर्मकत्वस्योपपादितत्वाच्च । शक्यतावच्छेदकाभावे शक्त्यभाववल्लक्ष्यतावच्छेदकाभावे लक्षणाया अप्ययोगाच्च ।

सम्मत इति ॥ न च वाच्यत्वविरोध्यवान्तरार्थस्वीकाराद्विरोधित्वमिति वाच्यम् । तत्र तात्पर्याभावेन तद्विरोधस्याकिञ्चित्करत्वात् । तात्पर्याङ्गीकारे च श्रुतितात्पर्यविषयस्य सत्यत्व-नियमेनाद्वैतव्याकोपात् । यतो वेत्यादेः सर्वथाऽवाच्यत्वपरत्वे श्रुतिस्मृत्यनुमानविरोध इत्याह– अन्येति ॥ श्रुतौ स्मृतौ च वच्धातुप्रयोगात्, तस्य च वाच्यत्व एव योगात्, निरवकाशत्वेन बलवत्त्वम् । यतो वा इत्यादौ तु न तथात्वमिति भावः ॥ वेदान्तेति ॥ अत्र विशिष्टब्रह्मणो वाच्यत्वस्य परेणापि स्वीकारात्सिद्धसाधननिवृत्तये पूर्वप्रतीकं ब्रह्मेति स्वरूपकीर्तनम् । यद्वा स्वमते वेदान्तानामपि उपासनादाववान्तरतात्पर्यसम्भवात् तद्दोषतादवस्थ्यमिति ॥ ब्रह्मेति ॥ वस्तुत्वा-दिति ॥ नन्वसतोऽपि असदादिशब्दवाच्यत्वाङ्गीकारेण तस्य सपक्षत्वात् तत्र हेतोरवृत्तौ असाधारण्यमिति वाच्यम् । कस्मिंश्चित् सपक्षे वृत्तिमात्रेणासाधारण्यासम्भवात् । ननु वस्तुत्वस्य वाच्यत्वप्रयोजकत्वेऽसतो वाच्यत्वं न स्यात् । तत्प्रयोजकवस्तुत्वाभावादिति वाच्यम् । वस्तुत्वस्य ज्ञेयत्वपरत्वेन तत्रापि तद्भावादिति भावः । न च निर्धर्मकत्वादिना सत्प्रतिपक्षत्वम् । तस्य प्रागेव व्याघातेन दूषितत्वात् ।

पदत्वदिति ॥ न च पदत्वं सुप्तिङ्ङन्तत्वं वा ? शक्तत्वं वा ? नाद्यः । समासपदे व्यभिचारात् । न द्वितीयः । साध्याविशेषादिति वाच्यम् । आद्यपक्षस्यैव युक्तत्वात् । समासपदेऽपि शक्त्यङ्गीकारेण व्यभिचाराभावात् ॥ वाक्यत्वादिति ॥ न च ‘विषं भुङ्क्ष्व’ इत्यत्र व्यभिचारः । तत्रापि विषभुजिपदाभ्यां परगृहभोजननिवृत्तिलक्षणायामपि वाच्यार्थतात्पर्यकलोटः सत्त्वेन व्यभिचाराभावात् । वेदवाक्यत्वादिति वा हेतुः, अतो न कश्चिद्दोषः । अप्रयोजकत्वं परिहरति– विपक्ष इति ॥ वाच्यत्वाभावेऽपि लक्ष्यत्वमस्त्वित्यत आह– तथा हीति ॥ बोधक इति ॥ लाक्षणिकशब्द इत्यनुषज्यते । नन्वेवं कल्पने प्रमाणाभाव इत्यत आह– गङ्गाशब्दा-विति ॥ अन्यथा मुख्यार्थतानुपपत्याद्य ननुसन्धानेऽपि यदि लक्षणा तर्हि गङ्गायां जलमित्यत्रापि लक्षणा स्यादित्यर्थः । ननु ब्रह्मणो वाच्यसम्बन्धित्वेन ज्ञानमावश्यकमस्तु । तच्च शब्दातिरिक्तप्रमाणेन भविष्यतीत्यत आह– औपनिषदत्वश्रुत्येति ॥

ननु स्वप्रकाशतयैव ब्रह्मणः सिद्धिरस्त्वित्यत आह– स्वप्रकाशतयेति ॥ न चावरणाभि-भवजनकवृत्यर्थं शब्दापेक्षेति वाच्यम् । प्रकाशमाने आवरणायोगस्योक्तत्वात् । उपलक्षणमेतत् । त्वया चावेद्यत्वस्य स्वप्रकाशार्थतया स्वीकृतत्वेनाङ्गीकारादिति भावः ॥ अवाच्ये लक्षणेति ॥ तथा चानवस्थालक्षणात् प्रतिपक्षबाधकसम्भवान्नाप्रयोजकतेति भावः । उक्तमर्थं कारिकया सङ्गृह्णाति– एवं चेति ॥ ननु वाच्यत्वाङ्गीकारेऽप्यनवस्था तुल्येत्याशङ्क्य निषेधति– न चेति ॥ यौगिकशब्दानामिति ॥ तथा च वाक्यार्थतया ब्रह्मोपस्थितौ तत्र शब्दस्य सङ्गतिग्रहणं युक्तमिति भावः । न चैवमेव मयापि वक्तुं शक्यत इति वाच्यम् । त्वन्मते ब्रह्मणोऽखण्डत्वेन वाक्यार्थत्वायोगात् । विपक्षे बाधकान्तरमाह– एवमवाच्यं चेदिति ॥ ननु स्वत एव ब्रह्म सिद्ध्यत्वित्यत आह– स्वत इति ॥ नन्वनुमानादिना सिद्ध्यत्वित्यत आह– औपनिषदत्वे-नेति ॥ तर्हि शब्देनैव लक्षणया सिद्ध्यत्वित्यत आह– लक्षकस्य चेति ॥ वाच्यत्वाभावे लक्षणायोगस्य पूर्वमेवोक्तत्वादिति भावः । तथा च नाप्रयोजकतेति भावः ।

वाच्यत्वानुमाने दोषं शङ्कते– नन्विति ॥ अत्र वाच्यत्वानुमाने । अत एवेति परामृष्टं हेतुमाह– आपाद्यापादकयोरिति ॥ न चासति उभयाभावप्रसिद्धिः । तस्याप्यसदादि-शब्दवाच्यत्वात् । अवाच्यस्यापि लक्ष्यत्वमित्यत्रापि सम्मतिमाह– उक्तं हीति ॥ वेदान्तेति ॥ ब्रह्मपदं तु स्वरूपकथनार्थं, ब्रह्मपदतात्पर्यविषयत्वादिना पक्षतावच्छेदकान्तरकथनार्थं वेति भावः ॥ अन्यथेति ॥ वेदतात्पर्यविषयत्वादिना पक्षतानङ्गीकारे इत्यर्थः । व्याप्त्यसिद्धिं परिहरति– अस्ति चेति ॥ न च सामान्यव्याप्त्या विशेषापादनमदृष्टचरमिति वाच्यम् । प्रेक्षावत्प्रवृत्तिविषयत्व सफलत्वयोर्व्याप्तिदर्शनेन यागादिक्रियायाः स्वर्गसाधनत्वानुमानदर्शनादिति भावः । ननु प्रयोज्यप्रयोजकभाव एवासिद्ध इत्यत आह– उक्ता चेति ॥ वस्तुत्वानुमाने व्यभिचारमाशङङ्क्य निषेधति– न चेति ॥ यद्वा भट्टमतेनोभयत्रापि व्यभिचारमाशङ्क्य निषेधति । अत एवोत्तरत्र वाक्यार्थस्य लक्ष्यत्वाभावोपपादनमिति भावः ।

किं साधारणशब्दवाच्यत्वं नास्तीत्युच्यते उतासाधारणशब्दवाच्यत्वम् ? नाद्य इत्याह– तस्यापीति ॥ न द्वितीय इत्याह– विशदमिति ॥ अन्वितेति ॥ यद्यप्यवाच्यमित्यादि समासादिपदानां लक्ष्य इत्यादियौगिकपदानाञ्च न विशिष्टे शक्तिस्तथाप्यन्विताभिधानस्वीकारेणा-वाच्यलक्षणपदान्तर्गतप्रत्येकपदानामपि अन्योन्यपदार्थसंसर्गरूप विशिष्टवाक्यार्थवाचकत्वापरिहारात् । अन्यत्र समासेऽपि शक्तिसमर्थनाच्चेति भावः । लक्ष्यत्ववदिति हेतोर् वाक्यार्थे अभावाच्च न वाक्यार्थे व्यभिचार इत्याह– अभिहितेति ॥ तथा चाभिहितान्वयपक्षेऽपि तार्किकमत इव वाक्यार्थ-भानसम्भवान्न तत्र लक्ष्यतेति भावः । न च वाक्यार्थः प्रकारतया प्रतीयतेऽतस्तत्प्रतीत्यर्थं लक्षणेति वाच्यम् । असिद्धेः । वाक्यार्थादिसाधारणशब्दवाच्यत्वमुक्तमाशङ्क्य निषेधति– न चेति ॥ समासेऽपि शक्तिरावश्यकी मुख्यार्थान्वयानुपपत्तिप्रतिसन्धानं विनापि समासार्थप्रतीतेः । तथा च न व्यभिचार इति । सत्येव समाधाने समासे लक्षणां स्वीकृत्य समाधत्ते– समासस्येति ॥ एतेनेति परामृष्टं हेतुमाह– वाक्यशब्दार्थशब्दयोरिति ॥

ननु तथाप्यनुमानमयुक्तं यदि वाच्यं स्यात् प्रवृत्तिनिमित्तवत् स्यात् । न च तदस्ति इति प्रतिकूलतर्कपराहतत्वादिति शङ्कते– नन्विति ॥ सत्यादिशब्दानामिति ॥ न च प्रवृत्तिनिमित्ता-भावो निर्गुणं निष्क्रियमित्यादिवाक्यसिद्धोऽतो नान्योन्याश्रयतेति वाच्यम् । तस्य व्याहतत्वेन धर्मसामान्याभावाप्रतिपादकत्वात् । विशेषाभावपरतयाप्युपपत्तेः । तथा च यः सर्वज्ञ इत्यादि-श्रुतिबलात् प्रवृत्तिनिमित्तानां गुणादीनां भावान्न प्रतिकूलतर्क इति भावः । किञ्च किं सत्यादिपदानां लक्षकत्वं स्वरूपमात्रप्रश्नोत्तरत्वेन वा ? निर्विशेषवाक्यानुरोधेन वा ? नाद्य इत्याह– स्वरूपेति ॥ न द्वितीय इत्याह– निर्विशेष वाक्यस्य वेति ॥ निर्विशेषवाक्यं किं लक्षणया स्वरूपमात्रपरम् उत विशेषाभावविशिष्टपरम् ? नाद्यो ऽविरोधित्वात् । न द्वितीय इत्याह– तस्येति ॥ नन्वभावनिमित्तशब्दवाच्यत्वमङ्गीक्रियते न भाव निमित्तकशब्दवाच्यत्वमित्यत आह– अभावेति ॥ उपसंहरति ॥ तस्मादिति ॥ इदं सर्वं दूषणजातं सिद्धान्त सिद्धमित्याह– उक्तं हीति ॥ परम-प्रकृतमुपसंहरति– तस्मादिति ॥ यौगिकेत्यादि हेतुगर्भम् । तथा चानन्तगुणत्वादनन्तगुणरहिताद् भिन्नमित्यर्थः । इति अवाच्यत्वभङ्गः ॥ १३ ॥

न्यायामृतप्रकाशः

अन्यस्येति ॥ ब्रह्मातिरिक्तस्येत्यर्थः ॥ भावे वेति ॥ अवाच्यरूपमुख्यार्थस्य ब्रह्म-व्यतिरिक्तस्य भाव इत्यर्थः ॥ तीरवदिति ॥ गङ्गापदमुख्यार्थस्य प्रवाहस्य तीरान्यस्य सत्वात्तीरं मुख्यार्थसम्बन्धिमात्रमेव न तु तत्र गङ्गात्वमस्ति । एवमवाच्यपदमुख्यार्थभूतं यदस्ति तत्सम्बन्ध्येव ब्रह्म । न तु स्वयमवाच्यमित्यर्थः ॥ हीनस्यापीति ॥ अवाच्यपदस्येत्यर्थः ॥ घट इति ॥ तथा च तत्र त्वया वाच्यं घटपदेन घटरूपार्थस्य लक्ष्यत्वे तद्वाच्यमुख्यार्थस्यान्यस्याभावान्न लक्षकत्व-मिति तत्प्रकृतेऽपि तुल्यमिति भावः ॥ इत्यादिशब्दैरिति ॥ ब्रह्ममात्रनिष्ठतया प्रसिद्धैस्तद्व्यतिरिक्त-मुख्यार्थप्रसक्तिशून्यैरित्यर्थः ॥ अन्यस्येति ॥ शुद्धब्रह्मातिरिक्तस्येत्यर्थः । भावे वा ब्रह्म न निर्विशेषादिरूपं किन्तु तीरवन्निर्विशेषादिरूपमुख्यार्थसम्बन्धिमात्रमिति स्यात् । मुख्यार्थहीनस्यापि लक्षकत्वे घटशब्दोऽपि घटलक्षकः स्यादिति भावः । तमेवोपपादयति– गङ्गेति ॥ ‘निर्विशेषादि-रूपमुख्यार्थस्यान्यस्याभावात्’ इत्येतदयुक्तमित्या शयेन शङ्कते– नन्विति ॥ ननु तर्हि विशिष्टस्यापि ब्रह्मत्वे ब्रह्मण एव वाच्यत्वसिद्धिरिति चेत्तत्राह– तच्चेति ॥ पुनर्निर्विशेषादिपदमुख्यार्थभूतमन्य-दस्तीत्याशङ्कते– नन्विति ॥ तच्चेति ॥ निर्विशेषादिपदवाच्यं वस्त्वित्यर्थः । तर्हि ब्रह्म कीदृशमित्यत आह– किन्त्विति ॥ तदाश्रयेति ॥ निर्विशेषत्वाद्याश्रयेत्यर्थः । ‘सिद्धिः’ निर्विशेषादिपदानामिति शेषः । नन्वेवं गङ्गापदलक्ष्यस्य तीरस्यागङ्गात्ववन्निर्विशेषादिशब्दलक्ष्यस्य न निर्विशेषत्वादिकमित्यत आह– ब्रह्मण इति ॥ जातिरेव शब्दार्थस् तदाश्रयव्यक्तिर्लक्ष्येति मते सत्पदलक्ष्यस्यापि घटादेर्मुख्यार्थसम्बन्धित्वेनासत्वा योगात् । एवं निर्विशेषादिपदलक्ष्यस्यापि ब्रह्मणो मुख्यार्थभूत-निर्विशेषत्वाश्रयत्वेन तत्सम्बन्धितया तदसिद्ध्ययोगात् ।

‘सत्वादीनां तु जातीनां व्यक्तितादात्म्यदर्शनात् ।

लक्ष्यव्यक्तिरपि ब्रह्मसत्वादि न जहाति न ॥’

इत्युक्तत्वात् । नदीशब्देन तु नदीत्ववाचिना तदाश्रयव्यक्तेर्न लक्षणा किन्तु तदाश्रयव्यक्ति-सम्बन्धिनस् तीरस्येति तस्यानदीत्वमिति वैषम्यादिति भावः ॥ जातिस्त्विति ॥ अनन्तासु व्यक्तिषु शक्तिग्रहासम्भवेन शक्तिग्रहदशायां तत्स्थैव जातिर्व्यक्तीनामनुगमिकेत्यर्थः । शक्तिग्रहाधिकरणी-भूतव्यक्त्यनुगमकत्वमुपधानशब्दार्थः । विशेष्ये विशेष्यव्यक्तौ । ननु जातिर्वाच्या व्यक्तिर्लक्ष्येति मताश्रयणान्न दोष इति चेन्न । तस्य मतस्यायुक्तत्वादित्याह– जातिरेवेति ॥ व्युत्पत्तीति ॥ व्युत्पत्तेर्वृद्धव्यवहारसाध्यत्वात्तस्य च व्यक्तावेव सम्भवेन जातावसम्भवादित्यर्थः । अन्यत्र तर्कताण्डवे ॥ अस्मिन्निति ॥ जातिः शब्दार्थस् तदाश्रयव्यक्तिर्लक्ष्येति मताङ्गीकारे घटादिव्यक्तेरपि घटादि-शब्दावाच्यत्वेन ब्रह्मणोऽपि तद्वत्सत्यादिपदावाच्यत्वे ततो विशेषाभावप्रसङ्गेन तदर्थं घटादेर्मुख्यार्थ-सम्बन्धित्वेन लक्ष्यत्वं, ब्रह्मणस्तु मुख्यार्थाश्रयव्यक्तिसम्बन्धित्वेन लक्ष्यत्वेऽङ्गीकार्ये मञ्चत्वाधारमञ्च-रूपव्यक्तिसम्बन्धिपुरुषेषु अमञ्चत्ववद् ब्रह्मणोऽपि सत्यत्वनिर्विशेषत्वाद्यभावादिकं दुर्वारमित्यर्थः ॥ मुख्यार्थाभावादीति ॥ शक्यमञ्चत्वतदाश्रयव्यक्तितल्लक्ष्यपुरुषाणामिव शक्यनिर्विशेषत्वतदाश्रयव्यक्ति-तल्लक्ष्यब्रह्मणां त्रयाणामभावात् । ब्रह्मभिन्नस्य निर्विशेषपदवाच्यस्याभावात् । ब्रह्मणश्च निर्विशेषपदलक्ष्य-त्वाङ्गीकारादित्यर्थः ।

ननु घटादिसाधारण्येनैव ‘सत्यं ज्ञानम्’ इत्यादौ ब्रह्मणः सत्वादिधर्माश्रयतयैव लक्ष्यत्वमस्त्वित्यत आह– सत्यमिति ॥ जातिः शब्दार्थ इति मते घटत्वाश्रयतयैव घटादिव्यक्तिर्लक्ष्येतिवत्सत्यत्वा-श्रयतयैव ब्रह्मव्यक्तिर्लक्ष्येति सखण्डार्थत्वमेवेत्यर्थः ॥ अब्रह्मेति ॥ निर्गुणत्वाद्यधिकरणस्य ब्रह्मत्वा-नङ्गीकारादित्यर्थः । अवाच्यलक्ष्यादिपदानां ब्रह्मान्यस्य मुख्यार्थस्याभावात्ते ब्रह्मवाचका इत्युक्तम् । तत्र शङ्कते– नन्विति ॥ समस्तेति ॥ नञ्पदस्य वाच्यपदस्य च समस्तत्वादित्यर्थः । यौगिकाः । लक्षधातोः कर्मणि ण्यत्प्रत्यये सति निष्पन्नस्य यौगिकत्वादिति भावः । उभयेषां समस्तानां यौगिकानां चेत्यर्थः ॥ नेति ॥ तथा च मुख्यार्थाभावेऽपि संसर्गलक्षकत्वाङ्गीकाराद् ब्रह्मलक्षकत्वं युक्तम् । पदस्य लक्षकत्वाङ्गीकारे हि तस्य मुख्यार्थो वक्तव्यः । मया तु वाक्यस्य लक्षकत्वमङ्गीकृतं तस्य तु नार्थवाचकत्वमतो न तस्य मुख्यार्थोऽपेक्षितः । तथा च मुख्यार्थाभावेऽपि लक्षकत्वं युक्तमित्यर्थः ॥ अन्वितेति ॥ पदसमुदायो हि वाक्यम् । समुदायो हि समुदायिभूतपदात्मक एव । एवं सति पदानाम् अन्विताभिधानाङ्गीकारेणान्वयस्य वाच्यत्वाङ्गीकारात्पदसमुदायात्मकानां समस्तानां यौगिकानां च शब्दानां वाचकत्वादित्यर्थः ।

ननु पदैरभिहिताः पदार्था एवान्वयं बोधयन्तीति मते समस्तस्य यौगिकस्य वाक्यस्य न वाक्यार्थ-भूतान्वयार्थत्वं न वा लक्षकत्वम् । मुख्यवृत्तिं लक्षणारूपां च वृत्तिं विनैवान्वयबोधाङ्गीकारेण पदभिन्नेषु पदार्थेषु च वृत्त्यभावेनान्वयस्याशाब्द त्वाङ्गीकारादिति चेत्तत्राह– अभिहितेति ॥ पदाभिहितपदार्थ-बोध्यान्वयस्य वृत्तिं विनैवाभिधायकत्वरूपाभिहितान्वयस्य वाक्य एवाङ्गीकारेण वाक्यान्तर्गतपदनिष्ठ-प्रकृतिप्रत्यययोस्तावत्स्वार्थवाचकत्वमेवास्ति तन्मते । अतः सर्वथा वाचकत्वाभावो नास्ति । न ह्येवं सत्यादिवाक्यान्तर्गतस्य कस्यचिद्वा पदस्य वाचकत्वं त्वया स्वीकृतमिति भावः । वाक्यतुल्यत्वान्न वाचकतेत्यत्र दूषणान्तरमाह– समास इति ॥ अवाच्यमित्यत्रेत्यर्थः । यौगिके लक्ष्यमित्यत्र ॥ अनभिधेयत्वेऽपीति ॥ वृत्तिं विनैव संसर्गबोधकत्वाङ्गीकारादिति भावः । समासे पदार्थस्य, यौगिके प्रकृत्याद्यर्थस्येत्यर्थः । तथा च सर्वथाऽवाचकत्वं नास्ति । तदन्तर्गतस्य पदादेर्वाचकत्वाङ्गीकारात् । सत्यादिवाक्यपदार्थभूतस्य ब्रह्मणो वाच्यत्वमनिवार्यमिति भावः ।

ननु मया ब्रह्म पदार्थरूपत्वेन न स्वीकृतं येन वाच्यत्वं स्यात् किन्तु वृत्तिं विनैव बोध्यो यः संसर्गस्तद्रूपत्वाङ्गी कारादित्यत आह– यदित्विति ॥ नन्वन्यत्र कुत्रचिदब्रह्मपरे समासे यौगिके वाक्ये पदार्थस्य प्रत्ययार्थस्य च वाच्यत्वेऽपि अवाच्यं लक्ष्यमित्यादौ समासादिवाक्ये पदद्वयस्य प्रकृतिप्रत्यययोर्वा न प्रत्येकं स्वार्थसंसर्गपरत्वं, येन पदार्थस्य ब्रह्मणो वा वाच्यत्वापत्तिः । किं नाम सर्वेषामपि लक्षणया ब्रह्ममात्रपरत्वादिति चेत्तत्राह– यदि त्विति ॥ तर्हीति ॥ ब्रह्मस्वरूप-मात्रपरत्वेन तदवाच्यत्वे लक्ष्यत्वे च तात्पर्याभावान्नावाच्यलक्ष्यादिपदेन ब्रह्मणोऽवाच्यत्वादि सिद्धि-रित्यर्थः ॥ स्यादिति ॥ अवाच्यत्वपदलक्ष्यस्यावाच्यत्वाभावादिति भावः । तत्र दृष्टान्तो नदीति । ननु ‘यतो वाचो निवर्तन्ते’ इत्यादिश्रुत्याऽवाच्यत्वसिद्धिरित्यत आह– यत इत्यादिना ॥ अशब्द-मित्यादेः सर्वथाऽवाच्यत्वाभिप्राये बाधकमाह– परेति ॥ अशब्दत्वासिद्ध्येति ॥ गङ्गापदलक्ष्यस्य तीरस्यागङ्गात्ववदित्यर्थः । मनोवृत्तेः सर्वथा निषेधायोगे हेतुर् अन्तःकरणवृत्तिव्याप्य इति ।

एवं चान्तःकरणवृत्तिव्याप्ये ब्रह्मणि श्रुतस्यापि मनोवृत्तिनिषेधस्य साकल्यादिना सङ्कोचवद् वाग्वृत्तिनिषेधस्यापि साकल्येनावाच्यत्वादिना सङ्कोचः कार्य इत्याह– यत इति ॥ किञ्च ‘यतो वाच’ इत्यादिश्रुतौ यत इत्यादिबहूनां पदानां ब्रह्मवाचकत्वरूपमुख्यार्थलाभाय निवर्तन्त इत्येकमेव पदं साकल्येन प्रतिपादनान्निवर्तत इति स्वार्थात्प्रच्यावनीयम् । बहुबाधस्याऽन्याय्यत्वात् ‘त्यजेदेक’मिति न्यायाच्चेत्याह– यत इति ॥ अविरोधित्वादिति ॥ दण्डीति वाक्यस्य देवदत्त इति वाक्येनाविरोध-दर्शनेन विशिष्टपरस्य विशेष्यपरत्वाविरोधादित्यर्थः । वाच्यत्वप्रतिपादकश्रुति स्मृत्यनुमानविरोधाच्च नाऽवाच्यत्वमित्याह– अथेत्यादिना ॥ ब्रह्म वाच्यं लक्ष्यत्वात्तीरवादित्यनुमानेऽप्रयोजकत्वपरिहाराय ‘सर्वशब्दावाच्यस्य लक्षणाऽयुक्तेः’ इति भाष्यं हृदि निधाय हेतूच्छित्तिबाधकमाह– विपक्ष इति ॥ स्वरूपत इति ॥ स्वरूपतस्तीरत्वादिना रूपेणावगतस्य वाच्यार्थनदीसम्बन्धित्वेन चावगतस्य तीरादिरूपार्थान्तरस्य लाक्षणिको गङ्गादिशब्दो बोधक इत्यर्थः ॥ अन्यथेति ॥ किन्तु पूर्वधीस्थे वाच्यार्थ इत्युक्तप्रमेयानङ्गीकार इत्यर्थः ।

अतिप्रसङ्गादिति ॥ गङ्गापदेन घटस्यापि लक्ष्यत्वप्रसङ्ग इत्यर्थः । ज्ञेयत्वं च तस्य न शब्देतरप्रमाणेन, वेदैकगम्यत्वात् । तदपि कुतः ‘औपनिषदः पुरुषः’ इति श्रुतेरित्याह– औपनिष-दत्वेति ॥ ननु वाच्यार्थसम्बन्धित्वादिना ब्रह्मज्ञानमपि शब्देनैव भवतीति चेत्तत्राह– अवाच्ये चेति ॥ वाच्येति ॥ वैदिकम् औपनिषदं ब्रह्म वाच्यसम्बन्धितया बुद्धं चेल्लक्ष्यं, नान्यथा तद्बोधश्च नाशब्दे-नेति वैदिकपदमेव वक्तव्यं तेनापि ब्रह्म वाच्यमिति पुनर्लक्षक एव पदे वक्तव्ये सत्यनवस्थितिमाशङ्क्य परिहरति– न चेति ॥ शब्दैकेति ॥ तस्यापि गृहीतसङ्गतिकस्यैव बोधकत्वादनवस्थेत्यर्थः ॥ यौगिकेति ॥ पदानामितरत्र लोके सङ्गतेर्गृहीतत्वात्तत्समुदायरूपवाक्येन सङ्गतिग्रहणानपेक्षेणार्थोऽपूर्व एव भासत इत्यङ्गीकारान्नानवस्थेत्याशयः । अवाच्यत्वाङ्गीकारे ब्रह्मासिद्धिरूपं बाधकान्तरं चाह– एवमिति ॥ न सिद्ध्येदिति ॥ प्रत्यक्षानुमानलौकिकशब्दानां ब्रह्मण्यप्रवृत्तेः । वैदिकशब्दवाच्यत्वस्य च त्वयाऽनङ्गीकारात् । लक्षकस्य च शब्दस्य वाच्यार्थसम्बन्धित्वेन येन पुंसा ब्रह्म ज्ञातं तं प्रत्येव सिद्धिजनकत्वेन वाच्यार्थसम्बन्धित्वेन ज्ञानस्य चोक्तरीत्याऽसम्भवेनावाच्यरूपब्रह्मसिद्ध्ययोगादित्यर्थः ।

ननु चात्रेति ॥ ‘ब्रह्म वाच्यं लक्ष्यत्वात्’ इत्यत्र पक्षीभूतं ब्रह्म ब्रह्मपदवाच्यमुत ब्रह्मपदलक्ष्यम् । नाद्यः । ब्रह्मपदवाच्यं ब्रह्म वाच्यमिति साधने सिद्धसाधनता । उपलक्षणमेतन् मम आश्रयासिद्धिश्च । द्वितीये विरोधः । एवमनुमानस्य पक्षाविवेकेन दुष्टत्वादनेनैव विकल्प्य दूषणेन अवाच्यत्वे लक्ष्यत्वं न स्यादिति तर्कोऽप्ययुक्तः वाच्यत्वलक्ष्यत्वयोः केवलान्वयित्वेन तदभावरूपापाद्यापादकयोर-प्रसिद्धिश्चेत्यर्थः । तथा चैवं पक्षस्य विवेक्तुमशक्यत्वान्न वाच्यत्वानुमानं युक्तमिति भावः । ननु ब्रह्मणोऽवाच्यत्वेऽपि लक्ष्यत्वायोगेन त्वदभिमतं लक्ष्यत्वमपि न सिद्ध्येदिति चेन्न एवमुक्तरीत्या वाच्यत्वानुपपत्तौ लक्ष्यत्वं स्वत एव सिद्धं भविष्यतीति न पुनस्तत्र पृथक् प्रमाणं वक्तव्यमित्याशयेन तत्र सम्मतिमाह– उक्तं हीति ॥ अत्यन्तावाच्यशब्देनैवेत्यन्वयः ॥ अन्यथेति ॥ वेदान्ततात्पर्य-विषयीभूतं वस्त्वित्येवं रूपेण पक्षीकारेण ‘ब्रह्म अवाच्यं प्रवृत्तिनिमित्तशून्यत्वात्’ इति वक्ष्यमाणानुमाने ब्रह्मपदवाच्यं पक्षश्चेत्तत्रावाच्यत्वसाधने विरोधः । ब्रह्मपदलक्ष्यं पक्षश्चेन्ममाश्रयासिद्धिरित्यर्थः ।

ननु वेदान्ततात्पर्यविषयीभूतं ब्रह्म अवाच्यं चेल्लक्ष्यं न स्यादित्यत्र वाच्यत्वलक्ष्यत्वयोः केवलान्वयि-त्वेनापाद्या पादकयोरप्रसिद्ध्या व्याप्यत्वासिद्धिश्चेत्युक्तं दूषणं सामान्यव्याप्त्युक्त्या परिहरति– अस्ति चेति ॥ ननु स्यादियं व्याप्तिर् यदि लक्ष्यत्वे वाच्यत्वं प्रयोजकं स्यादित्यत आह– उक्ता चेति ॥ अनवस्थादिना उपपादितेत्यर्थः ॥ व्यभिचार इति ॥ लक्ष्यत्वेऽपि वाच्यत्वाभावाद् ‘ब्रह्म वाच्यं लक्ष्यत्वात्’ इत्यनुमाने व्यभिचार इत्यर्थः ॥ माधुर्येति ॥ माधुर्यमित्येवंरूपो, वाक्यार्थ इत्येवंरूपो यः साधारणशब्दस्तद्वाच्यत्वादित्यर्थः ॥ इत्युक्तत्वेनेति ॥ तथा च क्षीरमाधुर्यादेः सूदशास्त्रप्रसिद्ध-विशदाद्यसाधारणशब्दवाच्यत्वादित्यर्थः । वाक्यार्थभूतान्वयवाचकत्वादित्याह– अन्वितेति ॥ अभिहितान्वयवादिनां तार्किकाणां मते तु वाक्यार्थस्य पदवृत्तिविषयत्वाभावेन तत्र लक्ष्यत्वस्यैवाभावेन न व्यभिचार इत्याह– अभिहितेति ॥ ‘पक्षेऽपि, तार्किकमते च वाक्यार्थे लक्ष्यत्वस्याप्यभावात्’ इत्यन्वयः । तत्र दृष्टान्तो ऽन्वितेति ॥ सामान्यतः कारकपदानां च क्रियान्विते स्वार्थे शक्तिः । क्रियापदानां च कारकान्विते स्वार्थे शक्तिरिति पक्षे विशेषान्वये पदवृत्तिं विनैव प्रतीयमाने लक्ष्यत्वा-भाववद् वाक्यार्थेऽपि लक्षत्वाभावात् । तथा च पदवृत्तिं विनैव संसर्गमर्यादया वाक्यार्थः प्रतीयत इति तार्किकमतेऽपि वाक्यार्थस्य लक्ष्यत्वाभावादित्यर्थः । अस्माभिस्तु सामान्यान्विताभिधानशक्तिरेव पदान्तरसमभिव्याहारेण विशेषान्वये पर्यवस्यतीत्यङ्गीकारेण शक्तिरूपपदवृत्तेरेवाङ्गीकाराद् वृत्तिं विनैव विशेषान्वयः प्रतीयत इत्यपि केषाञ्चिन्मतमिति द्रष्टव्यम् ।

यदुक्तं वाक्यार्थस्यापि वाक्यार्थ इति साधारणशब्देनैव वाच्यत्वादिति, तदयुक्तं, वाक्यार्थशब्दस्य समस्तवाक्यत्वेन वाचकत्वाभावात्किन्तु लक्षकत्वमेव । अतो व्यभिचार एवेत्याशङ्क्य निषेधति– न चेति ॥ समासस्य लक्षकत्वेऽपि वाचकत्वमप्यस्तीत्याह– समासस्येति ॥ समासस्य लक्षकत्व-पक्षेऽपि न समग्रपदानामपि लक्षकत्वम् । यथा राजपुरुष इति षष्ठीसमासे राजशब्दस्य षष्ठ्यर्थस्य राजसम्बन्धित्वस्य लक्षकत्वेऽपि पुरुषशब्दस्तु न लक्षकः किन्तु मुख्यार्थ एव । एवं वाक्यस्यार्थो वाक्यार्थ इत्यत्रापि वाक्यशब्दस्य षष्ठ्यर्थस्य वाक्यसम्बन्धित्वस्य लक्षकत्वेऽपि अर्थशब्दस्तु मुख्यार्थ एव । अतो न समस्तवाक्यार्थशब्दस्य लक्षकत्वमेवेत्यर्थः । ‘पुरुषशब्दस्येवार्थशब्दस्य वाचकत्वात्’ इत्यन्वयः । समासस्य वाक्यार्थशब्दस्य । अभिधानं विनैव पदशक्तिं विनैवेत्यर्थः ॥ स्वार्थेति ॥ लक्षणया वाक्यार्थबोधकतेत्यर्थः । तथा च वाक्यार्थे व्यभिचार इति भावः । एतेनेत्युक्तमेव विशदयति– वाक्येति ॥ अर्थपदेति ॥ तथा च साध्यस्यापि सत्वान्न व्यभिचार इत्यर्थः । रूढ्या इत्यत्र रूढिः सङ्केतः । अमीषां मध्ये ।

‘घटादाविव’ इति मायावादिशिष्यस्यैव शङ्का न तत्ववादिन इत्यवधेयम् । घटादौ घटत्वादि-कमेवारोपितम् । आरोपितं व्यावहारिकं, निमित्तं गुणादिरूपम् । तथा च वाच्यत्वं युक्तमिति भावः ॥ अयोगेनेति ॥ अतत्वावेदकत्वेनाप्रामाण्यापत्त्या आरोपितनिमित्ते श्रुतितात्पर्यायोगात् । तथा च श्रुतितात्पर्यविषयस्य ‘श्रुतितात्पर्यविषय निमित्तशून्यस्य’ वाच्यत्वायोगादित्यर्थः ॥ तस्मिंश्च सिद्ध इति ॥ वाचकत्वाभावे सिद्ध इति शेषः । ननु सत्यादिपदानां स्वरूपमात्रप्रश्नोत्तरत्वेन तयोर्वैयधि-करण्यानुपपत्त्यैव लक्षकत्वमङ्गीक्रियते न तु निमित्ताभावेन । अतो नान्योन्याश्रय इत्यत आह– स्वरूपमात्रेति ॥ किञ्च ब्रह्मणि सत्यादिपदप्रवृत्तिनिमित्तगुणाभावः । कुतः । निर्विशेषत्वप्रतिपादक-वाक्यविरोधादिति चेन्न । तस्यापि ब्रह्मस्वरूपमात्रे तात्पर्यम् उत निर्विशेषत्वादिविशिष्टे । नाद्य इत्याह– निर्विशेषेति ॥ निर्विशेषत्वप्रतिपादकेत्यर्थः ॥ सत्यत्वादीति ॥ विशेष्यपरविशिष्टपर-वाक्ययोरविरुद्धत्वेन स्वरूपमात्रपरनिर्विशेषवाक्यस्य निर्विशेषत्वे तात्पर्याभावेन सत्यत्वादिवैशिष्ट्य-प्रतिपादकसत्यादिवाक्याबाधकत्वादिति भावः । द्वितीये त्वाह– निमित्तस्येति ॥ निर्विशेषत्वविशिष्टे तात्पर्ये निर्विशेषशब्दप्रवृत्तिनिमित्तस्यापि श्रुतितात्पर्य विषयत्वेन सत्वात्तन्निमित्तकनिर्विशेषशब्दवाच्यत्वं स्यादित्यर्थः । ननु निर्विशेषत्वरूपप्रवृत्तिनिमित्तस्याभावरूप त्वात्तन्निमित्तकनिर्विशेषशब्दवाच्यत्व-मङ्गीकृतम् । न तु सत्यत्वादिभावरूपप्रवृत्तिनिमित्तकसत्यादिपदवाच्यत्वमिति चेत्तत्राह– अभावेति ॥ वक्ष्यमाणमुपक्षिपन्नुपसंहरति– तस्मादिति ॥ अवाच्यत्वभङ्गविवरणम् ॥ १३ ॥

न्यायकल्पलता

ननु निर्धर्मकतयाऽवेद्यतया च ब्रह्म आनन्दादिपदलक्ष्यं न वाच्यम् । प्रवृत्तिनिमित्ताभावरदिति पराभिमतम् अनूद्य दूषयति– यच्चेदमिति ॥ अवाच्येति ॥ नन्ववाच्यरूपमुख्यार्थाभावेऽपि नञ्समभिव्याहृतवाच्यशब्देन वाच्यत्वात्यन्ताभावबोधनद्वारा स्वरूपे लक्षणयैव पर्यवसानम् इति । मैवम् । अवाच्यपदजन्यज्ञानविषये ब्रह्मणि वाच्यत्वात्यन्ताभावोऽस्ति चेद् ब्रह्मावाच्यपदवाच्यं स्यात् । न चेत्तर्हि तद्विरुद्धवाच्यत्वापत्त्या ब्रह्मणो वाच्यपदवाच्यत्वापत्तेः। परस्परविरहरूपयोरेकस्य बाधेऽपरस्य धर्मिसत्तासमसत्तात्वनियमादिति भावः ॥ मुख्यार्थसिद्धिरिति ॥ निर्विशेषादिपदानामित्यनुषङ्गः ॥ निर्विशेषत्वाद्यहानिरिति ॥ निर्विशेषत्वरूपधर्मबहिर्भावेन निर्विशेषत्वाश्रयव्यक्तेर्लक्ष्यत्वान्न निर्विशेषत्वहानिः । गङ्गापदे तु गङ्गात्वानाश्रयस्य लक्ष्यत्वाद्गङ्गापदलक्ष्ये गङ्गात्वहानिरेवेति शङ्कार्थः ॥ उपधानमिति ॥ शक्तिग्रहदशायां तटस्थैव जातिर्व्यक्तीनामनुगमिकेत्यर्थः ॥ मुख्यार्थाभावादीति ॥ शक्यमञ्चत्वतदाश्रयव्यक्तितल्लक्ष्य पुरुषाणामिव शक्यनिर्विशेषत्वतदाश्रयव्यक्तितल्लक्ष्यब्रह्मणां त्रयाणामभावात् । ब्रह्मभिन्नस्य निर्विशेषपदवाच्यस्यसत्वात् । ब्रह्मणश्च निर्विशेषपदलक्ष्यत्वाङ्गीकारा-दित्यर्थः ॥ सत्यं ज्ञानमिति ॥ जातिः शब्दार्थ इति मते गोत्वाश्रयतया गोर्लक्ष्यत्ववत्सत्य-त्वाश्रयतयैव ब्रह्मव्यक्तिर्लक्ष्येति सखण्डार्थत्वम् ।

निर्विशेषलक्ष्यादिपदानां ब्रह्मान्यस्य मुख्यार्थस्याभावात्ते ब्रह्मवाचका इत्युक्तं, तत्र शङ्कते– नन्विति ॥ समासे प्रत्येकपदयोरिव समासस्याप्यन्वितवाचकत्वमस्तीति समाधत्ते– अन्वितेति ॥ ननु न समासेऽपि शक्तिकल्पनं, गौरवादत आह– समास इति ॥ तदुक्तमिति ॥ ईक्षत्यधिकरणनु-व्याख्यान इति शेषः ॥ पदं चेति ॥ निर्गुण इति पदं कथं गुणबद्धं वदिष्यति । व्याघातात् । तत्परिहाराय निर्गुणपदेन स्ववाच्यगुणाभावविशिष्टद्वारा निर्गुणमुपलक्ष्यं चेत्, ‘अपि’ तथापि ‘तत्पदं’ लक्ष्यपदम् । ब्रह्मणो वाचकमङ्गीकरणीयमित्यर्थः ॥ येनेति ॥ येन पुरुषेण ब्रह्म लक्ष्यमिति प्रोक्तं स लक्ष्यशब्देन ब्रह्मावदत् । लक्ष्यपदं वाचकं तत्र प्रयुक्तवानित्यर्थः । ऊदे ऊचे ॥ यतो वाच इत्यत्रेति ॥ अन्तःकरणवृत्तिव्याप्ये ब्रह्मणि श्रुतस्यापि मनोवृत्तिनिषेधस्य सङ्कोचवद्वाग्वृत्तिनिषेधस्यापि सङ्कोचः कार्यः ॥ यत इति ॥ ‘यतो वाचो निवर्तन्ते अप्राप्यमनसा सह । आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन’ इति श्रुतौ यत इति शब्दस्य आनन्दब्रह्मशब्दादीनां च ब्रह्मवाचकत्व-रूपमुख्यार्थात् ‘निवर्तन्ते’ इति पदमेव प्रच्यावनीयम् । तथा च यद् इतिपदस्य आनन्दादिपदानां च बहूनामनुग्रहः स्यादित्यर्थः ।

त्वन्मत इति ॥ यतो वाचो निवर्तन्त इत्यस्य ब्रह्मवाच्यत्वनिषेधार्थकत्वाभावात् ॥ वेदान्तेति ॥ अत्र पक्षासिद्ध्यादिकं स्वयमनुपदमेव परिहरिष्यति । न च सधर्मकत्वमुपाधिः । साध्योपाध्योः केवलान्वयितया तद्व्यतिरेकाद्यसाधनात् ॥ पदत्वादिति ॥ न च समासादिपदे व्यभिचारः । तस्याप्यवयवद्वारा वाचकत्वात् । ब्रह्मणस्त्ववयवार्थत्वे सखण्डत्वापातः ॥ सत्येति ॥ न च ‘विषं भुंक्ष्व’ इत्यादावनैकान्त्यम् । तत्रापि वाच्यार्थपरत्वस्योपपादितत्वात् ॥ शब्दवैयर्थ्यादिति ॥ न चावरणाभिभावकवृत्तौ शब्दस्योपयोगः, घटादेः प्रत्यक्षत्वमेव, शब्दस्तु तदावरणनिवर्तकवृत्ति(त्तौ)-हेतुरित्यापातात् ॥ वाच्येति ॥ गङ्गादिपदादौ वाच्यसम्बन्धितया ज्ञातं तीरादिकं लक्ष्यं दृष्टम् । ब्रह्मणो वाच्यसम्बन्धितयाऽवगतिस्तु मानान्तरागम्यत्वादवाच्यत्वाच्च लक्षकपदेनैव वाच्या । लक्षकपदं तु वाच्य(सम्बन्ध्यवयव)सम्बन्धितया ज्ञातमेव बोधयतीति । तथा ज्ञानार्थं ब्रह्मणि लक्षकपदान्तरमेव प्रयोक्तव्यमित्यनवस्थितिर्लक्षकपद इत्यर्थः ।

यौगिकेति ॥ यौगिकपदावयवार्थसंसृष्टरूपेणोपस्थिते ब्रह्मरूपे सम्बन्धिनि पदान्तरस्य शक्तिरूपः सम्बन्धो ग्रहीष्यते । तव तु नैवं परिहारः । अखण्डार्थत्वहानेः ॥ ब्रह्म न सिद्ध्येदिति ॥ प्रत्यक्षानुमानलौकिकशब्दानां ब्रह्मणि साक्षादप्रवृत्तेर्वैदिकशब्दवाच्यत्वस्याप्यनङ्गीकारे वाच्यत्वव्याप्य-लक्ष्यत्वस्याप्यभावापत्त्या ब्रह्म न सिद्ध्येदित्यर्थः । शङ्कते– ननु चेति ॥ अप्रसिद्ध्येति ॥ वाच्यत्वलक्ष्यत्वयोः केवलान्वयितया तदभावप्रसिद्धेः (॥ व्याप्तीति ॥) वाच्यत्वं न लक्ष्यत्वस्य व्यापकमतो व्याप्त्यभाव इति शङ्कार्थः । पक्षं द्रढयति– वेदान्तेति ॥ तर्कोऽपि युक्त इत्यत आह– अस्ति चेति ॥ न वयं ‘यत्र वाच्यत्वाभावस्तत्र लक्ष्यत्वाभावः’ इति व्याप्तिं ब्रूमः किन्तु यत्र प्रयोजकं न तत्र प्रयोज्यं नेति । भवति च वाच्यत्वं लक्ष्यत्वे प्रयोजकम् । वाच्यसम्बन्धित्वेनोपस्थितिं विना लक्ष्यत्वायोगात् । लक्ष्यत्ववाच्यत्वयोर्व्याप्य व्यापकभावे व्यभिचारं परिहरति– न चेक्षुक्षीरेति ॥ उक्ताश्च गन्धादिषु विशेषा महाभाष्ये षष्ठी इत्यत्र सूत्रे । (घृतस्य) घनस्य तीव्रश् चन्दनस्य मृदुरिति । तत्रैव कैयटे । तीव्रो गन्धस्य विशेषः(णम्) मृदुत्वं स्पर्शस्येति ।

अभिहितेति ॥ अभिहितान्वयपक्षे तार्किकमते च वाक्यार्थे हेतोरेवागमनान्न व्यभिचार इत्यर्थः । वाक्यार्थादिसाधारणशब्दवाच्यत्वाद्वाक्यार्थे न व्यभिचार इत्यत्र शङ्कां निरस्यति– न च वाक्यार्थेति ॥ समासस्य लक्षकत्वे वाचकत्वमप्यस्तीत्याह– समासस्येति ॥ पुरुषशब्दस्येवार्थशब्दस्य वाचक-त्वादित्यन्वयः । नन्वर्थशब्दस्य वाचकत्वेऽपि वाक्यार्थशब्दस्य न वाचकत्वम् । मैवम् । वाक्यशब्दस्य लक्षकत्वेऽपि वाक्यार्थशब्दस्य न लक्षकत्वमिति साम्यात् ॥ संसर्गरूपेणेति ॥ तेन रूपेण समासलक्ष्यत्वाच्च न व्यभिचार इति भावः ॥ एकस्यापि चेति ॥ यत्र वेदे सतां विदुषामेकस्यापि शब्दस्य मुख्यार्थपरित्यागेनामुख्यार्थस्वीकृतौ कृतायां सत्यां महती लज्जा जायते तत्राखिला अपि शब्दा अमुख्यार्था इति वदन् यस् तस्य वादिनः, आत्मनः शाब्दत्वं शब्दशक्तितात्पर्यज्ञत्वं वक्तुं लज्जा कथं न जायेत । केभ्यः । तन्मार्गानुवर्तिनां शब्दशक्तितात्पर्यानुसारिणां विदुषां सकाशादिति अनुव्याख्यानयोजना । उपसंहरति– तस्मादिति ॥

॥ इति अवाच्यत्वभङ्गः ॥ १३ ॥