यच्चानुभूतित्वहेतौ साध्यप्रसिद्ध्यर्थं धर्मत्वादित्यनुमानम्
१२. आत्मनः पराभिमतस्वप्रकाशत्वभङ्गः
न्यायामृतं
यच्चानुभूतित्वहेतौ साध्यप्रसिद्ध्यर्थं धर्मत्वादित्यनुमानम् । तत्र वेद्यत्वं वृत्तिव्याप्यत्वं वा फलव्याप्यत्वं वा चिद्विषयत्वं वा अस्वप्रकाशत्वं वा । नाद्यः । अर्थान्तरत्वात् । न हि पूर्वानुमान एतदभावः साध्यः । न द्वितीयः । तस्य मम घटादौ तव शुक्तिरूप्यादौ धर्मादौ च पक्षेतरव्यक्तिविशेषेऽसिद्धत्वेनासाधारणानैकान्त्यात् । न च पूर्वत्रावेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं साध्यम् । तच्च न व्यक्तिविशेषे सिद्धमिति वाच्यम् । तस्य सामान्यतोऽप्यप्रसिद्ध्याऽप्रसिद्धविशेषणत्वात् । न च पूर्वत्र किञ्चित् प्रत्यपि फलाव्याप्यत्वं साध्यम् । धर्मादिश्च योगिनं प्रति फलव्याप्यः । अविद्यावृत्तिप्रतिफलित-चिदपि साध्यत्वात्फलमिति शुक्तिरूप्याद्यपि फलव्याप्यमेव । अवेद्यत्वमात्रं च स्वप्रकाशत्वमिति वाच्यम् । उक्तन्यायेन फलव्याप्ये ब्रह्मणि तदभावस्य बाधात् । न तृतीयः । उक्तरीत्या प्रतिफलितचिद्विषयत्वस्य ब्रह्मण्यपि भावात् । शुद्धचिद्विषयत्वस्य च घटादावप्यभावेनासाधारण्यात् । न चतुर्थः । प्रतियोग्यप्रसिद्ध्याऽऽश्रयासिद्धेः । सर्वत्रैवं साध्याभावं पक्षीकृत्य सुसाधत्वेनातिप्रसङ्गाच्च । किञ्च धर्मत्वस्यानिर्वाच्यत्वभङ्गे उक्तरीत्या शब्दप्रतिपाद्यत्वादिषु केवलान्वयिधर्मेषु व्यभिचारः ।
किञ्चात्यन्ताभावप्रतियोगित्वं कुतश्चिन्न व्यावर्तते चेत्तत्रैव व्यभिचारः । व्यावर्तते चेद्यतो व्यावर्तते तत्रैव धर्मिणि व्यभिचारः । अपि च घटादाविव स्वप्रकाशत्वविरोधिनो व्यावहारिकस्य वेद्यत्वस्य सत्त्वेऽपि तदत्यन्ताभावसम्भवेनार्थान्तरम् । न च घटादौ धर्मिसमसत्ताकमेव वेद्यत्वं तद्विरोधि । तथात्वे आत्मनि वृत्तिव्याप्यत्ववत्फलव्याप्यत्वस्य व्यावहारिकत्वेऽपि स्वप्रकाशत्वोपपत्त्या तन्निरासवैयर्थ्यात् । अत एव ‘अयं घट एतद्धटान्यत्वे सति वेद्यत्वानधिकरणान्यः, पदार्थत्वात्’ इत्यादि महाविद्यया साध्य-प्रसिद्धिरिति निरस्तम् । वेद्यत्वानिरुक्तेः । ‘अयं घट एतद्धटत्वे सति वेद्यत्वानधि-करणान्यत्वानधिकरणम्, पदार्थत्वात्’ इति प्रकरणसमत्वाच्च । तस्माद् अप्रसिद्ध-विशेषणत्वं दुर्वारम् । त्वदभिमतं जातिरूपमनुभूतित्वं शुद्धचैतन्येऽसिद्धं च । अखण्डार्थ-भङ्गे उक्तरीत्या जातेर्धर्मिसमसत्ताकभेदवद्व्यक्तिसापेक्षत्वात् । जडत्वभङ्गे उक्तरीत्याऽनु भाव्याभावेऽनुभूतित्वासम्भवाच्च । विपक्षादव्यावृत्तं चानुभूतित्वम् । तस्यानुभूतिशब्द-वाच्येऽनात्मनि सत्त्वात् ।
किञ्च वृत्तिरूपस्य परोक्षानुभवस्य पक्षत्वे बाधः । अपरोक्षस्य च पक्षत्वे तत्रैव व्यभिचारः । तन्निरासार्थं हेतुविशेषणेऽनुभूतिशब्देन चिद्रूपज्ञानोक्तौ चाप्रयोजकत्वम् । अपि च दुःखादिवत् स्मृतिवत् परोक्षानुभववच्चापरोक्षानुभवमप्यपरोक्षतो जानामि । मामहं जानामि, स्वात्मानं जानामीत्याऽऽत्मनो वेद्यत्वग्राहिणा प्रत्यक्षेण ‘तदात्मान-मेवावेत्’ इत्यादिश्रुत्या च बाधः । न चात्रापरोक्षवृत्तिवेद्यत्वं वा अपरोक्षव्यवहारविषयत्वं वा भातीति युक्तम् । जानामीति ज्ञप्तिविषयत्वस्यैवानुभवात् । दुःखं जानामीत्यादावपि तथात्वापाताच्च । ‘अनुभूतिः स्फुरणविषयः, अपरोक्षव्यवहारविषयत्वाद्, घटवत’् । चैत्रीयानुभूतिश् चैत्रापरोक्षव्यवहारयोग्यापरोक्षज्ञप्तिविषयः, चैत्रापरोक्षव्यवहारविषयत्वाद् घटवत् । चैत्रीयानुभूतिश् चैत्रापरोक्षव्यवहारयोग्यापरोक्षज्ञप्त्यविषयो नावतिष्ठते चैत्रं प्रत्यप्रकाशमानत्वरहितत्वात्, चैत्रेच्छावदिति सत्प्रतिपक्षत्वं च ।
अप्रयोजकत्वं च । नन्वनुभूतिरूपस्यात्मनः परवेद्यत्वेऽनवस्था स्यात् । पराभाव-दशायामात्मनि संशयादिश्च स्यात् । न चात्मनि अहमनहं वेति कश्चित्सन्दिग्धे, नापि नाहमवेति विपर्यस्यति । स्ववेद्यत्वं तु विरुद्धम् । तस्मान्नाप्रयोजकतेति चेन्न, त्वन्मते सन्देहाद्यविषयस्याहमर्थस्यानात्मत्वात् । तदन्यस्मिंश्च शब्दैकगम्यात्मनि सन्देहादेः सत्त्वात् । किञ्च स्ववेद्यत्वं किमिति विरुद्धम् ? किं साक्षात्कारस्य विषयजन्यत्वात् । स्वस्य च स्वजन्यत्वासम्भवात्किं वा साक्षात्कारे स्वजनकेन्द्रियसन्निकृष्टस्यैव विषय-त्वात्, स्वजनक सन्निकर्षकाले च स्वस्याभावात्, यद्वा विषयविषयिभावसम्बन्ध-स्योभयनिष्ठत्वात् । अथवा ज्ञानस्यैव ज्ञेयत्वे विरुद्धस्य क्रियाया एव कर्मत्वस्यापातात् । आहोस्विद् विषयिण एव विषयत्वे कर्तुरेव कर्मत्वापातात् । तस्य चान्यत्वगर्भित-स्यैकस्मिन्नसम्भवात् ?
नाद्यद्वितीयौ । स्वप्रकाशस्यात्मस्वरूपज्ञानस्येश्वरज्ञानवन्नित्यत्वेनाविरोधात् । अन्यथा स्वव्यवहारहेतुसाक्षात्कारस्यापि स्वजन्यत्वादिनियमात्तवापि तुल्यो दोषः । न तृतीयः । अतीतारोपितात्यन्तासतां ज्ञानदर्शनेन तस्योभयनिष्ठत्वाभावात् । न चतुर्थः, कृतिविशेषस्य कार्यत्ववद्, इच्छाविशेषस्य चेष्टत्ववद्, व्यवहृतेश्च व्यवहार्यत्ववद्, अभिधेति शब्दगताया अभिधायाः स्वाभिधेयत्ववद्, वृत्तिरूपस्य यद्दृश्यं तन्मिथ्येति व्याप्तिज्ञानस्य मिथ्यात्वानुमितेश्च स्वविषयत्ववच्चोपपत्तेः । न पञ्चमः, अज्ञस्यैव ब्रह्मणो ज्ञेयत्वस्य विषयिण्या एव मिथ्यात्वानुमितेः स्वविषयकत्वस्य अभिधायकस्यैव शब्दशब्दस्य स्वाभिधेयत्वस्य च दर्शनेन मामहं जानामीत्यनुभवेन ‘तदात्मानमेवावेत्’ इति श्रुत्या च कर्तुरेव कर्मत्वसिद्धौ परसमवेतक्रियाफलशालित्वरूपान्यत्वगर्भित-स्वकपोलकल्पितलक्षणत्यागेन क्रियाविषयत्वादिरूपस्यान्यस्यैव लक्षणस्य कल्प्यत्वात् ।
ननु कृत्यादिः कृत्याद्यान्तरं प्रत्येव विषयः न तु स्वं प्रतीति चेन्न । गत्यादौ गत्याद्यन्तरविषयत्वस्याप्य दर्शनात् । यदि च वस्तूनां विचित्रस्वभावत्वाद् गत्यादावदृष्टमपि कृत्यादौ स्वसजातीयविषयत्वं तर्हि तत एवानुभूतेः स्वविषयत्व-मप्यस्तु । अन्यथा स्वस्य स्वस्मिन्व्यवहारजनकत्वमपि न स्यादित्युक्तम् । व्याप्तिज्ञान-मिथ्यात्वानुमित्यादेश्च स्वविषयत्वे सर्वोपसंहारवती व्याप्तिरनुमितिमिथ्यात्वं च न सिद्ध्येत् । न हि चितश्चिदविषयत्वेऽपि वृत्तिव्याप्यत्वमात्रेण सिद्ध्यादिवद् व्याप्ति-विषयवृत्तेः स्वाविषयत्वेऽपि सर्वोपसंहारयुक्तव्याप्तिसिद्धावन्य उपायोऽस्ति । न च व्याप्तिज्ञानादेः स्वस्मिन्स्वव्यवहारहेतुत्वमेव, न तु स्वविषयत्वमिति वाच्यम् । घटादिज्ञानस्यापि तस्मिंस्तद्धेतुत्वमेव, न तु तद्विषयत्वमित्यापातात् । व्याप्तिज्ञानादेरपि व्याप्यताद्यवच्छेदकावच्छिन्नत्वाच्च । घटो ज्ञात इतिवत् सर्वोपसंहारवतो व्याप्तिर्ज्ञातेत्यनुभवाच्च । एवं च–
‘मामहमिति जानामि तदात्मानमवेदिति ।
प्रत्यक्षेण तथा श्रुत्या ज्ञप्तौ कर्तुश्च कर्मता ॥
गमनादौ त्वदृष्टत्वान्न कर्तुः कर्मतेष्यते ।
अन्यथा शब्दशब्दादेः स्ववाच्यत्वादिकं कथम् ॥’
प्रतिकूलतर्कपराहतिश्च । अवेद्यत्वेऽवेद्यत्वसाधकप्रमाणवेद्यत्वावेद्यत्वाभ्यां व्याघातात् । वेदान्तानां ब्रह्मणि प्रामाण्यायोगाच्च । ब्रह्मविचारविधिवैयर्थ्याच्च । ब्रह्माज्ञाननिवृत्त्य-योगाच्च । एतेन तदज्ञाननिवर्तकत्वात्तत्र तत्प्रामाण्यमिति निरस्तम् । आत्मनोऽप्यसिद्धि-प्रसङ्गाच्च । स्वतः सिद्ध इति चेत्, स्वत इति कोऽर्थः ? किं स्वेनैवेति किं वा प्रमाणं विनैवेति ? नाद्यः । स्वविषयत्वापातात् । न च सिद्ध इत्यस्य ज्ञात इति नार्थः किन्तु व्यवहारयोग्य इतीति वाच्यम् । ज्ञातत्वातिरेकेण व्यवहारयोग्यत्वाभावात् । मुक्तौ योग्यताया अप्यभावेनात्मनस्तदा स्वतः सिद्ध्यभावापाताच्च । नान्त्यः । सिद्ध्युपायस्या-नुपन्यासात् । अन्यथा नृशृङ्गादेरपि सिद्ध्यापातात् ।
ननु वृत्तिव्याप्यत्वात्सर्वं युक्तम् । अवेद्यत्वं तु फलाव्याप्यत्वमिति चेन्न । एतादृशा-वेद्यत्वस्य घटादावपि सत्त्वात् । किञ्चात्मस्वरूपभूतवित्तेः स्ववेद्यत्वाभावे वित्तित्वं स्वव्यवहारहेतुत्वं स्वस्मिन् संशयादिविरोधित्वं च न स्यात् । भुक्तेः सभोज्यत्ववद् वित्तेः सवेद्यत्वनियमान्मुक्तौ च वेद्यान्तराभावात् । उक्तं चैतज्जडत्वहेतुभङ्गे । वित्तेस्त-द्व्यवहारादिहेतुत्वे तत्संशयादिविरोधित्वे च तद्विविषयत्वस्य तन्त्रत्वात् । न च स्वकर्मकत्वाभावेऽपि स्वनिर्वाहकत्वात्स्वस्मिन्स्वव्यवहारादिकं कुर्यादिति वाच्यम् । स्वनिर्वाहक शब्देनैव निर्वाह्यत्वनिर्वाहकत्वरूपयोर्निर्वहणक्रियाकर्मत्वकर्तृत्वयोरुक्तेः । स्वनिर्वाहकमध्ययनविधिदीप प्रभादिकमप्यन्यस्मिन्निव स्वस्मिन्स्वकार्यकारि चेत्, स्वविषयमेव ।
एतेन यथा ‘गाङ्कुटादिभ्यः’ इत्यत्र बहुव्रीहिः, स्वाविषयेऽपि कुटे स्वकार्यं करोति तथेहापीति खण्डनोक्तं निरस्तम् । बहुव्रीहेरन्यपदार्थे शक्तिरिति वैयाकरणादिमते, लक्षणेति तार्किकादिमते वा ‘चैत्रशालास्था आनीयन्ताम्’ इत्यत्रोपलक्षणस्यापि चैत्रस्य शालास्थस्य तच्छब्दविषयत्ववत्कुटस्यापि कुटादिवद् अन्यपदार्थभूत समुदायान्तर्गतस्य शक्त्या लक्षणया वा बहुव्रीहिविषयत्वेन तदविषयत्वासम्मतेः । उक्तं हि कैयटे– ‘उद्भूता-वयवभेदः समुदायः समासार्थः’ इति ।
अद्वैतसिद्धिः
न च प्रमाणाभावः । अनुभूतित्वहेतोर्व्यतिरेकिण एव प्रमाणत्वात् । नन्वत्र साध्याप्रसिद्धिः । न च वेद्यत्वं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगि । धर्मत्वादित्यनुमानेन सामान्यतः प्रसिद्धिरिति वाच्यम् । अवेद्यत्वप्रसिद्धावपि विशिष्टसाध्याप्रसिद्धेस् तदवस्थत्वात् । न चानुभूतित्वेनापि तावदेव साध्यम् । वेद्यत्वस्य वृत्तिव्याप्यत्वरूपत्वे तदभावस्य चरमवृत्तिव्याप्यानुभूतौ बाधात् । फलव्याप्यत्वरूपत्वे तु तदभावस्य मम घटादौ, तव धर्मादौ शुक्तिरूप्यादौ च पक्षभिन्ने प्रसिद्धत्वेनासाधारणानेकान्तिक-तापत्तेर् अस्वप्रकाशत्वरूपत्वे प्रतियोग्यप्रसिद्ध्याऽप्रसिद्धिरेव । किञ्चात्यन्ताभाव प्रतियोगित्वं कुतश्चि-द्व्यावर्तते चेत्, तत्रैव व्यभिचारः, न चेदत्र व्यभिचार इति चेन्न, चिदविषयस्वरूपत्वरूपं स्वप्रकाशत्वम् अनुभूतित्वेन यदा साध्यते तदा वेद्यत्वं चिद्विषयत्वमेव चिदन्यमात्रवृत्ति पक्षः, अत्यन्ताभावप्रतियोगि स्वरूपत्वं साध्यम् । यथा च वृत्तिप्रतिफलितचिद्विषयता घटादौ, न ब्रह्मणि, तथोपपादितमिति नासाधारण्यबाधौ ।
नाप्यत्यन्ताभावप्रतियोगित्वस्यात्यन्ताभावप्रतियोगित्वे व्यभिचारः । अत्यन्ताभावप्रतियोगित्वस्य मिथ्या त्वेनात्यन्ताभावप्रतियोगिन्येवात्यन्ताभावप्रतियोगितया यन्निष्ठात्यन्ताभावप्रतियोगित्वं तस्य केवलान्वयित्वाभावात् । न चैवं ब्रह्मणि चिद्विषयत्वेऽपि तदत्यन्ताभावोपपत्त्याऽर्थान्तरं, घटादावप्येवं साध्यसत्त्वेनासाधारण्यं चेति वाच्यम् । चिद्विषयत्वविरोध्यत्यन्ताभावप्रतियोगित्वरूपस्य साध्यत्वान्नार्थान्तरासाधारण्ये । घटादौ तयोः सहावस्थित्याऽ विरोधात् । ब्रह्मणि विरोधात् । न च तर्हि विरोधित्वांशमादाय पुनरप्रसिद्धिः । वेद्यत्वं, विरोध्यत्यन्ताभावप्रतियोगि, अत्यन्ताभाव-प्रतियोगित्वाद्, घटवदिति प्रसिद्धिसंभवात् । यदा तु अवेद्यत्वे सति अपरोक्षव्यवहार योग्यत्वरूपं स्वप्रकाशत्वं पूर्वानुमाने साध्यम्, तदा फलव्याप्यत्वरूपं वेद्यत्वं पक्षः, अपरोक्षव्यवहारयोग्य-किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वं साध्यम् । तथा चापरोक्षव्यवहारयोग्यत्वसमानाधिकरणा वेद्यत्वस्य सामान्यतः प्रसिद्ध्या नाप्रसिद्धविशेषणत्वासाधारण्ये । अत्यन्ताभावप्रतियोगित्वं किञ्चिन्निष्ठात्यन्ता-भावप्रतियोगोत्यादि विकल्पनिबन्धनदोषः परिहृत एव ।
एतेन अयं घट एतद्घटान्यत्वे सति वेद्यत्वानधिकरणान्यः, पदार्थत्वादित्यादिमहाविद्ययापि साध्यप्रसिद्धिः । न च वेद्यत्वानिरुक्तिः । चिदविषयत्वमात्रस्य स्वप्रकाशरूपत्वे चिद्विषयत्वस्यैव वेद्यत्वरूपता । प्रथमपक्षे तु फल व्याप्यत्वमेव वेद्यत्वम् । न च तर्ह्यतीन्द्रियान्यत्वेनार्थान्तरं सिद्ध-साधनं वा । अपरोक्षव्यवहारविषयत्वसमानाधिकरणस्यैव विवक्षितत्वात् । न च अयं घट एतद्धटत्वे सति वेद्यत्वानधिकरणान्यत्वानधिकरणम्, पदार्थत्वादिति प्रकरणसमता । श्रुत्यादिरूपानुकूलतर्कसद्भावेन स्थापनाया अधिकबलत्वात् । प्रतिपक्षनिबन्धनसाध्यसन्देहेऽपि संशयरूपसाध्यप्रसिद्धेरनि वारणाच्च । नाप्यसिद्धिः, अनुभूतित्वजातेः कल्पितव्यक्तिभेदमादाय शुद्धेऽपि सत्त्वात् । न च जातेर्धर्मिसमसत्ता-कभेदवद्व्यक्ति सापेक्षत्वनियमः । जात्यन्यूनसत्ताकभेदवद्व्यक्तिसापेक्षतयैवातिप्रसङ्गनिरासे धर्मि-समसत्ताकभेदवद्व्यक्ति सापेक्षत्वस्य गौरवकरत्वात् । समत्वस्यान्यूनानतिरिक्तार्थकत्वात् । न चानुभाव्याभावेऽनुभूतित्वायोगः । कदाचिदनुभाव्यसत्त्वेनैव तदुपपत्तेः । अन्यथा आसीदित्यादि-वाक्यजन्यज्ञानस्याननुभूतित्वापत्तेः । न चानुभूतित्वं विपक्षादव्यावृत्तम् । अनुभूतिशब्दवाच्यानात्मनि सत्त्वादिति वाच्यम् । अनात्मनि अनुभूतिशब्दवाच्यत्वस्यैवाभावात् । वृत्तौ ज्ञानपदस्येवानुभूति पदस्य गौणत्वात् । अत एव परोक्षानुभवस्य पक्षत्वे बाधः । अपरोक्षस्य पक्षत्वे तत्र व्यभिचार इति निरस्तम् ।
चित्त्वरूपानुभूतित्वस्य विवक्षितत्वात् । न चाप्रयोजकत्वम् । श्रुत्यनुग्रहसत्त्वात् । न चापरोक्षानुभवमप्यपरोक्षतो जानामीत्यात्मनो वेद्यत्वग्राहिणा प्रत्यक्षेण ‘तदात्मानमेवावेत्’ इति श्रुत्या च बाध इति वाच्यम् । आद्यस्य साक्ष्यनुभवस्य वृत्तिरूपगुणानुभवविषयत्वात् । न च ‘जानामि’ इति ज्ञप्तिविषयत्वमेवानुभूयत इति वाच्यम् । अहमर्थस्य ज्ञप्त्याश्रयत्वायोगेन ज्ञानपदस्य वृत्तौ गौणत्वात् । ‘दुःखं जानामि’ इत्यादावपि दुःखाद्याकाराविद्यावृत्तेरेव विवक्षितत्वाच्च । द्वितीयस्य चाहमर्थविषयत्वात्तदनात्मत्वस्योक्तत्वात् । श्रुतेश्चोपनिषज्जन्यवृत्तिरूपवित्तिविषयत्वावगाहितया चिद्विषय-त्वस्य फलव्याप्यत्वस्याविषयीकरणात् ।
नापि ‘अनुभूतिः स्फुरणविषयो ऽपरोक्षव्यवहारविषयत्वाद् घटवत्’ ‘चैत्रीयानुभूतिश् चैत्रापरोक्ष-व्यवहारयोग्यापरोक्ष ज्ञप्तिविषयश् चैत्रापरोक्षव्यवहारविषयत्वाद्, घटवत्’ चैत्रीयानुभूतिश्चैत्रापरोक्ष-व्यवहारयोग्यापरोक्षज्ञप्त्यविषयो नावतिष्ठते, चैत्रं प्रत्यप्रकाशमानत्वरहितत्वात्, चैत्रेच्छावत्’ इति सत्प्रतिपक्षत्वम् । स्फुरणप्रयुक्तव्यवहारशालित्वरूपस्य विषयत्वस्य मयाप्यङ्गीकारेण सिद्धसाधनात् । तदन्यस्य स्वस्मिन्वृत्तिविरोधेन बाधात्, जडत्वस्योपाधित्वाच्च, परवेद्यत्वेऽनवस्थानात् स्ववेद्यत्वस्य विरुद्धत्वात् ।
ननु स्वस्मिन्स्ववेद्यत्वं कथं विरुद्धम् ? न तावत्स्वजनकेन्द्रियासन्निकृष्टत्वात्, स्वाजनकत्वाद्वा । नित्य चिद्विषयत्वस्य तद्द्वयं विनैव घटादौ सत्त्वात् । नापि विषयविषयिभावसम्बन्धस्य द्विष्ठत्वात् । अतीतारोपितात्यन्तासतां ज्ञानदर्शनेन तस्योभयानिष्ठत्वात् । नापि क्रियात्वकर्मत्वयोर्विरोधात् । कृत्यादिविशेषस्य कार्यत्वादिदर्शनात् । नापि विषयिणो विषयत्वे कर्तुः कर्मतापातात् । मिथ्यात्वानु-मित्यादेर्विषयिण्या एव विषयत्वदर्शनात् । मामहं जानामीत्यनुभवदर्शनेन च ‘तदात्मानमेवावेत्’ इति श्रुत्या च कर्तुः कर्मत्वाविरोधात् । एवं च परसमवेतक्रियाफलशालित्वं न कर्मत्वं किन्तु क्रिया-विषयत्वादिकम् । तच्चाभेदेऽप्युपपाद्यमिति चेत् । मैवम् । विषयविषयिभावस्य सम्बन्धत्वेन भेदनियत-तया स्वस्मिन्स्ववेद्यत्वस्य विरुद्धत्वात् । न ह्युक्तातीतादिस्थले भेदो नास्ति । अत एव कृतिः कृत्यन्तरं प्रति, इच्छा इच्छान्तरं प्रति, व्यवहृतिर् व्यवहृत्यन्तरं प्रति, अभिधा अभिधान्तरं प्रत्येव विषयः, न तु स्वात्मानं प्रतीति न स्वविषयत्वे किञ्चिदुदाहरणमस्ति ।
ननु गत्यादौ गत्यन्तराविषयत्वेऽपि वस्तूनां विचित्रस्वभावत्वात् कृत्यादौ कृत्यन्तरादिविषयत्व-वदनुभूतेरपि स्वविषयत्वमस्तु । अन्यथा स्वस्मिन् व्यवहारजनकत्वमपि न स्यात् । व्याप्तिज्ञानानु-मित्यादेः स्वाविषयत्वे सर्वोपसंहारवती व्याप्तिरनुमितिमिथ्यात्वं च न स्यादिति चेन्न । व्यवहारोप-पादनार्थं स्वविषयत्वस्वभावकल्पनापेक्षया स्वाविषयत्वेऽपि स्वव्यवहारजनकत्वस्वभावत्वमेव कल्प्यताम् । लाघवात् । तावतैव तदुपपत्तेः । व्याप्त्यनुमित्यादेस्तु अवच्छेदकैक्यलाभा त्तथात्वमित्युक्तत्वाच्च । एवं च क्रियाकर्मत्वविरोधादपि न स्वस्मिन्स्ववेद्यत्वम् । मिथ्यात्वानुमितेश्च न स्वकर्मता । परोक्षस्या-कर्मत्वात् । यदुक्तं कर्तुरेव कर्मत्वं, तदयुक्तम् । उदाहृतमिथ्यात्वानुमित्यादेरकर्मत्वात् । ‘मामहं जानामि’ इत्यादौ साक्षिणः कर्तृत्वादहमर्थस्य कर्मत्वात् ‘तदात्मानम्’ इत्यादौ चाहमर्थस्य कर्तृत्वाच्चित् कर्म अभेदे तद्द्वयादर्शनात् । अत एव न भेदघटितकर्मलक्षणपरित्यागः । क्रियाविषयत्वं तु न कर्मत्वम् । आसनादिक्रियाया अपि आधारादिविषयत्वेन सकर्मकत्वापत्तेः ।
अथ अवेद्यत्वेऽवेद्यत्वसाधकप्रमाणवेद्यत्वावेद्यत्वाभ्यां व्याघातः । वेदान्तानां ब्रह्मणि प्रामाण्यायोगः । ब्रह्मविचार विधिवैयर्थ्यं, ब्रह्माज्ञाननिवृत्त्ययोग इत्यादिप्रतिकूलतर्कपराहतिरिति चेन्न, चिदविषयत्वं फलाव्याप्यत्वं वा अवेद्यत्वम् । तस्य तत्साधकप्रमाणजन्यवृत्तिवेद्यत्वेन व्याहत्यभावाद्, वृत्तिविषयत्व-मात्रेणैव वेदान्तप्रामाण्यविचार विध्यज्ञाननिवृत्तीनां सम्भवाच्च । एतेन अज्ञाननिवर्तकत्वमात्रेण वेदान्तप्रामाण्ये आत्मनोऽसिद्धिप्रसङ्ग इति निरस्तम् । आत्मनः स्वतः सिद्धत्वात् । ननु स्वत इत्यस्य स्वेनैवेत्यर्थे स्वविषयकत्वापत्तिः । प्रमाणं विनेत्यर्थ उपायान्तरस्यानुप न्यासेनासिद्ध्यापत्तिः । अन्यथा नृशृङ्गादेरपि सिद्ध्यापात इति चेन्न, मानानपेक्षसिद्धेरेव स्वतः सिद्धिशब्दार्थत्वात् । न च नृशृङ्गादावेवं प्रसङ्गः । तदसत्त्वव्यावृत्तिफलकप्रमाणाभावात् । प्रकृते च वृत्तिविषयतामात्रेण तत्सत्त्वात् । सिद्धि-रूपात्मनि सिद्ध इति व्यवहारस्य सिद्धिप्रयुक्तव्यवहारविषयतया गौणत्वात् । न चैवं मुक्तौ वेद्याभावे वित्तित्वानुपपत्तिः । अनुभूतिन्यायस्यात्रापि सुलभत्वात् ।
न च स्वाविषयत्वे स्वविषयकसंशयनिवर्तकत्वायोगः । स्वमहिम्नैव स्वधर्मिणि व्यवहारवत् संशयादिविरोधित्वोपपत्तेः । न चाननुगमः । तव विषयतायामिवाननुगतस्यैव नियामकत्वात्स्वकर्मत्वा-भावेऽपि स्वनिर्वाहकतया स्वस्मिन् व्यवहाराद्युपपत्तेश्च । न च स्वनिर्वाहकपदेन निर्वहणक्रिया-कर्तृत्वकर्मत्वोक्त्या विरोधः । स्वातिरिक्तनिर्वाहकानपेक्षत्वमात्रेण स्वनिर्वाहकत्वोपचारात् । ‘स्वयं दासास्तपस्विनः’ इत्यादौ स्वातिरिक्तदासाभावमात्रेण स्वदासत्वव्यपदेशवत् । न च स्वनिर्वाहका-ध्ययनविधिदीपप्रभादौ स्वस्मिन् कार्यकरत्वं स्वविषयत्वेन व्याप्तमित्यत्रापि तथेति वाच्यम् । अध्ययन विधावेकावच्छेदकमात्रेणात्माश्रयानवकाशात् । दीपप्रभादौ स्वविषयत्वासिद्धेः ।
तदुक्तं खण्डने– ‘गाङ्कुटादिभ्यः’ इत्यत्र बहुव्रीहिः स्वाविषये कुटेऽपि स्वकार्यं करोति । तथेहापि’ इति । न च ‘उद्भूतावयवभेदः समुदायः समासार्थः’ इति कैयटोक्तरीत्या कुटघटितसमुदाय एव बहुव्रीहिविषयः । स च वैयाकरणानां मीमांसकानां च शक्त्याऽन्येषां लक्षणयेत्यन्यदेतत् । यथा ‘चैत्रशालीया आनीयन्ताम्’ इत्यत्र उपलक्षणस्यापि चैत्रस्य स्वशालास्थस्य तच्छब्दविषयत्वं, तथा कुटस्यापि कुटादिवदन्यपदार्थभूतसमुदायान्तर्गतस्य बहुव्रीहिविषयत्वोपपत्तेः । तथा च दृष्टान्तासिद्धिरिति वाच्यम् । स्वाविषय इत्यस्य औत्सर्गिकविषयान्यपदार्थभिन्न इत्यर्थकत्वम् । तथा च स्वपदार्थ-सम्बन्धादनन्यत्रेव स्वपदार्थेऽपि यथा तत्र फलम्, तथा स्वसम्बन्धादन्यत्रेव स्वस्मिन्नपि चित्फलमित्यत्र दृष्टान्तपर्यवसानात् । स्वविषयव्यतिरेकेण समुदायप्रयोजकरूपेण विषयत्वेऽपि समुदायिताप्रयोजक-रूपेणाविषयत्वात् स्वाविषयत्वोक्तेर्वा ।
न्यायामृततरङ्गिणी
ननु स्वप्रकाशत्वानुमाने वृत्तिव्याप्यत्वाभाव एव साध्योऽतो नार्थान्तरमत आह– न हीति ॥ तथात्वे चरमवृत्तिव्याप्य आत्मनि बाधः स्यादित्यर्थः ॥ सामान्यतोऽपीति ॥ वेद्यत्वं किञ्चिन्निष्ठेत्यादिविशिष्टसाध्य प्रसिद्धेरकरणात् । ननु स्वप्रकाशत्वानुमानेन फला-व्याप्यत्वरूपविशेषणसिद्धावपि न विशिष्टस्वप्रकाशत्वसिद्धिरत आह– अवेद्यत्वेति ॥ विशेष्यभानान्तर्भावेणैव स्वप्रकाशत्वलक्षणकरणात्तत्सिद्धिः ॥ तत्रैवेति ॥ अत्यन्ताभाव प्रतियोगित्वे तस्यैव केवलान्वयित्वात् ॥ यत इति ॥ यस्मिन्धर्मेऽत्यन्ताभावप्रतियोगित्वं नास्ति तस्य केवलान्वयित्वात्तत्रैव व्यभिचारः । नन्वत्यन्ताभावप्रतियोगित्वस्य मिथ्यात्वेन स्वाश्रयभूतात्यन्ताभावप्रतियोगिनिष्ठात्यन्ता भावप्रतियोगितया यन्निष्ठात्यन्ताभावप्रतियोगित्वम् अत्यन्ताभावप्रतियोगित्वस्य तस्य केवलान्वयित्वं नास्ति । मैवम् । अबाधितात्यन्ताभाव-प्रतियोगित्वं मिथ्यात्वम् । बाधितात्यन्ताभावप्रतियोगित्वस्य सत्त्वेऽपि सम्भवात् । तथा चात्यन्ताभावप्रतियोगित्वस्य यत्राबाधितोऽत्यन्ताभावोऽस्ति तदेव केवलान्वयीति तत्रैव व्यभिचारः ॥ घटादाविति ॥ तथा च घटादिवद् ब्रह्माप्यस्वप्रकाशं स्यात् । स्वप्रकाशत्व-विरोधिव्यावहारिकवेद्यत्ववत्त्वात् । ननु धर्मिसमसत्तं वेद्यत्वं घटादौ स्वप्रकाशत्वविरोधि न त्वात्मन्यनेवंविधं तद्विरोधीति स्यादेवात्मा स्वप्रकाश इत्यत आह– न चेति ॥ धर्मिसमसत्तं फलव्याप्तत्वं घटादौ स्वप्रकाशत्वविरोधिदृष्टम् अतोऽनैवंविधफलव्याप्यत्वेऽप्यात्मा स्वप्रकाशः स्यादेव । तथा चात्मनः फलव्याप्यत्वनिराकरणं व्यर्थम् । वयं तु ब्रूमः । ब्रह्मान्यत्र वेद्ये न वेद्यत्वात्यन्ताभावः सम्भवति । नापि ब्रह्मणि । निर्धर्मकत्वात् । अतः किञ्चि-न्निष्ठात्यन्ताभावप्रतियोगिवेद्यत्वं स्यात् । न चात्यन्ताभाव प्रतियोगीत्येव साध्यम् । तथापि वेद्यत्वाभावसिद्ध्याऽवेद्यत्वासिद्धेः । किञ्चात्यन्ताभावस्य सत्त्वेऽपसिद्धान्तः । मिथ्यात्वे वेद्यत्वस्यात्यन्ताभावाप्रतियोगित्वमेव स्यादिति ॥ अयं घट इति ॥ सत्यन्तं वेद्यत्वविशेषणम् । वेद्यत्वाधिकरणस्यापि घटस्यैतद्धटान्यत्वविशिष्टवेद्यत्वानधिकरणत्वा-त्तदन्यत्वमादाय पटादौ साध्यासिद्धिः । पक्षे तु वेद्यत्वानधिकरणकिञ्चिदन्यत्वमादाय । अत्र वेद्यत्वानधिकरणान्य इति कृते वेद्यत्वानधिकरणाप्रसिद्धिः । अतः सत्यन्तम् ॥ एतद्धटत्वे सतीति ॥ अत्रापि सत्यन्तं वेद्यत्वविशेषणमसिद्धिवारणाय । पटादावव्यभिचाराय । वेद्यस्य घटादेर्घटत्वानधिकरणान्यत्वेन तदनधिकरणत्वाभावात् ।
कश्चित्तु द्वितीयानुमानेऽप्येतद्धटान्यत्वे सतीत्येव पाठः । सोऽपपाठः ॥ अनुभूति-शब्देति ॥ वृत्तिरूपेऽनुभवे । जानामीतीति । न चाहमर्थस्य ज्ञप्त्याश्रयत्वायोगः । तस्य ज्ञप्त्याश्रयत्वोक्तेः ॥ दुःखमिति ॥ न च दुःखं जानामीत्यादावपि दुःखाद्याकाराविद्यावृत्तिरेव विवक्षितेति वाच्यम् । वृत्तिविलम्बे दुःखज्ञानविलम्बः स्यादित्युक्तत्वात् ॥ स्फुरणविषय इति ॥ घटतुल्यतयेति शेषः । तेन स्फुरणप्रयुक्तव्यवहारशालित्वरूपस्य विषयत्वस्य मयाऽप्यङ्गीकारात्सिद्धसाधनमिति निरस्तम् । न च जडत्वमुपाधिः । पक्षेतरत्वात् । आत्मरूपं ज्ञानमात्मविषयं न । आत्माजन्यसाक्षात्कारत्वात् । आत्मसन्निकृष्टेन्द्रियाजन्यत्वात् । सामान्यव्याप्तौ तु घटादिर्दृष्टान्तः । इत्यनुमानयोर्नित्यज्ञानभिन्नत्वमुपाधिमाह– स्वप्रकाशस्येति ॥ अन्यथेति ॥ तद्विषयत्वे तद्विषयजन्यत्वादेः प्रयोजकत्वे साक्षात्कारस्य तद्व्यवहार हेतुत्वं प्रत्यपि तज्जन्यत्वादिकं प्रयोजकं स्यात् । तथा चात्मरूपसाक्षात्कारः स्वव्यवहारमपि न जयेत् ।
कृतिविशेषस्येति ॥ कृतीच्छाव्यवहृतीनां स्वभिन्नकृत्यादिकं प्रति विशेष्यत्वेऽपि कृतिविशेषादीनां स्वविषयत्व मस्ति । तथा हि– सुखहेतुकृत्युद्देशेन देवताराधनादौ प्रवर्तमानस्य देवताराधनगोचरा या कृतिस्तस्या अपि सुख हेतुत्वेन सा स्वविषयिणी भवति । एवं सदिच्छा भूयादितीच्छाया अपि सदिच्छात्वेन यज्ञादीच्छाविषयत्ववत्स्वविषयत्वमस्ति । तथा व्यवहृतिर्व्यवहर्तव्येत्येतच्छब्दजन्यव्यवहारस्यापि व्यवहृतित्वेन व्यवहर्तव्येत्येवंरूप-व्यवहारविषयत्वम् । अभिधापि स्वविषया । न च कृतेरसिद्धविषयत्वात्कथं स्वविषयत्वम् । सत्यम् । असिद्धं विषयीकृत्य जायमाना कृतिरेकावच्छेदकावच्छिन्न त्वात्स्वमपि विषयीकरोतीत्युच्यते । न च कृतेः स्वविषयत्वे स्वजन्यतापत्तिः । न हि स्वविषयत्वमेव स्वजन्यत्वं किन्तु पूर्ववृत्तित्वादिकम् । तच्च नाङ्गीक्रियते । एतेन कृतीच्छाव्यवहृत्यभिधाः कृत्याद्यन्तरं प्रत्येव विषया न तु स्वात्मानं प्रतीति न स्वविषयत्वे किञ्चिदुदाहरणमस्तीति केनचिदुक्तं प्रत्युक्तम् । कृत्यादौ स्वजातीयविषयत्वमित्याद्यग्रिम ग्रन्थस्तु कृतिसामान्यपरः । तुष्यतु दुर्जन इति न्यायेन वेति बोध्यम् ।
क्रियाविषयत्वेति ॥ न चासनादिक्रियाविषय आधारे कर्मत्वप्रसङ्गः । आधारस्या-विषयत्वात् । अन्यथा स्थाल्यादेः पाकविषयत्वापातात् ॥ स्वस्मिन्स्वव्यवहारेति ॥ न च स्वव्यवहारोपपादनार्थं स्वविषयत्वस्वभाव कल्पनापेक्षया स्वाविषयत्वेऽपि स्वव्यवहार-जनकस्वभावत्वमेव कल्प्यतामिति वाच्यम् । घटादौ व्यवहारं प्रति प्रयोजकानां ज्ञानतद्भेद-तद्विषयत्वानां कप्तानां मध्ये आत्मनि प्रमाणबलाद्भेदत्यागेऽपि तद्विषयत्वस्यापि त्यागा-योगात् । अन्यथा ज्ञानस्यापि त्यागापत्तेः । तदिदमुक्तं प्राक् स्फुरणे स्फुरणान्तरं नापेक्षितम् । न तु कप्तं तद्विषयत्वमिति ॥ संशयादिविरोधित्वे चेति ॥ न च स्वत्वेनैव संशयादि-विरोधित्वम् । घटादौ स्वविषयत्वेनात्मनि तु स्वत्वेनैवेत्यननुगमात् । न च विषयत्व-मप्यननुगतम् । तस्यैकत्वाद्विषयतात्वेनानुगमाच्च ॥ स्वाविषयेऽपीति ॥ समस्यमान-पदार्थातिरिक्तोऽन्यपदार्थो बहुव्रीहिविषयः । समस्यमानपदार्थस्तु बहुव्रीह्यविषयस्तस्मिन्नित्यर्थः । कुटेऽपि बहुव्रीहिविषयत्वमस्तीत्याह– बहुव्रीहेरिति ॥ बहुव्रीहेः शक्तिर्वा लक्षणा वेति मतेऽपि कुटस्यापि कुटादिवद् बहुव्रीहिविषयत्वेनेत्याद्यन्वयः ।
ननु तद्गुणसंविज्ञानबहुव्रीहौ तस्यान्यपदार्थस्य ये गुणा अवयवादयस् तेषां कार्ये संविज्ञानम् आनयनादिक्रियान्वयो भवति । गुणान् विना गुणिन आनयनाद्ययोगात् । न च कुटिः पुटादेरवयवादिर्भवति । अतः कथं तस्य बहुव्रीहि विषयत्वमिति शङ्कां कैयटोदाहृतन्यायेन परिहरति– चैत्रेति ॥ तद्गुणसंविज्ञानेत्यत्र गुणशब्देन नावयवादिरेव । अपि तूपलक्षणादि-साधारणं व्यावर्तकमात्रम् । तथा च यथा ‘चैत्रशालास्था ब्राह्मणा आनीयन्ताम्’ इत्युक्ते चैत्रोऽपि यदि ब्राह्मणो भवति स्वशालास्थश्च तदा सोऽप्यानीयत एव । तथा कुटादीन्प्रत्युप-लक्षणस्यापि कुटे पुटादिकार्येऽन्तर्भावः स्यादेव । ननु कुटेः पुटाद्यसम्बन्धात्कथमुपलक्षणत्व-मपीत्यत आह– अन्यपदार्थेति ॥ समुदायेन समुदायिनां सम्बन्धादित्यर्थः । ननु समुदाय-स्यान्यपदार्थत्वे तस्यैकत्वादेकवचनं प्राप्नोतीत्याशङ्कां परिहरति– उक्तं हीति ॥ ‘सर्वादीनि सर्वनामानि’ इत्यत्रेति शेषः । अवयवगतबहुत्वस्यावयविन्यारोपेण बहुवचनमित्यर्थः ।
न्यायामृतकण्टकोद्धारः
एवं स्वप्रकाशत्वलक्षणं दूषयित्वाऽनुमानमपि दूषयितुमनुवदति– यच्चेति ॥ ननु पूर्वानुमाने वृत्तिव्याप्यत्वाभाव एव साध्यम् । अतो नार्थान्तरमित्यत आह– न हीति ॥ चरमवृत्ति-व्याप्यत्वाङ्गीकारेण तदभावसाधनेऽपसिद्धान्त इति भावः ॥ तस्येति ॥ स्वप्रकाशत्वानुमान इत्यर्थः ॥ तस्य सामान्यतोऽपीति ॥ उपलक्षणमेतत् । विशिष्टस्य मद्रीत्या घटादौ सिद्धत्वेनासाधारण्या-परिहारोऽपीति द्रष्टव्यम् ॥ उक्तन्यायेनेति ॥ अज्ञानत्वादिरूपेणेत्याद्युक्त न्यायेनेत्यर्थः ॥ उक्तरीत्येति ॥ दृश्यत्वभङ्गोक्तरीत्येत्यर्थः । न च चिदविषयत्वमेव स्वप्रकाशत्वम् । धर्म-त्वानुमाने चिदविषयत्वमेव पक्षः । घटादावापरोक्ष्यार्थं चिद्विषयत्वमावश्यकम् । ब्रह्मणोऽपरोक्षा-कारसत्त्वेन चिद्विषयत्वस्यानावश्यकत्वान्न बाध इति वाच्यम् । घटादावपि वृत्तिगतेनेन्द्रिय-जन्यत्वविशेषेणापरोक्ष्योपपत्तौ चिद्विषयत्वानावश्यकत्वात् । अभेदेऽपि विषयत्वस्योपपादितत्वाच्च । तथा चासाधारण्यं बाधो वा दुष्परिहरः । एतेन साध्यप्रसिद्ध्यर्थम् अनुमानं निरस्तम् । चिदविषयत्वस्य घटादौ समत्वेनाप्रसिद्ध्यभावात् ।
प्रतियोगीति ॥ आश्रयासिद्धेरित्यापाततः । वस्तुतोऽवेद्यत्वस्य विवक्षितस्यापरोक्षव्यवहार-योग्यत्वस्य च घटादौ सत्त्वेनासाधारण्यं दुष्परिहरमिति द्रष्टव्यम् ॥ सर्वत्रैवमिति ॥ तथा च कुत्रापि साध्यप्रसिद्धिर्दूषणं न स्यादिति भावः ॥ किञ्चेति ॥ केवलान्वयित्वाङ्गीकारे व्यभिचारदानं नैयायिकमताङ्गीकारेण द्रष्टव्यम् । स्वमते तु क्वचित्सतोऽत्यन्ताभावप्रतियोगित्वमेव न । अप्रामाणिकस्यैव तत्प्रतियोगित्वमित्याशयेन द्रष्टव्यम् । न चात्यन्ताभाव प्रतियोगित्वादिकमपि मिथ्यात्वादत्यन्ताभावप्रतियोग्येवेति वाच्यम् । तदसिद्धेः प्रागेवोपपादितत्वात् । अन्यतरा-नैकान्तिकत्वा परिहाराच्च ॥ अपि चेति ॥ ननु चिद्विषयत्वविरोध्यत्यन्ताभाव प्रतियोगित्वरूपत्वं विवक्षितम् । घटादौ च न तयोर्विरोधित्वं मिथ्यात्वं प्रमाणेन तयोः सहावस्थानावगमात् । ब्रह्मणि च विरोध एव । न च विरोधित्वांशमादाय पुनरप्यप्रसिद्धिरेवेति वाच्यम् । वेद्यत्वं विरोध्यत्यन्ताभावप्रतियोगि अत्यन्ताभावप्रतियोगित्वाद् घटवदिति प्रसिद्धि सम्भवादिति चेन्न । प्रतियोगिसत्त्वसहिष्णोस्तदत्यन्ताभावत्वायोगादित्युक्तत्वात् । घटादावपि वेद्यत्वस्यात्यन्ताभाव प्रतियोगित्वेन विरोध्यत्यन्ताभावप्रतियोगित्वसाधनसौलभ्याच्च ।
न च मिथ्यात्वप्रमाणेन सहावस्थनप्रतीतेर्विरोधसाधने बाध इति वाच्यम् । मिथ्यात्वप्रमाणानां निरस्तत्वात् । ब्रह्मण्यपि वेद्यत्वस्य मिथ्यात्वेन विरोध्यभावप्रतियोगित्वसाधने बाधाच्च । एतेन पूर्वानुमाने अवेद्यत्वे सत्यपरोक्षव्यवहार योग्यत्वं स्वप्रकाशत्वं साध्यम् । न च विशिष्टस्याप्रसिद्धिः । फलव्याप्यत्वम् अपरोक्षव्यवहारयोग्यकिञ्चिन्निष्ठात्यन्ताभाव प्रतियोगीति साध्यम् । एवञ्चानुमितेः पक्षतावच्छेदकसाध्यसामानाधिकरण्य विषयत्वनियमेन विशिष्टस्य सामान्यतः प्रसिद्धिरिति निरस्तम् । विशिष्टस्यापि दृश्यत्वभङ्गोक्तरीत्या घटादौ निश्चितत्वेनासाधारणानैकान्त्यापरिहारात् । ब्रह्मण्यपि फलव्याप्यत्वस्य समर्थितत्वेन तदभावसाधने बाधाच्च । फलसद्भावे प्रमाणाभावेन साध्यप्रसिद्धिसाधकानुमाने आश्रयासिद्धेश्चेति दिक् ॥ अत एवेति ॥ अनेनानुमानेन एतद्धटान्यत्वे सति यद्वेद्यत्वं तद्विशिष्टं घटातिरिक्तं सर्वं तदधिकरणं पक्ष एव । तदन्यत्वं पक्षातिरिक्तं पटादौ प्रसिद्धम् । पक्षे च न पक्षातिरिक्तत्वेन साध्यपर्यवासानं, बाधात् । अतः पक्षातिरिक्तं विशिष्टानधिकरणमादाय तदन्यत्वपर्यवसानम् । विशिष्टानधिकरणत्वञ्च न विशेषणाभावमादाय । ततः पुनः पक्षात्मकत्वापत्या बाधात् । विशेष्याभावमादायैव सिद्ध्यतीति युक्ता वेद्यत्व-प्रसिद्धिरित्यर्थः ।
वेद्यत्वानिरुक्तेरिति ॥ न च तद्विषयत्वमेव वेद्यत्वमिति वाच्यम् । पूर्वोक्तरीत्या पटादावपि चिद्विषयत्वाभावेन तदन्यत्वे साध्यपर्यवसानेनार्थान्तरत्वात् । ब्रह्मण्यपि चिद्विषयत्वस्योपपादितत्वेन तदभावसिद्ध्ययोगाच्च ॥ अयं घट इति ॥ अत्र ‘एतद्धटत्वे सति’ इति वेद्यत्वानधिकरणान्यत्वस्य विशेषणम् । एवञ्च सपक्षे घटान्तरादौ विशेषणाभावाद्विशिष्टाभावः । पक्षे च वेद्यत्वानधि-करणान्यत्वाभावमादायेति प्रकरणसमतेत्यर्थः । न चैवं विशिष्टा प्रसिद्धिः । पररीत्या घट एव प्रसिद्धिसम्भवात् । यद्वा एतद्धटत्वे सतीति वेद्यत्वस्यैव विशेषणम् । तदनधिकरणञ्च पटादिकं पराभिमतं च । तत्र च पटादौ तदन्यत्वानधिकरणत्वं सिद्धमेव । पक्षे च न विशिष्टानधि-करणपटान्यत्वाभावमादाय साध्यसिद्धिः । पटाद्यन्यत्वस्य प्रत्यक्षसिद्धत्वेन बाधात् । तथा च पराभिमतान्यत्वाभावमादायैवेति भवति प्रकरणसमतेत्यर्थः । न च स्थापनायाः श्रुत्याद्यनुकूलतर्कसाहित्येन बलवत्त्वं तदभावस्यानुपदमेव वक्ष्यमाणत्वात् । उपसंहरति– तस्मादिति ॥
अत्र कश्चित् । आत्मा स्वप्रकाश आत्मत्वात्, प्रमाणं स्वधर्मविषयो न भवतीति साध्यम् । इच्छादिश्चान्तः करणधर्म एव । अत्रात्मेति अन्तःकरणातिरिक्तोऽहमिति व्यवहारविषय उच्यते । अतो न बाधो न वाऽऽश्रयासिद्धिः । न चात्मत्वमसिद्धम् । घटादौ घटत्वादेरिव कल्पितस्यात्मनि सम्भवात् । न च साध्याप्रसिद्धिः । व्याप्तिप्रतीत्यर्थं साध्यप्रसिद्धिर्मृग्यते । प्रकृते च साध्यस्याभावरूपत्वेन तदभावस्य भावरूपत्वाद् भावज्ञानेऽभावज्ञानस्याकारणत्वाद् व्यतिरेकव्याप्तिसम्भवात् । पक्षता च सिद्ध्यभावरूपा न साध्यसिद्धिम् अपेक्षते । विशेषणज्ञानञ्च न विशिष्टज्ञानकारणम् । अतो न साध्याप्रसिद्धिर्दूषणमित्याह । तन्न । अत्र स्वप्रकाशत्वं चिदविषयत्वं चेद् घटादावसाधारणानैकान्तिकता । द्वितीयसाध्ये तु घटादौ स्वधर्मविषयत्वाभावात् स्पष्टैव । साध्यघटादौ चिद्रूपज्ञानाभावस्य साधितत्वात् । न चानुकूलतर्कसद्भावान्नासाधारण्यं दोष इति वाच्यम् । तदभावस्य वक्ष्यमाणत्वात् । वृत्त्यव्याप्यत्वं चेद्बाधः । ब्रह्मणो वृत्तिव्याप्यत्वस्य श्रुत्यादिसिद्धत्वात् ।
किञ्चात्मत्वं जातिरुपाधिर्वार्थादकल्पितं हेतूक्रियते तदा शरीरादावनैकान्तिकता । यदि वास्तवं तदाऽसिद्धिः । अपि च पक्षः किमात्मशब्दवाच्योऽथ तल्लक्ष्योऽथवाऽहमिति व्यवहारविषयः । नाद्यः । तस्य परेण स्वप्रकाशत्वानङ्गीकारेण परस्यापसिद्धान्तात् । न द्वितीयः । आत्मशब्दलक्ष्यस्य परमचैतन्यस्यासिद्धेः । न तृतीयः । अहमिति व्यवहारस्य विशिष्टव्यवहारत्वेन तद्विषयविशेषण-सम्बन्धांशे बाधापत्तेः । न चाहमिति व्यवहारविशेष्यः पक्ष इति वाच्यम् । त्वन्मतेऽहङ्कारस्यापि तद्विशेष्यत्वात् । न चान्तःकरणातिरिक्तत्वे सतीति विशेषणीयम् । परमते व्यर्थविशेषणत्वात् । न चोपरञ्जकं विशेषणं प्रयोजनाभावे उपरञ्जकत्वस्यातिप्रसञ्जकत्वात् । किञ्च साध्यद्वये सिद्ध-साधनम् । आत्मनो वृत्तिव्याप्यत्वाभ्युपगमेन भवदभिमतचिद्विषयत्वानङ्गीकारात् । इच्छादि-वज्ज्ञानस्याप्यन्तःकरणवृत्तित्वाभ्युपगमाच्च । अपि च साध्याभावस्य भावरूपत्वेऽपि अप्रयोजकत्व-परिहारार्थं साध्याभावत्वेनोपस्थिते व्याप्तिर्ग्राह्या । तथा च साध्यप्रसिद्ध्यभावे कथं सा स्यादिति । अन्यच्च सर्वं दूषणमनुभूतित्वानुमानवद्द्रष्टव्यमिति दिक् ।
प्रतिज्ञां दूषयित्वा हेतुं दूषयति– त्वदभिमतमिति ॥ न च कल्पितभेदे शुद्धे अनुभूतित्वं जातिरस्त्येवेति वाच्यम् । कल्पितभेदविशिष्टस्य मिथ्यात्वेन प्रकाशत्वसाधने बाधात् ॥ जातेरिति ॥ न च गौरवम् । प्रामाणिकत्वात् । यथा चैतत्तथाऽखण्डार्थत्वभङ्ग एवोक्तम् ॥ अनुभाव्याद्यभाव इति ॥ न च कदाचिदनुभाव्यसत्वेनानुभूतित्वम् । अन्यथाऽतीतज्ञानादेरनुभूतित्वं न स्यादिति वाच्यम् । अनुभाव्याद्यभावपदेन अनुभाव्यविषयीकरणाभावस्य विवक्षितत्वात् । अतीतादिज्ञानादेश्च यावत्सर्वविषयीकरणसत्त्वात् । चिद्रूपानुभूतेश्च तदभावात् । अन्यथा मुक्तावपि संसारोल्लेखे मुक्तेः संसारतुल्यत्वं स्यादिति ॥ विपक्षादिति ॥ न च वृत्तेरनुभूतिशब्दवाच्यत्वमेव नेति वाच्यम् । चैतन्यस्यापि निर्विशेषत्वेन तद्वात्वाभावे मुख्यार्थशून्यस्य लक्षणाया अदृष्टशक्यलक्ष्यरूपार्थाभावेन प्रातिपदिकत्वाभावपदत्वा भावापत्तेः । न च चित्त्वरूपमनुभूतित्वं विवक्षितम् । अतो न व्यभिचार इति वाच्यम् । तस्यापि कल्पितस्य देहादौ सत्त्वाद कल्पितस्यात्मन्यप्यभावादप्रयोजकत्वमिति । न च श्रुत्यनुग्रहादप्रयोजकत्वपरिहारः । श्रुत्यननुग्रहस्याग्रे वक्ष्यमाणत्वात् ।
जानामीतीति ॥ न चाहमर्थस्य ज्ञप्त्याश्रयत्वायोगेन ज्ञानपदं तत्र गौणमिति वाच्यम् । विज्ञानमिति प्रतीत्या बाधकाभावेन ज्ञप्त्याश्रयत्वस्यावश्यकत्वात् । अन्यथा घटं साक्षात्करोमीति प्रतीत्या घटादेरपि चिद्विषयत्वं न सिद्ध्येदिति घटादेरपि स्वप्रकाशत्वापत्तेः ॥ दुःखमिति ॥ न च तत्रापि दुःखाद्यकाराविद्यावृत्तिरेव विवक्षितेति वाच्यम् । तथात्वे दुःखादेरपि चिद्विषयत्वे प्रमाणाभावेन स्वप्रकाशत्वापत्तेः, दुःखादेः प्रातिभासिकत्वेन तदाकाराविद्या वृत्त्ययोगाच्च । न चाविद्यावृत्तौ पूर्वसत्त्वं नापेक्षितमिति वाच्यम् । तदसत्त्वे तदाकारवृत्त्यनुपपत्तेः । न च श्रुतिर् वृत्ति व्याप्यत्वमेव विषयीकरोति न फलव्याप्यत्वमिति वाच्यम् । श्रुतौ ‘तदात्मानमेवावेत्’ इत्यत्र ब्रह्मणः कर्तृत्वोक्त्या वृत्तिरूपज्ञानायोगेन चिद्विषयत्वविषयीकरणस्यावश्यकत्वात् । सत्प्रतिपक्षानाह– अनुभूतिरित्यादिना ॥ न चात्र विषयत्वं नाम तज्जन्यव्यवहारविषयत्वं चेत् साध्यते तस्य मयाऽप्यङ्गीकारेण सिद्धसाधनतेति वाच्यम् । मयाप्येतदन्य विषयत्वस्य घटादावप्यनङ्गीकारेण त्वया पारिभाषिकविषयत्वाभावसाधने मया सिद्धसाधनस्य वक्तुं शक्यत्वाद् व्यवहारं प्रति यदेव विषयत्वं त्वया स्वीक्रियते तस्यैव स्फुरणं प्रति साधनाच्च । व्यवहाराननुसन्धानेऽपि ज्ञानविषयत्व व्यवहाराच्च । अभेदेऽपि सम्बन्धविशेषस्योपपादितत्वाच्च ।
न च जडत्वमुपाधिः । लाघवेन स्फुरणविषयत्वे वस्तुत्व स्यैव तन्त्रत्वेन जडत्वस्या-प्रयोजकत्वेनानुपाधित्वात् । अन्यथा बाह्यप्रपञ्चत्वस्यैव तन्त्रत्वे सुखादेरपि स्फुरणविषयत्वानापत्तेः ॥ त्वन्मत इति ॥ अहमर्थस्य संशयाद्यविषयत्वं प्रतीयते । शुद्धचैतन्यस्य च विचारविषयता-सिद्ध्यर्थं सन्देहादेरावश्यकत्वात् । तथा चान्यनिष्ठेन सन्देहाद्यभावेनान्यस्य परवेद्यत्वाभाव-साधनेऽतिप्रसङ्ग इति भावः । किञ्च स्ववेद्यत्वेनैवोपपत्याऽप्रयोजकत्वम् । न च स्ववेद्यत्वं विरुद्धं, विरोधप्रयोजकाभावादित्याह– किञ्चेति ॥ अत्र सर्वत्र पञ्चम्यन्तानां हेतूनां स्ववेद्यत्वं विरुद्धमित्यनुवृत्तेरनेनान्वयः ॥ स्वप्रकाशस्येति ॥ ज्ञानं विषयजन्यमिति व्याप्तेरभावाज्ज्ञानं प्रति विषयस्य कुत्राप्यजनकत्वात् । यथा चैतत्तथाऽन्यत्र प्रपञ्चितम् । द्वितीयनियमस्तु जन्यज्ञानविषयत्वेन सङ्कोचनीयः । अन्यथाऽतिप्रसङ्गादिति भावः ॥ अन्यथेति ॥ स्वजन-केन्द्रियसन्निकृष्टस्यैव विषयत्वमिति नियमाङ्गीकारे इत्यर्थः । स्वकरणसन्निकर्षजन्यत्वमादिशब्दार्थः ॥ न तृतीय इति ॥
ननु विषयविषयिभावस्य भेदनियतत्वेन कथमभेदे समतीतादौ च विषयविषयिभेदोऽस्त्येवेति वाच्यम् । तस्य भेदनियतत्वासिद्धेः । अन्यथा मिथ्यात्वानुमितेर् अज्ञानस्य च स्वविषयत्वं न स्यात् । न च स्वपरसाधारणावच्छेदके सति स्वविषयत्वं, मिथ्यात्वानुमितौ च तदस्ति । प्रकृते च तन्नेति वाच्यम् । प्रकृतेऽपि तज्जन्यव्यवहारविषयत्वस्य स्वपरसाधारणस्य सम्भवात् । स्वविषयत्वेऽनुभवस्यैव तन्त्रत्वेनावच्छेदकैक्यस्याप्रयोजकत्वाच्च । न च व्यवहारोपपादनार्थं तद्विषयत्वस्वभावकल्पनापेक्षया तद्व्यवहारजनकत्वस्वभाव एव कल्पनीयो लाघवादिति वाच्यम् । तद्व्यवहारे तद्विषयत्वस्य प्रयोजकत्वेन कप्ततया गौरवस्य प्रामाणिकत्वादिति भावः ॥ कृति-विशेषस्येति ॥ न च क्रियाया एव कर्मत्वं विरुद्धम् । अनुभवेनैव विरोधपरिहारात् ॥ अज्ञस्यैवेति ॥ अज्ञानाश्रयत्वेन कर्तृत्वस्य तद्विषयत्वेन कर्मत्वस्यैकत्रैवोप लम्भादित्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् ॥ मामहमिति ॥ न च साक्षिणः कर्तृत्वेऽहङ्कारस्य कर्मत्वमिति वाच्यम् । उभयत्रास्मच्छब्दप्रयोगे द्वैविध्यस्याप्रामाणिकत्वात् । केवलाहङ्कारे केवलचैतन्ये वाऽस्मच्छब्दा-प्रयोगाच्च । तदात्मानमिति ॥ न च श्रुतावहमर्थस्य कर्तृत्वमिति वाच्यम् । तच्छब्देन परामृष्ट-स्याहमर्थत्वात् कर्तुरेव कर्मत्वमिति भावः ॥ क्रियाविषयत्वादिरूपस्येति ॥ न चैवमासनादि क्रियाया अपि आधारादिविषयत्वेन कर्मत्वापत्तिरिति वाच्यम् । आधारे विषयत्वाननुभवेन तत्र विषयत्वाभावात् । अन्यथा परकीयलक्षणस्यापि तत्र सम्भवेन विषयत्वापातात् ॥ अन्यथेति ॥ गत्यादौ स्वविषयत्वादर्शनेन अनुभूतेरपि स्वविषयत्वकल्पने इत्यर्थः । ननु व्याप्तिज्ञानादेः स्वविषयत्वानङ्गीकाराद् दृष्टान्तासिद्धिरित्यत आह– व्याप्तिज्ञानेति ॥ ननु यथा चितश्चिद विषयत्वेऽपि तद्व्यवहारस्तथा व्याप्तिज्ञानादेः स्वविषयत्वाभावेऽपि मिथ्यात्वादिसिद्धिः स्यादित्यत आह– न हीति ॥ व्याप्तिज्ञानादेरिति ॥ दृश्यत्वप्रमेयत्वाद्यवच्छिन्नत्वादित्यर्थः । तथा च मिथ्यात्वानुमित्यादेः स्वविषयत्वमावश्यकमिति भावः । कर्तुरेव कर्मत्वे कथितां युक्तिं सङ्गृह्णाति– एवञ्चेति ॥ इति प्रत्यक्षेणेत्यादिक्रमेणान्वयः । ननु गमनादावपि कर्तृकर्मणोरभेदः स्यादित्या-शङ्कायामाह– गमनादौ त्विति ॥ प्रत्यक्षाद्यभावान्न तत्र कर्तृकर्मणोरभेद इत्यर्थः ।
ननु गमनादिदृष्टान्तेन सर्वत्र कर्मकर्तृभेद एव किं न स्यादित्यत आह– अन्यथेति ॥ सर्वत्र कर्मकर्तृभेदाङ्गीकारे इत्यर्थः । तथा च स्ववेद्यत्वेनैवोपपन्नत्वादनुभूतित्वम् अप्रयोजकमिति भावः ॥ अवेद्यत्व इति ॥ वृत्त्यविषयत्व इत्यर्थः । न च स्वप्रकाशत्वानुमाने चिद्विषयत्वं फलाव्याप्यत्वं वा सिषाधयिषितम् । तथा च तत्र बाधकानुक्तेर्व्यधिकरणतेति वाच्यम् । तादृशावेद्यत्वरूपस्वप्रकाशत्वस्य घटादिसाधारणताया दृश्यत्वभङ्ग उक्तत्वेन वृत्त्यविषयत्वरूप-मेवावेद्यत्वं स्वप्रकाशत्वानुमाने साध्यं सिद्धवत्कृत्य प्रतिकूलतर्काभिधानादिति भावः ॥ ब्रह्मेति ॥ विचारविधिना हि विचारो विहितः । विचारस्य च फलं ब्रह्मविषयकवृत्तिरेवेति तदभावो(वे) तदुद्देशेन विचारविधिवैयर्थ्यमिति भावः ॥ ब्रह्माज्ञानेति ॥ तद्विषयकज्ञानस्यैव तदज्ञान-निवर्तकत्वादिति भावः । एतेन तदज्ञाननिवर्तकत्वायोगेनेत्यर्थः । प्रतिकूलतर्कान्तरमाह– आत्मन इति ॥ तत्र प्रमाणाभावादिति भावः ॥ स्वविषयत्वेति ॥ तच्च परेणाङ्गीक्रियते । कर्तृकर्म-विरोधादिति भावः ।
ज्ञातत्वातिरेकेणेति ॥ ज्ञानाभावे व्यवहारादर्शनेन ज्ञानत्वस्यैव व्यवहारयोग्यतावच्छेदकत्वा-दिति भावः ॥ मुक्ताविति ॥ मुक्तौ स्वरूपमात्रेणावस्थानाभ्युपगमेन स्वरूपस्य च निर्धर्मकत्वेन योग्यतारूपधर्माभावो द्रष्टव्यः ॥ अन्यथेति ॥ सिद्ध्युपायाभावेऽपि सिद्ध्यङ्गीकारे इत्यर्थः । ननु दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यम् । नृशृङ्गादेरसत्त्वव्यावृत्ति फलकप्रमाणाभावात् प्रकृते तत्फलकवृत्तिसत्त्वादिति शङ्कते– नन्विति ॥ एतादृशेति ॥ तथा च घटादिसाधारण्य परिहारार्थं वृत्त्यविषयत्वमेवावेद्यत्वं स्वीकर्तव्यम् । तथा च नृशृङ्गतुल्यतैवेति भावः । किञ्चास्त्ववेद्यत्वं फलाव्याप्यत्वं तदप्यात्मनोऽङ्गीकर्तव्यम् । आत्मनो ज्ञानरूपत्वात् । अन्यथा तस्य ज्ञानरूपत्वमेव न स्यादित्याह– किञ्चेति ॥ ननु स्ववेद्यत्वाभावेऽपि वृत्तित्वमस्तु । विपक्षे बाधका-भावेनाप्रयोजकत्वादित्यत आह– भुक्तेरिति ॥ ननु परविषयत्वेनैव वृत्तित्वं वृत्तिमदित्यत आह– मुक्ताविति ॥ ननु पराभावेऽपि तद्विषयत्वं स्यात् । न हि विद्यमानस्यैव विषयत्वम् । अतीतादिविषयकानुमितिदर्शनादित्यत आह– उक्तं चैतदिति ॥ तथा च मुक्तौ दुःखाद्युपप्लवोल्लेख-रूपानर्थापत्यादेरुक्त त्वादिति भावः ।
ननु स्वविषयत्वाभावेऽपि तत्संशयादिनिवर्तकत्वमस्तु । विपक्षे बाधकाभावेना-प्रयोजकत्वादित्यत आह– वित्तेरिति ॥ न च तदिवषयत्वाभावेऽपि स्वमहिम्नैव संशयादि-निवर्तकत्वमस्त्विति वाच्यम् । कप्ततद्विषयत्व परित्यागेन महिमकल्पने गौरवात् । व्यवहारेऽनेक-नियामककल्पने गौरवाच्च । न च तव विषयतायामिव व्यवहारेऽननुगतस्यैव नियामकत्वमस्त्विति वाच्यम् । विषयतायां वस्तुत्वस्यैव प्रयोजकत्वेनाननुगमाभावात् । न च ब्रह्मरूपं ज्ञानं संशयाद्यविरोध्येव । वृत्तेरेव तद्विरोधित्वाङ्गीकारादिति वाच्यम् । संशयादिविरोधित्वानङ्गीकारे ज्ञानत्वानुपपत्तेः । न च निर्विकल्पकज्ञानत्वोपपत्तिरिति वाच्यम् । तस्याप्रामाणिकत्वे-नानभ्युपगमात् । न च धर्मिज्ञानवदुपपत्तिरिति वाच्यम् । तस्यापि धर्म्यंशे संशयादिविरोधित्वादेः सत्त्वात् । तथा च संशयादिविरोधित्वाभावे ज्ञानत्वमनुपपन्नमिति ॥ स्वनिर्वाहकशब्देनैवेति ॥ न च स्वातिरिक्तनिर्वाहकानपेक्षत्वमात्रे स्वनिर्वाहकशब्द औपचारिकः । स्वयंदासा इत्यादिवदिति वाच्यम् । तथात्वेऽसत्यपि स्वनिर्वाहकशब्दप्रयोगापत्तेः । असतोऽप्यतिरिक्तनिर्वाहकानपेक्षत्वात् । स्वयंदासा इत्यादौ तु दासत्वप्रयोजकस्वीकरण एव तथा प्रयोगात् ।
स्वनिर्वाहकमिति ॥ न चाध्ययनविधौ स्वपरसाधारणस्वाध्यायत्वरूपावच्छेदकसम्भवेनात्मा-श्रयानवकाशात् स्वविषयत्वम् । प्रकृते च तदभावेन न स्वविषयत्वमिति वाच्यम् । प्रकृतेऽप्यात्म-रूपज्ञानस्य स्वपरविषयत्वाङ्गीकारेण योग्यवस्तुत्वादेरेवावच्छेदकत्वसम्भवात् । योग्यतायाश्च फलबलकल्प्यत्वात् । स्वविषयत्वे कर्तृकर्मत्वादिविरोधस्य परिहृतत्वाच्च । न च दीपादौ स्वविषयत्वमसिद्धमिति वाच्यम् । तद्विषयतमोविरोधित्वादिना तद्विषयत्वस्यावश्यकत्वात् । अन्यथा घटादेरपि दीपादिविषयत्वं न स्यादिति । अत एव खण्डनमप्यपास्तमित्याह– एतेनेति ॥ न च स्वाविषय इत्यस्यौत्सर्गिकविषयान्यपदार्थकत्वम् अर्थः । तथा च स्वार्थसम्बन्धादन्यत्र वा स्वस्मिन् फलमिति वा समुदायताप्रयोजकरूपेण विषयत्वेऽपि समुदायिताप्रयोजक रूपेणाविषयत्वमिति वा स्वाविषय इत्यस्यार्थ इति वाच्यम् । एतावता यथाकथञ्चिदविषयत्वेऽपि सर्वथा विषयत्वाभावेन स्वविषय एव कार्यकारीत्यस्य व्यभिचाराभावात् । अन्यथा घटज्ञानमपि स्वविषये कार्यकारीति स्यात् । यथा कथञ्चिदविषयत्वस्य तत्रापि सम्भवात् ॥
न्यायामृतप्रकाशः
वेद्यत्वमिति ॥ पक्षीभूतं वेद्यत्वमित्यर्थः ॥ अर्थान्तरत्वादिति ॥ अनुभूतिः स्वप्रकाशेत्यत्रा-प्रसिद्धिवारणाय हीदमनुमानं प्रवृत्तम् । अत्र सामान्यतः वृत्तिव्याप्यत्वं किञ्चिदवेद्यत्वं वस्तुसिद्धम् । न हि अनुभूतित्वादिति पूर्वानुमाने वृत्त्यव्याप्यत्वरूपं यदवेद्यत्वं तद्रूपं यत्स्वप्रकाशत्वं तत्साध्यम् । येन तेनानुमानेन तस्य सामान्यप्रसिद्ध्युक्तिः सम्मता स्यात् । तथात्वेऽनुभूतिपदोक्तस्य ब्रह्मणोऽपि वेदान्तजन्यचरमवृत्तिविषयत्वेन वृत्तिव्याप्यत्वात्तदव्याप्यत्व रूपावेद्यत्वसाधने बाधः स्यादिति भावः ॥ तस्येति ॥ फलव्याप्यत्वस्य किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वसाधने फलाव्याप्यत्वरूपस्वत्व-प्रकाशत्वसिद्ध्या पूर्वानुमानेऽप्रसिद्धविशेषणत्वाभावेऽप्यसाधारण्यं स्यात् । उक्तरीत्या फलस्याधिष्ठान चैतन्यरूपस्याप्रामाणिकत्वस्योक्तत्वेन, अपरोक्षे घटादावभावेन फलाव्याप्यत्वसद्भावात् त्वत्पक्षे शुक्तिरूप्यादौ प्रातिभासिकेऽन्तःकरणवृत्तिप्रतिबिम्बितचैतन्याभिव्यक्ताधिष्ठानचैतन्यरूपफलाभावेन फलाव्याप्यत्वसद्भावात् त्वन्मते धर्मादौ परोक्षे फलाभावेन तदव्याप्यत्वसद्भावेन तस्मिन्सपक्षेऽनुभूतित्व-हेतोरवर्तमानत्वादसाधारण्यमित्यर्थः ।
व्यक्तिविशेष इति ॥ तथा च न तत्र सामान्यप्रसिद्ध्यपेक्षेत्यर्थः । नन्ववेद्यत्वे सत्यपरोक्ष-व्यवहारविषयत्वस्य विशिष्टस्य पूर्वानुमाने साध्यत्वात् । तच्च न व्यक्तिविशेषे सिद्धम् । घटादौ रूप्यादौ च विशेषणाभावाद् धर्मादौ विशेष्याभावात् । अतो नासाधारण्यमित्याशङङ्क्य निराकरोति– न चेति ॥ तर्ह्यप्रसिद्धविशेषणत्वं स्यादेव । सामान्यतोऽप्रसिद्धावपि विशिष्टाप्रसिद्धेरनुगतत्वादित्याह– तस्येति ॥ ननु नाप्रसिद्धविशेषणत्वम् । फलाव्याप्यत्व रूपावेद्यत्वाख्यस्वप्रकाशत्वस्यैव साध्यत्वेन तस्य सामान्यतः प्रसिद्धत्वात् । न च घटादौ मद्रीत्या, त्वद्रीया रूप्यादौ व्यक्तिविशेषे तस्य सिद्धत्वेनासाधारण्यमिति वाच्यम् । किञ्चित्प्रत्यपि फलाव्याप्यत्वरूपावेद्यत्वस्यैव साध्यत्वान् मन्मते घटादौ तदभावात् । धर्मादेश्च योगिनं प्रति फलव्याप्यत्वेन फलाव्याप्यत्वाभावात् । शुक्तिरूप्यादे-रप्यविद्यावृत्तिप्रति फलितचिद्वेद्यत्वेन फलव्याप्यतया फलाव्याप्यत्वाभावात् ।
नन्वविद्यावृत्तिप्रतिबिम्बितचैतन्यस्य कथं फलत्वम् । अधिष्ठानचैतन्यस्यैव फलत्वादिति चेन्न । फलं नाम साध्यं कार्यमिति यावत् । यथोक्तं तर्कभाषायां प्रमैव फलं साध्यमित्यर्थ इति । एवं च वृत्तिप्रतिबिम्बितचैतन्यस्यापि जन्यत्वेन साध्यत्वात्फलत्वेन रूप्यादौ तद्व्याप्यत्वसद्भावान्नासाधारण्य-मित्याशङ्क्य निराकरोति– न चेति ॥ ननु स्वप्रकाशत्वानुमाने फलाव्याप्यत्वरूपविशेषणसिद्धावपि न विशिष्टस्वप्रकाशत्वसिद्धिरित्यत आह– अवेद्यत्वेति ॥ विशेष्यभागानन्तर्भावेनैव स्वप्रकाशत्व-लक्षणकरणान्नासिद्धिरिति भावः ॥ उक्तन्यायेनेति ॥ ब्रह्मणोऽपि स्वाकारवृत्तिप्रतिबिम्बितचिद्रूपफल-व्याप्यत्वेन तदभावरूपस्वप्रकाशत्वसाधने बाधादित्यर्थः । तृतीयपक्षे धर्मत्वानुमाने चिद्विषयत्व-रूपवेद्यत्वस्य पक्षत्वे पूर्वत्र चिदविषयत्वरूपावेद्यत्वाख्यस्वप्रकाशत्वं साध्यं स्यात् । तत्र पृच्छामः किं वृत्तिप्रतिफलितचिदविषयत्वं विवक्षितम् उत शुद्धचिदविषयत्वं वा । आद्ये बाध इत्याह– उक्तरीत्येति ॥ स्वाकारवृत्तिप्रतिफलितेत्यर्थः । न द्वितीयः । घटादावसाधारण्यादित्याह– शुद्धेति ॥ प्रतियोगीति ॥ धर्मत्वानुमानेऽस्वप्रकाश त्वस्य पक्षत्वे स्वप्रकाशत्वरूपप्रतियोगिन एवाप्रसिद्ध्याऽस्वप्रकाशत्वस्यापि ज्ञातुमशक्यत्वेनाश्रयाज्ञानासिद्धेरित्यर्थः ।
किञ्च यदि स्वप्रकाशत्वरूपसाध्याभावरूपम् अस्वप्रकाशत्वं पक्षीकृत्य पूर्वानुमानसाध्यस्य स्वप्रकाशत्वस्य प्रसिद्धिरुच्यते तर्ह्यप्रसिद्धविशेषणमात्रोच्छेदरूपातिप्रसङ्गः स्यात् । ‘भूः शशविषाणो-ल्लिखिता भूत्वात्’ इत्यत्रापि ‘अशशविषाणोल्लिखितत्वं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगि धर्मत्वात्’ इत्येवं पूर्वानुमानसाध्याभावं पक्षीकृत्य साधयितुं शक्यत्वेन शशविषाणोल्लिखितत्वप्रसिद्धेरपि सामान्यतो वक्तुं शक्यत्वादित्याह– सर्वत्रेति ॥ अनिर्वाच्यत्वभङ्ग इति ॥ शब्दप्रतिपाद्यत्वरूपे धर्मे केवला-न्वयिनि किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वरूपसाध्याभावाद्व्यभिचारः । न चात्माश्रयप्रसङ्गेन स्ववृत्तित्वाभावेन साध्यसद्भावान्न व्यभिचार इति वाच्यम् । मिथ्यात्वदृश्यत्वादिवच्छब्दप्रतिपाद्यत्वादेरप्य नन्यथासिद्धधीबलेन स्ववृत्तित्वस्यानिर्वाच्यत्वभङ्गे उक्तत्वादित्यर्थः । अत्यन्ताभावप्रतियोगित्वरूपे धर्मे व्यभिचारं चाह– किञ्चेति ॥ तत्रेति ॥ तर्ह्यत्यन्ताभावप्रतियोगित्वस्य केवलान्वयित्व-प्राप्त्याऽत्यन्ताभावप्रतियोगित्वरूप धर्मे साध्याभावेन धर्मत्वहेतोस्तत्रैव व्यभिचार इत्यर्थः ॥ यत इति ॥ यस्मिन्धर्मेऽत्यन्ताभावप्रतियोगित्वं नास्ति तस्यैव केवलान्वयित्वप्राप्त्याऽत्यन्ताभाव-प्रतियोगित्वरूप एव धर्मे साध्याभावेन धर्मत्वहेतोस्तत्रैव व्यभिचार इत्यर्थः ॥ धर्म(धर्मिणीति) इति ॥
ननु यतोऽत्यन्ताभावप्रतियोगित्वं व्यावर्तते तस्य दैवाद् धर्मित्वे, तत्र धर्मित्वे धर्मत्वहेतोर्न व्यभिचार इति चेन्न । धर्मधर्मिभावस्य कामगामित्वेन धर्मिणोऽपि धर्मत्वादिति भावः । स्वप्रकाशत्वानुमानेऽर्थान्तरं चाह– अपि चेति ॥ ब्रह्मणो वेद्यत्वात्यन्ताभावरूपस्वप्रकाशत्व-साधनेऽर्थान्तरता । तथा हि त्वन्मते व्यवहारिकं वेद्यत्वं ब्रह्मणि तावदस्ति । तादृशं च वेद्यत्वम् अवेद्यत्वरूपस्वप्रकाशत्वविरोधितया घटादौ दृष्टम् । तथाविधवेद्यत्वस्य ब्रह्मणि सत्त्वेऽपि पुनस्तत्र वेद्यत्वात्यन्ताभावरूपस्वप्रकाशत्वसाधने तस्य पारिभाषिकत्वप्राप्त्या तस्याऽस्माकमपीष्टत्वेना र्थान्तरतेत्यर्थः ॥ धर्मीति ॥ ब्रह्मणि च वेद्यत्वस्य सत्वेऽपि तस्य व्यावहारिकतया धर्मि-समसत्ताकत्वाभावान्न तस्य स्वप्रकाशत्वविरोधित्वम् । घटादौ धर्मिसमसत्ताकवेद्यत्वस्यैव स्वप्रकाशत्व-विरोधितया दृष्टत्वात् । अतो नार्थान्तरमित्यर्थः ॥ तन्निरासेति ॥ ब्रह्मणि वृत्तिव्याप्यत्वफल-व्याप्यत्वयोः सद्भावे तयोरवेद्यत्वरूपस्वप्रकाशत्वविरोधात्तन्निरासः क्रियते । स न स्यात् । तत्रापि पटादाविव धर्मिसमसत्ताकवृत्तिव्याप्यत्वादेरेव स्वप्रकाशत्वविरोधित्वाद् ब्रह्मणि च व्यावहारिकतया धर्मिसमसत्ताकवृत्तिव्याप्यत्वादेरभावेन स्वप्रकाशत्वोपपत्तेस्तन्निरासस्य व्यर्थत्वादित्यर्थः । ततश्च धर्मिसमसत्ताकत्वविशेषणमदत्वा व्यावहारिकस्यापि वृत्तिव्याप्यत्वादेः स्वप्रकाशत्वविरोधित्वं वक्तव्यम् । तथा च प्रकृतेऽपि व्यावहारिकस्य वेद्यत्वस्यापि स्वप्रकाशत्वविरोधित्वात्तत्सत्त्वेऽपि तदत्यन्ताभाव-रूपस्वप्रकाशत्वसाधने तस्य पारिभाषिकत्वापत्त्याऽर्थान्तरतेति भावः ।
सामान्यतोऽवेद्यत्वरूपस्वप्रकाशत्वप्रसिद्धिसाधकानुमानमाशङ्क्य निराकरोति– अत एवेति ॥ अयं घट इति ॥ अत्र सत्यन्तं वेद्यत्वविशेषणम् । तथा चैतद्धटान्यत्वविशिष्टवेद्यत्वेत्यर्थः । अत्र पटो दृष्टान्तः । एवं सति वेद्यत्वाधिकरणस्यापि पक्षीभूतघटस्य एतद्धटान्यत्वविशिष्टवेद्यत्वानधिकरणत्वेन तदन्यत्वमादाय दृष्टान्ते पटे साध्यप्रसिद्धिः । पक्षे तु नैवं साध्यपर्यवसान्म् । एतद्धटान्यत्वविशिष्ट-वेद्यत्वानधिकरणं पक्षीभूतो घट एव । तत्र तदन्य त्वस्य बाधात् । अत एतद्धटान्यत्वविशिष्ट-वेद्यत्वानधिकरणं किञ्चिदस्ति । तदन्यत्वमादाय पक्षे साध्यपर्यवसानम् । एवं च यदेतद्धटान्यत्वविशिष्टं वेद्यत्वानधिकरणं किञ्चित् तदेवावेद्यरूपस्वप्रकाशमायास्यतीति द्रष्टव्यम् । अत्र वेद्यत्वा नधिकरणान्य इत्येव कृते वेद्यत्वाधिकरणत्वस्य केवलान्वयित्वेन वेद्यत्वानधिकरणत्वस्याप्रसिद्धत्वेन तदन्यत्वरूप साध्यम् अप्रसिद्धमित्यतः सत्यन्तम् । तथा चैतद्धटान्यत्वविशिष्टवेद्यत्वानधिकरणं च पक्षीभूतो घट एव प्रसिद्धः । तदन्यत्वरूपसाध्यमपि पटे प्रसिद्धमिति भावः ॥ महाविद्ययेति ॥
नन्वस्यानुमानस्य महाविद्यासाधकत्वाभावान्महाविद्यया साध्यप्रसिद्धिरित्येतदसम्बद्धमिति चेन्न । महाविद्या साधकानुमानसदृशानुमानेनेत्यर्थः । विशिष्टव्यतिरेक्यनुमानेनेति यावत् । मायिमते महाविद्येति विशिष्टव्यतिरेकिणः सङ्केत इत्यप्याहुः । क्वचित्तु इत्यादिना साध्यप्रसिद्धिरित्येव पाठः । अत एवेत्युक्तं विशदयति– वेद्यत्वेति ॥ एतद्धटत्वे सतीति ॥ एतद्धटत्वविशिष्टेत्यर्थः । अत्रापि पटो दृष्टान्तः । एतद्विशेषणाभावेऽप्रसिद्धिः । वेद्यत्वस्य केवला न्वयित्वेन तदनधिकरणत्वस्यैवाप्रसिद्ध्या तद्धटित-साध्यस्याप्रसिद्धत्वात् । तथा पटे व्यभिचारश्च स्यात् । तत्र पदार्थ त्वसद्भावेऽपि तस्य वेद्यत्वेन वेद्यत्वानधिकरणान्यत्वघटिततया तत्वानधिकरणत्वरूपसाध्याभावात् । अत एतद्धटत्वे सतीत्युक्तम् । एवं चैतद्धटत्वविशिष्टवेद्यत्वानधिकरणं पट एवेति न साध्याप्रसिद्धिर् न वा व्यभिचारः । एतद्धटत्वविशिष्ट वेद्यत्वानधिकरणे पटे तदन्यत्वाभावेन तदन्यत्वानधिकरणत्वरूपसाध्यस्यापि सत्वात् । अतो न व्यभिचारः ॥ प्रकरणसमेति ॥ वेद्यत्वानधिकरणान्यत्वरूपसाध्याभावस्यापि तेनैव हेतुना साधयितुं शक्यत्वादित्यर्थः ।
अत्र केचित् पूर्वानुमानसाध्याभावस्यैवात्र साधनीयत्वेन तदर्थम् एतद्धटान्यत्वे सतीति पाठं वदन्ति । तन्न । तथात्वे पुनः पट एव व्यभिचारापत्तेः । उक्तरीत्या एतद्धटान्यत्वविशिष्टवेद्यत्वानधिकरणं पक्षीभूतो घट एव । तदन्य त्वस्यैव पटे सद्भावेन तदन्यत्वानधिकरणत्वाभावादित्यवधेयम् । स्वरूपा-सिद्धत्वमेव दर्शयति– अखण्डेति ॥ अनुभूतिरूपशुद्धब्रह्मव्यक्तेरेकत्वेन तत्रानुभूतित्वस्याजातित्वात् । न चात्रापि घटाद्यवच्छिन्नचैतन्यरूपज्ञानान्यनेकानि सन्तीति वाच्यम् । जातेर्धर्मिसमसत्ताकभेद-वद्व्यक्तिसापेक्षत्वनियमात् । अन्यथा आकाशत्वस्यापि जातित्वापत्तेः । औपाधिकाकाशरूपव्यक्तीनां बहूनां तत्रापि सत्वात् । अतो धर्मिसमसत्ताक एव व्यक्तिभेदो वाच्यः । तथा चाकाशत्वं न जातिः । औपाधिकाकाशानां धर्मिभूतस्वाभाविकाकाशसमसत्ताकव्यक्तिभेदवत्त्वाभावात् । एवं प्रकृतेऽप्यवच्छिन्न चैतन्यव्यक्तिभेदस्यौपाधिकत्वेनानुभूतित्वजातिधर्मिभूतशुद्धब्रह्मसमसत्ताकत्वाभावात् । अतो नाऽनुभूतित्वं जातिः । एवं च जातित्वेन त्वदभिमतस्यानुभूतित्वहेतोः पक्षीभूतेऽनुभूतिशब्दाभिधेये शुद्धब्रह्मण्य-भावात्स्वरूपासिद्धिरिति भावः ।
अनुभाव्यादीति ॥ विषयाद्यभावादित्यर्थः । आत्मरूपज्ञानस्य विषयाद्यभावाज्ज्ञानत्वमेव नास्ति । घटवदित्यर्थः ॥ विपक्षादव्यावृत्तमिति ॥ अनैकान्तिकमित्यर्थः । तस्य अनुभूतित्वहेतोः । अनात्मनि वृत्तिरूपज्ञाने ॥ तत्रैवेति ॥ पक्षबहिर्भूते परोक्षानुभव इत्यर्थः । ननु न व्यभिचारः परोक्षज्ञानभिन्नत्वे सतीति विशेषणात् । यद्वा अनुभूतित्वादित्यस्य चिद्रूपानुभवत्वादित्यर्थस्य विवक्षितत्वादित्यत आह– तन्निरासार्थमिति ॥ आद्ये परोक्षज्ञाने विद्यमानमनुभूतित्वं यथा तत्र न स्वप्रकाशत्वं साधयति एवं पक्षेऽपि न साधयेत् । द्वितीये तु हेतुरस्तु साध्यं मास्त्वित्य-प्रयोजकतेत्यर्थः । प्रत्यक्षश्रुतिभ्यां बाधं चाह– अपि चेति ॥ दुःखादिवदित्यादिवतित्रयं च्छलार्थम् । दुःखादेरिव स्मृतेरिव परोक्षानुभवस्येव च आत्मनोऽपीत्यन्वयः । प्रत्यक्षानुव्यवसायाकारप्रदर्शनम् ॥ अपरोक्षेत्यादि ॥
ननु न प्रत्यक्षबाधः । अपरोक्षानुभवं जानामीति प्रत्यक्षेणापरोक्षानुभवस्यापरोक्षवृत्तिवेद्यत्वमेव विषयीक्रियते न तु ज्ञानविषयत्वम् । वृत्तेरज्ञानत्वात् । अथवा व्यवहारविषयत्वमात्रमेव प्रतीयते न ज्ञानवेद्यत्वम् । अतो नावेद्यत्व रूपस्वप्रकाशत्वसाधने तद्बाध इत्याशङ्क्य निराकरोति– न चात्रेति ॥ ज्ञप्तीति ॥ ज्ञाधातोर्ज्ञप्त्यर्थत्वादिति भावः । दृष्टान्तग्रहणाभिप्रायमाह– दुःखमिति ॥ यदि जानामीत्यत्रापरोक्षानुभवस्यापरोक्षवृत्तिवेद्यत्वम् अपरोक्षव्यवहार विषयत्वं वा प्रतीयत इत्यङ्गीक्रियते तर्हि दुःखं जानामीत्यत्रापरोक्षवृत्तिविषयत्वम् अपरोक्षव्यवहारविषयत्वं वा दुःखादेः प्रतीयते न तु साक्ष्यनुभवविषयत्वमित्यपि स्यादित्यर्थः । न चेष्टापत्तिः । वृत्तिविलम्बे कदाचिद्दुःखज्ञानविलम्बा पातादिति भावः । अनुभूतेरनुभवावेद्यत्वरूपस्वप्रकाशत्वसाधकानुमानम् अनुभववेद्यत्वरूपास्वप्रकाशत्व-साधकानुमानेन सत्प्रतिपक्षितमित्याह – अनुभूतिरिति ॥ स्फुरणम् अपरोक्षानुभवः ॥ व्यवहार-योग्येति ॥ व्यवहारजननयोग्येत्यर्थः । क्वचित्तथैव पाठः । पूर्वानुमानयोः कदाचिदपरोक्षानुभव-विषयत्वस्यापि साध्यार्थत्वोपपत्तेस् तृतीयानुमानम् । अत्र नञ्द्वयेन सदा तद्विषयत्वं लभ्यत इति ध्येयम् । अनुमानद्वयेऽप्यपरोक्षव्यवहारयोग्येति विशेषणं स्वरूपकथनम् । न चान्त्यानुमाने साध्यावैशिष्ट्यम् । अपरोक्षव्यवहारजननयोग्यत्वविशिष्टस्य साध्यत्वादिति ज्ञेयम् ।
ननु नाप्रयोजकता अनुकूलतर्क सद्भावात् । तथा हि– अवेद्यत्वरूपस्वप्रकाशत्वानङ्गीकारेऽनु-भूतिरूपस्यात्मनो वेद्यत्वमुक्तं स्यात् । तत्र परवेद्यत्वमभिप्रेतं स्ववेद्यत्वं वा नाद्य इत्याह– नन्वनुभूतिरूपस्येति ॥ अनवस्थेति ॥ अनुभवावेदकस्य परस्यानुभवस्यापि पुनरन्येन वेद्यत्वेऽनवस्था स्यादित्यर्थः । दूषणान्तरं चाह– परेति ॥ आत्मनि विषये । आदिपदेन विपर्ययः ॥ स्यादिति ॥ अनुभूतिरूपात्मनिश्चायकानुभवाभावादिति भावः । इष्टापत्तिपरिहारायाह– न चेति ॥ न हीत्यर्थः । न द्वितीयः । क्रियायाः कर्तृत्वविरोधादित्याह– स्ववेद्यत्वं त्विति ॥ तत्राद्यपक्षं तावदङ्गीकुर्मः । न चानवस्था । बुभुत्साभावेन कस्यचिदनुभवस्य स्ववेद्यत्वाङ्गीकारेण वा तत्परिहारसम्भवात् । यदत्रोक्तं पराभावदशायामात्मनि संशयादिः स्यादिति, तत्रेष्टापत्तिः । नन्वहमनहं वेति संशयादिरात्मनि न दृष्ट इति चेत्तत्राह– त्वन्मत इति ॥ तथा चात्मनि संशयाद्य-भावोपपादनायास्योदाहरणमयुक्तमिति भावः । अहमर्थात्मनि तु संशयादिकमस्त्येवेत्याह– तदिति ॥ शब्देति ॥ उपदेशाद्यभावदशायां सन्देहोऽस्त्येवेत्यर्थः । तथा च यत्र सन्देहादिकं नास्ति स अहमर्थस्त्वन्मते आत्मभिन्न एव । यत्र त्वात्मनि सन्देहः स न त्वन्मते । अत इष्टापत्तिरित्यर्थः।
एवं प्रौढवादेनोक्त्वा द्वितीयपक्षमङ्गीकृत्याह– किञ्चेति ॥ स्वस्य अनुभूतिरूपसाक्षात्कारस्य । तथा च साक्षात्कारे विषयस्य कारणत्वादात्मसाक्षात्कारस्य स्वविषयकत्वे स्वस्य स्वजन्यत्व-प्राप्त्याऽऽत्माश्रयेणासम्भवादित्यर्थः ॥ स्वजनकेति ॥ साक्षात्कारजनकेत्यर्थः । स्वस्य स्वविषयकत्वे स्वस्य स्वजनकेन्द्रियसन्निकर्षार्थं स्वस्य स्वापेक्षया पूर्ववृत्तित्वं वाच्यम् । तच्चात्माश्रयेणायुक्तमित्यर्थः ॥ विषयेति ॥ विषयविषयिभावस्य सम्बन्धस्य संयोगादिवद्द्विष्ठत्वात् । आत्मनः स्वविषयकत्वे विषयविषयिभावरूपद्विष्ठसम्बन्धाभावादित्यर्थः । ज्ञेयत्वे स्ववेद्यत्वे ॥ विरुद्धस्येति ॥ क्रियात्वकर्मत्वयोः सहानवस्थितत्वेन विरुद्धत्वं द्रष्टव्यम् । विषयिणः विषयीकर्तुर्ज्ञानस्य । विषयत्वे स्ववेद्यत्वे ॥ तस्य चेति ॥ परसमवेतक्रियाजन्यफलशालित्वरूपस्य कर्मत्वस्य कर्तृत्वस्य चैकस्मिन् ज्ञानेऽसम्भवादित्यर्थः ॥ अन्यत्वेति ॥ परशब्दस्य स्वभिन्नार्थकत्वात्तस्य चात्माश्रयप्रसङ्गेन कर्त्रन्यत्वे तात्पर्यादित्यर्थः ।
आत्मस्वरूपज्ञानस्य चैतन्यरूपज्ञानस्य ॥ ईश्वरज्ञानवदिति ॥ तार्किकरीत्या ज्ञाननित्यत्वे सम्भावना योक्तम् ॥ नित्यत्वेनेति ॥ तथा च विषयजन्यत्वस्य स्वजनकसन्निकर्षापेक्षायाश्च भावादित्यर्थः ॥ अन्यथेति ॥ नित्यत्वेनाविरोधम् अनङ्गीकृत्य साक्षात्कारस्य विषयजन्यत्वादिना स्वविषयकत्वनिराकरणे साक्षात्कारस्य स्वविषयक त्वाभावेऽपि व्यवहारहेतुत्वमङ्गीकृतं तदपि न स्यात् । व्यवहारहेतुसाक्षात्कारस्यापि व्यवहारविषयजन्यत्वनियमेन स्वव्यवहारहेतुसाक्षात्कारस्यापि स्वव्यवहारविषयजन्यत्वावश्यम्भावेन स्वजन्यत्वं वक्तव्यम् । तच्चात्माश्रयेण विरुद्धमित्यादि दोषः सम इत्यर्थः ॥ अतीतेत्यादि ॥ अतीतादित्रयविषयकज्ञानादेरित्यर्थः । स्वमते आरोपितस्यात्यन्ता सत्वेऽपि पररीत्या पृथगुक्तिः ॥ उभयेति ॥ ज्ञानकालेऽतीतादिरूपविषयाभावेऽपि स्थितस्य विषयविषयिभावस्य द्विष्ठत्वा सम्भवादित्यर्थः । क्रियात्वकर्मत्वयोः समावेशसद्भावान्न विरोध इत्याह– कृतीति ॥ यथा पुण्यसाधनीभूत काशीनिवासरूपो यत्नविशेषो गमनादिप्रयत्नसाध्य इत्येवं कृतिविशेषस्यापि कार्यत्वं कृतिविषयत्वरूपकर्मत्वमस्ति तद्वदित्यर्थः ।
इच्छेति ॥ अस्माकं धर्ममार्ग एवेच्छा भूयादितीच्छाविशेषस्यापीच्छाविषयत्वरूपेष्टत्ववदित्यर्थः । व्यवहृतेर् व्यवहारस्य । व्यवहार्यत्ववद् व्यवहृतिशब्देनेति शेषः । अभिधाया वाचकत्वरूपशक्तेः ॥ स्वेति ॥ अभिधाशब्देनेत्यर्थः । वाचकस्यापि वाच्यत्ववदिति यावत् ॥ व्याप्तिज्ञानस्येति ॥ तस्यापि दृश्यत्वेन स्वविषयकत्वात् । अन्यथा सर्वोपसंहारवती व्याप्तिर्न सिद्ध्येदित्यर्थः ॥ मिथ्यात्वेति ॥ अन्यथाऽनुमितिमिथ्यात्वालाभेन ब्रह्मातिरिक्तसर्वमिथ्यात्वं न सिद्ध्येदिति भावः ॥ उपपत्तेरिति ॥ एकक्रियाया अपि कर्मत्वोपपत्तेर्विरोधासिद्धिरिति भावः ॥ अज्ञस्यैवेति ॥ अज्ञानं विषयीकर्तुरित्यर्थः । अज्ञेयत्वस्य अज्ञानकर्मत्वस्य । ‘आश्रयत्वविषयत्वभागिनी’ इति वचनादिति भावः । विषयिण्या मिथ्यात्वं विषयीकुर्वन्त्याः ॥ शब्दशब्दस्येति ॥ शब्द इति शब्दस्येत्यर्थः । ननु कर्तुरेव कर्मत्वे कर्त्रन्यत्वगर्भितकर्मलक्षणविरोध इत्यत आह– परेति ॥ तर्हि किं कर्मलक्षणमित्यत आह– क्रियेति ॥ कर्तुरपि ज्ञानरूपक्रियाविषयत्वसम्भवेनेदं कर्तुः कर्मत्वोक्त्यविरोधीति ध्येयम् । न चासनादिक्रियाविषये आधारेऽपि कर्मत्वप्रसङ्ग इति वाच्यम् । आधारस्याविषयत्वात् । अन्यथा स्थाल्यादेरपि पाकविषयत्वापातादिति द्रष्टव्यम् ।
यदुक्तं क्रियात्वकर्मत्वयोरविरोधोपपादनाय कृतिविशेषस्य कार्यत्ववदित्यादि, तत्र शङ्कते– नन्विति ॥ कृत्याद्यन्तरमिति ॥ स्वभिन्नकृतीच्छाविषय इत्यर्थः । एवं च क्रियात्वकर्मत्वयोरेकत्रैव समावेशे नेदमुदाहरणमिति भावः । परमुखेनैवोत्तरं वाचयितुं प्रतिबन्दीं गृह्णाति– गत्यादाविति ॥ गत्या-द्यन्तरेति ॥ स्वभिन्नगत्याद्यन्तरेत्यर्थः । यदुक्तं कृत्यादिः कृत्याद्यन्तरं प्रत्येव विषय इति, तन्न युक्तम् । लोके गत्यादिक्रियायाः स्वविषयत्वादर्शनात् । स्वभिन्नस्वसजातीयगत्याद्यन्तरविषयत्वस्याप्य-दर्शनात् । कृत्यादेस्त्वयोच्यमानं स्वभिन्नकृत्याद्यन्तरविषयत्वमपि न स्यादित्यर्थः । तत्रोत्तरमाशङ्कते– यदि चेति ॥ विचित्रेति ॥ न हि सर्वैर्भावैरेकविधैर्भाव्यमिति नियमोऽस्तीत्यर्थः ॥ सजातीयेति ॥ कृत्याद्यन्तरेत्यर्थः । अनुभूतेर् अनुभूतिरूपक्रियायाः । स्वविषयत्वं स्वकर्मकत्वम् । अन्यथा स्वविषयकत्वाभावे । व्यवहारजनकत्वं त्वदङ्गीकृतमित्यर्थः ॥ इत्युक्तमिति ॥ तद्व्यवहार-जनकत्वमस्तीति चेन्न । तत्र स्वविषयकत्वस्यैवाभावात् । कुत इति चेत्तत्राह– व्याप्तिज्ञानेति ॥ नन्वेतदयुक्तम् । यथा हि मन्मते चितश्चिदविषयत्वेऽपि न तत्सिद्ध्यभावः वृत्तिव्याप्यत्वमात्रेण तदुपपत्तेः ।
एवं व्याप्तिज्ञानादेः स्वविषयकत्वाभावेऽपि सर्वोपसंहारवती व्याप्तिरुपायान्तरेण सिद्धा भविष्यतीति चेत्तत्राह– न हीति ॥ एवं व्याप्तिज्ञानादेश् चिद्वत् स्वस्मिन्व्यवहारहेतुत्वमात्रमेवाङ्गीक्रियते न स्वविषयकत्वमित्याशङ्क्य निषेधति– न चेति ॥ तदविषयकस्यापि तद्व्यवहारहेतुत्वेऽतिप्रसङ्गमाह– घटादीति ॥ तस्मिन्घटे । तद्धेतुत्वं व्यवहारहेतुत्वम् । तद्विषयकत्वं घटविषयकत्वम् । तथा च घटाविषयकस्यैव घटज्ञानस्य घटव्यवहारहेतुत्वमस्त्वित्यतिप्रसङ्ग इत्यर्थः । किञ्च यद्दृश्यं तन्मिथ्येति व्याप्तिज्ञानस्य दृश्यत्वरूपव्याप्यतावच्छेदकावच्छिन्न विषयकत्वाद् व्याप्तिज्ञानस्यापि दृश्यत्वावच्छिन्न-स्वविषयकत्वमेवान्यथा व्याप्तिज्ञाने दृश्यत्वाभावेऽप्रामाणिकत्वापत्त्या तदसिद्धिप्रसङ्गात् । एवं मिथ्यात्वानुमितेरपि व्यापकतावच्छेदकाव च्छिन्नविषयकत्वादनुमितेरपि मिथ्यात्वरूपव्यापकताव च्छेदकावच्छिन्नत्वात्स्वविषयकत्वमेव । अन्यथा अनुमितेः स्वस्मिन्मिथ्यात्वविषयकत्वाभावे ब्रह्म-व्यतिरिक्तसर्वमिथ्यात्व साधकत्वं न स्यादित्याह– व्याप्तिज्ञानादेरपीति ॥ यद्दृश्यं तन्मिथ्येति ज्ञानस्य स्वविषयत्वेऽनुभवं च साधकमाह– घट इति ॥ अनुभवाद् अनुव्यवसायात् । सङ्गृह्णाति– एवं चेति ॥ मामहं जानामीति प्रत्यक्षेण तथा ‘तदात्मानमेवावेत्’ इति श्रुत्येति सम्बन्धः ।
ननु ज्ञप्तिरूपक्रियायां कर्तुरेव कर्मत्वाङ्गीकारे गमनादिक्रियायामपि कर्तुरेव कर्मता स्यादित्यतो ज्ञप्तिक्रियावैषम्यमाह– गमनादौ त्विति ॥ अन्यथा कर्तुः कर्मत्वानङ्गीकारे ॥ शब्देति ॥ शब्द इममर्थमभिधत्त इत्यभिधानरूपक्रियाकर्तुरेव शब्दशब्दस्य स्ववाच्यत्वदर्शनेन कर्मत्वं दृष्टं तन्न स्यादित्यर्थः । तामेवाह– अवेद्यत्व इति ॥ ब्रह्मण इति शेषः । यद्यवेद्यत्वरूपं स्वप्रकाशत्वमङ्गीक्रियते तर्हि तत्र पृच्छामः, ब्रह्म अवेद्यत्वसाधकप्रमाणवेद्यं न वा । आद्ये ब्रह्मणोऽवेद्यत्ववचनं व्याहतम् । द्वितीये ब्रह्मणोऽवेद्यत्वसाधकप्रमाणवेद्यत्वाभावे तस्यावेद्यत्वासिद्ध्याऽवेद्यत्ववचनं व्याहतमित्यर्थः ॥ प्रामाण्येति ॥ ब्रह्मणोऽवेद्यत्वे वेदान्तानां ब्रह्मप्रमाजनकत्वरूपं प्रामाण्यं न स्यादित्यर्थः । किञ्च ब्रह्मणोऽवेद्यत्वे ब्रह्मविचारविधिवैयर्थ्यं स्यात् । ब्रह्माज्ञाननिवृत्तिश्च न स्यादित्याह– ब्रह्मविचारेत्या-दिना ॥ ननु ब्रह्मणोऽवेद्यत्वे वेदान्तानां ब्रह्मणि प्रामाण्यायोग इत्युक्तमयुक्तम् । तत्प्रमाजनकत्वेन तत्प्रामाण्याभावेऽपि तदज्ञाननिवर्तकत्वमात्रेण प्रामाण्यमुपपद्यत इत्येतदेतेनैव निरस्तम् । तद्विषय-कत्वाभावे तदज्ञाननिवर्तकत्वायोगात् । अतद्विषयकज्ञानेन तदज्ञाननिवृत्तौ घटज्ञानेनापि निवर्तेतेत्यति-प्रसङ्गस्योक्तत्वादित्याशयेनाह– एतेनेति ॥ आत्मनोऽवेद्यत्वे तदसिद्धिरेव स्यादित्याह– आत्मन इति ॥
ननु स्वतः सिद्ध इत्यस्य स्वेनैव ज्ञात इत्यर्थत्वे हि स्वविषयत्वमापाद्येत किन्तु स्वविषयकत्वा-भावेऽपि स्वजन्यव्यवहारयोग्यत्वाङ्गीकारात् स्वतः सिद्ध इत्यस्य स्वजन्यव्यवहारयोग्य इत्येवार्थो विवक्षित इति न स्वविषयत्वापात इत्याशङ्क्य निषेधति– न चेति ॥ व्यवहारेति ॥ स्वजन्यव्यवहारेत्यर्थः ॥ ज्ञातत्वातिरेकेणेति ॥ ज्ञातत्व व्यतिरेकेणेत्यर्थः । । यथा हि वह्निव्यतिरेकेण धूमो नास्तीत्युक्ते धूमस्थितिप्रयोजकत्वं वह्नेर्लभ्यते । एवं ज्ञातत्वव्यतिरेकेण व्यवहारयोग्यत्वं नास्तीति व्यवहार-योग्यतास्थितौ ज्ञातत्वस्य प्रयोजकत्वेन तदभावे व्यवहारयोग्यत्वमेव न स्यादित्यर्थ इति सम्प्रदायः । तथा च ज्ञातत्वातिरेकेण व्यवहारयोग्यत्वाभावादित्यनेन ज्ञातत्वव्यवहारयोग्यत्वयोरभेदप्रतीतिः परास्तेति ध्येयम् । किञ्च यदि स्वजन्यव्यवहारयोग्यत्वात्स्वतः सिद्धत्वं तर्हि मुक्त्यवस्थायां स्वतः सिद्धिर्न स्यात्तदा योग्यतारूपधर्माभावादित्याह– मुक्ताविति ॥ अन्यथेति ॥ सिद्ध्युपायभूतप्रमाणेन विनैव वस्तुसिद्धौ ॥ सर्वमिति ॥ वेदान्तानां ब्रह्मणि प्रामाण्यं, ब्रह्मविचारविधिर्ब्रह्माज्ञाननिवृत्तिश्चेति सर्वमित्यर्थः ॥ सत्वादिति ॥ चैतन्यादिरूपफलस्याप्रामाणिकत्वेन फलाव्याप्यत्वस्य घटादावपि सुवचत्वादिति भावः । वित्तेः स्ववेद्यत्वाभावे वित्तित्वं न स्यादित्युक्तम् अप्रयोजकत्वपरिहारायोप-पादयति– भुक्तेः सभोज्यत्ववदिति ॥ भोज्यरूपविषयसाहित्य नियमवदित्यर्थः । अस्तु सवेद्यत्वमिति चेत्तत्राह– मुक्तौ चेति ॥ तथा चात्मस्वरूपवित्तेर् मुक्तौ पराभावेन तद्विषयकत्वायोगात् स्वविषयकत्वस्य चानङ्गीकाराज्ज्ञानत्वमेव न स्याद्धटवदित्यर्थः ॥ उक्तं चेति ॥
‘‘ज्ञातृज्ञेयविहीनं ते ब्रह्म ज्ञानात्मकं यदि । भोक्तृभोज्यविहीनापि भवेत्तर्हि भुजिक्रिया’’ ॥ इत्युक्तमित्यर्थः ॥ आत्मस्वरूपवित्तेः स्ववेद्यत्वाभावे स्वव्यवहारहेतुत्वं स्वस्मिन्संशयादिविरोधित्वं च न स्यादित्युक्तमुपपादयति– वित्तेरिति ॥ ननु तद्विषयत्वाभावेऽपि स्वस्मिन्व्यवहारहेतुत्वं स्वनिर्वाहकत्वादुपपद्यत इत्यन्यथासिद्धिमाशङ्क्य निराकरोति– न चेति ॥ स्वनिर्वाहकत्वोक्त्यैवैकस्यां क्रियायां कर्तृत्वकर्मत्वयोः प्राप्तिरित्याह– स्वेति ॥ ननु स्वनिर्वाहकत्वेन प्रसिद्धोऽध्ययनविधिस्तथात्त्वेन प्रसिद्धा दीपप्रभा वाऽध्येतव्यत्वविधानरूपम् अन्धकारनिवर्तनरूपं च स्वकार्यमन्यत्रेव स्वस्मिन्नपि करोति तथापि न स्वकर्मकत्वम् । एवमिहाप्यात्मरूपवित्तेः स्वस्मिन्व्यवहारादिकर्तृत्वेन स्वनिर्वाह-कत्वेऽपि न स्वकर्मकत्वमित्यत आह– स्वनिर्वाहकमिति ॥ स्वस्मिन्निति ॥ अध्ययनविधिः स्वस्याध्येतव्यत्वं विधत्ते । प्रभा च स्वस्मिन्नप्यन्धकारसम्बन्धं निवर्तयतीत्यर्थः ।
ननु स्वस्मिन्स्वकार्यकरणे न स्वविषयकत्वं तन्त्रं यथा ‘गाङ्कुटादिभ्यः’इति सूत्रे कुट आदिर्येषां कुटादिगणस्थानां तेभ्यः कुटादिभ्यः किञ्चित्कार्यं विहितम् । तत्र बहुव्रीहेः समस्यमान-पदार्थातिरिक्तान्यपदार्थमात्रविषयकत्वेन कुटादिभ्य इति बहुव्रीहेरपि कुटादिरूपान्यपदार्थमात्र-विषयकत्वमेव, न कुटविषयकत्वम् । ‘कुरूणां क्षेत्रम्’ इत्यत्र कुरूणामिव कुटस्याप्युपलक्षणमात्रत्वात् । एवं चायं बहुव्रीहिर् यत्स्वकार्यं विहितमस्ति तत्स्वाविषयेऽपि कुटे कुटादाविव करोत्येव । एवमात्मरूपं ज्ञानं स्वाविषयकमपि स्वस्मिन्व्यवहारादिरूपं कार्यं करिष्यत्येवेत्याशङ्क्य तदप्येतेनैव निरस्तमित्याह– एतेनेति ॥ एतेनेत्युक्तमेव विशदयति– बहुव्रीहेरिति ॥ बहुव्रीहावन्यपदार्थस्तावत्समुदाय एव । तत्र च बहुव्रीहेः समुदायरूपेऽन्यपदार्थे शक्तिर्वा लक्षणा वाऽस्तु तथापि बहुव्रीहिः स्वाविषये कार्यं न करोत्येव । कुटादिभ्य इत्यत्राप्यन्यपदार्थरूपसमुदायान्तर्गतकुटादिवत् कुटस्यापि तत्समुदाया-न्तर्गतत्वेन शक्त्या लक्षणया वा बहुव्रीहिविषयत्वमेव । समुदायेन समुदायिनां सम्बन्धादित्यर्थः । मते वा कुटादिवदन्यपदार्थभूतसमुदायान्तर्गतस्य कुटस्यापि कुटादिवच्छक्त्या लक्षणया वा बहुव्रीहिविषय-त्वेनेत्यन्वयः ।
ननु तद्गुणसंविज्ञानबहुव्रीहौ तस्यान्यपदार्थस्य ये गुणा अवयवादयस्तेषां कार्ये संविज्ञानम् आनयनादिक्रियान्वयो भवति गुणान्विना गुणिनम् आनयनाद्ययोगात् । न चेह कुटिः कुटादेर-वयवादिर्भवति । अतः कथं तस्य बहुव्रीहिविषयत्वमिति शङ्कां कैयटोदाहृतन्यायेन परिहरति– चैत्रेति ॥ तद्गुणसंविज्ञानेत्यत्र गुणशब्देन नावयवादिरेव विवक्षितो ऽपि तूपलक्षणादिसाधारणं व्यावर्तकमात्रम् । तथा च ‘चैत्रशालास्था ब्राह्मणा आनीयन्ताम्’ इत्युक्ते चैत्रोऽपि यदि ब्राह्मणो भवति स्वशालास्थश्च तदा सोऽप्यानीयत एव । एवं कुटादीन् प्रत्युपलक्षणस्यापि कुटेः कुटादि-कार्येऽन्तर्भावः स्यादेव । समुदायेन समुदायिनं सम्बन्धादित्यर्थः । अन्यपदार्थः समुदायः । स च बहुव्रीहिसमासार्थ इत्यत्र सम्मतिमाह– उक्तं हीति ॥ उद्भूतानाम् अवयवानां भेदो विशेष एव समुदायः माषादिसमुदाये तथा दशर्नात् । स च बहुव्रीहिसमासार्थ इत्यर्थः ।
न्यायकल्पलता
ननु स्वप्रकाशत्वानुमाने वृत्तिव्याप्यत्वाभाव एव साध्योऽतो नार्थान्तरमत आह– न हीति ॥ तथात्वे चरमवृत्तिव्याप्य आत्मनि बाधः स्यादित्यर्थः ॥ सामान्यतोऽपीति ॥ वेद्यत्वं किञ्चि-न्निष्ठेत्यादिविशिष्टसाध्यप्रसिद्धेरकरणात् । ननु स्वप्रकाशत्वानुमानेन फलाव्याप्यत्वरूपविशेषणसिद्धावपि न विशिष्टस्वप्रकाशत्वसिद्धिरत आह– अवेद्यत्वेति ॥ विशेष्यभागा(ना)नन्तर्भावेणैव स्वप्रकाशत्वलक्षणकरणात्तत्सिद्धिः ॥ तत्रैवेति ॥ अत्यन्ताभावप्रतियोगित्वे तस्यैव केवलान्वयित्वात् ॥ यत इति ॥ यस्मिन्धर्मेऽत्यन्ताभावप्रतियोगित्वं नास्ति तस्य केवलान्वयित्वात्तत्रैव व्यभिचार इत्यर्थः । नन्वत्यन्ताभावप्रतियोगित्वस्य मिथ्यात्वेन स्वाश्रयभूतात्यन्ताभावप्रतियोगिनिष्ठात्यन्ता-भावप्रतियोगितया यन्निष्ठात्यन्ताभावप्रतियोगित्वम् अत्यन्ताभावस्य तस्य न केवलान्वयित्वम् इति । मैवम् । अबाध्यात्यन्ताभावप्रतियोगित्वं मिथ्यात्वम् । बाध्यात्यन्ताभावप्रतियोगित्वस्य सत्त्वेऽपि सम्भवात् । तथा चात्यन्ताभावप्रतियोगित्वस्य यत्राबाधितोऽत्यन्ताभावोऽस्ति तदेव केवलान्वयीति तत्रैव व्यभिचार इति भावः ॥ घटादाविवेति ॥ तथा च घटादिवद् ब्रह्माप्यस्वप्रकाशं स्यात् । स्वप्रकाशत्वविरोधिव्यावहारिकवेद्यत्ववत्त्वादित्यर्थः । ननु धर्मिसमसत्तं वेद्यत्वं घटादौ स्वप्रकाशत्व-विरोधि, न त्वात्मन्यनेवंविधं तद्विरोधीति स्यादेवात्मा स्वप्रकाश इत्याशङ्क्य निराकरोति – न चेति ॥ धर्मिसमसत्तं फलव्याप्तत्वं घटादौ स्वप्रकाशत्वविरोधि दृष्टम् । अतो नैवंविधफलव्याप्यत्वेऽ-प्यात्मा स्वप्रकाशः स्यादेव । एवं चात्मनः फलव्याप्यत्वनिराकरणं व्यर्थम् । किञ्च ब्रह्मणोऽन्यत्र वेद्ये न वेद्यत्वात्यन्ताभावः सम्भवति । नापि ब्रह्मणि । निर्धर्मकत्वात् । अतः किञ्चिन्निष्ठात्यन्ता-भावप्रतियोगिवेद्यत्वं स्यात् । न चात्यन्ताभावप्रतियोगीत्येव साध्यम् । तथापि वेद्यत्वाभावसिद्ध्या ब्रह्मणोऽवेद्यत्वासिद्धेः । अपि चात्यन्ताभावस्य सत्त्वेऽपसिद्धान्तः । मिथ्यात्वे तु वेद्यत्वस्यात्यन्ता-भावाप्रतियोगि त्वमेव स्यादिति ॥ अयं घट इति ॥ सत्यन्तं वेद्यत्वविशेषणम् । वेद्यत्वाधि-करणस्यापि घटस्यैतद्धटान्यत्वविशिष्टवेद्यत्वानधिकरणत्वात्तद(न)न्यत्वमादाय पटादौ साध्यासिद्धिः । पक्षे तु वेद्यत्वानधिकरण किञ्चिदन्यत्वमादाय । अत्र वेद्यत्वानधिकरणान्य इति कृते वेद्यत्वानधिकरणा-प्रसिद्धिः । अतः सत्यन्तम् ॥ एतद्धटत्वे सतीति ॥ अत्रापि सत्यन्तं वेद्यत्वविशेषणम् असिद्धि-वारणाय, पटादावव्यभिचाराय । वेद्यस्यापि पटादेर्वेद्यत्वानधि करणान्यत्वेन तदनधिकरणत्वाभावात् ।
अनुभूतिशब्देति ॥ वृत्तिरूपेऽनुभवे प्रत्यक्षनुमित्यात्मके ॥ जानामीति ॥ न चाहमर्थस्य ज्ञप्त्याश्रयत्वायोगः । तस्य ज्ञप्त्याश्रयत्वोक्तेः ॥ दुःखमिति ॥ ननु ‘दुःखम् अनुभवामि’ इत्यादावपि दुःखाद्याकाराविद्यावृत्तिरेव विवक्षितेति चेन्न, वृत्तिविलम्बे दुःखज्ञानविलम्बः स्यादित्युक्तत्वात् ॥ स्फुरणविषय इति ॥ घटतुल्यतयेति शेषः । तेन स्फुरणप्रयुक्तव्यवहारशालित्वरूपस्य विषयत्वस्य मयाऽप्यङ्गीकारात्सिद्धसाधनमिति निरस्तम् । न च जडत्वमुपाधिः । पक्षेतरत्वात् । (ननु)आत्मरूपं ज्ञानम् आत्मविषयं न । आत्माजन्यसाक्षात्कारत्वात् । आत्मसन्निकृष्टेन्द्रियाजन्यत्वात् । सामान्यव्याप्तौ तु घटादिर्दृष्टान्तः । इत्यनुमानयोर्नित्यज्ञानभिन्नत्वमुपाधिमाह– स्वप्रकाशस्येति ॥ अन्यथेति ॥ तद्विषयत्वे तद्विषयजन्यत्वादेः प्रयोजकत्वे । साक्षात्कारस्य तद्व्यवहारहेतुत्वं प्रत्यपि तज्जन्यत्वादिकं प्रयोजकं स्यात् । तथा चात्मरूपसाक्षात्कारः स्वव्यवहारमपि न जनयेत् ।
कृतिविशेषस्येति ॥ कृतीच्छाव्यवहृतीनां स्वभिन्नकृत्यादिकं प्रति विशेष्यत्वेऽपि कृतिविशेषादीनां स्वविषयत्व मस्ति । तथा हि– सुखहेतुकृत्युद्देशेन देवताराधनादौ प्रवर्तमानस्य या देवताराधनगोचरा कृतिस्तस्या अपि सुख हेतुत्वेन सा स्वविषया भवति । एवं ‘सदिच्छा भूयात्’ इतीच्छाया अपि सदिच्छात्वेन यज्ञादीच्छाविषयत्ववत्स्वविषयत्वमस्ति । तथा व्यवहृतिर्व्यवहर्तव्येत्येतच्छब्द-जन्यव्यवहारस्यापि व्यवहृतित्वेन व्यवहर्तव्येत्येवंरूपव्यवहारविषयत्वम् । अभिधापि स्वविषया । ननु कृतेरसिद्धविषयत्वात्कथं स्वविषयत्वम् । सत्यम् । असिद्धं विषयीकृत्य जायमाना कृतिरेकावच्छेदका-वच्छिन्न त्वात्स्वमपि विषयीकरोतीत्युच्यते । न च कृतेः स्वविषयत्वे स्वजन्यतापत्तिः । न हि स्वविषयत्वमेव स्वजन्यत्वं किन्तु पूर्ववृत्तित्वादिकम् । तच्च नाङ्गीक्रियते । एतेन कृतीच्छा-व्यवहृत्यभिधाः कृत्याद्यन्तरं प्रत्येव विषया न तु स्वात्मानं प्रतीति न स्वविषयत्वे किञ्चिदुदाहरण-मस्तीति केनचिदुक्तं प्रत्युक्तम् । कृत्यादौ स्वजातीयविजातीयविषयत्वमित्याद्यग्रिमग्रन्थस्तु कृति-सामान्यपरः । तुष्यतु दुर्जन इति न्यायेन वेति बोध्यम् ।
क्रियाविषयत्वेति ॥ न चासनादिक्रियाविषय आधारे कर्मत्वप्रसङ्गः । आधारस्याविषयत्वात् । अन्यथा स्थाल्यादेः पाकविषयत्वापातात् । अतः क्रियाविशेषविषयत्वं कर्मत्वम् । सकर्मकाकर्मक-क्रियाभेदस्य स्थितत्वात् ॥ स्वस्मिन् स्वव्यवहारेति ॥ ननु स्वव्यवहारोपपादनार्थं स्वविषयत्व-स्वभावकल्पनापेक्षया स्व•)विषयत्वेऽपि स्वव्यवहारजनकस्वभावत्वमेव कल्प्यतामिति चेत्, न । घटादौ व्यवहारं प्रति प्रयोजकानां ज्ञानतद्भेदतद्विषयत्वानां कप्तानां मध्ये आत्मनि प्रमाणबलाद्भेद-त्यागेऽपि तद्विषयत्वस्यापि त्यागायोगात् । अन्यथा ज्ञानस्यापि त्यागापत्तेः । तदिदमुक्तं प्राक् ‘स्फुरणे स्फुरणान्तरं नापेक्षितम् । न तु कप्तं तद्विषयत्वम्’ इति ॥ संशयादिविरोधित्वं चेति ॥ न च स्वत्वेनैव संशयादिविरोधित्वम् । घटादौ स्वविषयत्वेनात्मनि तु स्वत्वेनैवेत्यननुगमात् । न च विषयत्वमप्यननुगतम् । तस्यैकत्वाद्विषयतात्वेनानुगमाच्च ॥ स्वाविषयेऽपीति ॥ समस्यमान-पदार्थातिरिक्तोऽन्यपदार्थो बहुव्रीहिविषयः । समस्यमानपदार्थस्तु बहुव्रीह्यविषयस्तस्मिन्नित्यर्थः । कुटेऽपि बहुव्रीहिविषयत्वमस्तीत्याह– बहुव्रीहेरिति ॥ बहुव्रीहेः शक्तिर्वा लक्षणा वेति मतेऽपि कुटस्यापि कुटादिवद् बहुव्रीहिविषयत्वेनेत्याद्यन्वयः ।
ननु तद्गुणसंविज्ञानबहुव्रीहौ तस्यान्यपदार्थस्य ये गुणा अवयवादयस् तेषां कार्ये संविज्ञानम् आनयनादिक्रियान्वयो भवति । गुणान् विना गुणिन आनयनाद्ययोगात् । न चेह कुटिः पुटादेरवयवादि-र्भवति । अतः कथं तस्य बहुव्रीहि विषयत्वमिति शङ्कां कैयटोदाहृतन्यायेन परिहरति– चैत्रेति ॥ तद्गुणसंविज्ञानेत्यत्र गुणशब्देन नावयवादिरेव । अपि तूपलक्षणादिसाधारणं व्यावर्तकमात्रम् । तथा च यथा ‘चैत्रशालास्था ब्राह्मणा आनीयन्ताम्’ इत्युक्ते चैत्रोऽपि यदि ब्राह्मणो भवति स्वशालास्थश्च तदा सोऽप्यानीयत एव । तथा कुटादीन्प्रत्युपलक्षणस्यापि कुटे पुटादिकार्येऽन्तर्भावः स्यादेव । ननु कुटेः पुटाद्यसम्बन्धात्कथमुपलक्षणत्वमपीत्यत आह– अन्यपदार्थेति ॥ समुदायेन समुदायिनां सम्बन्धादित्यर्थः । ननु समुदायस्यान्यपदार्थत्वे तस्यैकत्वादेकवचनं प्राप्नोतीत्याशङ्कां परिहरति– उक्तं हीति ॥ ‘सर्वादीनि सर्वनामानि’ इत्यत्रेति शेषः । अवयवगतबहुत्वस्यावयविन्यारोपेण बहुवचनमित्यर्थः ।