११ स्वप्रकाशत्वलक्षणभङ्गः

यच्चेदमुच्यते– ब्रह्म न वेद्यं स्वप्रकाशत्वात्

११. स्वप्रकाशत्वलक्षणभङ्गः

न्यायामृतं

यच्चेदमुच्यते– ब्रह्म न वेद्यं स्वप्रकाशत्वात् । तच्च यद्यपि न वृत्त्यव्याप्यत्वं दृश्यत्वभङ्गे उक्तरीत्याऽसम्भ वात् । नापि फलाव्याप्यत्वम् । अतीतादौ नित्यातीन्द्रिये चातिव्याप्तेः । नाप्यवेद्यत्वे सत्यपरोक्षव्यवहार विषयत्वम् । सुषुप्तिप्रलयादौ व्यवहारा-भावेनाव्याप्तेः । नाप्यवेद्यत्वे सत्यपरोक्षव्यवहारविषयतायोग्यत्वम् । मोक्षे योग्यतारूपधर्मस्याप्यभावात् । तथाप्यवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वयोग्यतात्यन्ता-भावानधि करणत्वं तत् । प्रमाणं चात्र ‘अनुभूतिः स्वप्रकाशा अनुभूतित्वात्’ इति व्यतिरेकि । न चाप्रसिद्धविशेषण ता । वेद्यत्वं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगि, धर्मत्वाच्छौक्ल्यवदिति सामान्यतस्तत्सिद्धेः । आत्मा चानुभूतिरूप इति ।

तन्न । त्वन्मते आत्मनि सत्त्वाद्यनधिकरणत्वरूपानिर्वाच्यत्वस्येव मोक्षे योग्यता-त्यन्ताभावानधि करणत्वरूपस्य वाऽनधिकरणत्वोपलक्षितत्वरूपस्य वा धर्मस्याप्य-भावात् । किञ्च त्वन्मते ब्रह्मणि योग्यतापि मिथ्या । मिथ्यात्वं च स्वसमानाधिकरणा-त्यन्ताभावप्रतियोगित्वम् । तथा च तदत्यन्ताभावानधिकरणत्वम् असम्भवि । न च व्यावहारिको योग्यतात्यन्ताभावो ब्रह्मणि नेति वाच्यम् । अत्यन्ताभावस्य ब्रह्मान्यत्वेन व्यावहारिकत्वात् । किञ्चेदमवेद्यत्वं न तावद्वृत्त्यव्याप्यत्वम् । असम्भवात् । नापि फलाव्याप्यत्वम् । दृश्यत्वभङ्गे उक्तरीत्या प्रातिभासिके रूप्यादौ व्यावहारिके अविद्यान्तः-करणतद्धर्मसुखादौ घटादौ च लक्षणस्याति व्याप्तेः । तत्रोक्तरीत्यैव ब्रह्मणोऽपि चरमवृत्तिप्रतिबिम्बितचिद्रूपफलव्याप्यत्वेनासम्भवाच्च । एतेन फलव्याप्यत्वं वृत्ति-प्रतिबिम्बितचिज्जन्यातिशययोगित्वम् । अतिशयश्च नावरणभङ्गः, नापि व्यवहारः किन्तु भग्नावरणचित्सम्बन्धः । स च घटादावस्ति न त्वात्मनि । यद्वा फलव्याप्यत्वं वृत्त्या तत्प्रतिफलितचिता वाऽभिव्यक्ताधिष्ठानचिद्विषयत्वम् । तज्जन्यव्यवहारयोगित्वं, तच्च घटादावस्ति न त्वात्मनीति निरस्तम् । घटादौ वृत्तिविषयत्वमेव न तु तत्प्रति-फलितचिद्विषयत्वं, न वा तदभिव्यक्ताधिष्ठान चिद्विषयत्वमित्युक्तत्वात् । एतेनैव चिद्रूपज्ञानाविषयत्वमवेद्यत्वं रूप्यादिरपि साक्षिविषय एव । लक्षणे विशेष्यं तु नित्यातीन्द्रियेष्वनतिव्याप्त्यर्थमिति निरस्तम् । घटादावतिव्याप्तेः । चित्सुखेन तत्स्वभाव-स्यापि स्फुरणस्य तद्विषयत्वमित्युक्तत्वेनासम्भवाच्च ।

ननु तर्हि चिदकर्मत्वमवेद्यता चित्सुखेनैव चितश्चिद्विषयत्वमुपेत्य तदकर्मत्वोक्तेरिति चेत्, कर्मत्वं किं कारकविशेषत्वम्, तज्जन्यातिशयवत्त्वं वा परसमवेतक्रियाफलशालित्वं वा । नाद्यः । अनवच्छिन्नं नित्यं चैतन्यं प्रति घटादेरप्यकारकत्वात् । स्वाकार-वृत्तिप्रतिबिम्बितं तु प्रति घटतद्रूपादेरिवापरोक्षचरमवृत्ति व्याप्यस्य ब्रह्मणोऽपि कार-कत्वावश्यम्भावात् । न द्वितीयः । ब्रह्मण्यप्युक्तन्यायेन प्रतिफलितचित्फल भूतावरण-भङ्गरूपस्य तदभिव्यक्तचिज्जन्यव्यवहाररूपस्य वाऽतिशयस्य सत्त्वात् । तदन्यस्य च घटादावप्य भावात् । न तृतीयः । शुद्धचितोऽसमवेतत्वादक्रियात्वाच्च तत्फलशालिनोऽपि जडस्याकर्मत्वापातात् । २प्रतिबिम्बिते चिति तु समवेतत्वादेः सत्त्वेऽपि ब्रह्मणोऽपि चरमवृत्तिप्रतिफलितचित्फलभूतावरणभङ्गादिशालि त्वाच्च ।एतेन ज्ञप्त्यविषयत्वमवेद्यत्वं वृत्तिस्तु न ज्ञप्तिरिति निरस्तम्, घटादौ वृत्त्यन्यज्ञप्त्यभावस्योक्तत्वात् । तस्मादवेद्यत्वं दुर्वचम् ।

कश्चायमपरोक्षव्यवहारः । अपरोक्षज्ञानजन्यो वा अपरोक्षवस्तुविषयो वा अपरोक्षोऽयमित्याकारो वा । नाद्यः । धर्माधर्मादावप्यपरोक्षेण योगजज्ञानेनानुव्यवसायेन व्याप्तिज्ञानेन च जन्यव्यवहारस्य सत्त्वेनातिव्याप्तेः । अपरोक्षज्ञानशब्देनानागतगोचर-साक्षात्कारजनकप्रत्यासत्त्यजन्यजन्यसाक्षात्कारविवक्षायां चात्मस्वरूपज्ञानस्य नित्यत्वेना- सम्भवात् । विषयगतापरोक्षव्यवहारहेतुसाक्षात्कारविवक्षायां तु साक्षिवेद्ये रूप्यादौ चाविद्यादौ चातिव्याप्तेः । द्वितीये वस्तुन आपरोक्ष्यम् अपरोक्षज्ञानविषयत्वं चेदात्मापि घटादिवद्वेद्यः स्यात् । तस्यैव लक्षणत्वोपपत्त्या कुसृष्टिवैयर्थ्यं च । अपरोक्षव्यवहार-विषयत्वं चेत्, वस्तुव्यवहारयोरपरोक्ष्येऽ न्योन्यसापेक्षत्वादन्योन्याश्रयः । न तृतीयः । निराकारशुद्धब्रह्मविषयस्याखण्डार्थनिष्ठवेदान्तजन्यस्य च व्यवहारस्य अपरोक्ष इत्या-कारत्वायोगात् । अभावेऽतिव्याप्तेश्च । अस्ति हि गज इव गजाभावेऽप्यपरोक्ष इति लोकव्यवहारः । स चावेद्यः । त्वयैव नाभावस्य प्रत्यक्षत्वं किं त्वनुपलब्धिगम्यत्वमिति फलव्याप्यत्वनिषेधात् । यदि चापरोक्षज्ञानम् अपरोक्षव्यवहारशब्दार्थः, तदा स्वव्याहतिः ।

किञ्चापरोक्षव्यवहारयोग्यत्वं न तावत्सर्वान्प्रति । चैत्रस्य ज्ञाने मैत्रं प्रति तदभावात् । नापि ज्ञानं प्रति । तस्याव्यवहर्तृत्वात् । नापि ज्ञानाश्रयं प्रति । चितोऽनाश्रितत्वात् । किञ्चावेद्यस्यापरोक्षव्यवहारविषयत्वं व्याहतम् । तदपरोक्षव्यवहारे तद्विषयकस्फुरणस्य हेतुत्वात् । यदि च स्फुरणाविषयेऽपि स्फुरणे तद्विषयकापरोक्ष वृर्त्तिर्वा तदविषयकं स्फुरणमेव वा स्वाभावभेदादेव अपरोक्षस्वव्यवहारहेतुः, तर्ह्यवैरूप्याय घटादावपि तथैव स्यात् । ननु घटादिकमस्फुरणरूपं स्फुरणं तु तद्रूपमिति चेत्, सत्यं तावता स्फुरणे स्फुरणान्तरं नापेक्षितं न तु कप्तं तद्विषयकत्वमपि । अन्यथा प्रमेयत्वमपि स्ववृत्तिं विनैव स्वस्मिन्प्रमेयव्यवहारं कुर्यादिति केवलान्वयि न स्यात् । गतिरपि ग्राम इव स्वस्मिन्नपि स्वकार्यं कुर्यात् । अस्मन्मतेऽबाध्यत्व रूपसत्त्वस्य स्ववृत्तित्वादेव सत्ता सतीति व्यवहारः ।

एतेन चिदविषयस्वरूपत्वमेव स्वप्रकाशत्वम् । चिदन्यत्सर्वमपि दृश्यत्वनिरुक्ति-प्रस्तावे उक्तन्यायेन चिद्वेद्यमेव । चित्तु न स्ववेद्या । स्वात्मनि वृत्तिविरोधात् । न हि छिदा छेद्या भवतीति निरस्तम् । मिथ्यात्वानुमित्यादेः स्वविषयकत्ववदुपपत्तेः । अन्यथा चितिः स्वात्मनि व्यवहारमपि न जनयेत् । न हि छिदाकार्यं छिदायां दृश्यते । नापि स्वव्यवहारे स्वातिरिक्तसंविदनपेक्षत्वं वा स्वव्यवहारे स्वावच्छिन्न संवि(त्सापे)-दनपेक्षत्वं वा स्वप्रकाशत्वम् । अस्य स्ववेद्यत्वेऽप्युपपत्त्या सम्मतत्वात् । स्वविषयत्वं विना स्वव्यवहारहेतुत्वायोगादित्युक्तत्वाच्च । किञ्च स्वप्रकाशत्वम् आत्मस्वरूपमेव वा तद्धर्मो वा । नाद्यः । इष्टापत्तेः । नान्त्यः । तात्त्विकस्य तस्याभावेन स्वप्रकाशत्वस्या-तात्त्विकत्वापत्त्या तत्साधकानुमानादेर्बाधात् ।

॥ इति स्वप्रकाशत्वलक्षणभङ्गः ॥ ११ ॥

अद्वैतसिद्धिः

ननु परिणममानाविद्याधिष्ठानत्वेनोपादानत्वं वाच्यम् । अधिष्ठानत्वं तु नावेद्यस्य । तद्वेदनार्थं प्रमाणापेक्षायाम् अन्योन्याश्रयात् । न च स्वप्रकाशतदपेक्षमेवाधिष्ठानत्वमिति वाच्यम् । स्वप्रकाशताया वक्तुमशक्यत्वात् । तथा हि– किमिदं स्वप्रकाशत्वं ? वृत्त्यव्याप्यत्वं वा फलाव्याप्यत्वं वा अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं वा तद्योग्यत्वं वा तद्योग्यत्वात्यन्ताभावानधिकरणत्वं वा । नाद्यः । ब्रह्मणोऽप्यावरणभङ्गाय चरमवृत्तिव्याप्यत्वात् । न द्वितीयः । अतीतादौ नित्यातीन्द्रये चातिव्याप्तेः । न तृतीयः । सुषुप्त्यादौ व्यवहाराभावेनाव्याप्तेः । न चतुर्थः । योग्यत्वरूपधर्मस्य मोक्षकालेऽभावेन तदा ब्रह्मण्यव्याप्तेः । नापि पञ्चमः । अनधिकरणत्वस्यापि धर्मत्वेन मोक्षदशायां तस्याप्यभावेनाव्याप्तेः । अत एव न तादृगनधिकरणत्वोपलक्षितमपि तत् । तस्यापि धर्मत्वे मुक्तावभावादिति चेन्न, पञ्चमपक्षस्यैव क्षोदसहत्वात् । न च मोक्षेऽव्याप्तिः । अनधिकरणत्वस्य स्वरूपतया तदापि सत्त्वात् । न च स्वरूपत्वे लक्षणत्वानुपपत्तिः । त्वन्नये ब्रह्माभिन्नानन्दादौ गुणत्वव्यवहारवत्स्वरूपभूतेऽप्य-नधिकरणत्वे लक्षणत्वव्यवहारात् । न च त्वन्मते योग्यत्वमपि ब्रह्मणि मिथ्येति तदत्यन्ताभावोऽपि वाच्यः । तथा च कथं तदत्यन्ताभावानधि करणत्वमिति वाच्यम् । योग्यत्वविरोध्यत्यन्ताभावस्य विवक्षितत्वात् । स्वाश्रयनिष्ठात्यन्ताभावस्य मिथ्यात्वप्रयोजकस्य स्वाश्रयनिष्ठत्वेनैवाविरोधित्वात् ।

यद्वा व्यावहारिकात्यन्ताभावो विवक्षितः । ब्रह्मणि च योग्यतात्यन्ताभावस्य ब्रह्मस्वरूपत्वेन तात्त्विकत्वात् । नाप्यवेद्यत्वानिरुक्तिः । फलाव्याप्यत्वस्यैव तत्त्वात् । आवरणभङ्गे चित एव फलत्वात् । न चैवं घटादेरपि वृत्तिवेद्यतया फलविषयत्वाभावाद् रूप्यसुखादेरपि अपरोक्षव्यवहार-योग्यतया विशिष्ट लक्षणस्यातिव्याप्तिरिति वाच्यम् । घटादौ फलव्याप्यत्वस्य समर्थितत्वाद्रूप्यसुखादौ साक्षिभास्यतयाऽपरोक्षव्यवहारेऽपि प्रमाणजन्यापरोक्षवृत्तिविषयत्वाभावात् । तथा च फलाव्याप्यत्व-समानाधिकरणतद्वत्त्वस्य पर्यवसिततया सकलदोषनिरासात् । न च ब्रह्मणोऽपि वृत्तिप्रतिबिम्बित-चिद्रूपफलभास्यत्वेनासम्भवः । तस्य फलरूपत्वेन तद्विषयत्वाभावात् ।

न च चित्सुखाचार्यैस् तत्स्वभावस्यापि स्फुरणस्य तद्विषयत्वमित्युक्तेरसम्भवः । तस्याचार्य-वचसस्तत्प्रयुक्त व्यवहारविषयतया तद्विषयत्वोपचारनिबन्धनत्वात् । अयमत्र निष्कर्षः-वृत्तिप्रतिबिम्बित-चिज्जन्यातिशययोगित्वं वृत्त्या तत्प्रतिफलितचिता वा अभिव्यक्ताधिष्ठानचिद्विषयत्वं वा फलव्याप्यत्वम् । चिज्जन्यातिशयश्च नावरणभङ्गः, नापि व्यवहारो विवक्षितः, किन्तु भग्नावरणचित्सम्बन्धः । स च घटादावस्ति नात्मनि, सम्बन्धस्य भेदगर्भत्वात् । एवमुक्तचिद्विषयत्वमपि भेदघटितं घटादावस्ति, नात्मनीति स्थितं प्रतिकर्मव्यवस्थायाम् । नाप्यपरोक्षव्यावहारो दुर्वचः । अपरोक्ष इति शब्दप्रयोगस्यैव विवक्षितत्वात् । न चालौकिकप्रत्यक्षविषयधर्माधर्मादौ तादृशव्यवहारयोगितया अतिव्याप्तिः । योगज-धर्मातिरिक्तालौकिकप्रत्यासत्तेरनङ्गीकारात् । तस्यापि स्वयोग्यव्यवहित एव सामर्थ्यापादकत्वात् । न तु धर्मादौ । तदुक्तं ‘यत्राप्यतिशयो दृष्टः’ इत्यादि ।

एतेन कश्चायमपरोक्षव्यवहारो नाम । अपरोक्षज्ञानजन्यो वा अपरोक्षवस्तुविषयो वा अपरोक्ष इत्याकारो वा । नाद्यः । धर्मादावप्यपरोक्षयोगिज्ञानानुव्यवसायव्याप्तिज्ञानजन्यव्यवहारसत्त्वेनातिव्याप्तेः । न द्वितीयः । वस्तुन आपरोक्ष्यम् अपरोक्षज्ञानविषयत्वं चेत्, आत्मनोऽपि घटादिवद् वेद्यत्वापातात् । अपरोक्षव्यवहारविषयत्वं चेत्, वस्तुव्यवहारयोरापरोक्ष्ये अन्योन्यसापेक्षतयाऽन्योन्याश्रयात् । न तृतीयः । निराकारशुद्धब्रह्मविषयस्याखण्डार्थनिष्ठवेदान्त जन्यव्यवहारस्यापरोक्ष इत्याकारायोगादिति निरस्तम् । व्यवहारपदेनाभिवदनस्य विवक्षितत्वेन चरमवृत्तेस्तदनाकारत्वेऽपि क्षत्यभावात् । न चानुपलब्धिगम्यतया अवेद्ये अपरोक्षे लोकव्यवहारसत्त्वेनाभावेऽतिव्याप्तिः । प्रामाणिकव्यवहारस्य विवक्षितत्वात् ।

नन्वपरोक्षव्यवहारयोग्यत्वं न तावत्सर्वान् प्रति । चैत्राज्ञाने मैत्रस्य तदभावात् । नापि ज्ञानं प्रति, तस्याव्यवहर्तृत्वात् । नापि ज्ञानाश्रयं प्रति, ज्ञानस्य चितोऽनाश्रितत्वादिति चेन्न । प्रमातारं यं कञ्चित् प्रत्येवापरोक्षव्यवहारयोग्यत्वं विवक्षितम् । प्रमाता चाहमर्थ एव सर्वसम्मतः । यत्तूक्तं चैत्रस्य ज्ञाने मैत्रस्याव्यवहार इति, तस्य चैत्रज्ञाननिमित्तको मैत्रस्याव्यवहार इति वाऽर्थः, चैत्रज्ञान-विषयको मैत्रस्याव्यवहार इति वाऽर्थः । आद्ये चैत्रज्ञानेन मैत्रस्याव्यवहारेऽपि स्वज्ञानेनैव घटे ब्रह्मणि चापरोक्षव्यवहारसम्भवेन व्यर्थविशेषणत्वासम्भवयोरभावात् । द्वितीये चैत्रज्ञाने तादृग्व्यवहारा-भावेऽपि क्षत्यभावात् । अस्माकमपि हि चितिरेव स्वप्रकाशा, न तु चैत्रज्ञानत्वेन व्यपदिश्यमान-वृत्त्युपहितचिदपि । वृत्तेरस्वप्रकाशत्वात् । एवं च सर्वप्रमातॄन् प्रति तादृग्व्यवहारविषयतायोग्यत्वमपि सङ्गच्छत एव ।

ननु– अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वं तद्योग्यत्वं च व्याहतम् । तदपरोक्षव्यवहारे तद्विषयकस्फुरणस्य हेतुत्वादिति चेन्न । अन्यत्र तद्विषयस्य तद्व्यवहारजनकत्वेऽपि स्फुरणस्य स्वाविषयस्य स्वस्मिन् व्यवहारजनकत्वम् । स्वभावभेदात् । न च घटादावपि तथैवास्तु, तेषा-मस्फुरणरूपत्वेन तद्विषयत्वं विना नियामकान्तराभावात् । तार्किककल्पितस्यानुव्यवसायस्यापि घटज्ञान-ज्ञानत्वापेक्षया लघुना घटज्ञानत्वेनैव घटज्ञानव्यवहारहेतुत्वकल्पनाच्च । नन्वनवस्थाभिया स्फुरणान्तरा-नङ्गीकारात् स्वस्य स्वविषयत्वमस्तु । अन्यत्र कप्तस्य तद्विषयत्वस्य नियामकस्य त्यक्तुमयुक्तत्वात् । अन्यथा प्रमेयत्वस्य स्ववृत्तित्वं विनैव स्वत एव प्रमेयमिति व्यवहारजनकत्वोपपत्त्या केवलान्वयित्व भङ्गप्रसङ्ग इति चेन्न, अनवस्थया स्फुरणान्तरत्यागवदभेदे भेदनियतस्य विषयिविषयभावस्याप्ययुक्ततया त्यागोपपत्तेः, प्रमेयत्वादौ केवलान्वयित्वभङ्गस्येष्टत्वात् । न च– एवं गतिरपि ग्राम इव स्वस्मिन्नपि स्वकार्यं करोत्विति वाच्यम्, भेदाविशेषात्तन्तुरिव मृदपि पटं करोत्वित्यस्याप्यापत्तेः । स्वभावभेदेन परिहारश्च सर्वत्र समानः ।

यद्वा– चिदविषयस्वरूपत्वमेव स्वप्रकाशत्वम् । चिदन्यस्य सर्वस्य चिद्विषयत्वात्तुच्छस्य निःस्वरूपत्वेन नातिव्याप्तिशङ्का । नाप्यसम्भवः । स्वात्मनि वृत्तिविरोधेन छिदाया अच्छेद्यत्ववत् स्वस्य स्ववेद्यत्वायोगात् । न चैवं मिथ्यात्वानुमितेरपि अस्वविषयत्वापत्तिरिति वाच्यम् । स्वपरसाधारणस्यैकस्य विषयतानियामकस्य तत्र सत्त्वेन विशेषात् । अत एव यथा छिदादौ परशुसंयोगो न स्वपरसाधारण इति स्वस्मिन् वृत्तिविरोधः, तथा प्रकृतेऽपि । न च तर्हि छिदाकार्यस्य छिदायामिव चिज्जन्यव्यवहारस्य चित्यनापत्तिरिति वाच्यम् । फलदर्शनस्यैव छिदापेक्षया स्वभावभेदनियामकत्वात् । यद्वा स्वव्यवहारे स्वातिरिक्तसंविदनपेक्षत्वं स्वावच्छिन्नसंविदनपेक्षत्वं वा स्वप्रकाशत्वम् । न च स्ववेद्यत्वेऽप्युपपत्त्या स्वाभिमतप्रकाशत्वानुपपत्तिः । स्ववेद्यत्वस्य बाधितत्वेन तदादायोपपत्त्यसम्भवात् । ननु स्वप्रकाशत्वधर्मस्य तात्त्विकत्वेऽद्वैत व्याघातः । अतात्त्विकत्वेऽस्वप्रकाशत्वस्यैव तात्त्विकत्वापत्त्या तत्साधकानुमानादेर्बाध इति चेन्न, स्वरूपत्वस्योक्त त्वात् । न च परोषामिदमिष्टम् । वेद्यत्वविरोधि-स्वरूपस्य परैरनङ्गीकारात् । इत्यद्वैतसिद्धौ ब्रह्मस्वप्रकाशत्वलक्षणोपपत्तिः ॥ ११ ॥

न्यायामृततरङ्गिणी

अत्यन्ताभावेति ॥ मोक्षे योग्यताया अभावेऽपि तदत्यन्ताभावो नास्ति । योग्यताव-त्तदत्यन्ताभावस्यापि धर्मत्वात् ॥ स्वप्रकाशेति ॥ अवेद्येत्यर्थः । तथापीत्यादिनोक्ततल्लक्षणस्य मुक्तात्मन्यव्याप्तिमाह– त्वन्मत इति ॥ ननु ‘मुक्तात्मा नोक्तात्यन्ताभावाधिकरणत्वा-भाववान् उक्तात्यन्ताभावानधिकरणत्वात् । यो यदनधिकरणं न स तदनधिकरणत्वाभाववान्। यथा रूपानधिकरणं वायुः रूपानधिकरणत्वाभाववान्न । तथा च कथमव्याप्तिरित्यत उक्तं सत्वादीति ॥ तथा चात्मनि व्यभिचारान्नोक्तविधया लक्षणाभावानुमानमित्यर्थः । न चानधिकरणत्वं स्वरूपमेवातो मुक्तावपि तदस्तीति वाच्यम् । स्वरूपत्वे लक्षणत्वानुपपत्तेः । मम मते त्वानन्दादेः स्वरूपत्वेऽपि धर्मत्वाल्लक्षणत्वम् ॥ स्वेति ॥ एतेनात्यन्ताभावस्याधि-करणरूपतया तदनधिकरणत्वं नासम्भवीति निरस्तम् । योग्यतामिथ्यात्वानुपपत्तेः । स्वात्यन्ताभावसामानाधिकरण्याभावात् ॥ ब्रह्मान्यत्वेनेति ॥ ब्रह्मरूपत्वे तु योग्यता मिथ्या न स्यादिति बोध्यम् ॥ दृश्यत्वेति ॥ रूप्यादौ विशेषणवद्विशेष्यस्यापि सत्त्वाद्धटादौ विशेष्यवद्विशेषणस्यापि सत्त्वादित्युक्तत्वादित्यर्थः।

नन्वपरोक्षेत्यादिना प्रमाणजन्यापरोक्षवृत्तिविषयत्वं विवक्षितम् । प्रातिभासिकादौ च न प्रमाणवृत्तिः । अतो न तत्रातिव्याप्तिः । मैवम् । प्रमाणजन्यापरोक्षवृत्तिविषय-चैतन्यैक्याध्यासमात्रेण घटादावापरोक्ष्योपपत्तेस्तदर्थं घटादौ तादृशवृत्तिविषयत्वस्य स्वीकर्तु-मनुचितत्वेनोक्तवृत्तिविषयत्वस्यैव लक्षणत्वसम्भवेऽवेद्यत्वे सतीत्यस्य वैयर्थ्यात् ॥ स चेति ॥ सम्बन्धस्योभयनिष्ठत्वादिति भावः ॥ न त्विति ॥ आत्मनोऽधिष्ठानाभावाद् भग्नावरण-चिदभेदरूपस्य सम्बन्धस्य चित्यपि सत्त्वादाद्यपक्षमुपेक्ष्य द्वितीययोर्दोषमाह– घटादाविति ॥ एतेनेति ॥ घटादौ वृत्त्यतिरिक्तचिद्रूपज्ञानं प्रत्यविषयत्वेन ॥ स्वाकारेति ॥ तथा चासम्भवः । ननु चरमवृत्तिर्न ब्रह्माकारा । तस्य निराकारत्वात् । अत उक्तं रूपादेरिवेति ॥ रूपाकारत्ववद् ब्रह्माकारत्वमपि वृत्तेर्युक्तम् ॥ उक्तेति ॥ चरमवृत्तिप्रतिफलितचित्फलभूतस्य ॥ तदन्यस्य चेति ॥ तादृशचिद्विषयत्वादेः ॥ शुद्धेति ॥ शुद्धचितः परसमवेतत्वे क्रियात्वे च तत्फलभूतया वृत्तिप्रतिफलितचिता भासमानघटादेः कर्मत्वं स्यात् । न चैवम् । शुद्धचितः समवेतत्वाद्यभावात् ।

जन्यसाक्षात्कारेति ॥ तादृशेश्वरज्ञानजन्यव्यवहारविषये धर्मादावनतिव्याप्तये जन्येति ॥ साक्षीति ॥ विषयगतापरोक्षव्यवहारहेतुसाक्षात्कार त्वात्साक्षिणोऽपरोक्षज्ञानशब्देन वृत्तिप्रतिफलितचैतन्यादिकं वाऽपरोक्षवृत्तिमात्रं वा । आद्य आह– आत्मापीति ॥ द्वितीय आह– तस्यैवेति ॥ अवेद्यत्वे सत्यपरोक्षज्ञानविषयत्वस्यैव ॥ कुसृष्टीति ॥ ज्ञानापरोक्ष्येण विषयापरोक्ष्यं सम्पाद्य लक्षणाकरणं कुसृष्टिः । साक्षिवेद्यरूप्यादौ अतिव्याप्तिस्तु उभयथापि समैवेत्यर्थः ॥ वस्त्विति ॥ वस्त्वापरोक्ष्याधीनं व्यवहारापरोक्ष्यं तदधीनं च वस्त्वापरोक्ष्यम् । अभावे लक्षणगतविशेष्यांशमुपपादयति– अस्ति हीति ॥ विशेषणांशमुपपादयति– स चेति ॥

नन्वनुपलब्धिगम्येऽभावेऽपरोक्षज्ञानविषयत्वरूपोऽपरोक्षव्यवहारो नास्तीति न तत्राति-व्याप्तिरत आह– यदि चेति ॥ उक्तरूपापरोक्षज्ञानाविषयत्वरूपमवेद्यत्वमङ्गीकृत्य पुनरपरोक्ष-ज्ञानविषयत्वाङ्गीकारे व्याहतिः ॥ चैत्रेति ॥ घटाद्यधिष्ठानचैतन्यं स्वयं प्रकाशं घटप्रकाशक-मित्युच्यते तत्र घटविषयचैत्रस्थवृत्त्यादिना घटाधिष्ठानचितश्चैत्रं प्रत्यपरोक्षव्यवहारेऽपि मैत्रं प्रति तदभावाद्धटाधिष्ठानचित्स्वप्रकाशो न स्यात् ॥ ज्ञानं प्रतीति ॥ घटाधिष्ठानचितं प्रतीत्यर्थः । ननु प्रमातारं यं कञ्चित्प्रत्यपरोक्षव्यवहारविषयत्वं विवक्षितम् । न प्रमातुः । चित्त्वे विरोधाभावात् । जडत्वे त्वसम्भवात् । अन्यस्याहमर्थस्याभावात् । स्वाभावभेदात् स्वाभावविशेषात् ॥ नापेक्षितमिति ॥ अनवस्थाभयात् । ननु भेदाभावात्तद्विषयत्वमपि त्यज्यते । मैवम् । कल्पितभेदस्य सम्भवाद्वृत्तिप्रतिबिम्बितस्य विषयित्वम् । घटाधिष्ठानस्य विषयत्वमित्युपपत्तेः ॥ अन्यथेति ॥ कप्तस्यापि त्यागे ॥ चिदविषयेति ॥ तुच्छवारणाय स्वरूपत्वमिति ॥ मिथ्यात्वेति ॥ न च मिथ्यात्वानुमितौ स्वपरसाधारणमेक-विषयत्वनियामकमस्तीति सा स्वविषयेति वाच्यम् । तद्व्यवहारजनकत्वप्रयोजकस्य चित्यपि सम्भवात् । अत एवाह– अन्यथेति ॥ ननु बाधात्स्ववेद्यत्वेन नोपपत्तिरत आह– स्वविषयत्वमिति ॥ तथा चावेद्यत्वमेव बाधितमिति भावः ॥ इष्टापत्तेरिति ॥ न च वेद्यत्वविरोधिस्वरूपं नेष्टमिति वाच्यम् । अचिन्त्यशक्त्यावेद्यस्यापि तथात्वात् । जानन्तोऽपि न जानन्तीति श्रुतेः ॥ इति स्वप्रकाशत्वलक्षणभङ्गः ॥ ११ ॥

न्यायामृतकण्टकोद्धारः

ननु जगत्कर्तृत्वादिना ब्रह्म वेद्यमित्युक्तं, तदयुक्तम् । ब्रह्मणोऽवेद्यत्वात् । अवेद्यत्वं च स्वप्रकाशत्वादित्याक्षिपति– यच्चेदमिति ॥ ननु स्वप्रकाशत्वं लक्षणाभावात्प्रमाणाभावा-दयुक्तमित्यतो लक्षणं प्रतिपादयितुमनभिप्रेतानि लक्षणानि निराकरोति– तच्च यद्यपीति ॥ उक्तन्यायेनेति ॥ वेदान्तवैयर्थ्यप्रसङ्गादिनेत्यर्थः । व्यवहारविषयत्वं फलोपधानरूपं वा योग्यत्वरूपं वा ? आद्य आह– सुषुप्तीति ॥ व्यवहाराभावेनेति ॥ सर्वेन्द्रियाणामुपरतत्वादिति भावः । न द्वितीय इत्याह– नापीति ॥ अभावादिति ॥ तथा च मोक्षदशायामव्याप्तिरिति भावः । एवं लक्षणासम्भवं परिहृत्य प्रमाणासंभवं परिहरति– प्रमाणं त्विति ॥ त्वन्मत इति ॥ तथा च मोक्षेऽव्याप्तिरिति भावः । न चाभावरूपो धर्मः स्वीक्रियते इति वाच्यम् । अखण्डत्वविरोधित्वेन भावरूपतुल्ययोगक्षेमत्वेन तस्याङ्गीकर्तुमनुचितत्वात् । न चाधिकरणत्वं स्वरूपमेवेति वाच्यम् । सोपाधिकनिरुपाधिकयोरैक्यायोगात् । अभेदलक्षणत्वानुपपत्तेश्च । न च ब्राह्मानन्दज्ञानादेर्भवन्मते ब्रह्मलक्षणत्वादिवदुपपत्तिरिति वाच्यम् । मन्मते लक्ष्यलक्षणभावसम्पादकविशेषवत् त्वन्मते तदभावात् । तदङ्गीकारे चाखण्डत्वविरोधेनापसिद्धान्तात् ।

अव्याप्तिमुक्त्वाऽसम्भवमाह– किञ्चेति ॥ न च योग्यत्वविरोध्यत्यन्ताभावानधिकरणत्वं विवक्षितम् । मिथ्यात्वप्रयोजकश्चाभावः स्वसमानाधिकरण एवेति न स्वविरोधीति वाच्यम् । स्वाविरोधिनः स्वात्यन्ताभावस्य पारिभाषिकत्वात् । अत्यन्ताभावो हि तत्प्रतिषेधविशेषः । न हि तत्स्वरूपसहिष्णुस् तत्प्रतिषेधः सम्भवति इति भावः ॥ न चेति ॥ तथा च नासम्भवः । मिथ्यात्वप्रयोजकस्त्वत्यन्ताभाव स्तात्विकः । स च ब्रह्मस्वरूप एवेति भावः ॥ अत्यन्ता-भावस्येति ॥ मिथ्यात्वप्रयोजकोऽत्यन्ताभावो न ब्रह्मस्वरूपः । सोपाधिकत्वेन निरूपाधिक-ब्रह्मस्वरूपत्वायेगात् । तथा च तस्यापि ब्रह्मान्यत्वेन व्यावहारिकत्वात् तदधिकरणत्वं न सम्भवतीति भावः । एवं विशिष्टं लक्षणम् अव्याप्त्यसम्भवाभ्यां दूषयित्वा लक्षणांशावेद्यत्वमनिरुक्त्या दूषयति– किञ्चेदमिति ॥ असम्भवादिति ॥ अन्यथा वेदान्तानां वैयर्थ्यप्रसङ्गादिति भावः ॥ उक्तरीत्येति ॥ शुक्तिरूप्यादेः प्रातिभासिकत्वेन सन्निकर्षजन्यवृत्तेरसम्भवेन तद्घटितफलासम्भवः । घटादौ च वृत्तेः सम्भवेऽपि तद्विशिष्टचैतन्यसद्भावे प्रमाणाभावात् फलासम्भवेनातिव्याप्तिरित्यर्थः ।

तत्रोक्तरीत्यैवेति ॥ न च तस्य फलरूपत्वेन तद्विषयत्वरूपतद्व्याप्यत्वाभावाविषयत्वस्य भेदनियतत्वादिति वाच्यम् । वृत्तिघटितस्यैव फलत्वेन केवलस्य फलत्वाभावेन विशिष्टाविशिष्ट-भेदसम्भवात् । केवलस्यैव फलत्वे च सर्वदा तस्य सत्त्वेन घटादिकं सर्वदा प्रकाशेत । न च धर्मिसमानसत्ताको भेदस्तत्र । न चासौ प्रकृतेऽस्तीति वाच्यम् । तथात्वे चैतन्यस्य वृत्ति-विषयतानापत्तेः । न हि वृत्तेश्चैतन्यस्य चैतन्यसमानसत्ताको भेदोऽस्ति । विषयिसमानसत्ताकश्च भेदः प्रकृतेऽप्यस्तीति भावः । वृत्तिविषयत्वं च दृश्यत्वभङ्ग एवोपपादितम् । एतेन चैतन्यस्य फलसम्बन्धप्रतिपादनेनेत्यर्थः ॥ उक्तत्वादिति ॥ दृश्यत्वभङ्गे इति शेषः । एतेनैव घटादौ चैतन्यरूपज्ञानाभावप्रतिपादनेनैवेत्यर्थः ॥ चित्सुखेनेति ॥ न च तज्जन्यव्यवहारविषयत्वात् तद्विषयत्वोपचार इति वाच्यम् । मुख्यासम्भव उपचारस्वीकरणात् । प्रकृते च मुख्यविषयत्व-स्योक्तत्वात् ।

अत्र किं चैतन्यमनवच्छिन्नं विवक्षितम्, विशिष्टं वा । आद्य आह– अनवच्छिन्नमिति ॥ तथा च घटादावतिव्याप्तिरित्यर्थः । द्वितीय आह– स्वाकारेति ॥ न च ब्रह्मण उदासीनत्वेन कारकत्वं नेति वाच्यम् । उदासीनत्वेनैव जगज्जन्मादिकारणत्वस्याप्यभावापातात् । उपाधि-सम्बन्धादिना कथञ्चित् समाधाने च प्रकृतेऽपि तुल्यमिति ॥ तदन्यस्य चेति ॥ न च चित्सम्बन्ध एवातिशयः । स च प्रकृते न सम्भवति । अभेदादिति वाच्यम् । अभेदेऽपि सम्बन्धस्योपपादितत्वात् ॥ तदिति ॥ तथा च जडेऽव्याप्तिरिति भावः ॥ ब्रह्मणोऽपीति ॥ तथा चासम्भव इति भावः । एतेनेति परामृष्टं हेतुमाह– घटादाविति ॥ अवेद्यत्वानिर्वचन-मुपसंहरति– तस्मादिति ॥ ननु चैतन्यविषयत्वमेव स्वप्रकाशत्वम् । न चासत्यतिव्याप्तिः । न चासन्नाम किञ्चिदस्ति । येन तत्रातिव्याप्तिः शङ्कास्पदा । न च ब्रह्मण्यसम्भवः । तस्य तद्विषयत्वाभावे तद्व्यवहारासम्भवादिति वाच्यम् । व्यवहारमात्रे तद्विषयज्ञानत्वेनाकारणत्वात् । न च पटप्रकाशेन घटव्यवहारापत्तिः । सामान्यसामग््रया विशेषस्यापादयितुमशक्यत्वात् । अनात्मव्यवहारे तद्विषयज्ञानत्वेनैव कारणत्वात् । न चात्मव्यवहारेऽपि विशेषसामग्री वाच्येति वाच्यम् । सामान्यसामग््रयैव तदुपपत्तेः । न च सामान्यसामग््रया विशेषप्रयोजकत्वमदृष्टचरमिति वाच्यम् । भट्टमते सामान्यसामग््रयैव प्रमारूपविशेषकार्यदर्शनात् ।

यद्वा आत्मव्यवहारे आत्माभिन्नप्रकाशत्वेन हेतुताऽस्तु । तथा च नात्मनो विषयत्व-मावश्यकम् । किञ्च विषयत्वं नाम सम्बन्धः । स च भेदनियतः । कथमभिन्नचैतन्यस्य स्यात् । न च प्रमेयत्वादावभेदेऽपि सम्बन्धो दृष्ट इति वाच्यम् । प्रमेयत्वादेः केवलान्वयित्वखण्डनेन तदसम्मतेः । तस्मान्नात्मन्यसम्भवः । न च घटादिषु वृत्तिरेव घटादिव्यवहारहेतुर् न चैतन्यमिति वाच्यम् । इच्छादिषु वृत्तिं विनापि व्यवहारदर्शनेन चैतन्यस्य तत्र हेतुत्वात् । घटादिषु विनिगमनाविरहादुभयोरपि हेतुत्वम् । तथा च न घटादिष्वतिव्याप्तिः । एवं चैतन्यविषयत्वमेव स्वप्रकाशत्वमिति । अत्रोच्यते । अत्र चैतन्यं शुद्धं वा विवक्षितम् उत घटितम् उत सामान्यम् । नाद्यः । केवलचैतन्यविषयत्वस्य घटादावभावेन तत्रातिव्याप्तेः । धर्मादौ सुतरामतिव्याप्तेश्च । घटादेः केवलचैतन्यवेद्यत्वे सर्वदा प्रकाशापत्तेश्च । न द्वितीयः । ब्रह्मणोऽपि विशिष्टचैतन्य-विषयत्वस्य सम्भवेनासम्भवापत्तेः । न च विषयत्वप्रयोजकसम्बन्धाभावात् कथं विषयत्वं, तदभावश्च, तन्नियतभेदाभावादिति वाच्यम् । विशिष्टाविशिष्टभेदस्य समर्थितत्वात् । पारमार्थिकभेदस्य च घटादावप्यभावात् । धर्मिसमसत्ताकभेदस्य वृत्तावप्यभावात् ।

किञ्च धर्मादौ येन रूपेण चैतन्यविषयत्वं तेनैव रूपेण चितोऽप्यस्तु । न च प्रकाशत्वेन सामान्यकारणत्वात् तेनैव व्यवहारनिर्वाह इति वाच्यम् । सामान्यविशेषकारणपरापेक्षया तद्व्यवहारे तद्विषयप्रकाशेनैकेनैव रूपेण कारणत्वकल्पने लाघवात् । विषयत्वस्य चोपपादितत्वात् । न तृतीयः । सामान्यस्य ब्रह्मणि भावेन तदभावस्यासम्भवित्वात् । न च ब्रह्मणो निर्धर्मकत्वाद् विषयत्वरूपधर्मानधिकरणत्वमिति वाच्यम् । तत एवानधिकरणत्वस्याप्यभावापत्तेः । अभावरूपधर्मानधिकरणत्वञ्चाखण्डत्वविरोधादयुक्तम् । असत्यतिव्याप्तेश्च । न चासन्नास्त्येवेति वाच्यम् । असत्त्वादेव विषयत्वाभावसम्भवात् । न चासतो निर्धर्मकत्वाद् विषयत्वाभावोऽपि नेति वाच्यम् । असत्त्वादिवत्तदुपपत्तेः । अन्यथा व्याघातादिति । एवं स्वप्रकाशत्वलक्षणा-वेद्यत्वनिर्वचनं निराकृत्य विशेष्यनिर्वचनमपि निराकरोति– कश्चायमिति ॥ कीदृग्लक्षण इत्यर्थः ॥ धर्माधर्मादावपीति ॥ न चालौकिकप्रत्यासत्तेरनङ्गीकारादिदमयुक्तमिति वाच्यम् । नैयायिक-मतावलम्बनेनोक्तत्वात् । ज्ञानादेः प्रत्यासत्तित्वानङ्गीकारेऽपि नियामकत्वाभ्युपगमाच्च ।

अपरोक्षेति ॥ न चानागतगोचरप्रत्यासत्तेरप्रामाणिकत्वात् तदजन्यत्वम् अप्रसिद्धमिति वाच्यम् । उभयोरपि मते अप्रामाणिकस्य प्रतियोगित्वात् । न च पदत्यागान्नासम्भव इति वाच्यम् । व्यवहारस्य तादृशेश्वरसाक्षात्कार जन्यत्वेनासम्भवापरिहारात् ॥ साक्षिवेद्य इति ॥ साक्षिणोऽपि सुखादिगतापरोक्षव्यवहारहेतुत्वात्साक्षात्कारत्वाच्चेति भावः ॥ आत्मापीति ॥ अपरोक्षत्वेन अपरोक्षज्ञानविषयत्वादित्यर्थः । न चात्मनः स्फुरणरूपत्वेनापरोक्षत्वमिति वाच्यम् । अपरोक्षद्वैविध्यकल्पने मानाभावात् । आत्मनो भेदेऽपि विषयत्वस्योपपादितत्वाच्च ॥ तस्यैवेति ॥ स्वप्रकाशत्वलक्षणे अपरोक्षज्ञानविषयत्वस्यैव विशेष्यत्वसम्भवे व्यवहारविषयपर्यन्तधावनं कुसृष्टिरित्यर्थः । निराकरोति । व्यवहारस्य ज्ञानस्येत्यर्थः । न चापरोक्षव्यवहारशब्देनापरोक्ष-शब्दप्रयोगस्य विवक्षितत्वान्नोक्तदोष इति वाच्यम् । तादृशाविद्यासुखादौ धर्मे चातिव्याप्तेः ।

न च योगजधर्मस्य व्यवहित एव सामर्थ्यापादकत्वं न सन्निहित इति वाच्यम् । योगजधर्मेण व्यवहितं साक्षात्करोमि न सन्निहितमित्यनुभवाभावेन तयोः सामर्थ्यकल्पने मानाभावात् ॥ अभाव इति ॥ न च प्रामाणिक प्रयोगस्य विवक्षितत्वान्नाभावेऽतिव्याप्तिरिति वाच्यम् । बाधकाभावेन तस्यापि प्रामाणिकत्वात् । अन्यथा कुत्रापि तस्य तत्वं न स्यात् । न चानुपलब्धिगम्यत्वात्कथंं तस्याप्रामाणिकत्वमिति वाच्यम् । अनुपलब्धिगम्यत्वस्याप्रामाणि कत्वात् । न ह्यनुपलब्ध्याऽभावं जानामीत्यनुभवः । किन्तु चक्षुषा घटाभावं पश्यामीति । नन्वभावस्य फलव्याप्यत्वाद् विशेषणाभावान्न तत्रातिव्याप्तिरित्यत आह– स चेति ॥ ननु नास्माकं कुसृष्टिः । अपरोक्ष-व्यवहारशब्देनापरोक्षव्यवहारस्यैव विवक्षितत्वादित्यत आह– यदि चेति ॥ अपरोक्षज्ञानस्यैव फलत्वेन तद्विषयत्वं चेति कथं न व्याहतिरिति भावः ॥ तदभावादिति ॥ अपरोक्षव्यवहारा-भावादित्यर्थः ।

ननु चितिः स्वप्रकाशा । तस्याञ्च मैत्रीयव्यवहारयोग्यत्वमस्ति । चैत्रस्थज्ञानत्वेन तु न स्वप्रकाशा । तस्यास्वप्रकाशवृत्त्युपहतत्वेनास्वप्रकाशत्वादिति चेन्न । चैत्रज्ञानस्याप्रकाशत्वे तस्य तं प्रत्यपरोक्षव्यवहारयोग्यत्वं न स्यात् । तथा च स्वस्वचितिः स्वस्वापरोक्षव्यवहारयोग्येति कथं सर्वान् प्रति चिन्मात्रस्यापरोक्षव्यवहारयोग्यत्वम् । तथा च परस्यापरोक्षयोग्यत्वं तस्यैव स्वप्रकाशत्वं मन्तव्यमिति भावः । यत्तु प्रमातारं प्रति व्यवहारयोग्यत्वं प्रमाता चाहमर्थः सर्वसम्मत इति तन्न । अहमर्थस्य जडत्वेन व्यवहारत्वानुपपत्तेः । मुक्तावहमर्थाभावेन व्यवहारायोग्यत्वा-भावप्रसङ्गाच्च । व्यवहर्तुर्मिथ्यात्वेन तदुपाधिव्यवहारायोग्यत्वस्यापि मिथ्यात्वनियतत्वेन वस्तुतः स्वप्रकाशत्वाभावप्रसङ्गाच्च । तथा च मिथ्याभूतव्यवहर्तारमादाय तस्य न स्वप्रका(श)रत्वोपपत्तिः । न तु कप्तत्वेऽप्यभेदेन भेदनियतस्य विषयविषयि भावस्यायोगात् कप्तत्याग इति वाच्यम् । अभेदेऽपि विषयविषयिभावस्योपपादितत्वात् ॥ अन्यथेति ॥ न च प्रमेयत्वे प्रमेयत्वं नेति केवलान्वयित्वभङ्ग इष्ट एवेति वाच्यम् । प्रमेयत्वं प्रमेयमित्यबाधिताभेदव्यवहारात् । न च प्रमेयान्तरमेव तत्र विषय इति वाच्यम् । अभिन्नमैक्यम् अज्ञानमज्ञातम् इत्यादिवदभेदेनैव सम्बन्धेन व्यवहारोपपत्तौ अनेकप्रमेयत्वकल्पने गौरवात् । स्ववृत्तित्वाभावेऽपि स्वस्मिन् व्यवहारेऽतिप्रसङ्गाच्च । यदि च गत्यादौ स्वविषयत्वं न दृष्टमिति चितो न चिद्विषयत्वं तर्हि गत्यादौ स्वस्मिन् स्वकार्यमपि न दृष्टमिति चितः स्वस्मिन् स्वकार्यमपि न स्यात् । यदि च भावानां विलक्षणत्वादेवमङ्गीक्रियते तर्हि स्वविषयत्वमपि स्वीकर्तव्यमित्याह– गतिरपीति ॥ मिथ्यात्वानुमित्यादेरिति ॥ न च स्वपरसाधारणविषयतानियामकसद्भावे स्वविषयत्वम् अविरुद्धम् । अस्ति च मिथ्यात्वानुमिते स्वपरसाधारणविषयतानियामकं दृश्यत्वम् । प्रकृते च तत्किमपि नेति कथं स्वविषयत्वमिति वाच्यम् । प्रकृतेऽपि तज्जन्यव्यवहारविषयत्वस्य नियामकस्य सम्भवात् ॥ अन्यथेति ॥ यदि गत्यादौ स्वविषयत्वं न दृष्टमित्यर्थः । चित् स्वस्मिन् स्वकार्यमपि न कुर्याददृष्टत्वादित्यर्थः । स्वभावभेदादन्यत्रादृष्टमपि स्वस्मिन् स्वकार्यं चेत्तस्मादेव स्वविषयत्वमपि स्वीकर्तव्यमिति भावः ॥ अस्य स्ववेद्यत्वेऽपीति ॥ यथा च स्ववेद्यत्वं न बाधितं तथोक्तं पुरस्तात् ॥ इष्टापत्तेरिति ॥ न च स्वरूपं वेद्यत्वविरोधि भवतां मतेनेति कथमिष्टापत्तिरिति वाच्यम् । त्वया निर्विशेषस्वरूपाङ्गीकारेण वेद्यत्वविरोधित्वविशेषस्य अङ्गीकर्तुमुचितत्वेन स्वरूपमात्रे स्वीकर्तव्ये तस्य मयाप्यङ्गीकृतत्वेनेष्टापत्तिरित्यर्थः । इति स्वप्रकाशत्वलक्षणभङ्गः ॥ ११ ॥

न्यायामृतप्रकाशः

तच्चेति ॥ स्वप्रकाशत्वमित्यर्थः ॥ वृत्त्यव्याप्यत्वमिति ॥ वृत्त्यविषयत्वमित्यर्थः ॥ उक्त-रीत्येति ॥ ब्रह्मणो वृत्तिविषयत्वाभावे ब्रह्मविचारयतोर्गुरुशिष्ययोर्मौनं मौढ्यं च स्यादित्युक्तरीत्येत्यर्थः । तथा च लक्षणस्य ब्रह्मण्यसम्भव इत्यर्थः ॥ फलेति ॥ ब्रह्मचैतन्यस्य प्रकाशरूपत्वेन प्रकाशरूपे प्रकाशान्तरानुदयेन ज्ञाततारूप फलाव्याप्यत्वसद्भावादित्यर्थः ॥ नापीति ॥ अतीतादौ विशेष्या-भावान्नातिव्याप्तिरिति भावः । घटादिप्रपञ्चे तु विशेषणाभावप्रयुक्तविशिष्टाभावेन स्वप्रकाशत्वाभावो द्रष्टव्यः ॥ व्यवहारेति ॥ यथा च सुषुप्त्यादौ विद्यमाने ब्रह्मचैतन्ये व्यवहारस्यैवाऽभावेनापरोक्ष व्यवहारविषयत्वाभावादव्याप्तिरित्यर्थः ॥ योग्यत्वमिति ॥ सुप्त्यादौ विद्यमाने ब्रह्मचैतन्येऽपरोक्ष-व्यवहारविषयत्वयोग्यतायाः सत्वान्नाव्याप्तिरित्यर्थः । तथापि मुक्तिकालीने ब्रह्मचैतन्ये शक्त्यादि-रूपयोग्यताख्यधर्माभावेनाव्याप्तिरित्याह– मोक्ष इति ॥ अत्यन्ताभावेति ॥ मोक्षे योग्यताया अभावेऽपि तदत्यन्ताभावोऽपि नास्ति । योग्यतावत्तदत्यन्ताभावस्यापि धर्मत्वम् । एवं च योग्यता-त्यन्ताभावानधिकरणत्वस्य सत्वान्न मोक्षकालीनात्मन्य व्याप्तिरिति भावः ।

वस्तुसिद्धेर्लक्षणप्रमाणाधीनत्वात्स्वप्रकाशत्वस्य लक्षणमुक्त्वा तत्र प्रमाणं चाह– प्रमाणं चात्रेति ॥ स्वप्रकाशेति ॥ अवेद्येत्यर्थः ॥ व्यतिरेकीति ॥ व्यतिरेकव्याप्तौ च घटादिर्दृष्टान्त इति भावः ॥ किञ्चिन्निष्ठेति ॥ यन्निष्ठात्यन्ताभावप्रतियोगि तदेवावेद्यरूपं स्वप्रकाशमेवाऽऽयास्यतीति भावः । नन्वनेनानुमानेनानुभूतेः स्वप्रकाशत्वसिद्धावप्यात्मनः स्वप्रकाशत्वम् असिद्धमित्यत आह– आत्मा चेति ॥ योग्यतात्यन्ताभावानधिकरणत्वस्यापि मुक्तात्मन्यभावादव्याप्तिरित्याह– त्वन्मत इति ॥ अनधिकरणत्वरूपस्य तद्वैशिष्ट्यरूपस्य । नन्वात्मनि योग्यतात्यन्ताभावानधिकरणत्वस्यैव सत्वेन तदभावः कथं वक्तुं शक्यते । येनासम्भवः स्यात् । तथा च मुक्तात्मा योग्यतात्यन्ताभावानधिकरणत्वा-भाववान्न भवति योग्यतात्यन्ताभावानधिकरणत्वात् । यो यदनधिकरणं स तदनधिकरणत्वाभाववान्न भवति यथा रूपानधिकरणं वायू रूपानधिकरणत्वाभाववान्नेति सामान्यव्याप्तिमूलकानुमानेन योग्यता-भावनधिकरणत्वाभावस्याऽभावसिद्धेः कथमव्याप्तिरित्यत उक्तं सत्वादीति ॥ यथा त्वन्मते आत्मनो निर्धर्मकत्वात्तत्र सत्वं नास्ति, असत्वं च नास्ति । तावता सत्वानधिकरणत्वमसत्वानधिकरणत्वं च तत्र वक्तुं न शक्यते । तथात्वेऽनिर्वाच्यलक्षणस्य ब्रह्मण्यतिव्याप्तिप्रसङ्गात् ।

एवं ब्रह्मणि योग्यतात्यन्ताभावाधिकरणत्वं योग्यतात्यन्ताभावानधिकरणत्वं च नास्त्येवेत्य-व्याप्तिरेव ॥ तथा चोक्तानुमाने सामान्यव्याप्तौ सत्वाद्यनधिकरणत्व वत्यात्मनि व्यभिचारान्नाव्याप्ति-परिहारायोक्तलक्षणाभावस्यानुमानतो व्याप्तिर्दृढेति भावः । उक्तलक्षणस्यासम्भवं चाह– किञ्चेति ॥ स्वेति ॥ तथा चात्मनि योग्यता तदत्यन्ताभावश्चास्तीति वक्तव्यम् । तथा चात्मनि योग्यतात्यन्ता-भावानधिकरणत्वम् असम्भवीत्यर्थः । ननु नासम्भवः । योग्यताया मिथ्यात्वेन तदत्यन्ताभावो यो ब्रह्मण्यस्ति स पारमार्थिक एव । योग्यतात्यन्ताभावानधिकरणत्वमित्यत्र व्यवहारिको यो योग्यतात्यन्ता-भावस्तदनधिकरणत्वं विवक्षितम् । तस्य चात्मनि सत्वान्नासम्भव इत्याशङ्क्य निषेधति– न चेति ॥ अत्यन्ताभावस्येति ॥ योग्यताया मिथ्यात्वेन यस्तदत्यन्ताभावोऽस्ति स पारमार्थिक इति वक्तुं न शक्यते । कुतस् तस्य ब्रह्मभिन्नत्वेन व्यावहारिकत्वावश्यम्भावात् । योग्यतात्यन्ताभावस्य विशिष्टस्य ब्रह्मात्मकत्वे योग्यताया अपि ब्रह्मत्मकत्वापत्त्या मिथ्यात्वोक्त्ययोगात् । तथा च ब्रह्मणि योग्यता-त्यन्ताभावस्य व्यावहारिकत्वेऽवश्यं वाच्ये व्यावहारिकयोग्यताभावाधिकरणत्वस्यैव प्राप्त्या तदनधिकरण-त्वस्यासम्भव एवेत्यर्थः ।

अवेद्यत्वे सत्यपरोक्षव्यवहारविषयत्वमित्यत्रोभयमपि दुर्वचमित्याशयेन तावदवेद्यत्वं न निर्वक्तुं शक्यमित्याह – किञ्चेत्यादिना ॥ असम्भवादिति ॥ ब्रह्मणो वृत्त्यव्याप्यत्वे ब्रह्मविचारयतोर्गुरु-शिष्ययोर्मौनं मौढ्यं च स्यादिति भावः ॥ दृश्यत्वभङ्ग इति ॥ वृत्तिप्रतिबिम्बितचैतन्ये तदभिव्यक्ता-धिष्ठानचैतन्ये ज्ञाततारूपफलस्य विकल्प्य तत्र खण्डितत्वेन प्रातिभासिके रूप्यादौ सर्वत्रापि व्यावहारिके घटादिप्रपञ्चे फलाव्याप्यत्वसद्भावेनाति व्याप्तेरित्यर्थः ॥ तत्रेति ॥ कल्पितभेदेन जीवब्रह्मणोर्ज्ञातृज्ञेयभाववद् ब्रह्मणोऽपि स्वाकारवृत्तिप्रतिफलतचिद्विषयत्वाच्च । अन्यथा तया तदज्ञाननिवृत्त्ययोगादिति दृश्यत्वभङ्गे उक्तरीत्या अधिकारिणो जायमाना या ब्रह्माकारवेदान्तजन्या चरमवृत्तिस्तत्प्रतिबिम्बिता या चित् तद्रूपं यत्फलं तत्सम्बन्धसद्भावेन फलाव्याप्यत्वाभावादसम्भव इत्यर्थः । फलाव्याप्यत्वरूपावेद्यत्वस्य ब्रह्मण्यसम्भवपरिहारप्रकारमनूद्य दूषयति– एतेनेति ॥

ननु तथापि ब्रह्मणि स्वाकारवेदान्तजन्यवृत्तिप्रतिबिम्बितचिज्जन्यो योऽतिशयोऽविद्यारूपावरणभङ्गो व्यवहारो वा तद्योगित्वमेवास्तीति पुनरसम्भव एव स्यादत आह– अतिशयश्चेति ॥ भग्नेति ॥ भग्नावरणा या चिद् अधिष्ठानचैतन्यं तत्सम्बन्ध इत्यर्थः ॥ घटादाविति ॥ तथा च फलाव्याप्यत्व-रूपावेद्यत्वलक्षणस्य नातिव्याप्तिरिति भावः ॥ न त्विति ॥ ब्रह्मणश् चैतन्यरूपत्वेन तत्र पुनरधिष्ठान- चित्सम्बन्धाभावेन स्वाकारवृत्तिप्रतिबिम्बितचिज्जन्य भग्नावरणचित्सम्बन्धरूपातिशययोगित्वरूप-फलव्याप्यत्वाभावेन फलाव्याप्यत्वरूपावेद्यत्वसद्भावान्नाव्याप्तिरिति भावः । वृत्त्याऽभिव्यक्तेति सम्बन्धः ॥ न त्विति ॥ स्वाकारवृत्त्याऽप्यभिव्यक्ताधिष्ठानचिद्विषयत्वाभावान्नासम्भव इत्यर्थः । एतेनेत्युक्तमेव विशदयति– घटादाविति ॥ तथा च घटादावपि फलाव्याप्यत्वसद्भावादतिव्याप्तिरिति भावः ॥ चिद्रूपेति ॥ घटादौ तु चैतन्यरूपज्ञानविषयत्वस्यैव सत्वान्नावेद्यत्वलक्षणस्यातिव्याप्तिरिति भावः ।

ननु रूप्यादावतिव्याप्तिरिति तत्राह– रूप्यादिरपीति ॥ तथा चात्रापि साक्षिविषयत्वसद्भावा-न्नातिव्याप्तिरित्यर्थः । नन्वेवं चिद्रूपज्ञानाविषयत्वमेवावेद्यत्वमस्तु । चैतन्याख्यज्ञानाविषयत्वरूपावेद्यत्वस्य घटादौ रूप्यादौ च कुत्राप्यतिव्याप्त्य भावात्स्वप्रकाशत्वलक्षणेऽपरोक्षव्यवहारविषयत्वरूपविशेष्यांशो व्यर्थः । व्यावर्त्याभावादित्यत आह– लक्षण इति ॥ नित्यातीन्द्रिये चिद्रूपज्ञानाविषयत्वमस्ति । अन्यथाऽपरोक्षचित्सम्बन्धाद्विषयस्याप्यपरोक्षापत्तेः । अतस्तत्रातिवाप्ति वारणाय विशेष्यभाग इत्यर्थः ॥ घटादाविति ॥ दृश्यत्वभङ्गे चैतन्यरूपज्ञानस्य खण्डितत्वेन चिद्रूपज्ञानाविषयत्व रूपावेद्यत्वस्य घटादावपि सत्वेनातिव्याप्तिरित्यर्थः ॥ तत्स्वभावस्यापीति ॥ चैतन्यरूपज्ञान स्वभावस्यापि । स्फुरणस्य ब्रह्मरूपज्ञानस्य । तद्विषयत्वं चिद्रूपज्ञानविषयत्वम् । तथा च चिद्रूपज्ञानाविषयत्वस्य ब्रह्मण्यभावादसम्भव इत्यर्थः ॥ उपेत्येति ॥ कर्मत्वातिरिक्तं विषयत्वमङ्गीकृत्येत्यर्थः ।

अकर्मत्वेति ॥ कर्मत्वं कारकविशेषः । क्रियाजनकं कारकम् । ब्रह्मरूपज्ञानस्य नित्यत्वेन ब्रह्मरूपविषयस्य न तत्कर्मत्वमिति युक्तं ब्रह्मणश्चिदकर्मत्वरूपम् अवेद्यत्वमित्यर्थः । परसमवेतत्वं क्रियाविशेषणम् । परः कर्ता तत्समवेता या क्रिया तज्जन्यं यत्फलं तच्छालित्वमित्यर्थः । वृत्ति-प्रतिबिम्बितचैतन्यस्य वा तदभिव्यक्ताधिष्ठानचैतन्यस्य वाऽवच्छिन्नस्य ज्ञानत्वेन पराभिमतस्य जन्यत्वेन तत्प्रति घटादेः कारकत्वेन कर्मत्वं सम्भवत्येवेति न चिदकर्मत्वस्य घटादावतिव्याप्तिरत उक्तम् अन-वच्छिन्नमिति ॥ अविद्ययाऽनावृतं सर्वगतम् अनवच्छिन्नं चैतन्यं ज्ञानमिति पक्षे तस्य नित्यत्वा-दित्यर्थः । अत्र नित्यमित्यस्य नित्यं विद्यमानमनादीत्यर्थः । नित्यं नित्यत्वेन साधितानादिताकमित्यर्थ इत्यन्ये । स्वाकारवृत्तिप्रतिबिम्बितचैतन्यस्यावच्छिन्नस्य जन्यत्वेन तत्प्रति वेदान्तजन्यापरोक्ष-चरमवृत्तिविषयस्य ब्रह्मणोऽपि स्वावच्छिन्नं चैतन्यं प्रति घटस्यैव कारकत्वेन चिदकर्मत्वाभावादति-व्याप्तिरित्याह– स्वेति ॥

ननु चरमवृत्तिर्न ब्रह्माकारा ब्रह्मणो निराकारत्वादत उक्तं रूपादेरिवेति ॥ निराकारं यद्रूपरसादि तदाकारा वृत्तिर्यथाऽङ्गीकृता एवं वेदान्तजन्यचरमवृत्तेरपि निराकारब्रह्माकारत्वं युक्तमित्यर्थः । ब्रह्मण्यतिशयस्य सत्वादित्यन्वयः ॥ उक्तन्यायेनेति ॥ कल्पितभेदेन जीवब्रह्मणोर्ज्ञातृज्ञेयभाववद् ब्रह्मणोऽपि स्वाकारवृत्तिप्रतिबिम्बितचिद्विषयत्वं सम्भवत्येव । अन्यथा तया तदज्ञाननिवृत्त्ययोगादिति दृश्यत्वनिरुक्तिभङ्गे उक्तरीत्येत्यर्थः ॥ प्रतिफलितेति ॥ स्वाकारवेदान्तजन्यवृत्तिप्रतिफलितेत्यर्थः । तथा च चिज्जन्यातिशयवत्त्वाभावरूपचिदकर्मत्वरूपावेद्यत्वस्य ब्रह्मण्यसम्भव इति भावः । ननु चिज्जन्यातिशयो ज्ञाततारूप एव विवक्षितः । स च ब्रह्मणि नास्ति । अतीन्द्रियत्वात् । एवं च चिज्जन्यज्ञाततारूपातिशयवत्त्वाभावरूपचिदकर्मत्वरूपावेद्यत्वस्य न ब्रह्मण्यसम्भव इत्यत आह– तदन्यस्येति ॥ आवरणभङ्गातिरिक्तज्ञाततारूपातिशयस्येत्यर्थः ।

जडेऽतिव्याप्तिरित्याह– शुद्धेति ॥ चैतन्यफलरूपज्ञानस्य सर्वत्र व्याप्तत्वेन परसमवेतत्वाभावात् । ‘क्रियां कुर्वद्धि कारकम्’ इत्युक्तत्वेन कारकजन्याया एव क्रियात्वात् । शुद्धचितश्च तदभावेन क्रियात्वाभावात्परसमवेतक्रियाजन्य फलशालित्वरूपकर्मत्वस्य जडेऽप्यभावेन चिदकर्मत्वसद्भावा-दतिव्याप्तिरित्यर्थः । ननु शुद्धचितः समवेतत्वाद्यभावेऽपि वृत्तिप्रतिबिम्बितचैतन्यस्य परस्मिन् ज्ञातरि वृत्तिवत्समवेतत्वात्कर्मादिकारकजन्यत्वेन क्रियात्वाच्च तज्जन्यव्यवहारादिरूप फलशालित्वसद्भावेन घटे कर्मत्वसद्भावान्न चिदकर्मत्वलक्षणस्यातिव्याप्तिरिति चेत्तर्हि ब्रह्मणोऽपि स्वाकारचरमवृत्ति प्रतिफलित-चैतन्यस्य परसमवेतत्वात् क्रियात्वाच्च तज्जन्यावरणभङ्गव्यवहाररूपफलशालित्वेन कर्मत्वाच्चिदकर्मत्व रूपावेद्यत्वस्य ब्रह्मण्यसम्भव इत्याह– प्रतिबिम्बितचिति त्विति ॥ ज्ञप्तिश् चैतन्यरूपा ।

ननु ब्रह्मणोऽपि वृत्तिरूपज्ञप्तिविषयत्वसत्वादसम्भव इत्यत आह– वृत्तिस्त्विति ॥ घटादावपि ज्ञप्त्यविषयत्व सद्भावादतिव्याप्तिरित्यत आह– घटादाविति ॥ ज्ञप्तीति ॥ चैतन्यरूपज्ञप्तीत्यर्थः । अप्रामाणिकत्वादिति भावः । विषयापरोक्ष्यं तु चैतन्याभिव्यञ्जकत्वार्थमावश्यकेन वृत्तिगतविशेषेणैवो-पपन्नमिति ध्येयम् । अवेद्यत्वनिरुक्तिखण्डनेन लब्धमर्थमाह– तस्मादिति ॥ अयमिति ॥ यद्विषयत्वं स्वप्रकाशत्वमित्यर्थः ॥ अपरोक्षोऽयमित्याकार इति ॥ अपरोक्षत्वप्रकारकात्मविशेष्यकव्यवहार एवापरोक्षव्यवहार इत्यर्थः ॥ धर्माधर्मादाविति ॥ योगीश्वराणां योगजधर्मप्रत्यासत्त्या जन्यं यदपरोक्ष-ज्ञानं तज्जन्यो यो योगीश्वरीयव्यवहारस्तद्विषयत्वात्, तथाऽस्माकं जायमानं यद् धर्मादिकमनुमित्या शास्त्रतो वा जानामीत्येवमनुव्यवसायरूपापरोक्षज्ञानं, तथा यत्प्रमेयं तदभिधेयमिति सर्वोपसंहारेण व्याप्तिज्ञानरूपम् अपरोक्षज्ञानं तज्जन्यव्यवहारविषयत्वस्य धर्मादावपि सत्वेन स्वप्रकाशत्वप्रसङ्गा-दतिव्याप्तिरित्यर्थः । अपरोक्षेण इत्येतद् योगजन्यज्ञानेन इत्यादित्रयाणामपि विशेषणम् ।

नन्वपरोक्षज्ञानजन्यो व्यवहार इत्यत्रापरोक्षज्ञानशब्देन लौकिकप्रत्यासत्त्या जन्यसाक्षात्कार एव विवक्षितः । तज्जन्यव्यवहारो धर्मादौ नास्ति । योगिनां जायमानस्य धर्मादिसाक्षात्कारस्य योगजधर्म-प्रत्यासत्तिरूपालौकिक सन्निकर्षजन्यत्वाद् अस्मदादीनां जायमानानुव्यवसायरूपस्य व्याप्तिज्ञानरूपस्य च साक्षात्कारस्य ज्ञानलक्षणप्रत्यासत्ति जन्यत्वान्नातिव्याप्तिः । घटादौ त्वेतादृशापरोक्षज्ञानजन्य-व्यवहारविषयत्वसत्वेऽप्यवेद्यत्वरूपविशेषणाभावेन स्वप्रकाशत्वाभावसद्भावात्तत्र व्यवहारजनकापरोक्ष-ज्ञानेऽलौकिकप्रत्यासत्त्यजन्यत्वं नाम किमित्यतस्तत्स्वरूपं निरुच्य दर्शयति– अनागतेति ॥ अनागतगोचरो यः साक्षात्कारस्तज्जनिका या प्रत्यासत्तिर्ज्ञानसामान्ययोगजधर्मरूपालौकिक प्रत्यासत्ति-स्तदजन्यो यो जन्यसाक्षात्कारः लौकिकप्रत्यासत्तिजन्यसाक्षात्कारः स एवापरोक्षज्ञानशब्देन विवक्षित इत्यर्थः । अत्रानागतगोचरसाक्षात्कारजनकप्रत्यासत्त्यजन्यो यः साक्षात्कार ईश्वरसाक्षात्कारस्तज्जन्य-व्यवहारविषये धर्मादौ स्वप्रकाशत्वपरिहाराय जन्येति साक्षात्कारविशेषणम् ॥ आत्मेति ॥ आत्म-स्वरूपज्ञानस्य नित्यत्वेन उक्तप्रत्यासत्त्यजन्यजन्यसाक्षात्कारत्वाभावेन तज्जन्यव्यवहारविषयत्वमात्मनि नास्तीत्यपरोक्षव्यवहारविषयत्वरूप स्वप्रकाशत्वलक्षणस्यासम्भव इत्यर्थः ।

नन्वपरोक्षज्ञानशब्देन विषयनिष्ठो योऽपरोक्षव्यवहारस्तद्धेतुभूतसाक्षात्कार एव विवक्षितः । एवं च धर्मादौ नातिव्याप्तिः । योगजज्ञानानुव्यवसायेऽव्याप्तिज्ञानरूपसाक्षात्काराणाम् अलौकिकप्रत्यासत्ति-जन्यतया विषयेऽपरोक्षव्यवहार हेतुत्वाभावादित्याशङ्क्याह– विषयेति ॥ साक्षिरूपसाक्षात्कारस्य स्वविषयभूतरूप्याविद्यागतापरोक्षव्यवहारहेतुत्वेन विषयगतापरोक्षव्यवहारहेतुसाक्षात्कारजन्यव्यवहारविषयत्वं रूप्यादीनामप्यस्तीति तेषामपि स्वप्रकाशत्वप्राप्त्याऽति व्याप्तेरित्यर्थः ॥ वस्तुन इति ॥ ‘अपरोक्ष-वस्तुविषयो’ व्यवहारो हि अपरोक्षव्यवहार इत्यत्र वस्तुनोऽपरोक्षत्वं नामाऽपरोक्षज्ञानविषयत्वम् । तथा चात्मनः स्वप्रकाशत्वं नामाऽपरोक्षज्ञानविषयतयाऽपरोक्षभूतं यदात्मरूपं वस्तु तद्विषयव्यवहार-विषयत्वं वाच्यम् । एवं चात्मरूपवस्तुनोऽपरोक्षज्ञानविषयत्वेन घटादिवद्वेद्यत्वापत्त्याऽवेद्यत्वे सतीत्यनेन व्याघात इत्यर्थः ॥ तस्यैवेति ॥ अवेद्यत्वे सत्यपरोक्षज्ञानविषयत्वस्यैव लक्षणत्वोपपत्तौ ज्ञानापरोक्ष्येण विषयापरोक्ष्यं सम्पाद्यापरोक्षवस्तुविषयकव्यवहारयोग्यत्वरूपलक्षणकरणरूपकुसृष्टिवैयर्थ्यादित्यर्थः । साक्षिवेद्यरूप्यादावतिव्याप्तिस्तूभयथापि समैवेति भावः ।

ननु वस्तुन आपरोक्ष्यं नामापरोक्षज्ञानविषयत्वमिति नोच्यते । येनोक्तकुसृष्टिवैयर्थ्यापत्तिः । किंनामापरोक्षव्यवहार विषयत्वमेवेति । तथा चापरोक्षव्यवहारविषयत्वेनापरोक्षभूतवस्तुव्यवहारविषयत्वं स्वप्रकाशत्वं चेत्तर्हि वस्त्वापरोक्ष्यसिद्धौ अपरोक्षवस्तुविषयकत्वेन व्यवहारस्यापरोक्षत्वसिद्धिः । तत्सिद्धौ चाऽपरोक्षव्यवहारविषयत्वेन वस्त्वापरोक्ष्यसिद्धिरित्य न्योन्याश्रयः स्यादित्याह– अपरोक्षेति ॥ आपरोक्ष्ये विषये । वस्तुव्यवहारयोरन्योन्यसापेक्षत्वेनेत्यर्थः ॥ इत्याकारत्वेति ॥ अपरोक्षत्व-प्रकारकत्वायोगादित्यर्थः । तदुपपादनाय निराकारेति, अखण्डार्थेति च हेतुद्वयम् । एवम् अपरोक्ष-व्यवहारविषयत्वं प्रकारत्रयेण विकल्प्य दूषयित्वा अस्तु वा यत्किञ्चित्तथाप्यवेद्यत्वे सत्यपरोक्षव्यवहार-विषयत्व रूपस्वप्रकाशत्वस्याभावेऽतिव्याप्तिरित्याह– अभाव इति ॥ नन्वभावस्याऽनुपलब्ध्याऽनुमेय-त्वेनापरोक्षव्यवहार विषयत्वाभावात् कथमतिव्याप्तिरित्यतस्तदुपपादयति– अस्ति हीति ॥ अवेद्य-त्वांशमुपपादयति– स चेति ॥ फलव्याप्यत्वरूपमवेद्यत्वं तत्रास्तीत्यर्थः । कथमित्यतस्तदुपपादयति– त्वयैवेति ॥ नाभावस्येति ॥ प्रत्यक्षत्वाभावेन फलीभूतापरोक्षचित्सम्बन्धाभावादित्यर्थः ।

ननु लोकव्यवहारानुसारेणापरोक्षव्यवहारविषयत्वे सत्यपि प्रकृतेऽस्माभिरपरोक्षव्यवहार-शब्देनापरोक्षज्ञानविषयत्वमेव विवक्षितम् । एवं चानुपलब्धिगम्याभावेऽपरोक्षज्ञानविषयत्वरूपापरोक्ष-व्यवहारो नास्तीति न तत्रातिव्याप्तिरित्यत आह– यदि चेति ॥ अपरोक्षज्ञानाविषयत्वरूपम् अवेद्यत्वमङ्गीकृत्य पुनरपरोक्षव्यवहारशब्देनापरोक्षज्ञानविषयत्वाङ्गीकारे स्वव्याहतिः स्यादित्यर्थः ॥ चैत्रस्येति ॥ घटाद्यधिष्ठानचैतन्यं घटादिप्रकाशकमित्युच्यते । तत्र घटविषयकचैत्रस्थ वृत्त्यादिना घटाधिष्ठानचैतन्यरूपज्ञानस्य चैत्रं प्रत्यपरोक्षव्यवहारयोग्यत्वे सत्यपि मैत्रं प्रति तदभावेन चैत्रस्थज्ञान-रूपस्य घटा (धिष्ठानचै) वच्छिन्नचैतन्यस्य सर्वान्प्रत्यपरोक्षव्यवहारविषयत्वाभावेन स्वप्रकाशत्वं न स्यादित्यर्थः ॥ ज्ञानं प्रतीति ॥ घटाधिष्ठानचित्तं प्रतीत्यर्थः । तथा च चैतन्यरूपज्ञानकर्तृकापरोक्ष-व्यवहारविषयत्वमिति यावत् ॥ तस्येति ॥ घटाधिष्ठानचैतन्यस्यापरोक्षव्यवहारकर्तृत्वाभावादुक्त-लक्षणस्यासम्भव इत्यर्थः ॥ ज्ञानेति ॥ ज्ञानाश्रयो यो जीवात्मा तत्कर्तृकव्यवहारविषयत्वम् अधिष्ठानचैतन्यस्यास्तीति युक्तं तस्य स्वप्रकाशत्वमित्यर्थः ।

चैतन्यस्यैव ज्ञानत्वेनानवच्छिन्नस्य तस्य कुत्राप्यनाश्रितत्वादाऽऽत्मनस्तदाश्रयत्वमयुक्तमित्याह– चित इति ॥ वृत्तिप्रतिबिम्बितचैतन्यस्य वा घटाधिष्ठानचैतन्यस्य वा परिच्छिन्नत्वेन युक्तं जीवात्मन-स्तदाश्रयत्वमित्यस्वरसादाह– किञ्चेति ॥ लक्षणांशयोर्व्याहतिरित्यर्थः । व्याहतत्वमेवोपपादयति– तदिति ॥ स्फुरणस्य ज्ञानस्य । तथा चावेद्यत्वोक्त्या तद्विषयकस्फुरणाभावप्राप्तेस्तादृशापरोक्षव्यवहारा-योगेन तद्विषयकत्वकथनं व्याहतमित्यर्थः । ननु चैतन्यरूप स्फुरणस्य चैतन्यरूपस्फुरणविषयकत्वा-भावेऽपि चैतन्यरूपस्फुरणविषयकापरोक्षान्तःकरणवृत्तिरेव । तदपरोक्षव्यवहारहेतुर्भविष्यति । अथवा तद्विषयकापरोक्षवृत्त्यभावेपि स्फुरणाविषयकं स्फुरणमेव स्वभावविशेषादपरोक्षव्यवहार हेतुर्भविष्यतीति चेत्तर्हि सर्वत्रैकरूप्याय घटादावप्यपरोक्षव्यवहारहेतुत्वेन चैतन्यकल्पनं व्यर्थम् । तत्रापि घटविषयका-परोक्ष वृत्तिरेव वा स्वाविषयको घट एव वा स्वभावविशेषादेवापरोक्षव्यवहारहेतुरस्त्वित्याह– यदि चेत्यादि ।

अस्फुरणेति ॥ अतस्तत्रापरोक्षव्यवहाराय तत्र स्फुरणान्तरापेक्षा न तु घट एव तद्धेतुरित्यर्थः । तद्रूपं स्फुरणरूपम् । अतो न तत्र स्फुरणान्तरापेक्षेत्यर्थः ॥ तावतेति ॥ स्फुरणरूपत्वेनेत्यर्थः ॥ नापेक्षितमिति ॥ अनवस्थाभयादिति भावः ॥ कप्तमित्यर्थः । ननु भेदाभावात्तद्विषयत्वमपि त्यज्यत इति चेन्न । कल्पितभेदसद्भावाद् वृत्तिप्रतिबिम्बितस्य विषयित्वं घटाधिष्ठानस्य विषयत्व-मित्युपपत्तेः ॥ अन्यथेति ॥ तद्व्यवहारजनकत्वेन कप्तस्य तद्विषयत्वस्य स्फुरणेऽनङ्गीकारे । प्रमेयत्वे प्रमेयत्वस्य वृत्तिमङ्गीकृत्य प्रमेयत्वं प्रमेयमिति स्वस्मिन्व्यवहारकारणत्वं सर्वाङ्गीकृतं न स्यात् । तत्रापि स्ववृत्तिं विनैव प्रमेयव्यवहारनिर्वाहकत्वमस्तु । ततश्च प्रमेयत्वे प्रमेयत्वाभावप्राप्त्या तस्य केवलान्वयित्वं न स्यादित्यर्थः । स्वस्मिन्स्वस्य वृत्त्यभावेन स्वविषयकत्वाभावमङ्गीकृत्य स्वस्मिन् स्वकार्यजनक त्वाङ्गीकारे गतौ गत्यभावेन गतेर्गतिविषयकत्वाभावेऽपि स्वकार्यं यद्ग्रामपुरुषसंयोगरूपं तत्स्वस्मिन्नपि कुर्यादित्याह– ग्राम इति ॥

ननु भवद्भिः सत्ताजातौ सत्तान्तराभावेन स्वविषयत्वाभावेपि सत्ताप्रतीतिः स्वस्मिन्व्यवहारकारित्वं सत्ताया अङ्गीकृतं तद्वत्स्यादित्यत आह– अस्मन्मत इति ॥ नास्मन्मते सत्वं नाम सत्ताजातिः किं नामाबाध्यत्वरूपम् । तस्य स्ववृत्तित्वमङ्गीकृत्यैव व्यवहारहेतुत्वम् अस्माभिरङ्गीकृतमिति नास्मत्प्रतिबन्दीत्यर्थः । तुच्छवारणाय स्वरूपत्वमित्युक्तम् । अस्य न कुत्राप्यतिव्याप्तिरित्याह– चित्त्विति ॥ चित्तु चित्स्वरूपं त्वित्यर्थः । कुत इत्यत आह– स्वात्मनीति ॥ क्रियायाः स्वभिन्न-कर्त्राद्युपेतत्वनियमात्, चैतन्यरूपक्रियायामेककर्तृत्वयोर्विरोधादित्यर्थः । क्रियायाः कर्मत्वं विरुद्ध-मित्यत्रोदाहरणमाह– न हीति ॥ एतेनेत्युक्तं विशदयति– मिथ्यात्वेति ॥ उपपत्तेरिति ॥ चितोऽपि चिद्विषयत्वोपपत्तेरित्यर्थः ॥ अन्यथेति ॥ चितेः स्वविषयकत्वानङ्गीकार इत्यर्थः । व्यवहारं स्वकर्मकव्यवहारम् । तर्हि च्छिदाया अपि च्छेद्यत्वं स्यादिति चेत्तत्राह– न हीति ॥ छिदाया अपि छेद्यत्वमङ्गीकुर्मो यदि छिदाकार्यं द्वैधीभावश् च्छिदायां दृश्येत । प्रकृते तु चैतन्याख्यज्ञान-रूपक्रियायाः कार्यं व्यवहारः क्रियायामेव दृश्यत इति स्वविषयकत्वमङ्गीकर्तव्यमित्यर्थः ।

स्वावच्छिन्नेति ॥ स्वव्यावर्तितेत्यर्थः । स्वविषयकेति यावत् ॥ संविदिति ॥ संविदन्तरेत्यर्थः । शब्दभेद एव अर्थस्त्वेक एवेति द्रष्टव्यम् । इदं लक्षणद्वयं पूर्वं दृश्यत्वनिरुक्तिभङ्गविवरणे व्याख्यातम् ॥ स्ववेद्यत्वेऽपीति ॥ एतादृशस्वप्रकाशत्वेन ब्रह्मणः सर्वथाऽवेद्यत्वं कुतः स्ववेद्यत्वरूप-स्वप्रकाशत्वसद्भावेऽप्यनयोर्लक्षणयोरुपपत्त्याऽस्माकं सम्मतत्वादित्यर्थः ॥ स्वविषयत्वमिति ॥ स्वव्यवहारे स्वातिरिक्तसंविदनपेक्षत्वोक्त्या स्वाख्यसंविद एव स्वव्यवहार जनकत्वमुक्तं स्यात् । तच्च स्वविषयत्वरूपस्ववेद्यत्वं विना न सम्भवतीत्युक्तत्वेन तस्य च त्वयाऽनङ्गीकारान्न स्वव्यवहारहेतुत्वं युक्तमित्यर्थः ॥ अभावेनेति ॥ अन्यथा निर्गुणश्रुतिविरोधादित्यर्थः ॥ तत्साधकेति ॥ स्वप्रकाशत्व-साधकानुभूतित्वाद्यनुमानादेरित्यर्थः ॥ बाधादिति ॥ मिथ्याभूतार्थावगाहित्वादिति भावः ॥ इति स्वप्रकाशत्वलक्षणभङ्गविवरणम् ॥ ११ ॥

न्यायकल्पलता

योग्यतात्यन्ताभावेति ॥ मोक्षे योग्यताया अभावेऽपि तदत्यन्ताभावो नास्ति । योग्यता-वत्तदत्यन्ताभावस्यापि धर्मत्वात् ॥ स्वप्रकाशेति ॥ अवेद्येत्यर्थः । तथापीत्यादिनोक्ततल्लक्षणस्य मुक्तात्मन्यव्याप्तिमाह– त्वन्मत इति ॥ ननु ‘मुक्तात्मा नोक्तात्यन्ताभावाधिकरणत्वाभाववान् उक्तात्यन्ताभावानधिकरणत्वात् । यो यदनधिकरणं स तदनधिकरणत्वाभाववान्न । यथा रूपानधिकरणं वायुः रूपानधिकरणत्वाभाववान्न । तथा च कथमव्याप्तिरित्यत उक्तं सत्वादीति ॥ एवं चात्मनि व्यभिचारान्नोक्तविधया लक्षणाभावाभावानुमानमित्यर्थः । न चानधिकरणत्वं स्वरूपमेवातो मुक्तावपि तदस्तीति युक्तम् । स्वरूपत्वे लक्षणत्वानुपपत्तेः । तत्वविदां मते त्वानन्दादेः स्वरूपत्वेऽपि सविशेषतया धर्मत्वाल्लक्षणत्वम् ॥ स्वेति ॥ एतेनात्यन्ताभावस्याधिकरणरूपतया तदनधिकरणत्वं नासम्भवीति निरस्तम् । योग्यताया मिथ्यात्वानुपपत्तेः । स्वात्यन्ताभावसामानाधिकरण्याभावात् ॥ ब्रह्मान्यत्वेनेति ॥ ब्रह्मरूपत्वे तु योग्यता मिथ्या न स्यादिति बोध्यम् ॥ दृश्यत्वेति ॥ रूप्यादौ विशेषणवद्विशेष्यस्यापि सत्त्वाद्धटादौ विशेष्यवद्विशेषणस्यापि सत्त्वादित्युक्तत्वादित्यर्थः।

नन्वपरोक्षेत्यादिना प्रमाणजन्यापरोक्षवृत्तिविषयत्वं विवक्षितम् । प्रातिभासिकादौ च न प्रमाण-वृत्तिः । अतो न तत्रातिव्याप्तिः । मैवम् । प्रमाणजन्यापरोक्षवृत्तिविषयचैतन्येऽध्यासमात्रेण घटादावा-परोक्ष्योपपत्तेस्तदर्थं घटादौ तादृशवृत्तिविषयत्वस्य स्वीकर्तुमनुचितत्वेनोक्तवृत्तिविषयत्वस्यैव लक्षणत्व-सम्भवे ‘अवेद्यत्वे सती’त्यस्य वैयर्थ्यात् ॥ स चेति ॥ सम्बन्धस्योभयनिष्ठत्वा(भावा)दिति भावः ॥ न त्विति ॥ आत्मनोऽधिष्ठानाभावाद् भग्नावरणचिदभेदरूपस्य सम्बन्धस्य चित्यपि सत्त्वादा-द्यपक्षमुपेक्ष्य द्वितीययोर्दोषमाह– घटादाविति ॥ एतेनैवेति ॥ घटादौ वृत्त्यतिरिक्तचिद्रूपज्ञानं प्रत्यविषयत्वेनैवेत्यर्थः ॥ स्वाकारेति ॥ तथा चासम्भवः । ननु चरमवृत्तिर्न ब्रह्माकारा । तस्य निराकारत्वात् । अत उक्तं रूपादेरिवेति ॥ रूपाकारत्ववद् ब्रह्माकारत्वमपि वृत्तेर्युक्तम् ॥ उक्तेति ॥ चरमवृत्तिप्रतिफलितचित्फलभूतस्य ॥ तदन्यस्य चेति ॥ तादृशचिद्विषयत्वादेः ॥ शुद्धेति ॥ शुद्धचितः कर्मत्वं स्यात् । न चैवम् । शुद्धचितः परसमवेतत्वे क्रियात्वे च तत्फलभूतया वृत्ति-प्रतिफलितचिता (शाल)भासमानघटादेः कर्मत्वं स्यात् । न चैवम् । शुद्धचितः समवेतत्वाद्यभावात् ।

जन्यसाक्षात्कारेति ॥ तादृशेश्वरज्ञानजन्यव्यवहारविषये धर्मादावनतिव्याप्तये जन्येत्युक्तम् ॥ साक्षीति ॥ विषयगतापरोक्षव्यवहारहेतुसाक्षात्कार त्वात्साक्षिणः । अपरोक्षज्ञानशब्देन वृत्तिप्रति-फलितचैतन्यादिकं वाऽपरोक्षवृत्तिमात्रं वा । आद्य आह– आत्मापीति ॥ द्वितीय आह– तस्यैवेति ॥ अवेद्यत्वे सत्यपरोक्षज्ञानविषयत्वस्यैव ॥ कुसृष्टीति ॥ ज्ञानापरोक्ष्येण विषयापरोक्ष्यं सम्पाद्य लक्षण-करणं कुसृष्टिः । साक्षिवेद्यरूप्यादौ अतिव्याप्तिस्तु उभयथापि समैवेत्यर्थः ॥ वस्त्विति ॥ वस्त्वा-परोक्ष्याधीनं व्यवहारापरोक्ष्यं तदधीनं च वस्त्वापरोक्ष्यम् इत्यन्योन्याश्रय इत्यर्थः । अभावे लक्षणगत-विशेष्यांशमुपपादयति– अस्ति हीति ॥ विशेषणांशमुपपादयति– स चेति ॥ नन्वनुपलब्धिगम्येऽ-भावेऽपरोक्षज्ञान विषयत्वरूपोऽपरोक्षव्यवहारो नास्तीति न तत्रातिव्याप्तिरत आह– यदि चेति ॥ उक्तरूपापरोक्षज्ञानाविषयत्वरूपमवेद्यत्वम् अङ्गीकृत्य पुनरपरोक्षज्ञानविषयत्वाङ्गीकारे व्याहतिः ॥ चैत्रेति ॥ घटाद्यधिष्ठानचैतन्यं स्वयं प्रकाशं घटप्रकाशकमित्युच्यते तत्र घटविषयचैत्रस्थवृत्त्यादिना घटाधिष्ठानचितश्चैत्रं प्रत्यपरोक्षव्यवहारेऽपि मैत्रं प्रति तदभावाद्धटाधिष्ठानचित्स्वप्रकाशा न स्यात् ॥ ज्ञानं प्रतीति ॥ घटाधिष्ठानचितं प्रति । न च प्रमातारं यं कञ्चित्प्रत्यपरोक्षव्यवहारविषयत्वं विवक्षितमिति युक्तम् । प्रमातुश् चित्त्वे विरोधाभावात् । जडत्वे त्वसम्भवात् । अन्यस्याहमर्थस्याभावात् ।

स्वाभावभेदात् स्वाभावविशेषात् ॥ नापेक्षितमिति ॥ अनवस्थाभयात् । ननु भेदाभावा-त्तद्विषयकत्वमपि त्यज्यते । मैवम् । कल्पितभेदस्य सम्भवात् । वृत्तिप्रतिबिम्बितस्य विषयित्वम् । घटाधिष्ठानस्य विषयत्वमित्युपपत्तेः ॥ अन्यथेति ॥ क्लृप्तस्यापि त्यागे ॥ चिदविषयेति ॥ तुच्छवारणाय स्वरूपत्वमिति ॥ मिथ्यात्वेति ॥ ननु मिथ्यात्वानुमितौ स्वपरसाधारणमेकं विषयत्व-नियामकमस्तीति सा स्वविषयेति चेन्न । तद्व्यवहारजनकत्वरूपस्य तद्विषयत्वप्रयोजकस्य चित्यपि सम्भवात् । अत एवाह– अन्यथेति ॥ ननु बाधात्स्ववेद्यत्वेन नोपपत्तिरत आह– स्वविषयत्व-मिति ॥ तथा चावेद्यत्वमेव बाधितमिति भावः ॥ इष्टापत्तेरिति ॥ न च वेद्यत्वविरोधिस्वरूपं नेष्टमिति देश्यम् । अचिन्त्यशक्त्यावेद्यस्यापि तथात्वात् । जानन्तोऽपि न जानन्तीति श्रुतेः ॥

॥ इति स्वप्रकाशत्वलक्षणभङ्गः ॥ ११ ॥