निर्गुणे प्रमाणभङ्गः– किञ्च निर्विशेषे किं प्रमाणम्
५. निर्गुणे प्रमाणविचारः
न्यायामृतं
निर्गुणे प्रमाणभङ्गः–
किञ्च निर्विशेषे किं प्रमाणम् । न च तत्स्वतः सिद्धम् । निरस्तत्वात् । यद् यद्वि-प्रतिपन्नं तत्सर्वमपि स्वतः सिद्धमिति सुवचत्वाच्च, विप्रतिपत्त्ययोगाच्च, शास्त्रवैयर्थ्याच्च । न चाज्ञाननिवृत्त्यर्थं शास्त्रम् । अज्ञानाविरोधिन्याः स्वतः सिद्धेर्घटादावपि सुवचत्वात् । न च तत्र प्रत्यक्षं मानम् । अपसिद्धान्तात् । ‘नेन्द्रियाणि नानुमानम्’ इत्यादि श्रुतेश्च शास्त्रवैयर्थ्याच्च । अत एव नानुमानम् । व्याप्त्या व्यापकतावच्छेदक विशिष्टत्वेन पक्षधर्मतया च पक्षसंसृष्टत्वेन सिद्ध्या तेन निर्विशेषासिद्धेश्च । नापि पदरूपः शब्दस्तत्र मानम् । गुणक्रियाजाति रूपनिमित्ताभावेन मुख्यवृत्तेरयोगात् । अस्वीकाराच्च । वैदिकशब्दस्य डित्थादि वत्साङ्केतिकत्वायोगाच्च । आरोपितनिमित्तविशिष्टविषयप्रतीतेश्च निर्विशेषे प्रामाण्यायोगात् । गौण्याश्च मुख्यार्थगुणयुक्ततयैव स्वार्थोपस्थापकत्वात् । लक्षणायाश्च शक्यार्थसम्बन्धितावच्छेदकरूपवत्तयैव स्वार्थोपस्थापकत्वात् । पदस्यान्वय-प्रतियोगितावच्छेदकरूपेणैव स्वार्थोपस्थापकतया निर्विशेषे वृत्तिमात्रायोगाच्च । अत एव नोपनिषद्वाक्यरूपः शब्दस्तत्र मानम् । असंसर्गत्वात् । धर्मिज्ञानाधीनविचारजन्यं निर्धारितैक कोट्यवलम्बितं सप्रकारकनिश्चयं प्रत्येव तस्य हेतुत्वाच्च । निष्प्रकारकज्ञानं नेत्युक्तत्वाच्च । निर्विशेषविषयक ज्ञानस्य निष्प्रकारकत्वे तेन निर्विशेषत्वासिद्धया तत्सिद्ध्यर्थमेव विशेषाभावरूपविशेष विषयकत्वस्यावश्यक त्वाच्च । तस्मात्सगुणमेव ब्रह्म । इति निर्गुणे प्रमाणभङ्गः ॥ ५ ॥
अद्वैतसिद्धिः
ननु निर्विशेषे किं प्रमाणमिति चेत्, स्फूर्त्यर्थं वा अज्ञाननिवृत्त्यर्थं वा प्रमाणप्रश्नः । आद्ये स्वप्रकाशतया प्रमाणवैयर्थ्यम् । न च विप्रतिपन्ने स्वतःसिद्धेर्वक्तुं शक्यतयाऽतिप्रसङ्गः, अभावव्यावृत्तिबोधकप्रमाणसत्त्वासत्त्वाभ्यां विशेषात् । द्वितीये उपनिषद एव प्रमाणत्वात् । अत एव प्रत्यक्षमनुमानं वेत्यादिविकल्पस्य नावकाशः । ननु– कथं तत्रोपनिषन् मानम् ? जातिगुण-क्रियादिरूपनिमित्ताभावेन मुख्यवृत्तेरयोगाद् अस्वीकाराच्च, आरोपितनिमित्तविषय प्रतीतेनिर्विशेषे प्रामाण्यायोगाद्, गौण्याश्च मुख्यार्थगुणयुक्ततयैव लक्षणायाश्च शक्यार्थसंबन्धितावच्छेदक रूपवत्तयैव स्वार्थोपस्थापकत्वात्, पदस्यान्वयितावच्छेदकरूपेण स्वार्थोपस्थापकतया निर्विशेषे वृत्तिमात्रायोगात्, पदविधया वाक्यविधया चोपनिषद् मानं न निर्विशेषे, संसर्गागोचरत्वाच्चेति– चेन्न, मुख्यगौण्यसंभवेऽपि लक्षणायाः सम्भवात् । न च लक्षकपदे शक्यार्थसम्बन्धित्वावच्छेदकरूपवत्तया पदमात्रेऽन्वयिता-वच्छेदकरूपवत्तया च उपस्थितिनियमः, संसर्गबोधकवाक्यस्थपदानामेव तथात्वम् । न च संसर्गा-गोचरत्वे प्रमाणवाक्यत्वानुपपत्तिः, असन्दिग्धाविपर्यस्तबोधकतया निर्विकल्पकत्वेऽपि प्रामाण्यस्या-काङ्क्षादिमत्तया वाक्यत्वस्य चोपपत्तेर्वृत्तिमन्तरेणापि सुप्तोत्थापकवाक्यस्येव वेदान्तवाक्यस्य निर्विशेषे प्रामाण्यस्य वार्तिककृद्भिरुपपादितत्वाच्च । तथा हि–
‘अगृहीत्वैव सम्बन्धमभिधानाभिधेययोः ।
हित्वा निद्रां प्रबुध्यन्ते सुषुप्ते बोधिताः परैः ॥
जाग्रद्वन्न हि सम्बन्धं सुषुप्ते वेत्ति कश्चन’ ॥
इत्यादिना ग्रन्थेन विनापि सम्बन्धं वाक्यस्य प्रामाण्यमुपपादितम् । लक्षणापक्षेऽपि तात्पर्यविशेषाग्रहेणैवातिप्रसङ्गभङ्गो वाच्यः । शक्यसम्बन्धस्यानेकत्र सम्भवात् । तात्पर्यविशेषग्रहश्च पुरुषविशेषस्य भवति न सर्वस्य । पुरुषगतो विशेषोऽन्तःकरणशुद्धिरूपः प्रतिबन्धाभावः । अन्तःकरणशुद्धिरूपस्य पापस्य च प्रतिबन्धकत्वं ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः’ इत्यादि-शास्त्रसिद्धम् । तथा च प्रतिबन्धक्षये विनापि सम्बन्धं शद्बादात्मसाक्षात्कार इति निरवद्यम् । विस्तृतमिदमस्माभिर् गीतानिबन्धने ।
न चानिर्धारितैककोटिप्रकारकनिश्चयं प्रत्येव धर्मिज्ञानाधीनविचारस्य जनकत्वात्कथं विचार-सध्रीचीनवेदान्तवाक्य ज्ञानस्य निष्प्रकारकत्वमिति वाच्यम् । संशयनिवृत्तिक्षमज्ञानस्यैव विचार-फलत्वात् । तस्याश्च विरोधिकोटिप्रतिक्षेपकोपलक्षित धर्मिज्ञानादप्युपपत्तेर्न तदर्थं सप्रमाणकत्वनियमः । न च गौरवम् । प्रमाणवतो गौरवस्य न्याय्यत्वात् । न च निर्विशेषविषयकस्य ज्ञानस्य निष्प्रकारकत्वे निर्विशेषत्वासिद्ध्या तत्सिद्ध्यर्थं विशेषाभावरूपविशेषविषयत्वस्यावश्यकत्वमिति वाच्यम् । विशेषाभावस्य स्वरूपतया तत्स्फूर्तौ प्रमाणानपेक्षत्वात् । अखण्डार्थसिद्ध्यनुकूल पृथग्जातपदार्थोप-स्थितिविषयत्वमात्रेण विशिष्टव्यवहारोपपत्तेः । तस्मात्सगुणत्वे साधकाभावाद् बाधकसद्भावाच्च निर्गुणत्वे तदभावान्निर्गुणमेव ब्रह्मेति सिद्धम् । इति औतसिद्धौ ब्रह्मणो निर्गुणत्वे प्रमाणोपपत्तिः ॥ ५ ॥
न्यायामृततरङ्गिणी
ब्रह्मसिद्धिरेव निर्विशेषब्रह्माभावसहकृता सगुणा सिद्धिरित्याह– किञ्चेति ॥ ननु तस्य स्वयंप्रकाशत्वान्न तत्सिद्ध्यर्थं प्रमाणप्रश्नो घटत इत्याशङ्क्याह– न चेति ॥ निरस्तत्वादिति ॥ परैः स्वविषयत्वाङ्गीकारादित्यर्थः ॥ यद्यदिति ॥ नन्वभावव्यावृत्तिबोधकप्रमाणसत्त्वान्न निर्विशेषस्य विप्रतिपन्नान्तरसाम्यमिति चेन्न । तत्सत्त्वबोधकस्यैव तदभावव्यावृत्तिबोधकतया तस्य पृच्छ्यमानत्वात् ॥ विप्रतिपत्तीति ॥ निर्विशेष इत्यनुषज्यते ॥ शास्त्रेति ॥ ‘केवलो निर्गुणश्च’ इत्यादित्वदभिमतस्य निर्गुणशास्त्रस्य । ननु निर्विशेषस्य सिध्यर्थं शास्त्रस्यान-पेक्षणेऽपि तदज्ञाननिवृत्त्यर्थं शास्त्रापेक्षेत्याशंक्याह– अज्ञानेति ॥ एतादृशसिद्धिः परिभाषा-मात्रम् । सिद्धिसमेत्यर्थः । ननु मा भूतां निर्विशेषेऽक्षानुमे मानं, शब्दस्तु भविष्यतीत्याशङ्क्य स किं पदरूपो वा वाक्यरूपो वेति विकल्प्याद्यं दूषयति– नापीति ॥ गौण्याश्चेति ॥ न च संसर्गबोधकवाक्यस्थपदानामेवायं नियम इति वाच्यम् । संसर्गबोधकस्य प्रमाणवाक्य-त्वासिद्धेः । वाक्यत्वप्रयोजकाकाङ्क्षादेः संसर्गघटितत्वादित्युक्तम् । विशिष्टवृत्तीर्दूषयित्वा सामान्यतोऽपि ता निराचष्टे– तदस्येति ॥ ननु वृत्तिमन्तरेणापि सुप्तोत्थापकवाक्यस्येव वेदान्तवाक्यस्य निर्विशेषे प्रामाण्यमस्तु । तदुक्तं वार्तिके ।
अगृहीत्वैव सम्बन्धमभिधानाभिधेययोः ।
हित्वा निद्रां प्रबुध्यन्ते प्रसुप्ते बोधिताः परैः ।
जाग्रद्वन्न हि सम्बन्धं प्रसुप्तो वेत्ति कश्चन ॥ इति ।
मैवम् । सम्बन्धग्रहं विना शब्दस्याबोधकत्वात् । अनेवंविधस्थलेऽनुमानतया तस्य बोधकत्वात् । ननु वृत्तिपक्षेऽपि तात्पर्यविशेषग्रहेणैवातिप्रसङ्गभङ्गो वाच्यः । शक्तेः शक्य-सम्बन्धादेर्वाऽनेकत्र सत्त्वात् । वेदान्ततात्पर्यग्रहो हि कस्यचिदेव क्षीणपापस्य भवति । पापस्य प्रतिबन्धकत्वं तु ‘ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः’ इत्यादि सिद्धम् । तथा च प्रतिबन्धकक्षये विनापि सम्बन्धग्रहं शब्दादात्मसाक्षात्कार इति । मैवम् । प्रतिबन्धकाभावो हि कारणसहकारी न तु चरमकारणम् । येन वृत्त्यादिकं विनैव साक्षात्कार-हेतुः स्यात् । अन्यथा सवाक्यमपि नापेक्षेत ॥ असंसर्गत्वादिति ॥ संसर्ग एव वाक्यप्रामाण्यम् । ननु लौकिकवाक्यस्य तथात्वेऽप्युपनिषद्वाक्यं निर्विकल्पकहेतुरस्त्वित्यत आह– धर्मीति ॥ तस्य उपनिषद्वाक्यस्य । ननु विरोधिकोटि प्रतिक्षेपकोपलक्षितधर्मि-ज्ञानादपि संशयनिवृत्त्युपपत्तेर्न तदर्थमुपनिषद्वाक्यं सप्रकारकज्ञानजनकमिति चेन्न । उक्तोप-लक्षितत्वस्य धर्मिणि धर्मिज्ञानविषयत्वे तस्य सप्रकारकत्वापातात् । अविषयत्वे संशयहेतोर्ध-र्मिज्ञानादपि संशयनिवृत्त्यापत्तेः ॥ निर्विशेषेति ॥ निर्विशेषं ब्रह्मेत्यादिशब्दजन्यज्ञानस्य ब्रह्मणि निर्विशेषत्वाप्रकारकत्वे तज्ज्ञानान्निर्विशेषं ब्रह्मेति व्यवहारो न स्यादित्यर्थः । परिशेष-सिद्धं सगुणत्वमुपसंहरति– तस्मादिति ॥
॥ इति निर्गुणे प्रमाणभङ्गः ॥ ५ ॥
न्यायामृतकण्टकोद्धारः
एवं सगुणत्वे साधकसद्भावाद् बाधकाभावाच्च सगुणत्वमेष्टव्यमित्युक्तम् । निर्विशेषत्वस्या-प्रामाणिकत्वाच्च तदेष्टव्यमित्याह– किञ्चेति ॥ किं निर्विशेषे स्वतः सिद्धिः प्रमाणम्, उत प्रत्यक्षम्, अथानुमानम्, पदरूपः शब्द आहोस्विद् वैदिकवाक्यरूपः शब्द इति विकल्पान् हृदि निधायाद्य-माशङ्क्य निषेधति– न चेति ॥ शास्त्रेति ॥ शास्त्रस्य परार्थत्वात् सिद्धबोधने वैयर्थ्यमेवेति भावः ॥ न चेति ॥ ननु च स्वतः सिद्ध्यैवाज्ञानादिनिवृत्तिसम्भवात् शास्त्रं व्यर्थमेवेति वाच्यम् । स्वतःसिद्धज्ञानाविरोधित्वादिति भावः ॥ अज्ञानेति ॥ तथा च तादृशी स्वतः सिद्धिः प्रमेय-सिद्ध्यनुपयोगिनीति भावः । द्वितीयमाशङ्क्य निषेधति– न चेति ॥ अपसिद्धान्तादिति ॥ त्वया उपनिषदेकसमधिगम्यत्वाङ्गीकारादिति भावः । तृतीयमाशङ्क्यातिदेशेन दूषयति– अत एवेति ॥ शास्त्रवैयर्थ्यादेवेत्यर्थः । चतुर्थमाशङ्क्य निषेधति– नापीति ॥ पदमपि शक्त्या वा सङ्केतेन वा गौण्या वा लक्षणया वेति विकल्पान् हृदि निधायाशङ्क्य क्रमेण दूषयति– गुणक्रिये-त्यादिना ॥ निर्विशेषत्वाङ्गीकारादन्यथा व्याघातादिति भावः ॥ वैदिकेति ॥ अपौरुषेयत्वेन सङ्केतके तत्कर्तुरभावादिति भावः । पक्षचतुष्टयसाधारणदोषमाह– पदस्येति ॥ पञ्चममाशङ्क्याति-देशेन दूषयति– अत एवेति ॥ पदस्यान्वयप्रतियोगितावच्छेदकरूपेणैव स्वार्थोपस्थापकत्वात् पदसमूहस्यैव वाक्यत्वादित्यर्थः ॥ असंसर्गत्वाद् ब्रह्मण इति शेषः । संसर्ग एव प्रामाण्यादिति भावः ॥ तस्येति ॥ उपनिषद्वाक्यस्येत्यर्थः । उपसंहरति– तस्मादिति ॥
॥ इति निर्गुणे प्रमाणभङ्गः ॥ ५ ॥