तथा हि– ब्रह्मणो धर्माः किं साधकाभावान्न सन्ति ? उत बाधकसद्भावात्
४. ब्रह्मणो निर्गुणत्वभङ्गः
न्यायामृतं
तथा हि– ब्रह्मणो धर्माः किं साधकाभावान्न सन्ति ? उत बाधकसद्भावात् । नाद्यः, ‘बृहन्तो ह्यस्मिन्गुणाः’ ‘परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ ‘सत्यकामः सत्यसङ्कल्पः’ इत्यादिश्रुतीनाम्, ‘ब्रह्मेशानादिभिर्देवैः समेतैर्यद्गुणांशकः । नावसाययितुं शक्यो व्याचक्षाणैश्च सर्वदा ॥ ‘मय्यनन्तगुणेऽनन्ते’ ‘तेजोबलैश्वर्यमहाव-बोधसद्वीर्यशक्त्यादिगुणैकराशिः’ ‘परः पराणाम्’ इत्यादि स्मृतीनाम्, ‘अन्तस्तद्धर्मोप-देशाद्’ ‘अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशाद्, ‘अदृश्यत्वादिगुणको धर्मोक्तेः’ ‘सर्वधर्मोपपत्तेश्च’ इत्यादीनां निर्णायकसूत्राणाम् ।
१) ब्रह्म धर्मिसत्तासमानसत्ताकधर्मवद्, उक्तसत्ताकभावरूपधर्मवद्वा, यावत्स्व-स्वरूपमनुवर्तमान धर्मवद्वा, उक्तविशेषणवद्भावरूपधर्मवद्वा, स्वज्ञानाबाध्यभावरूप-धर्मवद्वा, धर्मैर्भावरूपैर्धर्मैर्वा हीनं नावतिष्ठते पदार्थत्वाद्, भावत्वाद्, अभावविलक्षण-त्वाद्वा, घटवत् । २) ब्रह्म स्वज्ञानाबाध्यप्रकारवत्, स्वारोपितव्यावर्तक स्वज्ञानाबाध्य-प्रकारवद्वा, अधिष्ठानत्वाच्छुक्तिवत् । ३) ब्रह्म स्वज्ञानाबाध्यदुःखव्यावृत्तिमत्, स्वज्ञानाबाध्य दुःखव्यावर्तकधर्मवद्वा, दुःखानात्मकत्वाद् घटवत् । ४) ब्रह्म स्वज्ञाना-बाध्यप्रकारकज्ञानविशेष्यम्, सन्दिग्धत्वाद्, विचार्यत्वात्, निर्णेतव्यत्वाच्च, स्थाणुवत् । ५) ब्रह्म वेदान्ततात्पर्यगोचरप्रकारवद्, वेदान्तविचारविषयत्वात्, यदेवं तदेवं यथा कर्मकाण्डविचारविषयो धर्मः । ६) ईश्वरः सदाऽवाप्तसमस्तकल्याणगुणः, सदा तत्प्रेप्सुत्वे सति तत्र शक्तत्वाद्, यो यदा यत्प्रेप्सुत्वे सति यत्र शक्तः, स तदा तद्वान्, यथा चैत्रः । ७) ईश्वरः सदा त्यक्तसमस्तदोषः सदा तज्जिहासुत्वे सति तत्त्यागे शक्तत्वाद्, यो यदा यज्जिहासुत्वे सति यत्त्यागे शक्तः, स तदा त्यक्ततद्दोषः, यथा चैत्रः । तत्प्रेप्सादिकं च प्रेक्षावत्त्वादिना विपक्षेऽधिष्ठानत्वसन्दिग्धत्वादिकं न स्यादित्याद्यनुकूलतर्कसनाथानु-मानानां च सत्त्वात् ।
न चानवस्थानिरासाय कश्चिद्धर्मो निर्धर्मक इति तत्राद्यहेतोर्व्यभिचारः, १साध्यस्वरूपस्य २निर्धर्मकत्वस्य पदार्थत्वात्मकस्य हेतुरूपस्य च धर्मस्य भावाभावाभ्यां व्याघातात् । प्रमेयत्वाभिधेयत्वादीनाम् अबाधितानुभवबलेन त्वदभिमतमिथ्यात्व-दृश्यत्वादिवत् स्ववृत्तित्वाच्च । गोत्वादेरपि गोव्यक्तिरेव वा गोत्वं वा तं स्वाश्रयव्यक्तिं प्रति अन्यस्माद्व्यावर्तकत्वं वा व्यावर्तकमिति न दुःखानात्मकत्वस्य तत्र व्यभिचारः । न च श्रुतिः सगुणब्रह्मपरा, न तु परब्रह्मपरेति वाच्यम् । सगुणातिरिक्तस्य परस्याद्याप्य-सिद्धेः । त्वत्पक्षेऽपि तात्त्विकगुणवद्व्यक्त्यन्तराभावाच्च । ‘परः पराणाम्’ इत्यादिस्मृतौ परात्परत्वोक्तेश्च । अन्यथा ‘सदेव सोम्येदम्, असद्वा इदमग्रे’ इति सदसच्छ्रुती अपि परापरब्रह्मविषये, ग्रहणाग्रहणश्रुती अपि परापरयागविषये स्याताम् । ‘असन्नेव स भवति असद् ब्रह्मेति वेद चेत्’ इति श्रुतिरपि नासत्त्वनिन्दार्था, किन्तु शून्यतापत्तिरूप परममोक्षपरेति स्यात् । न चेदानीं सगुणं दशान्तरे तु निर्गुणम् । तथात्वेऽपि गुणानामनित्यत्वमात्रापत्त्या त्वदभिमतमिथ्यात्वासिद्धेः ।
‘ज्ञानं नित्यं क्रिया नित्या बलं नित्यं परात्मनः’ । ‘एष नित्यो महिमा ब्राह्मणस्य’ । इत्यादिश्रुतेश्च । ‘एष नित्य’ इति श्रुतिश्च ब्रह्मपरा । पूर्वत्र ‘नावेदविन्मनुते तं बृहन्तम्’ इति ब्रह्मणः प्रकृतत्वात् । उत्तरत्र ‘न कर्मणा वर्धते नो कनीयान् । तस्यैव स्यात् पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेन’ इति ब्रह्मलिङ्गात् । बृहदारण्यके ‘सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः । स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् । एष सर्वेश्वर एष भूताधिपतिर् एष भूतपालः’ इत्यादिना ब्रह्मोक्त्वा तत्र सम्मतित्वेन ‘तदेतदृचाभ्युक्तम्’ इति ‘एष नित्य’ इत्यादिमन्त्रस्योदाहृतत्वाच्च । अन्यथा ब्रह्मेदानीं सदृशान्तरे त्वसदिति स्यात् । न चौपाधिका धर्मा औपाधिकत्वस्य सोपाधिकाध्यस्तत्वरूपत्वे श्रुत्यप्रामाण्यापातात् । वक्ष्यमाणसत्यत्वश्रुतिविरोधाच्च । उपाधिकृतत्वरूपत्वे तूक्तनित्यत्वश्रुतिविरोधाद्, अन्तःकरणादिरूपोपाधिसृष्टेः प्रागेवेक्षि-तृत्वादिश्रुतेश्च । ‘स्वाभाविकी ज्ञानबलक्रिया च’ इत्यादिश्रुतेश्च । न च योगलब्धयोगि-शक्त्यादिवैधर्म्य मात्रेण तदुक्तिः । सङ्कोचकाभावेनोक्तनित्यत्वश्रुत्यनुसारेण स्वाभाविक-ज्ञानसमभिव्याहारेण चोपाधिमात्रनिषेधात् । अन्यथा ब्रह्मणः सत्त्वमौपाधिकं, असत्त्वं तु स्वाभाविकमिति स्यात् । न चातात्त्विका गुणाः । श्रुत्या गुणमात्रोक्त्या तात्त्विका-नुक्तेरिति वाच्यम् । नित्यत्वोक्तिसामर्थ्याद्, विषयाबाधलक्षणप्रामाण्यस्यौत्सर्गिकत्वात्, ‘सत्यः सोऽस्य महिमा’ इत्यादिश्रुतेश्च तत्सिद्धेः । अन्यथा सत्यं ज्ञानं तत्त्वमसीत्यादि श्रुत्युक्तं ब्रह्मसत्त्वैक्यादिक मपि तात्त्विकं न स्यात् । निर्गुणश्रुतिविरोधस्तूद्धरिष्यते ।
अद्वैतसिद्धिः
कैवल्यश्रुत्या तावदात्मा निर्गुणः । ननु ‘बृहन्तोऽस्य धर्माः’ इति श्रुत्या ‘ब्रह्मेशानादिभिर्देवैः समेतैर्यद्गुणांशकः ॥ नावसाययितुं शक्यो व्याचक्षाणैश्च सर्वदा’ इति स्मृत्या च ब्रह्म, धर्मवत्, पदार्थत्वात्’ इत्याद्यनुमानेन च स्वसमानसत्ताकधर्मवद् ब्रह्मेति चेत्, मैवम्, न तावच्छ्रुत्या सगुणत्वसिद्धिः । सगुणप्रकरणस्थाया उपास्तिविधिविषयविशेषणसमर्पकत्वेन तत्परत्वाभावात् । न चापूर्वत्वात्सत्यकामादौ विशेषणे तात्पर्यम् । अपूर्वत्वेऽप्यन्यशेषस्यातत्परत्वदर्शनात् । यथा हि ‘जर्त्तिलयवाग्वा वा जुहुयाद् गवीधुकयवाग्वा वा जुहुयात्’ इत्यादौ जर्त्तिलयवाग्वादेर्होमसाधनत्वस्य ‘अनाहुतिवै जर्त्तिलाश्च गवीधुकाश्च’ इति निन्दायाश्च ‘अजक्षीरेण जुहोति’ इति विध्येकवाक्य-तयाऽतत्परत्वं, तथैवात्राप्युपपत्तेः । निर्गुणप्रकरणस्थायास्तु अद्वितीयब्रह्मप्रतिपत्त्यनुकूल निषेधापेक्षित-विषयसमर्पकतयाऽन्यथासिद्धेः ।
न च ‘किञ्चन’ इत्यादिसामान्यवाचकपदेनैव ब्रह्मातिरिक्तसर्वनिषेध्योपस्थितौ विशेषग्रहणम् अनर्थकमिति वाच्यम् । अलौकिकतया वाक्यप्रमेयत्वभ्रमव्युदासार्थत्वात् । अत एव श्रुतिप्राप्तस्य श्रुत्या निषेधे अहिंसावाक्यम् अग्निषोमीयहिंसायाः, अग्रहणवाक्यं च षोडशिग्रहणस्य, असद्वेत्यादिवाक्यं ब्रह्मसत्त्वस्य भेदवाक्यं चैक्यस्य निषेधकं स्यादिति निरस्तम् । प्रकृते श्रुतिप्राप्तस्यैवाभावात् । श्रुति-प्राप्तत्वं हि न तत्प्रसक्तत्वम् । अतिप्रसङ्गात् । तत्प्रमितत्वस्य च प्रकृतेऽभावात् । अहिंसावाक्यस्या-वैधहिंसाविषयत्वेन समानविषयत्वाभावात् । समानविषयत्वे ग्रहणाग्रहणवद्विकल्पापत्तेः । ग्रहणाग्रहण-वाक्ययोस्तु सत्यपि समानविषयत्वे एकस्याधिकबलत्वाभावेन बाध्यबाधकभावस्यासम्भावितत्वात् । अन्यथा विकल्पानाश्रयणप्रसङ्गात् । असद्वाक्यभेदवाक्ययोस्तु न ब्रह्मसत्त्वैक्यनिषेधकता । सत्यैक्य-बोधकयोरेव तत्परत्वेन प्राबल्यात् ।
नाप्यनुमानं ब्रह्मणि तात्त्विकधर्मसाधनायालम् । तथा हि– १) ब्रह्म धर्मिसत्तासमानसत्ताकधर्मवद्, उक्तसत्ताक भावरूपधर्मवद्वा, यावत्स्वरूपमनुवर्तमानधर्मवद्वा, तादृशभावरूपधर्मवद्वा, स्वज्ञानाबाध्य-धर्मवद्वा, तादृशभावरूपधर्मवद्वा, धर्मैर्भावरूपधर्मैर्वा हीनं नावतिष्ठते वा, पदार्थत्वाद्, अथवा भावत्वाद्, घटवत् । २) ब्रह्म, स्वज्ञानाबाध्यप्रकारवत्, स्वारोपितव्यावर्तकस्वज्ञानाबाध्यप्रकारवद्वा, अधिष्ठानत्वात्, शुक्तिवत् । ३) ब्रह्म स्वज्ञानाबाध्यदुःखव्यावर्तकधर्मवद्, दुःखानात्मकत्वात्, घटवत् । ४) ब्रह्म, स्वज्ञानाबाध्यप्रकारविशेष्यम्, सन्दिग्धत्वात्, विचार्यत्वात्, निर्णेतव्यत्वाद्वा स्थाणुवत् । ५) ब्रह्म, वेदान्ततात्पर्यगोचरप्रकारवत्, वेदान्तविचारविषयत्वात्, यदेवं तदेवम्, यथा कर्मकाण्डविचारविषयो धर्मः । ६) ईश्वरः, सदावाप्तसमस्तकल्याणगुणः, सदा प्रेप्सुत्वे सति तत्र शक्त त्वात् । यो यदा यत्प्रेप्सुर्यत्र शक्तः स तदा तद्वान् । यथा चैत्रः । ७) ईश्वरः, सदा त्यक्तसमस्तदोषः, सदा तज्जिहा-सुत्वे सति तत्त्यागे शक्तत्वात्, यश्चैवं स तथा, यथा चैत्र इत्याद्यनुमानेषु धर्मिपदस्वपदयो-र्यत्किञ्चिद्धर्मि यत्किञ्चित्सम्बन्धिपरत्वे घटादिसमसत्ताककल्पितधर्मवत्त्वेन सिद्धसाधनम् । ब्रह्मपरत्वे साध्याप्रसिद्धिः । घटादिधर्मं ब्रह्मसमानसत्ताकत्वादेरप्रसिद्धेः ।
न च दृष्टान्ते साध्यनिरूपणे तदेव धर्मि । पक्षे तन्निरूपणे ब्रह्मैव धर्मि । धर्मिपदस्वपदादीनां समभिव्याहृत परत्वादिति वाच्यम् । शब्दस्वभावोपन्यासस्यानुमानं प्रत्यप्रयोजकत्वात् । स्वरूपपदस्याप्येवमेव ब्रह्मपरत्वे साध्याप्रसिद्धिः । घटादिपरत्वे सिद्धसाधनम् । समभिव्याहृतपरत्वस्य शब्दस्वभावस्यानुमानं प्रत्यप्रयोजकत्वमिति दूषणं पूर्ववत् । धर्मैर्विना नावतिष्ठत इत्यस्य ब्रह्म धर्मव्याप्तमित्यर्थः । तथा च सिद्धसाधनम् । यस्मिन् काले देशे वा ब्रह्म, तत्र धर्मा सन्त्येव । न हि कालो देशो वा धर्मरहितः । मायाचित्सम्बन्धस्य कालस्य मुक्त्यसहवृत्तित्वात् । स्वज्ञानाबाध्येत्यत्रापि पूर्ववत्स्वपदार्थविकल्पः । अत एव स्वारोपितव्यावर्तकस्वज्ञानाबाध्यधर्मवदिति निरस्तम् । स्वज्ञानाबाध्यदुःखव्यावर्तक धर्मवदित्यत्रापि स्वपदार्थविकल्पः पूर्ववत् । दुःखव्यावर्तक-धर्मवत्त्वेन सिद्धसाधनम् । वेदान्ततात्पर्यगोचरेत्यत्रावान्तर तात्पर्यमादाय सिद्धसाधनम् । मुख्यतस्ता-त्पर्योक्तौ च वेदान्तवाक्यमुख्यतात्पर्यविषयप्रकाराप्रसिद्ध्या साध्याप्रसिद्धिः ।
न च यत्तद्भ्यामनुगमय्य साध्यप्रसिद्धिः । तथा शब्दानुगमस्यानुमानं प्रत्यनुपयोगात् । ईश्वरः सदाऽवाप्त समस्तकल्याणगुण इत्यत्र कालं व्याप्य आप्तगुणत्वस्यास्माभिरप्यङ्गीकारात् । न हि निर्धर्मकतायां सत्यां कालसम्बन्धोऽस्ति । किञ्च शुद्धस्य पक्षीकरणे हेत्वसिद्धिः । उपहितस्य पक्षीकरणे अर्थान्तरम् । स्वाभिन्नाप्तसमस्तकल्याणगुणत्वेन सधर्मकत्वायोगाच्च सिद्धसाधनाच्च कल्याणगुणानामा-नन्दादीनां नित्यत्वेन तत्प्रेप्सायास्तत्र सामर्थ्यस्य च त्वयापि वक्तुमशक्यत्वाच्च । अत एव प्रेप्सादिकं प्रज्ञानघनत्वादिति निरस्तम् । सदा त्यक्तसमस्तदोषत्वे साध्ये चरमवृत्तिपर्यन्तत्यागे सामर्थ्याभावेन हेत्वसिद्धेः । यदा तु तत्सामर्थ्यं तदा त्यक्तदोषत्वमिष्टमेव । प्रकारवत्त्वादौ साध्येऽप्रयोजकत्वमपि । न चाधिष्ठानत्वसन्दिग्धत्वाद्यनुपपत्तिरेवानुकूलस्तर्कः । अधिष्ठानत्वे हि स्वारोपितव्यावर्तकवत्त्वं तन्त्रम् । कल्पिताकल्पित साधारणमित्युक्तत्वात् । स्वज्ञानाबाध्यत्वविशिष्टधर्मं विना तस्यानुपपत्त्यभावात् ।
सन्दिग्धत्वमपि व्यावर्तकेन कल्पितेनाकल्पितेन वा रूपेणानिश्चिततयैवोपपद्यत इति तस्यापि नानिश्चितसाध्यधर्मं विनाऽनुपपत्तिः । एवं दुःखानात्मकत्वं दुःखव्यावर्तकस्वरूपतयैवोपपन्नं कदाचिद्वक्तव्यम् । अन्यथा अनवस्थानापत्तेः । न हि व्यावर्तकधर्मोऽपि केवलान्वयी । येन स्ववृत्तिः स्यात् । तथा च तदपि व्यावर्तकधर्मं विनाऽप्युपपन्नं न तत्साधनायालम् । अनवस्थाभिया क्वचिद्धर्मे विश्रान्तौ पदार्थत्वमपि व्यभिचार्येव । न च स्वस्यैव स्ववृत्तित्वान्न व्यभिचारः । आत्माश्रयात् । न चैवं दृश्यत्वस्यापि स्वस्मिन्नवृत्त्या भागासिद्धिः । स्ववृत्तित्वाभावेऽपि स्वनिष्ठात्यन्ताभाव-प्रतियोगित्वस्य तत्रासिद्धताप्रयोजकस्या भावात् । तस्मान्नानुमानं ब्रह्मसमसत्ताकधर्मे प्रमाणम् ।
किञ्च श्रुतिरपरब्रह्मविषया । निर्धर्मकश्रुतिविरोधेन विषयभेदस्यावश्यकत्वात् । न च सगुणाति-रिक्तस्य परब्रह्मणोऽद्याप्यसिद्धिः । त्वत्पक्षे तात्त्विकगुणवद्व्यक्त्यन्तरस्याभावात् । किंविषयत्वं च सगुणश्रुतेरिति वाच्यम् । तात्त्विकत्वपर्यन्तस्य सगुणश्रुत्याऽविषयीकरणात् । निर्धर्मकत्वश्रुत्या शुद्धब्रह्मसिद्धेश्च । तदुक्तम् अन्तरधिकरणे कल्पतरुकृद्भिः–
निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः ।
ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ॥
वशीकृते मनस्येषां सगुणब्रह्मशीलनात् ।
तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम् ॥ इति ।
अत एव स्मृतिसूत्राभ्यां न विरोधः । न च सगुणे ‘परः पराणाम्’ इत्यादिस्मृत्या परादपि परत्वं स्मर्यते । तथा च कथं सगुणवाक्यानाम् अपरब्रह्मविषयत्वमिति वाच्यम् । जडापेक्षया परः किञ्चिज्ज्ञस् तदपेक्षया सर्वज्ञस्य शुद्धापेक्षयाऽपरस्यापि परत्वात् । न च ‘सदेव सोम्येदमग्र आसीत्’ ‘असद्वा इदमग्र आसीत्’ इति श्रुती अपि परापरब्रह्मविषये स्यातामिति वाच्यम् । अत्र ‘इदम्’ इति प्रपञ्चस्य प्रकृतत्वेन ब्रह्मपरत्वस्य वक्तुमशक्यतया प्रपञ्चस्यैव पूर्वं कारणात्मना सत्त्वं कार्यात्मना असत्त्वं विषयीकुरुतः ।
नापि ग्रहणाग्रहणवाक्ये अपि परापरयागविषये । ‘ऐन्द्रवायवं ग्रहं गृह्णाति’ इत्यादिवच्छोडशि-ग्रहणवाक्यस्य यागपरत्वेऽप्यग्रहणवाक्यस्य तदभावबोधकतया यागविषयत्वाभावात् । नन्वेवं ‘असन्नेव स भवति असद् ब्रह्मेति वेद चेत्’ इति श्रुतिरपि नासत्त्वसिद्धार्था किन्तु शून्यतापत्तिरूपपरममोक्षपरेति स्यादिति चेन्न । शून्यताया अपुरुषार्थत्वाद् आनन्दावाप्तिरूपमुक्तिप्रतिपादकविरोधाच्च । यद्वा इदानीं सगुणं दशान्तरे निर्गुणमिति वाक्याविरोधः । न च एतावता अनित्यत्वमात्रं गुणानां न त्वदभिमत-मिथ्यात्वसिद्धिरिति वाच्यम् । त्वदभिमततात्त्विकत्वस्याप्यसिद्धेः । उपायान्तरानुसरणं च समानम् । यत्तु ब्रह्मेदानीं सद् दशान्तरे त्वसदित्यप्यापद्येत इति, तन्न । दशान्तरे निर्गुणत्ववद् असत्त्वस्या-बोधनेनाप्रसङ्गात् । न च ‘ज्ञानं नित्यं क्रिया नित्या बलं नित्यं परात्मनः’‘एष नित्यो महिमा ब्राह्मणस्य’ इत्यादिश्रुत्या ब्रह्मज्ञानादीनां नित्यत्वप्रतिपादनात्सगुणत्वमिति वाच्यम् । ज्ञानादीनां स्वरूपतया गुणत्वासिद्धेः । स्वरूपातिरिक्तानां तु चरमसाक्षात्कारपर्यन्तस्थायितया नित्यत्वोपचारात् । ‘अपाम सोमममृता अभूम’ इत्यादौ अमृतशब्दस्य ‘अभूतसम्प्लवस्थानम् अमृतत्वं हि भाष्यते’ इति पौराणिकोक्तामृतत्ववत् । अत एव ‘एष नित्यो महिमा’ इत्यादिवाक्यस्य तैत्तिरीयशाखागतस्य नित्यगुणपरत्वमिति निरस्तम् ।
बृहदारण्यकगतस्य तु ‘स एष नेति नेति’ इति वाक्यं प्रतिषिद्धसर्वोपाधिकरूपस्य महिम्नस् त्यक्तसर्वेषणपुरुषगतस्य प्रतिपादनेन ब्रह्मगतगुणपरत्वाभावात् । न च ‘सर्वस्य वशी’ इत्यादौ ब्रह्मणः प्रकृतत्वेन तद्गतगुणपरत्वमिति शङ्क्यम् । ‘योऽयं विज्ञानमयः प्राणेषु’ इत्यादि वाक्योक्तजीव-स्वरूपानुवादेन ब्रह्मस्वरूपताबोधनपरत्वेन ब्रह्मगतगुणपरत्वाभावात् । ब्राह्मणपदस्य ‘तदधीते तद्वेद’ इति सूत्रविहिताणन्तस्य ब्रह्मवित्प्रतिपादकतया ब्रह्मपरत्वे लक्षणापत्तेश्च । किञ्च सगुणवाक्या-नामौपाधिगुणविषयत्वेन स्वाभाविकनिर्धर्मकत्वश्रुतेर्न विरोधः । न चौपाधिकत्वस्य सोपाधिकाध्यस्त-रूपत्वे श्रुत्यप्रामाण्यापत्तिः । वक्ष्यमाणसत्यत्वश्रुतिविरोधः, उपाधिकल्पितरूपत्वे तूक्तनित्यत्वश्रुति-विरोधः, अन्तःकरणादि रूपोपाधिसृष्टेः प्रागेव ईक्षितृत्वादिश्रुतेरुपाध्यसम्भवश्चेति वाच्यम् । मायावि-दर्शितमायानुवादिवाक्यवत् स्वतो भ्रमजनकत्वाभावेनाप्रामाण्यानापत्तेः । सत्यत्वश्रुतेरन्यथा नेष्यमाणत्वात् । नित्यत्वश्रुतेरन्यथार्थस्योक्तेः । सृष्टेः पूर्वमन्तःकरणाभावेऽपि अविद्याया उपाधेः सत्त्वाच्च ।
न चौपाधिकत्वे ‘स्वाभाविकी ज्ञानबलक्रिया च’ इत्यनेन विरोधः । अस्मदादाविव भौतिको-पाधिकत्वाभावेन योगिष्विव योगार्जितत्वाभावेन स्वाभाविकत्वोक्तेः । न च सङ्कोचकाभावः । निर्गुणवाक्यस्यैव सङ्कोचकत्वात् । न च– स्वाभाविकज्ञानसमभिव्याहारविरोधः । सार्वज्ञ्यादि-रूपाविद्यापरिणतस्यैव ज्ञानपदेन विवक्षितत्वाद्वाधकसत्त्वासत्त्वाभ्यां समभिव्याहारेऽपि वैरूप्याङ्गीकरणात् ‘पावको ब्राह्मणः’ इतिवत् । किञ्च सगुणवाक्यानां न गुणसत्यत्वबोधकत्वम् । सत्यत्वस्यापदार्थत्वात् । न च नित्यत्वोक्तिसामर्थ्याद्विषयाबाधलक्षणस्य प्रामाण्यस्यौत्सर्गिकत्वात् ‘सत्यः सोऽस्य महिमा’ इत्यादिश्रुतेः स्वरूपतश्च तत्सिद्धिरिति वाच्यम् । प्रथमस्यान्यथासिद्धेरुक्तत्वादुत्सर्गाख्यतर्कस्य व्यवहाराबाध मादायैवोपपादितत्वात् ‘सत्यः सोऽस्य महिमा’ इत्यादौ महिम्नः स्वरूपरूपत्वादविरोधात् । धर्मत्वे तु ब्रह्मसाक्षात्कारेतरा निवर्त्यत्वगुणयोगेन सत्यपदप्रवृत्त्युपपत्तेः । न चैवं ‘सत्यं ज्ञानं’ ‘तत्त्वमसि’ इत्यादिश्रुत्युक्तब्रह्मसत्यत्वैक्यादिकमपि तात्त्विकं न स्यादिति वाच्यम् । निर्गुणश्रुतिविरोधस्य तत्रेवात्राभावात् ।
न्यायामृततरङ्गिणी
परास्येति । ‘न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते’इति परास्येति श्रुतेः पूर्वार्धः । प्रत्येकं हेतुत्रयोपेताष्टसाध्यवदनुमानान्येकहेतुकद्विसाध्यकानुमाने पुनरप्येकहेतुकद्विसाध्यकानुमाने त्रिहेतुकैकसाध्यकानुमानान्येक हेतुकैकसाध्यकानुमानत्रयं चाह– ब्रह्मेत्यादिना ॥ वेदान्तमुख्यतात्पर्यविषयो ब्रह्मेत्यर्थः । तेनोपहितस्य पक्षीकरणे सिद्धसाधनमित्यादि निरस्तम् । नन्वत्र धर्मिपदस्वरूपपदस्वपदानां यत्किञ्चिद्धर्म्यादिपरत्वे घटादिसमसत्ताककल्पित धर्मिपरत्वेन सिद्धसाधनम् । ब्रह्मपरत्वे साध्याप्रसिद्धिः । घटादिधर्मे ब्रह्मसमानसत्ताकत्वादेरप्रसिद्धेः । मैवम् । दृष्टान्ते साध्यनिरूपणे घटादेर्धर्म्यादित्वात् । धर्म्यादिपदानां समभिव्याहृतपरत्वात् । न चानुमाने शब्दमहिमा नोपयुज्यत इति वाच्यम् । स्वार्थानुमाने तथात्वेऽपि परार्थानुमाने न्यायवाक्यरूपे तदुपयोगात् । अत एव स्वप्रागभाव-व्यतिरिक्तस्वविषयावरण स्वनिवर्त्यस्वदेशगतेत्यादीनि वेदान्तिनां, स्वोपादानगोचरेत्यादीनि च न्यायविदामनुमानानि । धर्मैर्हीनं नावतिष्ठत इत्यस्य धर्मरहितं नेत्यर्थः । अत एव धर्मैर्हीनं नेत्यादेर्धर्माव्याप्यमित्यर्थः । तथा च सिद्धसाधनं, यस्मिन्देशे काले वा ब्रह्म तत्र धर्माः सन्त्येव । न हि कालो देशो धर्मरहितः । मायाचित्सम्बन्धरूपकालस्तु मुक्त्यसहवृत्तिरिति परास्तम् । अस्मादेवानुमानात् । व्याघाताच्च । मुक्तिकाले कालो नास्तीत्यस्य व्याहतत्वाच्च । मुक्तेरपि कालसम्म्बन्धाच्च ।
वेदान्ततात्पर्येति । ननु वेदान्तानाम् अवान्तरतात्पर्यमादाय सिद्धसाधनं मुख्यतात्पर्योक्तौ वेदान्तवाक्य मुख्यतात्पर्यविषयप्रकारस्याप्रसिद्ध्याऽप्रसिद्धिरिति । मैवम् । व्याप्तिग्रहसत्त्वे साध्याप्रसिद्धेरदोषत्वात् । अत्रापि सामान्यव्याप्तिग्रहोऽस्तीत्याह– यदेवमित्यादिना । तत्प्रेप्सुत्वे सतीति ॥ समस्तकल्याणगुणनिरूपितगुणित्वेच्छा तत्प्रेप्सा । एतेनानन्दादीनां नित्यत्वेन तत्र प्रेप्साशक्त्योरसम्भव इति निरस्तम् । गुणित्वस्यापि नित्यत्वेऽस्मदिष्टसिद्धेः ॥ सदा तज्जिहासुत्वे सतीति ॥ न च चरमवृत्तिपर्यन्तं तत्त्यागे शक्त्यभावादसिद्धो हेतुर् अज्ञानविरोधिनः स्वरूपस्फुरणस्य चरमवृत्तिकाल इव संसारकालेऽपि सत्वात् । उक्तं चैतद-ज्ञानविषयभङ्गे । व्यावर्तकत्वं वेति । न चैवं व्यावर्तकत्वे व्यभिचारः । व्यावर्तकत्वमन्य-व्यावृत्तमित्यबाधितप्रतीतिबलेन तस्यापि व्यावृत्त्यादिरूपधर्मवत्त्वात् । व्यावत्तिर्व्यावृत्तेति प्रतीत्या व्यावृत्तेरपि व्यावृत्तिमत्त्वाच्च । न चैवमनवस्था । स्वस्यैव स्ववृत्तित्वाङ्गीकारात् । अबाधितप्रतीत्या च नात्माश्रयदोषोऽपि । न हि केवलान्वयित्वमेव स्ववृत्तित्वे तन्त्रम् । गन्धात्यन्ताभावादेः स्ववृत्तित्वात् ।
सगुणातिरिक्तस्येति ॥ निर्गुणब्रह्मसिद्धौ सगुणवाक्यस्य सगुणब्रह्मपरत्वेन निर्गुणा-बाधकत्वम् । सगुणवाक्यस्याबाधकत्वे निर्गुणब्रह्मसिद्धिरित्यादि दोषेण सगुणातिरिक्तासिद्धिः । न च ‘केवलो निर्गुणश्च’ इति श्रुत्या निर्गुणब्रह्मसिद्धिः । निर्गुणत्वरूपगुणसत्त्वासत्त्वाभ्यां व्याहत्या त्वदभिमतनिर्गुणस्य निर्गुणश्रुत्याप्यसिद्धेः ॥ त्वत्पक्ष इति ॥ तात्विकगुणवद् ब्रह्मव्यक्तिसत्त्वे सगुणश्रुतिस्तद्विषया । तदभावात्तु सा निर्विषया स्यात् । श्रुतेस्तात्विकार्थ-विषयत्वात् । यदि चातात्विकार्थमादाय श्रुतिः प्रवर्तेत तर्हि प्रस्तरश्रुतिरप्यतात्विक-यजमानाभेदमादाय प्रवृत्तेति न तत्र गौण्यादिकं कल्प्येत । यस्तु सगुणश्रुतिस्तात्विकत्वपर्यन्तं न विषयीकरोतीत्याह तदबोधात् । न हि सगुणश्रुत्या तात्विकत्वं गुणानामत्र साध्यते । किन्तु वस्तुगत्या तात्विकं सगुणमादाय सा प्रवर्तत इत्युच्यते ॥ परः पराणामिति ॥ ‘तेजो बलैश्वर्य’ इत्यत्र श्लोके सगुणस्य परात्परत्वोक्तेः ॥ अन्यथेति ॥ श्रुतेरुभया-सिद्धार्थपरत्वे ॥ सदेवेति ॥ इदंशब्दोदितः प्रपञ्चः सृष्टेः पूर्वं सदसच्छब्दोक्तापरपरब्रह्मात्मक इति श्रुतेस् त्वद्रीत्यैवार्थः स्यात् ॥ ग्रहणेति ॥ यत्त्वैन्द्रवायव वाक्यवत् षोडशिग्रहणवाक्यस्य यागपरत्वेऽप्यग्रहणवाक्यस्य न यागविषयत्वं ग्रहणाभावबोधकत्वादिति । तन्न । अबोधात् । न ह्युक्तवाक्याभ्यासपरम्परया यागानुमानमापाद्यते किन्तु निर्गुणपरब्रह्मवदप्रामाणिकमपि परं यागं कल्पयित्वा तत्परं ग्रहणनिषेधवाक्यं सर्वज्ञादिगुणनिषेधकवाक्यवदित्युच्यते । तत्र कः प्रसङ्गोऽग्रहणवाक्येन यागानुमानस्य ।
नन्वसद् ब्रह्मत्वस्य निषेधात्कथमसच्छब्दः परब्रह्मपरः स्यादत आह– असन्नेवेति । ननु तात्विकगुणवद्व्यक्त्यन्तराभावेऽप्येकस्यामेव व्यक्तौ कालभेदेन सगुणनिर्गुणश्रुती प्रवर्त्स्येत इत्याशङ्क्याह– न चेदानीमिति ॥ कालभेदेनापि सगुणश्रुतिरतात्विकगुणविषया वा तात्विक-गुणविषया वा । आद्ये कालभेदानुसरणं व्यर्थम् । एकत्रैकदैव मिथ्याऽमिथ्यार्थविषयकत्वेन सगुणनिर्गुणश्रुत्युपपत्तेः । तदपि निरसिष्यते । द्वितीयं निराकरोति– तथात्वेऽपीति । यस्तु वैयात्यादनित्यत्वमेव मिथ्यात्वमित्याह तं प्रत्याह– ज्ञानं नित्यमिति । तैत्तिरीयवाक्यं पठति– एष इति ॥ तस्यैवेति ॥ तस्यैव महिम्नः पदं स्थानमाश्रयस् तस्य विद् वेत्ता भवेत् । तं महिमानं विदित्वा पापकेन कर्मणा न लिप्यत इत्यर्थः ॥ बृहदारण्यक इति ॥ नन्वत्र ब्रह्मणः प्रकृतत्वेऽपि न गुणे तात्पर्यम् । ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिंच्छेते सर्वस्य वशी’ इत्यादिवाक्ये योयमित्यादिना शेत इत्यन्तेन जीवमुक्त्वा तस्य ‘स वा एष महानज आत्मा’ इत्यनेन ब्रह्माभेदे तात्पर्यात् । मैवम् । हृदयाकाशस्थेन ह्यैक्यमुच्यते । तत्स्थश्च परमात्मैव । दहराधि-करणन्यायात् । ‘तत्रापि दह्रं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम्’ इति श्रुतेश्च । ऐक्ये तात्पर्यसिद्धौ गुणेष्वतात्पर्यकल्पनम् । तेष्वतात्पर्ये विरोधादैक्ये तात्पर्यसिद्धि-रित्यन्योन्याश्रयाच्च ।
॥ मन्त्रस्येति ॥ ननूदाहृदमन्त्रो न ब्रह्मपरः किन्तु ब्राह्मणस्य ब्रह्मविदस्त्यक्तसर्वैषणस्य एषः नेतिनेतीत्यादि वाक्यप्रतिषिद्धसर्वोपाधिरूपः महिमा नित्य इत्येवं पर इति । तन्न । एषणात्यागात्पूर्वमसतस्ततः परं च सतो महिम्नो नित्यत्वायोगात् । ब्राह्मणशब्दस्य तदधीते तद्वेदेति सूत्रविहिताणंतस्य मुख्याध्ययनवेदनवति ब्रह्मणि मुख्यत्वात् । ब्रह्मविदो ब्राह्मणा विवदिषन्तीति बहुवचनेन प्रस्तुतस्यैकवचनेन ब्राह्मणस्येत्यनेन परामर्शायोगाच्च । एषणा-भावादिरूपस्य महिम्नस्त्वयापि नित्यत्वाङ्गीकाराच्च । अत एव त्वद्भाष्ये तस्यैव स्यात्पदवित्तं विदित्वेत्यादिमन्त्रव्याख्याने आत्मस्वरूपस्य सर्ववैलक्षण्यरूपमहिमस्वरूपविदः पुण्य-पापादिनिमित्तौ ह्रासौ न स्त इत्युक्तम् ॥ अन्तःकरणेति ॥ छान्दोग्ये ‘सदेवसोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत’ इतीक्षितृत्वस्य ‘बहु स्याम्’ इत्यादिसंकल्पस्य च ‘अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः’ इत्यादिना वक्ष्यमाणमनःसृष्टितः पूर्वमेव श्रवणात्तदाऽविद्यायाः सत्त्वेऽपि तस्या ईक्षितृत्वं प्रत्यनुपाधित्वात् । ‘कामः सङ्कल्पः’ इत्यादिश्रुतेः स्वाभाविकज्ञानेति ज्ञानं नित्यमित्यत्र स्वाभाविकज्ञानस्य यादृशं नित्यत्वमुक्तं नित्यशब्देन तस्यैव क्रिया नित्येत्यत्र प्रत्यभिज्ञानात् । ननु माभूत्तात्विकगुणवद्व्यक्त्यन्तरं सगुणश्रुतिर्निर्गुण एव तात्विकगुणान्विषयीकरिष्यतीत्या-शङ्क्य निराकरोति– न चातात्विका इति । ननु श्रुतिविषयाणामतात्विकत्वे श्रुत्यप्रामाण्यं स्यादित्यत आह– श्रुत्येति ॥ अतात्विकं तात्विकत्वेन विषयीकुर्वती ह्यप्रमाणं स्यान्न च तथाऽस्तीत्यर्थः ॥ विषयेति ॥ अर्थसत्त्वलक्षणस्वतःप्रामाण्योपेतश्रुतिबोधितत्वेन गुणानां तात्विकत्वसिद्धिः ॥ अन्यथेति ॥ श्रुतिबोधितस्याप्यतात्विकत्वे । औत्सर्गिकप्रामाण्यस्याप-वादाभावमाह– निर्गुणेति । निर्गुणश्रुतेर्दुःखादिगुण परत्वेन तद्विरोध एव नास्ति नतरां तस्यापवादत्वम् ।
न्यायामृतकण्टकोद्धारः
ननु वेदान्तानां सखण्डार्थत्वेऽपि कथं ब्रह्मणोऽनन्तगुणत्वम् ? तत्र प्रमाणाभावाद् बाधक-सद्भावात् । न ह्यप्रामाण्यकमनेकबाधकोपेतम् अङ्गीकर्तुमुचितम् । तथात्वे नरविषाणाद्यप्यङ्गीकर्तव्यं स्यादित्याशङ्कायां तत्रासिद्धिं वक्तुं प्रतिजानीते– तथा हीति ॥ अत्र ‘श्रुतीनाम्’ इत्यादीनां ‘सत्त्वात्‘ इत्यनेनान्वयः । अत्र सर्वत्रानुमानेषु ब्रह्मशब्दो वेदान्ततात्पर्यविषयवस्तुपरोऽतो ब्रह्मशब्दवाच्यं शबलं चेत् पक्षः, तदा सिद्धसाधनम् । यदि लक्ष्यं निर्गुणं तदाऽश्रयासिद्धिः । भवद्भिस्तादृशस्यानङ्गीकारात् । निर्गुणे सगुणत्वसाधने बाधश्च इत्यादिदूषणमलग्नकं वेदितव्यम् । न चैतेष्वनुमानेषु धर्मादिपदानां यत्किञ्चिद्धर्म्यादिपरत्वे घटादिसमसत्ताककल्पितधर्मवत्त्वेन सिद्धसाधनम् । ब्रह्मपरत्वे साध्याप्रसिद्धिः । घटादिधर्मे ब्रह्मसमानसत्ताकत्वादेरप्रसिद्धेरिति वाच्यम् । धर्म्यादिपदानां समभिव्याहृतपरत्वात् । अन्यथा ‘स्वप्रागभाव’ इत्यादिपरोदाहृतानुमाने-ष्वप्युक्तदोषापत्तेः ।
न च पदार्थत्वस्यासत्यपि भावाद् व्यभिचार इति वाच्यम् । सत्पदार्थत्वस्य विवक्षितत्वात् । तस्य चासत्य भावात् । न चेश्वरपक्षके सिद्धसाधनम् । ‘ईशानः सर्वविद्यानाम्’ इत्यादौ ईश्वरपद-तात्पर्यविषयस्य विवक्षितत्वात् । तस्य च समस्तगुणपूर्णत्वस्य त्वयाऽनङ्गीकारात् । साध्ये च ज्ञानाबाध्येत्यपि विशेषणम् । तेन न कल्पितगुणवत्त्वेन सिद्धसाधनम् । एवमुत्तरत्रापि द्रष्टव्यम् । अप्रयोजकत्वपरिहारार्थमुक्तं विपक्ष इति । तथा च विपक्षबाधकसत्त्वान् नोपाध्यादिशङ्का युक्तेति भावः ॥ निर्धर्मकत्वरूपेति ॥ अनवस्थापरिहारश्च धर्मधर्मिणोरभेदेन वा बीजाङ्कुरन्यायेन वा द्रष्टव्यः । ननु प्रमेयत्वादीनां निर्धर्मकत्वात्तत्र हेतोर्व्यभिचार इत्यत आह– प्रमेयत्वाभिधेय-त्वादीनामिति ॥ ननु गोत्वादौ न व्यावर्तको धर्मः । तस्य स्वत एव विलक्षणत्वात् । तथा च तत्र व्यभिचार इत्यत आह– गोत्वादेरपीति ॥ किञ्चिदिति नियमोऽसिद्ध एवेति भावः ॥ न चेति ॥ तथा च वेदान्ततात्पर्यविषयस्य सगुण त्वमिति भावः ।
सगुणेति ॥ तत्र प्रमाणाभावाद् वेदान्तैश्च सगुणस्यैव प्रतिपादनादिति भावः । ननु मया सगुणब्रह्मातिरिक्तं निर्गुणं ब्रह्म स्वीक्रियत इत्यत आह– त्वत्पक्ष इति ॥ गुणानाञ्च तात्विकत्वस्य प्रतिपादयिष्यमाणत्वादिति भावः ॥ परात् परत्वोक्तेः ॥ सगुणस्यैवेति शेषः ॥ अन्यथेति ॥ सगुणसत्यादिवाक्यानां परापरब्रह्मविषयत्व इत्यर्थः । न चेष्टापत्तिः । अपसिद्धान्तात्पूर्वतन्त्र-विरोधाच्च ॥ ननु न मया परापरं व्यक्तिद्वयं स्वीक्रियते । किन्त्वेकस्यैव दशाभेदेन सगुणत्व-निर्गुणत्वे यथैकस्य घटस्य श्यामत्वरक्तत्वे । अतो नेदमनिष्टापादनमित्याशङङ्क्य निषेधति– न चेदानीमिति ॥ ननु गुणानामपगमे निर्गुणमेव सेत्स्यतीत्यत आह– ज्ञानमिति ॥ नन्वेषा श्रुतिर्ब्राह्मणस्य महिम्नो नित्यत्वं प्रतिपादयति न ब्रह्मगुणानाम् । तत्र ब्रह्मज्ञापकाभावादित्यत आह– एवेति ॥ ननु लिङ्गप्रकरणाभ्यां ब्रह्मपरत्वेऽपि मध्ये प्रासङ्गिकोक्तिः किं न स्यादिति चेन्न । अन्यस्य नित्यमहिमत्वासम्भवात्, त्वयाऽनङ्गीकाराच्च । न च ब्रह्मपरत्वे कथं ब्राह्मणशब्दः । तस्मिन् ब्राह्मणत्वजातेरसम्भवादिति वाच्यम् । पत्यादिशब्देभ्य इत्युक्तन्यायेन सर्वस्योपपत्तेः । नन्वियं श्रुतिर्न नित्यत्वपरा किन्तु बहुकालीनत्वपरेति । अतोऽस्या बृहदारण्यके स्वोक्तार्थे सम्मति त्वेनोदाहृतत्वेनासन्दिग्धार्थत्वान्निन्निश्चितं हि दृष्टान्तत्वेनोपादीयत इत्याह– बृहदारण्यक इति ॥ अन्यथेति ॥
एवं प्रमाणेन नित्यत्वे सिद्धेऽपि चेद्दशाभेदेन व्यवस्था स्वीक्रियत इत्यर्थः । औपाधिकत्वं किमुपाधावनुभूयारोप्यमाणत्वम् अथवोपाधिकृतत्वम् ? आद्य आह– औपाधिकत्वस्येति ॥ द्वितीय आह– उपाधिकृतत्वेति ॥ अन्तः करणेति ॥ अन्यस्य चोपाधेरसम्भवादिति भावः । न च विद्यैवोपाधिरिति वाच्यम् । तस्याः प्रलयेऽपि सत्त्वेन तदापीक्षितृत्वापत्तेरपसिद्धान्ताच्च ॥ अन्यथेति ॥ प्रमाणसिद्धस्य स्वाभाविकत्वानङ्गीकार इत्यर्थः ॥ न चेति ॥ न च पौनरुक्त्यम् । पूर्वं सोपाधिकाध्यासनिरासाय, अत्र तु निरुपाधिकाध्यासनिरासाय शङ्क्यत इत्यर्थभेदात् । यद्वा पूर्वं सामान्येन सोपाधिकत्वमाशङ्कितम् । अत्र तु विशेषत आशङ्क्यत इति भेदात् ॥ अन्यथेति ॥ प्रामाणिकस्य तात्विकत्वस्यानङ्गीकारे इत्यर्थः ।
(इत आरभ्य ‘स्वप्रकाशत्वलक्षणभङ्ग’ पर्यन्तं न्यायामृतप्रकाशः नोपलब्धः)
न्यायकल्पलता
ब्रह्मणः सदनन्तगुणत्वं व्यवस्थापयितुमाह– तथा हीति ॥ परास्येति । ‘न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते’ इति परास्येति श्रुतेः पूर्वार्धम् । ‘परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे ॥ इत्युत्तरार्धम् । विष्णुपुराणे मैत्रेयं प्रति पराशरवचनम् । प्रत्येकं हेतुत्रयोपेताष्टसाध्यवदनुमानान्येकहेतुकद्विसाध्यकानुमाने पुनरप्येकहेतुकद्विसाध्यकानुमाने त्रिहेतुकैक-साध्यकानुमानान्येकहेतुकैकसाध्यकानुमानत्रयं चाह– ब्रह्मेत्यादिना ॥ वेदान्तमुख्यतात्पर्यविषयो ब्रह्मेत्यर्थः । तेनोपहितस्य पक्षीकरणे सिद्धसाधनमित्यादि निरस्तम् । नन्वत्र धर्मिपदस्वरूप-पदस्वपदानां यत्किञ्चिद्धर्म्यादिपरत्वे घटादिसमसत्ताककल्पितधर्मिपरत्वेन सिद्धसाधनम् । ब्रह्मपरत्वे साध्याप्रसिद्धिः । घटादिधर्मे ब्रह्मसमानसत्ताकत्वादेरप्रसिद्धेरिति । मैवम् । दृष्टान्ते साध्यनिरूपणे घटादेर्धर्म्यादित्वात् । धर्म्यादिपदानां समभिव्याहृतपरत्वात् । न चानुमाने शब्दमहिमा नोपयुज्यत इति युक्तम् । स्वार्थानुमाने तथात्वेऽपि परार्थानुमाने न्यायवाक्यरूपे तदुपयोगात् । अत एव स्वप्राग-भावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगतेत्यादीनि वेदान्तिनां, स्वोपादानगोचरेत्यादीनि त्वदीयानाम् औतिनां, स्वोपादानगोचरेत्यादीनि च न्यायविदामनुमानानि । ‘धर्मैर्हीनं नावतिष्ठते’ इत्यस्य धर्मरहितं नेत्यर्थः । अत एव धर्मैर्हीनं नेत्यादेर्धर्माव्याप्यमित्यर्थः । तथा च सिद्धसाधनं, यस्मिन्देशे काले वा ब्रह्म तत्र धर्माः सन्त्येव । न हि कालो देशो धर्मरहितः । माया चित्सम्बन्धरूपकालस्तु मुक्त्य-सहवृत्तिरिति परास्तम् । अस्मादेवानुमानाद् व्याघाताच्च । मुक्तिकाले कालो नास्तीत्यस्य व्याहत-त्वाच्च । मुक्तेरपि कालसम्बन्धाच्च तदुक्तम् अनुव्याख्याने– यदि कालोऽपि नेत्याह कदेति प्रश्न उत्तरम् । किं वक्ष्यति यदावस्थां वदेत्सापेक्षतां व्रजेत् ॥ अवस्थात्वादिति ह्येव हेतुः सापि कदेति च । पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् ॥ इति ।
वेदान्त(वाक्य) तात्पर्येति ॥ ननु वेदान्तानाम् अवान्तरतात्पर्यमादाय सिद्धसाधनं, मुख्य-तात्पर्योक्तौ वेदान्तवाक्यमुख्यतात्पर्यविषयप्रकारस्याप्रसिद्ध्याऽप्रसिद्धिरिति । मैवम् । व्याप्तिग्रहसत्त्वे साध्याप्रसिद्धेरदोषत्वात् । अत्रापि सामान्यव्याप्तिग्रहोऽस्तीत्याह– यदेवं तदेवमित्यादिना ॥ तत्प्रेप्सुत्वे सतीति । समस्तकल्याणगुणनिरुपितगुणित्वेच्छा तत्प्रेप्सा । तेनानन्दादीनां नित्यत्वेन तत्र प्रेप्साशक्त्योरसम्भव इति व्युदस्तम् । गुणित्वस्यापि नित्यत्वेऽस्मदिष्टसिद्धेः ॥ सदा तज्जिहासुत्वे सतीति ॥ न च चरमवृत्तिपर्यन्तं तत्त्यागे शक्त्यभावादसिद्धो हेतुः । यदा तु तत्सामर्थ्यं तदा त्यक्तदोषत्वम् इष्टमेवेति वाच्यम् । अज्ञानविरोधिनः स्वरूपस्फुरणस्य चरमवृत्तिकाल इव संसार-दशायामपि सत्वात् । उक्तं चैतदज्ञानविषयभङ्गे ॥ व्यावर्तकत्वं वेति ॥ नचैवं व्यावर्तकत्वे व्यभिचारः । व्यावर्तकत्वमन्यव्यावृत्तमित्यबाधित प्रतीतिबलेन तस्यापि व्यावृत्त्यादिरूपधर्मवत्त्वात् । व्यावृत्तेति प्रतीत्या व्यावृत्तेरपि व्यावृत्तिमत्त्वाच्च । न चैवमनवस्था । स्वस्यैव स्ववृत्तित्वाङ्गीकारात् । अबाधितप्रतीत्या च नात्माश्रयदोषोऽपि । न हि केवलान्वयित्वमेव स्ववृत्तित्वे तन्त्रम् । गन्धात्यन्ता-भावादेः स्ववृत्तित्वात् ।
सगुणातिरिक्तस्येति ॥ निर्गुणब्रह्मसिद्धौ सगुणवाक्यस्य सगुणब्रह्मपरत्वेन निर्गुणाबाधकत्वम् । सगुणवाक्यस्याबाधकत्वे निर्गुणब्रह्मसिद्धिरित्यादिदोषेण सगुणातिरिक्तब्रह्मासिद्धिः । न च ‘केवलो निर्गुणश्च’ इति श्रुत्या निर्गुणब्रह्मसिद्धिः । निर्गुणत्वरूपगुणसत्त्वासत्त्वाभ्यां व्याहत्या त्वदभिमतनिर्गुणस्य निर्गुणश्रुत्याप्यसिद्धेः ॥ त्वत्पक्ष इति ॥ तात्विकगुणवद् ब्रह्मव्यक्तिसत्त्वे सगुणश्रुतिस्तद्विषया । तदभावात्तु सा निर्विषयैव स्यात् । श्रुतेस्तात्विकार्थविषयत्वात् । यदि चातात्विकार्थमादाय श्रुतिः प्रवर्तेत तर्हि प्रस्तरश्रुतिरप्यतात्विकयजमानाभेदमादाय प्रवृत्तेति न तत्र गौण्यादिकं कल्प्यते । यस्तु सगुणश्रुतिस्तात्विकत्वपर्यन्तं स्वार्थं न विषयीकरोतीत्याह बादरायणीय सिद्धान्ताबोधात् । प्रामाण्यस्य स्वतस्त्वेनार्थावेदक(च)तत्सत्वावेदकत्वात् । केचित्तु न हि सगुणश्रुत्या तात्विकत्वं गुणानामत्र साध्यते । किन्तु वस्तुगत्या तात्विकं सगुणमादाय सा प्रवर्तत इत्युच्यते इत्याहुः ॥ परः पराणा-मिति ॥ ‘तेजोबलैश्चर्य’ इत्यत्र श्लोके सगुणस्य परात्परत्वोक्तेरित्यर्थः । तेन ‘निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्चराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ॥ वशीकृते मनस्येषां सगुणब्रह्म-शीलनात् । तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम् ॥ इति अन्तराधिकरणे कल्पतरूक्तं निरस्तम् । सगुणोपासनेन विरोधान्निर्गुणाविर्भावानुपपत्तेश्च ।
अन्यथेति ॥ श्रुतेरुभयासिद्धार्थपरत्वे ॥ सदेवेति ॥ इदंशब्दोदितः प्रपञ्चः सृष्टेः पूर्वं सदसच्छब्दोक्तापरपरब्रह्मात्मक इति (श्रुतेः) त्वद्रीत्यैवार्थः स्यात् ॥ ग्रहणेति ॥ यत्तु ‘ऐन्द्रवायवं गृह्णाति’ इति वाक्यवत् षोडशिग्रहणवाक्यस्य यागपरत्वेऽप्यग्रहणवाक्यस्य न यागविषयत्वं, ग्रहणाभावबोधकत्वादिति । तन्न । भावानवबोधात् । न ह्युक्तवाक्याभ्यामपरपरयागानुमानमापाद्यते किन्तु निर्गुण•)परब्रह्मवदप्रामाणिकमपि परयागं कल्पयित्वा तत्परं ग्रहणनिषेधकं वाक्यं सार्वज्ञादि-गुणनिषेधकवाक्यवदित्युच्यते । तत्र कः प्रसङ्गोऽग्रहणवाक्येन यागानुमानस्य । नन्वसद् ब्रह्मत्वस्य निषेधात्कथमसच्छब्दः परब्रह्मपरः स्यादत आह– असन्नेवेति । ननु तात्विकगुणवद्व्यक्त्यन्तरा-भावेऽप्येकस्यामेव व्यक्तौ कालभेदेन सगुणनिर्गुणश्रुती प्रवर्त्स्येत इत्याशङ्क्याह– न चेदानीमिति । कालभेदेनापि सगुणश्रुतिरतात्विकगुणविषया उत तात्विकगुणविषया । आद्ये कालभेदानुसरणं व्यर्थम् । एकत्रैकदैव मिथ्यासत्यार्थविषयकत्वेन सगुणनिर्गुणश्रुतिप्रवृत्त्युपपत्तेः । तदपि निरसिष्यते ।
द्वितीयं निराचष्टे– तथात्वेऽपीति ॥ यस्तु वैयात्यादनित्यत्वमेव मिथ्यात्वमित्याह तं प्रत्याह– ज्ञानं नित्यमिति ॥ तैत्तिरीयवाक्यं पठति– एष इति ॥ तस्यैवेति ॥ तस्यैव महिम्नः पदं स्थान-माश्रयस् तस्य विद् वेत्ता भवेत् । तं महिमानं विदित्वा पापकेन कर्मणा न लिप्यत इत्यर्थः ॥ बृहदारण्यक इति ॥ नन्वत्र ब्रह्मणः प्रकृतत्वेऽपि न गुणे तात्पर्यम् । ‘स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिंच्छेते सर्वस्य वशी’ इत्यादिवाक्ये योऽयमित्यादिना शेत इत्यन्तेन जीवमुक्त्वा तस्य ‘स वा एष महानज आत्मा’ इत्यनेन ब्रह्माभेदे तात्पर्यात् । मैवम् । हृदयाकाशस्थेन ह्यैक्यमुच्यते । तत्स्थश्च परमात्मैव । दहराधिकरणन्यायात् । ‘तत्रापि दहरङ्गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम्’ इति श्रुतेश्च । ऐक्ये तात्पर्यसिद्धौ गुणेष्वतात्पर्यकल्पनम् । तेष्वतात्पर्ये विरोधाभावादैक्ये तात्पर्यसिद्धिरित्यन्योन्याश्रयाच्च ॥ मन्त्र-स्येति ॥ ननूदाहृदमन्त्रो न ब्रह्मपरः । किन्तु ब्राह्मणस्य ब्रह्मविदस्त्यक्तसर्वैषणस्य एषः नेति-नेतीत्यादिपूर्ववाक्यप्रतिषिद्धसर्वोपाधिरूपः महिमा नित्य इत्येवं पर इति । मैवम् । एषणात्यागा-त्पूर्वमसतस्ततः परं च सतो महिम्नो नित्यत्वायोगात् । ब्राह्मणशब्दस्य तदधीते तद्वेदेति सूत्र-विहिताणंतस्य मुख्याध्ययनवेदनवति ब्रह्मणि मुख्यत्वात् । ब्रह्मविदो ब्राह्मणा विविदिषन्तीति बहुवचनेन प्रस्तुतस्यैकवचनेन ब्राह्मणस्येत्यनेन परामर्शायोगाच्च । एषणाभावादिरूपस्य महिम्नस्त्वयापि नित्यत्वाङ्गीकाराच्च । अत एव त्वद्भाष्ये तस्यैव स्यात्पदवित्तं विदित्वेत्यादिमन्त्र व्याख्याने आत्मस्वरूपस्य सर्ववैलक्षण्यरूपमहिमस्वरूपविदः पुण्यपापादिनिमित्तौ ह्रासौ न स्त इत्युक्तम् । अथवा ब्रह्मणा वेदेन अण्यतेऽवगम्यते इति ब्राह्मणः । स्वरव्यत्यासश्चाधिक्यार्थः ॥ अन्तःकरणेति ॥ छान्दोग्ये ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं, तदैक्षत’ इतीक्षितृत्वस्य बहुस्यामित्यादि सङ्कल्पस्य च ‘अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः’ इत्यादिना वक्ष्यमाणमनः सृष्टितः पूर्वमेव श्रवणात्तदाऽविद्यायाः सत्त्वेऽपि तस्या ईक्षितृत्वं प्रत्यनुपाधित्वात् । कामः सङ्कल्प इत्यादिश्रुतेः ॥ स्वाभाविकज्ञानेति ॥ ज्ञानं नित्यमित्यत्र स्वाभाविकज्ञानस्य यादृशं नित्यत्वमुक्तं नित्यशब्देन तस्यैव क्रिया नित्येत्यत्र प्रत्यभिज्ञानात् । ननु मा भूत्तात्विकगुणवद्व्यक्त्यन्तरं सगुणश्रुतिर्निर्गुण एव तात्विकगुणान्विषयीकरिष्यतीत्याशङ्क्य निराकरोति–
न चातात्विका इति । ननु श्रुतिविषयाणामतात्विकत्वे श्रुत्यप्रामाण्यं स्यादित्यत आह– श्रुत्येति ॥ अतात्विकं तात्विकत्वेन विषयीकुर्वती अप्रमाणं स्यान्न च तथाऽस्तीति शङ्कार्थः ॥ विषयेति ॥ अर्थसत्त्वगर्र्भितस्वतःप्रामाण्योपेत श्रुतिबोधितत्वेन गुणानां तात्विकत्वसिद्धिः ॥ अन्यथेति ॥ श्रुतिबोधितस्याप्यतात्विकत्वे । औत्सर्गिकप्रामाण्यस्याप वादाभावमाह– निर्गुणेति ॥ निर्गुणश्रुतेर्दुःखादिगुणपरत्वेन तद्विरोध एव नास्ति नतरां तस्यापवादत्वम् ।
किञ्च तद्विरोधेऽपि श्रुतेर्नातात्त्विकविषयता युक्ता
न्यायामृतं
किञ्च तद्विरोधेऽपि श्रुतेर्नातात्त्विकविषयता युक्ता । उक्तं हि–
को हि मीमांसको ब्रूयाद्विरोधे शास्त्रयोर्मिथः ।
एकं प्रमाणमितरत् त्वप्रमाणं भवेदिति ॥ इति ।
तथा हि– पूर्वतन्त्रे प्राप्तबाधोऽप्राप्तबाधश्चेति द्विविधो बाध उक्तः । तत्र दाशमिके
‘प्राप्तबाधे प्रकृतिवत्कुर्याद्’ इत्यादिरूपस्य प्राप्तस्य चोदकादेः कृष्णलादाववघातवर्ज-मित्यादिरूपः सङ्कोच एव । एवं तार्तीयेऽप्यप्राप्तबाधे गार्हपत्यमिति द्वितीयाश्रुत्यनु-सारेणेन्द्रशब्दप्रयुक्तमन्त्रलिङ्गस्य गार्हपत्ये गौणत्वादिकमेव । एवं व्याकरणेऽपि परेण पूर्वस्य, नित्येनानित्यस्य, अन्तरङ्गेण बहिरङ्गस्य, प्रतिपदोक्तेन लक्षणोक्तस्येत्यादिर्बाध उक्तः । तत्रापि सङ्कोच एव । एवं ब्रह्ममीमांसायामपि ‘विकारशब्दान्नेति चेन्न प्राचुर्याद्, ‘उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात्, ‘गौण्यसम्भवात्’ इत्यादौ शास्त्रयोर्विरोधे तात्त्विकार्थान्तरपरत्वमेवोक्तम्, न त्वारोपितार्थत्वम् । अन्यथा ईक्षत्याद्यधिकरणेषु सिद्धान्तसाधकानाम् ईक्षणादीनां साङ्ख्याद्यभिमतप्रधानादावारोप सम्भवात् क्वापि सिद्धान्तो न सिद्ध्येदिति सर्वमपि शास्त्रमुन्मूलितं स्यात् ।
किञ्च दशमे विकृतिभूतमहापितृयज्ञप्रकरणस्थे नार्षेयं वृणीते इत्यादिवाक्ये प्रकृतिवत्कुर्यादार्षेयवरणवर्जमिति महापितृयज्ञीयप्रकृतिवच्छब्दैकवाक्यतया पर्युदासा-दार्थत्वमेवेत्युक्त्वा यत्र प्रकृतिभूतदर्शपूर्णमास प्रकरणस्थाज्यभागविधायकवाक्यसन्निहिते ‘न तौ पशौ करोति’ इत्यादौ पाशुकप्रकृतिवच्छब्दैकवाक्यत्वयोगेन नञः पर्युदासार्थत्वा-सम्भवात् । प्रकृतिवत्कुर्यादाज्यभागौ तु न कुर्यादिति वाक्यभेदेन प्रसज्यप्रतिषेधार्थत्वमेव युक्तम् । तत्र पशावाज्यभागयोरन्येनाप्रसक्तेः । शास्त्रप्रसक्तस्य च सर्वथा बाधायोगाद् विकल्प इत्युक्तम् । एवं च यदा प्रतिषेधोन्नीतप्रसक्तेरपि न सर्वथा बाधस् तदा किमु वक्तव्यं प्रत्यक्षसगुणशास्त्रप्रमितानां गुणानां न सर्वथा बाध इति ?
ननु निर्गुणवाक्येन निषेद्धुं सगुणवाक्यस्यानुवादकत्वेनैकवाक्यत्वसम्भवे वाक्यभेदेन गुणप्रापकता न युक्तेति चेन्न, सत्यकामत्वादीनामन्यतोऽप्राप्तेः । श्रुतिप्राप्तस्य च श्रुत्या निषेधेऽहिंसावाक्यम् अग्नीषोमीयहिंसायाः, अग्रहणवाक्यं च षोडशिग्रहणस्य, असद्वेत्यादि- वाक्यं च ब्रह्मसत्त्वस्य, भेदवाक्यं चैक्यस्य निषेधकं स्यादित्युक्तत्वात् । किञ्च (सृढ)मृडमृदेत्यादिविधिर्न क्त्वा सेडिति निषेधस्येव सगुणवाक्यमेव निर्गुणवाक्यस्य बाधकं किं न स्यात् ? न च जगत्कर्तृत्वाक्षिप्तस्य सार्वज्ञ्यादेर्निषेधायानुवादः । श्रुत्याक्षिप्तस्य पुनः श्रुत्या निषेधायोगात् । अन्यथा श्रुतेन ज्ञाननिवर्त्यत्वेन जगदरोपाधिष्ठानत्वेन ‘स एवेदं सर्वमि’ति श्रुतेन जीवब्रह्मणोः सार्वात्म्येन चाक्षिप्तं सर्वमिथ्यात्वं ब्रह्मसत्त्वं जीव-ब्रह्मैक्यं च ‘विश्वं सत्यमि’त्यनेन ‘असद्धा इदमि’त्यनेन ‘द्वा सुपर्णा’ इत्यनेन च निषेद्धुं ‘नेह नाना’ इत्यनेन ‘सत्यं ज्ञानम्’ इत्यनेन ‘तत्त्वमसि’ इत्यनेन चानूद्यत इति स्यात् ।
किञ्च श्रुत्याक्षिप्तस्य सार्वज्ञ्यादेः श्रुत्या निषेधेऽपि श्रुतस्य सर्वकर्तृत्वादेः कथं निषेधः? किञ्चाद्वैतश्रुतेर्निर्गुणश्रुत्यन्तरस्य वा तात्पर्यपरिज्ञानप्राप्तं निर्गुणत्वमेव सगुणवाक्येन निषेद्धुं सगुणवाक्येनानूद्यत इति किं न स्यात् ? ‘वैगुण्यमेव पश्यन्ति न गुणान्विनियुञ्जते’ इति भारतोक्तेः । किञ्च निर्गुणवाक्य एव ‘साक्षी चेता’त्यादिना द्रष्टृत्वादिगुणविधानान्न तेन निषेध इति न तदर्थं सावज्ञ्यादि वाक्यमनुवादकम् । अन्यथा सार्वज्ञ्यादेर्व्यावहारिकं सत्त्वमपि न स्यात् । न हि निषिद्धे ब्राह्मणहननादौ अवान्तरमपि तात्पर्यम् । न चौपनिषदस्य ब्रह्मणः सार्वज्ञ्यादिकमनुमानादिसिद्धम् । ननु सगुणवाक्यं ‘वाचं धेनुमुपासीत’ इत्यादिवदुपासनार्थम्, उपासनायाः कर्तव्यत्वे गुणेषु च तात्पर्ये वाक्यभेदादिति चेन्न–
उपासनायाः कार्यत्वे विष्णोरात्मत्व एव च ।
उभयत्रापि तात्पर्यमात्मोपासादिके विधौ ॥
इति स्मृतिविरोधात् । ‘यः सर्वज्ञः’ इत्यादौ उपासनाविधेरश्रवणाच्च । कल्पनस्य च निर्गुणवाक्येऽपि शक्यत्वात् ।
अद्वैतसिद्धिः
ननु श्रुत्योर्विरोधेनैकस्या अतात्त्विकविषयत्वम् । शास्त्राविरोधे सङ्कोचविकल्पादिना उभयप्रामाण्यस्य पूर्वतन्त्रे व्याकरणे च निर्णीतत्वात् । तथा हि– दशमाध्यायस्थे ‘प्राप्तबाधे प्रकृतिवत् कुर्यात्’ इत्यादि-रूपकप्तस्य चोदकस्य कृष्णलादाववघातवर्जमित्यादिरूपः सङ्कोच एव । एवं तार्तीयीकेऽपि अप्राप्तबाधे गार्हपत्यमिति द्वितीयाश्रुत्यनुसारेण इन्द्रशब्दयुक्तमन्त्रलिङ्गस्य गार्हपत्ये गौणत्वादिकमेव । व्याकरणेऽपि यत्र परेण पूर्वस्य नित्येनानित्यस्येत्यादिबाध उक्तः, तत्रापि सङ्कोच एव । दशमे विकृतिभूतमहापितृ-यज्ञप्रकरणस्थे ‘नार्षेयं वृणीते’ इत्यादिवाक्ये प्रकृतिवत्कुर्यादार्षेय वरणवर्जमिति महापितृयज्ञीयप्रकृति-वच्छब्दैकवाक्यतया पर्युदासार्थत्वमेवेत्युक्तम् । यत्र तु प्रकृतिभूतदर्शपूर्णमासप्रकरण स्थाज्यभाग विधायकवाक्यसन्निहिते ‘न तौ पशौ करोति’ इत्यादौ पाशुकप्रकृतिवच्छब्दैकवाक्यताऽयोगेन पर्युदासार्थत्वासम्भवात् । ‘प्रकृतिवत्कुर्यादाज्यभागौ तु न कुर्यात्’ इति वाक्यभेदेन प्रसज्यप्रतिषेधार्थ-कत्वमेवेत्युक्तम् । तत्र पशावाज्यभागयोरन्येना प्रसक्तेः शास्त्रप्रसक्तस्य सर्वथा बाधायोगाद्विकल्प इत्युक्तम् । तथा चोक्तं–
‘को हि मीमांसको ब्रूयाद्विरोधे शास्त्रयोर्मिथः । एकं प्रमाणमितरत् त्वप्रमाणं भवेदिति ॥’ इति चेन्न । तत्र शास्त्रयोः प्रामाण्ये समानकक्ष्यतया एकतरस्यात्यन्तिकबाधायोगात्सङ्कोचेन विकल्पेन वा पाक्षिकप्रामाण्यमाश्रितम् । इह त्वेकतरस्य तत्परतया प्रबलत्वादितरस्य चातत्परत्वेन दुर्बलतया वैषम्यात् । यत्तु ‘न तौ पशौ करोति’ इत्यादौ विकल्प उक्तः, तन्न, पशुप्रकरणस्थस्य पाशुकप्रकृति-वच्छब्दैकवाक्यतया पर्युदासार्थत्वाद्, दर्शपूर्णमासप्रकरणस्थस्य तु ‘पशावाज्यभागौ न स्तः, अत्र तौ स्तः’ इति स्तुत्यर्थत्वाद्, वार्त्तिककारैर्विकल्पे स्वीकृतेऽपि न दोषः । उभयत्र तात्पर्यसत्त्वेन विशेषात् ।
यत्तु अत्रापि ‘विकारशब्दान्नेति चेन्न प्राचुर्यात्’ ‘उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात्’ ‘गौण्यसम्भवात्’ इत्यादौ शास्त्रयोर्विरोधे तात्त्विकार्थान्तरपरतोक्ता न त्वारोपितार्थता । अन्यथेक्ष-त्याद्यधिकरणेषु सिद्धान्तसाधकानामीक्षणादीनां साङ्ख्याद्यभिमतप्रधानादावारोपसम्भवेन प्रधाननिरा-करणादि न सिद्ध्येदिति, तन्न । विकारशब्दादित्यादौ न विरोधेन तात्त्विकार्थान्तरपरत्वमर्थः, किन्तु स्वप्रधाने ब्रह्मणि अवयवत्वासम्भवेन पुच्छपदमुपचरितमित्यर्थः । तदुक्तं टीकायां– ‘पुच्छेऽधिकरणे’ इति । गौण्यसम्भवादिति पूर्वपक्षसूत्रेऽपि ‘आत्मन आकाशः सम्भूतः’ इति श्रुतिस्तु गौणी । आकाशोत्पत्तिकारणासम्भवादित्यर्थः, न तु तात्त्विकार्थान्तरविषयत्वम् । ‘उपदेशभेदात्’ इत्यादौ दिवि दिव इति सप्तमीपञ्चमीभ्यामाधारत्वावधित्वयोः प्रतीतेरुपदेशभेदेन पूर्वनिर्दिष्टब्रह्मणः प्रत्यभिज्ञान-मस्तीति प्राप्ते एकस्मिन्नपि श्येने ‘वृक्षाग्रे श्येनः वृक्षाग्राच्छ्येनः’ इति निर्देशदर्शनादेकस्मिन्नेव ब्रह्मणि उभयरूपाविरोध इत्यर्थः न तु तात्त्विकार्थान्तरपरत्वम् । न चारोपितमीक्षणं प्रधाने सम्भवति, योग्यतामादायैवारोपदर्शनात् । न हि राजामात्ये राजत्वारोप इति स्तम्भादावपि तदारोपः । तथा च चेतन एव ईक्षितृत्वदर्शनाच्चेतने ब्रह्मणि तदारोपो युज्यते नाचेतन इति न सिद्धान्तक्षतिः । किञ्च निषेध्यसमर्पकतयैकवाक्यतयैव प्रामाण्यसम्भवे न वाक्यभेदेन गुणप्रापकता युक्ता । अत एव न को हि मीमांसक इत्यादिना विरोधः ।
ननु– ‘मृडमृद’ इत्यादेर्यथा ‘न क्त्वा सेट्’ इति निषेधनिषेधकत्वं, तद्वत् सगुणवाक्यानामपि निर्गुणवाक्यबाधकत्वं किं न स्यादिति चेन्न, दृष्टान्ते पर्युदासाधिकरणन्यायेन मृडमृदेत्याद्युत्तर-विहिताप्यसेट्-क्त्वाप्रत्यय-कित्त्वनिषेधपरत्वेनैकवाक्यतायां वाक्यभेदेन निषेधनिषेधकत्वाकल्पनात् । न च प्रकृतेऽपि पर्युदासार्थकत्वम्, नेति नेतीति वीप्सायाः प्रसक्तसर्वनिषेधकतया विशेषपरिशेषायोगेन पर्युदासस्याश्रयितुमशक्यत्वात् । यत्तु जगत्कर्तृत्वेनाक्षिप्तसार्वज्ञ्यादेर्निषेधायानुवादे श्रुतेन ज्ञाननिवर्त्यत्वेन जगदारोपाधिष्ठानत्वेन ‘स एवेदं सर्वमात्मैवेदं सर्वम्’ इति श्रुतेन जीवब्रह्मणोः सार्वात्म्येन चाक्षिप्तं विश्वमिथ्यात्वं ब्रह्मसत्त्वं जीवब्रह्मैक्यं च ‘विश्वं सत्यम्’ इत्यनेन ‘असद्वा’ इत्यनेन ‘द्वा सुपर्णा’ इत्यनेन च निषेद्धुं ‘नेह नाना’ इत्यनेन ‘सत्यं ज्ञानम्’ इत्यनेन ‘तत्त्वमसि’ इत्यनेन चानूद्यत इति स्यादिति, तन्न, ‘विश्वं सत्यं’‘द्वा सुपर्णा’ इत्यत्र च निषेधद्योतकपदाभावेन निषेधकत्वा-सम्भवात् । असद्वा इत्यत्र तु नञ्सत्त्वेऽपि नामपदसमभि व्याहृतत्वेन निषेधकत्वासम्भवात् । ‘द्वा सुपर्णा’ इत्यस्य पैङ्गिरहस्यब्राह्मणे बुद्धिजीवपरतया व्याकृतत्वेन जीवब्रह्मभेदा बोधकत्वात् । फलतो निषेधत्वोपपादने दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यात् । तथा हि– सार्वज्ञ्यस्य निषेधप्रतियोगितया मिथ्याभूतत्वेऽपि नाक्षेपानुपपत्तिः । आरोपितेनाप्याक्षेपकजगत्कर्तृत्व निर्वाहात् । आक्षिप्तविश्वमिथ्यात्व-ब्रह्मसत्त्वजीवब्रह्मैक्यानां निषेधे तु ज्ञाननिवर्त्यत्वादीनां त्रयाणामाक्षेपकाणामसम्भवः स्यात् । सत्यस्य ज्ञानादनिवृत्तेः, असत्यस्य अधिष्ठानत्वायोगाद्, भेदे सार्वात्म्यायोगाच्च । एतेन औतश्रुतेर्निर्गुण-श्रुत्यन्तरस्य वा तात्पर्यपरिज्ञानप्राप्तनिर्गुणत्वमेव सगुणवाक्येन निषेद्धुं निर्गुणवाक्येनानूद्यत इति निरस्तम् । तात्पर्यपरिज्ञानप्राप्तत्वे निषेधार्थमनुवादायोगात् ।
ननु ‘साक्षी चेता केवलो निर्गुणश्च’ इत्यादिना द्रष्टृत्वादिगुणविधानान्न तेन तन्निषेधः । तदर्थं च सगुणवाक्यं नानुवादकम् । अन्यथा सार्वज्ञ्यादेर्व्यावहारिकत्वमपि न स्यात् । न हि निषिद्धे ब्रह्महननादाववान्तरतात्पर्यम् । न च औपनिषदस्य ब्रह्मणः सार्वज्ञ्यादिकमनुमानादिसिद्धमिति चेन्न । अविद्यासिद्धसाक्षित्वाद्यनुवादेन तटस्थलक्षणद्वारा ब्रह्मपरतया गुणपरत्वाभावाद् गुणनिषेधकतोपपत्तेः । न च निषिद्धे ब्रह्महननादाववान्तरतात्पर्याभाववदत्रापि तदभावे सार्वज्ञ्यं व्यावहारिकमपि न स्यादिति वाच्यम् । देवताविग्रहादौ विधिस्तुतिद्वारतयोपात्ते प्रमाणान्तरप्राप्तिविरोधयोरभावात् । तदत्यागमात्रेण तित्सिद्धिवदत्रापि निषेधौपयिकतयोपात्तस्य सार्वज्ञ्यादेर्मानान्तरादप्राप्तस्य व्यावहारिकप्रमाणानिषिद्धतया व्यावहारदशायामत्यागमात्रेण व्यावहारिकत्वोपपत्तेः । ब्रह्महननादिकं तु मानान्तरप्राप्तमिति विशेषः । न च तद्बोधकत्वं तत्तात्पर्यनियतम् । विशिष्टविधेर्विशेषणबोधकत्वेऽपि विशेषणे अतात्पर्याद्, विशिष्टस्यातिरेकाद्, अन्यशेषतयोपात्तेऽपि सार्वज्ञ्यादौ तात्पर्ये वाक्यभेदापत्तेः । न च तर्हि–
‘‘उपासनायाः कार्यत्वे विष्णोरात्मत्व एव च । उभयत्रापि तात्पर्यमात्मोपासादिके विधौ’’ ॥ इति स्मृतिविरोध इति वाच्यम् । देवताधिकरणन्यायेनोभयसिद्धिपरत्वादुभयत्र तात्पर्यम् । स्मृतेर-प्रमाणत्वात्, ‘यः सर्वज्ञः’ इत्यादावुपासनाप्रकरणस्थत्वाभावेऽपि तटस्थलक्षणद्वारा ब्रह्मप्रतिपादने तात्पर्येण विशेषणे अतात्पर्यात् । अन्यथा एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधापत्तेः ।
न्यायामृततरङ्गिणी
तद्विरोधेऽपीति । सत्यपि न तस्यापवादत्वमित्यर्थः ॥ दाशमिक इति ॥ दशमाध्यायप्रतिपाद्ये निर्गुणवाक्यविरोधे चोदकेऽतिदेशवाक्यम् । आदिशब्देन पदार्थ उपकारश्च ॥ इत्यादिरूप इति ॥ आदिशब्देन शास्त्रोपकारौ । दशमस्य प्रथमे चिन्तितम् । ‘विधेः प्रकरणान्तरेऽतिदेशात्सर्वं कर्म स्यात्’ । ‘प्राजापत्यं चरुं निर्वपेच्छतकृष्णलमायुष्कामः’ इति । तत्र कृष्णलस्वर्णमाषेऽवघातोऽस्ति वा न वेति संशये पूर्वपक्षः । प्रकृतिवत्कुर्यादित्यतिदेशे यद्यत्प्रकृतौ विद्यते तत्तत्सर्वम् अविशेषादतिदिश्यते । प्रकृतौ च शास्त्रपदार्थोपकारा विद्यन्ते । अतस्ते सर्वेऽतिदिश्यन्ते । ननु प्रकृताववघातजन्य उपकारः कृष्णलेषु न सम्भवति । स कथं तत्रातिदिश्यते । तदनतिदेशे च कथं तदर्थतयाऽवघातः क्रियेत । उच्यते । उपकारेष्वति-दिश्यमानेषु ये यत्र न सम्भवन्ति ते तत्र नातिदिश्यन्ते । पदार्थास्तु तत्रातिदिष्टाः प्राकृतोप-कारासम्भवेऽप्युप कारान्तरमदृष्टं कुर्युः । वचनप्रामाण्यात् । तस्माल्लुप्तार्थमपि प्रवर्तत इति ।
सिद्धान्तस्तु । लुप्तार्थं न प्रवर्तते । कथंभावोऽयं लौकिको वैदिकश्चोपकारसम्पादनात्मकं यागगतव्यापारमपेक्षते न पदार्थान्, शास्त्रं वा । ‘यागेन स्वर्गं कुर्यात्’ इत्युक्ते कथं तेन स्वर्गः कर्तव्य इति यागगतव्यापारविशेषापेक्षा जायते । यथा ‘परशुना च्छिन्द्यात्’ इत्युक्ते परशुगतोद्यमननिपातनादिरूपव्यापारस्य । यत्र साधनगतो व्यापारो न ज्ञातस्तत्र साधनमात्र-मुपदिश्यते । यत्र ज्ञातस्तत्र सोऽप्युपदिश्यते यथा परशुना च्छिन्धीत्युक्ते कथमनेन च्छेत्तव्यमित्याकाङ्क्षमाणं प्रति परशुं दण्डे द्वाभ्यां हस्ताभ्यां गृहीत्वा काष्ठस्यार्धस्योपर्यधो-मुखमुद्यम्य निपातयेत्युच्यते । तदिह यागेन कथं स्वर्गः कार्य इत्यपेक्षायां ‘समिधो यजति’ ‘व्रीहीनवहन्ति’ इत्यादीनि श्रूयमाणानि प्रधानयागगतव्यापारविशेषपरत्वेनावधार्यन्ते । तत्र यान्यवघातादीनि तानि दृष्टेनैव तण्डुलतुषविमोकादियागनिर्वृत्युपयोगद्वारेण यागगत-व्यापारतामनुभवन्ति । समिधादीनां तु दृष्टद्वाराभावान्निर्द्वाराणां च क्षणिकत्वात्प्रधानयाग-सम्बन्धित्वायोगाद्यागगतव्यापारत्वानुपपत्तेरदृष्टद्वारकल्पनम् । तदेवं प्रकृतौ पदार्था न स्वरूपपरा किन्तु स्वजन्ययागसम्बन्ध्युपकारलक्षणार्थाः । तदिह प्राजापत्यकथंभावोऽपि सादृश्योपस्थापिताग्नेययागगतदृष्टादृष्ट रूपानुपकारान् लब्ध्वा निर्वर्त्स्यतीति प्रकृतिवच्छब्दोऽपि तानेवातिदिशति । उपकारहेतुतया पदार्थांस्तद्बोधकतया च शास्त्राणि । तथा च कृष्णले वैतुष्यबाधेऽवघातासम्भवात्तद्वर्जं पदार्थान्प्राजापत्यगतः प्रकृतिवच्छब्दः प्रापयतीति तस्य सङ्कोच एव ।
तार्तीय इति । तृतीयाध्यायप्रतिपाद्ये ॥ अप्राप्तेति ॥ बाध्यत्वेनाभिमतस्यानुत्थानम् अप्राप्तबाधः । तदुक्तं न्यायरत्नमालायाम्–
कप्तस्य शास्त्रस्य च कल्पनं यन्निरुध्यते मूलनिकृन्तनेन ।
कप्तेन शीघ्रेण फलापहारादप्राप्तबाधं तमुदाहरन्ती’ति ॥
॥ गार्हपत्यमितीति ॥ ‘कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुषे’ इत्यस्या ऋचः ‘ऐन्द्र्या गार्हपत्यमुपतिष्ठते’ इति द्वितीयाश्रुत्या गार्हपत्ये विनियुक्ता गार्हपत्यप्रकाशकत्वे स्थिते मुख्येन्द्रत्वस्य गार्हपत्येऽभावात्तत्र गौणेन्द्रशब्दः कल्प्यत इत्यर्थः । श्रुतिलिङ्गाधि-करणन्यायस्तु पूर्वमुक्तः ॥ परेणेति ॥ यद्यप्यतुल्यबलयोरकेत्र प्रसङ्गे परेण न पूर्वबाधः यथा सुग्लः सुम्ल इत्यत्र श्याद्व्यधेत्याकारान्तलक्षणं णप्रत्ययमनुपसर्गसावकाशत्वाद्दुर्बलं परमपि बाधित्वा ‘आतश्चोपसर्गे कः’ इति पूर्वः कप्रत्यय एव भवति । तथापि तुल्यबलयोर्विरुद्धयो-रेकत्र प्रसङ्गे परेण पूर्वस्य बाधः यथा वृक्षाभ्यामित्यत्र ‘सुपि च’ इति दीर्घत्वं सावकाशं वृक्षेष्वित्यत्र ‘बहुवचने झल्येत्’ इत्येत्वं सावकाशं वृक्षेभ्य इत्यत्रोभयोः प्रसङ्गे परेणैत्वेन दीर्घत्वस्य बाधः । ननु विरोधिनोस्तुल्यबलयोरेकत्र प्रसङ्गे सत्प्रतिपक्षवदुभया-भाव एव स्यान्न त्वेकतरकार्यं यथा द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति स तयोः पर्यायेण कार्यं करोति । नानादिग्गतकार्ये च तमुभौ प्रेषयतो यदा यद्यसावविरोधार्थी भवत्युभयोरपि न करोतीति । सत्यं ‘विप्रतिषेधे परं कार्यम्’ इति विधानादेकस्य प्राप्तिरूपे बाधे परं भवति । उक्ता च विध्यर्थता महाभाष्ये विप्रतिषेधे परं कार्यमित्यस्य ॥ नित्येनेति ॥ रन्धयतीत्यत्र ‘रधिजभोरचि’ इति नुं कृताकृतप्रसङ्गित्वान्नित्यः, ‘अत उपधायाः’ इति वृद्धिरनित्या, नुमि कृतेऽकारस्यानुपधत्वादप्राप्तेः । तत्र पूर्वोऽपि नुमेव भवतीति नित्येनानित्यस्य बाधः ॥ अन्तरङ्गेणेति ॥ अशिश्रियद् अदुद्रुवदित्यत्रान्तर्भूतचङपेक्षत्वादियङुवङावन्तरङ्गौ बहिर्भूततिबपेक्षत्वाद्बहिरङ्गं लघूपधलक्षणं गुणं बाधेते ॥ प्रतिपदोक्तेनेति ॥ तक्ष्णुवन्तीत्यत्र इग्लक्षणमुकारस्य प्राप्तं यणमुकाराश्रित उवङ् बाधते । यथोक्तं पदमञ्जर्यां विप्रतिषेधसूत्रे–
‘परं विदुः पूर्वपरोपपत्तौ परस्य नित्यस्य च नित्यमेव ।
नित्यान्तरङ्गोपगमेऽन्तरङ्गं तस्माद्विधिः प्रातिपदो बलीयान्’ इति ॥
॥ सङ्कोच एवेति ॥ ननु व्यक्तेः पदार्थत्वपक्षे तत्तद्व्यक्त्युद्देशेन प्रवृत्तयोः शास्त्रयोरन्यत्र चरितार्थत्वाभावादेकस्मिन् विषये प्रसङ्गे विप्रतिषेधे परमेव कार्यं भवति न पूर्वमिति नियमाश्रयणात्पूर्वस्य यथा बाध एव न सङ्कोचः, यथा जुहुतादित्यत्र परत्वात्तातङि कृते स्थानिवद्भावेन प्राप्तं धित्वं न भवति । अत एवाहुः ‘सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधित-मेव’ इति । मैवम् । अस्मिन्पक्षे पूर्वसूत्रानारम्भस्यैवानुमानात् । विस्तृतं चैतन्महाभाष्यादौ । अयं च वैयाकरणानाम् अप्राप्तबाध इत्युच्यते ॥ विकारशब्दादिति ॥ पुच्छब्रह्मवादिनामेवं सूत्रार्थः । ब्रह्म पुच्छं प्रतिष्ठेति वाक्योक्तं मुख्यं ब्रह्म न भवति । विकारशब्दात् । अवयव-शब्दाद् ब्रह्म पुच्छमित्यवयवत्वमुच्यत इति प्राप्ते उच्यते । नायं पुच्छशब्दोऽवयववाची किन्तु प्राचुर्यवाची प्राचुर्यं प्रायापत्तिः । अन्नमयादीनां शिरः प्रभृतिपुच्छान्तेष्ववयवेषूक्तेष्वानन्दमय-स्यापि शिरः प्रभृतीनुक्त्वावयवस्यैव बुद्धौ सन्निधानात्तेनापि चाधिकरणलक्षणासम्भवाद् ब्रह्म पुच्छं प्रतिष्ठेत्याह श्रुतिरित्याद्यर्थान्तरवर्णनं भवदीयभाष्यकारादिभिरपि कृतम् । नत्वारोपितार्थ-परत्वमेकस्येत्युक्तम् ॥ उपदेशेति ॥ ‘त्रिपादस्यामृतं दिवि’ इति सप्तम्या द्यौराधारत्वेनोप-दिष्टा । इह पुनः ‘अथ यदतः परो दिवः’ इति पञ्चम्या मर्यादात्वेनेत्युपदेशभेदान्नैकं वस्त्वत्रोच्यत इति प्राप्ते उभयत्रापि न विरोधः । यथा लोके वृक्षाग्रे सम्बद्धोऽपि श्येनो वृक्षाग्र-सम्बन्ध्यवयवविवक्षया ‘वृक्षाग्रे श्येनः’ इत्युच्यते । वृक्षाग्रसम्बन्ध्यवयवेभ्यः परैरवयवैर-वच्छिन्नस्य तस्यैव वृक्षाग्रात्परतोऽवस्थानाद् ‘वृक्षाग्रात्परतः श्येनः’ इत्युच्यते । तथा ‘अमृतं
दिवि, दिवः परः’ इत्युभयस्मिन्नप्युपदेशे विरोधो नास्तीत्युक्तम् । न त्वेकस्यारोपितार्थत्वमुक्तम् ।
॥ गौण्यसम्भवादिति ॥ आकाशस्योत्पत्तिश्रुतिर्नास्तीति पूर्वपक्षिणोक्ते ‘आत्मन आकाशः सम्भूतः’ इति श्रुतिरस्तीति सिद्धान्तिनोक्ते सम्भूतश्रुतिर्गौणी आकाशस्योत्पत्ति-कारणासम्भवादिति भवदीयपूर्वपक्षिणा श्रुतेर्गौणार्थत्वं नोच्येत । उत्पत्तिश्रुतेरारोपितार्थत्वेनापि पूर्वपक्ष्युत्थानसम्भवात् ॥ अन्यथेति ॥ श्रुत्युक्तस्यारोपितार्थत्वे ‘सदेव सोम्येदमग्र आसीत्’ इत्यत्र सच्छब्देन साङ्ख्याभिमतं प्रधानं वोच्यते ब्रह्म वेति संशये सच्छब्दनिर्दिष्टस्य ‘तदैक्षत’ इतीक्षितृत्वश्रवणाज्जडस्य च तदसम्भवान्न प्रधानं सच्छब्दमिति सिद्धान्तः कृतः । स न भवति । ईक्षणश्रुतिः प्रधान आरोपितं यदीक्षणं तत्परत्वेनाप्युपपद्यत इति पूर्वपक्षिणा सुवचत्वात् । सार्वज्ञादिश्रुतिर्यथारोपितसार्वज्ञपरा तद्वत् ॥ दशम इति ॥ चातुर्मास्येषु साकमेधाख्ये पर्वण्यस्ति महापितृयज्ञः । तत्र श्रूयते । ‘नार्षेयं वृणीते’ इति । तत्रायं नञ् प्रतिषेधोऽथवा पर्युदासो वेति संशये प्रतिषेध इति पूर्वः पक्षः । तथा हि । अयं नञ् श्रुत्या कर्तव्यतां प्रतिषेधति । ये तु धातुनामनी वृणातिरार्षेयशब्दश्च ते अपि कर्तव्यतां विशेषयतः । एवं कर्तव्यतया विध्यर्थेन सम्बध्यमानानि सर्वाणि पदानि स्वार्थपराणि भवन्ति प्रतिषेधपक्षे । पर्युदासे तु लक्षणेति । सिद्धान्तस्तु । एकवाक्यत्वलाभात्पर्युदास एव । प्रकृतिवत्कुर्याद् आर्षेयवरणं न कुर्यादिति हि वाक्यभेदः प्रतिषेधे । आर्षेयवरणवर्जं प्रकृतिवत्कुर्या-दित्येकवाक्यता पर्युदासे । नन्वेवं लक्षणा स्यात् । सत्यम् । प्रतिषेधे विकल्पः स्यात्ततो हि लक्षणा ज्यायसी । तथाहि । प्रतिषेधो नाम निवृत्तिः । सा च प्रवृत्तिपूर्विका । साप्य-रागतः प्राप्ते शास्त्रेणैव वाच्येति शास्त्रत्वादुभयोर्विकल्पः ।
ननु कल्पितत्वसामान्यविषयत्वाभ्यां दुर्बलश्चोदकः श्रुतत्वविशेषविषयत्वाभ्यां प्रबलः प्रतिषेध इति कथं विकल्पः । मैवम् । चोदकोऽप्यवश्यं होतृवरणेऽपि लब्धात्मेत्यङ्गीकार्यम् । अन्यथा प्रतिषेधासम्भवात् । लब्धात्मा चेच्छास्त्रत्वाविशेषान्न बाधमर्हति । नन्वेवं ‘शरमयं बर्हिः’ इत्यत्रापि चोदकस्य लब्धात्मकत्वाद्बाधो न स्यात् । सत्यमसौ लब्धात्मकः । न तु कुशांशे । तस्मिन्नंशेऽसौ बलवद्विरोधान्न प्रवर्तते । बर्हिशब्दस्य बर्हिःकार्यपरतया यावदेव बर्हिःकार्यप्राप्तं तावदेव तत्साधनतया शरा विहिताः कुशप्राप्तिं निरुन्धन्ति । इह तु वरणस्यैव प्राप्तिरङ्गीकार्या । अन्यथा प्रतिषेधायोगात् । तस्मान्नित्यवत् श्रुतयोर्विधिप्रतिषेधयोः पक्षेऽ-प्यत्यन्ताविद्यमानमिथ्यात्वकल्पनादत्यन्तायुक्तौ विकल्प इति वरं लक्षणयापि पर्युदासाश्रयणम् ॥ यत्र प्रकृतीति ॥ दर्शपूर्णमासयोराज्यभागौ प्रकृत्य श्रूयते ‘न तौ पशौ करोति’ नसोमेऽध्वर इति । तथा हि । पर्युदासो भवन्नयमाज्यभागसम्बन्धेन वा स्यात्पशुसम्बन्धेन वा । आद्येऽपि पाशुकप्रकृतिवच्छब्दशेषो वा दर्शपूर्णमासविधिशेषो वा । नाद्यः । यदि हि पशुप्रकरणे इदं श्रूयेत तदैवं वचनव्यक्तिः स्यात् । आज्यभागवर्जं दर्शपूर्णमासवत्कुर्यात् । इदं तु दर्शपूर्णमासप्रकरणे श्रूयते । तत्र कः प्रसङ्गः पाशुकप्रकृतिवच्छब्दस्य । द्वितीये त्वाज्यभागवर्जं दर्शपूर्णमासौ कुर्यादिति वचनव्यक्तिः स्यात् । तथा चाज्यभागविधानमनर्थकं स्यात् । पशाविति चानर्थकं स्यात् । द्वितीये यद्दर्शपूर्णमासयोराज्यभागौ कुर्यात्तदपशौ पशु-वर्जितयोरिति वचनव्यक्तिः स्यात् । तथा च ‘अपशौ’ इति व्यर्थम् । अपशुत्वाद्दर्शपूर्ण-मासयोः । तस्मादाज्यभागयोश्चोदकप्राप्तयोः प्रतिषेध इति तयोः पशौ विकल्पः ॥
शास्त्रप्रकृतस्य चेति ॥ प्रतिषेधापेक्षितप्रसक्तिजनकशास्त्रेण प्रसक्तस्येत्यर्थः ॥ उक्तमिति ॥ दशमाध्यायस्याष्टमपादे । उपलक्षणमेतत् । कल्पितत्वसावकाशत्वाभ्यां दुर्बलस्यापि महापितृ-यज्ञीयचोदकस्य प्रत्यक्षश्रुतत्वनिरवकाशत्वाभ्यां प्रबलेनापि ‘नार्षेयं वृणीते’ इत्यनेन प्रतिषेधपक्षे न सर्वथा बाधो ऽपि तु विकल्प इत्युक्तम् । प्रतिषेधः प्रदेशेऽनारभ्यविधाने च प्राप्त प्रति-षिद्धत्वाद्विकल्पः स्यादित्यत्र पूर्वपक्षसूत्रे ‘प्रदेशे प्रकृतिवत्कुर्यात्’ इति चोदकेन प्रदिष्टे अनारभ्य विधानेनानूयाजेषु येयजामहं करोतीत्यादिषु नञ् प्रतिषेधार्थः । तथा च विहितप्रतिषिद्धत्वा-द्विकल्पः स्यादिति सूत्रार्थः । तन्त्ररत्नेऽपि–‘ न चेदं प्रतिषेधपक्षे विकल्पाभिधानं पूर्वपक्षोक्ति-मात्रम् । अपि तु पारमार्थिकमेव’ इति । यस्तु ‘न तौ पशौ’ इत्यस्य पशुप्रकरणस्थस्य पाशुकप्रकृतिवच्छब्दैकवाक्यतया पर्युदासार्थत्वं, दर्शपूर्णमासप्रकरणस्थस्य तु पशावाज्यभागौ न स्तः । अत्र तौ स्त इति स्तुत्यर्थत्वमित्याह । स त्वात्मनो गौडमीमांसकतामाविश्चकार । न हि भाष्य-टुप्टीका-तन्त्ररत्न-शास्त्रदीपिका-धिकरणमाला-दिषु ‘न तौ पशौ स्तः’ इत्यस्य वाक्यस्य पशुप्रकरणस्थतोक्ता । नाप्यर्थवादत्वम् । अपि तु प्रतिषेधार्थत्वमेव । तथा च पशावाज्यभागयोर्विकल्पः’ इत्येवोक्तम् । न सोमेऽध्वर इत्यस्य त्वर्थवादार्थत्वमुक्तम् ॥
सगुणवाक्यमेवेति ॥ ननु सगुणवाक्ये निषेधाश्रवणात्तस्य न निर्गुणवाक्यबाधकत्वम् अत उक्तम् मृडमृदेत्यादि । न च तत्र मृडाद्यनुत्तरसेट्कक्त्वाप्रत्ययकित्त्वनिषेधपरत्वेनैक-वाक्यतया वाक्यभेदेन कित्त्वनिषेधायोग इति वाच्यम् । निर्गुणवाक्यस्यापि सगुणवाक्य-विहितेतरगुणनिषेधपरत्वसम्भवात् । न च नेति नेतीति वीप्सया सर्वनिषेधे विशेषपरिशेषाभाव इति वाच्यम् । उपदेशत्वेन वीप्सोपपत्तौ तस्याः सगुणवाक्यविरोधेन सर्वनिषेधकत्वासम्भवात् । अत एवाह भगवान् सूत्रकारः ‘आवृत्तिरसकृदुपदेशात्’ इति ॥ विश्वं सत्यमित्यनेनेति ॥ न चात्र निषेधवाचकपदाभावः । ‘शरमयं बर्हिर्भवति’ इत्यादाविव निषेधपदाभावेऽपि निषेध-सिद्धेः ॥ असद्वेति ॥ नन्वत्र नञ्सत्त्वेऽपि तस्य नामपदसमभिव्याहृतत्वेन निषेधकत्वायोगः । मैवम् । ‘घटो न पटः’ इत्यादाविव नामपदसमभिव्याहारेऽपि तादात्म्यनिषेधवदत्रापि सदात्मता निषेधोपपत्तेः । ‘असूर्यं पश्याः’ इत्यादौ निषेधार्थत्वाच्च ॥ अन्यथेति ॥ सगुणवाक्यस्य गुणनिषेधाय गुणानुवादकत्वे । ननु निषेधायानूदितस्यापि सार्वज्ञादेरवान्तर-तात्पर्यवशात्सिद्धिः स्यादत आह– न हीति ॥
ननु तात्पर्याभावेऽपि मानान्तरप्राप्तिविरोधयोस्त्यागहेत्वोरभावेन देवताविग्रहादेरिव तदत्यागमात्रेण सार्वज्ञादिसिद्धिः । मैवम् । त्वद्रीत्या निर्गुणश्रुतिविरोधेन मानान्तरा-विरोधाभावात् । त्वन्मतेऽप्युपक्रमादेः प्रत्येकं तत्वार्थलिङ्गत्वेन मानान्तराप्राप्तिरूपापूर्वत्वस्य तात्पर्यलिङ्गस्य सत्त्वेन तात्पर्याभावस्य वक्तुमशक्यत्वाच्च । तात्पर्याभावेऽनिषेध्यत्वेन तत्प्रतीतेरयोगाच्च । न ह्यत्र ब्राह्मणहननादिवन्निषेध्यत्वेन प्रतीतिः । एतेन विशिष्टविधेर्विशेषणे तात्पर्येऽपि विशेषणस्येव सगुणवाक्याद्गुणस्य सिद्धिरिति निरस्तम् । तस्य विशेषणांशे पृथग्विधित्वाभावेऽपि विशेषणतात्पर्यकत्वात् । अत एव वार्तिके पूर्णमास्यधिकरणे ।
प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः ।
अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥
इत्यादिना ‘अनेकविध्यन्तरप्रसवसमर्थैकविशिष्टविधिप्रसादेनानेकगुणविधानम्’ इत्यन्तेन विशिष्टविधेर्विशेषणे तात्पर्यमुक्तम् ।
न्यायामृतकण्टकोद्धारः
अतात्त्विकविषयत्वेन विरोधपरिहारः क्वापि न दृष्ट इत्याह– किञ्चेति ॥ तथाऽङ्गीकारे तव सम्मतपूर्वतन्त्रव्याकरणविरोध इत्याशयेनाह– उक्तं हीति ॥ सामान्येनोक्तं विशदमाह– तथा हीति ॥ कृष्णलादाविति ॥ दशमाध्याये प्रथमपादे प्रथमाधिकरणे चिन्तितम् । ‘विधेः प्रकरणान्तरेऽतिदेशात् सर्वकर्म स्यात्’ । ‘प्राजापत्यं घृते चरुं निर्वपेच्छतकृष्णलमायुष्कामः’ इति श्रूयते । तत्र सन्देहः– अवघातः कर्तव्यो न वेति । पूर्वपक्षस्तु कर्तव्योऽवघातः । प्रकृतिवत् कुर्यादिति चोदकेन चरुधर्माणां प्राप्तत्वात् । किञ्च चरुशब्दोऽचरौ चरुधर्मविधानार्थः । न च द्वारबाधात्कथमवघात इति वाच्यम् । वचनात् श्रपणवद् वचनाल्लुप्तार्थस्यापि कर्तव्यत्वादिति । सिद्धान्तस्तु– नावघातो, द्वारबाधात् । न च चोदकेन तत्प्राप्तिः । तस्य अवघातवर्जं प्रकृतिवत् कुर्यादिति सङ्कोच सम्भवात् । न च चरुशब्दात् तत्प्राप्तिः । विनाप्यवघातेनालुप्तार्थैरेव धर्मैर् वैशद्येन चोपपद्यमानश्चरुशब्दो नावघातं कल्पयितुमलम् । श्रपणं तु घृतं श्रपयतीत्याहत्य विधानात् क्रियत इति वैषम्यम् । तथा च न तत्रापि सर्वथा बाधः । किन्तु सङ्कोच एवेति भावः ।
एवमिति ॥ इदमधिकरणं प्रत्यक्षबाधस्थले विवृतम् । तथा च गौणोऽपि तात्विक एवार्थो न त्वारोपितः । तथा च नाप्रामाण्यमिति भावः ॥ एवं व्याकरणेऽपीति ॥ तथा च पूर्वादेः परादिना सङ्कुचिततात्विकार्थविषयत्वरूपो बाधो न त्वरोपितार्थविषयत्वादिरूप इत्यर्थः । अत्र यद्यपि सुग्लः सुम्न इत्यत्र ‘श्याद्व्यधा’ इति आकारान्तलक्षणो णप्रत्यय उत्सर्गः । तं परमपि अनुपसर्गे सावकाशं बाधित्वा अनवकाशत्वाद् ‘आतश्चोपसर्गे’ इति क एव भवति । तथापि वृक्षाभ्यां वृक्षे पित्वादौ चारितार्थयोर्दीर्घत्वेत्वयोस् तुल्यबलयोः पूर्वपरयोर् वृक्षेभ्य इत्यत्र उभयप्रसङ्गे परमेत्वमेव भवति । रधेर्णिच् रधिजभोरचीति नुं कृताकृतप्रसङ्गित्वान्नित्यः । ‘अत उपधायाः’ इति वृद्धिरनित्या । नुमि कृतेऽकारस्यानुपधात्वादप्राप्तेः । अत्र नित्यत्वान्नुमेव भवति । अशिश्रियद् अदुद्रवद् इत्यत्र अन्तर्भूतचङपेक्षत्वाद् इयच्चङौ अन्तरङ्गौ बहिर्भूततिङपेक्षत्वाद् बहिरङ्गं लघूपधगुणं परमपि बाधेते । अपवादादीनां परस्परसम्प्रधारणायां नित्यादन्तरङ्गः । तस्मादप्यपवादः । अत एवोक्तं– ‘परं विदुः पूर्वपरोपपत्तौ परस्य नित्यस्य च नित्यमेव । नित्यान्तरङ्गोपगमेऽन्तरङ्ग-मिग्लक्षणं गुणं प्रतिपद उवङ् बाधत इति क्रमेण उदाहरणानि ज्ञातव्यानीत्यर्थः ।
ननु शास्त्रान्तरे यथा तथाऽस्तु । ब्रह्ममीमांसायान्तु अतात्विकविषयत्वादिरूप एव बाध उच्यत इत्यत आह– एवमिति ॥ अन्यथेति ॥ यदि ब्रह्मणि श्रूयमाणा धर्मा आरोपिता एव तदेत्यर्थः । कैमुत्यन्यायेनापि अतात्विकविषयत्वरूपो बाधो वक्तुं न शक्यत इत्याह– किञ्चेति ॥ न तौ पशाविति ॥ दशमाध्यायेऽष्टमपादे चिन्तितम् । ‘अपूर्वे चार्थवादः स्यात्’ । दर्शपूर्णमासयोर् आज्यभागौ अग्नीषोमाभ्यां नयतीति विधाय श्रूयते । ‘न तौ पशौ करोति न सोमे नाध्वरे’ इति । तत्र सन्देहः– किमयं प्रतिषेधः पर्युदासो ऽर्थवादो वा इति । पूर्वपक्षस्तु– असमस्तत्वा-त्प्रतिषेधः । न च तथात्वे विकल्पः स्यादिति वाच्यम् । प्रतिषेधासम्भवेऽपि पर्युदासत्वसम्भवात् । न चासमस्तत्वं बाधकं, नानुयाजेषु इत्यादौ पर्युदासस्य समर्थितत्वात् ।
ननु सोमस्योपदेशातिदेशाभ्याम् आज्यभागप्राप्त्यभावादुभयमयुक्तमिति चेत् सत्यं, साक्षात् सोमे नाज्यभागौ स्तः । दीक्षणीयादिद्वारेण तु आज्यभागाभ्यां सोमस्यास्ति सम्बन्धः । सः प्रतिषिध्यते । तदनेन प्रकारेण सोमाङ्गेषु दीक्षणीयादिष्वाज्यभागप्रतिषेधः पर्युदासो वेति । सिद्धान्तस्तु– न सोम इति न प्रतिषेधः । न च पर्युदासः । सोमे उपदेशातिदेशाभ्यामाज्यभाग-योरप्राप्तेः । सोमे आज्यभागयोरनाम्नानेनोपदेशासम्भवात् । सोमस्य दर्शपूर्णमासविकृतित्वा भावेनातिदेशासम्भवाच्च । न च दीक्षणीयादिषु तयोरतिदेशतः प्रसक्त्या सोमद्वारा तेषु प्रतिषेधादिः शक्य इति वाच्यम् । तथा सति न सोम इत्यनेनैवाग्नीषोमीयेऽपि पशौ प्रतिषेध(ः)सिद्धस्तत एव तद्विकारेषु निरूढपशुष्वपि प्राप्त्यभावात् ‘न पशौ’ इति निषेधोऽनर्थकः स्यात् । सोमशब्दस्यैवं लक्षणा स्यात् । न च वाजपेयस्येव यूपेनाङ्गद्वारकः सोमाज्यभागसम्बन्धो निर्दिश्यत इति वाच्यम् । षष्ठी हि सम्बन्धमात्रमभिधत्ते । सप्तमी तु आधाराधेयभावमेव । न चाङ्गाङ्गित्वेनाधाराधेयभावः सम्भवति । तस्मादङ्गाङ्गिभावनिर्देशोऽयम् । स चाप्राप्त इति तत्प्रतिषेधपर्युदासावयुक्तौ । तस्मात् ‘न पशौ’ इत्यमर्थवादः । यथा सोमस्य नाज्यभागौ एवं पशाविति ।
अथ न पशाविति किमयं प्रतिषेधः पर्युदासो वा । विकल्पपरिहाराय पर्युदास इति केचित् । तदयुक्तम् । अनन्तरवृत्तस्याज्यभागाङ्गविधेः केवलदर्शपूर्णमासविषयत्वेन पशुसाधारण्याभावात् । न च पाशुकस्य प्रकृतिवच्छब्दस्यायं वाक्यशेषः । तस्यासन्निधानात् । तच्छेषत्वेन सोम इत्यर्थवादः नावकल्प्यते । न ह्येवं सम्भवति । यथा सोमस्याज्यभाग व्यतिरिक्तमङ्गमैष्टिकं कर्तव्यं तथा पशोरपीति । सोमस्यापूर्वत्वादैष्टिकाङ्गाभावात् । सम्भवत्येवं, यथा सोमस्याज्यभागौ न कर्तव्यौ तथा पशोरपीति । तस्मात्प्रतिषेधः । प्रतिषेधश्च न प्राप्तिमन्तरेति प्राप्तिरनुमीयते । तथा चोन्नीतप्राप्तेर्न सर्वथा बाधो युज्यत इति विकल्पः समाश्रीयते । एवञ्चोन्नीतप्राप्तेर् यदा न सर्वथा बाधस् तदा किमु वक्तव्यं प्रत्यक्षसिद्ध गुणानामिति ।
ननु सगुणवाक्येन गुणा अनूद्यन्ते । अतस्तस्य तत्प्रापकत्वाभावान्न तस्य बाध इति शङ्कते– नन्विति ॥ एकवाक्यत्वासम्भव एव वाक्यभेदस्याश्रयणीयत्वादिति भावः । अनुवादो हि वादपूर्वकः । न हि सत्यकामत्वादिगुणा अन्यप्रमाणेन प्राप्ताः । तथा चानुवादासम्भवात् सगुणवाक्यस्य तत्प्रापकत्वादतात्विकविषयत्वे बाध एवेत्याह– सत्यकामत्वादीनामिति ॥ ननु श्रुतिप्राप्तमेव श्रुत्या निषिध्यते चेत् को दोष इत्यतोऽतिप्रसङ्ग एवेत्याह– श्रुतिप्राप्तस्येति ॥ किञ्च निर्गुणवाक्यस्य सगुणवाक्यमेव बाधकं किं न स्यात् । न च विधेर्निषेधबाधकत्वं न दृष्टमिति वाच्यम् । मृडमृदेति विधेः ‘न क्त्वा सेट्’ इति निषेधबाधकत्वस्य दृष्टत्वादित्याह– किञ्चेति ॥ ननु उक्तातिप्रसङ्गस् तदा स्याद्यदि श्रुतिप्राप्तस्य श्रुत्या निषेध इति ब्रूमः । किन्तु तदाक्षिप्तस्येत्याशङ्क्य निषेधति– न चेति ॥ अन्यथेति ॥ यदि श्रुत्याक्षिप्तस्य श्रुत्या निषेध इत्यर्थः । तथा चातिप्रसङ्ग एवेति भावः ।
किञ्चेति ॥ न च ज्ञानाद्यभावे कर्तृत्वानुपपत्तेः सर्वकर्तृत्वं न श्रुत्यर्थ इति वाच्यम् । शरीराद्यभावेऽपि ज्ञानवज् ज्ञानाद्यभावेऽपि कर्तृत्वोपपत्तेः । अभ्युपगमश्चायमित्यदोषः । ननु सगुणवाक्यं कथं निर्गुणवाक्यस्य बाधकम् । न च सामान्यतः निषेधश्रवणे विशेषविषयत्वेन सावकाशत्वमन्याय्यमिति वाच्यम् । स्ववाक्ये एव गुणानां विहितत्वेन सामान्यनिषेधायोगादित्यत आह– किञ्चेति ॥ अन्यथेति ॥ यदि सगुणवाक्यस्य सार्वज्ञ्यादौ अर्थान्तरेऽपि तात्पर्यं न स्यादित्यर्थः । ननु श्रुतितात्पर्याभावेऽप्यनुमानादिसिद्धसार्वज्ञा? घटादेरिव व्यावहारिकत्वं गुणपरत्वस्याप्यङ्गीकारे किं बाधकमिति तत्राह– उपासनाया इति ॥ किमत्र यत्रोपासना श्रूयते तत्र न गुण परत्वमित्युच्यतेऽथवा सर्वत्रोपासना श्रूयते इति क्वापि गुणपरत्वं नेति, अथवा क्वचिच्छ्रवणाद् यत्रोपासनं न श्रुतं तत्रापि कल्प्यत इति वा । नाद्य इत्याह– उपासनाया इति ॥ व्याख्यानरूपस्मृत्या विरोधादुभयत्र तात्पर्यं स्वीकर्तव्यं वाक्यभेदश्च सोढव्य इति भावः । द्वितीय आह– सर्वज्ञ इतीति ॥ तृतीय आह– कल्पनस्येवेति ॥
न्यायकल्पलता
तद्विरोधेऽपीति । निर्गुणवाक्यविरोधे सत्यपि न तस्यापवादत्वमित्यर्थः ॥ दाशमिक इति ॥ दशमाध्यायप्रतिपाद्ये निर्गुणवाक्यविरोधे । चोदकोऽतिदेशवाक्यम् । आदिशब्देन पदार्थ उपकारश्च ॥ इत्यादिरूप इति ॥ आदिशब्देन शास्त्रोपकारौ । दशमस्य प्रथमे चिन्तितम् । ‘विधेः प्रकरणा-न्तरेऽतिदेशात्सर्वं कर्म स्यात्’ । ‘प्राजापत्यं चरुं निर्वपेच्छतकृष्णलमायुष्कामः’ इति । तत्र स्वर्णमाषेऽवघातोऽस्ति वा न वेति संशये, पूर्वपक्षः– ‘प्रकृतिवत्कुर्यात्’ इत्यतिदेशे यद्यत्प्रकृतौ विद्यते तत्सर्वम् अविशेषादतिदिश्यते । प्रकृतौ च शास्त्रपदार्थोपकारा विद्यन्ते । अतस्ते सर्वेऽतिदिश्यन्ते । ननु प्राकृताववघातजन्य उपकारः कृष्णलेषु न सम्भवति । स कथं तत्रातिदिश्यते । तदनतिदेशे च कथं तदर्थतयाऽवघातः क्रियते । उच्यते । उपकारेष्वतिदिश्यमानेषु ये यत्र न सम्भवन्ति ते तत्र नातिदिश्यन्ताम्, पदार्थास्तु तत्रातिदिष्टाः, प्राकृतोपकारासम्भवेऽप्युपकारान्तरमदृष्टं कुर्युः । वचनप्रामाण्यात् । तस्माल्लुप्तार्थमपि प्रवर्तत इति ।
सिद्धान्तस्तु । लुप्तार्थं न प्रवर्तते । कथंभावोऽयं लौकिको वैदिकश्चोपकारसम्पादनात्मकं यागगतव्यापारमपेक्षते न पदार्थान्, शास्त्रं वा । ‘यागेन स्वर्गं कुर्यात्’ इत्युक्ते कथं तेन स्वर्गः कर्तव्य इति यागगतव्यापारविशेषापेक्षा जायते । यथा ‘परशुना च्छिन्द्यात्’ इत्युक्ते परशुगतोद्यमन-निपातनादिरूपव्यापारस्य । यत्र साधनगतो व्यापारो न ज्ञातस्तत्र साधनमात्रमुपदिश्यते । यत्र ज्ञातस्तत्र सोऽप्युपदिश्यते यथा ‘परशुना च्छिन्धि’ इत्युक्ते कथमनेन च्छेत्तव्य इत्याकाङ्क्षमाणं प्रति परशुदण्डं द्वाभ्यां हस्ताभ्यां गृहीत्वा काष्ठस्यार्धस्योपर्यधोमुखमुद्यम्य निपातयेत्युच्यते । तदिह कथं यागेन स्वर्गः कार्य इत्यपेक्षायां ‘समिधो यजति’ ‘व्रीहीनवहन्ति’ इत्यादीनि श्रूयमाणानि प्रधानयाग-गतव्यापारविशेषपरत्वेनावधार्यन्ते । तत्र यान्यवघातादीनि तानि दृष्टेनैव तण्डुलतुषविमोकादियाग-निवृत्त्युपयोगद्वारेण यागगतव्यापारतामनुभवन्ति । समिधादीनां तु दृष्टद्वाराभावान्निर्द्वाराणां चाशुतर-विनाशित्वात्प्रधानयागसम्बन्धित्वायोगाद्यागगत व्यापारत्वानुपपत्तेरदृष्टद्वारकल्पनम् । तदेवं प्रकृतौ पदार्था न स्वरूपपराः किन्तु स्वजन्ययागसम्बन्ध्युपकारलक्षणार्थाः । तदिह प्राजापत्यकथंभावोऽपि सादृश्योपस्थापिताग्नेययागगतदृष्टादृष्टरूपानुपकारान् लब्ध्वा निर्वर्त्स्यतीति प्रकृतिवच्छब्दोऽपि तानेवातिदिशति । उपकारहेतुतया पदार्थांस्तद्बोधकतया च शास्त्राणि । तथा च कृष्णले वैतुष्यबाधेऽव-घातासम्भवात्तद्वर्जं पदार्थान्प्राजापत्यगतः प्रकृतिवच्छब्दः प्रापयतीति तस्य सङ्कोच एव । तार्तीय इति । तृतीयाध्यायप्रतिपाद्ये ॥ अप्राप्तेति ॥ बाध्यत्वेनाभिमतस्यानुत्थानम् अप्राप्तबाधः । तदुक्तं न्यायरत्नमालायाम्–
‘कप्तस्य शास्त्रस्य च कल्पनं यन्निरुध्यते मूलनिकृन्तनेन ।
कप्तेन शीघ्रेण फलापहारादप्राप्तबाधं तमुदाहरन्ति ॥ इति ।
गार्हपत्यमितीति ॥ ‘कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुषे’ इत्यस्या ऋचः ‘ऐन्द्र्या गार्हपत्यमुपतिष्ठते’ इति द्वितीयाश्रुत्या गार्हपत्ये विनियुक्ताया गार्हपत्यप्रकाशकत्वे स्थिते मुख्येन्द्रत्वस्य गार्हपत्येऽसम्भवात्तत्र गौण इन्द्रशब्दः कल्प्यत इत्यर्थः । श्रुतिलिङ्गाधिकरणन्यायस्तु पूर्वमुदाहृतः ॥ परेणेति ॥ यद्यप्यतुल्यबलयोरकेत्र प्रसङ्गे परेण न पूर्वबाधः । यथा सुग्लः सुम्ल इत्यत्र श्याद्व्यधेत्याकारान्तलक्षणं णप्रत्ययमनुपसर्गे सावकाशत्वाद्दुर्बलं परमपि बाधित्वा ‘आतश्चोपसर्गे कः’ इति पूर्वसूत्रविहितः कप्रत्यय एव भवति । तथापि तुल्यबलयोर्विरुद्धयोरेकत्र प्रसङ्गे परेण पूर्वस्य बाधः । यथा रामाभ्याम् इत्यत्र ‘सुपि च’ इति दीर्घत्वं सावकाशं, रामेष्वित्यत्र ‘बहुवचने झल्येत्’ इत्येत्वं सावकाशं, रामेभ्य इत्यत्रोभयोः प्रसङ्गे परेणैत्वेन दीर्घत्वस्य च बाधः । ननु विरोधिनो-स्तुल्यबलयोरेकत्र प्रसङ्गे सत्प्रतिपक्षवदुभयाभाव एव स्यान्न त्वेकतरकार्यं यथा द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति स तयोः पर्यायेण कार्यं करोति । नानादिग्गतकार्ये च तमुभौ युगपत्प्रेषयतः । तदा यद्यसावविरोधार्थी भवत्युभयोरपि न करोतीति । सत्यं ‘विप्रतिषेधे परं कार्यम्’ इति विधानादेक-स्याप्राप्तिरूपे बाधे परं भवति । उक्ता च विध्यर्थता महाभाष्ये विप्रतिषेधे परं कार्यमित्यस्य ॥ नित्येनेति ॥ रन्धयतीत्यत्र ‘रधिजभोरचि’ इति नुं कृताकृतप्रसङ्गित्वान्नित्यः, ‘अत उपधायाः’ इति वृद्धिरनित्या, नुमि कृतेऽकारस्यानुपधत्वादप्राप्तेः । तत्र पूर्वोऽपि नुमेव भवतीति नित्येनानित्यस्य बाधः ॥ अन्तरङ्गेणेति ॥ अशिश्रियद् अदुद्रुवद् इत्यत्रान्तर्भूतचङपेक्षत्वादियङुवङावन्तरङ्गौ । बहिर्भूततिबपेक्षत्वाद्बहिरङ्गं लघूपधलक्षणं गुणं बाधेते ॥ प्रतिपदोक्तेनेति ॥ तक्ष्णुवन्तीत्यत्र इग्लक्षणमुकारस्य प्राप्तं यणमुकाराश्रित उवङ् बाधते । यथोक्तं पदमञ्जर्यां विप्रतिषेधसूत्रे–
‘परं विदुः पूर्वपरोपपत्तौ परस्य नित्यस्य च नित्यमेव ।
नित्यान्तरङ्गोपगमेऽन्तरङ्गं तस्माद्विधिः प्राति(पदो)बलो बलीयान्’ इति ॥
॥ सङ्कोच एवेति ॥ ननु व्यक्तेः पदार्थत्वपक्षे तत्तद्व्यक्त्युद्देशेन प्रवृत्तयोः शास्त्रयोरन्यत्र चरितार्थत्वाभावादेकस्मिन् विषये प्रसङ्गे विप्रतिषेधे परमेव कार्यं भवति न पूर्वमिति नियमाश्रयणात्पूर्वस्य सर्वथा बाध एव न सङ्कोचः, यथा जुहुतात् त्वम् इत्यत्र परत्वात्तातङि कृते स्थानिवद्भावेन प्राप्तं ‘हुझल्भ्यो हेर्धिः’ इति धित्वं न भवति । अत एवाहुः ‘सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव’ इति । मैवम् । अस्मिन्पक्षे पूर्वसूत्रानारम्भस्यैवानुमानात् । विस्तृतं चैतन्महाभाष्यादौ । अयं च वैयाकरणानाम् अप्राप्तबाध इत्युच्यते ॥ विकारशब्दादिति ॥ मायावादिनामेवं सूत्रार्थः । ब्रह्म पुच्छं प्रतिष्ठेति वाक्योक्तं मुख्यं ब्रह्म न भवति । विकारशब्दात् । अवयवशब्दाद् ब्रह्म पुच्छमित्य-वयवत्वमुच्यत इति प्राप्ते उच्यते । नायं पुच्छशब्दोऽवयववाची किन्तु प्राचुर्यवाची प्राचुर्यं प्रायापत्तिः । अन्नमयादीनां शिरः प्रभृति पुच्छान्तेष्ववयवेषूक्तेष्वानन्दमयस्यापि शिरः प्रभृतीनुक्त्वाऽवयवस्यैव बुद्धौ सन्निधानात्तेनापि चाधिकरणलक्षणासम्भवाद् ब्रह्म पुच्छं प्रतिष्ठेत्याह श्रुतिरित्याद्यर्थान्तरवर्णनं भवदीयभाष्यकारादिभिरपि कृतम् । न त्वारोपितार्थपरत्वमेकस्येत्युक्तम् ॥ उपदेशेति ॥ ‘त्रिपादस्यामृतं दिवि’ इति सप्तम्या द्यौराधारत्वेनोपदिष्टा । इह पुनः ‘अथ यदतः परो दिवः’ इति पञ्चम्या मर्यादा-त्वेनेत्युपदेशभेदान्नैकं वस्त्वत्रोच्यत इति प्राप्ते उभयत्रापि न विरोधः । यथा लोके वृक्षाग्रे सम्बद्धोऽपि श्येनो वृक्षाग्रसम्बन्ध्यवयवविवक्षया ‘वृक्षाग्रे श्येनः’ इत्युच्यते । वृक्षाग्रसम्बन्ध्यवयवेभ्यः परैरवयवैर-वच्छिन्नस्य तस्यैव वृक्षा(द् ग्रामात्)ग्रात्परतोऽवस्थानाद् ‘वृक्षाग्रात्परतः श्येनः’ इत्युच्यते । तथा
‘अमृतं दिवि, दिवः परः’ इत्युभयस्मिन्नप्युपदेशे विरोधो नास्तीत्युक्तम् । न त्वेकस्यारोपितार्थत्वमुक्तम् ।
॥ गौण्यसम्भवादिति ॥ आकाशस्योत्पत्तिश्रुतिर्नास्तीति पूर्वपक्षिणोक्ते ‘आत्मन आकाशः सम्भूतः’ इति श्रुतिरस्तीति सिद्धान्तिनाऽभिहिते सम्भूतश्रुतिर्गौणी आकाशस्योत्पत्तिकारणासम्भवादिति भवदीयपूर्वपक्षिणा श्रुतेर्गौणार्थत्वं नोच्येत । उत्पत्तिश्रुतेरारोपितार्थत्वेनापि पूर्वपक्ष्युत्थानसम्भवात् (इति)॥ अन्यथेति ॥ श्रुत्युक्तस्यारोपितार्थत्वे । ‘सदेव सोम्येदमग्र आसीत्’ इत्यत्र सच्छब्देन साङ्ख्याभिमतं प्रधानं वोच्यते ब्रह्म वेति संशये सच्छब्दनिर्दिष्टस्य ‘तदैक्षत’ इतीक्षितृत्वश्रवणाज्जडस्य च तदसम्भवान्न प्रधानं सच्छब्दमिति सिद्धान्तितम् । तन्न सम्भवति । ईक्षणश्रुतिः प्रधाने यदारोपित-मीक्षणं तत्परत्वेनाप्युपपद्यत इति पूर्वपक्षिणा सुवचत्वात् । यथा सार्वज्ञादिश्रुतिरारोपितसार्वज्ञ्यादिधर्मपरा तद्वत् ॥ दशम इति ॥ चातुर्मास्ये साकमेधाख्ये पर्वण्यस्ति महापितृयज्ञः । तत्र श्रूयते । ‘नार्षेयं वृणीते’ इति । तत्रायं नञ् प्रतिषेधोऽथवा पर्युदासो वेति संशये प्रतिषेध इति पूर्वः पक्षः । तथा हि । अयं नञ् श्रुत्या कर्तव्यतां प्रतिषेधति । ये तु धातुनामनी वृणातिरार्षेयशब्दश्च ते अपि कर्तव्यतां विशेषयतः । एवं कर्तव्यतया विध्यर्थेन सम्बध्यमानानि सर्वाणि पदानि स्वार्थपराणि भवन्ति प्रतिषेधपक्षे । पर्युदासे तु लक्षणेति । सिद्धान्तस्तु । एकवाक्यत्वलाभात्पर्युदास एव । प्रकृतिवत्कुर्याद् आर्षेयवरणं न कुर्यादिति हि वाक्यभेदः प्रतिषेधे । आर्षेयवरणवर्जं प्रकृतिवत्कुर्यादित्येकवाक्यता पर्युदासे । नन्वेवं लक्षणा स्यात् । सत्यम् । प्रतिषेधे विकल्पः स्यात्ततो हि लक्षणा ज्यायसी । तथा हि । प्रतिषेधो नाम निवृत्तिः । सा च प्रवृत्तिपूर्विका । साप्यरागतः प्राप्ते शास्त्रेणैव वाच्येति शास्त्रत्वादुभयोर्विकल्पः ।
ननु कल्पितत्वसामान्यविषयत्वाभ्यां दुर्बलश्चोदकः, श्रुतत्वविशेषविषयत्वाभ्यां प्रबलः प्रतिषेध इति कथं विकल्पः । मैवम् । चोदकोऽप्यवश्यं होतृवरणेऽपि लब्धात्मेत्यङ्गीकार्यम् । अन्यथा प्रतिषेधासम्भवात् । लब्धात्मा चेच्छास्त्रत्वाविशेषान्न बाधमर्हति । नन्वेवं ‘शरमयं बर्हिः’ इत्यत्रापि चोदकस्य लब्धात्मकत्वाद्बाधो न स्यात् । सत्यमसौ लब्धात्मकः । न तु कुशांशे । तस्मिन्नंशेऽसौ बलवद्विरोधान्न प्रवर्तते । बर्हिःशब्दस्य बर्हिःकार्यपरतया यावदेव बर्हिःकार्यं प्राप्तं तावदेव तत्साधनतया शरा विहिताः कुशप्राप्तिं निरुन्धन्ति । इह तु वरणस्यैव प्राप्तिरङ्गीकार्या । अन्यथा प्रतिषेधायोगात् । तस्मान्नित्यवत् श्रुतयोर्विधिप्रतिषेधयोः पक्षेऽप्यत्यन्ताविद्यमानमिथ्यात्वकल्पनादत्यन्तायुक्तौ विकल्प इति वरं लक्षणयापि पर्युदासाश्रयणम् ॥ यत्र प्रकृतिभूतेति ॥ दर्शपूर्णमासयोराज्यभागौ प्रकृत्य श्रूयते ‘न तौ पशौ करोति न सोमेऽध्वरे’ इति । अत्र ‘न तौ पशौ’ इत्यस्य पर्युदासात्वासम्भवात् प्रतिषेधत्वमिति सिद्धान्तः । तथा हि । पर्युदासो भवन्नयमाज्यभागसम्बन्धेन वा स्यात्पशुसम्बन्धेन वा । आद्येऽपि पाशुकप्रकृतिवच्छब्दशेषो वा दर्शपूर्णमासविधिशेषो वा । नाद्यः । यदि हि पशुप्रकरणे इदं श्रूयेत तदैवं वचनव्यक्तिः स्यात् । आज्यभागवर्जं दर्शपूर्णमासवत्कुर्यात् । इदं तु दर्शपूर्णमासप्रकरणे श्रूयते । तत्र कः प्रसङ्गः पाशुकप्रकृतिवच्छब्दस्य । द्वितीये त्वाज्यभागवर्जं दर्शपूर्णमासौ कुर्यादिति वचनव्यक्तिः स्यात् । तथा चाज्यभागविधानमनर्थकं स्यात् । पशाविति व्यर्थमापद्येत । द्वितीये यद्दर्शपूर्णमासयोराज्यभागौ कुर्यात्तदपशौ पशुवर्जितयोरिति वचनव्यक्तिः स्यात् । तथा च ‘अपशौ’ इति व्यर्थम् । अपशुत्वाद्दर्शपूर्णमासयोः । तस्मादाज्यभागयोश्चोदकप्राप्तयोः प्रतिषेध इति तयोः पशौ विकल्पः ।
शास्त्रप्रकृतस्य चेति ॥ प्रतिषेधापेक्षितप्रसक्तिजनकशास्त्रेण प्रसक्तेत्यर्थः ॥ उक्तमिति ॥ दशमाध्यायस्याष्टमपादे । उपलक्षणमेतत् । कल्पितत्वसावकाशत्वाभ्यां दुर्बलस्यापि महापितृयज्ञीय-चोदकस्य प्रत्यक्षश्रुतत्वनिरवकाशत्वाभ्यां प्रबलेनापि ‘नार्षेयं वृणीते’ इत्यनेन प्रतिषेधपक्षे न सर्वथा बाधो ऽपि तु विकल्प इत्युक्तम् । प्रतिषेधः प्रदेशेऽनारभ्यविधाने च प्राप्तप्रतिषिद्धत्वाद्विकल्पः स्यादित्यत्र पूर्वपक्षसूत्रे ‘प्रदेशे प्रकृतिवत्कुर्यात्’ इत्यादिचोदकेन प्रदिष्टे अनारभ्य विधानेनानूयाजेषु येयजामहं करोतीत्यादिषु नञ् प्रतिषेधार्थः । तथा च विहितप्रतिषिद्धत्वाद्विकल्पः स्यादिति सूत्रार्थः । तन्त्ररत्नेऽपि– ‘न चेदं प्रतिषेधपक्षे विकल्पाभिधानं पूर्वपक्षोक्तिमात्रम् अपि तु पारमार्थिकमेव’ इति । यस्तु ‘न तौ पशौ’ इत्यस्य पशुप्रकरणस्थस्य पाशुकप्रकृतिवच्छब्दैकवाक्यतया पर्युदासार्थत्वं, दर्शपूर्ण-मासप्रकरणस्थस्य तु पशावाज्यभागौ न स्तः । अत्र तौ स्त इति स्तुत्यर्थत्वमित्याह । स त्वात्मनो गौडमीमांसकतामाविश्चकार । न हि भाष्य-टुप्टीका-तन्त्ररत्न-शास्त्रदीपिकाधिकरणमालादिषु ‘न तौ पशौ स्तः’ इत्यस्य वाक्यस्य पशुप्रकरणस्थतोक्ता । नाप्यर्थवादत्वम् । अपि तु प्रतिषेधार्थत्वमेव । तथा च पशावाज्यभागयोर्विकल्पः’ इत्येवोक्तम् । न सोमेऽध्वर इत्यस्य त्वर्थवादार्थत्वमुक्तम् ।
सगुणवाक्यमेवेति ॥ ननु सगुणवाक्ये निषेधाश्रवणात्तस्य न निर्गुणवाक्यबाधकत्वम् अत उक्तम् मृडमृदेत्यादि । ननु तत्र मृडाद्यनुत्तरसेट्क्त्वाप्रत्ययकित्त्वनिषेधपरत्वेनैकवाक्यतया वाक्यभेदेन कित्त्वनिषेधायोग इति चेन्न, निर्गुणवाक्यस्यापि सगुणवाक्यविहितेतरगुणनिषेधपरत्वसम्भवात् । न च नेति नेतीति वीप्सया सर्वनिषेधे विशेषपरत्वाभाव इति युक्तम् । उपदेशत्वेन वीप्सोपपत्तौ तस्याः सगुणवाक्यविरोधेन सर्वनिषेधकत्वासम्भवात् । अत एवाह भगवान् सूत्रकारः ‘आवृत्तिरसकृदुपदेशात्’ इति ॥ विश्वं सत्यमित्यनेनेति ॥ न चात्र निषेधवाचकपदाभावः । ‘शरमयं बर्हिर्भवति’ इत्यादा-विव निषेधपदाभावेऽपि निषेधसिद्धेः ॥ असद्वेति ॥ नन्वत्र नञ्सत्त्वेऽपि तस्य नामपदसमभि-व्याहृतत्वेन निषेधकत्वायोगः । मैवम् । ‘घटो न पटः’ इत्यादाविव नामपदसमभिव्याहारेऽपि तादात्म्यनिषेधवदत्रापि सदात्मता निषेधोपपत्तेः । ‘असूर्यं पश्याः’ राजदारा’ इत्यादौ निषेधार्थत्वाच्च ॥ अन्यथेति ॥ सगुणवाक्यस्य गुणनिषेधाय अनुवादकत्वे । ननु निषेधायानूदितस्यापि सार्वज्ञादे-रवान्तरतात्पर्यवशात्सिद्धिः स्यादत आह– न हीति ॥
ननु तात्पर्याभावेऽपि मानान्तरप्राप्तिविरोधयोस्त्यागहेत्वोरभावेन देवताविग्रहादेरिव तदत्यागमात्रेण सार्वज्ञादिसिद्धिर् इति चेन् न । मैवम् । त्वद्रीत्या निर्गुणश्रुतिविरोधेन मानान्तराविरोधाभावात् । त्वन्मतेऽप्युपक्रमादेः प्रत्येकं तात्पर्यलिङ्गत्वेन मानान्तराप्राप्तिरूपापूर्वत्वस्य तात्पर्यलिङ्गस्य सत्त्वेन तात्पर्याभावस्य वक्तुमशक्यत्वाच्च । तात्पर्यासम्भवेऽनिषेध्यत्वेन तत्प्रतीतेरयोगाच्च । न ह्यत्र ब्राह्मणहननादिवन्निषेध्यत्वेन प्रतीतिः । एतेन विशिष्टविधेर्विशेषे(णे) तात्पर्येऽपि विशेषणस्येव सगुण-वाक्याद्गुणस्य सिद्धिरिति निरस्तम् । तस्य विशेषणांशे पृथग्विधित्वाभावेऽपि विशेषणतात्पर्यकत्वात् । अत एव वार्तिके पूर्णमास्यधिकरणे ।
‘‘प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः’’ ॥
इत्यादिना ‘अनेकविध्यन्तरप्रसवसमर्थैकविशिष्टविधिप्रसादेनानेकगुणविधानम्’ इत्यन्तेन विशिष्टविधेर्विशेषणे तात्पर्यमुक्तम् ।