तत्त्वमस्यादिवाक्यस्याऽखण्डार्थत्वानुमाने अप्ययुक्ते
३. तत्त्वमस्यादिवाक्यस्याखण्डार्थत्वानमानभङ्गः
न्यायामृतं
तत्त्वमस्यादिवाक्यस्याऽखण्डार्थत्वानुमाने अप्ययुक्ते । उक्ताप्रसिद्धविशेषणत्व-बाधप्रतिरोधाप्रयोजकत्व-प्रतिकूलतर्कपराहत्यादिदोषात् । उक्तरीत्याऽन्त्यहेतोरसिद्धेश्च । उभयत्रापि दृष्टान्तस्य साध्यवैकल्याच्च । ननु सोऽयमित्यत्र किं तद्देशकालादिविशिष्टस्यै-तद्देशकालादिवैशिष्ट्यं बोध्यते? एतद्देशकालादिविशिष्टस्य तद्देशकालादिवैशिष्ट्यं वा ? विशिष्टद्वयैक्यं वा ? नाद्यः । एतत्कालादिविशिष्टस्य प्रत्यक्षत्वेनाऽनुपदेश्यत्वात् । तत्कालादेरपीदानीं सत्त्वापत्तेश्च । न द्वितीयः । एतत्कालादेस्तदा सत्त्वापातात् । न तृतीयः । विशेषण भेदे विशिष्टाभेदायोगात् । विशिष्टं हि यदि विशेषणविशेष्यसम्बन्धरूपं तदा विशेषणभेदेन, यदि तु पदार्थान्तरं तदापि विशेष्यभेदेनेव विशेषणभेदेनापि तद्भेद आवश्यकः । तस्मात्सोऽयमित्यादिवाक्यं लक्षणयाऽखण्डार्थमिति चेत् ।
उच्यते– अस्तु तावदनुभवकालसम्बन्ध एव तत्ता, तथापि बाल्ययौवनयोरिव श्यामरक्तरूपयोरिव च तदेतद्देशकालसम्बन्धरूपयोस्तत्तेदन्तयोः परस्परमनन्वयेऽपि एकविशेषणविशिष्टे इतरस्यावृत्तावपि एकविशेष्यवृत्तित्वं तावदस्ति । कालद्वयासम्बन्धि-पदार्थानां क्षणिकत्वापातात् । देशद्वयसम्बन्धस्यापि कालभेदेनानुभवात् । सोऽयमिति पदद्वयं च तत्तेदन्तयोरेकवृत्तित्वबोधने शक्तम् । समानाधिकरणत्वात् । भिन्नप्रवृत्ति-निमितानामेकस्मिन्नर्थे वृत्तिर्हि सामानाधिकरण्यम् । न च विशेष्यस्य तत्तेदन्तान्वय-परमपीदं वाक्यं विशिष्टस्य तदन्वयपरं नेत्येतावताऽखण्डार्थम् । नीलमुत्पलमित्यादे-रप्यखण्डार्थत्वापातात् । एवं च–
कालद्वयेन योगस्य क्रमेण स्थायिवस्तुनि ।
नैल्यरक्तत्ववत्सत्त्वात्तदुक्तौ का विरुद्धता ॥
विशेष्ये धर्मसंसर्गपरं चापि विशेषिते ।
तत्परं नेत्यखण्डार्थं स्याच्चेत्सर्वं तथा भवेत् ॥
एतेन विशेष्यस्य कालद्वयसम्बन्धेनैव क्षणिकत्वानापत्तेर्विशिष्टस्य तत्सम्बन्धो नाऽपेक्षित इति निरस्तम् । मयापि विशेष्य एव कालद्वयसम्बन्धस्योक्तेः । देवदत्त-स्वरूपमात्रं बुभुत्सितमिति तु निरसिष्यते । न च तत्ताया अतीतत्वमात्रेण तत्पदस्य लक्षणा । घटो नष्ट इत्यादाविवातीततत्तारूपस्वार्थात्यागात् । अन्यथा तत्तादेरतात्पर्य-विषयत्वे सोऽयमित्यनेन देवदत्तस्य कालद्वयसम्बन्धो न सिद्ध्येत् । तस्मादेकविशेषण-विशिष्टे विशेषणान्तरान्वयाबोधकमपीदं वाक्यं विशेष्यस्य क्रमिकधर्मद्वयान्वयपरत्वात्स-खण्डार्थमेव ।
किञ्च त्वदुपन्यस्ते पक्षत्रयेऽपि न दोषः । तत्तादेरतीतत्वेऽपि यदन्विततया ज्ञात एव तात्पर्यविषयी भूतेतरान्वयधीः, तत्त्वरूपस्य विशेषणत्वस्य सम्भवात् । न च विधेयान्वय्येव विशेषणम् । शब्दोऽनित्य इत्यादौ शब्दत्वादावव्याप्तेः । नापि विधेयान्वयकाले सदेव विशेषणम् । दण्डी भविष्यति, दण्डी नास्तीत्यादावव्याप्तेः । गृहनिष्ठे काकादावतिव्याप्तेश्च । नापि विधेयान्वयप्रतियोगितावच्छेदकं वा स्वप्रत्याय्य-व्यावृत्त्यधिकरणतावच्छेदकं वा विशेषणम् । अवच्छेदकत्वस्यान्यूनानधिकदेशकालत्व-रूपत्वे तस्य ‘सास्नादिमान् गौः’ इत्यादिषु लक्ष्यतावच्छेदकरूपविशेषणेषु सत्त्वेऽपि गौः शुक्ला इत्यादावव्याप्तेः । न हि गोत्वं शुक्लान्वयप्रतियोगित्वेनाशुक्लव्यावृत्त्या वा अन्यूनानधिकदेशम् । अवच्छेदकत्वस्य यद्वत्तया ज्ञात एव यदन्वयधीस्तत्त्वरूपत्वे चेहाप्यवच्छेदकस्य सत्त्वात् । न हि काकोपस्थापितसंस्थानवत्तया ज्ञात एव देवदत्तीयत्वधीवददेवदत्तगृहव्यावृत्तिधीवच्च तत्तोपस्थापितधर्मान्तरवत्तया ज्ञात एवेदन्त्वधीर् अनिदं व्यावृत्तिधीर्वा किन्तु तत्तावत्तया ज्ञात एव ।
न चात्रापि तत्तौपस्थापितदेवदत्तसंस्थानविशेषवत्तया ज्ञात एवेदंत्त्वादिधीः, तत्रेदन्तादिसम्बन्धस्य प्रत्यक्षत्वेनानुपदेश्यत्वात् । तस्मादतीतमपि यदन्विततया ज्ञात एवेत्याद्युक्तलक्षणयुक्तं चेद्विशेषणमेव । तदयुक्तं चेद्वर्तमानमप्यविशेषणमेव । अत एवाहुः– ‘सदसद्वा समानाधिकरणं विशेषणम्’ इति । तस्मात्पक्षत्रयेऽपि न दोषः । न चाद्ये वाक्यवैयर्थ्यम् । इदन्तावैशिष्ट्यस्य प्रत्यक्षत्वेऽपि तत्ताविशिष्टे तस्याप्रत्यक्षत्वात् । न चाद्यद्वितीय योर्बुभुत्सितस्याभेदस्य साक्षादलाभः । पुरोवर्तिनि तत्ताद्यवैशिष्ट्यभ्रम-निरासायायं स वा न वेत्यभिप्रायेण कोऽयमिति प्रश्ने सोऽयमित्युक्तेः । भेदभ्रमे निरसितव्येऽपि अभेदकोक्त्यापि साक्षाद् भेदभ्रमनिवृत्तेश्च । अभेदस्य बुभुत्सितत्वेऽपि वाक्यस्याभेदविशिष्टपरत्वेन सखण्डार्थत्वापत्तेश्च ।
ननु तृतीये विशिष्टैक्ये विशेषणैक्यं स्यात् । न च धूमवदग्निमतोरैक्येऽपि धूमाग्न्योर्भेदो दृष्ट इति वाच्यम् । तत्रापि विशेष्यस्यैवैक्यात् । न च तर्हि दृष्टान्ताभावाद्विशिष्टैक्येन विशेषणैक्यापादनायोगः । अग्निमतोऽग्निमतैक्येऽग्नेरग्निनैक्यदर्शनात् समुदायिरूपविशेषणभेदे समुदायैक्यस्य व्याहतत्वाच्चेति चेन्न । विशिष्टम् अपदार्थान्तरमिति मते विशेष्यस्ये-वैक्याधिकरणत्वेऽपि धर्मयोरप्युद्देश्यतावच्छेदकत्वेन विशेषणत्वात् तस्यैव च विशिष्टाभेद-शब्दार्थत्वात् । पदार्थान्तरम् इत्यावयोर्मते तु धूमाग्न्योर्भेदेऽपि धूमवानग्निमानित्यबाधित सामानाधिकरण्यधीबलेन विशिष्टयोरभेदस्यापि सत्त्वात् । अन्यथा इदं रूप्यमित्युक्ते पुरोवर्तिनि रूप्याभेदाप्रतीतेः । रूप्यार्थिनः पुरोवर्तिनि प्रवृत्तिश्च न स्यात् । तत्तेदन्तोप-लक्षितैक्यबोधनमिति त्वन्मतं चायुक्तं स्यात् । तत्तेदन्तोपलक्षितत्वरूपविशेषणभेदा-द्विशिष्टभेदात् । अस्तु वा तत्तेदन्तयोर्मध्ये एकस्योपलक्षणत्वं तथापीदन्ता विशिष्ट-स्योपलक्षणीभूत तत्कालसम्बन्धो वा तत्तोपलक्षिताभेदो वा तत्ताविशिष्टस्योपलक्षणी भूतेदन्तासम्बन्धो वा इदन्तोपलक्षिताभेदो वा बोध्यताम् ।
न चैतावता वाक्यस्याखण्डार्थत्वम् । उपलक्षणस्य काकादेः स्वयं प्रकारत्वेन प्रकारान्तरोप स्थापकत्वेन वा निष्प्रकारकत्वरूपाखण्डार्थत्वविरोधित्वात् । एकस्योप-लक्षणत्वेऽप्यन्यस्य विशेषणत्वाच्च । नाप्युपलक्षणत्वमात्रेण तद्वाचिशब्दानां लाक्षणिक-त्वम् । वृत्तिविशेषरूपलक्षणाया व्यावर्तकविशेषरूपोप लक्षणस्य च भिन्नत्वात् । दृश्यते हि घटस्याभावः जटाभिस्तापस इत्यादावभावादिकं प्रति घटादेरुपलक्षणत्वेऽपि घटादि-शब्दस्यालाक्षणिकत्वम् । दृश्यते च दण्ड्यभिप्रायेण प्रयुक्तेर् दण्डमानयेत्यत्र दण्डशब्दस्य दण्डिनि लाक्षणिकत्वेऽपि दण्डस्याऽनुपलक्षणत्वम् । वरं चोभयपदलक्षणात एकपद-लक्षणा । न चेदन्ताविशिष्टस्य तत्तया, तत्ताविशिष्टस्य चेदन्तया कदाप्यसम्बन्धान्न ते प्रति तयोरूपलक्षणतेति वाच्यम् । तयोस्ताभ्यां विशेष्यद्वारा सम्बन्धात् । परम्परा-सम्बन्धिनोऽप्युपलक्षणत्वात् । यद्वेदन्तोपलक्षितस्य तत्तावैशिष्ट्यं तत्ताविशिष्टाभेदो वा तत्तोपलक्षितस्येदन्तावैशिष्ट्यं वा इदन्ताविशिष्टाभेदो वा बोध्यताम् ।
ननु यद्यपीदन्तया तत्तया वा उपलक्षितस्य विशेष्यस्य तत्तावैशिष्ट्यं वा इदन्तावैशिष्टं वा युक्तम् । विशेष्ये विशेषणान्तरान्वयात् । अभेदपक्षौ तु न युक्तौ अनुवृत्तव्यावृत्तयो-र्विशेष्यविशिष्टयोरभेदायोगादिति चेन्न, समवायस्थाने भेदाभेदावित्यावयोर्मतेऽनु-वृत्तव्यावृत्तयोरपि तयोः पर्वतोऽग्निमानिति धीबलाज्जाति व्यक्त्योरिव मृद्धटयोरिव चाभेदस्यापि सत्वात् । अन्यथा पर्वतोऽग्निमानिति लैङ्गिकी धीरपि निर्विकल्पिका स्यात् । केवलाभेदस्तु परिणामिनि देवदत्तपिण्डेऽपि नास्त्येव । यद्वा तत्तोपलक्षितस्य इदन्तोपलक्षितेन वा इदन्तोपलक्षितस्य तत्तोपलक्षितेन वा ऐक्यं बोध्यताम् । न चैतावताऽखण्डार्थत्वादिकमित्युक्तम् । तदेतदभिप्रेत्योक्तम्–‘अनित्यदेशकालसम्बन्धस्य सत्त्वान्न सोऽयं देवदत्त इत्याद्युपमा च’ इति टीकायां तु तद्देशकालसम्बन्धमात्रं न तत्ता, किन्तु तद्ध्वंसः । स चेदानीमस्ति । एवं च पक्षत्रयेऽपि न दोष इत्युक्तं तद्वस्तुस्थिति-प्रदर्शनार्थम् । तत्तेदन्तयोर्न केवलं बाल्ययौवनवत्सामानाधिकरण्यमात्रं किन्तु नीलत्वो-त्पलत्व वत्समानकालत्वमपीति प्रदर्शनार्थं च, न तु सखण्डार्थत्वार्थम् । उक्तरीत्या-न्यथापि तत्सिद्धेः । परेण तद्देशकालसम्बद्ध एतद्देशकालसम्बद्ध इत्यस्मिन्नुदाहृते टीकोक्त-प्रकाराप्रसराच्च ।
युक्तं चानुभवकालध्वंस एव तत्तेति । अन्यथा पूर्वकालविषयेऽनुभवेऽपि स्मृताविव तत्तोल्लेखः स्यात् । स्मृत्यनुभवयोः संस्कार जन्यत्वाजन्यत्वाभ्यां भेदेऽपि अनुभवकाले सतः कालस्य स्मृतिकाले वस्तुगत्यातीतत्वेऽपि च विषयकृत वैलक्षण्याभावात् । तत्तामात्रे च स्मृतेरननुभूतविषयत्वमिष्टमेव । न चातिप्रसङ्गः, अनुभवबलेनानुभूत कालध्वंसत्वस्य तन्त्रत्वात् । पूर्वकालसम्बन्धस्तत्तेति मतेऽपि ह्यननुभूतापि भूतता भातीति वक्तव्यम् । तत् तत्र तदा तथाऽऽसीदिति स्मृतौ अननुभूतस्य भूतत्वस्यो-ल्लेखात् । ननु पूर्वकालध्वंसविशिष्टो मध्येऽप्यस्ति इदन्ताविशिष्टस्तु मध्ये नेति कथं तयोरभेदः ? न चेदन्ता नैतत्कालसम्बन्धः, किन्तु तत्प्रागभावस् तद्विशिष्टश्च मध्येऽ-प्यस्तीति वाच्यम् । पूर्वकालध्वंसविशिष्टस्येदानीं सत्त्वेऽपि एतत्कालप्रागभावविशिष्ट-स्येदानीमभावादिति चेन्न, अनुवृत्तव्यावृत्तयोरभेदस्य विशेष्यमात्रस्यैव ऐक्येऽपि तत्तादे-र्विशेषणत्वस्य च समर्थितत्वात् ।
अद्वैतसिद्धिः
एवं तत्त्वमस्यादिमहावाक्यपक्षकानुमानमपि निर्दोषम् । न च सोऽयं देवदत्त इत्ययं दृष्टान्तः साध्यविकलः । विशिष्टाभेदस्य बोधयितुमशक्यत्वात् । तथा हि– किमत्र तद्देशकालविशिष्ट एतद्देशकालवैशिष्ट्यं प्रतिपाद्यते ? एतद्देशकालविशिष्टे वा तद्देशकालवैशिष्ट्यम् ? तद्विशेषणयोरैक्यं वा ? तद्विशिष्टयोरैक्यं वा ? नाद्यः, तद्देशकाल वैशिष्ट्यस्याप्रत्यक्षत्वेनानुद्देश्यत्वात् । तत्कालादेरिदानीं सत्त्वापत्तेश्च । न द्वितीयः । एतत्कालादेरन्यदा सत्त्वापत्तेः । न तृतीयः । बाधात् । अत एव न चतुर्थोऽपि । विशेषणस्य भिन्नत्वेन विशेषणविशेष्यतत्सम्बन्धात्मकस्य विशिष्टस्य भिन्नत्वात् । अतिरिक्तत्वेऽपि विशेषणभेदेन विशेष्यभेदेन च तद्भेदनियमात् । तथा चोभयविशेषणपरित्यागेन विशेष्यमात्रमभिन्नं बोध्यत इति सिद्धमखण्डार्थत्वम् । तदुक्तम्–
‘अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोर्द्वयोः । घटते न यदैकता तदा नतरां तद्विपरीतरूपयोः ॥’
इति ।
यदा हि ‘दण्डी कुण्डली’ इत्यादौ दण्डकुण्डलादेरेकदेशकालावस्थितत्वेनाविरोधेऽपि न तद्विशिष्ट-योरैक्यम् । विशेषणयोरप्यै क्यापत्तेः । तदा कैव कथा सोऽयमित्यत्र तत्तेदन्तयोरेककाला-नवस्थाननियमेन । परस्परविरुद्धत्वात्तद्विशिष्टयोरैक्यस्य । लक्षणयैक्यबोधनं तूभयत्रापि समानम् । लाक्षणिकत्वेऽपि दण्डी कुण्डली इत्यादौ विशिष्टतात्पर्यान्नाखण्डार्थत्वव्यवहारः । सोऽयमित्यत्र तु ‘अयं स न वा ? अयं नैव सः’ इत्यादिसंशयविपर्ययज्ञानविषयीभूताभेदमात्रस्य बुभुत्सितत्वेन तत्रैव तात्पर्याद् अखण्डार्थत्वम् । न ह्यन्यस्मिन् बुभुत्सितेऽन्यत् प्रतिपादयितुमुचितमित्युक्तम् । प्रत्यभिज्ञा-प्रत्यक्ष स्याप्यभिज्ञाद्वयोपस्थितस्वरूपातिरिक्ताविषयत्वेऽपि उभयोपस्थितिद्वारकाभेदबोधनेन भ्रमनिवर्तकत्वम् । तत्समानार्थकं च वाक्यमेतदिति न विशिष्टपरम् । यथा चाभिज्ञाद्वयात् प्रत्यभिज्ञाया विषयवैलक्षण्याभावेऽपि द्वारविशेषनिबन्धनज्ञान गतवैलक्षण्यादेव फलभेदः । तथा स्मृतिरूपाया-स्तदिदम्पदार्थोपस्थितेरनुभवरूपस्य वाक्यार्थबोधस्य । एवं च ‘भिन्नप्रवृत्तिनिमित्तयोरेकार्थबोधपरत्वं सामानाधिकरण्यम्’ इति प्राचां वचोऽपि निष्प्रकारके सुतरामुपपद्यते ।
न्यायामृततरङ्गिणी
कोऽहमित्यात्मस्वरूपमात्रे बुभुत्सिते तत्त्वमसीत्यस्य प्रवृत्तेर्न पक्षे हेत्वसिद्धिरित्या-शङ्क्याह– उक्तरीत्येति ॥ वाक्यमात्रस्य संसर्गपरत्वात् ‘सोऽयं देवदत्तः’ इत्यादेरपि तथात्वा-त्तत्र साध्यवैकल्यमित्याह– उभयत्रेति ॥ ‘सोऽयं देवदत्तः’ इत्यादेरखण्डार्थत्वमाशङ्कते– नन्विति ॥ तत्कालादेरपीति ॥ तत्कालादेः सत्त्वं विना देवदत्तस्य तत्कालादिविशिष्टत्वं न सम्भवतीत्यर्थः । एतद्देशे तद्देशस्य सत्त्वापत्तिरादिशब्दार्थः ॥ विशेषणभेदेनापीति ॥ यदा ह्यविरुद्धदण्डकुण्डलादिविशेषणभेदेन विशिष्टभेद आवश्यकस्तदा तदेतद्देशकालरूपविरुद्ध-विशेषणभेदेन विशिष्टभेदः सुतरामावश्यक इत्यर्थः । तदुक्तं संक्षेपशारीरके–
‘अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोर्द्वयोः ।
घटते न यदैकता तदा सुतरां तद्विपरीतरूपयोः’ इति ।
अस्तु तावदिति ॥ अनुभवकालध्वंस एव तत्तेति वस्तुस्थितावपीत्यर्थः । नन्वेकस्मिन् कालद्वयस्य देशद्वयस्य च सम्बन्धस्य सत्त्वेऽपि ‘सोऽयम्’ इत्यादिवाक्यं पूर्वकालादिविशिष्ट-स्योत्तरकालादिवैशिष्ट्यं बोधयद्विरुद्धमेवेत्यत आह– सोयऽमितीति ॥ नीलमुत्पल-मितीति ॥ न च नीलमुत्पलमिति वाक्यस्य विशिष्टे तात्पर्यान्नाखण्डार्थत्वमिति वाच्यम् । ‘अयं स न वा, अयं स भवति’ इत्यादि सन्देहविपर्ययनिरासाय तत्कालसंसर्गस्य बुभुत्सित-त्वेनात्रापि विशिष्टे तात्पर्यात् । ननु तत्तासंशयादिनिरासाय प्रयुक्तं ‘सोऽयम्’ इत्यादिवाक्यं मा भूद्दृष्टान्तः । देवदत्तस्वरूपमात्रस्य बुभुत्सायां प्रयुक्तं सोऽयमिति वाक्यं दृष्टान्तो भविष्यतीत्यत आह– स्वरूपमात्रमिति ॥ तत्ताया इति ॥ अनुभवकालसम्बन्धस्येत्यर्थः ॥ अतीतेति ॥ ‘सोऽयम्’ इत्यनेनानुभवकालसम्बन्धलक्षणतत्तारूपस्वार्थस्य ‘सोऽयम्’ इति वाक्यप्रयोगकालेऽतीतस्याप्यत्यागादित्यर्थः ॥ अन्यथेति ॥ त्यागे सतीत्यर्थः ॥ शब्द इति ॥ विधेयेनानित्यत्वेन शब्दत्वस्यानन्वयात् ॥ दण्डीति ॥ विधेययोः प्रागभावप्रध्वंसयोः काले दण्डसम्बन्धस्यासत्त्वात् ॥ गृहेति ॥ विधेयस्य देवदत्तीयगृहत्वस्य काले विद्यमानस्य काकादेरित्यर्थः ॥
न हीति ॥ काकादिषु काकाद्यन्विततया ज्ञात एव गृहे देवदत्तीयत्वादिबुद्ध्यहेतुत्वान्न तेषां विशेषणत्वम् ॥ तत्रेति ॥ तत्ताविशिष्ट इदन्त्वादिसम्बन्धस्याप्रत्यक्षत्वेनोद्देश्यत्वेऽपि तत्र तत्तोपस्थापितदेवदत्तसंस्थानविशेषवतीदन्त्वादि सम्बन्धस्य प्रत्यक्षत्वेनानुपदेश्यत्वमित्यर्थः ॥ अतीतमपीति ॥ विशेषणतायां वर्तमानत्वं न प्रयोजकमित्यर्थः । अत एवोक्तं गुणकिरणावल्याम्– ‘स्थिरं विशेषणं विशिष्टप्रतीतौ स्वात्मानमवेशयत्यपि न तु विशेषणतायां तदुपयोग इति । विशिष्टप्रतीतौ विशिष्टौ चितायां क्रियायामित्यर्थः ॥ समानाधिकरण-मिति ॥ ननु सामानाधिकरण्यं नैकविभक्तिनिर्देश्यत्वम् । विभक्तिनिर्देशस्य सर्वत्राभावात् । नाप्यैकाधिकरण्यम् । तद्धि न विशेष्येण । उत्पलनीलरूपयोरेकत्रावृत्तेः । नापि तद्धर्मेण प्रत्याय्यव्यावृत्त्या वा । उपलक्षणस्यापि तत्सत्त्वात् । न हि तापसे जटा न तिष्ठतीति । उच्यते । यदन्विततया ज्ञात एवेत्याद्युक्तलक्षणे तात्पर्यान्न दोषः ॥ तत्ताविशिष्ट इति ॥ तत्तान्विततया ज्ञाते ॥ पुरोवर्तिनीति ॥ पुरोवर्तिनीदन्तादिवैशिष्ट्यस्यैव बुभुत्सिततया साक्षादबुभुत्सितस्याभेदस्य साक्षादलाभेऽपि न दोष इति भावः ।
ननु भेदभ्रमनिरासायाऽभेदः साक्षाद्बुभुत्सित एवेत्यत आह– भेदभ्रम इति ॥ अभेदको-क्त्यैव भेदभ्रमनिरासान्नाभेदोऽवश्यं बुभुत्सित इत्यर्थः ॥ तस्यैव चेति ॥ अपरान्वयधी-प्रयोजकज्ञानविषयभूतेतरान्वितरूपस्य विशिष्टस्य तादृशेन विशिष्टान्तरेणैक्य बोधनेऽपि न तद्विशेषणयोरैक्यापत्तिरित्यर्थः ॥ अन्यथेति ॥ विशेषणभेदस्य विशिष्टैक्यविरोधित्वे ॥ रूप्याभेदेति ॥ इदन्त्वरूप्यत्वादिविशेषणभेदादिदंरूप्ययोर्विशिष्टयोरभेदाप्रतीतिः । न चात्रापि लक्षणयाऽभेदमात्रं बोध्यत इति युक्तम् । पुरोवर्तिनि रजताभेदबोधं विना पुरोवर्तिनि प्रवृत्तिर्न स्यात् ॥ नाप्युपलक्षणमात्रेणेति ॥ यथा दण्डादिविशेषणवाचकपदस्य दण्डादिरूपस्वार्था-त्यागेनालाक्षणिकत्वं तथा तत्तादिरूपोपलक्षणवाचकस्यापि तत्पदस्य न लाक्षणिकत्वम् । स्वार्थात्यागादित्यर्थः । अर्थस्योपलक्षणत्वेपि शब्दस्य मुख्यत्वं दृष्टमित्याह– दृश्यते हीति ॥ शब्दस्य लाक्षणिकत्वेऽप्यर्थस्य विशेषणत्वं दृष्टमित्याह– दृश्यते चेति ॥
उपलक्षणपरपदे लक्षणामभ्युपेत्याह– वरमिति ॥ उभयपदलक्षणातः सकाशाद्योऽर्थ उपलक्षणं तत्परे एकस्मिन्नेव पदे लक्षणा श्रेष्ठेत्यर्थः । उपलक्षणस्य काकादेः स्वसंबन्धं यद्देवदत्तीयगृहत्वादिविशिष्टं देवदत्तगृहं तत्प्रत्युपलक्षणत्वं दृष्टम् । न चेह तत्तेदन्तयोरिदन्ता-तत्ताभ्यां विशिष्टेन सम्बन्धोऽस्ति । अतः कथमिदन्ताविशिष्टे तत्ताविशिष्टेदन्ता चोप लक्षणं स्यादित्याशङ्कां परिहरति– न चेदन्तेति ॥ ते प्रतीति ॥ इदन्ताविशिष्टस्वरूपं तत्ता-विशिष्टस्वरूपं च प्रतीत्यर्थः ॥ तयोरिति ॥ उक्तस्वरूपयोः । ताभ्यां तत्तेदन्ताभ्याम् । विशिष्टयोर्भेदेऽपीदन्ताविशिष्टे यद्विशेष्यं देवदत्तस्वरूपं तत्र तत्तासम्बन्धात्स्वविशेष्यसम्बद्धत्व-रूपइदन्ताविशिष्टस्य तत्तया सह सम्बन्धोऽस्त्येव । एवं तत्ताविशिष्टस्यापीदन्तया सम्बन्धोऽ-स्त्येवेत्यर्थः ॥ परम्परेति ॥ उपलक्ष्यसम्बन्धित्वमेवोपलक्षणस्यापेक्षितं, न तु साक्षात् । गौरवादित्यर्थः ।
यद्वेति ॥ ‘‘अस्तु वा’’ इत्यादिना विशिष्टमुद्दिश्योपलक्षणसम्बन्धादि विधीयता-मित्युक्तम् । इदानीमुपलक्षितमुद्दिश्य विशेषणसम्बन्धो विधीयतामित्युच्यत इति भेदः ॥ अभेदपक्षौ त्विति ॥ इदन्तोपलक्षितस्य तत्ताविशिष्टाभेदस्तत्तोप लक्षितस्येदन्ताविशिष्टाभेद इति पक्षौ ॥ अनुवृत्तेति ॥ इदन्तोपलक्षितस्यानुगतस्य विशेष्यमात्रस्य तत्ताविशिष्टेन व्यावृत्तेनाभेदो न सम्भवति । एवं तत्तोपलक्षितस्यानुगतस्य विशेष्यमात्रस्येदन्ताविशिष्टेनापि । केवलविशेष्यस्य विशिष्टेनाभेदोऽप्यस्तीत्याह– समवायेति । ननु जातिव्यक्त्योरित्यादि-दृष्टान्तासङ्गतिः । अयुतसिद्धयोरभेदाभावादित्याशङ्का परिहारायोक्तं समवायस्थाने भेदाभेदौ इत्यादि ॥ अन्यथेति ॥ केवलस्य विशिष्टेनाभेदाभाने निर्विकल्पिकापर्वतस्याग्निमदभेदं न विषयीकुर्यादित्यर्थः ।
नन्विदन्तोपलक्षिततत्ताविशिष्टयोर्भिन्नयोरभेदबोधनं न युक्तमित्यत आह– केवलेति । भेदवत्यभेदबोधाद्बिभ्यत्त्वं तत्ताद्युपलक्षिते स्वरूपमात्रेऽभेदो बोध्यत इति कथं ब्रूयाः । देवदत्तपिण्डेऽपि भेदस्य सत्त्वादित्यर्थः ॥ न चैतावतेति ॥ तत्तोपलक्षितत्वादेरेव प्रकारत्वात् ॥ उक्तमिति ॥ तत्वोद्योत इति शेषः ॥ अनित्येति ॥ अनित्याभ्याम् इदानीम-विद्यमानाभ्यां देशकालाभ्यां स्वकाले यः सम्बन्धस्तद्देशकालोपलक्षितत्वादिरूपस्तस्य देवदत्ते सत्त्वात् ‘सोऽयं देवदत्तः’ इत्यादिवाक्यं तत्वमस्यादिवाक्यस्याखण्डार्थतायाम् उपमा दृष्टान्तो न भवतीत्यर्थः ॥ तद्देशकालसम्बद्ध इति ॥ मधुरासम्बन्धः काशीसम्बन्धेऽष्टमीसम्बन्धः पूर्णमासीसम्बन्ध इत्यादिवाक्ये परेणोदाहृत इत्यर्थः । एतेन तद्देशकालसम्बन्ध इत्यत्रापि तत्तेदन्तयोः प्रवेश इति निरस्तम् । तदेतत्पदयोर्देशविशेषार्थत्वात् ॥ अन्यथेति ॥ तद्देशकाल-सम्बन्धस्य तत्तात्वे ॥ स्मृत्यनुभवयोरिति ॥ तयोः कारणकृतस्य वैषम्यस्य सत्त्वेऽपि तद्विषये च सत्त्वासत्त्वरूपवैषम्यसत्त्वेऽपि स्मृत्यनुभवगतेऽर्थविषयीकारित्वांशे वैषम्याभावात् । न च संस्कारजन्यत्वेन तत्तोल्लेख इति वाच्यम् । लिङ्गकरणतापक्षे संस्कारलिङ्गकानुमितौ तत्तोल्लेखः स्यात् । तत्तास्मृतिरेव प्रत्यभिज्ञायां हेतुर्न संस्कार इति पक्षे तदभावाच्च ॥ तत्तामात्रे चेति ॥ अनुभूतकालध्वंसस्याननुभूतस्यापि भानात् ।
न्यायामृतकण्टकोद्धारः
पदार्थपरवाक्यस्याखण्डार्थत्वं प्रदूष्य महावाक्यस्याप्यखण्डार्थत्वं पूर्वोक्तदूषणेन दूषयति– तत्त्वमस्यादीति ॥ उक्तरीत्येति ॥ स्वरूपमात्रस्य प्रागेव ज्ञातत्वेन प्रश्नाद्ययोगादित्युक्त-रीत्येत्यर्थः ॥ उभयत्रेति ॥ महावाक्यस्याखण्डार्थत्व साधकयुक्तिद्वयेऽपीत्यर्थः । अतो न पौनरुक्त्यमिति हृदयम् । ननु ‘सोऽयं देवदत्तः’ इत्यादेर्विशिष्टार्थत्वे बाधकसद्भावाद् अखण्डार्थत्वमेव स्वीकर्तव्यमिति कथं साध्यविकलतेति शङ्कते – नन्विति ॥ नन्वेतत्कालवैशिष्ट्यादेः प्रत्यक्षत्वेऽपि न तत्कालावच्छेदेन प्रत्यक्षत्वम् । अतस्तद्बोधनं युक्तमेवेत्यत आह– तत्कालादेरपीति ॥ ननु विशेषणभेदे विशिष्टाभेदो नेति नियमोऽप्रयोजक इत्याशङ्क्याह– विशिष्टं हीति ॥ विशेषण-भेदेनापीति ॥
ननु विशेष्यस्य समवायिकारणत्वात् तद्भेदेऽस्तु विशिष्टभेदः । विशेषणसम्बन्धस्तु निमित्तम् । न च निमित्तभेदे कार्यभेदः । अतिप्रसङ्गादिति चेन्न । समवायिभेदेऽपि पटादिकार्याणां निमित्तविशेषवशादभेददर्शनात् । तदभेदेऽपि पाकजस्थले रूपरसादौ निमित्तविशेषाद् भेददर्शनादिति ॥ अस्तु तावदिति ॥ उक्तविकल्पदोषनिरासेन त्रेधाऽप्यखण्डार्थत्वं साधयिष्यामीति तावच्छब्दः ।
नन्वेकस्य कालद्वयसम्बन्धे तयोरेकविशेष्यवृत्तित्वं कालद्वयसम्बन्ध एकैकस्य नेत्यत आह– कालद्वयेति ॥ पूर्वोत्तररूपकालद्वयेत्यर्थः । नन्वेकस्य देशद्वयसम्बन्धो विरुद्ध इत्यत आह– देशद्वयेति ॥ नन्वस्य वाक्यस्य तत्तेदन्तयोरेकवृत्तित्वबोधकत्वे किं प्रमाणम् ? प्रत्यक्षस्य विप्रतिपन्नत्वादित्यत आह– सोऽयमिति ॥ न च नीलमुत्पलमित्यादौ व्यभिचार इति वाच्यम् । तत्तेदन्ताशब्देन विशेषणद्वयस्य गृहीतत्वात् । न च तद्विशिष्टपरमिति व्यभिचार एवेति वाच्यम् । अधिकबोधनेऽप्येकवृत्तित्वबोधकत्वात् । ननु समानाधिकरणत्वं तदधिकरणाधिकरणत्वम् । तच्च प्रकृतेऽसिद्धमित्यत आह– भिन्नमिति ॥ अत एवाप्रयोजकत्वमपि न । उक्तहेतोः साध्यं विनानुपपत्तेरिति भावः । ननूक्तयोर्विशेषणयोर्विरुद्धत्वात् कथमेकत्रावस्थानमिति शङ्कां परिहर-न्नेवोक्तमर्थं कारिकया सङ्गृह्णाति– एवञ्चेति ॥ एतेनेति परामृष्टमाह– मयेति ॥
ननु विशेषणयोरेकत्रावस्थानबोधकत्वे प्रश्नवैयधिकरण्यम् । देवदत्त स्वरूपमात्रस्यापृष्टत्वादित्यत आह– देवदत्तेति ॥ ननु तत्ताया अतीतत्वात् तत्पदे लक्षणेत्यत आह– न चेति ॥ अन्यथेति ॥ तत्पदस्य स्वार्थत्यगे । उपसंहरति– तस्मादिति ॥ कथं पूर्वोक्तपक्षत्रयेऽपि न दोष इत्यत आह– किञ्चेति ॥ ननु कथं न दोषः ।
तत्तादेरतीतत्वेन विशेषणत्वस्यासम्भवेन तत्ताविशिष्टादौ तद्वैशिष्ट्यादेरसम्भवादित्यत आह– तत्तादेरपीति ॥ न च नेदं विशेषणत्वलक्षणम् । दण्डी देवदत्त इत्यादौ दण्डादेर्विशेषणत्वं न स्यात् । दण्डवत्तया पूर्वं देवदत्तज्ञानाभावात् । विशेषणज्ञानस्य कारणत्वानभ्युपगमादिति वाच्यम् । ज्ञात इत्यस्य ज्ञायमान इत्यर्थात् । तस्य च तत्रापि सत्त्वात् । अत एव प्रतियोगित्वादेरपि विशेषणत्वमुपपन्नमिति भावः । नन्वन्यान्यपि विशेषणत्वलक्षणानि सम्भाव्यन्ते । तत्कथमिदमेव विशेषणत्वमित्यतः परिशेषादित्याह– न चेत्यादिना ॥ सदेव विशेष्य इति शेषः । अन्यथा विशेष्येऽतिव्याप्तेः । वक्ष्यमाणदूषणासङ्गतेश्च । न चैवमपि दण्ड्यस्तीत्यादौ प्रमेयत्वादेरपि विशेषणत्वापत्तिरिति वाच्यम् । सदेवेत्यस्य सत्त्वे सति प्रतीयमानमित्यर्थात् । एवञ्च रजत-मस्तीत्यादौ रजतत्वादेरविशेषणत्वप्रसङ्गः । तदर्थं च सत्त्वत्यागे प्रकृतेऽपि न कोऽपि दोषः ।
तथापि यथाश्रुते दोषमाह– दण्डीति ॥ स्वप्रत्याय्येति ॥ स्वेन प्रत्याय्या ज्ञाप्या या वृत्तिस् तदधिकरण तावच्छेदकत्वमित्यर्थः । नचैवं प्रमेयत्वादेर्विशेषणत्वं न स्यात् । तज्ज्ञाप्य-व्यावृत्तेरसम्भवादिति वाच्यम् । आवयोर्मते अप्रामाणिकादपि व्यावृत्तिसम्भवेन प्रमेयत्वादेरपि तथाभावसम्भवात् । न हि प्रमेयत्वं केवलान्वयीत्यावयोर्मतम् । अवच्छेदकत्वं किमन्यूना-नतिरिक्तदेशवृत्तित्वं किं वा यदन्विततया ज्ञात एवेत्यादिकम्? आद्ये दोषमाह– अवच्छेदकत्व-स्येति ॥ अभासमानस्यापि तत्समनियतस्य विशेषणत्वप्रसङ्ग इत्यपि द्रष्टव्यम् । द्वितीय आह– अवच्छेदकत्वस्येति ॥ उपलक्षणमेतत् । गौरवञ्चेत्यपि द्रष्टव्यम् । प्रकृते सत्त्वमेवोपपादयति– न हीति ॥ काकतुल्यतां परिहरति– न चात्रापीति ॥ तत्रेति ॥ संस्थानविशेषवतीत्यर्थः । न चैवमुत्तृणत्ववदिति देवदत्त गृहत्वं प्रत्यक्षसिद्धम् । येन तत्रोपदेशानर्थक्यमिति भावः । तस्मादतीतत्वं वर्तमानत्वं वा न प्रयोजकम् । किन्तु यदन्वितत्वमेवेत्युपसंहरति– तस्मादिति ॥ समानाधिकरणं यदन्विततया ज्ञातमेवेत्येवंरूपमित्यर्थः । अप्रत्यक्षत्वात् । तथा च न वाक्यवैयर्थ्यमिति शेषः ॥ अभेदस्येति ॥
न च लक्षणया स्वरूपमात्रपरत्वमिति नाखण्डार्थत्वभङ्ग इति वाच्यम् । प्रश्नोत्तरयो-र्वैयधिकरण्यापत्तेः ॥ विशिष्टमिति ॥ न च द्वयोरुद्देश्यतावच्छेदकत्वमयुक्तम् । विधेयाभाव-प्रसङ्गादिति वाच्यम् । ऐक्यस्य विधेयत्वसम्भवात् । न च तत्प्रत्यायकपदाभावात् कथं तद्विधेयमिति वाच्यम् ? विशेषणोत्तरविभक्त्यादेरेव तत्प्रत्यायकत्वसम्भवात् । अत एव विशेषणोत्तरविभक्तेरर्थसाधुत्वमिति गङ्गेशचरणाः । नन्वेवं विशेष्यमात्राभेदेऽपि न विशिष्टाभेद इत्यत आह– तस्यैव चेति ॥ यत्र धर्मद्वयमुद्देश्यतावच्छेदकीकृत्यैवं विधीयते तत्रैव विशिष्टाभेद इति भावः ॥ पदार्थान्तरमितीति ॥ ननु विशेष्यभेद इव विशेषणभेदस्यैव बाधकत्वात् कथं विशिष्टयोरभेद इति चेन्न । विशेष्यभेद इव विशेषणभेदे ‘नायं सः’ इति भेदबुद्धेरभावेन प्रत्युत स एवायमिति अभेदबुद्धेरेव सत्त्वेन विशेषणभेदस्य विशिष्टभेदाप्रयोजकत्वात् । अत एवोक्तम् अबाधितेति ॥ अन्यथेति ॥ विशेषणभेदस्य विशिष्टभेदप्रयोजकत्वे इत्यर्थः । रूप्यार्थिप्रवृत्तौ तदभेदप्रतीतेः कारणत्वादित्यर्थः । न च न मया विशिष्टैक्यं बोध्यत इत्युच्यते किन्तु स्वरूपैक्यमेवेति वाच्यम् । तस्य पूर्वमेव सिद्धत्वात् । एवं तत्ताया अतीतत्वेऽपि पदान्विततयेति विशेषणलक्षणसद्भावात् सत्त्वस्य विशेषणत्वेऽतन्त्रत्वात् तत्ताया विशेषणत्वमेवेति पक्षत्रये न दोष इत्युक्तम् । इदानीमस्तु विशेषणत्वे सत्त्वं तन्त्रम् । तथाप्येक?सत्त्वाद्विशेषणत्वम् अपरस्योप-लक्षणत्वम् । न चैतावताऽखण्डार्थत्वमित्याह– अस्तु वेति ॥
नन्वेकस्योपलक्षणत्वेऽखण्डार्थत्वं स्यादित्यत आह– उपलक्षणस्येति ॥ न ह्युपलक्षितार्थ-विषयत्वमात्रम् अखण्डार्थत्वम् । काकवद्देवदत्तगृहमित्यत्रापि तथात्वापत्तेः । किन्तु संसर्गागोचर-प्रमाजनकत्वपर्यवसन्ननिष्प्रकारकत्वमेव । न च तत्प्रकृतेऽस्तीति भावः । ननूपलक्षणत्वाभ्युपगमे लक्षणाप्रसङ्गात् कथं स्वप्रकारकबोधजनकत्वमित्यत आह– नापीति ॥ ननु भिन्नत्वे उपलक्षण-वाचकस्य लाक्षणिकत्वाभावो वा लाक्षणिकस्योपलक्षणत्वाभावो वा स्यादित्यत इष्टापत्त्या परिहरति– दृश्यते हीति ॥ अस्तु वोपलक्षणवाचकस्य लाक्षणिकत्वम् । न चैतावता साम्यम् । पदद्वय लक्षणाया एकपदलक्षणाया ज्यायस्त्वादित्याह– वरञ्चेति ॥ ननु कदाचित् सम्बद्धमेवोप-लक्षणम् । प्रकृते च तत्तेदन्तयोर्न विशिष्टसम्बन्ध इति कथं तयोरुपलक्षणत्वमित्याशङ्क्य निषेधति– न चेति ॥ यद्वेति ॥ न चेदम् ‘अस्तु वा’ इत्यादिना पुनरुक्तमरुपलक्षणात् काकसम्बन्धादेरेव प्रतिपादनादिति वाच्यम् । एकस्य विशेषणत्वम् अपरस्योपलक्षणत्वमित्यस्य साम्येऽपि पूर्वत्र विशेषणोपलक्षणयोः परम्परासम्बन्धोऽत्र तु साक्षादिति न पौनरुक्त्यम् । अत एवोक्तं विशेष्य-द्वारेति ॥ न च तदसम्भवः । उद्देश्यविधेयभावादेरनेकविधस्य तस्य सम्भवात् ॥ अनुवृत्तेति ॥ विरुद्धधर्मवतोरैक्यायोगादिति भावः ।
समवायस्थान इति ॥ अनुवृत्तत्वादिकं भेदेन निर्वाह्यम् । न चैवमेकत्र भेदाभेदौ विरुद्धाविति वाच्यम् । विशेषवत्त्वेन तच्छमनादिति ॥ अन्यथेति ॥ अनुवृत्तव्यावृत्तयोरैक्यासम्भवाङ्गीकारे इत्यर्थः । बाधकात् स्वरूपमात्रविषयत्वे निर्विकल्पकत्वम् । बाधानवतारदशायान्तु भ्रमत्वमेव स्यादिति बोध्यम् । ननु प्रकृते केवलाभेदाङ्गीकारात् कथमनुवृत्तत्वादिकं निर्वाह्यमित्यत आह– केवलेति ॥ अस्तु वा पदद्वयमुपलक्षणपरम् । तथापि प्रकृते सखण्डार्थत्वमेवेत्याह– यद्वेति ॥ नन्वेवं साध्यवैकल्यं सिद्धान्ते नोक्तम् । तथा च तद्विरोध इत्यत आह– तदेतदिति ॥ ननु भवद्भिर् विशेषणत्वैकोपलक्षणत्वोभयोपलक्षणत्वरूपपक्षत्रयेऽपि सखण्डार्थत्वमुक्तम् । तट्टीकाविरोधि । टीकायां प्रकारान्तरेण सखण्डार्थत्वासम्भवात् तच्छब्दस्यार्थान्तरं वर्णयित्वा सखण्डार्थत्वाभिधाना-दित्यत आह– टीकायां त्विति ॥ अन्यथापीति ॥ उक्तप्रकारत्रयेणेत्यर्थः । टीकोक्तप्रकारेणैव सखण्डार्थत्वं किमिति नोच्यते । किं प्रकारत्रयोपादानेनेत्यत आह– परेणेति ॥
ननु अनुभवकालसम्बन्धस्तत्ताशब्दार्थत्वेन वर्णितः । अनुभवध्वंसकालोऽपि । तत्र का तत्ता इति सन्दिह्यत इत्यत आह– युक्तञ्चेति ॥ अन्यथेति ॥ यद्यनुभवकालसम्बन्ध एव तत्तेत्यर्थः । ननु स्मृत्यनुभवयोर्भिन्नविषयत्वात् कथमनुभवे तत्तोल्लेख आपाद्यत इत्यत आह– स्मृत्यनुभव-योरिति ॥ यद्यप्यनुभवे कालो वर्तमानत्वेन भासते स्मृतावतीतत्वेन । तथा च कथं विषयकृतवैलक्षण्याभावः । तथाप्यनुभवविषयैव स्मृतिरिति परमतावष्टम्भेनेदमुक्तमिति हृदयम् । ननु तद्देशकालसम्बन्धध्वंसस्तत्तेति पक्षे कथं स्मृतौ तत्ताभानम् ? ध्वंसस्याननुभूतत्वात् । अननुभूतभाने अनागतस्यापि भानप्रसङ्गादित्यत आह– तत्तामात्रे चेति ॥ अनुभवबलेनेति ॥ अनागतत्वस्याननुभवेन नियामकान्तरस्याकल्प्यत्वादिति । ननु पूर्वकालसम्बन्ध एव तत्तास्तु । तथा चाननुभूतभाने न नियामककल्पनागौरवमित्यत आह– पूर्वकालेति ॥ टीकोक्तसखण्डार्थत्व-पक्षेषु अभेदपक्षेऽनुपपत्तिमाशङ्कते– न चेति ॥ पूर्वोक्तमेव परिहारं स्मारयति– अनुवृत्तेति ॥
न्यायामृतप्रकाशः
उक्ताप्रसिद्धेति ॥ प्रत्यक्षादिनापीदमित्थमिति सप्रकारकज्ञानस्यैवोत्पत्तेः संसर्गागोचरप्रमाजनकत्व-रूपाखण्डार्थत्वं कुत्राप्यप्रसिद्धमित्युक्तेत्यर्थः । कोऽहमित्यात्मस्वरूपमात्रे बुभुत्सिते सति तत्त्वमसीत्यस्य प्रवृत्तेर्न तन्मात्रप्रश्नोत्तरत्वस्यासिद्धिरित्यत आह– उक्तरीत्येति ॥ स्वरूपमात्रस्य सिद्धत्वान्न स्वरूपमात्रे प्रश्न इत्याद्युक्तरीत्येत्यर्थः । वाक्यमात्रस्य संसर्ग परत्वात् ‘सोऽयं देवदत्तः’ इत्यादेरपि तथात्वात्तत्र साध्यवैकल्यमित्याह– उभयत्रापीति ॥ अकार्येत्याद्यनुमाने तन्मात्रप्रश्नोत्तरत्वानुमाने चेत्यर्थः । सोऽयं देवदत्त इत्यादेखण्डार्थत्वान्न साध्यवैकल्यमित्याशङ्कते– नन्विति ॥ तत्कालादे-रपीति ॥ तद्देशकालादिविशिष्टस्य एतद्देशकालादिवैशिष्ट्यबोधने तद्देशकालादेस्तावद्विशेषणत्वं प्रतीयते । विधेयान्वय्येव च विशेषणम् । तथा चैतद्देशकालादिवैशिष्ट्यस्य विधेयत्वेन तद्देशकालयोर्विधेयभूतै तद्देशकालान्वयाभावे विशेषणत्वायोगेन तदन्यथानुपपत्त्या विधेयान्वयित्वे वाच्ये तद्देशकालयोरपीदानीं सत्वापत्तिरित्यर्थः । एतद्देशे तद्देशस्य सत्वापत्तिरादिशब्दार्थः । एवमेव एतत्कालादेरित्यस्याप्युपपादनं द्रष्टव्यम् । तद्देशे एतद्देशसत्वा पत्तिरादिशब्दार्थः ॥ विशेषणभेद इति ॥ यदा ह्यविरुद्धदण्ड-कुण्डलादिविशेषणभेदेन विशिष्टभेद आवश्यकस्तदा तदेतद्देशकालरूपविरुद्धविशेषणभेदेन विशिष्टभेदः सुतरामावश्यक इत्यर्थः । तदुक्तं सङ्क्षेपशारीरके–
‘अविरुद्धविशेषणद्वयप्रभत्वेऽपि विशिष्टयोर्द्वयोः । घटते न यदैकता तदा सुतरां तद्विपरीत-रूपयोः’ ॥ इति ।
विशिष्टं विशेषणविशेष्यतत्सम्बन्धात्मकम् अतिरिक्तं चेति पक्षद्वयेऽपि विशेषणभेदे विशिष्टभेद एवेत्याह– विशिष्टं हीत्यादिना ॥ विशेषणभेदेनेति ॥ विशेषणस्यैव विशिष्टत्वेन तद्भेद एव विशिष्टभेद इत्यर्थः । पदार्थान्तरं विशेषणाद्यतिरिक्तम् । अत्र तद्देशकालविशिष्टस्य एतद्देशकाल-वैशिष्ट्यमेतद्देशकालविशिष्टस्य तद्देशकालवैशिष्ट्यमित्येवमादिरूपेण न बोध्यते । येनोक्तदोषः । किं नाम तदेतद्देशकालसम्बन्धरूपयोस्तत्तेदन्तयोर्बाल्ययौवनयोरिव श्यामरक्तरूपयोरिव चैकविशेष्यमात्र वृत्तित्वमेव सोऽयमिति वाक्यार्थः । न च विशिष्टैक्यतात्पर्याभावेन विशेष्यैक्यमात्रपरत्वप्राप्त्याऽ-खण्डार्थपरत्वमेव प्राप्तमिति वाच्यम् । तथात्वे ‘नीलोत्पलम्’ इत्यादेरपि भिन्नप्रवृत्तिनिमित्तक-शब्दानामेकविशेष्यवृत्तित्वसद्भावेन खण्डार्थत्वापातात् । अतो न तत्कालादेरपीदानीं सत्वापत्तिरित्यादि-दोष इत्यभिनवसमाधानमाह– उच्यत इति ॥
अस्तु तावदिति ॥ अनुभवकालध्वंस एव तत्तेति टीकाकारोक्तवस्तुस्थितौ सत्यामपीत्यर्थः । तर्हि तद्विशिष्टस्य एतद्देशकालवैशिष्ट्यबोधनेऽनुभवकालस्यापीदानीं सत्वापत्तिस्तथा वैपरीत्यमपीत्या-शङ्कायामाह– तथापीति ॥ तत्तेदन्तयोर्विशे(ष्यान्ययो)षणयोरनन्वयेऽपि विधेयानन्वयेऽपि । इतरस्य विशेषणस्य । तदेतत्कालसम्बन्धरूपयोस्तत्तेद न्तयोरेकविशेष्यवृत्तित्वाभावे पूर्वोत्तरकालद्वयासम्बन्धप्राप्त्या देवदत्तादिपदार्थानां क्षणिकत्वापत्तेस्तदेतत्कालयोरेक विशेष्यवृत्तित्वं तावदङ्गीकार्यमित्याशयेनाह– कालद्वयेति ॥ तदेतद्देशसम्बन्धयोरपि एकविशेष्यवृत्तित्वमङ्गीकार्यम् अनुभवसिद्धत्वादित्याह– देशद्वयेति ॥ नन्वेकस्मिन्विशेष्ये वस्तुगत्या कालद्वयसम्बन्धस्य देशद्वयसम्बन्धस्य च सत्वेऽपि सोऽयमिति पदद्वयस्य न तद्बोधकत्वम् । सोऽयमिति पदद्वयस्य देशकालसम्बन्धस्य एकविशेष्य-वृत्तित्वबोधने शक्त्यभावः । अतः पूर्वकालादिविशिष्टस्य एतत्कालादिवैशिष्ट्यमेव तदर्थ इति तद्बोधयदिदं वाक्यं विरुद्धार्थमेवापन्नमित्यत आह– सोऽयमितीति ॥
समानाधिकरणत्वेन कथं तयोरेकविशेष्यवृत्तित्वलाभ इत्यत आह– भिन्नेति ॥ अर्थे विशेष्ये । तत्तेदन्तान्वयपरं तदेतद्देशकालसम्बन्धमात्रबोधनपरम् ॥ विशिष्टस्येति ॥ तद्देशकालविशिष्टस्य एतद्देशकालवैशिष्ट्यान्वयपरं न भवतीत्यर्थः ॥ इत्येतावतेति ॥ विशेष्यमात्रवृत्तित्वबोधनादित्यर्थः । एकविशेष्यमात्रवृत्तित्वेनाखण्डार्थत्वाङ्गी कारेऽतिप्रसङ्गमाह– नीलमिति ॥ नीलत्वोत्पलत्वरूपभिन्न-प्रवृत्तिनिमित्तकशब्दयोरेक विशेष्यमात्रवृत्तित्वसद्भावादित्यर्थः । सङ्गृह्णाति– एवं चेति ॥ योगस्य सम्बन्धस्य । तद्रूपयोस्तत्तेदन्तयोरिति यावत् । तदुक्तौ सोऽयमितिपदद्वयेन एकस्मिन्विशेष्ये कालद्वय-सम्बन्धमात्रस्य शक्त्या बोधने । धर्मसंसर्गः कालद्वयसम्बन्धः । विशेषिते विशिष्टे । सर्वं नीलोत्पल-मित्यादिवाक्यम् । तथा अखण्डार्थम् ॥ विशेष्यस्येति ॥ केनचिदखण्डार्थत्वे युक्तिरुक्ता– ‘तद्देश-काल विशिष्टस्य एतद्देशकालवैशिष्ट्यं न बोध्यते । येन सखण्डार्थत्वं स्यात् । न च तद्देशकाल-विशिष्टस्यैतद्देश कालवैशिष्ट्याबोधनेन कालद्वयासम्बन्धित्वादस्य क्षणिकत्वापात इति वाच्यम् । सोऽयमित्यादेर्विशेष्यस्वरूपमात्रबोधकत्वाङ्गीकारेण विशेष्य स्वरूपमात्रस्य च कालद्वयसम्बन्धित्वेनोक्त-दोषाभावात् । तथा च विशेष्यमात्रबोधकत्वेनाखण्डार्थत्वम्’ इति ।
एतेनेत्युक्तमेव विशदयति– मयापीति ॥ त्वदुक्तरीत्यैवेति शेषः । न चैतावताऽखण्डार्थत्वापत्तिः । विशेष्ये कालद्वयसम्बन्धमात्रपरत्वेऽपि विशिष्टे तत्परत्वाभावादिति वाच्यम् । नीलोत्पलमित्यादेरपि अखण्डार्थ त्वापातादित्युक्त त्वादिति भावः । ननु सोऽयमिति एकस्मिन्विशेष्ये कालद्वयसम्बन्धबोधन-मप्ययुक्तमेव । देवदत्तस्वरूपमात्रस्य बुभुत्सितत्वेन तस्यैव वक्तव्यत्वात् । अन्यथा प्रश्नोत्तरयोर्वैयधि-करण्यं स्यादित्यत आह– देवदत्तेति ॥ यदुक्तं सोऽयमिति पदद्वयं तत्तेदन्तयोरेकविशेष्यवृत्तित्वबोधने शक्तमिति, तदयुक्तम् । अनुभवकालसम्बन्धरूपतत्ताया अतीतत्वात् । तत्तावाचिनः स इति पदस्य अनुभवकालसम्बन्धे लक्षणैव प्राप्ता न शक्तिरित्याशंक्य निराकरोति– न चेति ॥ घट इति ॥ नष्टो घट इत्यत्रापि घटस्यातीतत्वेन घटपदस्यापि तत्र लक्षणा स्यादिति भावः ॥ स्वार्थात्यागादिति ॥ सोऽयमित्यनेनानुभवकाल सम्बन्धलक्षणतत्तारूपस्वार्थस्य सोयमिति वाक्यप्रयोगकालेऽतीत स्याप्य-त्यागात् । विशेष्यमात्रे तत्तत्सम्बन्धस्य सद्भावादित्यर्थः । अन्यथेत्यस्यैव विवरणं तत्तादेरतात्पर्य-विषयत्व इति ॥ अतीततत्तारूपस्वार्थे तात्पर्याभावे सोऽयमिति वाक्यप्रयोगकाले त्यागे सतीत्यर्थः । न सिद्ध्येत् ततश्च कालद्वयासम्बन्धिदेवदत्तस्वरूपस्य क्षणिकत्वापात इत्यर्थः । एवं तदेतद्देशकालसम्बन्धरूपतत्तेदन्तयोरेकविशेष्यमात्रवृत्तित्वेऽखण्डार्थत्वं नास्तीत्युपसंहरति– तस्मादिति ॥ विशेष्यस्य विशेष्यस्वरूपमात्रस्य ॥ क्रमिकेति ॥ बाल्ययौवनवत् क्रमिकतदेतद्देशकालसम्बन्धद्वय-सद्भावेऽपि तात्पर्यसद्भावात्सखण्डार्थत्वमेवेत्यर्थः ।
समाधानान्तरमुत्प्रेक्षयति– किञ्चेति ॥ त्वदुपन्यस्त इति ॥ ‘ननु सोऽयमित्यत्र’ इत्यादिना त्वदुपन्यस्त इत्यर्थः । ननु कथं न दोषः । तद्देशकालविशिष्टे एतद्देशकालवैशिष्ट्यबोधने तद्देशकालयो-र्विधेयान्वयित्वरूपविशेषणत्वे वक्तव्ये तद्देशकालयोरिदानीं सत्वापात इत्याशङ्क्य तयोरिदानीमभावेऽपि विशेषणत्वमुपपद्यत इत्याशयेन स्वमते विशेषणत्वं निर्वक्ति– तत्तादेरिति ॥ ननु यथा ‘दण्डी देवदत्तः’ इत्यत्र दण्डान्विततया ज्ञात एव दण्डिनि तात्पर्यविषयीभूतस्य देवदत्तत्वस्यादण्डिव्यावृत्तेर्वा बोधो भवतीति दण्डो विशेषणम् । एवं काकान्विततया ज्ञाते गेहे देवदत्तीयत्वान्वयधीर्भवतीति उपलक्षणस्यापि काकस्य विशेषणत्वापत्तिरत उक्तं यदन्विततया ज्ञात एवेति ॥ तत्र काकान्विततया ज्ञात एव नेतरान्वयधीः किन्तु काकस्य गतत्वेन तदुपस्थाप्योत्तृणत्वादिविशिष्ट इति नातिव्याप्तिरिति भावः । एवं च प्रकृते तद्देशकालयोरतीतत्वेऽपि तदन्विततया ज्ञात एव एतद्देशकालान्वयधीर्भवतीति युक्तं तयोरिदानीमभावेऽपि विशेषणत्वमिति ध्येयम् ।
विधेयेति ॥ तथा च न तद्देशकालयोर्विशेषणत्वमिति भावः ॥ अव्याप्तेरिति ॥ शब्दत्वे शब्दविधेय भूतानित्यत्वान्वयाभावादिति भावः ॥ विधेयेति ॥ तथा च शब्दत्वे नाव्याप्तिः । विधेयान्वयकाले सत्वात् । प्रकृते तु विधेयैतद्देशकालान्वयकाले तद्देशकालयोरभावान्न विशेषणत्वमिति भावः ॥ दण्डीति ॥ विधेययोः प्रागभावध्वंसयोः काले दण्डसम्बन्धस्यासत्वादिति भावः ॥ गृहेति ॥ विधेयस्य देवदत्तीयगृहत्वस्य काले विद्यमाने काकादावित्यर्थः ॥ विधेयेति ॥ अवच्छेदकत्वं नाम अन्यूनानधिकदेशकालवृत्तित्वम् । दण्डी देवदत्त इत्यत्र विधेयो यो दण्डिनि देवदत्तत्वान्वयस् तत्प्रति-योगिता दण्डिनि तिष्ठति तदवच्छेदको दण्ड इति भवति दण्डो विशेषणम् । तथा स्वप्रत्याय्या या व्यावृत्तिर् अदण्डिव्यावृत्तिस्तदधिकरणता दण्डिन्यस्ति तदवच्छेदकत्वं दण्डस्यास्ति तथा गृहनिष्ठेऽपि काके विधेयं यद्देवदत्तीयगृहत्वं तदन्वयप्रतियोगित्वं देवदत्तगृहेऽस्ति तदवच्छेदकत्वं तथा स्वप्रत्याय्या या व्यावृत्तिरदेवदत्तगृह व्यावृत्तिस्तदधिकरणतावच्छेदकत्वं चास्तीति विशेषणत्वमेवाभिप्रेतम् ।
एवं च तद्देशकालयोस्तु देवदत्ते विधेयभूतैतद्देशकालान्वयप्रतियोगिता, स्वप्रत्याय्यव्यावृत्त्यधिकरणता चास्ति तदवच्छेदकत्वं नास्ति प्रतियोगित्वव्यावृत्त्योरिदानीमपि सत्वेन तद्देशकालयोश्चेदानीमभावेन तन्न्यूनकालवृत्तित्वादिति ध्येयम् । तद्देशकालयोरप्यवच्छेदकत्वमस्तीत्याशयेनाह– अवच्छेदकत्व-स्येति ॥ कालत्वमिति बहुव्रीहिः ॥ लक्ष्यतेति ॥ सास्नादिमत्पिण्डनिष्ठलक्ष्यतावच्छेदकेष्वित्यर्थः । विशेषणेषु गोत्वादिषु । विधेयभूतगोत्वान्वयप्रतियोगिता यत्रास्ति सास्नादिमत्पिण्डे तदन्यूनानधिक-देशकालवृत्तित्वाद्गोत्वस्य । तथा स्वप्रत्याय्या याऽगोव्यावृत्तिस्तदधिकरणताऽन्यूनानधिकदेशकाल-वृत्तित्वाच्चेत्यर्थः ॥ गौः शुक्लेति ॥ अत्र शुक्लत्वलक्षणस्य गोत्वं न लक्ष्यतावच्छेदकं शुक्लत्वस्य बकादावतिव्याप्तत्वात् । अतोऽत्र गोत्वं न लक्ष्यतावच्छेदकरूपमित्यर्थः । अव्याप्तिमेवोपपादयति– न हीति ॥ विधेयभूतशुक्लान्वयप्रतियोगिताऽशुक्लव्यावृत्तिर्वा यत्र देशे कृष्णायां गवि नास्ति तत्रापि गोत्वस्य विद्यमानत्वेनाधिकदेशवृत्तितयाऽन्यूनानधिकदेशवृत्तित्वरूपावच्छेदकत्वाभावात् ॥ इहापीति ॥ तद्देशकालान्विततया ज्ञात एवैतद्देशकालान्वयधीर्भवत्येवेत्येतादृशावच्छेदकत्वगर्भं विधेयान्वयप्रतियोगिता-वच्छेदकत्वादिरूपमपि विशेषणत्वमस्तीत्याशयः ।
नन्वेतादृशावच्छेदकत्वमपि प्रकृते नास्ति । तथा हि– यथा काकान्विततया ज्ञात एव गृहे न देवदत्तीयत्वादिधीः किन्तु काकोपस्थापितसंस्थानविशेषवत्तया ज्ञात एव, अतो न काकोऽवच्छेदकः, एवं प्रकृतेऽपि तद्देशकालसम्बन्धरूप तत्तोपस्थापित एव देवदत्ते नैतद्देशकालान्वयधीः । किं नाम तत्तोपस्थापितधर्मान्तरवत्तया ज्ञात एव । अतो न तत्ताया अवच्छेदकत्वमित्यत आह– न हीति ॥ स्वप्रत्याय्येति द्वितीयलक्षणाभिप्रायेण ओवदत्तगृहव्यावृत्तिधीवच्च इत्युक्तम् एवमुतरत्रापि ॥ किन्त्विति ॥ प्रकृते तादृशधर्मान्तराभावादिति भावः । ‘संस्थानविशेषः’ आकारविशेषः ॥ तत्रेति ॥ तत्ताविशिष्टे इदन्तासम्बन्धस्य प्रत्यक्षसिद्धत्वाभावेनोपदेश्यत्वेऽपि तत्तोपस्थापितदेवदत्तसंस्थानविशेषवति इदन्त्वादिसम्बन्धस्य प्रत्यक्षत्वेनानुपदेश्यत्वादित्यर्थः ॥ तस्मादिति ॥ विधेयान्वयित्वस्य विधेया-न्वयकाले सत्वस्य च विशेषणत्वाप्रयोजकत्वादित्यर्थः । वर्तमानं गृहनिष्ठं काकादिकम् ॥ सदिति ॥ वर्तमानम् अवर्तमानं वा भवतु यदि समानाधिकरणम् । यदन्विततया ज्ञात एवेत्याद्युक्तलक्षणवच्चेति यावत् । तर्हि तद्विशेषणमेवेति तदर्थः ॥ पक्षत्रयेऽपीति ॥ तत्तान्विततया ज्ञात एवेदन्तान्वयो बोध्यते । इदन्तान्विततया ज्ञात एव तत्तान्वयो बोध्यते । उभयान्विततया ज्ञात एवाभेदान्वयधीरिति तद्देशकालयोरिदानीं सत्वापत्तिरित्यादिदोषो नेत्यर्थः ।
आद्य इति ॥ तत्ताविशिष्टे इदन्तावैशिष्ट्यबोधनपक्षे इदन्तावैशिष्ट्यस्य प्रत्यक्षसिद्धत्वेनानुपदेश्य-त्वात्सोऽयमिति वाक्यं व्यर्थमित्यर्थः । तत्ताविशिष्टे तत्तान्विततया ज्ञाते ॥ साक्षादिति ॥ तत्तेदन्ता-विशिष्टयोरभेदबोधनरूपतृतीयपक्षे यथा साक्षादभेदो लभ्यते । नैवमाद्यद्वितीयपक्षयोः । तत्ताविशिष्टे इदन्तावैशिष्ट्यस्य इदन्ताविशिष्टे तत्तावैशिष्ट्यस्य बोधने त्वभेदोऽर्थादेव लभ्यते न साक्षादित्यर्थः । किमभेदस्य साक्षाद्बोधनेन । यदि परस्य भेदभ्रमनिरासायेदं वाक्यं स्यात् तर्ह्येव स साक्षाद्बोध्यः स्यात् । न चैवम् । किंनाम, पुरोवृत्तिनि एतद्देशकालविशिष्टस्तद्देशकालविशिष्टो न वेत्यभिप्रायेण कोऽयमिति पृष्टे सोऽयमिति वचनेन तत्ताद्यवैशिष्ट्यभ्रमो निवर्तत एवेति भावेनाह– पुरोवर्तिनीति ॥ अयं स वा न वेति ॥ ‘अयम्’ एतद्देशकालविशिष्टः । ‘स वा न वा’ तद्देशकालविशिष्टो न वेत्यर्थः । सोऽयमित्यत्र अयं स इत्युद्देश्यविधेयभावः । यदा तु सो ऽयं न वेत्यभिप्रायेण प्रश्नस्तदापी-दन्ताद्यवैशिष्ट्यभ्रमनिरासाय सोऽयमिति यथास्थित एव उद्देश्यविधेयभाव इति द्रष्टव्यम् ।
अस्तु वा साक्षाद्भेदभ्रमनिरासायैवेदं वाक्यं तर्हि प्रथमद्वितीयपक्षयोरभेदकधर्मस्यैवोक्त्या साक्षाद-भेदानुक्तेः कथं तद्भ्रमनिवृत्तिरित्यत आह– भेदभ्रम इति ॥ अभेदकेति ॥ तद्देशकालविशिष्टस्यै-तद्देशकालवैशिष्ट्यरूपाभेदव्याप्यधर्मेत्यर्थः । किञ्च ‘अभेदस्य बुभुत्सितत्वस्य साक्षादलाभः’ इति वदताऽभेदस्य बुभुत्सितत्वं यद्यङ्गीक्रियते तर्ह्युत्तरत्र सोऽयम् इत्यत्राभेदविशिष्टतयैव बोधनं कार्यम् । अन्यथा तद्बुभुत्साऽनिवृत्तेः । एवं चाभेदरूपसंसर्गपरत्वात्सखण्डार्थत्वमेवेत्याह– अभेदस्येति ॥ तृतीय इति ॥ विशिष्टद्वयमनूद्याभेदमात्रबोधनपक्षे ॥ विशेषणेति ॥ तद्देशकालरूपविशेषणेत्यर्थः । अस्य तर्कस्य व्यभिचारमाशङ्क्य निराकरोति– न चेति ॥ आपादकस्यैवाभावान्न व्यभिचार इत्याह– तत्रापीति ॥ तथा च तत्र वै(वि)शिष्टैक्यमेव नास्तीत्यर्थः ॥ दृष्टान्ताभावादि(ने)ति ॥ यदि विशिष्टैक्यं स्यात्तर्हि विशेषणैक्यं स्यादित्यापादनायोगः ।
धूमवदग्निमतोर्विशेष्यैक्यमात्रेण विशिष्टैक्याभावेन विशिष्टैक्योपेतस्थलस्यैवाभावादित्या शङ्क्य निराकरोति– न चेति ॥ दृष्टान्तोऽस्तीत्याह– अग्निमत इति ॥ विशिष्टैक्ये विशेषणैक्यं स्यादित्येवापाद्यते न तु विशिष्टद्वयैक्ये विशेषणद्वयैक्यं स्यादिति । तत्रायं दृष्टान्तः । अग्निमतोऽग्निमतैक्यं तावदस्ति । स्वस्य स्वेनैक्यसद्भावाद् विशेषणस्याप्येकत्वेन विशेषणैक्यमप्यस्त्येव । प्रकृते तु विशिष्टद्वयमस्तीति तस्यैक्ये विशेषणद्वयस्याप्यैक्यापत्तिरिति भावः । किञ्च न विशिष्टैक्यबोधनं युक्तम् । विशिष्टं हि विशेषणादिसमुदायात्मकम् । समुदायश्च समुदाय्यनतिरिक्तः । एवं च समुदायि रूपविशेषणयोस्तत्तेदन्तयोर्भिन्नत्वेन तदवच्छिन्नसमुदायरूपविशिष्टस्यापि भेद एव । अतस्तदैक्यापादनं व्याहतमित्याह– समुदायीति ॥ विवक्षितत्वादिति ॥ यथा गामानयेत्यत्र गोत्वस्यानयनानन्वयेऽपि गोत्वं तद्व्यक्तौ न परि त्यज्यते तदप्युद्देश्यतावच्छेदकत्वेन विवक्षितमेव । एवं विशिष्टस्य विशेष्याद्यनतिरिक्तत्वेन विशेष्यरूपविशिष्टैक्येऽपि न तद्विशेषणयोरैक्या न्वयः गोत्वस्यानयनेनेव । परन्तु तत्तेदन्तारूपविशेषणे न त्यज्येते । उद्देश्यतावच्छेदकत्वेन विव क्षितत्वादित्यर्थः । तर्हि विशिष्टाभेदो न प्राप्त इति चेत्तत्राह– तस्यैवेति ॥ उद्देश्यतावच्छेदकीभूततत्तादियुक्तविशेष्याभेद एव विशिष्टाभेदशब्दार्थः । न चैतावतोद्देश्यतावच्छेदकस्याप्यैक्यान्वयः । तथा च विशेषणैक्यापादनं न युक्तमिति भावः ।
पदार्थान्तरं विशेषणाद्यतिरिक्तम् ॥ सामानाधिकरण्येति ॥ धूमवत्त्वाग्निमत्त्वरूपभिन्न-प्रवृत्ति-निमित्तकयोर्धूमवद ग्निमच्छब्दयोरेकस्मिन्विशेष्ये वृत्तिरूपसामानाधिकरण्येत्यर्थः । तथा चावयोर्मते व्यभिचारापादनमयुक्तमिति भावः ।
विशेषणभेदस्य विशिष्टैक्यविरोधित्वे इदं रूप्यमित्यत्रापि इदन्त्वरूप्यत्वविशेषणभेदसद्भावेन इदन्त्वरूप्यत्वाधारयो रभेदाप्रतीत्याऽभेदग्रहरूपकारणाभावेन रूप्यार्थिनः पुरोवर्तिनि प्रवृत्तिरेव न स्यादित्याह– अन्यथेति ॥ कुत इत्यत आह– तत्तेति ॥ तथा च तत्तोपलक्षितत्वेदन्तोप-लक्षितत्वरूपविशेषणभेदात्तद्विशिष्टयोरैक्यायोगेन तत्तेदन्तोपलक्षितयो रभेदो बोध्यत इति त्वन्मतमयुक्तं स्यादित्यर्थः । एवं सति पक्षत्रयेऽपि न दोष इति भावः ।
एवं प्रकारद्वयेन समाधानमुक्त्वा रामानुजीयरीत्यापि समाधानमाह– अस्तु वेत्यादिना ॥ एता-वतेति ॥ तत्कालसम्बन्धादेरुपलक्षणमात्रत्वेन विशेष्येऽबोधनादिति भावः । उपलक्षणस्यैव प्रकारत्वेन तद्बोधकतया वाक्यस्य निष्प्रकारकत्वरूपाखण्डार्थत्वाभाव इत्याह– उपलक्षणस्येति ॥ ‘प्रकारान्तरं’ संस्थानविशेषरूपम् ॥ अन्यस्येति ॥ इदन्ताविशिष्टस्योपलक्षणीभूततत्कालसम्बन्धादिबोधनेनेदन्त्वस्यैव प्रकारस्य सत्वादित्यर्थः । ननु तत्तादेरुपलक्षणत्वे तद्वाचिनस्तत्तादिपदस्य लाक्षणिकत्वं स्यात् । तयोरैक्यात् । तथा च जघन्यवृत्त्या वाक्यार्थवर्णनम् अयुक्तमित्यत आह– वृत्तीति ॥ पदवृत्ति-विशेषेत्यर्थः । तथा च लक्षणायाः पदधर्मत्वादुपलक्षणत्वस्य चार्थगतत्वान्न तयोरैक्यमिति भावः । अर्थस्योपलक्षणत्वेऽपि शब्दस्य मुख्यत्वदर्शनाच्च न तयोरैक्यमित्याह– दृश्यते हीति ॥ अभावः प्रागभावादिः । भिन्नविभक्त्यन्तपदवाच्यत्वाज्जटानामुपलक्षणत्वमिति ध्येयम् । अलाक्षणिकत्वं स्वार्थवाचकत्वमेवास्तीत्यर्थः । शब्दस्य लाक्षणिकत्वेऽप्यर्थस्य विशेषणत्वदर्शनाच्च न तयोरैक्यमित्याह– दृश्यते चेति ॥ अनुपलक्षणत्वमिति ॥ दण्डे विशेषणताया एव सर्वैरङ्गीकारादिति भावः ।
उपलक्षणत्वलक्षणयोरैक्यमङ्गीकृत्य उपलक्षणपरपदे लक्षणामङ्गीकृत्याप्याह– वरं चेति ॥ त्वया तत्तेदन्ताशब्दयोरुभयोरपि लाक्षणिकत्वम् अङ्गीकृतम् । अतस्तल्लज्जाकरम् । मया तु इदन्ताविशिष्टस्य तत्तोपलक्षिताभेदाङ्गीकरेण एकस्य पदस्य मुख्यत्वमङ्गीकृत्यापरस्यैकस्यैव पदस्य लाक्षणिकत्वाङ्गी-कारादिदमेव वरमित्यर्थः । किञ्चोपलक्षणस्य काकादेः कदाचित्स्वसम्बद्धगृहं प्रत्युपलक्षकत्वं दृष्टम् । इदन्ताविशिष्टे तत्ता उपलक्षणं चेत् कदाचिद्वा इदन्ताविशिष्टे तत्तासम्बन्धेन भाव्यम् । तत्ताविशिष्टे इदन्ता उपलक्षणं चेत्तत्ताविशिष्टे कदाचिद्वा इदन्तासम्बन्धेन भाव्यं, न च तदस्तीत्यतो न तयोर्मध्य एकस्योपलक्षणत्वपक्षो युक्त इत्याशङ्क्य निराकरोति– न चेति ॥ ते प्रतीति ॥ इदन्ताविशिष्टस्वरूपं तत्ताविशिष्टस्वरूपं च प्रतीत्यर्थः । तयोर् इदन्ताविशिष्टतत्ताविशिष्टस्वरूपयोः । ताभ्यां तत्तेदन्ताभ्याम् ॥ विशेष्यद्वारेति ॥ विशिष्टयोर्भेदेऽपि इदन्ताविशिष्टे यद्विशेष्यं देवदत्तस्वरूपं तत्र तत्तासम्बन्धात् स्वविशेष्यसम्बद्धत्वरूपम् इदन्ताविशिष्टस्य तत्तया सह सम्बन्धोऽस्त्येव । एवं तत्ताविशिष्टस्याप्युक्त-रीत्या विशेष्यद्वारकपरम्परासम्बन्धोऽस्त्येवेत्यर्थः ।
नन्वेवं तत्ताविशिष्टेदन्ताविशिष्टयोस्तत्तेदन्ताभ्यामुक्तरीत्या परम्परासम्बन्धेऽपि साक्षात् सम्बन्ध-स्यैवोपलक्षणत्वे तन्त्रत्वेन तस्यात्राभावात्कथमुपलक्षणत्वमित्यत आह– परम्परेति ॥ उपलक्ष्य-सम्बन्धित्वमेवोपलक्षणस्यापेक्षितं न तु साक्षात् । गौरवादित्यर्थः । अस्तु वेत्यादिना विशिष्टमुद्दिश्योप-लक्षणसम्बन्धादिर्विधीयतामित्युक्तम् । इदानीं तूप लक्षितमुद्दिश्य विशेषसम्बन्धो विधीयताम् । अतोऽपि न दोष इत्याह– यद्वेति ॥ एतत्पक्षोपरि शङ्कते– नन्विति ॥ विशेष्य इति ॥ इदन्तोपलक्षित-तत्तारूपविशेषणान्तरन्वयात् तत्तोपलक्षिते वा इदन्तारूपविशेषणान्तरान्वयादित्यर्थः ॥ अभेदपक्षौ त्विति ॥ इदन्तोपलक्षितस्य तत्ताविशिष्टाभेदः, तत्तोपलक्षितस्य इदन्ताविशिष्टाभेद इत्यभेदपक्ष-वित्यर्थः । कुतो न युक्तावित्यत आह– अनुवृत्तेति ॥ अनुगतेत्यर्थः । इदन्तोपलक्षितस्यानुगतस्य विशेष्यमात्रस्य तत्ता विशिष्टेन व्यावृत्तेनाभेदो न सम्भवति । एवं तत्तोपलक्षितस्य विशेष्यस्यानुगतस्य व्यावृत्तेनेदन्ताविशिष्टेनाभेदो न सम्भवतीत्यर्थः । अनुवृत्तव्यावृत्तयोरभेदायोगादित्ययुक्तम् । व्यावृत्ताग्नि-मत्वसत्वासत्वदशायां व्यावृत्तव्यक्तिसदसद्भावदशायां व्यावृत्तघटसदसद्भावदशायामप्यनुगतानां पर्वत-जातिमृदां तैरभेददर्शनाद्व्यभिचार इत्यत आह– अनुवृत्तेति ॥
ननु अग्निमद्व्यक्तिघटैः पर्वतादीनां नाभेदः । मयाऽयुतसिद्धमङ्गीकृत्य समवायाङ्गीकारेणाभेदाभावात् ‘अग्निमान्’ इत्यत्राग्निसंयोगवानित्यर्थः । एवं च जातिव्यक्त्योरिव मृद्धटयोरिव च पर्वताग्निसंयोगयोरपि समवाय एव सम्बन्धः । एवं च न व्यभिचार इत्यत उक्तं समवायेति ॥ यत्र त्वया समवायोऽङ्गी-क्रियते तत्र मया भेदाभेदाङ्गीकारादित्यर्थः ॥ अन्यथेति ॥ विशेष्यस्य विशिष्टेनाभेदानङ्गीकारे पर्वतोऽग्निमानित्यत्र पर्वतेऽग्निसंसर्गः सिद्ध्यतीति सर्वसम्मतम् । तन्न स्यात् । विशेष्यस्य पर्वतस्य विशिष्टादग्निमतः सकाशाद्भेदाङ्गीकारे लैङ्गिकी धीर् अनुमितिर् निर्विकल्पिका पर्वतस्याग्निसंसर्गा-विषयिणी स्यादित्यर्थः । अत्र प्रसिद्धं संसर्गाविषयकत्वप्रयुक्तं निष्प्रकारकत्वरूपनिर्विकल्पकत्वं नापाद्यम् । किं नाम संसर्गाविषयकत्वमात्रमेव । अन्यथा पर्वतोऽग्निमानित्यत्र पर्वतत्वाधारः पर्वतोऽग्नि-मानिति हि प्रतीयते । तथा चात्र संसर्गाविषयकत्वेऽपि पर्वतत्वरूपप्रकारस्यैव प्रतीत्योक्तनिर्विकल्प-कत्वापादनायोगादिति मन्तव्यम् ।
नन्विदन्तोपलक्षिततत्ताविशिष्टयोर्भिन्नत्वात्तयोरभेदबोधनं न युक्तमित्यत आह– केवलेति ॥ भेदवति अभेदबोधनाद्बिभ्यता तत्ताद्युपलक्षिते विशेष्ये देवदत्ते अभेदो बोध्यत इति कथमङ्गीकर्तुं शक्यम् । देवदत्तपिण्डेऽपि भेदसद्भावादित्यर्थः । तदुपपादनयोक्तं परिणामिनीति ॥ प्रतिक्षणं विकारवतीत्यर्थः । तत्र भेदसद्भावेऽप्यभेदबोधनं युक्तम् । मया भेदाभेदाङ्गीकारेण केवलभेदानङ्गी-कारादिति यदि ब्रूयात् तर्हि प्रकृतेऽपीदं समानम् । इदन्तोपलक्षिततत्ता विशिष्टयोरपि भेदाभेदाङ्गीकारेण केवलभेदानङ्गीकारादिति भावः । पूर्वम् एकस्य विशेषणत्वम् अपरस्योपलक्षणत्वम् इत्यभिप्रेत्योपपादनं कृतम् । इदानीं तूभयोरप्युपलक्षणत्वमभिप्रेतमित्याह– यद्वेति ॥ ननु तत्तेदन्तयोरुभयोरप्युपलक्षण त्वाङ्गीकारे विशेष्यमात्राभेदबोधनप्राप्त्याऽखण्डार्थत्वापत्तिरित्यत आह– न चेति ॥ इत्युक्तमिति ॥ तत्तोपलक्षितत्वादेरेव प्रकारत्वादिति भावः । स्वोत्प्रेक्षितमर्थं मूलारूढं करोति– तदेतदिति ॥ उक्तमिति ॥ तत्वोद्योते भगवत्पादैरित्यर्थः ॥ अनित्येति ॥ ‘अनित्याभ्याम्’ इदानीम् अविद्य-मानाभ्यां देशकालाभ्यां स्वकाले यः सम्बन्धस् तद्देशकालोपलक्षितत्वादि रूपः, तस्य देवदत्ते सत्वात् ‘सोऽयं देवदत्तः’ इत्यादिवाक्यं तत्वमस्यादिवाक्यस्याखण्डार्थतायाम् उपमा दृष्टान्तो न भवति’ इत्यर्थो द्रष्टव्यः ।
एवं चेति ॥ तथा च तद्देशकालध्वंसविशिष्टे एतद्देशकालवैशिष्ट्यं बोध्यते तद्देशकालध्वंसरूप-तत्ताया इदानीं सत्वेन विधेयान्वयित्वरूपविशेषणत्वस्यैव सत्वेनोक्तदोषाभावात् । तथा एतद्देशकाल-विशिष्टस्तद्देशकालध्वंसविशिष्टस् तद्देशकालध्वंसविशिष्ट एतद्देशकालविशिष्टश्चाभिन्न इत्येवं पक्षत्रयाङ्गी-कारोऽपि न दोष इत्यर्थः ॥ वस्तुस्थितीति ॥ वस्तुगत्या तद्देशकालध्वंस एव तत्तेति स्वमते वस्तुस्थितिप्रदर्शनार्थमेवोक्तं न तु ‘सोऽयम्’ इति वाक्यस्य सखण्डार्थत्वायेत्यर्थः ॥ सामानाधि-करण्यमात्रमिति ॥ दैशिकं सामानाधिकरण्यमित्यर्थः ॥ समानकालिकत्वमिति ॥ इदन्ताया-स्तद्देशकालध्वंसस्य च कालिकमपि सामानाधिकरण्यमिति प्रदर्शनार्थं चेत्यर्थः । तर्हि सोऽयमिति वाक्यस्य कथं सखण्डार्थत्वमुपपादनीयमित्यत आह– उक्तरीत्येति ॥ अस्मदुक्तपक्षत्रयेणेत्यर्थः ॥ तद्देशेति ॥ मधुरासम्बन्धः काशीसम्बन्धो ऽष्टमीसम्बन्धः पौर्णमासीसम्बन्ध इत्यादिपरोदाहृतवाक्यम् । एतेन तद्देशकालसम्बन्ध एतद्देशकालसम्बन्ध इत्यत्रापि तत्तेदन्तयोः प्रवेशात्कथं टीकोक्तप्रकारा-प्रसरोक्तिरिति शङ्कानवकाशः । अत्रत्ययोस्तदेतत्पदयोर्देशकालविशेषार्थत्वादिति ध्येयम् ।
अयमर्थः– परेण तत्वमस्यादिवाक्यस्याखण्डार्थत्वे सोऽयमित्येवं तत्तेदन्ते विहाय मधुरासम्बन्ध इत्याद्युदाहृतम् । तत्र मधुरादेशसम्बन्धे काशीसम्बन्धबोधने मधुराया अपि काशीसम्बन्धापत्तिः । एवं वैपरीत्येनापि द्रष्टव्यम् । एवम् अष्टमीकालसम्बन्धस्य पौर्णमासीकालसम्बन्धबोधने अष्टमीकालस्यापि पौर्णमासीकालसम्बन्धापत्तिः । अतो लक्षणया विशेष्यैक्यमात्रपरत्वमेवेति परेणोदाहृतमस्ति । तत्रास्मदुक्तप्रकारः सम्भवति । मधुराष्टमीरूपदेशकालोपलक्षिते काशीपौर्णमासीरूपदेशकालसम्बन्धेन उपलक्षणादिरूपप्रकारयुक्तत्वेन सखण्डार्थत्वमुपपद्यते । अत्र च तत्तादेरनुप्रवेशाभावेन तद्देशकालध्वंस-मादायोपपादनाप्रसारादिति ध्येयम् । अस्त्वेवं तत्वोद्योतटीका वस्तुस्थितिकथनपरेति । तत्र तत्ता नाम किं भवदुक्तरीत्या अनुभवकालसम्बन्ध उत अनुभवकालध्वंस इति चिन्तायां टीकोक्तमेव तत्ता-स्वरूपं साध्वित्याह– युक्तं चेति ॥ अन्यथेति ॥ अनुभवकालसम्बन्धस्यैव तत्तात्व इत्यर्थः ॥ पूर्वकालेति ॥ पूर्वकालस्य वस्तु विषयेऽनुभवेऽपीत्यर्थः ॥ स्यादिति ॥ अनुभवकालसम्बन्ध-रूपतत्तायाः सत्वादित्यर्थः ।
ननु स्मृतेः संस्कारजन्यत्वात्तत्तोल्लेखित्वम् । अनुभवस्य तदजन्यत्वात्तत्तानुल्लेखित्वमिति कारण-कृतवैषम्यस्यापि सत्वादित्यत आह– स्मृत्यनुभवयोरिति ॥ सतः विद्यमानस्य ॥ विषयकृतेति ॥ अर्थविषयीकरणकृत वैषम्याभावादित्यर्थः । यद्यपि स्मृत्यनुभवयोः कारणकृतवैषम्यमस्ति तथाप्यनुभवकाले विद्यमानकालस्य स्मृतिकाले वस्तुगत्याऽतीतत्वेऽपि तत्रातीतत्वं स्मृतौ त्वन्मते न भासते । अतीतत्वस्य तत्ताशब्दार्थत्वाभावात् प्रत्युत सन् घट इति स्मृतौ त्वन्मतेऽनुभवकालसम्बन्ध एव प्रतीयते । स चानुभवेऽप्यस्तीति स्मृत्यनुभवयोरर्थविषयीकारित्वांशे वैषम्याभावेन स्मृताविवानुभवेऽपि तत्तोल्लेखः स्यादेवेति भावः । नन्वनुभवकालध्वंसस्तत्तेति मते यद्यपि न स्मृताविवानुभवेऽपि तत्तोल्लेखस्तथापि स्मृतौ तत्ताभानं न सम्भवति । अननुभूतत्वात् । तन्मते चानुभवकालसम्बन्धस्यैव तत्तात्वात्तस्य च वस्तुगत्याऽतीतत्वस्याभानाद् अनुभवविषयीकृतपूर्वकालसम्बन्धरूपतत्ताविषयकत्वं स्मृतेर्युक्तमित्यत आह– तत्तामात्रे चेति ॥ अतिप्रसङ्ग इति ॥ घटस्मृतौ न तावत्तत्तैव विषयः, अपि तु पटोऽपि विषयः स्यात् । अननुभूतत्वाविशेषाद् इत्यतिप्रसङ्ग इत्यर्थः ।
अनुभवेति ॥ अननुभूतोऽप्यनुभवकालध्वंस एव प्रतीयते नान्यः । कुतः । अनुभवकाल-ध्वंसत्वादेव । न च घटकालेऽपि प्रतीयतामिति वाच्यम् । स्मृतिविषयकानुभवरूपाऽनुव्यवसायेन स्मृतावनुभूतकालध्वंसस्याननुभूतस्यापि विषयीकरणेनाननुभूतैतावन्मात्रविषयकत्वस्येष्टत्वादिति भावः ॥ पूर्वकालेति ॥ अनुभवकालेत्यर्थः । कुतो वक्तव्यमित्यत आह– तत्रेति ॥ उल्लेखादिति ॥ तथा चैतन्मते भूतत्वविषयकत्वमिव अनुभवकालध्वंसस्तत्तेति मतेऽपि स्मृतेरननुभूतविषयकत्वमिष्ट-मेवेत्यर्थः ॥ पूर्वकालेति ॥ पूर्वघटिकाध्वंसविशिष्टो देवदत्तो मध्ये या द्वितीयघटिका तस्यामस्ति । तृतीयघटिकाख्यैतत्कालसम्बन्धरूपेदन्ताविशिष्टस्तु मध्ये नास्तीति कथं तयोरभेद इत्यर्थः । तयोस् तत्तेदन्ताविशिष्टयोः । तत्प्रागभाव एतत्कालसम्बन्धप्रागभावः । इदानीं सत्वेऽपि तृतीयघटिकायां सत्वेऽपीत्यर्थः ॥ एतत्कालेति ॥ तृतीयघटिकाप्रागभावविशिष्टस्य तृतीयघटिकायाम् अभावादित्यर्थः ।
अनुवृत्तेति ॥ पूर्वकालध्वंसविशिष्टस्यानुवृत्तत्वेऽपि इदन्ताविशिष्टस्य व्यावृत्तस्य मध्येऽभावेऽपि व्यावृत्तानु वृत्तयोरैक्यं मृद्धट इत्यादावस्त्येव । अथवा पूर्वकालध्वंसविशिष्टेदन्ताविशिष्टयोर्नैक्यं, किंनाम विशेष्यमात्रैक्यमेव । तच्च मध्येऽप्यस्ति । न च विशेषणयोस् त्यागाद् अखण्डार्थत्वमिति वाच्यम् । विशेष्यमात्रैक्येऽपि उद्देश्यतावच्छेदकत्वेन तत्तादेर्विशेषणत्वस्य समर्थितत्वादित्यर्थः । ‘न चायमिति प्रागभावः’ इति टीकाकारैरुक्तत्वेन पूर्वकालध्वंसविशिष्टस्येदानीं सत्वेऽप्येतत्कालप्रागभावविशिष्टस्येदानीम् अभावात्कथमिति वाच्यम् । यथा हि– प्रध्वंसो हि तथोच्यत इति तत्ताया अनुभवकालध्वंसरूपत्वम् अङ्गीकृत्य उक्तपक्षत्रयेऽपि दोषाभावोपपादनम् एवम् अयमिति प्रागभाव इत्येवमिदन्त्वस्यापि एतत्कालसम्बन्धप्रागभावरूपत्वम् अङ्गीकृत्यापि पक्षत्रये दोषाभावादित्याशयात् । इदन्ताया एतद्देशकालप्रागभावरूपत्व विवक्षायां तत्ताया ध्वंसरूपत्वं न विवक्षितं किंनाम अनुभवकाल-सम्बन्धरूपत्वमेव । एवं तत्ताया ध्वंसरूपत्वविवक्षायाम् इदन्त्वम् एतत्कालप्रागभावरूपत्वेन न विवक्षितम् । तथा च तत्ताया ध्वंसरूपत्वम् अङ्गीकृत्य पूर्वकालध्वंसविशिष्टस्य इदानीं सत्वाभिप्राये इदन्त्वं नामैतत्कालसम्बन्धरूपत्वेन विवक्षितमिति न दोष इति ध्येयम् ।
न्यायकल्पलता
(एतावत्पर्यन्तं कल्पलता लुप्ता) तद्देशकालसम्बन्धस्य तत्तात्वे बाधकमाह– अन्यथेति ॥ तद्देशकालसम्बन्धस्य तत्तात्वे ॥ स्मृत्यनुभवयोरिति ॥ तयोः कारणकृतस्य वैषम्यस्य सत्त्वेऽपि तद्विषये च सत्त्वासत्त्वरूपवैषम्यसत्त्वेऽपि स्मृत्यनुभवगतेऽर्थविषयीकारित्वांशे वैषम्याभावादित्यर्थः । न च संस्कारजन्यत्वेन तत्तोल्लेख इति वाच्यम् । लिङ्गकरणतापक्षे संस्कारलिङ्गकानुमितौ तत्तोल्लेखापातात् । तत्तास्मृतिरेव प्रत्यभिज्ञायां हेतुर्न संस्कार इति मते तदभावाच्च ॥ तत्तामात्रे चेति ॥ अनुभवकालसम्बन्धध्वंसस्याननुभूतस्यापि भानादित्यर्थः । ‘अतीतानागतौ कालौ’ इत्यनु-व्याख्यानोक्तेः ।