०२ सत्यज्ञानादिवाक्यानाम् अखण्डार्थत्वानुमानभङ्गः

आद्यानुमाने चाप्रसिद्धविशेषणत्वं प्रत्यक्षादिनापीदमित्थमिति..


१. सत्यज्ञानादिवाक्यानाम् अखण्डार्थत्वानुमानभङ्गः

न्यायामृतम्

आद्यानुमाने चाप्रसिद्धविशेषणत्वं प्रत्यक्षादिनापीदमित्थमिति सप्रकारक-ज्ञानस्यैवोत्पत्तेः । असिद्धिश्च, सत्यत्वज्ञानत्वादेः परापरजातित्वे तस्या ब्रह्मण्यपि सत्वेनातिव्याप्तेः । अजातित्वेऽपि ब्रह्मण्यपि तस्यातात्त्विकस्य धर्मिज्ञानाबाध्यस्य चाऽसम्भवाद्, अतात्त्विकस्य व्यावहारिकस्य चानात्मन्यपि सत्त्वात् । विरुद्धत्वं च, असाधारणधर्मरूपलक्षणपरवाक्यत्वस्य सखण्डार्थत्वेनैव व्याप्तेः । न च स्वरूपलक्षणस्य लक्ष्यानतिरेकात्तत्परत्वम् अखण्डार्थत्वाविरोधि, तस्य लक्ष्यमात्रत्वे लक्ष्यलक्षणभावा-योगाद्, अतिरेकेऽपि यावल्लक्ष्यभावित्वादिनैव स्वरूपलक्षणत्वोपपत्तेश्च । न च द्वारत्वेन लक्षणपरत्वं द्वारिणोऽखण्ड(ण्डार्थ) त्वाविरोधि, वक्ष्यमाणरीत्या लक्षणात्प्रागेव सामान्यतो ज्ञाते स्वरूपमात्रे तस्य द्वारत्वायोगात् । न च लक्षणपरत्वं न हेतुः किंत्वतत्परत्वेऽपि तत्प्रत्यायकत्वमात्रमिति वाच्यम्, अलक्षणवाक्यस्यापि तात्पर्यभ्रमादिना लक्षण-प्रत्यायकत्वसम्भवेन व्यभिचारात् सखण्डवनादिलक्षणवाक्ये, किं चन्द्रलक्षणमित्य-साधारणधर्मप्रश्नोत्तरे प्रकृष्टादिवाक्ये च व्यभिचारश्च । न चाखण्डलक्षणवाक्यत्वं हेतुः, असिद्धेः ।

न च धर्मे पृष्टे स्वरूपमात्रं वक्तुमुचितम् । न च प्रश्नविशेष्यविशेष्यकत्वम् उत्तरत्वे तन्त्रम्, किन्तु तन्मूलसंशयविरोधित्वम् । बाधश्च, धर्मिज्ञानाधीनसप्रकारकसंशयादि-निवर्तकं मोक्षहेतुं सप्रकारकं ब्रह्मज्ञानं प्रति साधनत्वेन वेदान्तविचारविधानान्यथानु-पपत्त्या बलवत्या वेदान्तवाक्ये साध्याभावनिश्चयात् । सत्प्रतिपक्षत्वं च, सत्यादि-वाक्यतात्पर्यविषयः संसृष्टरूपः संसर्गरूपो वा प्रमाणवाक्यतात्पर्यविषयत्वात् सम्मतवत् । सत्यादिवाक्यं स्वतात्पर्यविषयज्ञानाबाध्यसंसर्गपरम्, स्वतात्पर्यविषयज्ञानाबाध्यस्वकरणक-प्रमितिविषयपदार्थनिरूप्यसंसर्गपरं वा, प्रमाणवाक्यत्वात्, ज्योतिष्टोमादिवाक्यवत् । विषं भुंक्ष्वेत्यादौ वाच्यार्थसंसर्गपरत्वाभावेऽप्युक्तसाध्यसद्भावान्न व्यभिचारः । खं छिद्रं, कोकिलः पिक इत्यादावपि अनतिभिन्नार्थत्वे सामानाधिकरण्यायोगेन छिद्रकोकिलादीनां खपिकादिशब्दवाच्यत्वसंसर्गपरत्वान्न तत्रापि व्यभिचारः । यद्वा वेदान्तजन्यप्रमा सप्रकारिका, विचारजन्यज्ञानत्वात्, संशयविरोधित्वाच्च, कर्मकाण्डजन्यज्ञानवत् । वेदान्तजन्या प्रमा ब्रह्मनिष्ठप्रकारविषया, ब्रह्मधर्मिकसंशयविरोधिज्ञानत्वाद्, ब्रह्मविचार-जन्यज्ञानत्वाच्च, यदेवं तदेवं यथा कर्मकाण्डविचारजन्यनिश्चय इत्यादिना प्रतिरोधात् ।

अद्वैतसिद्धिः

एवं लक्षणसम्भवे प्रमाणसम्भवोऽपि । तथा हि– ‘सत्यादिवाक्यम् अखण्डार्थनिष्ठं ब्रह्मप्राति-पदिकार्थनिष्ठं वा लक्षणवाक्यत्वात्, तन्मात्रप्रश्नोत्तरत्वाद्वा, प्रकृष्टप्रकाशश्चन्द्र इति वाक्यवत्’ इति पदार्थविषयाखण्डार्थत्वानुमानम् । ‘तत्त्वमस्यादिवाक्यम् अखण्डार्थनिष्ठम् आत्मस्वरूपमात्रनिष्ठं वा, अकार्यकारणद्रव्यमात्रनिष्ठत्वे सति समानाधिकरणत्वात्, तन्मात्रप्रश्नोत्तरत्वाद्वा, सोऽयमित्यादिवाक्यवत्’ इति वाक्यार्थविषयाखण्डार्थत्वानुमानम् । न च सत्यादिवाक्ये तन्मात्रप्रश्नोत्तरत्वमसिद्धम् । ‘ब्रह्म-विदाप्नोति परम्’ इति ब्रह्मवेदनस्यैवेष्टसाधनतया तन्मात्र एव बुभुत्साऽतस्तन्मात्रस्यैव प्रश्नविषयत्वात् । न च प्रकृष्टादिवाक्ये साध्यवैकल्यम् । तद्वाक्यं पक्षीकृत्य तन्मात्रप्रश्नोत्तरत्वेन चन्द्रमात्रनिष्ठतायाः सामान्यव्याप्तिमवलम्ब्य साधनात् । एवं तत्त्वमस्यादिवाक्येऽपि तन्मात्रप्रश्नोत्तरत्वं नासिद्धम्, ‘कोऽहम्’ इत्यात्मस्वरूपस्यैव प्रश्नविषयत्वेन तदधिकप्रत्युक्तेरयुक्तेः । नाप्यत्र दृष्टान्तासिद्धिः । देवदत्तस्वरूपमात्रे पृष्टे अस्य प्रवृत्तेः । न चाप्रयोजकत्वम् । प्रश्नोेत्तरयोर्वैयधिकरण्यापत्तेः । विपक्षबाधकतर्कस्य विद्य-मानत्वात् । न च संसर्गागोचरप्रमितिजनकत्वं साध्यम् अप्रसिद्धम् । प्रत्यक्षादिनापि इदमित्थमिति विशेषसंसर्गगोचराया एव प्रमितेर्जननादिति वाच्यम् । निर्विकल्पकस्वीकर्तॄणां तस्मिन्नेव प्रसिद्धेः । इतरेषां तु ‘प्रमात्वं संसर्गागोचरवृत्ति सकलप्रमावृत्तित्वात्, अभिधेयत्ववत्’ इति सामान्यतस्तत्प्रसिद्धेः । यद्यप्यत्राप्यप्रयोजकत्वं सम्भाव्यते तथापि सन्देहरूपा साध्यप्रसिद्धिर्न दुर्लभा । वस्तुतस्तु प्रकृष्टादिवाक्य एव तत्प्रसिद्धिर्दर्शिता ।

न च लक्षणवाक्यत्वं सत्यादिवाक्येष्वसिद्धम् । सत्यत्वादेः परापरजातितया तस्याश्चान्यत्रापि विद्यमानत्वेनासाधारण्याभावात् । न च– तात्त्विकं तद् ब्रह्मणि । औतश्रुतिविरोधात् । अतात्त्विकं त्वन्यत्रापि तुल्यमिति वाच्यम् । परमार्थसत्यादिरूपताया ब्रह्मस्वरूपलक्षणत्वात् । अस्मन्मते यद्यपि सत्याद्यन्यतमपदं स्वरूपलक्षणपरम्, ब्रह्मणोऽन्यस्य तदभासत्वात् तथापि परैरपि सत्यत्वस्य सत्यत्वे सति ज्ञानत्वस्य सत्यत्वे सत्यानन्दत्वस्य शून्यवादिभिरपि सत्त्वरहितज्ञानानन्दात्मकत्वस्य ब्रह्मणोऽ-न्यत्राङ्गीकारान्मिलितं विना न निर्विचिकित्सब्रह्मसिद्धिरिति मिलितं लक्षणम् । न चैवं विशिष्टस्य लक्षणत्वे सखण्डार्थत्वप्रसङ्गः । वाच्यस्य सखण्डार्थत्वेऽपि लक्ष्यस्याखण्डत्वात् । यद्यपि सर्वेषां सत्यादिपदानां लक्ष्यमेकमेव निर्विशेषं ब्रह्म, तथापि निवर्तनीयांशाधिक्येन न पदान्तरवैयर्थ्यम् । अतो वाच्यार्थवैशिष्ट्यस्याखण्डसिद्धावुपायत्वान्न तद्विरोधिता ।

नन्विदं विरुद्धम् । असाधारणधर्मरूपलक्षणपरवाक्यस्य सखण्डार्थत्वनियमादिति चेन्न, सर्वलक्षणवाक्यानां स्वरूपमात्रपर्यवसायित्वेन नियमासिद्धेः । धर्मलक्षणस्याखण्डत्वविरोधित्वेऽपि स्वरूपलक्षणस्य तदविरोधित्वाच्च । न चाभेदे लक्ष्यलक्षणभावायोगः । अन्तःकरणवृत्तिनिबन्धनाकारभेदेन उभयोपपत्तेर् आवृतत्त्वानावृतत्ववत् । अन्यथा स्वरूपलक्षणतटस्थलक्षणविभागो न स्यात् । न च यावद्द्रव्यभावित्वाभावित्वाभ्यां व्यवस्था । तावता हि स्थायित्वास्थायित्वव्यवस्था स्यात्, न तु स्वरूपादिरूपा । तव मते पार्थिवरूपादौ स्वरूपलक्षणेऽव्याप्तेश्च । ब्रह्मणि यावद्द्रव्यभाविधर्मविरहाच्च । वस्तुतस्तु द्वारत्वेन लक्षणे तात्पर्यं न द्वारिणोऽखण्डार्थत्वं विरुणद्धि । न च– स्वरूपज्ञानस्य प्रागेव सामान्यतो जातत्वात् तज्ज्ञाने नैतद्द्वारापेक्षेति वाच्यम् । ज्ञानमात्रेऽस्य द्वारत्वाभावेऽपि संशयादि-निवर्तकैतज्ज्ञाने तद्द्बारापेक्षणात् । न च सखण्डवनादिलक्षणवाक्ये व्यभिचारः । तत्रापि साध्यसत्त्वस्य व्युत्पादनात् । न च ‘किं चन्द्रलक्षणम्’ इत्यसाधारणधर्मप्रश्नोत्तरे प्रकृष्टप्रकाशादिवाक्ये व्यभिचारः । तत्र हि न चन्द्रस्वरूपपरत्वं किन्तु प्रकर्षाश्रयो यः प्रकाशस् तत्स्वरूपपरत्वम् । तथा च प्रकर्षोप-लक्षितप्रकाशव्यक्तिस्वरूपमात्रप्रतिपादकत्वेन तत्राप्यखण्डार्थत्वाविरोधात् । अत एव धर्मे पृष्टे चन्द्रस्वरूपं वक्तुं नोचितमिति निरस्तम् । धर्मस्यैव स्वरूपत उक्तत्वात् । अन्यथा प्रश्नोत्तरयोर्वैयधि-करण्यापत्तेः ।

ननु– इदं बाधितम् । धर्मिज्ञानाधीनसप्रकारकसंशयादिनिवर्तकं मोक्षहेतुं सप्रकारकज्ञानं प्रति साधनत्वेनवेदान्त विचारविधानान्यथानुपपत्त्या वेदान्तवाक्ये साध्याभावनिश्चयादिति चेन्न, अनृतादि-प्रतिषेधकव्यावृत्ताकारज्ञानेनैव अनृतादिसंशयादिनिवृत्त्युपपत्तेरन्यथासिद्धत्वात् । न हि सप्रकारकत्वमात्रं तत्र तन्त्रम् । भ्रमकालीनानुवृत्ताकारज्ञानस्य सप्रकारकत्वेन संशयादिनिवर्तकत्वे भ्रमकथैवोच्छिद्येत । ज्ञानस्याज्ञानसमविषयत्वेनैव तन्निवर्तकत्वम्, न तु समानप्रकारकत्वेनापि । गौरवात् । अज्ञानविषयश्च शुद्धं ब्रह्म । अज्ञानकल्पितस्य तदितरस्य अज्ञानविषयत्वायोगात् । तथा च शुद्धब्रह्माकारा चित्तवृत्तिर् निष्प्रकारिकैवाज्ञाननिवर्तिका । प्रकारमात्रस्याविद्याकल्पितत्वेन तद्विषयतायां वृत्तेरविद्यासमविषयत्वा-भावात् । यथा चाविद्यातत्कार्यविषयं ज्ञानं तदनिवर्तकं तथा व्युत्पादितं प्राक् । द्रव्याद्याकारज्ञानानां च घटाद्याकारत्वस्यानुभवनिरस्तत्वान्न द्रव्याद्याकारज्ञानेन घटाद्याकाराज्ञाननिवृत्तिप्रसङ्गः । द्रव्यत्व-घटत्वयोर्भेदेन विषयभेदाच्च । यथा च समानप्रकारकत्वमादायापि न निस्तारस् तथा प्रतिपादित-मस्माभिर्वेदान्तकल्पलतिकायामिति दिक् ।

ननु– अस्तु सत्प्रतिपक्षः । तथा हि– ‘सत्यादिवाक्यतात्पर्यविषयः संसृष्टरूपः संसर्गरूपो वा प्रमाणवाक्यतात्पर्यविषयत्वात्, सम्मतवत्’, ‘सत्यादिवाक्यं स्वतात्पर्यविषयज्ञानाबाध्यसंसर्गपरं स्वतात्पर्यविषयज्ञानाबाध्यस्वकरणप्रमाविषय पदार्थनिरूप्यसंसर्गपरं वा प्रमाणवाक्यत्वात्, अग्निहोत्रादि-वाक्यवत् । ‘विषं भुङ्क्ष्व’ इत्यादौ वाच्यार्थसंसर्गपरत्वाभावेऽपि स्वकरणकप्रमाविषयपदार्थसंसर्गपरत्वान्न व्यभिचारः । ‘खं छिद्रं कोकिलः पिकः’ इत्यादौ चानतिभिन्नार्थत्वे सामानाधिकरण्यायोगेन छिद्रकोकिलादीनां खपिकादिशब्दवाच्यत्वसंसर्गपरत्वान्न व्यभिचार इति चेन्न आद्यानुमाने संसृष्टरूप इति साध्ये संसर्गे संसर्गरूप इति साध्ये च संसृष्टरूपे पदार्थे व्यभिचारात् । तयोरुभयोरपि प्रमाणवाक्यतात्पर्यविषयत्वात् । द्वितीयानुमाने प्रमाणवाक्यत्वस्याबाध्यपरत्वमात्रेण प्रमितिविषय-परत्वमात्रेण वोपपत्तौ विशिष्टसाध्यस्य तत्रातन्त्रत्वेनाप्रयोजकत्वात्, अलक्षणवाक्यत्वस्योपाधित्वाच्च । नापि वेदान्तवाक्यजन्यप्रमा, सप्रकारिका, विचारजन्यत्वात्, संशयनिवर्तकत्वाद्वा, कर्मकाण्डजन्यज्ञान-वद् । वेदान्तजन्या प्रमा, ब्रह्मप्रकारविषया, ब्रह्मधर्मिकसंशयविरोधित्वाद् ब्रह्मविचारजन्यत्वाद्वा, यदेवं तदेवम्, यथा कर्मकाण्डजन्यो निश्चय इति प्रतिसाधनमस्त्विति वाच्यम् । तव मते ज्ञानमात्रस्य सप्रकारकत्वेन विचारजन्यत्वसंशयविरोधित्वयोर्व्यर्थत्वात्, अप्रयोजकत्वात्, निष्प्रकारकज्ञानादपि संशयादिनिवृत्तिसम्भवात्, लक्षणवाक्याजन्यत्वस्योपाधित्वाच्च । अत एव द्वितीयानुमानमपि अपास्तम्, ब्रह्मनिष्ठप्रकारविषयत्वसाधने दृष्टान्ताभावाच्च । सर्वेषु च प्रतिसाधनेषु प्रश्नोत्तरयोर् वैयधिकरण्यापत्तिः प्रतिकूलतर्कोऽवसेयः ।

न्यायामृततरङ्गिणी

प्रत्यक्षादिनेति ॥ निर्विकल्पकस्याप्रामाणिकत्वादिति भावः । यत्तु प्रमात्वं संसर्गा-गोचरवृत्ति सकलप्रमा वृत्तित्वादभिधेयत्ववदिति सामान्यतस्तत्प्रसिद्धिरिति । तन्न । अप्रयोज-कत्वात् । विशेष्याविषयवृत्तित्वस्यापि तत एव सुसाधत्वेनाभाससाम्याच्च ॥ असिद्धिश्चेति ॥ सत्यत्वादेर्जातिरूपस्य घटादावतिव्याप्त्या औपाधिकस्य लक्ष्ये ब्रह्मण्यसम्भवेनातात्विकस्या-नात्मन्यतिव्याप्त्या लक्षणत्वायोगेन सत्यादिवाक्ये लक्षणवाक्यत्वासिद्धिरित्यर्थः ॥ अतिरेकेऽ-पीति ॥ न चैतावता स्थायित्वास्थायित्वव्यवस्था स्यान्न स्वरूपादिरूपेति वाच्यम् । स्थायिधर्मस्यैव स्वरूपान्तर्गतत्वात् । यथोक्तं यावद्वस्तु न भेदवदिति । यावद्धर्मि स्थायिनि धर्मे भेदाभेदौ न स्तः । किन्तु सविशेषाभेद इत्यर्थः । पार्थिवरूपादौ स्वरूपलक्षणत्वं नैवेष्टम् । वक्ष्यमाणेति । सामान्यतोऽपि चन्द्रादेर्ज्ञानाभावे तद्बुभुत्सासंशयादि न स्यादिति वक्ष्यमाण-रीत्या । न च ज्ञानमात्रेऽस्य द्वारत्वाभावेऽपि संशयादिनिवर्तकतज्ज्ञाने द्वारत्वमिति वाच्यम् । विषयविशेषानवगाहने पूर्वोत्तरज्ञानयोः संशयानिवर्तकत्वतन्निवर्तकत्वायोगात् । ननु किं चन्द्रलक्षणमित्यादेरुत्तरे प्रकृष्टादिवाक्येऽपि चन्द्रस्वरूपमात्रं प्रतिपाद्यते न तु चन्द्रधर्म-संयोगोऽपीत्यत आह– न च धर्म इति । यत्तु नात्र चन्द्रस्वरूपपरत्वं किन्तु प्रकर्षाश्रयो यः प्रकाशस्तत्स्वरूपपरत्वम् । तथा च प्रकर्षोपलक्षितप्रकाशव्यक्तिस्वरूपमात्रप्रतिपादकत्वे-नाखण्डार्थत्वमेवेति । तत्राप्येतदेवोत्तरम् । न च धर्म इति । धर्मे चन्द्रसम्बन्धिनि धर्मे । स्वरूपमात्रं धर्मस्वरूपमात्रम् । तथा चात्र चन्द्रसम्बन्धिधर्मप्रश्नाच्चन्द्रसम्बन्धिप्रकाश एव वाच्यो न प्रकाशस्वरूपमात्रमित्यर्थः । ननु चन्द्रेऽसाधारणधर्मप्रश्नस्यापि चन्द्रस्वरूपमात्र-प्रतिपादनपरमुत्तरमुचितम् । समानविशेष्यकत्वादित्यत आह– न च प्रश्नेति ॥

सप्रकारकमिति ॥ ननु न सप्रकारकज्ञानं संशयादिनिवर्तकम् । भ्रमकालीनानु-वृत्ताकारज्ञानस्य सप्रकारकत्वेऽपि ततः संशयाद्यनिवृत्तेः । किन्तु व्यावृत्ताकारज्ञानमेव । ज्ञानस्याज्ञानसमानविषयकत्वेनैव तन्निवर्तकत्वम् । अज्ञानविषयश्च शुद्धं ब्रह्म । अज्ञान-कल्पितस्य तदितरस्याज्ञानविषयत्वायोगात् । तथा च शुद्धब्रह्माकारा चित्तवृत्तिर्निष्प्रकारि-कैवाज्ञाननिवर्तिका । प्रकारमात्रस्याप्य विद्याकल्पितत्वेन तद्विषयाया वृत्तेरविद्यासमान-विषयत्वाभावादिति । मैवम् । अनुवृत्तव्यावृत्ताकारयोः स्वरूपमात्रत्वेऽनुवृत्ताकारज्ञानादपि संशयादिनिवृत्तिप्रसङ्गः । अन्यथा व्यावृत्ताकारज्ञानादपि सा न स्यात् । तयोः स्वरूपातिरेके तु न ज्ञानाज्ञानयोः समानविषयत्वम् । अनृतप्रतिषेधक व्यावृत्ताकारस्याज्ञानाविषयत्वाच्च । प्रत्युतानुवृत्ताकारस्यैव जगद्भ्रमाधिष्ठानशुद्धचिन्मात्रतया तस्यैवाज्ञानविषयत्वम् । अतोऽनु-वृत्ताकारवृत्तिरेवाज्ञाननिवर्तिका स्यात् ॥ संसृष्टरूप इति ॥ न च संसर्गरूपे पदार्थे व्यभिचारः । संसर्गरूपस्यापि संयोगादेः सम्बन्धान्तरेण संसृष्टत्वात् । पदार्थे मुख्यतात्पर्या-भावाच्च ॥ संसर्गरूप इति ॥ संसर्गनिरूपक इत्यर्थः । अतो न संसृष्टरूपे पदार्थे व्यभिचारः । तत्र तात्पर्याभावाच्च ॥ प्रमाणवाक्यत्वादिति ॥ न च प्रमाणवाक्यत्वस्या-बाध्यपरत्वमात्रेण प्रमितिविषयपरत्वमात्रेण वोपपत्तौ विशिष्टसाध्यस्य तत्रातन्त्रत्वेनाप्रयोजकतेति वाच्यम् । पदार्थाबाधस्य तत्प्रमितेश्चाप्रमाणवाक्येऽपि सत्त्वेन संसर्गाबाधप्रमित्योरेव प्रमाण वाक्यत्वोपपादकत्वात् । न चालक्षणवाक्यत्वमुपाधिः । लक्षणवाक्यत्वस्य संसर्गपरत्वव्याप्त्या तस्य व्यतिरेके व्यभिचारेणानुपाधित्वात् ॥ सप्रकारिकेति ॥ असन्दिग्धप्रकारिकेत्यर्थः । तेन ज्ञानमात्रस्य सप्रकारकत्वपक्षे विचारजन्येति व्यर्थमिति निरस्तम् । संशयविरोधि-त्वादिति ॥ अत्र ज्ञानत्वमुपस्कर्तव्यम् । उक्तसाध्यकरणान्न संशयविरोधीति व्यर्थं, न वा संशयाभावादौ व्यभिचारः ॥ वेदान्तेति ॥ ‘सत्यं ज्ञानम्’ इति वाक्यजन्येत्यर्थः । अतो न वक्ष्यमाणहेत्वादेरसिद्ध्यादि ॥ ब्रह्मनिष्ठेति ॥ ब्रह्मनिष्ठसत्वप्रकारविषयेत्यर्थः ॥ संशयेति ॥ सत्त्वसंशयेत्यर्थः । अतो न संशयविरोधीति व्यर्थम् । न च लक्षणवाक्या-जन्यत्वमुपाधिः । व्यतिरेके व्यभिचारस्योक्तत्वात् ।

न्यायामृतकण्टकोद्धारः

लक्षणं दूषयित्वा अनुमानं दूषयति– आद्येति ॥ ननु निर्विकल्पकरूपप्रत्यक्ष एव साध्य-प्रसिद्धिरित्यत आह– प्रत्यक्षादीनामिति ॥ प्रमाणाभावेन निर्विकल्पकाभावात् । न च विशिष्टज्ञानमेव निर्विकल्पके प्रमाणमिति वाच्यम् । तस्योभयसन्निकर्षादिनैवोपपत्तेरप्रयोजकत्वात् । विस्तृतं चैतदन्यत्र । ननु प्रमात्वं संसर्गागोचरवृत्ति सकलप्रमावृत्तित्वादभिधेयत्ववदिति सामान्य-तस्तत्प्रसिद्धेरिति चेन्न । अप्रयोजकत्वात् । प्रमात्वं न संसर्गागोचरवृत्ति ज्ञानत्वव्याप्यधर्मत्वात्, अनुमितित्ववदिति सत्प्रतिपक्षत्वाच्च । पक्षसमत्वान्नानुभवत्वादौ व्यभिचारः । न च सन्देह रूपैव साध्यप्रसिद्धिरस्त्विति वाच्यम् । साध्यप्रसिद्धौ तत्सन्देहानुपपत्तेः । न च प्रकृष्टादिवाक्य एव तत्प्रसिद्धिर्दर्शितेति वाच्यम् । तस्या आकर एव निराकरिष्यमाणत्वात् । परापरजातित्वे व्याप्यव्यापकजातित्वे । तथा चातिव्याप्त्यादिधर्मप्रतिपादकस्य लक्षणवाक्यत्वम् असिद्धमिति भावः । न च परमार्थसत्यादिरूपत्वमेव स्वरूपलक्षणं, न च तद् उक्तदोषवदिति वाच्यम् । स्वरूपत्वे लक्षणत्वायोगात् । प्रसिद्धत्वाप्रसिद्धत्वे हि लक्षणत्वलक्ष्यत्वयोः प्रयोजके, न चैत एकस्मिन्निर्विशेषे सम्भवतः ।

किञ्च किं सत्यादिकं प्रत्येकं वा लक्षणं मिलितं वा ? नाद्यः । सत्यत्वज्ञानत्वादि परत्वे सखण्डार्थत्वापातात् । स्वरूपमात्रपरत्वेऽपरवैयर्थ्यात् । प्रयोजनत्वेन सार्थक्यं त्वग्रे निरसिष्यते । न द्वितीयः । व्यर्थत्वाद्व्यावर्त्त्याभावात् । न चैकैकस्य परेण ब्रह्मणोऽन्यत्र स्वीकाराद्विशिष्टस्य लक्षणत्वमिति वाच्यम् । विशिष्टपरत्वे सखण्डार्थत्वापातात् । परेण विशिष्टस्यान्यत्राङ्गीकाराच्च । तस्माल्लक्षणवाक्यत्वमसिद्धमिति भावः ॥ असाधारणेति । तद्वृत्तित्वे सति तदितरावृत्तित्व-प्रतिपादने धर्मधर्मिभावरूपसंसर्गप्रतिपादनमावश्यकम् । तथा च साध्याभावव्याप्तत्वाद्विरुद्धत्वमिति भावः । ननु लक्षणवाक्यानां स्वरूपमात्रपर्यवसायित्वान्नियमासिद्धिरित्याशङ्ख्य निषेधति– न च स्वरूपेति ॥ तस्येति ॥ लक्ष्यलक्षणभावे प्रयोजकयोर्ज्ञातत्वाज्ञातत्वयोरेकस्मिन्नसम्भवादिति भावः । न चावृतत्वानावृतत्ववदन्तःकरणवृत्तिभेदेन ज्ञातत्वाज्ञातत्वेऽप्येकस्मिन् सम्भवत इति वाच्यम् । निर्विशेषेऽन्तःकरणवृत्तिभेदस्यैवायोगात्, दृष्टान्तासम्प्रतिपत्तेश्च । ननु लक्षणस्य लक्ष्याद्भिन्नत्वे स्वरूपलक्षणत्वादिव्यवस्थायोग इत्यत आह– अतिरेकेऽपीति ॥

यावल्लक्ष्यभावित्वादिना इत्यादिपदेन अयावल्लक्ष्यभावित्वपरिग्रहः । तेन तटस्थलक्षण-त्वोपपत्तेरिति द्रष्टव्यम् । न चैवं स्थायित्वास्थायित्वव्यवस्था स्यान्न स्वरूपलक्षणत्वादिव्यवस्थेति वाच्यम् । स्वरूपमेव लक्षणं स्वरूपलक्षणमित्यर्थस्य बाधितत्वेन स्वरूपवत्स्थायिलक्षणं स्वरूपलक्षणमिति करणेन तद्व्यवस्थोपपत्तेः । किं विशिष्टज्ञाने द्वारत्वम् ? उत स्वरूपमात्रज्ञाने ? नाद्यः । खण्डार्थत्वापातात् । न द्वितीय इत्याह– वक्ष्यमाणेति ॥ अन्यथा संशयाद्ययोगादिति भावः । न च स्वरूपमात्रज्ञानस्य लक्षणात्पूर्वं वृत्तत्वेऽपि संशयादिनिवर्तकस्वरूपज्ञानस्य पूर्वम् अजातत्वात्तत्र द्वारत्वं लक्षणज्ञानस्य भविष्यतीति वाच्यम् । पूर्वानधिकविषयस्य स्वरूपज्ञानस्य संशयाद्यनिवर्तकत्वेन तत्र द्वारत्वानुपपत्तेः । न च कारणविशेषजन्यत्वेन संशयनिवर्तकत्वमिति वाच्यम् । संशयप्रकारविरुद्धप्रकारविषयत्वे संशयनिवर्तकत्वानुपपत्तेः । अन्यथा ऊर्ध्वत्वादिज्ञानस्य कारणविशेषजन्यस्य संशयनिवर्तकत्वापातात् ॥ न चेति ॥ तथा च लक्षणे तात्पर्याभावा-त्स्वरूपमात्र एव तात्पर्यान्नाखण्डार्थत्वविरोध इति भावः ॥ अलक्षणवाक्यस्येति ॥ उपलक्षण-मेतत् । लक्षणे तात्पर्याभावे तत्प्रतिपादनं व्यर्थं चेत्यपि द्रष्टव्यम् । तस्माद्विरुद्धत्वं दुष्परिहरम् ।

व्यभिचारमप्याह– सखण्डेति ॥ न च तत्रापि साध्यसत्वं व्युत्पाद्यत इति न व्यभिचार इति वाच्यम् । अनेकधर्मिप्रतिपादकस्याखण्डार्थत्वव्युत्पादनस्याशक्यत्वात् । न चैकधर्मा-वच्छेदेनानेकार्थपरत्वम् अखण्डार्थत्वविरोधीति वाच्यम् । तथात्वे धर्मधर्मिभावपरत्वाद् अनेक-धर्मिपरत्वाच्च सखण्डार्थत्वापत्तेः । ब्रह्मणि एकधर्मिभावाच्च । अन्यथाऽखण्डार्थत्वं पारिभाषिकं स्यादिति । ननु धर्मविषयप्रश्नेऽपि स्वरूपमात्रस्य प्रतिवचनान्नासिद्धिरित्यत आह– न च धर्म इति । न च तत्रापि धर्मस्वरूपमात्रपरत्वादखण्डार्थत्वाविरोध इति वाच्यम् । किं चन्द्रलक्षणमिति पृष्टे चन्द्रलक्षणत्वेन प्रतिपादने चन्द्रस्य लक्षणस्य च धर्मधर्मिभावप्रतिपादनस्यावश्यकतया सखण्डार्थत्वावश्यम्भावात् । अन्यथा प्रश्नोत्तरयोर्वैयधिकरण्यं स्यात् ॥ धर्मिज्ञानाधीनेति ॥ न च वेदान्तजन्यज्ञानस्य निष्प्रकारकत्वेऽपि व्यावृत्ताकारज्ञानत्वेनैव संशयविरोधित्वमोक्षहेतु-त्वयोरुपपत्तेर्न सप्रकारकज्ञानहेतुतया विचारविधानमिति वाच्यम् । व्यावृत्ताकारज्ञानत्वस्य व्यावर्तकविशिष्टज्ञानत्वव्यावृत्तिविशिष्टज्ञानत्वातिरिक्तस्य निर्वक्तुमशक्यत्वाद् ब्रह्मण्याकाराभावेन ज्ञानस्य तदाकारत्वानुपपत्तेश्च । न च ज्ञानस्याज्ञाननिवर्तकत्वे समानविषयत्वमेव तन्त्रं न तु समानप्रकारकत्वमपीति वाच्यम् । तथात्वे धर्मिज्ञानस्यापि संशयनिवर्तकतापत्तेः ।

न च धर्मिज्ञानस्याविद्याकल्पितप्रकारविषयत्वाद् अविद्यायाश्च शुद्धमात्रविषयत्वान्न समान-विषयत्वमिति वाच्यम् । अविद्यायाः शुद्धमात्रविषयत्वाभावस्योक्तत्वात् । प्रकारस्याविद्या-कल्पितत्वासिद्धेश्च । समानविशेष्यकत्वेनैव समानविषयत्वोपपत्तेश्च । यथा च सप्रकारकस्यैवा-ज्ञाननिवर्तकत्वं तथोक्तं प्राक् । न च प्रकारस्याविद्याकल्पितत्वेन न तद्भानम् अविद्यानिवर्तकमिति वाच्यम् । असिद्धेः । वृत्तिवदुपपत्तेश्च । तस्मात्सप्रकारकस्यैव संशयादिनिवर्तकत्वात् तादृशाज्ञानहेतुतया विचारविधानान्यथानुपपत्त्या सखण्डार्थत्वस्यैव निर्णीतत्वाद्बाधो दुष्परिहरः । सत्यादीति ॥ न चाद्यसाध्ये संसर्गे द्वितीयसाध्ये च संसृष्टे व्यभिचारः । तयोरपि प्रमाणवाक्ये तात्पर्यविषयत्वादिति वाच्यम् । प्रथमानुमाने प्रमाणवाक्यतात्पर्यविषयपदार्थत्वादिति हेत्वर्थस्य विवक्षितत्वात् । संयोगस्य पदार्थत्वाभावात् । न चैवं तस्य पक्षत्वात् तत्र हेत्ववृत्तौ भागा-सिद्धिरिति वाच्यम् । पदार्थत्वस्य पक्षेऽपि प्रवेशात् । द्वितीयानुमाने च संसर्गाविषयप्रमाविषयो नेति साध्यकरणान्न संसृष्टे व्यभिचारः ।

न च साध्यद्वये सिद्धसाधनम् । अवान्तरतात्पर्यविषयस्य संसृष्टादिरूपत्वाद्भिन्नविषयत्वेन प्रतिपक्षासम्भवाच्चेति वाच्यम् । महातात्पर्यविषय इति पक्षकरणात् । सत्प्रतिपक्षत्वे पक्षभेदस्याप्रयोजकत्वात् । विरोधित्वस्यैव तन्त्रत्वाच्च । अत एव केवलान्वयिन्यपि प्रतिपक्षाभि-धानम् ॥ सत्यादीति ॥ अत्र ‘स्वतात्पर्यविषयज्ञानाबोध्य’ इत्येतत्संसर्गविशेषणं बोध्यसंसर्ग-परत्वेन सिद्धसाधनतानिवारणाय । नन्वेवमपि संसर्गस्वरूपमात्रपरत्वसिद्ध्या विशिष्टार्थपरत्वसिद्ध्य भावेनार्थान्तरम् इत्यतः साध्यान्तरमाह– स्वतात्पर्येति ॥ तथा च सत्यादिवाक्यकरणक-प्रमितिविषयपदार्थनिरूप्यसंसर्गपरत्वसाधने स्वरूपमात्रपर्यवसानाभावेन विशिष्टार्थ एव पर्यवसाना-न्नार्थान्तरता । न चाबाध्यपरत्वमात्रेण प्रमितिविषयपरत्वमात्रेण वा हेतोरुपपत्तौ विशिष्टसाध्यस्य तत्रातन्त्रत्वाद् अप्रयोजकत्वमिति वाच्यम् । ‘अग्निना सिञ्चेत्’ इत्यस्याबाध्यप्रमितिविषयपदार्थांश-परत्वमात्रेण प्रमाणवाक्यत्वस्यादृष्टतया विशिष्टस्यैव तत्र प्रयोजकत्वात् । न चालक्षणवाक्यत्व-मुपाधिः । लक्षणवाक्यत्वस्यापि सखण्डार्थत्वेन व्याप्तेः समर्थितत्वात् । उपाधेः प्रकृतसाध्या-व्यापकत्वात् ।

ननु खं छिद्रं, कोकिलः पिक इत्यादौ व्यभिचारः । तत्र पर्यायत्वेन संसर्गपरत्वाभावादित्यत आह– खं छिद्रमिति ॥ यद्वेति ॥ न चात्र हेतुद्वये त्वन्मते ज्ञानमात्रस्य सप्रकारकत्वाद् विशेषणवैयर्थ्यमिति वाच्यम् । निर्विकल्पकाङ्गीकारिणां प्रति व्यभिचारनिवारकत्वेन सार्थकत्वात् । अन्यं प्रति तु विपक्षबाधकसूचकत्वेन सार्थकत्वात् । यथा च निष्प्रकारकज्ञानस्य संशयादि-निवर्तकत्वं तथोक्तम् । न च लक्षण वाक्याजन्यत्वमुपाधिरिति वाच्यम् । लक्षणवाक्यस्यापि सखण्डार्थत्वस्यैव समर्थितत्वेनाप्रयोजकत्वेन साध्याव्यापकत्वात् । न च सर्वत्रानुमानेषु प्रश्नोत्तरयोर्वैयधिकरण्यलक्षणप्रतिकूलस्तर्क इति वाच्यम् । प्रश्नस्यापि विशिष्टविषयत्वस्यैव समर्थयिष्यमाणत्वेन समानाधिकरणत्वात् ।

न्यायामृतप्रकाशः

अप्रसिद्धेति ॥ संसर्गागोचरप्रमाजनकत्वरूपसाध्यस्य कुत्राप्यप्रसिद्धत्वादिति भावः । प्रत्यक्षादौ साध्यप्रसिद्धिर्भविष्यतीति चेत्तत्राह– प्रत्यक्षादिनापीति ॥ निर्विकल्पकस्याप्रामाणिकत्वादिति भावः । यदि सत्यत्वादीनां लक्षणत्वं स्यात्तदैव सत्यज्ञानादिवाक्यानां लक्षणवाक्यत्वम् । तदेवायुक्तम् । परजातिरूपसत्ताया अपरजातिरूपज्ञानत्वादेश्च ब्रह्मव्यतिरिक्ते जगत्यपि सत्त्वेनातिव्याप्ततयाऽलक्षण-त्वात् । ततश्च लक्षणवाक्यत्वहेतोरसिद्धिरित्याशयेनाह– सत्यत्वेति ॥ ननु सत्यत्वादिकं न सत्ताजात्यादिरूपं, किं नाम अबाध्यत्वादिरूपम् अन्यदेव लक्षणत्वेन विवक्षितम् । तत्तु नातिव्याप्तमिति चेत् तत्किं तात्विकं वा धर्मिज्ञानाबाध्यं वा अतात्विकं वा । नाद्यद्वितीयौ । ब्रह्मणि विद्यमानस्या-बाध्यत्वादिरूपसत्यत्वस्यातात्विकत्वाद्धर्मिज्ञानबाध्यत्वाच्च । अतोऽसम्भव एव स्यात् । नान्त्यः । व्यावहारिकत्वापरपर्यायातात्विक बाध्यत्वादिरूपसत्त्वस्याऽनात्मन्यपि सत्वेनातिव्याप्तेरलक्षणत्वात् । अतोऽसिद्धिर्दुर्वारेत्याह– अजातित्वेऽपीत्यादिना ॥ विरुद्धत्वं स्फोरयितुम् ‘असाधारणधर्मरूप’ इत्युक्तम् । तथा च साध्याभावेनैव व्याप्तत्वाद्विरुद्धत्वमित्यर्थः ।

ननु लक्षणं द्विविधं स्वरूपमतिरिक्तं चेति । तत्र स्वरूपलक्षणं लक्ष्यानतिरिक्तमेव । तथा च तत्परत्वे लक्ष्यपरत्वमेव प्राप्तमिति नाखण्डार्थत्वविरोध इत्याशङ्क्य निराकरोति– न चेति ॥ लक्ष्यमात्रत्वे लक्ष्येण निर्विशेषात्यन्ताभेदे । तथा च लक्ष्यलक्षणभावार्थं स्वरूपातिरेकेऽङ्गीक्रियमाणे सखण्डार्थत्वप्राप्त्या विरुद्धत्वमेवेति भावः । ननु स्वरूपलक्षणस्य कथं लक्ष्यातिरिक्तत्वमित्यत आह– अतिरेकेऽपीति ॥ यावत्पर्यन्तं लक्ष्यमस्ति तावत्पर्यन्तं सत्त्वेन स्वरूपलक्षणत्वसम्भवादित्यर्थः । ननु सत्यज्ञानादिवाक्येन ब्रह्मस्वरूपबोधनायोदाहरणत्वेन लक्षणमुपादीयते पश्चाद्द्वारभूतं तल्लक्षणं परित्यज्य ब्रह्मस्वरूपमात्रमेव बोध्यत इति तत्रातात्पर्यान्न द्वारिणोऽखण्डार्थत्वविरोधीत्याशङ्क्य निराकरोति– न चेति ॥ वक्ष्यमाणेति ॥ सामान्यतोऽपि ब्रह्मस्वरूपाज्ञाने तद्धर्मिकसंशयाद्ययोगेन ‘किं ब्रह्म’ इति प्रश्नाद्ययोगात्’ इत्यादिवक्ष्यमाणरीत्येत्यर्थः । लक्षणाद् द्वारत्वेनोच्यमानात् । अज्ञातस्वरूपस्यैव द्वारेण बोध्यत्वादिति भावः ॥ न हेतुरिति ॥ येन तस्य सखण्डार्थत्वेनैव व्याप्त्या विरुद्धत्वं स्यादिति भावः । लक्षणपरत्वाभावेऽपि लक्षणप्रत्यायकत्वाद् अखण्डार्थत्वमिति वक्तुं न शक्यते । ‘नीलम् उत्पलम्’ इत्यत्राऽतिव्याप्तत्वेन नीलत्वस्यालक्षणत्वेनैतद्वाक्यस्य लक्षणपरत्वाभावा-ल्लक्षणप्रत्यायकत्वसद्भावेनाखण्डार्थत्वाभावाद्व्यभिचारः स्यात् । न चातत्परस्य तत्प्रत्यायकत्वं कथमिति वाच्यम् । तात्पर्यभ्रमादिनोपपत्तेरित्याह– अलक्षणेति ।

एवं विरुद्धत्वमुक्त्वाऽनैकान्त्यं चाह– सखण्डेति ॥ वनादीनां संसृष्टरूपत्वादित्यर्थः ॥ किमिति ॥ कश्चन्द्र इति चन्द्रस्वरूपमात्रे पृष्टे प्रवृत्तस्य प्रकृष्टादिलक्षणवाक्यस्य स्वार्थे तात्पर्याभावेऽपि किं चन्द्रलक्षणमित्यसाधारणधर्मस्यैव प्रश्ने सति प्रवृत्तस्य प्रकृष्टादिवाक्यस्य लक्षणपरत्वावश्यंभावाद्व्यभिचारः स्यादेवेत्यर्थः ॥ अखण्डेति ॥ अखण्डस्य यल्लक्षणं तद्वाक्यत्वं हेतुत्वेन विवक्षितम् । तथा च सखण्डवनादिलक्षणवाक्ये न व्यभिचार इति भावः ॥ असिद्धेरिति ॥ ब्रह्मस्वरूपमात्रस्य सिद्धत्वान्न स्वरूपमात्रे प्रश्नः । अन्यथा प्रश्नस्यैवासम्भवात् । अतः कैर्विशेषणैर्विशिष्टं ब्रह्मेत्येवं सखण्डस्यैव ब्रह्मणः प्रश्ने सत्यादिवाक्यस्य प्रवृत्तत्वेन अखण्डलक्षणवाक्यत्वं वक्ष्यमाणरीत्याऽसिद्धमित्यर्थः । ननु किं चन्द्रलक्षणमित्यसाधारणधर्मप्रश्नोत्तरे प्रकृष्टादिवाक्ये न व्यभिचारः । तस्यापि चन्द्रस्वरूपमात्र एव तात्पर्याङ्गीकारेण लक्षणपरवाक्यत्वरूपहेतोरेवाऽभावादित्यत आह– न चेति ॥ प्रश्नोत्तरयोर्वैयधिकरण्यान्यथानुपपत्तिरूपयुक्त्यैव लक्षणपरत्वस्य सिद्धत्वादित्यर्थः । ननु किं चन्द्रलक्षण-मित्यसाधारणधर्मप्रश्नोत्तरे प्रकृष्टादिवाक्ये व्यभिचारस्तदा स्याद् यदि किं चन्द्रलक्षणमित्यसाधारण-धर्मप्रश्नस्येदमुत्तरं स्यात् । न चैवम् । उत्तरत्वे प्रश्नविशेष्यविशेष्यकत्वस्यैव तन्त्रत्वात् ।

अत्र प्रश्नस्य चन्द्रलक्षणाविशेष्यकत्वात् प्रकृष्टप्रकाशश्चन्द्र इति वाक्यस्य च चन्द्रविशेष्यकत्वात् । अतो नाऽत्र व्यभिचार इत्यत आह– न चेति ॥ तन्मूलेति प्रश्नमूलभूतेत्यर्थः । तथा च चन्द्र-विशेष्यकेऽस्मिन्वाक्ये प्रयुक्तेऽपि किं चन्द्रलक्षणमिति प्रश्नहेतुभूतसंशयस्य निवर्तमानत्वेनोत्तरत्वं युक्तमिति स्यादेव व्यभिचार इति भावः । वेदान्तवाक्ये साध्याभावनिश्चायकान्यथानुपपत्तेर्बाधकत्वोपयुक्तं बलवत्त्व-मुपपादयितुमुक्तम् ॥ धर्मिज्ञानेत्यादि ॥ ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः’ इति प्रमाणेन ब्रह्मज्ञानस्य संशयनिरासकत्वेन प्रमितत्वात्सप्रकारकसंशयनिवर्तकं च ज्ञानं सप्रकारकमेव न धर्मिज्ञानमात्रम् । तस्य पूर्वमेवासिद्धत्वादित्याशयेनोक्तं धर्मिज्ञानेति । संशयादिनिवृत्त्यापि किं प्रयोजनमिति न वाच्यमित्याशयेनोक्तम् मोक्षहेतुमिति । साध्येति । संसर्गप्रकारकज्ञानजनकत्वस्यैव निश्चयादित्यर्थः ॥ सम्मतवदिति । अग्निहोत्रादिवाक्यतात्पर्यविषयवदित्यर्थः । परेण सार्वज्ञादि-धर्मसंसर्गस्य वेदतात्पर्यविषयशुद्धब्रह्मज्ञानबाध्यत्वेन मिथ्यात्वाङ्गीकारादाह– स्वतात्पर्यविषयेत्यादि ॥

ननु विषं भुंक्ष्वेति प्रमाणवाक्ये स्वतात्पर्यविषयभूतं यज्ज्ञानं ‘द्विषदन्नं न भोक्तव्यम्’ इति ज्ञानं, तेनाबाध्यो यः संसर्गः विषकर्मकभोजनक्रियारूपसंसर्गस्तत्र तात्पर्याभावेन तत्परत्वाभावाद्व्यभिचारः स्यादत आह– स्वकरणकेत्यादि ॥ तथा च न व्यभिचारः । स्वतात्पर्यविषयज्ञानाबाध्यसंसर्गः विषकर्मकभोजनक्रियासंसर्गरूपो (वाच्यार्थ)वाक्यार्थसंसर्गो न विवक्षितः येन तत्परत्वाभावेन व्यभिचारश्चोद्येत । किंनाम तस्मिन् स्वतात्पर्यविषयज्ञानाबाध्यसंसर्गे स्वकरणकेत्यादिकं विशेषणं विवक्षितम् । तथा चाऽस्य वाक्यस्य लिङ्गत्वेन एतद्वाक्यकरणिका या प्रमितिः ‘द्विषदन्नं न भोक्तव्यम्’ इत्येवंरूपा तद्विषया ये पदार्थाः शास्त्रीयपदार्थास्तन्निरूप्यो यः संसर्गस्तत्परत्वसद्भावेन व्यभिचार इत्यर्थः । नन्वेवं ‘खं च्छिद्रं कोकिलः पिकः’ इत्यादिपर्यायशब्दप्रतिपादके प्रमाणवाक्ये संसर्गपरत्वस्यैवाभावेनोक्तसाध्याभावाद्व्यभिचार इत्यत आह– खं च्छिद्रमिति ॥ तत्रापि च्छिद्रशब्दवाच्ये खंशब्दवाच्यत्वं कोकिलशब्दवाच्ये पिकशब्दवाच्यत्वमेव विधीयत इति तत्रापि वाच्यार्थसंसर्गपरत्वस्य सत्वान्न व्यभिचार इत्यर्थः ।

न्यायकल्पलता

क्रमेणानुमानं दूषयितुमुपक्रमते– आद्येति ॥ कथम् अप्रसिद्धविशेषणत्वमत आह– प्रत्यक्षादि-नापीति ॥ निर्विकल्पकस्याप्रामाणिकत्वादिति भावः । ननु ‘प्रमात्वं संसर्गागोचरवृत्ति सकल-प्रमावृत्तित्वाद् अभिधेयत्ववत्’ इति सामान्यतस्तत्प्रसिद्धिरिति चेन्न । अप्रयोजकत्वात् । विशेष्या-गोचरवृत्तित्वस्यापि तत एव सुसाधत्वेनाभाससाम्याच्च ॥ असिद्धिश्चेति ॥ सत्यत्वादेर्जातिरूपस्य घटादावतिव्याप्त्या औपाधिकस्य तात्त्विकस्य लक्ष्ये ब्रह्मण्यसम्भवेनातात्विकस्यानात्मन्यतिव्याप्त्या लक्षणत्वायोगेन सत्यादिवाक्ये लक्षणवाक्यत्वस्य हेतोरसिद्धिरित्यर्थः ॥ अतिरेकेऽपीति ॥ न चैतावता स्थायित्वास्थायित्वव्यवस्था स्यान्न स्वरूपादिरूपेति वाच्यम् । स्थायिधर्मस्यैव स्वरूपान्तर्गतत्वात् । यथोक्तं ‘यावद्वस्तु न भेदवत्’ इति । यावदाश्रयस्थायिनि धर्मे भेदाभेदौ न स्तः किन्तु सविशेषाभेद इत्यर्थः । पार्थिवरूपादौ स्वरूपलक्षणत्वं नैवेष्टम् । अत एवातिरेक इत्यस्य विशेषादतिरेकव्यवहारयोग्य इत्यर्थः ॥ वक्ष्यमाणेति ॥ ‘सामान्यतोऽपि चन्द्रादेर्ज्ञानाभावे तद्बुभुत्सासंशयादि न स्यात्’ इति वक्ष्यमाणरीत्या ।

न च ज्ञानमात्रेऽस्य द्वारत्वाभावेऽपि संशयादिनिवर्तके तज्ज्ञाने द्वारत्वमिति युक्तम् । विषय-विशेषानवगाहने पूर्वोत्तरज्ञानयोः संशयानिवर्तकत्वतन्निवर्तकत्वायोगात् । ननु किं चन्द्रलक्षणम् इत्यादेः प्रश्नस्योत्तरे प्रकृष्टादिवाक्येऽपि चन्द्रस्वरूपमात्रं प्रतिपाद्यते न तु चन्द्रधर्मसंसर्गोेऽपीत्यत आह– न च धर्म इति ॥ यत्तु नात्र चन्द्रस्वरूपपरत्वं किन्तु प्रकर्षाश्रयो यः प्रकाशस्तत्स्वरूपपरत्वम् । तथा च प्रकर्षोपलक्षितप्रकाशव्यक्तिस्वरूपमात्रप्रतिपादकत्वेनाखण्डार्थत्वमेवेति । अत्राप्येतदेवोत्तरं न च धर्म इति ॥ धर्मे चन्द्रसम्बन्धिनि धर्मे । स्वरूपमात्रं धर्मस्वरूपमात्रम् । तथा चात्र चन्द्रसम्बन्धिधर्मप्रश्नाच्चन्द्रसम्बन्धिप्रकाश एव वाच्यो न प्रकाशस्वरूपमात्रमित्यर्थः । ननु चन्द्रेऽसाधारणधर्मप्रश्नस्यापि चन्द्रस्वरूपमात्रप्रतिपादनपरमुत्तरमुचितम् । समानविशेष्यकत्वादित्यत आह– न च प्रश्नेति ॥ सप्रकारकमिति ॥ ननु न सप्रकारकज्ञानं संशयादिनिवर्तकम् । भ्रम-कालीनानुवृत्ताकारज्ञानस्य सप्रकारकत्वेऽपि ततः संशयाद्यनिवृत्तेः । किन्तु व्यावृत्ताकारज्ञानमेव । ज्ञानस्याज्ञानसमानविषयकत्वेनैव तन्निवर्तकत्वम् । अज्ञानविषयश्च शुद्धं ब्रह्म । अज्ञानकल्पितस्य तदितरस्याज्ञानविषयत्वायोगात् । तथा च शुद्धब्रह्माकारा चित्तवृत्तिर्निष्प्रकारिकैवाज्ञाननिवर्तिका । प्रकारमात्रस्याप्यविद्याकल्पितत्वेन तद्विषयाया वृत्तेरविद्यासमानविषयत्वाभावादिति । अविद्यातत्कार्यविषयज्ञानस्य तदनिवर्तकत्वाच्चेति ।

मैवम् । अनुवृत्तव्यावृत्ताकारयोः स्वरूपमात्रत्वेऽनुवृत्ताकारज्ञानादपि संशयादिनिवृत्तिप्रसङ्गः । अन्यथा व्यावृत्ताकारज्ञानादपि सा न स्यात् । तयोः स्वरूपातिरेके तु न ज्ञानाज्ञानयोः समान-विषयत्वम् । अनृतप्रतिषेधक व्यावृत्ताकारस्याज्ञानाविषयत्वाच्च । प्रत्युतानुवृत्ताकारस्यैव प्रपञ्च-भ्रमाधिष्ठानशुद्धचिन्मात्रतया तस्यैवाज्ञानविषयत्वम् । अतोऽनुवृत्ताकारवृत्तिरेवाज्ञाननिवर्तिका स्यादिति भावः ॥ संसृष्टरूप इति ॥ न च संसर्गरूपे पदार्थे व्यभिचारः । संसर्गरूपस्यापि संयोगादेः सम्बन्धान्तरेण संसृष्टत्वात् । पदार्थे मुख्यतात्पर्यायोगाच्च ॥ संसर्गरूप इति ॥ संसर्गनिरूपक इत्यर्थः । अतो न संसृष्टरूपे पदार्थे व्यभिचारः । तत्र तात्पर्याभावाच्च ॥ प्रमाणवाक्यत्वादिति ॥ यत्तु प्रमाणवाक्यत्वस्याबाध्यपरत्वमात्रेण प्रमितिविषयपरत्वमात्रेण वोपपत्तौ विशिष्टसाध्यस्य तत्रातन्त्रत्वेनाप्रयोजकतेति । तन्न । पदार्थाबाधस्य तत्प्रमितेश्चाप्रमाणवाक्येऽपि सत्त्वेन संसर्गाबाध-प्रमित्योरेव प्रमाणवाक्यत्वोपपादकत्वात् । न चालक्षणवाक्यत्वमुपाधिः । लक्षणवाक्यत्वस्य संसर्गपरत्वव्याप्त्या तस्य व्यतिरेके व्यभिचारेणानुपाधित्वात् ॥ सप्रकारिकेति ॥ असन्दिग्ध-प्रकारिकेत्यर्थः । तेन ज्ञानमात्रस्य सप्रकारकत्वपक्षे विचारजन्येति व्यर्थमिति निरस्तम् ।

संशयविरोधित्वादिति ॥ अत्र ज्ञानत्वमुपस्कर्तव्यम् । उक्तसाध्यकरणान्न संशयविरोधीति व्यर्थं, न वा संशयाभावादौ व्यभिचारः ॥ वेदान्तेति ॥ सत्यं ज्ञानमिति वाक्यजन्येत्यर्थः । अतो न वक्ष्यमाणहेत्वादेरसिद्ध्यादि ॥ ब्रह्मनिष्ठेति ॥ ब्रह्मनिष्ठसत्वप्रकारविषयेत्यर्थः ॥ संशयेति ॥ सत्त्वसंशयेत्यर्थः । अतो न संशयविरोधीति व्यर्थम् । न च लक्षणवाक्याजन्यत्वमुपाधिः । व्यतिरेके व्यभिचारस्योक्तत्वात् ॥


दृष्टान्तस्य साध्यवैकल्यं च

न्यायामृतं

दृष्टान्तस्य साध्यवैकल्यं च । तथा हि– प्रकृष्टादिवाक्यस्याखण्डार्थत्वं न तावन्मुख्य-वृत्त्या, लक्षणापि न तावद् गङ्गायां घोष इत्यादाविवान्वयानुपपत्त्या, चन्द्रादौ प्रकृष्टे गुणरूपेण द्रव्यरूपेण वा प्रकाशेन सम्बन्धस्य सत्वात्, चन्द्रे प्रकृष्टप्रकाशादेः सत्त्वात् । नापि ‘यष्टीः प्रवेशय’ इत्यादाविव तात्पर्यानुपपत्त्या कश्चन्द्र इति स्वरूपमात्रस्य पृष्टत्वादिति वाच्यम्, अस्ति कश्चिच्चन्द्रशब्दस्यार्थ इत्यज्ञाने तत्र धर्मिज्ञानसाध्याया बुभुत्सायाः सन्देहस्य चानुपपत्तेः, चन्द्रशब्दस्य प्रातिपदिकत्वानिश्चयेन सुब्विभक्ति-प्रयोगायोगाच्च चन्द्र इत्यनूद्य क इति प्रश्नायोगाच्च, न ह्यज्ञातमनुवादार्हम् । असङ्कीर्णं चन्द्रस्वरूपं न ज्ञातमिति चेत्, न चन्द्रस्वरूपद्वयाभावात् । तदेव स्वरूपमसङ्कीर्णत्वेन न ज्ञातमिति चेत्, न असङ्कीर्णत्वस्य व्यावर्तकवैशिष्ट्यव्यावृत्तिवैशिष्ट्ययोरन्यतररूपत्वेन प्रश्नस्य विशिष्टपरत्वापातात् । एवं च–

सामान्यतोऽपि न ज्ञातो धर्मी चन्द्रो यदा तदा ।

न बुभुत्सा न सन्देहो नानुवादश्च युज्यते ।

तस्माच्चन्द्रस्येतरस्माद् भेदको धर्म एव हि ।

पृष्टस्तस्मात्प्रकृष्टादिवाक्यं नाखण्डगोचरम् ॥

एवं प्रतिवचनस्य प्रकृष्टत्वादिविशिष्टे तात्पर्याभावे तात्पर्यतो यः कश्चिच्चन्द्र इत्येव बोधनाद्, अतात्पर्यविषयस्य च प्रतीतस्य त्यक्तत्वाद्, वस्तुतो यस्य कस्यापि चन्द्रत्वं स्यात्, तात्पर्यविषयेऽखण्डेऽयं चन्द्र इति लक्ष्यलक्षणरूपोद्देश्यविधेयविभागाभावेन तात्पर्यतो यत्किञ्चिदित्येव बोधनाच्चन्द्रत्वेन चन्द्रबुभुत्सानिवृत्त्यभावात् । कश्चन्द्र इति प्रश्नस्योत्तरं च न स्यात् । सर्वेषामपि लक्षणवाक्यतात्पर्यजन्यज्ञानानां वस्तुगत्या परस्पर भिन्नतत्तत्प्रातिपदिकार्थविषयत्वेऽपि प्रकारभेदाभावेन तेन तेन भिन्नभिन्नप्रकारक-तत्तत्सन्देहनिवृत्तिश्च न स्यात् । प्रकृष्टादिपदवैयर्थ्यं च स्यात् । व्यावर्त्यभेदेन सार्थक्य-मित्येतन्निरसिष्यते ।

एतेन प्रश्नोत्तरे तावच्चन्द्रप्रातिपदिकार्थमात्रविषये प्रकृष्टादिविशेषणाश्रयभूता चा-साधारणी विशेष्यव्यक्तिश् चन्द्रप्रातिपदिकार्थः, न तु तद्विशिष्टा । प्रकृष्टप्रकाशश्चन्द्र इति सहप्रयोगाद्ययोगाद् विशेष्यव्यक्तिश्चाखण्डेति अखण्डार्थपरे प्रश्नोत्तरे इति निरस्तम् । अस्या एवासाधारणव्यक्तेर्व्यावर्तकादिवैशिष्ट्यरूपेणासाधारण्येनाज्ञानेऽपि चन्द्रप्रातिपादिकार्थ-त्वादिरूपेण प्रागेव ज्ञातत्वात् । एवं च गामानयेत्यादौ गोत्वस्यानयनेनेव प्रकृष्टत्वादे-र्विधेयेन चन्द्रप्रातिपदिकार्थत्वेनानन्वयेऽपि उद्देश्यत्वावच्छेदकत्वेन विवक्षितत्वात्तद्वदेव विशिष्टार्थत्वं दुर्वारम् । अस्ति च पृथिवीत्ववती पृथिवीत्यादौ पृथिवीत्वस्य विधेयेन पृथिवीशब्दार्थत्वेनान्वयः । न हि पृथिवीत्वं न पृथिवीप्रातिपदिकार्थः, सहप्रयोगस्तु पृथिवीशब्दस्य तच्छब्देन व्यवहर्तव्यतापरत्वात् । तस्माद्धर्मिणश्चन्द्रस्य सामान्यतो नक्षत्रादिव्यावर्तकव्यावृत्तिरूपधर्मस्य च घटादौ प्रागेव ज्ञातत्वाद्विशिष्टविषये एव प्रश्नोत्तरे ।

अद्वैतसिद्धिः

ननु दृष्टान्ते साध्यवैकल्यम् । तथा हि– प्रकृष्टप्रकाशादिवाक्यं न तावदभिधया अखण्डार्थनिष्ठम्, प्रकृष्टादिपदस्याखण्डे अभिधाया अभावात्, त्वयानङ्गीकाराच्च । नापि लक्षणया । प्रकृष्टप्रकाशस्य द्रव्यस्य गुणस्य वा चन्द्रेऽन्वयोपपत्तेर् अन्वयानुपपत्तिरूपलक्षणाबीजाभावादिति चेन्न, ‘यष्टीः प्रवेशय’ इत्यादौ लोके ‘तरसमयाः पुरोडाशा भवन्ति’ इत्यादौ वेदे च यथाश्रुतान्वयसम्भवेऽपि यथा तात्पर्यविषयीभूतान्वयानुपपत्त्या यष्टिधरपुरुषेषु सवनीयहविर्मात्रे च यष्टिपुरोडाशशब्दयोर्लक्षणाऽऽश्रिता, तथैवेह तात्पर्यविषयीभूतान्वयानुपपत्तिनिमित्तया लक्षणया अखण्डार्थपरत्वोपपत्तेः ‘कश्चन्द्रः’ इति चन्द्रस्वरूपे पृष्टे तन्मात्रपरस्य वोत्तरस्योचितत्वात् । ननु– चन्द्रस्वरूपस्य ज्ञातत्वे तत्र प्रश्नो न युज्यते । अज्ञातत्वे धर्मिज्ञानसाध्यबुभुत्सासन्देहयोः ‘चन्द्रः’ इत्यनूद्य ‘कः’ इति प्रश्नस्थचन्द्र-शब्दस्यार्थवत्त्वाज्ञानेनाप्रातिपदिकतया तदुत्तरसुब्विभक्तेश्चायुक्तत्वप्रसङ्गात् । चन्द्रस्वरूपे ज्ञातेऽपि तस्यासङ्कीर्णं स्वरूपं न ज्ञातमिति न युक्तम् । तस्मिन् रूपद्वयाभावात् । असङ्कीर्णत्वेन न ज्ञातमिति चेत्, असङ्कीर्णत्वप्रकारकप्रतीतिपरत्वं पर्यवसितम् । तच्च व्यावर्तकवैशिष्ट्यं वा व्यावृत्तिवैशिष्ट्यं वा, उभयथाऽप्यखण्डार्थत्वभङ्ग इति चेन्न, भावानवबोधात् । तथा हि– चन्द्रस्वरूपस्य ज्ञातत्वाभ्युपगमादेव तदज्ञातत्वनिबन्धनदोषानवकाशः । ज्ञातत्वेऽपि च विपर्ययविरोधिज्ञानानुदयदशायां तदुदयार्थं प्रश्नो युज्यत एव । अन्यथा सर्वत्र प्रश्नमात्रोच्छेदापत्तेः ।

अथानभ्यासदशापन्नं ज्ञानं न विपर्ययविरोधि, प्रकृतेऽपि समम्, विषयतुल्यत्वेऽपि ज्ञानविशेषस्यैव विपर्ययनिवर्तकत्वस्य सर्वतन्त्रसिद्धान्तत्वात् । ‘शङ्खः श्वेतो न पीतः’ इत्यादिपरोक्षज्ञाने भासते यादृशं श्वैत्यस्वरूपं पीताभावस्वरूपं वा, तादृशमेवापरोक्षज्ञानविषयतादशायां विपर्ययविरोधीति विपर्यय-विरोधिफलोपहितमेवासङ्कीर्णमित्युच्यते । फलोपधानतदभावौ च दोषविशेषतदभावयोर्वैपरीत्ये-नेत्यन्यदेतत् । तथा च एकमेव स्वरूपं दशाविशेषभेदेन सङ्कीर्णम् असङ्कीर्णं चेति सङ्कीर्णतादशायां युगपज्ज्ञानाज्ञानयोरुपपत्तिः । अत एव व्यावृत्तिवैशिष्ट्यं व्यावर्तकवैशिष्ट्यं वा असङ्कीर्णत्वमिति– अपास्तम् । ‘शङ्खः श्वेतो न पीतः’ इत्यत्रोभयसद्भावेऽपि विपर्ययाविरोधित्वरूपसङ्कीर्णताया दर्शनात् । ‘यद्यपि यश्चन्द्रः, तत्र चन्द्रत्वं तमोनक्षत्रादिव्यावृत्तिश्चास्तीति मया ज्ञायत एव, तथापि चन्द्रस्वरूपं परं न ज्ञायते’ इत्यनुभवेन व्यावर्तकव्यावृत्तिवैशिष्ट्यस्याजिज्ञासितत्वेन जिज्ञासितं चन्द्रस्वरूपमेव विपर्ययविरोधिज्ञानविशेषं जनयता ‘प्रकृष्टप्रकाशश्चन्द्रः’ इति वाक्येन बोध्यत इति किमनुपपन्नम्? व्यावृत्तेः शाब्दबोधफलत्वेऽपि तदविषयत्वान्नाखण्डार्थत्वव्याघातः, तद्बोधकपदाभावाच्च ।

अथ लक्षणया व्यावृत्तेः शाब्दबोधे भानम्, न; वैयर्थ्यात्तत्र तात्पर्याभावेन लक्षणाया अयोगात् । तथा हि– चन्द्रे व्यावृत्तिर्बोध्यते व्यक्तिविशेषे वा । नाद्यः, ‘या शुक्तिः सा रजतादिभिन्ना’ इति ज्ञानेऽपि शुक्तिस्वरूपाज्ञानतत्कार्यविपर्ययदर्शनवत् ‘यश्चन्द्रः, स तमआदिविलक्षणः’ इति ज्ञानेऽपि चन्द्रस्वरूपाज्ञानतत्कार्यविपर्ययादिदर्शनात् । द्वितीये त्वावश्यकत्वाद्व्यक्तिविशेष एव बोध्यताम्, किं व्यावृत्त्या शब्दानुपस्थितया? व्यक्तिविशेषबोधादेव तत्सिद्धेः । न हि ‘धूमोऽस्ति’ इति वाक्ये वह्नौ लक्षणा । अत एव विनैव लक्षणां व्यावृत्तिः शाब्दबोधे भासते । ‘घटेन जलमाहर’ इत्यत्र छिद्रेतरत्ववदिति निरस्तम् । छिद्रेतरत्वस्यानन्यलभ्यत्वेन शब्दतात्पर्यविषयत्वेऽपि न व्यावृत्तेस्तथात्वम् । हानोपादानादिवत् फलत्वेनान्यलभ्यत्वात् । छिद्रेतरत्वमपि लक्षणां विना न शाब्दबोधविषयः । अन्यथा लक्षणोच्छेदापत्तेः किन्तु शाब्दबोधविषये जलाहरणसाधने वस्तुगत्याऽस्तीत्यन्यत्र विस्तरः । अत एवोक्तमाकरे ‘अन्यतो व्यावृत्तिरर्थान्न शब्दात्’ इति । न च ‘कश्चन्द्रः’ इति धर्मप्रश्नोऽयम्, ‘कश्चन्द्रधर्मः’ इति स्वाधीने शब्दप्रयोगे निष्प्रयोजनलक्षणाया अन्याय्यत्वात्, तद्बोधनेऽप्यखण्डार्थत्व-स्योपपादितत्वाच्च ।

ननु सर्वलक्षणवाक्यानां वस्तुगत्या परस्परभिन्नतत्तत्प्रातिपदिकार्थमात्रविषयज्ञानजनकत्वेन सप्रकारक- ज्ञानजनकत्वाभावात् प्रश्नवाक्यस्थं विशेष्यमात्रसमर्पकं चन्द्रादिपदमेव प्रयोक्तव्यमुत्तरवादिना, किं प्रकृष्ट-प्रकाशादिपदेनेति चेन्न, स्वरूपमात्रस्य ज्ञेयत्वेऽपि स्वरूपज्ञानस्य तावत्पदार्थाधीनत्वे सत्येव ताव-त्पदार्थेतरव्यावृत्तिफलत्वेन सर्वपदानां सफलत्वात् । अन्यथा संशयाद्यनुवृत्तेरनुभवसिद्धत्वात् । ननु– उत्तरस्य प्रकृष्टत्वादिविशिष्टबोधपरत्वाभावे तात्पर्यतो यः कश्चिच्चन्द्र इत्येवावबोधनाद्वस्तुतो यस्य कस्यापि चन्द्रत्वं स्यात्, तात्पर्यविषये च ‘अयं चन्द्रः’ इति लक्ष्यलक्षणरूपोद्देश्यविधेयविभागाभावेन चन्द्रबुभुत्साया अनिवृत्तिः, ‘कश्चन्द्रः’ इति प्रश्नस्योत्तरं च न स्यादिति चेन्न, यथा गङ्गासम्बन्धित्व-विशिष्टे तात्पर्याभावेऽपि वस्तुगत्या गङ्गासम्बन्ध्येव तीरं गङ्गापदेन लक्ष्यते । यथा वा ‘व्रीहीन् प्रोक्षती ’त्यादौ व्रीह्यादिस्वरूपे प्रोक्षणादिविधानवैयर्थ्याद् ‘व्रीहिभिर्यजेत’ इत्यादिवाक्यसिद्धापूर्व-सम्बन्धित्वलक्षणायामपि वस्तुगत्या व्रीहित्वाद्याश्रयीभूता एव व्यक्तयो व्रीह्यादिपदैर्लक्ष्यन्ते तथा प्रकृतेऽपि प्रकृष्टप्रकाशपदाभ्यां वस्तुगत्या स्वाश्रयीभूतैव व्यक्तिर्लक्ष्यते न तु या काचिदिति विशिष्टतात्पर्याभावेऽपि न पूर्वोक्तदोषः । ‘अयं चन्द्रः’ इति लक्ष्यलक्षणभावाभावेऽपि तदुभय-प्रतिपादकपदाभ्यामुपस्थितस्यैकस्वरूपस्यैव उद्देश्यविधेयभावसम्भवेन बुभुत्सानिवृत्तेरुत्तरत्वस्य च सम्भवात् । निष्प्रकारकस्यापि ज्ञानस्य संशयादिनिवर्तकत्वं प्रागुपपादितमेव ।

तदेतन्निष्कृष्टम्– प्रश्नोत्तरे तावच्चन्द्रप्रातिपदिकार्थमात्रविषये चन्द्रप्रातिपदिकार्थश्च प्रकृष्टप्रकाशाश्रयी-भूतासाधारणी विशेष्यभूता व्यक्तिर् न तु प्रकृष्टप्रकाशविशिष्टा । प्रकृष्टप्रकाशश्चन्द्र इति सहप्रयोगानु-पपत्तेः । विशेष्यव्यक्तिश्चाखण्डेत्यखण्डार्थतैव । ननु ‘गामानय’ इत्यत्र गामुद्दिश्यानयनविधानाद् यथा गोत्वस्योद्देश्यतावच्छेदकत्वादानयनेनानन्वयेऽपि प्रकारत्वं तथा प्रकृतेऽपि प्रकृष्टप्रकाशस्य चन्द्रप्रातिपदिकार्थत्वेनानन्वयेऽप्युद्देश्यतावच्छेदकत्वात्प्रकारत्वं दुर्वारम् । न हि ‘गामानय’ इत्यत्र गोत्वं विनाऽन्वय इति चेन्न, प्रातिपदिकार्थतावच्छेदकत्वस्य प्रातिपदिकार्थत्वनियतत्वेनाप्रातिपदिकार्थे तदवच्छेदकत्वस्य वक्तुमशक्यत्वात् । तथा च प्रकृष्टप्रकाशस्य प्रातिपदिकार्थतावच्छेदकत्वे प्रातिपदिकार्थत्वं दुर्वारमेव । ननु ‘पृथिवीत्ववती पृथिवी’ इत्यादौ पृथिवीत्वस्य विधेयेन पृथिवी-प्रातिपदिकार्थत्वेन नानन्वयः । पृथिवीत्वस्य पृथिवीप्रातिपदिकार्थत्वात् । सहप्रयोगस्तु पृथिवीशब्दस्य तद्व्यवहर्तव्यतापरतयेति तत्र व्यभिचार इति चेन्न, पृथिवीशब्दार्थत्वेन पृथिवीत्वजातिविशिष्टमजानतः पृथिवीत्वपदेन जातेरुपस्थित्यभावादनन्वय एव स्यादिति पृथिवीत्वजातिविशिष्टे पृथिवीशब्दार्थत्व-ग्रहोऽवश्यं प्रागेव श्रोतुर्वक्तव्यः । तथा च वचनवैफल्यमित्यनन्यगत्या जलादिव्यावृत्तगन्ध समानाधिकरणजातिमती पृथिवीत्याद्यर्थे पर्यवसितमुत्तरम् । गन्धसमानाधिकरणजातिमत्त्वादिकं च न पृथिवीपदवाच्यमिति कथं नानन्वयः? व्यवहर्तव्यतालक्षणया सहप्रयोगोपपादनं चायुक्तम् । व्यवहर्तव्यतायां हि जहल्लक्षणा । तत्र च स्वार्थहानिः । स्वरूपे तु जहदजहल्लक्षणा । तत्र स्वार्थान्वय इति स्वरूपे जहदजहल्लक्षणाया एवोचितत्वात् । तदुक्तं ‘व्याप्तेश्च समञ्जसम्’ इत्यधिकरणे भाष्य-कृद्भिः– ‘लक्षणायामपि सन्निकर्षविप्रकर्षौ भवतः’ इति । ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इत्यत्र किमोङ्कारसदृशमुद्गीथमित्यर्थः, किं वोद्गीथावयवमोङ्कारमिति विवक्षायां गौण्यां वृत्तौ स्वार्थहानेरवयवलक्षणैव ज्यायसी । सन्निकृष्टत्वादिति तत्र निर्धारितम् ।

न्यायामृततरङ्गिणी

असङ्कीर्णत्वस्येति ॥ ननु न व्यावर्तकादिवैशिष्ट्यम् असङ्कीर्णत्वम् । किं त्वेकमेव चन्द्रस्वरूपं दशाविशेषे विपर्ययविरोधित्वाविरोधित्वाभ्यामसङ्कीर्णं सङ्कीर्णं चोच्यत इति । मैवम् । ‘शङ्खः श्वेतो न पीतः’ इत्यापरोक्ष्यदशायां यादृशं श्वेतमपीतं वा शङ्खस्वरूपमस्ति तादृशमेव श्वैत्याद्यनुमितिकाले तद्विपर्ययकाले वाऽप्यस्तीति स्वरूपमात्रस्य विपर्यया-विरोधित्वात् । अथ चैत्याद्यापरोक्षोपहितं विपर्ययविरोधीत्यसङ्कीर्णमिति चेन्न । तदापरोक्ष-स्यैवान्वयव्यतिरेकाभ्यां विपर्ययविरोधित्वेन स्वरूपस्य तथात्वात् । अथ श्वैत्याद्यापरोक्ष्योपहितं विपर्ययविरोधीत्यसङ्कीर्णमिति चेन्न । तदापरोक्ष्यस्यैवान्वयव्यतिरेकाभ्यां विपर्ययविरोधित्वेन स्वरूपस्यातथात्वात् । विपर्ययविरोधिज्ञानरूपफलोपहितचन्द्रस्य प्रश्नोत्तराभ्याम् अप्रतीतेश्च । न हि प्रकर्षादिवाक्येन तादृशज्ञानं प्रतिपाद्यते । अपि तूत्पाद्यते । तस्माद्व्यावर्तकधर्मस्य वाच्यावृत्तेर्वा वैशिष्ट्यमेवासङ्कीर्णत्वम् । न केवलं प्रकृष्टादिवाक्यस्याखण्डे तात्पर्याभावः किन्तु सखण्ड एव तात्पर्यमित्याह– एवमिति ॥ ननु प्रकृष्टादिविशिष्टे चन्द्रत्वमिति न तात्पर्यम् । किन्तु यः कश्चिच्चन्द्र इत्येव तात्पर्यमित्याशङ्क्याह– तात्पर्यत इति ।

ननूक्तवाक्यस्य प्रकर्षादिविशिष्टे तात्पर्याभावेऽपि तद्वाक्यात्प्रकर्षादिविशिष्ट एव चन्द्रत्वं प्रतीयतेऽतः कथमुच्यते यः कश्चिच्चन्द्र इत्येव बोधः स्यादितीत्यत आह– अतात्पर्येति ॥ वस्तुत इति ॥ वस्तुतो योऽयः कश्चित्तस्य इत्येव स्यात् । प्रकृष्टत्वादिविशिष्टस्य चन्द्रत्व-सिद्धिर्याऽनुभवसिद्धा सा न स्यादिति भावः ॥ अखण्ड इति ॥ अखण्डे विभागाङ्गीकारे तन्नियतभेदस्यापि तत्र प्रसक्तिः स्यादित्यर्थः ॥ यत्किञ्चिदित्येवेति ॥ यत्किञ्चिदिति ज्ञाने सत्येव बुभुत्साप्रश्नयोरुदयात्प्रकृष्टादिवाक्यस्य च चन्द्रबुभुत्साप्रश्नौ प्रति हेतुभूताज्ज्ञानाद् अनधिकविषयत्वेन तद्वाक्यं चन्द्रबुभुत्सानिवर्तकं चन्द्रप्रश्नोत्तरं च न स्यादित्यर्थः । एतेन यथा गङ्गासम्बन्धित्वविशिष्टे तात्पर्याभावेऽपि वस्तुगत्या गङ्गासम्बन्ध्येव तीरं गङ्गापदेन लक्ष्यते तथा प्रकृष्टप्रकाशपदाभ्यां वस्तुगत्या स्वार्थाश्रयभूतैव व्यक्तिर्लक्ष्यते न तु या काचिदिति विशिष्टतात्पर्याभावेऽपि न दोष इति निरस्तम् । गङ्गापदाद्गङ्गासम्बन्धित्ववैशिष्ट्यस्याप्रतीतेः । प्रतीतौ वा तत्रापि गङ्गापदतात्पर्यकल्पनात् । युगपद्वृत्तिद्वयदोषस्य विशिष्टलक्षणयैव परिहारात् । यत्त्वयं चन्द्र इति लक्ष्यलक्षणभावाभावेऽपि तदुभयप्रतिपादकपदाभ्यामुपस्थितस्यैकस्वरूपस्यैवो-द्देश्यविधेयभावसम्भव इति, तन्न । प्रकारभेदाभावेनोद्देश्यत्वाद्यसम्भवात् । अन्यथा उद्देश्यमेव विधेयं, विधेयं चोद्देश्यमिति स्यात् ॥ प्रकारभेदेति ॥ निष्प्रकारकत्वेन सुतरां प्रकारभेदाभाव इत्यर्थः । संशयोल्लिखितप्रकारविरोधिप्रकारकनिश्चयस्यैव संशयविरोधित्वादिति भावः ।

क्वचिल्लक्षणस्य विधेयेनान्वयोऽस्तीत्याह– अस्ति चेति ॥ ननु पृथिवीशब्देन पृथिवीत्वजातिविशिष्टम् अजानतः पृथिवीत्वपदेन जातेरुपस्थित्यभावाद् अ्रनन्वय एव स्यादिति पृथिवीत्वजातिविशिष्टे पृथिवीशब्दार्थत्वग्रहोऽवश्यं प्रागेव श्रोतुर्वक्तव्यः । तथा च वचनवैफल्यम् इत्यनन्यगत्या जलादिव्यावृत्तगन्धसमानाधिकरणजातिमती पृथिवीत्याद्यर्थे पर्यवसितमुत्तरम् । गन्धसमानाधिकरणजातिमत्त्वादिकं च न पृथिवीपदवाच्यमिति नोक्तरूपपृथिवीत्वस्य पृथिवी-शब्दार्थत्वेन विधेयेनान्वय इति । मैवम् । पृथिवीत्वविशिष्टं पृथिवीशब्दार्थ इत्यजानतोऽपि पृथिवीत्वं पृथिवीत्वपदस्यार्थ इत्याप्तोपदेशादिना पृथिवीत्वपदेन पृथिवीत्वजात्युपस्थितिसम्भवेन तस्याविधेयेन पृथिवीशब्दार्थत्वेनान्वयोपपत्तेः । ननु पृथिवीत्ववैशिष्ट्यस्य पृथिवीशब्दार्थत्वे पृथिवीपृथिवीत्ववतीशब्दयोरेकार्थत्वात्सहप्रयोगो न स्यादित्यत आह– सहेति ॥ पृथिवीशब्दस्य पृथिवीत्ववतीशब्देनेति शेषः । तच्छब्देन पृथिवीशब्देन ।

ननु पृथिवीशब्दव्यवहर्तव्यतार्थकत्वे पृथिवीशब्दस्य जहत्स्वार्थलक्षणा स्यात् । स्वरूपपरत्वे तु जहदजहल्लक्षणा । तत्र स्वार्थान्वय इति जहदजहल्लक्षणया स्वरूपपरतैवोचिता । अत एव ‘व्याप्तेश्च समञ्जसम्’ इत्यधिकरणे शङ्करभाष्येऽप्युक्तम्– ‘लक्षणायामपि सन्निकर्षविप्रकर्षो भवतः । ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इत्यत्र किमोङ्कारसदृशमुद्गीथमित्यर्थः किं वोद्गीथावयवमोङ्कारमिति विवक्षायां गौण्यां वृत्तौ स्वार्थहानेरवयवलक्षणैव ज्यायसी सन्निकृष्ट-त्वादिति’ इति । मैवम् । स्वरूपपरत्वे वैयर्थ्यप्रसङ्गेन जहल्लक्षणयापि सार्थक्यस्य युक्तत्वात् ॥ तस्मादिति ॥ चन्द्रस्य घटादौ नक्षत्रादिभ्यो व्यावर्तकादिमत्त्वस्य च सामान्यतः प्रागेव ज्ञातत्वादित्यन्वयः । चन्द्रस्यापि घटादित्वाच्चन्द्रेऽपि तज्ज्ञानमस्त्येवेति चन्द्रत्वेन व्यावृत्ति-व्यावर्तकान्यतरविशिष्टविषयक एव चन्द्रप्रश्नादिरित्यर्थः ।

न्यायामृतकण्टकोद्धारः

मुख्यवृत्येति ॥ मुख्यवृत्तिजन्यस्य वाच्यतावच्छेदकविशिष्टविषयकत्वनियमात्, त्वयाऽनङ्गीकाराच्चेति । स्वरूपमात्रस्य पृष्टत्वं वदन् प्रष्टव्यः, स्वरूपं ज्ञातं न वा ? नाद्यः । ज्ञाते प्रश्नायोगात् । निश्चितेऽपि प्रश्ने तदविच्छेद एव स्यात् । न द्वितीय इत्याह– अस्तीति ॥ चन्द्रशब्दस्येति ॥ ‘अर्थवदधातुरप्रत्ययः प्रातिपदिकम्’ इति सूत्रेणार्थवत एव प्रातिपदिक-संज्ञाविधानादिति भावः । उक्तमर्थं कारिकारूढं करोति– एवञ्चेति ॥ ननु स्वरूपविषयकश्चेन्न प्रश्नस्तर्हि विषयान्तराभावान्निर्विषयक एवासावापद्यत इत्यत आह– तस्मादिति ॥ ननु स्वरूपस्य ज्ञातत्वान्नाज्ञानपक्षोक्तदोषावकाशः । न चैवं प्रश्नानुपपत्तिः । स्वरूपज्ञानस्य वृत्तत्वेऽपि संशयविरोधिस्वरूपज्ञानोदयार्थं प्रश्नोपपत्तेः । न च समानविषयत्वे कथमेकस्य तद्विरोधित्वमितरस्य तन्नेति वाच्यम् । ‘शङ्खः श्वेतो न पीतः’ इति परोक्षापरोक्षज्ञानयोर् विषयभेदाभावेऽपि भ्रम-विरोधित्वाविरोधित्वयोर् दृष्टत्वात् । अत एव विरोधिज्ञानानुदयोदयदशामालम्ब्य सङ्कीर्णत्वादि-व्यवहारोऽप्युपपद्यत इति किमनुपपन्नमिति चेन्न ।

संशयविरोधिज्ञानोदयार्थं प्रश्न इत्यङ्गीकुर्वता प्रश्नस्यासाधारणधर्मविषयत्वं स्वीकर्तव्यम् । स्वरूपमात्रज्ञानस्य संशयविरोधित्वादर्शनात् । अन्यथा पुरुषज्ञानमपि स्वरूपमात्रविषयं विशेषदर्शनजन्यत्वात् संशयनिवर्तकमिति स्यात् । न च विशेषदर्शनजन्यं सप्रकारकमेवेति वाच्यम् । विचारजन्यस्यापि सप्रकारकत्वनियमात् । अत एव सङ्कीर्णत्वादिव्यवहारोऽपि साधारणासाधारणधर्मविषयज्ञानाभ्यामुपपादनीयः । ‘शङ्खः श्वेतः’ इत्यादौ तु साक्षात्कारिभ्रमे साक्षात्कारिविशेषदर्शनस्यैव दिङ्मोहादौ निवर्तकत्वदर्शनात् परोक्षज्ञानस्य भ्रमानिवर्तकत्वेऽपि प्रत्यक्षस्य युक्तम् । न हि स्वरूपमात्रज्ञानं संशयविरोधि क्वापि दृष्टम् । येनात्र तथा प्रतीमः । दर्शनानुसारिणी हि कल्पना । अन्यथाऽतिप्रसङ्गात् । न च लक्षण वाक्येन व्यावृत्तिविशिष्टज्ञानं कथं जन्यते तद्बोधकशब्दाभावादिति वाच्यम् । न वयं व्यावृत्तिविशिष्टबोधं शाब्द इति ब्रूमः किन्तु लक्षणवाक्येन व्यावर्तकविशिष्टबोधने तस्य हानादिबुद्धिवद् अनुमानविधया फलत्वम् । अत एव लक्षणाद्यापादनमपि परास्तम् ।

एवं प्रश्नस्यासाधारणधर्मविषयत्वमुपपाद्योत्तरवाक्यस्यापि तदुपपादयति– एवमिति ॥ ननु यथा ‘व्रीहीन् प्रोक्षति’ इत्यत्र व्रीहिस्वरूपे प्रोक्षणविधानव्यर्थत्वापत्त्या ‘व्रीहिभिर्यजेत’ इति प्रकृतापूर्वसाधनलक्षणायामपि न यत्र कुत्रचित् प्रोक्षणापत्तिः । यथा वा गङ्गापदेन गङ्गासम्बन्ध्येव तीरं लक्ष्यते तथा चन्द्रत्वाश्रयीभूतैव व्यक्तिर्लक्ष्यत इति न यस्य कस्यचिच्चन्द्रत्वप्राप्तिरिति चेन्न । दृष्टान्ते प्रकृतापूर्वसाधनलक्षणायामपि द्रव्यत्वस्य वा सतुषद्रव्यत्वस्य वा अत्यक्तत्वेन विशिष्टे तात्पर्यसद्भावान्न यत्र कुत्रापि प्रोक्षणप्राप्तिः । प्रकृते प्रकृष्टत्वादौ तात्पर्याभावेन तस्य त्यक्तत्वादति-प्रसङ्गः स्यादेव । अत एवाह– (अ)तात्पर्यविषयस्येति ॥ तात्पर्यविषय इति ॥ न चाखण्डलक्षणलक्ष्यरूपोद्देश्यविधेय भावासम्भवेऽपि तदुभयप्रातिपदिकोपस्थितस्योद्देश्यविधेयभावसम्भव इति वाच्यम् । तदुभयप्रातिपदिकलक्ष्यस्याखण्डत्वेन प्रसिद्धत्वाप्रसिद्धत्वरूपोद्देश्यविधेयभावा-सम्भवात् । तथा च बुभुत्सानिवृत्तिर्न स्यादिति ॥ सर्वेषामपीति ॥ न च निष्प्रकारकमेव ज्ञानं संशयनिवर्तकमिति वाच्यम् । तस्य संशयनिवर्तकत्वस्य क्वाप्यदर्शात् । अन्यथाऽतिप्रसङ्गात् । तस्मात्परिहारो विशिष्टविषय इति ।

किञ्च यदि लक्षणवाक्यस्थानां सर्वेषां पदानां लक्षणया स्वरूपमात्रपरत्वं तदा एकेनैव स्वरूपस्य लक्षितत्वादितरवैयर्थ्यमित्याह– प्रकृष्टादीति ॥ चन्द्रपदेनैव स्वरूपमात्रलक्षणा-सम्भवादिति भावः । ननु व्यावर्त्यभेदात्पदानां सार्थक्यमित्यत आह– व्यावर्त्यभेदेनेति ॥ एतेनेति ॥ प्रश्नोत्तरयोर् विशिष्टविषयत्वप्रतिपादनेनेत्यर्थः ॥ सहेति ॥ यदि प्रकाशत्वं चन्द्रप्रातिपदिकार्थस्तर्हि चन्द्रप्रकाशशब्दयोर् एकप्रवृत्तिनिमित्तकत्वेन पर्यायत्वात्, पर्यायाणाम-सहप्रयोगस्य सर्वसिद्धत्वादिति भावः । ‘एतेनेति’ परामृष्टं हेतुमाह–अस्या एवेति ॥ तथा च प्रश्नवैयर्थ्यमिति भावः । ननु चन्द्रप्रातिपदिकार्थत्वे पर्यायत्वेन सहप्रयोगानुपपत्तिरित्यत आह– एवञ्चेति ॥ तथा च न पर्यायत्वमिति भावः । न च प्रातिपदिकार्थतावच्छेदकस्य प्रातिपदिकार्थत्वनियम एवेति वाच्यम् । भ्रान्तोऽसि । न वयं चन्द्रप्रातिपदिकार्थतावच्छेदकस्य प्रातिपदिकार्थत्वं ब्रूमः । गन्धवती पृथिवीत्यत्र गन्धवत्त्वस्योद्देश्यतावच्छेदकत्वेऽपि पृथिवी-शब्दार्थत्वाभावात् । अस्तु वा प्रातिपदिकार्थतावच्छेदकत्वम् । तथापि नायं नियमः । प्राभाकरमते धेनुप्रातिपदिकार्थतावच्छेदकस्य गोत्वस्य तत्प्रातिपदिकार्थत्वाभावात् । न्यायमते आकाशत्वस्य आकाश प्रातिपदिकार्थ तावच्छेदकस्यापि तत्प्रातिपदिकार्थत्वाभाववत्प्रकृतेऽपि प्रकाशत्वादेः प्रातिपदिकार्थत्वाभावसम्भवात् ।

किञ्च क्वचिल्लक्षणस्य प्रातिपदिकार्थत्वेनाप्यन्वयोऽस्तीत्याह– अस्ति चेति ॥ न च पृथिवीत्वविशिष्टस्य पृथिवीशब्दार्थत्वमजानतः पृथिवीत्वपदेन पृथिव्युपस्थित्यभावादनन्वयः स्यादिति पृथिवीत्वविशिष्टे पृथिवीशब्दार्थग्रहोऽवश्यं प्रागेव श्रोतुर्वक्तव्यः । तथा च पृथिवीत्ववतीति वचनसार्थक्याय जलादिव्यावृत्तगन्धसमानाधिकरणजातिमतीत्यर्थे पर्यवसितमुत्तरम् । गन्धसमानाधिकरणजातिमत्वञ्च न पृथिवीशब्दवाच्यमिति कथमन्वय इति वाच्यम् । पृथिवीविशिष्टे पृथिवीशब्दार्थत्वग्रहं विनापि पृथिवीत्वे पृथिवीत्वशब्दार्थत्वग्रहसम्भवेन पृथिवीत्वपदेन पृथिवीत्वोपस्थितिसम्भवात् । न हि पृथिवीत्वशब्दे सङ्केतग्रहे पृथिवीशब्दसङ्केतग्रहः कारणम् । न वाऽविनाभूतस्तद्ग्रहः । विना शब्दादिना पृथिवीत्वपदशक्तिग्रहसम्भवात् । तथा च पृथिवी-शब्दार्थत्वेनैवान्वयान्नानन्वयः ॥ पृथिवीशब्दस्येति ॥ न च व्यवहर्तव्यत्वलक्षणा(यां) जहल्लक्षणा स्वरूपलक्षणायां जहदजहल्लक्षणा इति सैव युक्ता । सर्वथा स्वार्थत्यागाभावादिति वाच्यम् । स्वरूपलक्षणायां सन्देहनिवृत्त्यादिकं न स्यादित्यादीनां बहूनां दूषणानामुक्तत्वात् । तथा च जहल्लक्षणैव युक्ता । ननु तथापि प्रश्नोत्तरयोर् असाधारणधर्मादिमात्रविषयत्वमस्तु । न तु तद्विशिष्ट-व्यक्तिपरत्वम् । तथा च कथं विशिष्टार्थत्वमित्याशङ्कामुपसंहारव्याजेन परिहरति– तस्मादिति ॥ तथा चासाधारणधर्मादेरपि ज्ञातत्वान्न प्रश्नोत्तरयोस् तन्मात्रविषयत्वमपि तु विशिष्टविषयत्वमेवेति भावः ।

न्यायामृतप्रकाशः

किञ्च प्रकृष्टवाक्यस्य मुख्यवृत्त्याऽखण्डार्थत्वम् उत भागत्यागलक्षणया वा । लक्षणापि अन्वयानु-पपत्त्या तात्पर्यानुपपत्त्या वा । नाद्यः । मुख्यवृत्त्या सखण्डार्थस्यैव प्रतिपादकत्वेन अखण्डार्थानुप-स्थितेः । द्वितीये न प्रथम इत्याह– चन्द्रादाविति ॥ प्रकाशो गुण इति द्रव्यमिति च मतद्वयसद्भावा-दाह– गुणेत्यादि । द्वितीये द्वितीयमाशङ्क्य निराकरोति– नापीति । तात्पर्यानुपपत्तिमुपपादयति– कश्चन्द्र इति । तथा च स्वरूपमात्र एव तात्पर्यम् । अन्यथा प्रश्नोत्तरयोर्वैयधिकरण्यं स्यादिति भावः । स्यादियं तात्पर्यानुपपत्त्या लक्षणा यदि चन्द्रस्वरूपमात्रविषयः प्रश्नः स्यान्न चैवं, कुत इत्यत आह– अस्तीति ॥ चन्द्रस्वरूपमात्रप्रश्नमङ्गीकुर्वता चन्द्रस्वरूपं न ज्ञातमित्येव वक्तव्यम् । ज्ञात-मित्यङ्गीकारे तत्र सन्देहायोगेन प्रश्नस्यैवायोगात् । ओमिति चेत्तत्राह– अस्तीति ॥ तत्र चन्द्रविषये । धर्मी चन्द्रः । बुभुत्सायास् तत्स्वरूपं बोद्धुमिच्छायाः । चन्द्रशब्दार्थाज्ञानेन स्वरूपमात्रप्रश्नाङ्गीकारे दूषणान्तरमाह– चन्द्रेति ॥ कश्चन्द्र इति चन्द्रशब्दे सु इति प्रथमाविभक्तिः प्रयुज्यते सोरुत्वे विसर्गे च सति चन्द्र इति जातत्वात् । सुब्विभक्तिश्च ‘ङ््याप्प्रातिपदिकात्’ इत्यधिकृत्य ‘स्वौजसमौट्’ इत्यादिना प्रातिपदिकोपर्येव विहिता । प्रातिपदिकत्वं चार्थवत्त्वगर्भम् ‘अर्थवदधातुरप्रत्ययः प्रातिपदिकम्’ इति सूत्रात् । अतः कश्चन्द्रेत्यस्य प्रातिपदिकत्वाज्ञाने सुब्विभक्तिप्रयोग एव न स्यात् । प्रेक्षावत्प्रयोगस्य ज्ञानपूर्वकत्वात् । अतः कश्चन्द्र इति पृष्टवतश्चन्द्रशब्दार्थज्ञानमस्तीत्यङ्गीकार्यमित्यर्थः ।

चन्द्रस्वरूपाज्ञानेऽनुवादः कुतो न युक्त इत्यत आह– न हीति ॥ स्वरूपद्वयेति ॥ सङ्कीर्णा-सङ्कीर्णचन्द्रस्वरूपद्वयेत्यर्थः ॥ तदेवेति ॥ धर्मित्वेन ज्ञातमेवेत्यर्थः ॥ असङ्कीर्णत्वेनेति ॥ इतरव्यावृत्तत्वेनेत्यर्थः ॥ अन्यतरेति ॥ व्यावर्तकधर्मवैशिष्ट्यं वा तत्साध्यव्यावृत्तिवैशिष्ट्यं वाऽसङ्कीर्णत्वमित्यर्थः ॥ विशिष्टेति ॥ तथा च कश्चन्द्र इत्यस्य निरुक्तासङ्कीर्णचन्द्रस्वरूपं किमिति प्रश्नार्थः स्यात् । तथा च प्रश्नस्य विशिष्टपरत्वमेवेति साध्यवैकल्यमिति भावः । उक्तप्रमेयं श्लोकद्वयेन सङ्गृह्णाति– एवं चेति ॥ एवं कश्चन्द्र इति प्रश्नस्याखण्डार्थविषयत्वं निराकृत्य प्रश्नस्य तदभावादेव प्रकृष्टप्रकाश इत्यादिप्रतिवचनमपि नाखण्डार्थप्रतिपादनपरमित्याह – एवमित्यादिना ॥ तात्पर्यत इति ॥ यस्मिन्कस्मिंश्चिच्चन्द्रस्वरूप एव तात्पर्यापत्तेरित्यर्थः । बोधनाद् बोधापत्तेः । ननूक्तवाक्यस्य प्रकर्षादिविशिष्टे तात्पर्याभावेऽपि तद्वाक्यात्प्रकर्षादिविशिष्ट एव तात्पर्यं प्रतीयतेऽतः कथमुच्यते यः कश्चिच्चन्द्र इत्येव बोधः स्यादिति, तत्राह– अतात्पर्येति । प्रतीतस्य प्रकृष्टत्वादेः ॥ वस्तुत इति ॥ वस्तुतो यः कश्चित्तस्यैव चन्द्रत्वं स्यात् । प्रकृष्टत्वादिविशिष्टस्य चन्द्रत्वसिद्धिश्चानुभवसिद्धा सा न स्यादिति भावः । इष्टापत्तिरिति चेत्तत्राह– तात्पर्येति ॥ अयं प्रकृष्टत्वादिलक्षणविशिष्टश्चन्द्र इत्यत्र प्रकृष्टत्वादिविशिष्टत्वरूपं लक्षणमुद्देश्यं, चन्द्र इति लक्ष्यं विधेयमित्यस्ति । अयं विभागस्तात्पर्य-विषयेऽखण्डे न स्यात् । अखण्डे विभागाङ्गीकारे च तन्नियततद्भेदस्यापि प्राप्तेरिति भावः ।

ततोऽपि किमित्यत आह– तात्पर्यत इति ॥ यत्किञ्चिदिति ज्ञाने सत्यपि चन्द्रत्वेन बुभुत्सा-प्रश्नयोरनुच्छेदात्प्रकृष्टादिवाक्यस्य तदुत्तरत्वं च न स्यादित्यर्थः ॥ लक्षणेति ॥ गोघटादिसमस्त-पदार्थलक्षणेत्यर्थः । तेन सास्नादिमानित्यादि लक्षणवाक्येन इयं गौर्न वाऽयं घटो न वेत्यादिभिन्न-भिन्नप्रकारकसंशयनिवृत्तिरनुभूयमाना न स्यात् । कुत इत्यत उक्तम्– प्रकारेति ॥ भिन्नभिन्नप्रकार-विषयकत्वाभावेनेत्यर्थः । प्रकारभेदावगाहित्वे लक्षणवाक्यानाम् अखण्डार्थत्वं व्याहन्येतेत्याशयः ॥ प्रश्नोत्तरे इति । प्रश्नोत्तरयोर्वैयधिकरण्यान्यथानुपपत्त्या विशिष्टपरत्वं विहाय चन्द्रप्रातिपदिकार्थमात्रपरत्वं तावत्सिद्धमस्ति । तत्रावाभ्यां चन्द्रप्रातिपदिकार्थ एव क इति विचार्यं भवति । तत्र प्रकृष्टप्रकाशत्व-रूपविशेषणविशिष्ट एव तावन्न चन्द्रप्रातिपदिकार्थः । तथात्वे प्रकृष्टप्रकाशश्चन्द्र इत्यनयोः पर्याय-त्वापत्त्या सहप्रयोगायोगात् । अतः प्रकृष्टत्वादिविशेषणसाधारणविशेष्यभूतव्यक्तिमात्रमेव चन्द्रप्राति-पदिकार्थ इति वक्तव्यम् । तथा च विशेष्यव्यक्तिमात्रस्य चाखण्डत्वेन प्रश्नोत्तरयोरखण्डार्थत्वसिद्धिरिति केनचिदुक्तं युक्ततरमप्येतेनैव निरस्तमित्यर्थः ॥ अस्या एवेति ॥ सत्यमेवं विशेष्यव्यक्तिरेव चन्द्रप्रातिपदिकार्थ इति तथापि प्रश्नस्य नाखण्डार्थत्वम् । एतस्या एव साधारणव्यक्तेर्व्यावर्तक-वैशिष्ट्यरूपेण व्यावृत्तिवैशिष्ट्यरूपेण चाऽसाधारण्येनाज्ञानेऽपि तत्र चन्द्रप्रातिपदिकार्थत्वरूपधर्मस्यैव सत्वेन तादृशधर्मवत्तया पूर्वं ज्ञातत्वेन प्रश्नस्याखण्डार्थत्वाभावात् ।

एवञ्च कश्चन्द्र इति प्रश्नस्य चन्द्रप्रातिपदिकार्थत्वविशिष्टः किंलक्षणविशिष्ट इत्यर्थकत्वेन विशिष्टपर एव प्रश्न इत्यर्थः । ननु तर्ह्युत्तरासङ्गतिः । तत्र हि प्रकृष्टप्रकाश इति लक्षणमुद्दिश्य चन्द्रत्वं विधेयमिति प्रतीयते । चन्द्रत्वं च चन्द्रप्रातिपदिकार्थत्वरूपम् । तथा च प्रकृष्टप्रकाशश्चन्द्रप्रातिपदिकार्थ इति विधानं न सम्भवति । प्रकृष्टत्वादौ विशेषणे चन्द्रप्रातिपदिकार्थत्वान्वयाभावादिति चेत्तत्राह– एवं चेति ॥ यथा गामानयेत्यत्र आनयनान्वयस्य गोत्वेऽसम्भवात् तदाश्रयव्यक्तावेवानयनान्वयोऽङ्गी-कृतोऽस्ति एतावता गोत्वं न त्यज्यते तस्योद्देश्यतावच्छेदकत्वेन विवक्षितत्वात् । एवं प्रकृष्ट-प्रकाशत्वविशिष्टे चन्द्रप्रातिपदिकार्थत्वबोधनेऽपि प्रकृष्टत्वादौ तदन्वयाभावेऽपि प्रकृष्टप्रकाशत्वादिकं न त्यज्यते । उद्देश्यं यद्विशिष्टं तस्याऽवच्छेदकत्वेन विवक्षितत्वादित्यर्थः ॥ तद्वदेवेति ॥ प्रश्नवदेवेत्यर्थः । क्वचिदुद्देश्यतावच्छेदकीभूतलक्षणस्य विधेये नान्वयोऽस्तीत्याह– अस्ति चेति ॥ पृथिवीत्ववती व्यक्तिः पृथिवी पृथिवीशब्दवाच्या । पृथिवीप्रातिपदिकार्थ इति यावत् । नन्वत्रोद्देश्यता-वच्छेदके पृथिवीत्वे कथं पृथिवीशब्दार्थत्वान्वय इत्यत आह– न हीति ॥

ननु पृथिवीत्वस्यापि पृथिवीशब्दार्थत्वे पृथिवीपृथिवीत्ववतीशब्दयोः पर्यायत्वापत्या पृथिवीत्ववती पृथिवीति सहप्रयोगो न स्यात् । पृथिवीत्ववती पृथिवीत्ववतीति प्रयोगायोगादित्यत आह– सहेति ॥ तथा च पृथिवीत्ववती पृथिवी पृथिवीति व्यवहर्तव्येत्यर्थः । अयं न्यायः प्रमाणमित्यादौ सर्वत्रापि द्रष्टव्यः । नन्वथापि व्यावर्तकादिधर्मविशिष्टपरत्वं प्रश्नादेः कथं, किन्तु नक्षत्रादिव्यावर्तकधर्ममात्रविषये व्यावृत्तिरूपधर्ममात्रविषये वा प्रश्नोऽस्त्वित्याशङ्कां ‘नक्षत्रादिव्यतिरेकमात्रस्यापि सिद्धत्वान्न व्यतिरेक-मात्रः’ इति भगवत्पादवाक्यं मनसि निधाय परिहरन्नुपसंहरति– तस्मादिति ॥ संशयादिधर्मिणश्चन्द्रस्य प्रागेव ज्ञातत्वादित्यन्वयः । तथा च न चन्द्रस्वरूपमात्रे प्रश्न इत्याशयः । चन्द्रस्वरूपमात्रवन्नक्षत्रादि-व्यावर्त्तकधर्मस्यापि घटत्वादौ, तदधीनव्यावृत्तेश्च घटादौ ज्ञातत्वान्न तदुभयमात्रे प्रश्नः किन्तु तद्व्यावर्त्तकधर्मविशिष्टं तत्साध्यव्यावृत्तिविशिष्टं वा चन्द्रस्वरूपं किमिति विशिष्टविषय एव प्रश्नः । तथा चोत्तरमपि विशिष्टविषयमेवेत्यर्थः ।

न्यायकल्पलता

असङ्कीर्णत्वस्येति ॥ ननु न व्यावर्तकादिवैशिष्ट्यम् असङ्कीर्णत्वम् । किं त्वेकमेव चन्द्रस्वरूपं दशाविशेषे विपर्ययविरोधित्वाविरोधित्वाभ्यामसङ्कीर्णं सङ्कीर्णं चोच्यत इति । मैवम् । ‘शङ्खः श्वेतो न पीतः’ इत्यापरोक्ष्यदशायां यादृशं श्वेतमपीतं वा शङ्खस्वरूपमस्ति तादृशमेव श्वैत्याद्यनुमितिकाले तद्विपर्ययकाले वाप्यस्तीति स्वरूपमात्रस्य विपर्ययाविरोधित्वात् । अथ श्वैत्याद्यापरोक्षोपहितं विपर्ययविरोधीत्यसङ्कीर्णमिति चेन्न । तदापरोक्षस्यैवान्वयव्यतिरेकाभ्यां विपर्ययविरोधित्वेन स्वरूपस्या-तथात्वात् । विपर्ययविरोधिज्ञानरूपफलोपहितचन्द्रस्य प्रश्नोत्तराभ्यामप्रतीतेश्च । न हि प्रकर्षादिवाक्येन तादृशज्ञानं प्रतिपाद्यते । अपि तूत्पाद्यते । तस्माद्व्यावर्तकधर्मस्य व्यावृत्तेर्वा वैशिष्ट्यमेवासङ्कीर्णत्वम् । सङ्गृह्णाति– एवं चेति ॥ न केवलं प्रकृष्टादिवाक्यस्याखण्डे तात्पर्याभावः किन्तु सखण्ड एव तात्पर्य-मित्याह– एवमिति ॥ ननु प्रकृष्टादिविशिष्टे चन्द्रत्वमिति न तात्पर्यम् । किं नाम यः कश्चिच्चन्द्र इत्येव तात्पर्यमित्याशङ्क्योक्तम्– तात्पर्यत इति ॥

ननु वाक्यस्य प्रकर्षादिविशिष्टे तात्पर्याभावेऽपि तद्वाक्यात्प्रकर्षादिविशिष्ट एव चन्द्रत्वं प्रतीयतेऽतः कथमुच्यते यः कश्चिच्चन्द्र इत्येव बोधः स्यादित्यत उक्तम्– अतात्पर्येति ॥ वस्तुतो यो यः कश्चित्तस्य चन्द्रत्वं स्यात् । प्रकृष्टत्वादिविशिष्टस्य चन्द्रत्वसिद्धिर्याऽनुभवसिद्धा सा न स्यादिति भावेनोक्तम्– वस्तुत इति ॥ अखण्ड इति ॥ अखण्डे विभागाङ्गीकारे तन्नियतभेदस्यापि तत्र प्रसक्तिः स्यादित्यर्थः ॥ यत्किञ्चिदित्येवेति ॥ यत्किञ्चिदिति ज्ञाने सत्येव बुभुत्साप्रश्नयो-रुदयात्प्रकृष्टादिवाक्यस्य च चन्द्रबुभुत्साप्रश्नौ प्रति हेतुभूताज्ज्ञानादनधिकविषयत्वेन तद्वाक्यं चन्द्र-बुभुत्सानिवर्तकं चन्द्रप्रश्नस्योत्तरं च न स्यादित्यर्थः । एतेन यथा सम्बन्धित्वविशिष्टे तात्पर्याभावेऽपि वस्तुगत्या गङ्गासम्बन्ध्येव तीरं गङ्गापदेन लक्ष्यते तथा प्रकृष्टप्रकाशपदाभ्यां वस्तुगत्या स्वार्थाश्रयभूतैव व्यक्तिर्लक्ष्यते न तु या काचिदिति विशिष्टतात्पर्याभावेऽपि न दोष इति निरस्तम् । गङ्गापदाद् गङ्गासम्बन्धित्ववैशिष्ट्यस्याप्रतीतेः । प्रतीतौ वा तत्रापि गङ्गापदतात्पर्यकल्पनात् । युगपद्वृत्तिद्वयदोषस्य विशिष्टलक्षणयैव परिहारात् ।

यत्त्वु ‘अयं चन्द्रः’ इति लक्ष्यलक्षणभावाभावेऽपि तदुभयप्रतिपादकपदाभ्यामुपस्थितस्यैक-स्वरूपस्यैवोद्देश्यविधेयभावसम्भव इति । तन्न । प्रकारभेदाभावेनोद्देश्यत्वाद्यसम्भवात् । अन्यथा उद्देश्यमेव विधेयं विधेयं चोद्देश्यमिति स्यात् ॥ प्रकारभेदेति ॥ निष्प्रकारकत्वेन सुतरां प्रकारभेदाभाव इत्यर्थः । संशयोल्लिखितप्रकारविरोधिप्रकारकनिश्चयस्यैव संशयविरोधित्वादिति भावः । क्वचिल्लक्षणस्य विधेयेनान्वयोऽस्तीत्याह– अस्ति चेति ॥ ननु पृथिवीशब्दार्थतत्वेन पृथिवीत्वजातिविशिष्टमजानतः पृथिवीत्वपदेन जातेरुपस्थित्यभावादनन्वय एव स्यादिति पृथिवीत्वजातिविशिष्टे पृथिवीशब्दार्थत्व-ग्रहोऽवश्यं प्रागेव श्रोतुर्वक्तव्यः । तथा च वचनवैफल्यमित्यनन्यगत्या जलादिव्यावृत्तगन्धसमानाधिकरण जातिमती पृथिवीत्याद्यर्थे पर्यवसितमुत्तरम् । गन्धसमानाधिकरणजातिमत्त्वादिकं च न पृथिवीपदवाच्यमिति नोक्तरूपपृथिवीत्वस्य पृथिवीशब्दार्थत्वेन विधेयेनान्वयः । व्यवहर्तव्यतालक्षणया सह प्रयोगोपपादनं चायुक्तम् । व्यवहर्तव्यतायामिति जहल्लक्षणा । तत्र च स्वार्थहानिः । स्वरूपे तु जहल्लक्षणा तत्र स्वार्थान्वय इति स्वरूपे जहदजहल्लक्षणेवेति । मैवम् । पृथिवीत्वविशिष्टं पृथिवीशब्दार्थ इत्यजानतोऽपि पृथिवीत्वं पृथिवीत्वपदस्यार्थ इत्याप्तोपदेशादिना पृथिवीत्वपदेन पृथिवीत्वजात्युपस्थितिसम्भवेन तस्याविधेयेन पृथिवीशब्दार्थ त्वेनान्वयोपपत्तेः ।

ननु पृथिवीत्ववैशिष्ट्यस्य पृथिवीशब्दार्थत्वे पृथिवी पृथिवीत्ववतीशब्दयोरेकार्थत्वात्सहप्रयोगो न स्यादित्यत आह– सहेति ॥ पृथिवीशब्दस्य पृथिवीत्ववतीशब्देनेति शेषः । तच्छब्देन पृथिवीशब्देन । यदत्रोक्तम् । पृथिवीशब्दव्यवहर्तव्यतार्थकत्वे पृथिवीशब्दस्य जहत्स्वार्थलक्षणा स्यात् । स्वरूपपरत्वे तु जहदजहल्लक्षणा । तत्र स्वार्थान्वय इति जहदजहल्लक्षणया स्वरूपपरतैवोचिता । अत एव ‘व्याप्तेश्च समञ्जसम्’ इत्यधिकरणे शङ्करभाष्येऽप्युक्तम्– ‘लक्षणायामपि सन्निकर्षविप्रकर्षौ भवत इति । ‘ओमित्येतदक्षरमुद्गीथपासीत’ इत्यत्र किमोङ्कारसदृशमुद्गीथमित्यर्थः किं वोद्गीथावयवमोङ्कारमिति विवक्षायां गौण्यां वृत्तौ स्वार्थहानेरवयवलक्षणैव ज्यायसी, सन्निकृष्टत्वादिति’ इति । तन्न । स्वरूपमात्रपरत्वे वैय्यर्थ्यप्रसङ्गेन जहल्लक्षणयापि सार्थक्यस्य युक्तत्वात् ॥ तस्मादिति ॥ चन्द्रस्य घटादौ नक्षत्रादिभ्यो व्यावर्तकादिमत्त्वस्य च सामान्यतः प्रागेव ज्ञातत्वादित्यन्वयः । चन्द्रस्यापि घटादित्वाच्चन्द्रेऽपि तज्ज्ञानमस्त्येवेति चन्द्रत्वेन व्यावृत्तिव्यावर्तकान्यतरविशिष्टविषयक एव चन्द्रप्रश्नादिरित्यर्थः।