१७ आविद्यकरजतोत्पत्तिभङ्गः

यच्चेदमुच्यते अध्यस्तमज्ञानोपादानकं तत्त्वज्ञाननाश्यं चेति

७५. आविद्यकरजतोत्पत्तिभङ्गः

न्यायामृतं

यच्चेदमुच्यते अध्यस्तमज्ञानोपादानकं तत्त्वज्ञाननाश्यं चेति । तन्न, तथात्वे रूप्यमुत्पन्नं नष्टं चेति धीप्रसङ्गेन त्रैकालिकनिषेधायोगात् । न चार्थक्रियाकारित्वादिरूपलौकिकपारमार्थिकत्वाकारेण तथा निषेधः रूप्यं नासीदस्ति भविष्यतीति स्वरूपेणैव निषेधात्, लौकिकपारमार्थिकत्वस्यापि रूप्यवत् प्रतीतत्वेन तत्काले सत्त्वाच्च । नाप्ययं निषेध आपणस्थरूप्यस्य, ‘नेह नानास्ति’ इति निषेधाय तात्त्विकप्रपञ्चान्तरापातात्, तस्याप्रसक्तेश्च । अन्यथाऽन्यथाख्यात्यापत्तेः । आभासस्य प्रसक्तिरेव पारमार्थिकस्य निषेधे तन्त्रमिति चेन्न, यत्प्रतीतं तन्नास्तीत्यनुभवविरोधात्, प्रतिपन्नोपाधाव-निषिद्धस्यास्य मिथ्यात्वासिद्धेश्च । निवृत्तिज्ञान इव त्रैकालिकनिषेधज्ञानेऽपि प्रसक्तस्याभासस्य निषेधसम्भवे निषेध प्रत्यवच्छेदकमधीस्थं पारमार्थिकमन-वच्छेदकस्याभासस्य धीस्तु निषेधधीहेतुरिति वैयधिकरण्यकल्पनायोगाच्च, अनारोपपूर्वकनिषेधस्यानुपपत्तेश्च । न च तत्रापि बुद्धिपूर्वकारोपकल्पना, यस्यारोपस्तस्यैव निषेध इति मते निषेधस्य प्रसक्त्यर्थं बुद्धिपूर्वकारोप-कल्पनेऽपि त्वन्मते तदयोगाद्, घटे स्मृते तदारोपं विनैवेह घटो नास्तीति-ज्ञानस्यानुभवात् । न चाभासप्रसक्त्याऽनाभासस्यापि प्रसक्तिः, आभास इत्यप्रसक्तेः । न च रजतत्वाकारेणानाभासस्यापि प्रसक्तिः, आभासाना-भासानुगतसामान्याभावात् फलबलेन व्याप्तिज्ञाने सामान्यस्य प्रत्यासत्तित्वेऽपि अतिप्रसङ्गेनान्यत्र तदभावाच्च ।

किं चाध्यस्तं न सोपादानकं सकर्तृत्वस्याप्यापाताद्, अविद्यालक्षण-भङ्गेऽध्यस्तस्याज्ञानोपादनकतया निरासाच्च । इदं रूप्यमिति रूप्यानु-विद्धस्येदमंशस्यैव दोषादिवशात् सत्यविकाराविरोधेन रूप्यात्मना मिथ्या-विकाररूपविवर्तसम्भवे तदननुविद्धस्याज्ञानस्योपादानत्वायोगाच्च । परोक्ष-धीरप्यज्ञानविरोधिनीत्युक्तत्वेन श्वेतत्वेनानुमिते शङ्खे श्वैत्यज्ञानाभावेन पीतत्वभ्रमायोगाच्च, त्वन्मते बिम्बप्रतिबिम्बयोरैक्यस्य प्रत्यक्षतया ऐक्या-ज्ञानाभावेनोपाधिवशादपि तत्र भेदभ्रमायोगाच्च । घटत्वेन साक्षात्कृते घटे घटत्वाज्ञानाभावेन पटोऽयमिति वाक्याभासाद् भ्रमानुत्पत्तिप्रसङ्गाच्च । अयं घट इत्यत्राग्निना सिञ्चेदितिवदन्वयविरोधिनो धर्मस्यानुपादानेनान्वयधीर्युक्तैव, साक्षिवेद्येऽज्ञानसुखादावज्ञानाभावेन तत्र ज्ञानाभावत्वदुःखाभावत्वादि-भ्रमायोगाच्च । परोक्षतत्वज्ञानस्याज्ञाननिवर्तकत्वे शङ्खे श्वैत्यानुमित्याऽप्यज्ञान-निवृत्तौ भ्रमानुत्पत्त्यापाताद्, अपरोक्षतत्त्वज्ञानस्य, च परोक्षे अभावेन परोक्षाध्यासस्यानिवृत्त्यभावेन मिथ्यात्वेनाधिष्ठानतत्त्वज्ञानैकनिवर्त्ययो रूप्य-ज्ञानाकाराविद्यापरिणामयोर्निवृत्त्यभावेन रूप्यधीसामग्रीसद्भावेन रूप्यप्रतीते-र्दुर्वारत्वाच्च । न च सर्वज्ञानानां स्वगोचरशूरत्वाद्यथाभ्रान्तितदर्थोऽङ्गीकार्य इति युक्तम्, अर्थतत्त्वव्यवस्थापकस्य बाधस्यैवानुसर्तव्यत्वेनानेवंविधस्य भ्रमस्या-तथात्वाद्, अन्यथा तदर्थस्य तात्त्विकत्वापातात् । आविद्यकरजतोत्पत्तिभङ्गः ।

अद्वैतसिद्धिः

तच्चानिर्वचनीयमज्ञानोपादानकम्, तत्त्वज्ञानेन नाश्यं च । ननु एवं ‘रूप्यमुत्पन्नं नष्टं च’ इति धीप्रसङ्गः, त्रैकालिकनिषेधप्रतीतिश्च न स्यादिति चेन्न, उत्पादविनाशप्रतीतिरियं भ्रान्तिसमये आपाद्यते ? बाधसमये वा ? नाद्यः, पूर्वोत्पन्नाविनष्टशुक्त्यभिन्नतया ग्रहस्यैव तत्र प्रतिबन्धकत्वाद्, विरोधिज्ञानानुदयेन रूप्यस्याविनाशाच्च । न द्वितीयः, अत्यन्ता-भावग्रहस्यैव प्रतियोगिग्रह इव तदुत्पादविनाशग्रहेऽपि प्रतिबन्धकत्वात् । न हि कुत्रापि कदापि अत्यन्ताभावाधिकरणत्वेन प्रतीते उत्पादविनाशप्रतीतिरस्ति । न च त्रयाणां सत्त्वे कथमत्यन्ताभावबुद्ध्या विनाशबुद्धिप्रतिबन्धः ? विनाशबुद्ध्यैवात्यन्ताभावबुद्धिः किमिति न प्रतिबध्यते ? नियामकाभावादिति वाच्यम्, फलबलेनात्यन्ताभावधीसामग््रया एव बलवत्त्वेन तस्यैव विनिगमकत्वात् । न च तर्हि उत्पादाद्यधिकरणे अत्यन्ताभावः कथम् ? प्रतीति-मुपलभस्व, यथा अपरोक्षप्रतीत्याद्यन्यथानुपपत्त्या सिद्धोत्पादादिकस्य त्रैकालिकनिषेध-प्रतियोगित्वं विषयीक्रियते ।

यद्वा न स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वम्, किन्तु पारमार्थिकत्वाकारेण । न च पारमार्थिकसत्त्वस्यापि प्रतिभाससमये प्रतीतत्वेन न त्रैकालिकनिषेधप्रतियोगित्वं सम्भवति रजतप्रतियोगित्वेनानुभवविरोधश्चेति वाच्यम्, प्रतीतिकालप्रतीतं पारमार्थिकत्वमपि प्रातीतिकमेवेति न तन् निषिध्यते, किन्त्वन्यत्र वृत्त्येवेति तेनाकारेण रजतस्यैव निषेध इति न तत्प्रतियोगित्वेऽनुभवविरोधोऽपि । ननु यद्यपि प्रसक्तिर्ज्ञानम्, सा च स्मृतिरूपा पारमार्थिकत्वस्यास्त्येव तथापि निषेध्यताप्रयोजकपारमार्थिकत्वाकारेण प्रातिभासिकस्य प्रसक्तिर्नास्तीति चेन्न । व्यधिकरणधर्मावच्छिन्नप्रतियोगिके ह्ययमभावः, तत्प्रतीतौ च न विशिष्टप्रसक्तिरुद्देश्या, प्रत्येकप्रसक्त्यैव तत्प्रतीत्युपपत्तेः । निर्विकल्पकादभावप्रतीति रिष्टापत्त्यैव परिहरणीया ।

यद्वा लौकिकपरमार्थरजतस्यैव तत्र त्रैकालिकनिषेधः । न च तर्हि ‘नेह नाना’ इति निषेधायापि तात्त्विकप्रपञ्चान्तरोररीकारापत्तिः, नेह नानेति निषेधस्थले किञ्चनेति पद-दसन्दंशात् प्रतीयमानसर्वनिषेधस्यावश्यकतया निषेध्यत्वेन प्रपञ्चान्तरकल्पनाया गौरव-करत्वात्, प्रकृते तु सर्वत्वेन प्रतियोग्यनुल्लेखाद् आपणस्थरूप्यनिषेधस्य इदम्यावश्य-कत्वेनाप्रतीतनिषेधकल्पनैव युक्ता । न चान्यथाख्यातिभिया तस्याप्रसक्तौ कथं तन्निषेधः ? अपरोक्षत्वाभावेऽपि स्मृतिरूपतत्प्रसक्तेः सम्भवात् । एतेन अधीस्थं पारमार्थिकत्वमवच्छेद-कम्, अनवच्छेदकस्याभासस्य धीस्तु निषेधधीहेतुरिति परास्तम् । न च आरोपपूर्विकैव निषेधधीः, तस्यानारोपात् कथं तदभावप्रत्यय इति वाच्यम्, आरोपस्य हेतुतायां मानाभावेन प्रतियोगिस्मरणाधिकरणानुभवादिनैव तदुपपत्तेः । अत एव न बुद्धिपूर्वकतदारोपोऽपि । अन्यथाख्यातेः सामग््रयभावेनासत्ख्यातिवत् प्रागेव निरासादारोपस्य विशेषादर्शनजन्यत्वेन बुद्धिपूर्वकत्वानुपपत्तेश्च ।

किञ्चाभासप्रसक्तिरेव तत्प्रसक्तिः । ननु आभास इत्यप्रसक्ते रजतत्वाकारेणाभासाना भासयोः प्रसक्तिर् वाच्या, सा चानुपपन्ना, उभयोरेकसामान्याभावात्, फलबलेन व्याप्तिग्रहे सामान्यस्य प्रत्यासत्तित्वेऽपि अन्यत्रातिप्रसङ्गेन तदभावाच्चेति चेन्न, शुक्तिरूप्यस्यापणरूप्येण प्रातीतिकस्य सामान्यस्याभावे तदर्थिप्रवृत्त्यनुपपत्त्या तदुभयसमामान्यस्यैकस्यावश्यकत्वात् । तेन सामान्येन प्रत्यात्तस्या आपणरूप्ये ज्ञानं न ब्रूमः, किन्तु प्रतियोगितावच्छेदकप्रकारकं ज्ञानं प्रतियोग्यविषयकमपि अभावप्रतीत्युपयुक्तं संवृत्तमिति । अतो न सामान्यप्रत्यासत्ति-निबन्धनातिप्रसङ्गावकाशः । यत्तु व्याप्तिग्रहे सामान्यप्रत्यासत्तिमङ्गीकृत्यातिप्रसङ्गेनान्यत्र तदनङ्गीकरणं, तदाशीविषमुखे अङ्गलिं निवेश्य वृश्चिकाद्भयनाटनम् । प्रमेयत्वेन व्याप्तिं परिच्छिन्दन् सर्वज्ञः स्यादिति व्याप्तिग्रह एवातिप्रसङ्गस्य प्राचीनैरुक्तत्वात् । इदं च यथाश्रुतप्राचीनग्रन्थानुसारेणोक्तम् । अन्योयाभावमादाय तु लौकिकपरमार्थरजतस्य निषेध्यत्वं प्राग्व्याख्यातं न विस्मर्त्तव्यम् ।

न च सोपादानत्वे सकर्तृकत्वापत्तिः, इष्टापत्तेः । ननु एवमपि रूप्यस्य कथमज्ञान-मुपादानम् ? तदनुविद्धतया अप्रतीतेः, इदमंशानुविद्धतया प्रतीतेरङ्गुलिनिर्देशाच्चेलाञ्चल-बन्धनादितश्चेदमंश एव सत्यविकाराविरोधेन मिथ्याविकारात्मना विवर्तत इत्यङ्गीक्रियतामिति चेन्न, शुक्त्यज्ञानस्य तावदन्वयव्यतिरेकाभ्यां कारणत्वमावश्यकमिति उपादानमपि तदेवास्तु । तत्कल्पनाया एवाभ्यर्हितत्वाद्, उपादानान्तरासिद्धेः । किञ्च शुक्तिज्ञानमज्ञानं नाशयद्रूप्यमपि नाशयति । तच्च तदुपादानत्वं विना न घटते, निमित्तनाशस्य कार्यनाशं प्रत्यप्रयोजकत्वाद्, उपादेये उपादानानुवेधनियमाभावात्, ‘रूपं घटः’ ‘कपालो घट’ इत्यप्रतीतेः, कथञ्चिदनु-वेधस्य जडत्वादिनात्रापि सम्भवात् । अनवच्छेदकतया इदमंशे इदमंशानुविद्धतया प्रतीतिरेव तदनुविद्धतया प्रतीतिः । कार्यकारणयोरभेदादङ्गुलिनिर्देशादिकमप्युपपद्यते । न च परोक्ष-ज्ञानस्याप्यज्ञाननाशकतया श्वैत्यानुमित्या अज्ञाने नाशिते पीतभ्रमानुदयः स्यात्, उपादाना-भावादिति वाच्यम्, विषयगताज्ञानस्य परोक्षवृत्त्याऽनाशात् । न च अपरोक्षवृत्तेरज्ञान-नाशकतायामपि ‘घटोऽयम्’ इति साक्षात्कृते पटोऽयमिति वाक्याभासाद् भ्रमानुत्पत्तिप्रसङ्गः । न ह्यत्र वह्निना सिञ्चतीत्यत्रेवान्वयविरोध्युपस्थितिरस्ति, येनेष्टापत्तिरवकाशमासादयेदिति वाच्यम्, यदा हि घटत्वं पटत्वविरुद्धतयाऽवगतं, तदा हि तद्दर्शनं विरोधिदर्शनमेवेति कथं नेष्टापत्त्यवकाशः ? यदा घटत्वस्य पटत्वविरुद्धतया न ज्ञानम्, तदा घटत्वज्ञानेन तदज्ञान-नाशेऽपि पटत्वविरुद्धतया अज्ञातविशेषाज्ञानस्य सत्त्वात्तदुपादानक एव भ्रम इति न काप्यनुपपत्तिः ।

न च साक्षिवेद्याज्ञानसुखादौ ज्ञानाभावत्वदुःखाभावत्वारोपौ न स्याताम्, अज्ञान-रूपोपादानाभावादिति वाच्यम्, दुःखाभावभिन्नत्वेन ज्ञानाभावभिन्नत्वेन दुःखत्वविरुद्धधर्म-वत्तयाऽज्ञानत्वविरुद्धधर्मवत्तया वा अधिष्ठानज्ञानं भ्रमनिवर्त्तकम् । तच्च विरोधभेदादि न साक्षिगम्यम्, किन्त्वनुपलब्धिगम्यम् । तथा च तदज्ञानमेव भ्रमोपादानम् । न च परोक्षा-ध्यासो न परोक्षज्ञानेन निवर्तेत, तस्याज्ञानानिवर्तकत्वादिति वाच्यम्, परोक्षाध्यासे हि प्रमातृगताज्ञानमेवोपादानम् । तच्च परोक्षज्ञानेनापि निवर्तत इत्युक्तत्वात् । न च रूप्यं दृष्ट्वाऽधिष्ठानतत्त्वज्ञानं विना निवृत्तस्य पुंसोऽज्ञाननिवृत्त्यभावेन रूप्यतज्ज्ञानयोरविद्या-परिणामयोरनिवृत्त्या रूप्यधीसामग्री सद्भावेन तद्धीर्दुर्वारैवेति वाच्यम्, रूप्यं तद्धीश्च उत्पन्ने तावदुदीच्यज्ञानेन उपादाने विलीयते । उपादानस्य निवृत्तिः परं न भवति, अधिष्ठान-तत्त्वज्ञानाभावात् । रूप्यबुद्ध्यन्तरोत्पत्तिस्तु इदमाकारान्तःकरणवृत्ति सद्भावेनानुत्पन्ना-धिष्ठानतत्त्वसाक्षात्कारस्य भवत्येव । तदभावे तद्विलम्बादेव विलम्ब इति न काप्यनुपपत्तिः । तथा च सर्वप्रत्ययानां स्वगोचरशूरत्वात् प्रतीतिकाले रजतस्य विद्यमानता सिद्धा । न चैवं तात्त्विकत्वमपि सिद्ध्येत, तस्यापि प्रातीतिकत्वादिति वाच्यम्, अपरोक्षप्रतीत्या तावत् त्रिकालाबाध्यत्वरूपं तात्त्विकत्वं विषयीकर्तुं न शक्यत इत्युक्तत्वात् । परोक्षप्रतीत्या विषयीकृतमपि तात्त्विकत्वं प्रातीतिकमेव, कालान्तरबाधेन पुनरतात्त्विकत्वस्य सम्भवात् । इत्याविद्यकरजतोत्पत्त्युपपत्तिः ।

न्यायामृततरङ्गिणी

॥ तथात्व इति ॥ ननूत्पादादिप्रतीतिरियं भ्रान्तिकाले आपाद्यते बाधसमये वा । नाद्यः । पूर्वोत्पन्नाविनष्टशुक्त्यभिन्नतया ग्रहस्यैव प्रतिबन्धकत्वात् । न द्वितीयः । अत्यन्ताभावग्रहस्यैव प्रतियोगिग्रह इवैतदुत्पादादिग्रहे प्रतिबन्धकत्वात् । न हि तदत्यन्ता-भावाधिकरणत्वेन प्रतीते उत्पादविनाशप्रतीतिरस्ति । मैवम् । इदानीमुत्पन्नरूप्याभेदेनेदं विशिष्टरूप्ये उत्पत्त्यादिप्रत्ययस्य चोदितत्वात् । समारोप्यधर्मस्यैव विषये प्रतीतेश्च । उत्पादादिप्रत्ययेनैवात्यन्ताभावप्रतीतिप्रतिबन्धसम्भवेन बाधासिद्धेश्च । न हि तदुत्पत्त्यधि-करणे तदत्यन्ताभावधीरस्ति ॥ पारमार्थिकत्वस्यापीति ॥ ननु न प्रतीतिकालप्रतीतं पारमार्थिकत्वं निषिध्यते किन्त्वन्यत्र वृत्तेरेवेति तेनाकारेण रजतस्यैव निषेध इति चेन्न । येनाकारेणानिषेधस्तेन रूपेण प्रतियोगिप्रसक्तौ पारमार्थिकत्वस्य रूप्यतुल्यत्वात् । न च व्यधिकरणधर्मावच्छिन्नाभावप्रतीतौ न विशिष्टप्रसक्तिरुद्देश्या । प्रत्येकप्रसिद्ध्यैव तत्प्रतीत्युप-पत्तेरिति वाच्यम् । तथापि निषिध्यमानस्य निषिध्यतावच्छेदकवैशिष्ट्येन प्रतीतिं विना निषेधायोगेन निषिध्यमानस्यानिर्वचनीयस्य तदवच्छेदकपारमार्थिकत्ववैशिष्ट्यज्ञानम-वर्जनीयमिति पारमार्थिकत्वमपि रजततुल्यमेव ॥ नेह नानेति ॥ प्रातिभासिकनिषेधस्य व्यावहारिकविषयत्वे व्यावहारिकनिषेधस्य तात्विकविषयत्वं स्यात् ॥ तस्येति ॥ आपणस्थरूप्यस्य । ननु भ्रमेणैव तत्प्रसक्तिरस्त्वित्यत आह ॥ अन्यथेति ॥

नन्वप्रसक्तस्यैवापणस्थरूप्यस्य निषोधोऽस्तु तथापि नातिप्रसङ्ग इति शङ्कते ॥ आभासस्येति ॥ यत्प्रतीतमिति प्रतीतिनिषेधयोर्वैय्यधिकरण्यस्य त्वयाङ्गीकृतत्वात्तव तत्सामानाधिकरण्यप्रतीतिविरोध इत्यर्थः ॥ प्रतिपन्नेति ॥ शुक्तौ प्रतीतरूप्यस्या-निषिद्धत्वात् ॥ प्रसक्तस्येति ॥ न च तस्य स्वरूपेण निषेधे तस्यासत्त्वापत्तिः । इष्टत्वात् ॥ निषेधसम्भव इति ॥ निषेधज्ञानजनकप्रतियोगिप्रसक्तिविषयस्यैवाभावा-प्रतियोगित्वात् । एतेन स्मृतिरूपा प्रसक्तिः सम्भवतीति निरस्तम् । नन्वधिकरणे निषेध्यारोपं विनैव प्रतियोगिस्मरणाधिकरणानुभवादिनैव निषेधज्ञानमस्त्वित्यत आह ॥ अनारोपेति ॥ अन्यथा तस्य बाधत्वानुपपत्तेः । तदुक्तं प्रसक्तप्रतिषेधात्मा बाधो ख्यातौ न युज्यत इति ॥ तत्रापीति ॥ अनाभासेति ॥ निषेधस्य प्रसक्त्यर्थमिति ॥ निषेधोपपादकप्रसक्त्यर्थम् ॥ त्वन्मत इति ॥ अन्यथाख्यातिभयादिति भावः ॥ तदारोपमिति ॥ स्मर्यमाणघटारोपं विना ।

नन्वाभासस्य प्रसक्त्याऽनाभासस्य प्रसक्तिः । किमिदं रजतमित्याकारेण वा रजत-मित्याकारेण वा । नाद्य इत्याह ॥ आभास इतीति ॥ इदं रजतमित्यप्रसक्तेः । द्वितीयमाशङ्क्य निराकरोति ॥ न चेति ॥ ननु शुक्तिरूप्यस्यापणस्थरूप्येण प्रातीतिकस्य सामान्यस्याभावे तदर्थिप्रवृत्त्यनुपपत्त्या तदुभयसामान्यमेकमावश्यकमिति प्रतियोगिता-वच्छेदकप्रकारकज्ञानं प्रतियोग्यविषयकमप्यभावप्रतीत्युपयुक्तं संवृत्तमिति मैवमित्याह ॥ आभासेति ॥ उभयानुगतसामान्यं किमाभास एव वाऽनाभास एव वोभयावच्छेदेनोभयरूपं वा । नाद्यौ । उभयोराभासत्वस्यानाभासत्वस्य वाऽऽपातात् । न तृतीयः । दृष्ट-विरोधादबिभ्यतैकमनुगतं रूप्यमेव तथेति स्वीकर्तव्यत्वात् । तेन सामान्येनापणस्थ-रूप्यस्यैव पुरोवर्तिनि प्रतीतिसम्भवाच्च । प्रवृत्तिं प्रति तु न रूप्यत्वसामान्यं हेतुः । किं तु रूप्यज्ञानमेव । नन्वाभासानुगतसामान्याभावेऽप्यनाभासस्य रजतत्वसामान्यप्रत्यासत्त्या भानमस्तु । न चान्यथाख्यात्यापत्तिः । तस्य स्वरूपेणैव भानात् । पुरोवर्तितादात्म्येन भानस्यान्यस्यानिर्वचनीयत्वादित्यत आह ॥ फलबलेनेति ॥ अतिप्रसङ्गः सार्वज्ञादिप्रसङ्गः ॥ सकर्तृकत्वस्येति ॥ न चेष्टापत्तिः । जीवस्येश्वरस्य वा तत्कर्तृत्वासम्भवात् ।

ननु भट्टमते क्षित्यादेरकर्तृकत्वेऽपि सोपादानत्ववद्रूप्यस्यापि तथास्त्वित्यत आह ॥ अविद्येति ॥ सोपादानत्वेऽप्यज्ञानोपादानत्वं नाध्यस्तस्य सम्भवतीत्याह ॥ इदमिति ॥ तदननुविद्धस्येति ॥ एतेन शुक्त्यज्ञानमन्वयव्यतिरेकाभ्यां कारणमिति तदेवोपादानमिति निरस्तम् । अन्वयव्यतिरेकयोर्निमित्ततायामुपपत्तेः ॥ परोक्षधीरिति ॥ न च प्रमातृ-गताज्ञाननाशेऽपि विषयगतं तदस्तीति वाच्यम् । पीतभ्रमकाले शङ्खे श्वैत्यासिद्ध्या श्वेतार्थिप्रवृत्त्यनुपपत्तेः । भ्रमानुत्पत्तिप्रसङ्गे इष्टापत्तिं परिहरति ॥ अयं घट इत्यत्रेति ॥ ननु यदा घटत्वं पटत्वविरुद्धतयावगतं तदा तद्दर्शनं विरोधिदर्शनमेवेति कथं नेष्टा-पत्त्यवकाशः । यदा घटत्वस्य पटत्वविरुद्धतया न ज्ञानं तदा घटत्वज्ञानेन तदज्ञाननाशेऽपि पटत्वविरुद्धत्वाज्ञानस्य सत्त्वात्तदुपादानक एव भ्रम इत्यत आह ॥ युक्तैवेति ॥ घटत्वस्य पटत्वविरुद्धतयावगमेऽपि पुरोवर्तीदन्त्वपटत्व योर्विरुद्धत्वानवगमादाप्तिगौरवादयं पट इति वाक्याभासात्पुरोवर्तिनि पटत्वबुद्धेरनुभवसिद्धत्वात्सा युक्तैव ॥ साक्षिवेद्य इति ॥ न चाज्ञानस्य सुखादीनां च स्वरूपेण साक्षिवेद्यत्वेऽपि ज्ञानाभावभिन्नत्वे दुःखाभाव-भिन्नत्वादिना न तद्वेद्यत्वम् । किन्त्वनुपलब्धिवेद्यत्वम् । तथा च तदज्ञानमेव भ्रमो-पादानमिति वाच्यम् । अमानत्वस्याभावविलक्षणत्वादि रूपतयाऽज्ञानत्वेनावगतेऽज्ञाने सुखत्वस्यानुकूलत्वादिरूपतया सुखत्वेनावगते च सुखादौ ज्ञानाभावदुःखाभावत्वाद्या रोपस्यानुभूयमानत्वात् ॥ परोक्षेति ॥ न च परोक्षाध्यासं प्रति प्रमातृगताज्ञानमेवोपादानं तच्च परोक्षज्ञानेनापि निवर्तत इति वाच्यम् । श्वैत्यानुमित्या प्रमातृगताज्ञाननाशे सति शङ्खे पीताध्यासो न स्यात् ॥ रूप्यं दृष्ट्वेति ॥

ननु रूप्यतद्धियावुदीच्य ज्ञानेन स्वोपादाने प्रविलीयेते ॥ उपादाननिवृत्तिः परं न भवति । अधिष्ठानतत्वज्ञानाभावात् । रूप्यबुद्ध्यन्तरोत्पत्तिस्त्विदमाकारान्तः करणवृत्ति-सद्भावेऽनुत्पन्नाधिष्ठाने तत्वसाक्षात्कारस्य भवत्येव । तदभावे तु तद्विलम्बादेव विलम्ब इति । मैवम् । प्रविलयः किं ध्वंसो वा पिशाचादिवत्तिरोधानं वा । आद्ये तस्य पुनरुत्पत्त्यसम्भवात्तज्ज्ञानसम्भवः । न द्वितीयः । पिशाचादिवद्रूप्ये तिरोधानशक्तेरभावात् ॥ खगोचरेति ॥ स्वविषयव्यवस्थापकत्वादित्यर्थः ॥ अर्थेति ॥ भ्रमभिन्नज्ञानस्यैव स्वविषयशूरत्वमित्यर्थः ॥ तात्विकत्वेति ॥ न चापरोक्षप्रतीत्यां त्रिकालाबाध्यत्वरूपं तात्विकत्वं न विषय इति वाच्यम् । स्वकाले सत्ताग्राहकस्य त्रिकालेऽसत्त्वाभाव-ग्राहकत्वस्योक्तत्वात् ॥

न्यायामृतकण्टकोद्धारः

किञ्च रूप्यस्यानिर्वचनीयत्वे उत्पत्यादिकं स्वीकर्तव्यम् । तच्चानुभवविरुद्धं त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वविरुद्धं चेति वक्तुं परमतमनुवदति ॥ यच्चेदमिति ॥ तथात्व इति ॥ ननूत्पादादिप्रत्ययः कदाऽपाद्यते । भ्रान्तिकाले बाधकाले वा । नाद्यः पूर्वोत्पन्नाविनष्टशुक्त्यभिन्नतया ग्रहस्यैव प्रतिबन्धकत्वाद् विरोधिज्ञानानुदयेन रूप्यस्या-विनाशाच्च । न द्वितीयः । अत्यन्ताभावप्रतियोगित्व ग्रहस्यैव प्रतियोगित्वग्रह एव उत्पादादिग्रहेऽपि प्रतिबन्धकत्वादिति चेन्मैवम् । प्रमाणेनानिर्वचनीयत्वे सिद्धे उत्पादादौ च सिद्धे प्रतिबन्धकल्पना । न चैवम् । अनिर्वचनीयप्रमाणानां निरस्तत्वात् । उत्पादादौ प्रमाणाभावाच्च । न चापरोक्षाभासान्यथानुपपत्त्या तत्सिद्धिरिति वाच्यम् । असत्त्वेऽपि तदुपपत्तेः । अन्यथा शशशृृङ्गस्यापि सत्त्वं प्रतिबन्धकसद्भावात् प्रतीत्यभाव इति स्यात् । किञ्च उत्पातादिग्रह एव भ्रान्तिबाधादौ प्रतिबन्धकः स्यात् । फलबलस्य चान्यथा-प्युपपादितत्वात् । प्रतीतिमात्रशरीरत्वेन विरोधिज्ञानानुदयेऽपि विनाशस्य वक्तुं शक्यत्वेन प्रतीतेरावश्यकत्वाच्चेति ॥ पारमार्थिकत्वस्यापीति ॥ न च यत्प्रतीतं प्रातिभासिकं पारमार्थिकत्वं तन्न निषिध्यते । किन्त्वन्यगतमेव । व्यधिकरणधर्मावच्छिन्ना भावाभ्युप-गमादिति वाच्यम् । तेन मिथ्यात्वासिद्धेः । अन्यगतपारमार्थिकत्वेनाभावेऽपि स्वगत-पारमार्थिकत्वेन सत्त्वसम्भवात् । किञ्च निषेध्यताप्रयोजकपारमार्थिकत्वेन प्रसक्तेरभावात् कथं तथा निषेधधीः । न च व्यधिकरणधर्मावच्छिन्नाभावे विशिष्टप्रसक्तिर्न तन्त्रं किन्तु प्रतियोगिप्रसक्तिमात्रमिति वाच्यम् । निर्विकल्पकादपि अभावधीप्रसङ्गात् । न चेष्टापत्तिः । किञ्चिदस्तीति ज्ञानानन्तरं घटो नास्तीति निषेधधीप्रसङ्गात् । तस्मात् पारमार्थिकत्वेन निषेधः ।

ननु नायं प्रतीतस्य निषेधः । येनोत्पादादिना विरोधः । किं त्वापणस्थस्येत्याशङ्क्य निषेधति ॥ नापीति ॥ नेहेति ॥ न च सर्ववाचककिञ्चनेतिपदात् प्रतीयमानस्यापि निषेधसम्भवे तात्विकप्रपञ्चान्तरकल्पने गौरवम् । प्रकृते च न सर्वत्वेन प्रतियोग्युल्लेख इत्यतोऽप्रसक्तनिषेधकल्पना युक्तेति वाच्यम् । भ्रान्तोऽसि प्रतीयमानस्य सत्त्वेन त्रैकालिकनिषेधासम्भवे चोदिते किञ्चनपदान्निषेध इत्यस्यायुक्तत्वाद् बाधकवशाद्विशेष-परत्वस्यैव युक्तत्वात् । प्रकृतेऽपि सामान्यनिषेधात् प्रतीतस्यापि निषेध इति वक्तुं शक्यत्वाच्च । न चानुपपत्त्याऽप्रसक्तस्यापि निषेध इति वाच्यम् । अन्यथाख्याते-रुपपादितत्वेन तदभावात् ॥ अन्यथेति ॥ आपणस्थस्य प्रसक्त्यङ्गीकार इत्यर्थः । न चापरोक्षप्रसक्त्यभावान् नान्यथाख्यातिः । स्मृतिरूपप्रसक्तेर्विद्यमानत्वान्निषेधोपपत्तिश्चेति वाच्यम् । अपरोक्षप्रसक्तिसम्भवे तत्त्यागायोगात् । न चान्यथाख्यातिसामग््रयभावान्ना-परोक्षप्रसक्तिरिति वाच्यम् । तस्या उपपादितत्वात् । प्रतीतस्यैव त्रैकालिकनिषेधानुभवाच्च । अत एवाह ॥ यत्प्रतीतमिति ॥ आपणस्थरूप्यनिषेधाङ्गीकारे प्रतीतरूप्यमिथ्यात्वा-सिद्धिरूपदूषणान्तरमाह ॥ प्रतिपन्नोपाधाविति ॥ उपलक्षणमेतत् । तद्वत् प्रपञ्च-मिथ्यात्वासिद्धिश्चेत्यपि द्रष्टव्यम् ॥ निवृत्तिज्ञान इवेति ॥ न च स्मृतिरूपधीस्थत्वात् कथमधीस्थतेति वाच्यम् । बाधसमये भ्रान्तिव्यतिरिक्तस्मृत्यसिद्धेः । न च स्मृतिः कल्प्यत इति वाच्यम् । भ्रान्त्यैव निषेधसम्भवे स्मृतिकल्पने गौरवात् ॥ अनारोपितेति ॥ तथा च तत्राभासप्रसक्तेरप्यभावान् निषेधो न स्यादिति भावः ॥ घट इति ॥ न चैवमाणस्थरूप्यस्याप्रसक्तस्यैव निषेधोपपत्तिरिति वाच्यम् । यत्प्रतीतं तन्नेत्यनुभव-विरोधस्योक्तत्वात् ॥ न चेति ॥ न चेदं पुनरुक्तमिति वाच्यम् । प्रकारान्तरेणा-भासप्रसक्त्याऽनाभासप्रसक्तिरित्यस्य दूष्यमाणत्वात् । अत्रानाभासप्रसक्तिः किमाभास-त्वेनाथवाऽभासानाभाससाधारणेन रजतत्वसामान्यलक्षणप्रत्यासत्या ? नाद्य इत्याह ॥ आभास इतीति ॥ उपलक्षणमेतत् । आभासत्वस्यानाभसनिष्ठत्वाभावेन तेन रूपेण तद्भानासम्भवाच्चेत्यपि द्रष्टव्यम् । द्वितीयमाशङ्क्य निषेधति ॥ न चेति ॥ न चाभासा-नाभाससाधारणसामान्याभावे रजतार्थिनस्तत्र प्रवृत्तिर्न स्यादिति वाच्यम् । रजतार्थिप्रवृत्तौ हि रजतत्वप्रकारकज्ञानं कारणम् । तावन्मात्रेण प्रवृत्युपपत्तेः । न त्वाभासानाभास-साधारणं सामान्यं कारणम् । तद्विलम्बने कार्यविलम्बाभावात् ॥ फलबलेनेति ॥ पर्वतीयधूमेन वह्न्यनुमितिरूपफलबलेनेत्यर्थः । न चैवं प्रमेयत्वेन व्याप्तिं परिच्छिन्दन् सर्वज्ञः स्यादिति वाच्यम् । तेन रूपेण सार्वज्ञस्येष्टत्वात् । तत्तदसाधारणधर्मप्रकारक-तत्तद्धर्मिविशेष्यकसर्वज्ञानस्यैवानिष्टत्वात् ॥ अतिप्रसङ्गेनेति ॥

ननु न वयं सामान्यप्रत्यासत्याऽपणस्थरूप्यज्ञानं वदामो येनातिप्रसङ्गः स्यात् किं नाम । प्रतियोगितावच्छेदकप्रकारकं प्रतियोग्यविषयकमेवेति चेन्न । प्रसक्त्यभावान्न निषेध इति वदन्तं प्रति प्रतियोगितावच्छेदकप्रकारकप्रतियोग्यविषयकज्ञानोपपादानस्य व्यधि-करणत्वात् । त्वया प्रतियोगिभूतापणस्थरूप्यस्मरणस्योपपादितत्वेन व्याहतत्वाच्च । न च प्रतियोगितावच्छेदकप्रकारकज्ञानादिकमेव तत्प्रसक्तिरिति वाच्यम् । समानविषय-प्रसक्तिसम्भवे भिन्नविषयकप्रसक्तेर्हेतुत्वे गौरवात् । न चान्योन्याभाव लौकिकपारमार्थिक-रजतस्य निषेधत्वं प्रागुक्तं स्मर्तव्यं तत्र दोषाभावादिति वाच्यम् । तत्रापि तादात्म्य-प्रसक्तेरावश्यकत्वात् । अत्र रजतं नेत्युल्लेखानुपपत्तेश्च । सविस्तरमस्य पक्षस्य प्रागेव दूषितत्वाच्चेत्यलम् ।

॥ सकर्तृकत्वस्येति ॥ यत् सोपादानकं सत् सकर्तृकमिति व्याप्तेरिति भावः । न चेष्टापत्तिः । यावद्विशेषबाधेन सकर्तृकत्वस्य बाधात् । न चेश्वरः कर्ता । तस्य तत्र रजतज्ञानाभावात् । तज्ज्ञाने च भ्रान्तत्वापत्तेः । तदङ्गीकारे च सार्वज्ञश्रुतिविरोधः । तज्ज्ञानाभावे च न तत्कर्तृत्वम् । नापि जीवः कर्ता तस्योपादानादिविषयकज्ञानादेर-भावात् । तथा च नेष्टापत्तिरिति भावः ॥ इदं रूप्यमिति ॥ उपलक्षणमेतत् । अङ्गुलिनिर्देशाच्चेलेन्धनादितश्चेत्यपि द्रष्टव्यम् । न चोपादानान्तरासिद्धेरज्ञानस्यैव तत्कल्पना युक्ता । तस्यान्वयव्यतिरेकसिद्धकारणत्वात् । रूप्यनाशजनकनाशप्रति योगित्वाच्च । न हि निमित्तनाशात् कार्यनाशोऽस्तीति वाच्यम् । इदमंशस्यैवोपादानत्व सम्भवादुक्तयुक्तेस् तस्यापि कारणत्वात् । निमित्तनाशादपि कार्यनाशो दृष्ट एव । अपेक्षाबुद्धिनाशादपि कार्यनाशो दृष्ट एव । अपेक्षबुद्धिनाशाद् द्वित्वनाशात् । न च निमित्तनाशाद् द्रव्यनाशो न दृष्ट इति वाच्यम् । तन्तुसंयोगनाशात् पटनाशदृष्टेः । न च सोऽसमवायिकारणमिति वाच्यम् । आवयोर्मते समवयाभावेन निमित्तत्वस्यैवावश्यकत्वाच्च । न चोपादानस्य नोपादेयानुविद्धत्वनियमो रूपं घट इति प्रतीतेरभावादिति वाच्यम् । घटरूपयो-रुपादानोपादेयभावासिद्धेः । ययोरुपादानोपादेयभावस्तयोरस्त्येवासाधारणधर्म पुरस्कारेणानु-विद्धत्वादि । यथा मृद्घट इत्यादि । न च रूप्याज्ञानयोः कदाप्यनुविद्धत्वमस्ति । रूप्यमज्ञानं, अज्ञानं रूप्यमिति वाऽप्रतीतेरिति ॥ परोक्षधीरपीति ॥ न च परोक्षधिया विषयगताज्ञानानाशात् पीतत्वभ्रमस्य तदुपादानकत्वसम्भव इति वाच्यम् । विषयगताज्ञान-सद्भावे प्रमाणाभावादित्युक्तत्वात् प्रमातृगताज्ञानेनैव सर्वस्योपपत्तेः । यथा चैतत्तथा सर्वमुपपादितम् ॥ त्वन्मत इति ॥ न चोपाधिनिवृत्तिसहितमेव ज्ञानमज्ञानविरोधीति वाच्यम् । ज्ञानस्याज्ञाननाशकत्वेऽ न्यानपेक्षणात् ॥ घटत्वेनेति ॥ न चेष्टापत्तिः । अस्य वाक्याद् अयं पटत्वेन ज्ञायत इत्यनुभवविरोधात् । नन्वन्वयबोधविरोध्युपस्थितेर् विद्यमानत्वात् कथमन्वयबोधोऽन्यथा वह्निना सिञ्चेदित्यत्रापि अन्वयबोधापत्तिरित्यत आह ॥ अयमिति ॥

नन्वत्रापि पटत्वविरुद्धघटत्वोपस्थितेर्विद्यमानत्वात् कथमन्वयबोधः ? न च घटत्वं पटत्वविरुद्धत्वेन नावगतमिति वाच्यम् । तर्हि विरोधाज्ञानस्यैव भ्रमोपादनत्वसम्भवादिति चेन्न । वाक्ये विरुद्धोपस्थितेरभावेन व्याघाताभावेनान्वयबोधोपपत्तेः । न च प्रत्यक्ष-विरुद्धधर्मोपस्थितिरे वान्वयबोधप्रतिबन्धिकेति वाच्यम् । वादिवाक्यादन्वयबोधाभावे कथाबधिरकलहः स्यादिति तादृशोपस्थितेरप्रतिबन्धकत्वात् । विरोधाज्ञानेनाविरुद्धत्व-भ्रमेऽपि पटत्वभ्रमासम्भवाच्चेति दिक् ॥ साक्षिवेद्य इति ॥ ननु यज्ज्ञानं भ्रमनिवर्तकं तदज्ञानं भ्रमोपादानम् । प्रकृते च दुःखाभावभिन्नत्वेन वाऽज्ञानाभावभिन्नत्वेन वा दुःखत्वविरुद्धधर्मवत्तया वाऽधिष्ठानज्ञानं भ्रमनिवर्तकम् । तच्च न साक्षिवेद्यमिति तदज्ञान-मेवापादनम् । तस्यानुपलब्धिगम्यत्वेन साक्षिवेद्यत्वाभावादिति चेन्न । अधिष्ठानासाधारण-धर्मज्ञानं भ्रमनिवर्तकम् । न च दुःखाभावभिन्नत्वादिकमसाधारणम् । तस्य घटादि-साधारणत्वात् । किञ्च दुःखाभावभिन्नत्वादिनाऽज्ञाने अज्ञानत्वादिना ज्ञाने भ्रमा-निवृत्तिप्रसङ्गः । अपि च येनेन्द्रियेण प्रतियोगी गृह्यते तदिन्द्रिययोग्यतयाऽभावस्य नानुपलब्धत्वम् । एवञ्च साक्षिवेद्यतया तदज्ञानसम्भवः । शुक्त्यादावपि रजताभावभिन्न-त्वादिज्ञानस्यैव भ्रमनिवर्तकत्वापत्तेश्च । न चेष्टापत्तिः । शुक्तित्वेन ज्ञाने भ्रमतादवस्था-पत्तेरिति दिक् ॥ परोक्षेति ॥ न च परोक्षाध्यासे प्रमातृगताज्ञानमेवोपादानम् । तच्च परोक्षतत्त्वज्ञाने निवर्तत एवेत्युक्तमेवेति वाच्यम् । प्रमातृगताज्ञानातिरिक्ताज्ञानसद्भावे प्रमाणभावादित्युक्तत्वात् ॥ रूप्यमिति ॥

नन्वत्र ये रूप्यतज्ज्ञाने उत्पन्ने तयोरनुवृत्तिरापाद्यतेऽथवा तज्जातीययोरुत्पत्तिः ? नाद्यः । उदीच्यज्ञानेन तयोर्निवृत्तत्वान् नद्वितीयः । इष्टापत्तेरिति चेन्न । मन्मते ज्ञानद्वयस्य युगपदुत्पत्यवस्थानयोः सम्भवेन उदीच्यज्ञानेन तयोर्नाशासम्भवाद् अत एवोक्तमानन्दबोधेन सुखदुःखयोरेकदैवोत्पत्तेरिति । उदीच्यज्ञानेन कथञ्चिद्भ्रमनाशसम्भवेऽपि रूप्यनाशासम्भवाच्च । न च रूप्यमनुवर्तत एवेति वाच्यम् । प्रातीतिकत्वविरोधात् । न चाज्ञानोपादानकमुदीच्यज्ञानेन नश्यतीति वाच्यम् । अन्तःकरणादेरपि नाशापत्तेरिति । अत एवाह अधिष्ठानतत्त्वज्ञानैकनिवर्त्ययोरिति ॥ अन्यथेति ॥ सर्वज्ञानानां स्वविषयत्व इत्यर्थः । तदर्थस्य भ्रान्तिविषयीकृतस्य । न च त्रिकालाबध्यत्वरूपं तात्विकत्वं न भ्रान्तिविषयीकृतस्य । न च त्रिकालाबाध्यत्वरूपं तात्विकत्वं न भ्रान्तिविषयः । प्रत्यक्षस्य वर्तमानमात्रग्राहित्वाद् भ्रान्तिग्राह्यत्वे वा तस्योदीच्यज्ञानबाध्यत्वेना तात्विक-त्वादिति वाच्यम् । एतावता ज्ञानमात्रं न स्वविषयव्यवस्थापकं किन्त्वबोध एवेति । एवं च प्रतीतिकाले बाधितस्यापि यदि सत्ता तदा सर्वदा सत्ता स्याद् व्याघातस्याविशेषादिति भावः । इति आविद्यकरजतोत्पत्तिभङ्गः ।

न्यायामृतप्रकाशः

अध्यस्तं रूप्यम् । अस्तु तथा धीरिति चेत् तत्राह ॥ त्रैकालिकेति ॥ तथात्वे रूप्यस्योत्पन्नत्वेनैकस्मिन् काले सत्त्वेन त्रैकालिकनिषेधो न युक्त इत्यर्थः । ध्वंसप्रति-योगित्वेनात्यन्ताभावायोगाच्चेत्यर्थः । ननु रूप्यस्यार्थक्रियाकारित्वरूपं यद् लौकिकपारमार्थि-कत्वं व्यावहारिकत्वमिति यावत्, तेनाकारेण निषेधाङ्गीकारात् तस्य चाकारस्य प्रातिभासिके रूप्ये कालत्रयेऽप्यभावेन तेनैवाकारेण त्रैकालिकनिषेधो युक्त इत्याशङ्क्य निषेधति ॥ न चेति ॥ तथेति ॥ कालत्रयसम्बन्धित्वेनेत्यर्थः ॥ स्वरूपेणैवेति ॥ न पारमार्थिकत्वे-नेत्यर्थः । किं चास्तु व्यावहारिकत्वाकारेण निषेधः । तथापि न त्रैकालिकनिषेधसिद्धिः । रूप्यवत् तद्व्यावहारिकत्वस्यापि तदा प्रतीतत्वात् । अन्यथा प्रवृत्त्ययोगात् । तस्य च प्रतीतिकाले सत्वेन न त्रैकालिकनिषेधो युक्त इत्याह ॥ पारमार्थिकत्वास्यापीति ॥ अर्थक्रियाकारित्वरूपलौकिकपारमार्थिकत्वस्यापीत्यर्थः । व्यावहारिकत्वस्येति यावत् ।

नन्वाभासस्य प्रसक्त्याऽनाभासस्य निषेध इत्यङ्गीकारेणाभासस्य प्रातिभासिकस्य रूप्यस्य प्रसक्तौ सत्याम् अनाभासस्यापणस्थरूप्यस्य निषेध इत्यङ्गीकारात् तस्य पुरोवृत्तिनि कदाऽप्यभावेन त्रैकालिकनिषेधो युक्त इत्याशङ्क्य निषेधति ॥ नापीति ॥ नेह नानेति ॥ यथाऽभासस्य प्रसक्त्या तदपेक्षयाऽधिकसत्ताकस्यापणस्थरूप्यस्य निषेध इत्यङ्गीक्रियत एवं नेह नानेति निषेधायाभासभूतप्रपञ्चापेक्षयाऽधिकसत्ताकं तात्त्विकं प्रपञ्चान्तरम् अङ्गीकार्यं स्यादित्यर्थः ॥ तस्येति ॥ आपणस्थरूप्यस्य निषेधाय प्रसक्त्यर्थं भ्रमविषयत्वस्याप्यङ्गीकारे अन्यत्र विद्यमान एवान्यत्रारोप्यत इति तार्किकाभिमतान्यथाख्यात्यापत्त्या सदसद्विलक्षणम-निर्वचनीयमेव रूप्यं ख्यायत इति त्वत्पक्ष क्षतिरित्याह ॥ अन्यथेति ॥ न चाप्रसक्त-स्यैवापणस्थरूप्यस्य निषेधोऽस्तु । तथात्वे नातिप्रसङ्ग इति चेत् तत्राह ॥ अभासस्येति ॥ पारमार्थिकस्य आपणस्थरूप्यस्य । यत् प्रतीतं रूप्यं तदेव नास्तीत्यनु-भवेन प्रतीतिनिषेधयोः समानविषयकत्वप्रतीत्या भिन्नविषयकत्वाङ्गीकारे तद्विरोधः स्या-दित्यर्थः ॥ प्रतिपन्नेति ॥ शुक्तौ प्रतीतस्य रूप्यस्यानिषिद्धत्वात् तस्य प्रतिपन्नोपाधौ निषेधप्रतियोगित्वरूपमिथ्यात्वासिद्धिरित्यर्थः ॥ निवृत्तिज्ञान इवेति ॥ वास्तवरूप्यस्थले उत्पन्नं रूप्यं नष्टमिति निवृत्तिज्ञाने उत्पन्नत्वेन धीस्थस्यैव रूप्यस्य ध्वंसो ज्ञायते, न तु यस्य कस्यचिद् रूप्यस्येत्येवं निवृत्तिज्ञाने उत्पत्तिज्ञानाद् यथा वैय्यधिकरण्यं नास्ति एवं त्रैकालिकनिषेधज्ञानेऽपि प्रसक्तस्याभासस्यैव निषेधसम्भवे भ्रमबाधयोर्वैय्यधिकरण्यकल्पना-योगादित्यन्वयः । तद्विवरणम् ॥ निषेधं प्रतीत्यादि ॥ निषेधं प्रति अधीस्थं प्रसक्तत्वेन बुद्ध्यनारूढं यत् पारमार्थिकमापणस्थरूप्यं तद् अनवच्छेदकं प्रतियोगि । अनवच्छेदकस्य अप्रतियोगिनो ऽभासस्य धीस्तु पारमार्थिकस्य निषेधज्ञाने हेतुरिति वैय्यधिकरण्यम् । रूप्य-मत्रास्तीति एवं बुद्धिपूर्वकमारोप्य तदेव निषिध्यत इत्यर्थः । निषेधस्योपपादकभूता या प्रसक्तिस् तदर्थमित्यर्थः ॥ त्वन्मत इति ॥ अनिर्वाच्य ख्यातिपक्ष इत्यर्थः । तथात्वेऽन्यत्र विद्यमानस्यान्यत्रारोपरूपान्यथाख्यात्यापत्तेरित्यर्थः ॥ तदारोपं विनैवेति ॥ निषेधस्यारोपं विनैवेत्यर्थः । तत्रापि अनाभासेऽपि । आपणस्थवैयधिकरण्यकल्पनायोगादित्यर्थः । तथा च यद् धीस्थं प्रसक्तं तन् न निषेध्यं यन् निषेध्यं तदप्रसक्तम् अधीस्थमित्यलौकिक-कल्पनापत्तिरिति भावः ।

नन्वधिकरणे निषेध्यस्यानाभासस्यापणस्थरूप्यस्यारोपाभावेऽपि निषेधोऽस्त्वित्यत आह ॥ अनारोपेति ॥ घटस्मारणानन्तरं स्मृतमिमं घटमत्रारोपयिष्यामीति बुद्धिपूर्वकारोपं विनैव इह भूतले घटो नास्तीति प्रतीतेरनुभवसिद्धत्वान् न बुद्धिपूर्वकारोपस्यापि कल्पना युक्ता । अत आरोपपूर्वकनिषेधानुपपत्तिस् तदवस्थैवेत्यर्थः । अनाभासस्यापि प्रसक्तिः किमिदं रजत-मित्याकारेण वा? रजताभासानाभासानुगतरजतत्वसामान्यलक्षणप्रत्यासत्त्या वा? नाद्य इत्याह ॥ आभास इतीति ॥ आभास इति इदं रजतमित्यस्य संज्ञा । तथा चेदं रजतमित्यत्राप्रसक्तेरिति भावः । न ह्यापणस्थरूप्यम् इदं रजतमिति भावः । द्वितीयमाशङ्क्य निषेधति । अस्तु वा रजतत्वसामान्यं, तथापि तल्लक्षणप्रत्यासत्त्या नानाभासरजतप्रतीतिः । कुत इति चेत् तत्राह ॥ फलबलेति ॥ यथा सन्निकृष्टे धूमे इन्द्रियसम्बद्धं धूमत्वं प्रत्यासत्तीकृत्य तदाश्रयव्यक्तीनां धूमत्वसामान्यप्रत्यासत्त्योपस्थितौ तत्र सर्वोपसंहारेण व्याप्तिग्रहो भवतीत्येवं सर्वोपसंहारेण व्याप्तिग्रहरूपानुभवसिद्धफलबलेन सामान्यस्य प्रत्या-सत्तित्वेऽपि अन्यत्रापि सामान्यस्येन्द्रियसम्बद्धत्वाभावस्थलेऽपि न तस्य प्रत्यासत्तित्वं युक्तम् । पुरोदेशे व्यक्तेरभावेन तत्र रजतत्वसामान्याभावाद् रजतत्वं नेन्द्रियसन्निकृष्टम्, अतः कथं प्रत्यासत्तिः स्यात् । आश्रयद्वारेन्द्रियसम्बद्धं सामान्यं प्रत्यासत्तिरिति मणिकृदुक्तत्वात् । इन्द्रियासम्बद्धस्यापि सामान्यस्य प्रत्यासत्तित्वे परमाणुत्वसामान्यं प्रत्यसत्तीकृत्यास्मदादीना-मपि सर्वपरमाणुसाक्षात्कारप्रसङ्गापत्तेः । अतो न रजतत्वस्य प्रत्यासत्तित्वमङ्गीकृत्या-स्मदादीनामपि सर्वपरमाणुसाक्षात्कारप्रसङ्गापत्तेः । अतो न रजतत्वस्य प्रत्यासत्तित्वमङ्गी-कृत्यानाभासोपस्थितिः कल्प्येत्यर्थः । अन्यत्रापि तस्य प्रत्यासत्तित्वे सर्वेषां सार्वज्ञप्रसङ्ग इत्यर्थ इत्यप्याहुः । अध्यस्तमज्ञानोपादानकमित्युक्तं दूषयति ॥ किञ्चेति ॥ सकर्तृकत्व-स्यापीति ॥ जीवस्येश्वरस्य वा कर्तृत्वं न सम्भवतीत्यतो नेष्टपत्तिरिति भावः ।

ननु निरीश्वरवादिमते क्षित्यादेरकर्तृकत्वेऽपि सोपादनकत्ववद् रूप्यस्यापि तथाऽ-स्त्वित्यत आह ॥ अविद्येति ॥ निरासाच्चेति ॥ आरोपिताभावं प्रति भावरूपा-ज्ञानस्यानुपादानत्वात् । अभावस्य भावोपादानकत्वे असत्यस्य सत्योपादानकत्वापात इत्येवमादिरीत्या निरस्तत्वादित्यर्थः । किं चाज्ञानस्य न रूप्योपादानत्वं कल्प्यं, मृद्घट इत्यादिवद् अज्ञानानुविद्धत्वेनाप्रतीयमानत्वाद् इदं रूप्यमिति रूप्यानुविद्धत्वेन प्रतीयमान-स्येदमंशस्यैव दोषवशान् मिथ्यारूप्यात्मना विकारसम्भवात् । न च रूप्यस्य मिथ्यात्वात् सत्यस्येदमंशस्य मिथ्यारूप्यात्मना विकारो न सम्भवति । तथात्वे इदमंशस्वरूपस्यापि मिथ्यात्वापात इति वाच्यम् । मिथ्याविकाररूपविवर्तत्वसम्भवात् । एतादृशस्य विकारस्य सत्यो योऽयमविकारो ऽप्रच्युतस्वरूपत्वरूपस् तदविरोधित्वात् । मिथ्याविकाररूपविवर्तत्वं नाम तदारोपाधिष्ठानत्वमेवेति द्रष्टव्यम् । तथा चेदमंशाधिष्ठानकतया तत्रारोपितत्वेनैव रूप्य-स्योपपत्तौ तत् प्रत्यज्ञानस्योपादानत्वायोगादित्याशयेनाह ॥ इदमिति ॥ इतोऽप्यध्यस्तं नाज्ञानोपादानकमित्याह ॥ परोक्षेति ॥ उक्तत्वेनेति ॥ अन्यथा तद्व्यवहाराभाव-प्रसङ्गादिति भावः ॥ अज्ञानेति ॥ अनुमितिरूपपरोक्षज्ञानेन निवृत्तत्वादिति भावः ॥ भ्रमायोगाच्चेति ॥ उपादानभूताज्ञानस्य निवृत्तत्वादित्यर्थः । सोपाधिकभ्रमत्वान् न दोष इति चेत् तत्राह ॥ त्वन्मत इति प्रत्यक्षतयेति ॥ ‘‘ग्रीवास्थमेवेदं मुखम्’ इत्यैक्यस्य प्रत्यक्षसिद्धत्वादिति भावः ॥ भेदभ्रमेति ॥ तद्विपरीतसाक्षात्कारे सति उपाधिवशादपि तद्भ्रमायोगादित्यर्थः ॥ भ्रमानुत्पत्तीति ॥ तदुपादानाभावेन पटत्वप्रकारकभ्रमो न स्यादिति भावः ।

नन्वयं पट इति वाक्याभासात् ‘अग्निना सिञ्चेत्’ इत्यत्रेवान्वयधीरेव न भवतीति चेत् तत्राह ॥ अयं पट इत्यत्रेति ॥ ‘अग्निना सिञ्चेत्’ इत्यत्र सेकक्रियाकरणत्वरूपान्वय-धीविरोधिनोऽग्नित्वस्योपस्थितत्वान् न तत्रान्वयबोधो भवति । अयं पट इत्यत्र तु पटप्रकारकेदम्पदार्थविशेष्यकान्वयबोधविरोधिनः कस्यापि धर्मस्यात्रानुपादानाद् अन्वयबोधो सरूपो भविष्यत्येव । न ह्यमित्यनेनोपस्थितमिदन्त्वं पटत्वान्वयविरोधि न वा पटत्वमिदं त्वान्वयविरोधि । तथात्वे अयं पट इति प्रयोगोऽपि न स्यात् । अतो युक्तैव वाक्याभासाद् भ्रमोत्पत्तिरिति भावः ॥ अज्ञानेति ॥ ज्ञातैकसत्वादिति भावः । ज्ञानाभावत्वेति ॥ त्वदुक्तमर्थं न जानामीति भावरूपाज्ञानप्रतीतिस् त्वन्मते भवति । इयं च ज्ञानाभावप्रतीति-रित्यस्माभिरुक्ते तत्र त्वयोच्यते भावरूपाज्ञाने भवतो ज्ञानभावत्वभ्रम इति । स न स्यात् । तथा सुखे बौद्धानां दुःखाभावभ्रमो भवति, ‘दुःखाभावं सुखं चाहुः’ इति वचनात् । तथाचेदं भ्रमद्वयं न स्यात् । तदुपादानाज्ञानाभावादिति भावः । किं चाध्यस्तस्याज्ञानोपादानकत्वे परोक्षाध्यासनिवृत्तिरेव न स्यात् । तदुपादानाज्ञाननिवर्तकाभावात् । तन्निवर्तकं हि परोक्ष-तत्वज्ञानं वा स्यात्, अपरोक्षतत्वज्ञानं वा नोभयमपीत्याह ॥ परोक्षेति ॥ रूप्य-मित्यादि ॥ रूप्यधीसामग्रीसद्भावेनोत्पन्नाया रूप्यधियो नाशायोगेन सदा रूप्यधीः स्यादित्यर्थः । ननु रूप्यज्ञानाकाराविद्यापरिणामयोर्निवृत्तत्वान् न रूप्यधीसामग्रीसद्भाव इत्यत उक्तम् अधिष्ठानत्वज्ञानेत्यादि ॥ अधिष्ठानतत्त्वज्ञानैकनिवर्त्यत्वे निमित्तकथनम् ॥ मिथ्यात्वेनेति ॥ अर्थज्ञानात्मकोभयविधभ्रमाङ्गीकारेण रूप्यतद्ज्ञानयोरुभयोरपि मिथ्यात्वा-दित्यर्थः ।

ननु तर्ह्यधिष्ठानज्ञानेनाज्ञाननिवृत्त्या रूप्यज्ञानाकाराविद्यापरिणामयोरपि निवृत्तिरस्त्वित्यत उक्तम् ॥ रूप्यं दृष्ट्वेत्यादि ॥ निवृत्तस्येति ॥ परावृत्तस्येत्यर्थः । व्यसङ्गेनान्यत्र गतस्येति यावत् ॥ स्वगोचरेति ॥ स्वविषये शूरत्वात् स्वविषयव्यवस्थापकत्वस्वभावा-दित्यर्थः । यथाभ्रान्ति भ्रान्तिमनतिक्रम्य । तदनुसारेणेति यावत् । तदर्थो भ्रान्तिप्रतीतोऽर्थः । एवं च भ्रमरूपज्ञानस्यापि स्वविषयसत्त्वव्यवस्थापकत्वात् तदनुसारेण तत्र प्रतीतस्यापि अध्यस्तस्य रजतस्य प्रातिभासिकत्वात् तदज्ञानोपादानकमवश्यमङ्गीकार्यमिति भावः ॥ बाधस्यैवेति ॥ भ्रमभिन्नस्य बाधकज्ञानस्यैव स्वार्थसत्त्वव्यवस्थापकतयाऽनुसर्तव्यत्वा-दित्यर्थः । अनेवंविधस्य अर्थतत्वव्यवस्थापकबाधभिन्नस्य अतथात्वात् स्वविषयसत्व-व्यवस्थापकत्वरूपस्वगोचरशूरत्वाभावादित्यर्थः ॥ अन्यथेति ॥ भ्रमस्यापि अर्थतत्व-व्यवस्थापकत्वरूपस्वगोचरशूरत्वाङ्गीकार इत्यर्थः । तदर्थस्य भ्रमव्यवस्थापितस्वरूपस्य रूप्यरूपार्थस्य पारमार्थिकत्वापातादित्यर्थः । अतो न यथाभ्रान्ति तदर्थोऽङ्गीकार्य इति न तदनुसारेणाज्ञानोपादानकत्वमध्यस्तस्येति भावः ।

न्यायकल्पलता

॥ तथात्व इति ॥ ननूत्पादविनाशप्रतीतिरियं भ्रान्तिकाले आपाद्यते बाधसमये वा । नाद्यः । पूर्वोत्पन्नाविनष्टशुक्त्यभिन्नतया श्रुतिग्रहस्यैव प्रतिबन्धकत्वात् । विरोधिज्ञानानुदयेन रूप्यस्याविनाशाच्च । न द्वितीयः । अत्यन्ताभावग्रहस्यैव प्रतियोगिग्रह इवैतदुत्पादादिग्रहे प्रतिबन्धकत्वात् । न हि कुत्रापि अत्यन्ताभावाधिकरणत्वेन प्रतीते उत्पादविनाशप्रतीति-रस्ति । मैवम् । इदानीमुत्पन्नरूप्याभेदेनेदं विशिष्टरूप्ये उत्पत्त्यादिप्रत्ययस्य चोदितत्वात् । समारोप्यधर्मस्यैव विषये प्रतीतेश्च । किञ्च । त्वन्मते त्रयाणां सत्वे कथमत्यन्ता-भावबुद्ध्याविनाशधीप्रतिबन्धः । विनाशबुध्यैवात्यन्ताभावबुद्धिः किमिति न प्रतिबध्यते । नियामकाभावात् । उत्पादादिप्रत्ययेनैवात्यन्ताभाव प्रतीतिप्रतिबन्धसम्भवेन बाधाभाव-प्रसक्तेश्च । न हि तदुत्पत्त्यधिकरणे तदत्यन्ताभावधीरस्ति ॥ पारमार्थिकत्वस्यापीति ॥ ननु न प्रतीतिकालप्रतीतं पारमार्थिकत्वमपि प्रातीतिकमेवेति न तन्निषिध्यते । किन्त्वन्यत्र वृत्त्यैवेति तेनाकारेण रजतस्यैव निषेध इति न तत्प्रतियोगित्वे अनुभवविरोध इति चेन् न । येनाकारेणानिषेधस्तेन रूपेण प्रतियोगिप्रसक्तौ पारमार्थिकत्वस्य रूप्यतुल्यत्वात् । यत्तु व्यधिकरणधर्मावच्छिन्नो ह्ययमभावः । तत्प्र्रतीतौ च न विशिष्टप्रसक्तिरुद्देश्या । प्रत्येक-प्रसिध्द्यैव तत्प्रतीत्युपपत्तेरिति । तदयुक्तम् । तथापि निषिध्यमानस्य निषिध्यतावच्छेदक-वैशिष्ट्यप्रतीतिं विना निषेधायोगेन निषिध्यमानस्य प्रातीतिकानिर्वचनीयस्य तदवच्छेदक-पारमार्थिकत्ववैशिष्ट्यज्ञानमवर्जनीयमिति पारमार्थिकत्वमपि रजततुल्यमेवेति । लौकिक-परमार्थरजतस्यैव तत्त्त्रैकालिकनिषेध इत्याशङ्क्य निराकरोति ॥ नापीति ॥ प्रातिभासिक-रूप्यनिषेधस्य व्यावहारिकरूप्यविषयत्वे व्यावहारिकप्रपञ्चनिषेधस्य तात्विकविषयत्वं स्यादित्याह ॥ नेह नानेति ॥ तस्येति ॥ लौकिकरूप्यस्येत्यर्थः ।

ननु भ्रमेणैव तत्प्रसक्तिरस्त्वित्यत आह ॥ अन्यथेति ॥ नन्वप्रसक्तस्यैवापणस्थ-रूप्यस्य निषोधोऽस्तु तथापि नातिप्रसङ्ग इति शङ्कते ॥ आभासस्येति ॥ यत्प्रतीतमिति प्रतीतिनिषेधयोर्वैय्यधिकरण्यस्य त्वयाङ्गीकृतत्वात्तव तत्सामानाधिकरण्यप्रतीतिविरोध इत्यर्थः । श्रुतौ प्रतीतरूप्यस्य निषिद्धत्वान् मिथ्यात्वं न स्यादित्याह ॥ प्रतिपन्नेति ॥ प्रसक्तस्येति ॥ न च तस्य स्वरूपेण निषेधे तस्यासत्त्वापत्तिः । इष्टत्वात् ॥ निषेध-सम्भव इति ॥ निषेधज्ञानजनकप्रतियोगिप्रसक्तिविषयस्यैवाभावाप्रतियोगित्वादित्यर्थः । एतेन आरोपस्य हेतुतायां मानाभावेन प्रतियोगिस्मरणाधिकरणानुभवादिनैव तदुपपत्तेः । स्मृतिरूपा प्रसक्तिः सम्भवतीति निरस्तम् । नन्वधिकरणे निषेध्यारोपं विनैव प्रतियोगि-स्मरणाधिकरणानुभवादिनैव निषेधज्ञानमस्त्वित्यत आह अनारोपेति ॥ अन्यथा तस्य बाधकत्वानुपपत्तेः । तदुक्तं प्रसक्तप्रतिषेधात्मा बाधो ख्यातौ न युज्यत । साधयत्य-न्यथाख्यातिं बाध एव हि न स्फुटमिति । आरोपस्य विशेषादर्शनजन्यत्वेन बुद्धिपूर्वकत्त्वानुपपत्त्यावपि तथा स्यादिति मन्दाशङ्कां निराचष्टे ॥ न चेति ॥ तत्रापीति ॥ अनाभासेऽपि । कुतो नेत्यत आह यस्येति ॥ निषेधस्य प्रसक्त्यर्थमिति ॥ निषेधो-पपादकप्रसक्त्यर्थमित्यर्थः ॥ त्वन्मत इति ॥ अन्यथाख्यातिभयादिति भावः ॥ तदारोप-मिति ॥ स्मर्यमाणघटारोपं विना । आभासस्य प्रसक्त्याऽनाभासस्य प्रसक्तिः । किमिदं रजतमित्याकारेण वा रजतमित्याकारेण वा । नाद्य इत्याह ॥ आभास इतीति ॥ इदं रजतमित्यप्रसक्तेः । द्वितीयमाशङ्क्य निराकरोति ॥ न चेति ॥

ननु शुक्तिरूप्यस्यापणस्थरूप्येण प्रातीतिकस्य सामान्यस्याभावे तदर्थिप्रवृत्त्यनुपपत्त्या तदुभयसामान्यमेकमावश्यकमिति प्रतियोगितावच्छेदकप्रकारकज्ञानं प्रतियोग्यविषयकमप्यभाव-प्रतीत्युपयुक्तं संवृतमिति । मैवम् । कुत इत्यत आह ॥ आभासेति ॥ अत्र प्रष्टव्यम् । उभयानुगतं सामान्यं किमाभास एव । अनाभास एव वा । उभयावच्छेदेनोभयरूपं वा । नाद्यौ । उभयोराभासत्वस्यानाभासत्वस्य वाऽऽपातात् । न तृतीयः । दृष्टविरोधाद=-बिभ्यतैकमनुगतं रूप्यमेव तथेति स्वीकर्तव्यत्वात् । तेन सामान्येनापणस्थरूप्यस्यैव पुरोवर्तिनि प्रतीतिसम्भवाच्च । प्रवृत्तिं प्रति तु न रूप्यत्वसामान्यं हेतुः । किं तु रूप्य-ज्ञानमेव । नन्वाभासानाभासानुगतसामान्याभावेऽप्यनाभासस्य रजतत्वसामान्यप्रत्यासत्त्या भानमस्तु । न चान्यथाख्यात्यापत्तिः । तस्य स्वरूपेणैव भानात् । पुरोवर्तितादात्म्येन भानस्यान्यस्यानिर्वचनीयत्वादित्यत आह ॥ फलबलेनेति ॥ अतिप्रसङ्गः सार्वज्ञादिप्रसङ्गः ॥ सकर्तृकत्वस्यापीति ॥ न चेष्टापत्तिः । जीवस्येश्वरस्य वा तत्कर्तृत्वासम्भवात् । ननु भाट्टमते क्षित्यादेरकर्तृकत्वेऽपि सोपादानत्ववद्रूप्यस्यापि तथास्त्वित्यत आह ॥ अविद्येति ॥ सोपादानत्वेऽप्यविद्योपादानत्वमध्यस्तस्यायुक्तमित्याह ॥ इदमिति ॥ तदनुविद्धस्येति ॥ एतेन शुक्त्यज्ञानमन्वयव्यतिरेकाभ्यां कारणमिति तदेवोपादानमिति निरस्तम् । अन्वय-व्यतिरेकयोर्निमित्ततायामुपपत्तेः ॥ परोक्षधीरपीति ॥ न च प्रमातृगताज्ञाननाशेऽपि विषयगतं तदस्तीति देश्यम् । पीतभ्रमकाले शङ्खे श्वैत्यासिद्ध्या श्वेतार्थिप्रवृत्त्यनुपपत्तेः । भ्रमानुत्पत्तिप्रसङ्गे इष्टापत्तिं परिहरति ॥ अयं घट इत्यत्रेति ॥

ननु यदा घटत्वं पटत्वविरुद्धतयावगतं तदा तद्दर्शनं विरोधिदर्शनमेवेति कथं नेष्टापत्त्यवकाशः । यदा घटत्वस्य पटत्वविरुद्धतया न ज्ञानं तदा घटत्वज्ञानेन तदज्ञान-नाशेऽपि पटत्वविरुद्धत्वाज्ञानस्य सत्त्वात्तदुपादानक एव भ्रम इत्यत आह ॥ युक्तैवेति ॥ घटत्वस्य पटत्वविरुद्धतयावगमेऽपि पुरोवर्तीदन्त्वपटत्वयोर्विरुद्धत्वानवगमादाप्तिगौरवादयं पट इति वाक्याभासात्पुरोवर्तिनि पटत्वबुद्धेरनुभवसिद्धत्वात्सा युक्तैव ॥ साक्षिवेद्य इति ॥ न चाज्ञानस्य सुखादीनां च स्वरूपेण साक्षिवेद्यत्वेऽपि ज्ञानाभावभिन्नत्वे दुःखाभावभिन्नत्वादिना न तद्वेद्यत्वम् । किन्त्वनुपलब्धिगम्यत्वम् । तथा च तदज्ञानमेव भ्रमोपादानमिति चेन्न । अज्ञानत्वस्याभावविलक्षणत्वादिरूपतयाऽज्ञानत्वेनावगतेऽज्ञाने सुखत्वस्यानुकूलत्वादिरूपतया सुखत्वेनावगते च सुखादौ ज्ञानाभावदुःखाभावत्वाद्या रोपस्यानुभूयमानत्वात् ॥ परोक्षेति ॥ न च परोक्षाध्यासं प्रति प्रमातृगताज्ञानमेवोपादानं तच्च परोक्षज्ञानेनापि निवर्तत इति । तन्न । श्वैत्यानुमित्या प्रमातृगताज्ञाननाशे सति शङ्खे पीताध्यासानुपपत्तेरिति भावः ॥ रूप्यं दृष्ट्वेति ॥

ननु रूप्यं तद्धीश्च तावदुत्पन्ने ऊदीच्य ज्ञानेन स्वोपादाने प्रविलीयेते । उपादाननिवृत्तिः परं न भवति । अधिष्ठानतत्वज्ञानाभावात् । रूप्यबुद्ध्यन्तरोत्पत्तिस्त्विदमाकारान्तः करण-वृत्तिसद्भावेऽनुत्पन्नाधिष्ठाने तत्वसाक्षात्कारस्य भवत्येव । तदभावे तु तद्विलम्बादेव विलम्ब इति । मैवम् । प्रविलयः किं ध्वंस उत पिशाचादिवत्तिरोधानम् । आद्ये तस्य पुनरुत्पत्त्य-सम्भवात्तज्ज्ञानासम्भवः । न द्वितीयः । पिशाचादिवद्रूप्ये तिरोधानशक्तेरभावादिति भावः ॥ स्वगोचरेति ॥ स्वविषयव्यवस्थापकत्वादित्यर्थः ॥ अर्थतत्त्वेति ॥ भ्रमान्यज्ञानस्यैव स्वविषयशूरत्वमित्यर्थः ॥ तात्विकत्वेति ॥ न चापरोक्षप्रतीत्यां त्रिकालाबाध्यत्वरूपं तात्विकत्वं न विषय इति युक्तम् । प्रामाण्यस्य स्वतस्त्वेन स्वकाले सत्ताग्राहकस्य कालत्रयेऽसत्त्वाभावग्राहित्वस्योक्तत्वात् ॥

॥ इति आविद्यकरजतोत्पत्तिभङ्गः ॥