१३ अनिर्वाच्यसाधकख्यातिबाधान्यथानुपपत्तिभङ्गः

अर्थापत्तावपि सच्चेन्न बाध्येतेत्यत्र किमिदं सत् ?

७१. अनिर्वाच्यसाधकख्यातिबाधान्यथानुपपत्तिभङ्गः

न्यायामृतम्

अर्थापत्तावपि सच्चेन्न बाध्येतेत्यत्र किमिदं सत् ? सत्ताजातिमद्वा ? अर्थक्रियाकारि वा ? अबाध्यं वा ? अबाध्यत्वावच्छेदकावच्छिन्नं वा ? प्रामाणिकं वा ? नाद्यद्वितीयौ, त्वन्मते प्रपञ्चे व्यभिचाराद्, व्यवहारदशायां न बाध्येतेत्यापादने च ‘नेह नाना’ इति बाधेन जगतोऽनिर्वाच्यत्वासिद्धेः, व्यवहारदशायामेव जगति यौक्तिकादिबाधस्य दर्शनाच्च, प्रत्यक्षबाधस्य च परोक्षाध्यस्ते अपरोक्षाध्यस्ते नभोनैल्यादौ चाभावात्, सत्तादिराहित्येऽपि ब्रह्मवदनिर्वाच्यत्वाभावोपपत्तेश्च, व्यवहारदशायां बाध्यस्यापि रूप्यस्याद्वैत-वत्पारमार्थिकत्वोपपत्तेश्च । न तृतीयः, यदबाध्यं तदबाध्यमिति साध्या-वैशिष्ट्याद्, व्यवहारस्यापाद्यत्वे च बाध्यत्वेनैवासद्व्यावृत्तेरपि सिद्ध्या शेषवैयर्थ्यात् । अत एव न चतुर्थः, प्रामाणिकत्वादन्यस्य तदवच्छेदकस्या-भावाच्च । न पञ्चमः, बाधस्यापि बाध्यत्वाकारेण प्रामाणिकत्वात्, सत्त्वेन प्रामाणिकत्वविवक्षायामात्माश्रयापातात्, मानान्तराप्राप्तस्य तत्त्वावेदकश्रुति-वेद्यत्वेन प्रामाणिकस्य च, अबाध्ये अविद्यादिसाधकतया स्वतःप्रकाशमाने चिन्मात्रे वैयर्थ्येन प्रमाणाप्रवृत्त्या प्रामाणिकत्वस्य बाध्यत्वेनैव व्याप्तत्वाच्च, रूप्यादिबाधकस्यातत्त्वावेदकत्वेन तदप्रामाणिकतानापादकत्वाच्च । अतत्त्वा-वेदकव्यावहारिकप्रमाणबाधितस्यापि रूप्यादेरद्वैतवत्स्वतः प्रामाण्यप्रयुक्त-पारमार्थिकत्वोपपत्तेः । न चास्य तत्त्वावेदकाद्वैतश्रुतिबाधस् तस्या भेदश्रुतिवत् प्रत्यक्षप्राप्तव्यावहारिकरूप्य निषेधानुवादित्वोपपत्तेः ।

एतेनासत एव विलक्षणमिह सद्विवक्षितमिति केनचिदुक्तं निरस्तम् । अवधारणस्य सदसद्विलक्षणं न चेदित्यर्थकत्वेन प्रतियोग्यप्रसिद्ध्यापादकासिद्धेः, बाधेनैवानिर्वाच्यत्वसिद्ध्या ख्यात्युक्त्ययोगाच्च । सदसद्विलक्षणं न चेदित्यत्र सत्किं विवक्षितमिति पूर्वविकल्पप्रसरेण घट्टकुटीप्रभातवृत्तान्तापाताच्च । एवं न बाध्येतेत्यत्र बाधः किं ज्ञानेन निवृत्तिः ? प्रतिपन्नोपाधौ त्रैकालिकनिषेधो वा ? नोभयमपि मिथ्यात्वभङ्गे उक्तरीत्या आद्ये इष्टापत्तेर्द्वितीये अस-द्विलक्षणत्वपक्षे बाध्यते चेति विपर्ययापर्यवसानात् ।

एवमसच्चेदित्यत्रासत् किं सत्तादिहीनम् ? बाध्यं वा ? निरुपाख्यं वा ? निरुपाख्यत्वावच्छेदकावच्छिन्नं वा ? निस्स्वरूपं वा ? नाद्यः, सत्तादि-हीनस्यात्मादेः प्रतीत्या व्यभिचाराद्रूप्यादौ तस्मादसन्न भवतीति विपर्यया-पर्यवसानाच्च । अत एव न द्वितीयः, न तृतीयः, निरुपाख्यं चेन्न ख्यायेतेति साध्यावैशिष्ट्यात् । न चतुर्थः, निस्स्वरूपत्वाद्यन्यस्य तस्याभावादसत एव ख्यात्यङ्गीकारेणापादकासिद्धेश्च । न पञ्चमः पारमार्थिकत्वाकारेण त्रैकालिक-निषेधप्रतियोगित्वस्य निर्धर्मके ब्रह्मण्यपि सत्वेनानिर्वाच्यस्य स्वरूपेण तत्प्रतियोगित्वे वाच्ये शशशृृङ्गादेरपीतोऽन्यस्य निस्स्वरूपत्वस्याभावेन तस्मादसन्न भवतीति विपर्यापर्यवसानात् । किं चासत्त्वं यदि सत्त्वा-भावतद्व्याप्यान्यतरत्, तर्ह्यनिर्वाच्यख्यातौ न विपर्ययपर्यंवसानम् अन्यच्चेदिष्टा-पत्तिः । एवं न प्रतीयेतेत्यत्र किं प्रतीतिमात्रं विवक्षितम् ? सत्त्वेन प्रतीतिर्वा ? अपरोक्षप्रतीतिर्वा ? सत्त्वेनापरोक्षप्रतीतिर्वा नाद्यः, असतोऽ-प्रतीतावसद्वैलक्षण्यज्ञानायोगाद्, असत्प्रतीतिनिरासानुपपत्तेश्च, असत्पदस्यानर्थ-कत्वे प्रयुक्तपदानां सम्भूयकारित्वेनासन्न प्रतीयते इति वाक्यस्या-बोधकत्वापाताच्च । असतोऽसत्वेनाप्रतीतावसद्व्यवहारानुपपत्तेश्च । तदुक्तम्–

असद्विलक्षणज्ञप्त्यै ज्ञातव्यमसदेव हि ।

तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ॥ इति ।

द्वितीयेऽपि सा किं प्रमारूपा निषिध्यते ? भ्रमरूपा वा ? नाद्यः, इष्टापत्तेः । न द्वितीयः, उक्तन्यायेनासतः प्रतीतिसिद्धौ सतोऽसत्वेनेवारूप्यस्य च रूप्यत्वेनेव भ्रान्तित्वादेवासतः सत्त्वेन प्रतीत्युपपत्तेर् अप्रयोजकता । तदुक्तम्– ‘असतः सत्प्रतीतिः सतोऽसत्त्वप्रतीतिरित्यन्यथाप्रतीतेरेव भ्रान्ति-त्वात्’ इति । येन पुंसा शशशृृङ्गाभावो न निश्चितः, तस्य शशशृृङ्ग-मस्तीतिवाक्याभासाज्ज्ञानोत्पत्तेश्च । न ह्यत्र ‘घढधष्’ इत्यादिनिरर्थकेष्विव पदार्थधीरेव वा कुण्डमजाजिनम्’ इत्याद्यपार्थकेष्विवान्वयधीर्वा नास्ति विपरीतबोधकेषु योग्यताभावेऽपि अयोग्यत्वज्ञानाभावमात्रेण योग्यताभ्रमेण वा आकांक्षासन्निधिभ्यां ज्ञानोत्पत्तेरनुभवात् । अन्यथा प्रवृत्त्यादेरयोगात् । योग्यताहीनाद्वाक्याज्ज्ञानानुत्पत्तौ तद्धीनात्प्रतिवादिवाक्याद्धीरेव न स्यादिति कथा बधिरकलहः स्यात् ।

ननु शशशृृङ्गादिशब्दाद्विकल्पमात्रमेव जायते, उक्तं हि योगसूत्रे– ‘शब्द-ज्ञानानुपाती वस्तुशून्यो विकल्प’ इतीति चेन्न, विकल्पस्येच्छादिवज्ज्ञाना न्यवृत्त्यन्तरत्वेऽनुभवविरोधात् प्रवृत्त्ययोगाच्च । न हि शशशृृङ्गस्यासत्त्वा-ज्ञानदशायां तदस्तित्वज्ञानस्य गोशृृङ्गास्तित्वज्ञानान्मात्रयापि विशेषोऽनुभूयते । असति वृत्त्यन्तरवज्ज्ञानस्यैवोपपत्तेश्च । अन्यथा शुक्तिरूप्यादेरपि विकल्पमात्रं न तु प्रतीतिरिति स्यात् । विकल्पस्य ज्ञानविशेषत्वे त्विष्टापत्तिः । वस्तुशून्य इति च कोऽर्थः किं किमप्यनुल्लिखन्निति ? असदेवोल्लिखन्निति वा ? आद्ये अनुभवविरोधः, व्यवहारानुपपत्तिश्च । न ह्ययं घटादिवत्किमप्यनुल्लिख-न्ननुभूयते । द्वितीये सिद्धं नः समीहितम् । न चेयमपि धीरनिर्वाच्यविषया । निस्स्वरूपस्य शशशृृङ्गादेरप्यनिर्वाच्यत्वे हि रूप्यादेः कुतो वैलक्षण्यमाशा-स्यते ? निरुपाख्यादिति चेन्न, तस्य दुर्बोधत्वादित्युक्तत्वात् । तादृशा-सद्वैलक्षण्यस्येष्टत्वाच्च, अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हीति त्वन्मतेऽपि तत्राध्यस्तस्यास्तित्वस्यानिर्वाच्यत्वेऽपि शशशृृङ्गमसदितिवाक्य इव शशशृृङ्गमस्तीतिवाक्ये शशशृृङ्गशब्देनासत एव प्रतीतेश्च । ‘तद्धेक आहुरसदे-वेदमग्र आसीत्’ इति श्रुत्याऽप्यसतः सत्त्वप्रतीतेश्च ।

एतेन शशशृृङ्गशब्दो निश्चितानन्वयत्वादपार्थक इति चिन्तामण्युक्तं निरस्तम्, अपार्थकशब्देनाप्रत्यायकोक्तावनन्वयानिश्चयदशायां प्रवृत्तिपर्यन्त-प्रतीत्यनुभवविरोधात्, तेनात्यन्तिकनिषेधयोग्याप्रतीतौ असच्छशशृृङ्गमित्यादौ समभिव्याहृतस्यासत्पदस्यानन्वयापाताच्च । असत्प्रत्यायकत्वोक्तौ चेष्टापत्तेः । एतेनैव शशशृृङ्गादिशब्दानां सङ्गतिग्रहणासम्भवादबोधकतेत्यात्मतत्त्वविवेकोक्तं निरस्तम्, यौगिकशब्दानामवयवसङ्गत्यतिरेकेण पृथक्सङ्गत्यनपेक्षतया सतो वाऽसतो वाऽर्थस्य बोधनसम्भवात् । एतेनैव शशशृृङ्गशब्दस्य शशे शृृङ्गा-भावोऽर्थ इति वार्तिकोक्तं निरस्तम्, तत्र तस्याशक्तेः, नास्तीत्यस्य पौनरुक्त्यापाताच्च । न तृतीयः, यदसत् तन्न प्रतीयते इति व्याप्तिज्ञानस्य प्रत्यक्षतावश्यम्भावात् शशशृृङ्गाद्यत्यन्ताभावस्याप्रत्यक्षत्वापातेनासतोऽसत्त्वा-सिद्धेश्च । न चतुर्थः, भ्रान्तित्वादेव तदुपपत्तेः सन्मात्राविषयकम् अपरोक्ष-ज्ञानमपरोक्षभ्रमो वा असद्विषयकः सत्त्वानधिकरणविषयकत्वादसद्विषयक-परोक्षज्ञानवदित्याद्यनुमानैरप्यसतो ऽपरोक्षप्रतीतिसिद्धेश्च ।

नन्वसतोऽपरोक्षधीश्चेत् शशशृृङ्गादेरपि सा स्यान् न चासद्विशेषस्य सा सद्विशेषत्वे असत्त्वायोगादिति चेन्न, दुष्टेन्द्रियस्य सत्यरूप्यसंस्कारसाचिव्यवत् शशशृृङ्गादिसंस्कारसाचिव्याभावाद्, असतः सत्यादसत्त्वरूपेण सद्वैलक्षण्य-रूपेणापरोक्षप्रतीत्यविषयत्वरूपेण नृशृृङ्गशशशृृङ्गादीनामेवान्योन्यं नृशृृङ्गादि-शब्दैरेव परोक्षप्रतीतिव्यवहारविषयत्वरूपेण शशशृृङ्गस्यैव कदाचिदेव परोक्ष-प्रतीतिविषयत्वरूपेण च विशेषेणेवानेनापि बौद्धेन सत्त्वानपेक्षेण विशेषेणा-सत्त्वाव्याघाताच्च ।

एतेन असन् नापरोक्षधीविषयं सर्वसामर्थ्यविधुरत्वाद् व्यतिरेकेण घटवत् सर्वसामर्थ्यहीनस्यासतः सता ज्ञानेनासम्बन्धाद्विषयत्वरूपधर्मानाश्रयत्वाद्, भाति ज्ञायत इति कर्तृत्वकर्मत्वाद्ययोगाच्च, नापरोक्षधीरिति निरस्तम्, अतीतादेः स्मृत्यनुमित्यादिकं प्रति विषयत्वादिवदसतोऽसद्वैलक्षण्यं प्रति प्रतियोगित्ववद् व्यवहारं परोक्षज्ञानं च प्रति विषयत्वकर्तृत्वकर्मत्वादिवद-परोक्षप्रतीत्यविषयत्वरूपसाध्यवत् सर्वसामर्थ्यवैधुर्यरूपसाधनवच्चापरोक्षभ्रान्ति-विषयत्वस्याप्युपपत्तेः । यदि तत्रानुमित्यादावेव तद्विषयकत्वं न त्वतीतादौ विषयत्वम्, तर्हीहापि तथास्तु तत्सत्त्वानपेक्षं चेदिदमपि तथा, न हि सत्त्वेन भ्रान्तिः सत्त्वसापेक्षा, अन्यथा सद्विलक्षणत्वेऽपि सा न स्यात् सम्बन्धा-दावसद्वैलक्षण्यादपि लाघवेन सत्त्वस्यैव तन्त्रत्वाद्, दुष्टाच्छब्दादसति सत्त्वेन परोक्षभ्रान्तिवद् दुष्टादिन्द्रियात् सत्त्वेनापरोक्षभ्रान्त्युपपत्तौ परोक्षप्रतीति-स्वीकारेणापरोक्षप्रतीतिनिषेधे विशेषहेत्वभावाच्च ।

एतेन प्रवृत्तिविषयत्वान्यथानुपपत्त्या असद्वैलक्षण्यसिद्धिरिति निरस्तम्, इदमंशस्यासद्रूप्यात्मना प्रतीतत्वमात्रेण तदर्थिप्रवृत्तिविषयत्वोपपत्तेः । न चापरोक्षज्ञानस्यार्थेनेन्द्रियसन्निकर्षेण च जन्यत्वादसतश्च हेतुत्वसन्निकर्षयोर-योगान्नापरोक्षधीरिति वाच्यम्, अपरोक्षप्रमाया एवार्थादिजन्यत्वाद्रूप्यसंस्कार-सचिवस्य दुष्टेन्द्रियस्याधिष्ठान सन्निकर्षादेवाधिष्ठानस्यासद्रजतात्मना प्रतीत्युप-पत्तेश्च । अन्यथा अनिर्वाच्यपक्षेऽप्ययं दोषः स्यात् । न हि धीमात्रशरीरं रूप्यं स्वज्ञानात्प्रागस्ति ।

किं चानिदंरूपे प्रातिभासिके च रूप्ये यदिदन्त्वं यच्च व्यावहारिकत्वं भाति तदुभयं न तावत् सन् नाप्यनिर्वाच्यं तथात्वे हि तस्यासद्वैलक्षण्यार्थं प्रातिभासिकसत्त्वाय च सत्त्वप्रतीत्या भाव्यमेवं तदपि सत्त्वमनिर्वाच्यं चेत्तस्यापि सत्त्वप्रतीत्या भाव्यमित्यनवस्थापातात् । तस्मादिदन्त्व-व्यावहारिकत्वयोरसत्त्वं वाच्यम् । एवं रूप्यमसद्विलक्षणं धीकालेऽस्ति चेत्तस्य स्वरूपेण त्रैकालिकनिषेधायोगादिदन्त्वाकारेण वा पारमार्थिकत्वाकारेण वा निषेधो वाच्यः, तयोरप्यसद्विलक्षणत्वे स्वरूपेण निषेधायोगात्पारमार्थिकत्वा-कारेण निषेधे चानवस्थानात्तयोरसत्त्वं वाच्यम् । ते च सत्त्वेनापरोक्षे इति कथमसतः सत्त्वेनापरोक्षज्ञानाभावः । तदुक्तम्–

अन्यथात्वमसत्तस्माद् भ्रान्तावेव प्रतीयते ।

सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता ॥

तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः । इति

टीकायां त्विदन्त्वसत्त्वयोः सत्त्वायोगादनिर्वाच्यत्वे च तथैव प्रतीतौ प्रवृत्त्ययोगात्सत्त्वेन भाने च तस्मिन्नपि सत्त्वे सत्त्वादिविकल्पप्रसारेणा नवस्थानादिदन्त्वव्यावहारिकत्वयोरसत्त्वमित्युक्तम् । न च तत्र त्वत्पक्षेऽप्य-सति रूप्ये यत्सत्त्वं भाति, तस्य सत्त्वायोगादसत्त्वे च तथैव भाने प्रवृत्त्ययोगात् सत्त्वेन भाने च तस्मिन्नपि सत्त्वे उक्तविकल्पप्रसरेणानवस्थेति वाच्यम्, परमतेऽनिर्वाच्यसत्त्वस्य सत्त्वेनाभाने प्रातिभासिकत्वासिद्धिवन् मन्मते असतः सत्त्वस्य सत्वेनाप्रतीतावसत्त्वासिद्धेरभावात् ।

किं च प्रत्येकं सत्त्वासत्त्वयोरनुपपत्तौ सदसदात्मकमस्तु निषेधसमुच्चयवद् विधिसमुच्चयस्याप्यतात्त्विकत्वे नाविरोधसम्भवात् । एवं चतुर्थप्रकारा-कल्पनाल्लाघवं त्वत्पक्षे असदेव रूप्यमभादितिबाधकस्य विद्यमानसद्वैलक्षण्य-विषयकत्वेनाभ्रान्तित्ववत् सद्रूप्यमिति भ्रमस्याविद्यमानासद्वैलक्षण्यविषय-कत्वेन भ्रान्तित्वमस्तु । यद्वा त्वत्पक्षे सदसद्विलक्षणे रूप्येऽनिर्वाच्यम् । सत्त्वमिवात्रापि सदसदात्मके रूप्ये सदसदात्मकं सत्त्वं भ्रान्तौ प्रतीयताम् । भ्रान्तित्वे च त्वत्पक्षेऽनिर्वाच्यविषयत्वमिवात्रापि सदसद्विषयत्वं तन्त्रमस्तु । अन्यथा नित्यकाम्येऽपि नित्यत्वादेः प्रत्येकमनुपपत्त्या भिन्नाभिन्ने च गुणगुण्यादौ भेदादेः प्रत्येकमनुपपत्त्योभयबहिर्भावः स्यात् ।

किं चासद्विलक्षणं चेन्न बाध्येत्, सद्विलक्षणं चेन्न प्रतीयेतेत्यर्थापत्त्या निर्वाच्यत्वाभाव एव किं न स्यात् । न चाबाधाप्रतीत्योः सत्त्वासत्त्वे तन्त्रे लाघवात्, न त्वसद्विलक्षणत्वसत्त्वविलक्षणत्वे गौरवादिति युक्तम् । अबाधा-प्रतीतिप्रतियोगिन्योर्बाधप्रतीत्योरेव हि प्रथमं प्रयोजकं चिन्त्यतां प्रथमोप-स्थितत्वात् कल्पकत्वाच्च । भावप्रयोजकाभावादेवाभावोपपत्तौ प्रयोज-कान्तरस्यानन्वेषणीयत्वाच्च । बाधप्रतीत्योश्चासत्त्वसत्त्वे तन्त्रे लाघवात्, न तु सद्विलक्षणत्वासद्विलक्षणत्वे गौरवात् । तथा चाबाधाप्रतीती प्रत्य-सद्विलक्षणत्वसद्विलक्षणत्वे तन्त्रे । एवं चोक्तरीत्या सत्त्वात्प्रतीतिरसत्त्वाद् बाध इति विधिसमुच्चयः स्यात् । नृशृृङ्गादौ सद्वैलक्षण्यवदसत्त्वस्य भावेऽपि बाधाभावः प्रसक्त्यभावात् । एवं चासद्विलक्षणं चेन्न बाधः स्यात् सद्विलक्षणं चेन्न भायादिति भवत्वनिर्वाच्यविलक्षणम् ।

अद्वैतसिद्धिः

ख्यातिबाधान्यथानुपपत्तिसमर्थनम्, अर्थापत्तिरपि ख्यातिबाधान्यथानुपपत्त्यादिरूपा तत्र प्रमाणम् । तथा हि विमतं रूप्यादि सच्चेन्न बाध्येत, असच्चेन्न प्रतीयेत, बाध्यते प्रतीयतेऽपि, तस्मात् सदसद्विलक्षणत्वादनिवचनीयम् । ननु सत्ताजात्यर्थक्रियाकारित्वादिक-मनङ्गीकारपराहतं त्वन्मते व्यभिचारि च । न च व्यवहारदशाबाध्यत्वमापाद्यम्, तथा सति ‘नेह नाना’ इति श्रौतनिषेधेन व्यवहारदशायामबाध्यस्य जगतोऽनिर्वचनीयत्वासिद्धिप्रसङ्गाद्, यौक्तिकबाधस्य व्यवहारदशायामपि दर्शनाच्च । अबाध्यत्वरूपं सत्त्वमापाद्याविशिष्टम्, प्रामाणिकत्वं तु ब्रह्मनिष्ठानिर्विशेषत्वादौ तत्त्वावेदकश्रुतिवेद्ये ब्रह्मभिन्नतया बाध्ये व्यभिचारीति सत्त्वानिरुक्ति इति । मैवम्, सत्त्वं ह्यत्र प्रामाणिकत्वम्, प्रामाणत्वं च तत्त्वावेदकत्वम्, तच्च लक्षणया शुद्धब्रह्मबोधकवेदान्तवाक्ये न तु निर्विशेषत्वादि-धर्मप्रतिपादके अतो न तत्र व्यभिचारः । न च स्वतः प्रकाशमाने ब्रह्मणि चिन्मात्रे वैयर्थ्येन प्रमाणाप्रवृत्त्या प्रामाणिकत्वाबाध्यत्वयोर्व्याप्तिग्रहो न स्यात्, प्रत्युत ब्रह्मभिन्न एव प्रामाणिकत्वसत्त्वेन तस्य बाध्यत्वेनैव सह व्याप्तिः स्यादिति वाच्यम्, ब्रह्मणः स्वप्रकाश-त्वेऽपि व्यवहारप्रतिबन्धका ज्ञाननिवृत्त्यर्थं प्रमाणप्रवृत्तेः सफलत्वात् । अत एव न बाध्य-त्वेन सह प्रामाणिकत्वस्य व्याप्तिः, ब्रह्मणि व्यभिचाराद्विरोधाच्च । न हि तत्त्वमावेदयता वेद्यमतत्त्वं नाम ।

ननु रूप्यादिबाधकस्य तत्त्वावेदकत्वे औतहानिर् अतत्त्वावेदकत्वे तन्निबन्धनं रूप्यादेरप्रामाणिकत्वं न स्यादिति चेन्न बाधकस्यातत्त्वावेदकत्वेऽपि रूप्याद्याप्रमाणिकत्वे प्रयोजकतैव बाध्यान्यूनसत्ताकत्वस्यैव बाधकत्वे तन्त्रत्वात् । अत एव अतत्त्वावेदक-व्यावहारिकप्रमाणबाधितस्यापि रूप्यादेरद्वैतवत् स्वतः प्रामाण्यप्रयुक्तपारमार्थिकत्वमस्तु । न चास्य तत्त्वावेदकाद्वैतश्रुतिबाधः, तस्या भेदश्रुतिवत् प्रत्यक्षप्राप्तव्यावहारिकरूप्यनिषेधानु-वादितयोपपत्तेरिति निरस्तम्, अधिकरणानात्मकत्वपक्षे द्वैतनिषेधस्यापि व्यवहारिकत्वोप-पादनाच्च ।

केचित्तु सदित्यसत एव विलक्षणमिह विवक्षितम् । न च असत एवेत्यवधारणस्य सदसद्विलक्षणं न चेदित्यर्थपर्यवसानेन प्रतियोग्यप्रसिद्ध्या आपादकाप्रसिद्धिरिति वाच्यम्, प्रतियोगिप्रसिद्धेरनुमानेन प्रागेव साधितत्वात् । न च सदसद्विलक्षणं न चेदित्यत्र सत् किमिति पूर्वविकल्पप्रसरः, प्रामाणिकत्वरूपसत्त्वे दोषानवकाशात् । न च बाधेन वानिर्वाच्यत्वसिद्ध्या ख्यात्युक्त्ययोगः, तस्या अर्थापत्त्यन्तरत्वात्, आकरे एकत्वोक्तिस्तु प्रयोजनवाक्यादिति कण्ठतस्तात्पर्यतश्चेति आहुः ।

यद्वा अबाध्यत्वमेव सत्त्वम्, न च तर्ह्यापाद्यावैशिष्ट्यम्, अबाध्यत्वं हि त्रैकालिक-निषेधाप्रतियोगित्वम् । तेन च विपरीतप्रमाविषयत्वाभाव आपाद्यत इति नापाद्यावैशिष्ट्यम् । व्यवहारस्यापाद्यत्वेन वा नापाद्यावैशिष्ट्यम् । न च बाध्यत्वेनैवासद्व्यावृत्तेरपि सिद्ध्या अनिर्वचनीयत्वसिद्धिपर्यवसानेन शेषवैयर्थ्यम्, न प्रतीयेतेत्यत्र विपर्यये दृश्यत्वेनैव सद्वैलक्षण्यसिद्ध्या न बाध्येतेत्युक्तिरप्ययुक्तेति वाच्यम्, बाध्यत्वदृश्यत्वयोरेकैकस्य सदसद्व्यावृत्त्युभयसाधकत्वं यद्यपि सम्भवति तथाप्येकैकस्य एकैकदेशव्याप्यत्वग्रहदशाया-मुभयोः साफल्याद्, उभयव्याप्यमप्येकैकमेक देशसाधकत्वेनोपन्यस्यतः प्रति एकैकसाधक-त्वस्य दोषावहत्वाभावात् । अर्थापत्तिद्वयं वैतत्, एकत्वोक्तिस्तु असतो बाध्यत्वं सतोऽ-प्यात्मनो दृश्यत्वमङ्गीकुर्वतः परस्य मते एकैकेन उभयसाधनासम्भवनिबन्धना ।

ननु न बाध्येतेत्यत्र बाधः किं बाधकज्ञानेन निवृत्तिः ? त्रैकालिकनिषेधो वा ? नाद्य इष्टापत्तिः । द्वितीये असद्विलक्षणत्वपक्षेण बाध्यते चेति विपर्ययापर्यवसानमिति चेन्न, उभयथाप्यदोषात् । न चाद्य इष्टापत्तिः, ज्ञाननिवर्त्यत्वे श्रुत्यादिसम्मतेरुक्तत्वात् । द्वितीयेऽपि नासद्विलक्षणत्वेन विपर्ययापर्यवसानम्, प्रतिपन्नोपाधिस्थनिषेधप्रतियोगित्वस्या सत्य-सम्भवेनासद्वैलक्षण्यस्यैव विपर्ययपर्यवसानप्रयोजकत्वात् ।

असच्चेदित्यत्रापि यद्यप्यसत्त्वं न सत्ताजातिराहित्यम्, सत्ताहीने सामान्यादौ व्यभिचारात् । यत्त्वात्मनि व्यभिचारादित्युक्तं परैः । तन्न, तन्मते आत्मनि सत्तायाः सत्त्वेनापादकस्यैवाभावाद्, अस्मन्मते च तत्र दृश्यत्वस्यैवाभावेनापाद्यस्यैवाभावात् । नापि बाध्यत्वम्, शुक्तिरूप्यादौ व्यभिचारापत्तेः, तथापि निरूपाख्यत्वं निःस्वरूपत्वं वा असत्त्वम् । न च निरुपाख्यत्वं ख्यत्यभावस् तथा चापाद्यावैशिष्ट्यमिति वाच्यम्, निरुपाख्य-त्वस्य पदवृत्त्यविषयत्वरूपत्वात् । ननु निःस्वरूपत्वं स्वरूपेण निषेधप्रतियोगित्वम्, तच्च प्रपञ्चसाधारणमिति तत्र व्यभिचारः, न वा पारमार्थिकत्वाकारेण निषेधो न स्वरूपतः प्रपञ्चस्येति वाच्यम्, निर्धमकब्रह्मण्यपि तेन रूपेण निषेधात्तस्यापि मिथ्यात्वापत्तेरिति चेन्न । मिथ्यात्वलक्षणे प्रतिपन्नोपाधाविति विशेषणबलात्तत्र नातिव्याप्तिरित्युक्तत्वात् । यस्मिन्नपि पक्षे प्रपञ्चस्य स्वरूपेण निषेधः, तदा अप्रतिपन्नोपाधिकत्वे सति स्वरूपेण निषेध-प्रतियोगित्वं निःस्वरूपत्वम् । न चैतत् प्रपञ्चेऽस्ति, येन तस्मादसन्न भवतीति विपर्ययपयवसानं न स्यात् ।

ननु न प्रतीयेतेत्यत्र प्रतीतिसामान्यविरहस्तावदापाद्यते, तदयुक्तम्, असन्नृशृृङ्गमित्यादि-वाक्यादसतोऽपि प्रतीतेः, अन्यथा असद्वैलक्षण्यज्ञानायोगः, असत्प्रतीतिनिरासायोगाच्च, असत्पदस्य अनर्थकत्वे प्रयुक्तपदानां सम्भूय कार्यकारित्वायोगे बोधकत्वानुपपत्तिः, असतोऽसत्त्वेनाप्रतीतौ असद्व्यवहारानुपपत्तिः, तदुक्तम्–

असद्विलक्षणज्ञप्तौ ज्ञातव्यमसदेव हि ।

तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ॥

इति चेन्न, प्रतीत्यभावेऽपि असतो असन्नृशृृङ्गमिति विकल्पमात्रेणैव सर्वोपपत्तेः । तदुक्तम्– ‘शब्दज्ञानानुपाती वस्तुशून्यो विकल्प’ इति । न च विकल्प इच्छादिवज् ज्ञानान्यवृत्तिर्वा ? ज्ञानविशेषो वा ? आद्ये अनुभवविरोधप्रतीत्ययोगौ, द्वितीये असतः प्रतीतिरागतैव । वस्तुशून्य इत्यत्रापि किमपि नोल्लिखतीति वा ? असदवोल्लिखतीति वा ? आद्ये अनुभवविरोधः, द्वितीये इष्टापत्तिरिति वाच्यम्, विकल्पस्य ज्ञानान्यवृत्तित्वे बाधका-भावात्, शशविषाणमनुभवामीत्यप्रत्ययाच्च । वस्तुशून्यता च सोपाख्यधर्मानुल्लेखित्वम्, अतो न कोऽपि दोषः । विकल्पस्य ज्ञानत्वे तु तदन्यज्ञानविषयत्वाभाव आपाद्यः । शुक्ति-रूप्यादेरसत्त्वे च प्रतीतिविषयत्वं विकल्पान्यप्रतीतिविषयत्वं वानुपपन्नमित्यनिर्वाच्यत्व-सिद्धिः । यद्वा सत्त्वेन प्रतीत्यभाव एवापाद्यः ।

ननु प्रमारूपतादृक्प्रत्ययाभावापादनमिष्टमेव । न ह्यसतः सत्त्वेन प्रतीतिः केनचित् प्रमोच्यते । न च तादृग्भ्रान्तिविरहस् तादृक्प्रतीतिसामान्यविरहो वाऽऽपाद्यः, येन पुंसा शशे शृृङ्गाभावो नावगतः, तस्य गोशृृङ्गमस्तीति वाक्यादिव शशशृृङ्गमस्तीति वाक्यादपि भ्रान्ति-दर्शनात्, न हि घढधषादिशब्दवदत्र पदार्थानुपस्थापकत्वम्, न वा कुण्डमजाजिन-मित्यादिवदन्वयाबोधकत्वम्, अयोग्यताज्ञानाभावस्य योग्यताभ्रमस्य वा आकाङ्क्षादिसामग्री-सध्रीचीनस्य सत्त्वाद्, अन्यथा प्रतीत्याद्यभावाप्रसङ्ग इति चेन्न, इदं रजतम् इति प्रात्यक्षिकभ्रमवद् अस्याप्यनिर्वाच्यविषयत्वात् । न च अस्याप्यनिर्वाच्यत्वे रूप्याद् भेदो न स्यादिति वाच्यम्, को हि अनिर्वाच्यादनिर्वाच्यं भेत्तुमध्यवसितः ? यमेवमाक्षिपसि, किन्तु निःस्वरूपात् । यथा च सत्त्वेन न निःस्वरूपविषयत्वं यथोक्तं प्राक् । न चैवं शशशृृङ्गादेरनिर्वाच्यत्वे निःस्वरूपत्वोच्छेदः, शशशृृङ्गमस्तीत्यत्र शशे शृृङ्गारोपेण शशीयत्वारोपेण वा अनिर्वाच्यविषयत्वेऽपि ‘असन्नृशृृङ्गम्’ इत्यादिवाक्यश्रवणसमनन्तरं विकल्प्यमानाखण्डशशशृृङ्गादेरनिर्वाच्यानात्मकस्य निःस्वरूपत्वात् । न चात्र निःस्व-रूपत्वादिविकल्पः, उक्तोत्तरत्वात् । न च ‘अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि ।’ इति त्वन्मते तस्याध्यस्तस्यास्तित्वस्यानिर्वाच्यत्वेऽपि ‘शशशृृङ्गमसदिति वाक्यादिव ‘शशशृृङ्गमस्ति’ इति वाक्येऽपि शशशृृङ्गशब्देनासत एव प्रतीतिरिति वाच्यम्, अस्तित्वस्या-निर्वाच्यत्वेन शशशृृङ्गपदाभ्यां तदधिष्ठानमवश्यं वक्तव्यम् । अत्यन्तासच्चानधिष्ठानमिति न शशशृृङ्गपदाभ्यां तदुपस्थितिः, दृष्टान्तीकृतवाक्ये तु नानिर्वाच्यं किञ्चिदपि प्रतीयत इति नाधिष्ठानज्ञानापेक्षेति वैषम्यात् । अत्यन्तासत्यपि ज्ञानमित्यादि तु अस्त्यादिवदसमभि-व्याहृतशशशृृङ्गमसदिति वाच्यपरम् । न च ‘तद्धैक आहुर् असदेवेदमग्र आसीत्’ इति श्रुत्या असतः सत्त्वेन प्रतीतिरिति वाच्यम्, यथा नानया असतः सत्त्वप्रतिपादनं तथोक्तं मिथ्यात्वलक्षणे ।

तार्किकास्तु शशशृृङ्गादिपदानामपार्थकतैवेति वदन्ति । न चानन्वयनिश्चयविरहदशायां प्रवृत्तिपर्यन्तानुभवविरोधः, अनन्वयनिश्चयदशायामेवाबोधकतोक्तेस्तद्विरहदशायामपि नाखण्ड-शशशृृङ्गादिबोधकत्वम्, किन्तु सन्मात्रगोचरव्यधिकरणप्रकारकज्ञानं वा, सदुपरागेणा-सद्गोचरज्ञानं वा । केवलासद्भाने सामग्रीविरहात् । तदुक्तं बौद्धधिक्कारेे– ‘सङ्गतिग्रहणाभावात् शशशृृङ्गादिपदानामबोधकता’ इति । न च यौगिकशब्दानामवयवसङ्गत्यतिरेकेण पृथक्सङ्गत्य-नपेक्षत्वम्, अवयवशक्तिप्राधान्येन बोधने अखण्डासद्बोधनस्याशक्तत्वाद्, अवयवानां स्वशक्त्यपुरस्कारेणाप्रत्यायकत्वात् । न हि पाचकादिः पाकादिमबोधयन् बोधयति । न च तर्हि शशशृृङ्गमसच्छशशृृङ्गं नास्तीत्यादिवाक्यानामबोधकत्वम्, तेषां शशे शृृङ्गाभावबोधक-त्वात् । एषा तु बोधकता न शशशृृङ्गपदमात्रे, किं तु नास्तीतिपदसमभिव्याहृते । अतो न नास्तीति पौनरुक्त्यरूपशङ्काभासाद्यवकाश इति । यद्वा अपरोक्षप्रतीत्यभाव आपाद्यः । न च यदसत्तन्न प्रतीयत इति व्याप्तिज्ञानस्य प्रत्यक्षमावश्यकम्, अतश्चासतोऽपि प्रत्यक्षत्वम्, अन्यथा असतोऽपि असत्त्वबुद्धिर्न स्यात्, तथा च शशशृृङ्गादेः प्रत्यक्षत्वमेवेति वाच्यम्, साक्षादित्यनिषेध्यतयेति चापरोक्षप्रतीतिविषयविशेषणात् । उक्तस्थले च ज्ञानविषयतया निषेध्यतया च विषयत्वमिति नास्ति विशिष्टाभावस्यापाद्यस्यासम्भवः । यद्वा सत्त्वेना-परोक्षप्रतीतिविषयत्वाभाव आपाद्यः । न च इदं रूप्यमित्यादिभ्रान्त्या अत्यन्तासदेव सत्त्वेन प्रतीयत इति वाच्यम्, अत्यन्तासतस्तादृशप्रतीतिविषयत्वे सामग््रयभावात् । इन्द्रियसन्निकर्षो हि प्रत्यक्षे सामान्यसामग्री, न चासति सोऽस्ति । न च प्रातिभासिकत्वपक्षे रूप्यादेः प्रतीतिपूर्वकालेऽसत्त्वेन कथं सन्निकर्षरूपप्रत्यक्षसामग्रीसम्भव इति वाच्यम्, अस्मिन्मते ज्ञातैकसति रूप्यादौ साक्ष्यपरोक्षे अज्ञाननाशकान्तःकरण वृत्तिप्रयोजकसन्निकर्षानुपयोगात् । न हि तवापीश्वरसाधारणप्रत्यक्षमात्रे सन्निकर्षो हेतुः । न च प्रमायां निर्दुष्टेन्द्रियसन्निकर्षो हेतुः, न तु भ्रमे, स हि दोषसहितेन्द्रियादेव भविष्यतीति वाच्यम्, सन्निकर्षो हि इन्द्रिय-वत्सामान्यसामग्री, तदनपेक्षस्येन्द्रियस्याजनकत्वमित्युक्तत्वात् । न च तर्हि शाब्दबोध-सामान्यसामग््रयायोग्यताज्ञानादेरभावात् कथं परोक्षविकल्पः स्यात् ? अयोग्यताज्ञानविरहो हि सामान्यसामग्री, न तु योग्यताज्ञानम्, असंसर्गाग्रहरूपायोग्यताज्ञानविरहस्य विशिष्टज्ञाने आवश्यकत्वात् । स चासद्वोधके वाक्येऽस्त्येव । न हि शशशृृङ्गे असत्त्वं नास्तीति जानानः शशशृृङ्गमसदित्यवगच्छति । एतन्निबन्धन एवापरोक्षप्रतीतौ प्रद्वेषः ।

एतेन सन्मात्राविषयकापरोक्षज्ञानमसद्विषयकम्, सत्त्वानधिकरणविषयक प्रतीतित्वाद-सद्विषयकपरोक्षप्रतीतिवत् । न च अत्र प्रातिभासिकसाधारण सद्विवक्षायामाश्रयासिद्धिः । परमार्थसद्विवक्षायां मात्रपदवैयर्थ्यमिति वाच्यम्, भ्रममात्रस्यैवाधिष्ठानीभूतपरमार्थसद्विषयतया मात्रपदं विना आश्रयासिद्धेर्दुष्परिहरत्वादिति निरस्तम्, सामग्रीविरहेण बाधात्, शाब्द-त्वस्योपाधित्वाद्, धर्मादिकमपरोक्षप्रतीतिविषयः प्रतीतिविषयत्वादित्याद्याभाससाम्याच्च । किञ्चासतो रूप्यस्यापरोक्षप्रतीतिविषयत्वे शशशृृङ्गादेरप्यपरोक्षप्रतीतिविषयत्वं स्याद्, विशेषाभावात्, सविशेषत्वे असत्त्वव्याकोपात् ।

ननु सदसतोः सत्ता निःस्वरूपत्वादिनैव नृशृृङ्गशशशृृङ्गादीनामपि परस्परं नृशृृङ्ग-शशशृृङ्गादिशब्दैरेव परोक्षप्रतीतिव्यवहारविषयत्वादेर्विशेषस्यासत्त्वाविरोधिनो बुद्धिसिद्धस्य सम्भवः । न च सर्वसामर्थ्यहीनस्यासतः सता ज्ञानेन कथं सम्बन्धः ? विषयत्वस्य तत्र वक्तुमशक्यत्वाद्, भाति प्रतीयत इत्यादिकर्तृकर्मत्वादिविरोधाच्चेति वाच्यम्, अतीतादेः स्मृत्यनुमित्यादिविषयत्वादिवदुपपत्तेः । न च तत्र प्रतीत्यादेरेव विषयत्वम्, तावतैव तत्र विषयताव्यवहार इति वाच्यम्, समं ममापीति चेत्, मैवम्, शशशब्दस्य नरि भ्रमदशायां नृशृृङ्गशब्देनेव शशशृृङ्गशब्देनापि नृशृृङ्गस्य प्रतीयमानत्वेन नृशृृङ्गादिशब्दैरेव प्रतीयमानत्वादे-रपि परस्परविशेषस्य वक्तुमशक्यत्वात् । न च दुष्टेन्द्रियादे रूप्यसंस्कारसाचि-व्यवच्छशशृृङ्गसंस्कारसाचिव्याभावात् तस्यापरोक्षभ्रमाविषयत्वम्, अन्यथा तवाप्य-निर्वाच्यान्तरमेव तत्र कथं नोत्पद्येतेति वाच्यम्, संस्कारस्य न तावत्प्रतीतौ साक्षादुपयोगः, स्मृतित्वापत्तेः कित्वर्थोत्पत्तिद्वारा । तथा च संस्कारनियामकतापि अनिर्वाच्यतापक्ष एव न त्वसद्विषयतापक्षे । वस्तुतस्तु संस्कारस्तावत् तात्त्विकरजतादिगोचर एव प्राथमिक-रजतादिभ्रमे प्रयोजकः सर्वमते, स चासद्रूप्यशशशृृङ्गादिसर्वसाधारण एव, तदविषयत्वा-विशेषात् । तथा च कथं स नियामको भवतु ?

प्रवृत्तिविषयत्वान्यथानुपपत्तिः । एवं प्रवृत्तिविषयत्वान्यथानुपपत्तिरपि प्रमाणम् । इदमंशस्यासद्रूप्यात्मना प्रतीतौ सामग्रीविरहस्योपपादनात् । ननु अनिदं रूपे प्रातिभासिके यदिदन्त्वं व्यावहारिकसत्त्वं च तद्द्वयं न तावत् सद् औतव्याकोपात्, नाप्यनिर्वाच्यम्, तथा सति तस्यासद्वैलक्षण्यार्थप्रातिभासिकत्वाय सत्त्वेन प्रतीत्या भाव्यम् । एवं च तदपि सत्त्वमनिर्वाच्यं चेत्, तस्यापि सत्त्वेन प्रतीत्या भाव्यमित्यनवस्था, तथा च तयोरसत्त्वं वाच्यम् । तदुक्तम् अन्यथात्वमसत्तस्माद् भ्रान्तावेव प्रतीयते ।

सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता ।

तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः ॥ इति ॥

टीकायामपि इदन्त्वसत्त्वयोः सत्त्वायोगादनिर्वाच्यत्वे इदन्त्वेन रूप्यावगाहि तदप्रतीतौ प्रवृत्त्ययोगात् सत्त्वेन भाने च तस्मिन्नपि सत्त्वादिविकल्पप्रसरेणा नवस्थानादिदन्त्व-व्यावहारिकसत्त्वयोरसत्त्वमित्युक्तमिति चेन्न, तयोरसत्त्वे अपरोक्षप्रतीतिविषयत्वे सामग््रय-भावादेर्बाधकस्योक्तत्वाद् अनिर्वाच्यत्वमेव । न च तथा सत्त्वेन प्रतीत्या भाव्यम्, इष्टापत्तेः । न चैवमनवस्था, सत्त्वस्य सदिति प्रतीतावतिरिक्तसत्त्वस्यानपेक्षणात्, अन्यथा त्वत्पक्षेऽ-प्यसति रूप्ये यत्सत्वं प्रतीयते तस्य सत्त्वायोगाद् असत्त्वे च तथैव प्रतीतौ प्रवृत्त्यनु-पपत्तिः, सत्त्वेन प्रतीतावनवस्था च स्यात् ।

न च सत्त्वे सत्त्वासत्त्वयोरौदासीन्येऽपि असतः सत्त्वेन प्रतीत्या प्रवृत्त्युपपत्तेर् असति प्रतीतस्य सत्त्वस्य सत्त्वेनाप्रतीतावपि असत्त्वसिद्धेश्च नास्माकं काप्यनुपपत्तिः, तव तु रूप्यादिसत्त्वस्य सत्त्वेनाप्रतीतौ प्रवृत्त्युपपत्तावपि प्रातिभासिकत्वानुपपत्तिरिति वाच्यम्, एवं हि तत्सत्त्वं स्वरूपतो न सत्, तुच्छत्वाद्, विज्ञानतोऽपि न सत्, सत्त्वेनाप्रतीतेः । तथा च असति कथं तन्निबन्धनो व्यवहारः । न च प्रतिभासकाले सत्त्वे स्वरूपतो निषेधप्रतियोगित्वं न स्यात्, पारमार्थिकत्वेन निषेधप्रतियोगित्वे अनवस्थैवेत्यसत्त्वमेव रूप्यादीनामिति वाच्यम्, प्रतीतिकाले सत्त्वेऽपि स्वरूपतो निषेधस्य पारमार्थिकत्वेन निषेधेऽप्यनवस्थापरिहारस्य चोक्तत्वात् । नापि प्रत्येकात्मकत्वे अनुपपत्त्या उभयात्मक-तैवास्त्विति वाच्यम्, दत्तोत्तरत्वाद्, भ्रमत्वानुपपत्तेश्च । न चानिर्वाच्यविषयत्वेन यथा तव मते भ्रमत्वं, तथा सदसदात्मकत्वे यत् सत्त्वं तद्विषयत्वेन भ्रमत्वमस्तु, एवं तर्हि ‘सच्चासच्च रजतम्’ इत्यकारताया दुर्निवारत्वापत्तेः । न च असदेव रूप्यमिति बाधस्य सद्वैलक्षण्य-विषयत्ववत् सद्रजतमिति भ्रमस्याप्यसद्वैलक्षण्यमेव विषयोऽस्तु, तथा च प्रातीतिकमपि सत्त्वं मास्त्विति वाच्यम्, तथा सति बाधेन भ्रमविषयसत्त्वानपहारे बाधकत्वव्यवहारोच्छेदप्रसङ्गाद्, अगृहीतासत्त्वस्यापि इदं रजतं सदिति प्रतीतेश्च । न हि पुनरगृहीतसत्त्वस्यासद्रूप्यमभादिति प्रत्ययः, बाधस्य प्रसक्तिपूर्वकत्वात् ।

ननु असद्विलक्षणं चेन्न बाध्येत, सद्विलक्षणं चेन्न प्रतीयेत, अतोऽनुपपत्त्या अनिर्वाच्यत्वाभाव एव किं न सिध्येत्, न च बाधाप्रतीत्योर्लाघवात् सत्त्वासत्त्वे प्रयोजके, न त्वसद्वैलक्षण्यसद्वैलक्षण्ये, गौरवादिति वाच्यम्, बाधप्रतीत्योरेव प्रथमोपस्थितयोः प्रयोजक-जिज्ञासायामसत्त्वसत्त्वयोः प्रयोजकत्वं कल्प्यते, लाघवात्, प्रथमोपस्थितत्वाच्च, न तु सद्विलक्षणत्वादेर् गौरवात्, चरमोपस्थितत्वाच्च । तदनन्तरं च भानप्रयोजकाभावादेवा भानो-पपत्तौ न प्रयोजकान्तरकल्पना । नृशृृङ्गादेरसत्त्वेऽपि न बाधः, प्रसक्त्यभावादिति चेत्, मैवम्, सत्त्वं न तावत् प्रतीतिप्रयोजकम्, रूप्यस्य उभयमतेऽप्यप्रतीत्यापत्तेः, नाप्यसत्त्वं बाधप्रयोजकम्, उभयमतसिद्धासति बाधादर्शनात्, रूप्ये चासत्त्वस्याद्याप्यसिद्धेः, प्रत्युता-सत्त्वेऽनुपपत्तेर्वक्ष्यमाणत्वाद् गौरवं प्रामाणिकम् । तस्मात् सिद्धं ख्यातिबाधान्यथानुपपत्त्या अनिर्वाच्यत्वमिति ।

न्यायामृततरङ्गिणी

॥ व्यवहारदशायामिति ॥ नेह नानेति श्रुत्या व्यवहारदशायां प्रपञ्चबाधा-भावादापाद्यस्य विपर्ययेऽपर्यवसानमित्यर्थः ॥ व्यवहारेति ॥ तथा च व्यभिचार इत्यर्थः ॥ शेषेति ॥ ख्यात्यनुपपत्त्याऽसद्व्यावृत्तिसाधनवैयर्थ्यमित्यर्थः ॥ अत एवेति ॥ शेषवैयर्थ्यादेव ॥ मानान्तरेति ॥ ननु निर्विशेषत्वादिबोधकं न प्रमाणम् । किं तु लक्षणया शुद्धब्रह्मबोधकमेवेति चेन्न । निर्विशेषत्वस्याप्रामाणिकत्वे सविशेषत्वस्य प्रामाणिकत्वापातात् । न चोभयोरप्रामाणिकत्वम् । विरोधात् ॥ अबाध्य इति ॥

ननु ब्रह्मणः स्वप्रकाशत्वेऽपि व्यवहारे प्रतिबन्धकाज्ञाननिवृत्त्यर्थं प्रमाणापेक्षास्तीति चेन्न । एतादृशाप्रामाणिकत्वस्य जगति इष्टत्वात् ॥ रूप्यादीति ॥ तथा च बाध्यत्वा-प्रामाणिकत्वयोर्व्याप्त्यग्रहान्न बाध्यत्वेन प्रपञ्चेऽप्रामाणिकत्वं सिद्ध्यतीत्यर्थः ॥ अतत्वा-वेदकेति ॥ रूप्यवत्प्रपञ्चस्यापि पारमार्थिकत्वमेवास्त्वित्यर्थः । रूप्यादेस्तत्वावेदक-बाध्यत्वे नाद्वैताद्वैषम्यमाशङ्क्य निराकरोति ॥ न चास्येति ॥ श्रुतेर्भिन्नविषयत्वेन न रूप्यादिबाधकत्वमित्याह ॥ तस्या इति ॥ प्रतियोगीति ॥ तत्प्रसिद्धिसाधकानुमानस्य प्रागेव निरस्तत्वात् ॥ बाधेनैवेति ॥ न चार्थापत्त्यन्तरे तात्पर्यम् । एकत्वोक्ति-विरोधात् । न च प्रयोजनैक्यात्तथोक्तिः । तेनासद्वैलक्षण्यमात्रसाधनात् ॥ इष्टापत्तेरिति ॥ रूप्यं न ज्ञाननिवर्त्यत्वम् । किं तु शुक्त्यज्ञानादावेवेत्यर्थः ॥ द्वितीय इति ॥ बाध्यत्वेन सद्वैलक्षण्यं यस्य रूप्यादेः सिषाधयिषितं तस्यासद्वैलक्षण्यपक्षेऽसद्वैलक्षण्याङ्गीकारे रूप्यादौ त्रैकालिकनिषेधप्रति योगित्वरूपं बाध्यत्वं न स्यात् । उक्तरूपबाध्यत्वेऽसत्त्वस्यैव प्रयोजकत्वादित्यर्थः ॥ रूप्यादाविति ॥ रूप्यादेः सत्ताहीनरूपसत्त्ववत्त्वादित्यर्थः ॥ अत एवेति ॥ रूप्यादेर्बाध्यरूपासद्रूपत्वेन विपर्ययापर्यवसानात् ॥ तस्येति ॥ निरुपाख्यत्वावच्छेदकस्य सन्नेति रूप्यस्यापि स्वरूपेण निषेधपक्षे निःस्वरूपादित्यर्थः । यत्तु प्रतिपन्नोपाधौ स्वरूपेण निषेधप्रतियोगित्वं निःस्वरूपत्वं न वै तद्रूप्यादाविति । तन्न । असतोऽपि प्रतिपन्नोपाधेरुक्तत्वात् ॥ विपर्ययेति ॥ रूप्यादेः सत्त्वाभाववत्त्वात् । शशशृृगमस्तीति वाक्येऽपि शाब्दबोधसामग्रीं व्युत्पादयति ॥ विपरीतेति ॥ अन्यथेति ॥ ज्ञानानुत्पादे योग्यताहीनादिति प्रतिवादिवाक्येऽपि योग्यतासंशयोऽस्तीति मन्यते ॥ कथेति ॥ बधिराणां कलहेन तुल्या कथा स्यात् परस्परवाक्यार्थस्य परस्पराज्ञानादित्यर्थः । यद्यपि नागमतया वादिवाक्यं बोधकम् । तथापि व्याप्त्यादिस्मारकत्वेनोपयोगोऽस्त्येव ॥ अनुभवविरोधादिति ॥ शशविषाणमस्तीति शब्दाच्छशविषाणं जानामीत्यनुभवादित्यर्थः । न चानुभवामीति न प्रत्यय इति वाच्यम् । शब्दात्स्वर्गमनुभवामीत्यनेन तुल्ययोगक्षेमत्वात् ॥ अन्यथेति ॥ तथा च प्रतीत्या रूप्यादेरसद्वैलक्षण्यं न सिद्ध्येदिति भावः ॥ निःस्वरूपस्येति ॥ अनिर्वाच्यत्वेनेष्टस्य रूप्यादेरनिर्वाच्यान्निःस्वरूपाद्भेदानुपपत्तेरन्यस्य च भेदप्रतियोगिनोऽभावाद् रूप्यादीनां कुतः सकाशाद्वैलक्षण्यमिष्यते । तथा च रूप्यादेरपि निःस्वरूपत्वमेव प्राप्तमित्यर्थः ॥ तस्येति ॥ निःस्वरुपभिन्नस्य निरूपाख्यस्याभावादिति मिथ्यात्वभङ्गे उक्तमित्यर्थः ।

नन्वपरोक्षज्ञानाविषयाखण्डाच्छशशृृङ्गाद्वैलक्षण्यं रूप्यादेराशास्यत इत्यत आह ॥ तादृशादिति ॥ तावतापि रूप्यादेरसद्विशेषविलक्षणत्वेऽप्यसद्वैलक्षण्यं न सिद्ध्यतीत्यर्थः ॥ अत्यन्तासत्यपीति ॥ नन्वस्तित्वस्यानिर्वाच्यत्वेन शशशृृङ्गपदाभ्यां तदधिष्ठानमवश्यं वक्तव्यम् । अत्यन्तासच्च नाधिष्ठानमिति न शशशृृङ्गपदाभ्यां तदुपस्थितिः । दृष्टान्ती-कृतवाक्ये तु नानिर्वाच्यं किञ्चिदपि प्रतीयत इति नाधिष्ठानज्ञानापेक्षेति वैषम्यम् । अत्यन्तासत्यपि ज्ञानमित्यादित्वस्त्यादि पदसमभिव्याहृतशशशृृङ्गमसदिति वाक्यपरम् । तस्माच्छशशृृङ्गमस्तीत्यत्र शशे शृृङ्गारोपः शृङ्गे च शशीयत्वस्यारोप इत्यनिर्वाच्यमेव शृङ्गमिति चेन्मैवम् । अश्वादावत्र गोशृङ्गमस्तीति विशिष्टस्येव शशशृृङ्गस्य विशिष्टस्यैवानु-भूयमानत्वात् । समस्तपदप्रतिपाद्यस्यैवा परपदार्थेऽन्वयस्यौचित्याच्च । असच्छशविषाणं प्रत्याश्रयत्वेन प्रतीतस्याश्वादेरिदम्पदार्थस्यैवाधिष्ठानत्वसम्भवेन सर्वथा निरधिष्ठानत्वा-सम्भवाद स्तित्वस्यासदधिष्ठानत्वेऽपि न दोषः ॥ शशशृृङ्गमस्तीति ॥ अत्रेति शेषः ॥ एतेनेति ॥ अत्यन्तासत्यपि शब्दस्य ज्ञानजनकत्वेनेत्यर्थः ॥ शशशृृङ्गशब्द इति ॥ व्योमकमलशब्देन समानत्वादस्योदाहरणम् ॥ यौगिकेति ॥ न च यौगिकशब्दानामवयव-शक्तिप्राधान्येन बोधकत्वादखण्डासद्बोधनमशक्यमिति वाच्यम् । अवयवानां स्वशक्त्य-संसृष्टरूपस्य पदार्थान्तरान्वयाभिमुखस्य सतः पाचकादेरिवाखण्डस्या सतोऽप्यखण्डस्य बोधनसम्भवात् ॥ वार्तिकेति ॥ खपुष्पवार्तिके तत्सिद्ध्यधिकरणे उक्तम् । कथं तर्हि खपुष्पं तत्सिद्धान्त इत्यत्राभावावगतिर् मरुभूमिवदत्र जलमित्यादिवदित्यवेहि । न ह्यत्राप्यभावः शब्द शक्य इति ॥ प्रत्यक्षतेति ॥ व्याप्तिज्ञानस्य सद्विषयकत्वनियमादिति भावः ॥ शशशृृङ्गादीति ॥ प्रतियोगिनमनन्तर्भाव्याभावप्रत्यक्षस्यादर्शनादित्यर्थः ।

ननु साक्षादित्यनिषेध्यतयेति चापरोक्षप्रतीतिविषयविशेषणान्नोक्तदोष इति चेन्न चतुर्थपक्षनिरासेन निरसिष्यमाणत्वात् ॥ सन्मात्रेति ॥ अधिष्ठानज्ञानाबाध्यमत्र सद्विवक्षितम् । तेन प्रातिभासिकस्यापि परमते सद्विशेषतयाश्रयासिद्धिरिति परास्तम् । भ्रममात्रस्यैवोक्तसद्रूपाधिष्ठानविषयतयाश्रयासिद्धिर्मा भूदिति मात्रपदम् । न च शाब्दत्व-मुपाधिः । अनुमितिभ्रमे साध्याव्याप्तेः । व्यतिरेकव्याप्तौ निश्चितव्यापकाभाववति व्याप्यसन्देहेन सन्दिग्धव्यभिचाराच्च ॥ संस्कारेति ॥ शब्दाभासादिजन्यस्य ज्ञानस्य न संस्कारजनकत्वं प्रमाजन्य एव संस्कारो हेतुरिति प्रागुक्तत्वाद्वा । अन्यथा तवाप्य-निर्वाच्यगोचरसंस्कारादनिर्वाच्यान्तरमेव कथं नोत्पद्येत । यत्तु संस्कारस्य न ताव-त्साक्षात्प्रतीतावुपयोगः । स्मृतित्वापत्तेः । किन्त्वर्थोत्पत्तिद्वारा । तथा च संस्कारनियाम-कताप्यनिर्वाच्य पक्ष एवेति । तन्न । अर्थस्य स्मृतित्वापत्त्या तुल्ययोगक्षेमत्वात् ॥ नृशृृङ्गादिशब्दैरेवेति ॥ शब्दशक्तिभ्रमविरहकाल इति शेषः । तेन शशशब्दस्य नरि भ्रमदशायां नृशृङ्गशब्देनेव शशशृङ्गशब्देनापि नृशृङ्गस्य प्रतीयमानत्वेन नृशृङ्गशब्देनैव प्रतीयमानत्वं न तस्य विशेष इति निरस्तम् ॥ अन्यथेति ॥ सत्त्वप्रकारकभ्रान्तेः सत्त्वसापेक्षत्वे तव मतेऽपि रूप्यस्य सद्विलक्षणत्वात् सा भ्रान्तिर्नस्यादित्यर्थः ॥ सम्बन्धादाविति ॥ तथा च तव मतेऽपि रूप्यस्य ज्ञानेन सम्बन्धः । भातीत्यादौ कर्तृत्वादिकं च न स्यात् ॥ दुष्टादिति ॥ स्वरूपयोग्यस्य सहकारिविशेषसमवधाने सति कार्यविशेषजनकत्वदर्शनादि न्द्रियस्याप्यसन्निहिततत्तादिज्ञानजनकत्वेन योग्यत्वात् ॥ प्रमाया एवेति ॥ न च सन्निकर्षोऽपि सामान्यसामग््रयैवेति वाच्यम् । सन्निकर्षे सति क्वाप्यप्रमाया अदर्शनेन प्रत्युत प्रमाया एव दर्शनेनेन्द्रियवदुभयानुगत्यभावेन सन्निकर्षस्य सामान्यसामग्रीत्वाभावात् । अत एवोक्तं मणिकृता । असन्निकृष्टमपि दोषवशाद्भासत इत्युपेयमिति ॥ अन्यथेति ॥ अपरोक्षज्ञानमात्रे सन्निकर्षस्य हेतुत्वे ॥ अयं दोष इति ॥ अनिर्वाच्यस्यापरोक्षज्ञानं ह्यविद्यावृत्तिर्वा तत्प्रतिबिम्बितः साक्षी वा । नोभयमपि सन्निकर्षजन्यम् । तथात्वे अनिर्वाच्यत्वे ॥ तस्येति ॥ रूप्ये प्रतीतस्येदन्त्वस्य व्यावहारिकत्वस्य च सत्त्वेन प्रतीतिं विना प्रातिभासिकत्वासम्भवादित्यर्थः ॥ तदपीति ॥ रूप्ये प्रतीतेदन्त्वादौ यत्सत्वं प्रतीतं तस्याप्यनिर्वाच्यस्य प्रातिभासिकत्वाय सत्त्वान्तरवत्तया प्रतीतिर्वाच्या । एवं सत्त्वे प्रतीतसत्त्वस्यापि प्रातिभासिकत्वाय सत्त्वान्तरवत्तयेत्यनवस्था ॥ तयोरपीति ॥ रूप्ये निषिध्यमाने इदन्त्वपारमार्थिकत्वे सती वाऽसद्विलक्षणे वाऽसती वा । आद्ये निषेधायोगः । द्वितीयेऽनवस्था । असद्विलक्षणयोः स्वरूपेण निषेधायोगात्तयोरपि पारमार्थिकत्वान्तरेण निषेधोे वाच्यः । तद्गतपारमार्थि-कस्याप्यसद्विलक्षणत्वे पारमार्थिकत्वान्तरेणेत्यनवस्था । तृतीये असतः सत्त्वेनापरोक्ष-प्रतीतिर्दुर्वारेत्याह ॥ ते चेति ॥ रूप्ये निषिध्यमाने इदं पारमार्थिकत्वे ॥ सत्त्वेनापरोक्षे इति ॥ सत्त्वनिषेधस्य सत्त्वप्रसक्तिपूर्वकत्वात्प्रकृते च परिशेषात्प्रत्यक्षरूपैव प्रसक्तिरिति भावः ॥ अन्यथात्वमिति ॥ अन्यप्रकारत्वमन्यरूपत्वमिति यावत् । अनिदंरूपे इदन्त्वमव्यावहारिके व्यावहारिकत्वम् । तस्य अपारमार्थिके निषिध्यमानस्य पारमार्थि-कत्वादेः । सुधायां तु शुक्तिकेदमंशस्य रजतत्वसंसर्गो रजतस्य चेदन्ता संसर्गोऽन्यथात्व-शब्दार्थः । सत्त्वशब्देन रजते शुक्तिकासत्त्वसंसर्ग इति व्याख्यातम् । अत्रानिर्वचनीये रूप्ये प्रतीयमानयोरिदंत्वव्यावहारिकत्वयोः । तत्र निषिध्यमानपारमार्थिकत्वस्यासत एवापरोक्ष्य-मनवस्थाभयात्परं प्रति स्वयमापादितम् । सुधायां तु इदंतारजतत्वयोरितरेतरसंसर्गस्य रजते शुक्तिकासत्त्वसंसर्गस्य चानिर्वचनीयस्य तथैव प्रतीतौ प्रवृत्त्ययोगाद्व्यावहारिकतया प्रतीतिर्वाच्या । तद्व्यावहारिकतायाः सत्त्वे उक्तसंसर्गद्वयस्य प्रातिभासिकत्वायोगादसत्या एव तस्या आपरोक्ष्यमायातम् । तस्या अप्यनिर्वाच्यत्वे तथैव तस्याः प्रतीतौ प्रवृत्त्य-योगादनिर्वाच्यायास्तस्या व्यावहारिकत्वेनापरोक्ष्यं वाच्यम् । अनिर्वचनीयव्यावहारिकता-गतव्यावहारिकत्वस्य सत्त्वे तदाश्रयव्यावहारिकताया अनिर्वाच्यत्वायोगादसदेव व्यावहारि-कत्वमपरोक्षतया प्रतीयत इति वाच्यम् । तद्व्यावहारिकत्वस्याप्यनिर्वाच्यत्वे उक्तरीत्या-नवस्थेत्युक्तमित्याह ॥ टीकायान्त्विति ॥ इदन्त्वमिदन्त्वसंसर्गः । सत्वं सत्वसंसर्गः ॥ सत्त्वायोगादिति ॥ इदन्त्वादिसंसर्गद्वयस्यानिर्वाच्यत्वविरोधात् । न हि यस्य सत्त्वं सत्तदनिर्वाच्यमिति सम्भवतीत्यर्थः ॥ प्रवृत्तीति ॥ न ह्यनेनानिर्वाच्यं क्वचिदर्थ-क्रियासूपयुज्यमानं दृष्टम् । येन तद्भावं प्रतीत्यापि प्रवर्तेत ॥ सत्त्वेनेति ॥ व्यावहारि-कत्वेनेत्यर्थः ॥ सत्वम् इति ॥ व्यावहारिकत्वे । अत्र पक्षद्वयेऽपीदंत्वादेरेवासत्त्वमुक्तम् । अनवस्थोपपादनभेदेन तु पक्षभेद इति बोध्यम् ॥ अनिर्वाच्येति ॥ सद्विलक्षणस्येत्यर्थः । एतेन सत्त्वस्य सत्त्वप्रतीतावतिरिक्तसत्त्वानपेक्षेति निरस्तम् । सत्त्वप्रतीतिं विना सत्त्वस्वरूपासिद्धेः ॥ असतःसत्त्वस्येति ॥

ननु तत्सत्वं स्वरूपतो न सत् । विज्ञानतोऽपि न सत् । सत्त्वेनाप्रतीतेः । तथा च सति कथं तन्निबन्धनो व्यवहार इति चेन्न । सत्त्वेनाप्रतीतस्यासतोऽपि सत्त्वस्य प्रतीति-मात्रादेव व्यवहाराद्युपपत्तेः । न हि मम मतेऽप्यर्थो हेतुः । येनासतोऽर्थस्य स्वरूपसिद्ध्यर्थं सत्त्वेन तज्ज्ञानमपेक्षेतेति । ननु रूप्यस्य सदसदात्मकत्वे सद्रूप्यमिति ज्ञानस्य भ्रमत्वं न स्यात् । रूप्यस्य सद्रूपत्वादित्यत आह ॥ असदेवेति ॥ तव मते रूप्यस्यासद्विलक्षण-त्वेऽप्यसदेव रूप्यमिति बाधस्य भ्रमत्वं यथा नायाति तस्य तत्र विद्यमानसद्वैलक्षण्य-विषयत्वाद् एवं सद्रूप्यमिति भ्रमस्याविद्यमानासद्वैलक्षण्यविषयत्वेन भ्रमत्वमक्षतमेव । तथा च प्रातीतिकमपि तत्र सत्त्वं मास्तु बाधोऽसत्त्वविषयकोऽस्तु ॥ सदसदात्मकत्वमिति ॥ सदसदात्मकत्वं यत्सत्वं तद्भ्रान्तौ विषयोऽस्तु । नन्वेवं सच्चासच्चरजतमित्याकारा प्रतीतिः स्यात् । न । वस्तुतो रजतस्य तथात्वेऽपि प्रतीतेस्तदाकारत्वाभावात् । अन्यथा तव मतेऽपि सदसद्विलक्षणमित्याकारा प्रतीतिः स्यात् । बाधकालेत्विष्टापत्तिरित्याह ॥ अन्यथेति ॥ प्रथमोपस्थितत्वादिति ॥ अभावापेक्षया भावस्य प्रथमं बुद्धिस्थत्वात् ॥ कल्पकत्वादिति ॥ भावप्रयोजककल्पनानन्तरमभावेन जिज्ञासा भवतीति भावप्रयोजक-कल्पनाभावे प्रयोजकस्य कल्पिता भवतीत्यर्थः ॥ बाधप्रतीत्योरिति ॥ न च प्रतीतौ न सत्त्वं तन्त्रम् । उभयमतेऽपि रूप्येऽभावादिति वाच्यम् । रूप्य एव सत्त्वस्य प्रतीत्या-पाद्यमानत्वात् । तदिदमाह ॥ सत्त्वात्प्रतीतिरिति ॥ नन्वसत्त्वं न बाधे प्रयोजकम् । नृशृङ्गादावसत्त्वेऽपि बाधादर्शनादित्यत आह ॥ नृशृृङ्गादाविति ॥ यथा तव मते नृशृङ्गादावबाध्ये बाधप्रयोजकत्वेनाभिमतस्य सद्वैलक्षण्यस्य सत्त्वेऽपि तस्य यथाबाधं प्रति प्रयोजकत्वाक्षतिस् तथाऽसत्त्वस्य नृशृङ्गादौ सत्त्वेऽपि न क्षतिरित्यर्थः ।

न्यायामृतकण्टकोद्धारः

अनिर्वचनीयेऽर्थापत्तिं दूषयितुं विकल्पेन पृच्छति ॥ अर्थापत्तावपीति ॥ त्वन्मत इति ॥ प्रतिवादिनो मते प्रपञ्चस्याबाध्यत्वादिति भावः । ननु व्यवहारदशायां न बाध्येत्यापादनकरणान्न व्यभिचारः । प्रपञ्चस्य व्यवहारदशायामबाध्यत्वादित्याह ॥ व्यवहारदशायामिति ॥ अत्र बाध्यते च व्यवहारदशायां तस्मात्सद्विलक्षणमिति विपर्यय-पर्यवसानं कर्तव्यम् । तत्र नेहनानेति श्रुत्या वा बाध्यत्वं ? युक्त्या वा ? प्रत्यक्षेण वा ? नाद्य इत्याह ॥ नेहेति ॥ तथा व्यवहारदशायां प्रपञ्चस्याबाधनात् तत्प्रत्यायकपदादे-स्तत्राभावात् । तथा च विपर्ययापर्यवसानं दूषणमिति भावः । द्वितीय आह ॥ व्यवहारदशायामेवेति ॥ तथा च प्रपञ्च एव त्वन्मते व्यभिचार इति भावः । क्वचिद् यौक्तिकाबाधस्येति पाठः । तदापि विपर्ययापर्यवसानमेवेति भावः । तृतीय आह ॥ प्रत्यक्षेति ॥ तथा च तदंशे विपर्ययापर्यवसानमेवेति । उपलक्षणमेतत् । घटाद्यंशे प्रत्यक्षबाधाभावेन व्यभिचारश्चेत्यपि बोध्यम् ॥ शेषेति ॥ असच्चेन्न प्रतीयेतेत्यंशस्येत्यर्थः ॥ अत एवेति ॥ शेषवैयर्थ्यादेवेत्यर्थः । असतः परेण बाध्यत्वानङ्गीकारादित्यर्थः ॥ प्रामाणिकादन्यस्येति ॥ न च प्रामाणिकत्वमेव तदवच्छेदकमस्त्विति वाच्यम् । तस्यानुपदमेव निरसिष्यमाणत्वात् ॥ बाध्यस्यापीति ॥ तथा च बाध्य एव व्यभिचार इत्यर्थः ॥ आत्माश्रयादिति ॥ सत्त्वलक्षणे सत्वस्य प्रवेशादित्यर्थः ॥ मानान्तरेति ॥ न चात्र प्रामाणिकत्वमेव सत्त्वम् । प्रमाणत्वं च तत्वावेदकत्वम् । तदपि लक्षणया स्वरूपमात्रबोधकत्वम् । न च निर्विशेषत्वादिविशिष्टबोधकागमस्तादृशः । अतो न व्यभिचारः । निर्विशेषत्वादिधर्मे स्वरूपमात्रपरागमाबोध्यत्वेन तत्र प्रामाणिकत्वाभावादिति वाच्यम् । तादृशप्रामाणिकत्वस्याप्रसिद्धत्वेनापादनप्रयोजकव्याप्तेरसम्भवाद्विशिष्टबोधकेऽपि प्रामाणिकत्वव्यवहारेण तादृशपरिभाषाकरणे निमित्ताभावाच्च । तादृशसद्वैलक्षण्यस्य ब्रह्मण्यपि सुसाधनत्वाच्च । प्रपञ्चेऽपि तद्वैलक्षण्यस्येष्टत्वाच्चेति दिक् ॥ अबाध्य इति ॥ तथा च विरुद्धत्वमिति भावः । न च स्वप्रकाशत्वेन प्रकाशार्थं प्रमाणप्रवृत्यनङ्गी-कारेऽप्यज्ञाननिवृत्यर्थं प्रमाणप्रवृत्तिः सफलेति वाच्यम् । प्रकाशमानेऽज्ञानासम्भवस्योप-पादितत्वात् । अज्ञानाविरोधित्वे प्रकाशत्वायोगस्योक्तत्वाच्च । किञ्च रूप्यादिबाध-स्तत्वावेदक उतातत्वावेदकः ? आद्येऽद्वैतहानिः । द्वितीय आह ॥ रूप्यादीति ॥ न च अप्रामाणिकतापादकत्वे न तत्वावेदकत्वं तन्त्रम् । किन्तु बाध्यन्यूनसत्ताकत्वमेव । तथा च रूप्यादिबाधस्यापि अप्रामाणिकतापादकत्वं भविष्यतीति वाच्यम् । तथात्वे वल्मीके स्थाणुत्वभ्रमस्य पुरुषत्वभ्रमबोध्यत्वप्रसङ्गात् । किञ्च भ्रमत्वज्ञापनं हि बाध्यत्वम् । न च भ्रमेण भ्रमत्वज्ञापनं सम्भवतीति तत्वावेदकत्वमेवा प्रामाणिकतापादने प्रयोजकमास्थेयमत एवाह ॥ अतत्वेति ॥ न च निषेधस्य व्यावहारिकत्वमिष्टमेवेति वाच्यम् । निषेधस्य बाध्यत्वे प्रपञ्चस्य सत्यत्वापत्यादेरुक्तत्वात् । एतेनेति परामृष्टं हेतुमाह ॥ अवधारण-स्येति ॥ न चानुमानेन प्रतियोगिप्रसिद्धिरापादितैवेति वाच्यम् । अनुमानानां सम्यक् प्रागेव निरस्तत्वात् ॥ बाधेनैवेति ॥ न च तर्कान्तरोक्त्यर्थं ख्यात्युपन्यासो वा येनाबाध्यत्वेऽसत्वव्याप्तिर्वान ज्ञाता तं प्रति वा सार्थकत्वमिति वाच्यम् । असतोऽपि ख्यातेरुपपादयिष्यामाणत्वेन तर्कान्तरोक्त्यादेरसम्भवात् ॥ सदिति ॥ न च प्रामाणि-कत्वमेव सत्त्वमिति वाच्यम् । तस्य पूर्वं दूषितत्वात् ।

ननु चाबाध्यत्वमेव सत्त्वम् । न चापाद्यापादकयोरविशेषः । त्रैकालिक-निषेधाप्रतियोगित्वमबाध्यत्वम् । विपरीतप्रमाविषयत्वाभावो द्वितीयमबाध्यत्वम् । यद्वा तद्व्यवहारो वा आपाद्यत इति । न चाबाध्यत्वेनैवासद्व्यावृत्तिसिद्ध्या शेषवैयर्थ्यमिति वाच्यम् । तस्य तर्कान्तरोपदर्शनार्थत्वादिति चेन्न । विपरीतप्रमाविषयश्च भवतीति विपर्ययापर्यवसानेन तर्कस्याभावत्वात् । विपरीतप्रमाविषयत्वाभावस्य प्रमाणविरुद्धत्वा-भावेनेष्टापादनत्वाच्च । ब्रह्मणो निर्धर्मकत्वेनापाद्यापादकयोस्तत्राभावेन व्याप्त्यसम्भवाच्च । कल्पितयोः प्रपञ्चेऽपि भावाच्च । तर्कान्तरत्वार्थं च ख्यात्युक्तौ एकत्वेनोक्त्ययोगाच्च । न ह्येकस्मिन्ननुमाने हेतुद्वयं क्रियत इति । नहि त्वद्वाक्यमाप्तवाक्यतया बोधकम् । येन व्याख्यानतो विशेषप्रतिपत्तिः स्यात् । क्वचिदपि भिन्नत्वेनोक्त्यभावाच्च । तस्य तर्कान्तरत्वाभावस्य वक्ष्यमाणत्वाच्च । एवमापादकं दूषयित्वाऽपाद्यमपि दूषयति ॥ एवं नेति ॥ एतच्च सर्वं मिथ्यात्वभङ्ग एवोपपादितमिति नेह तन्यत इति ॥ द्वितीय इति ॥ असत्त्वस्योक्तबाध्यत्वानतिरेकादिति भावः । न चासतः प्रतिपन्नोपाधौ निषेधप्रतियोगि-त्वस्यासम्भवात् तद्वैलक्षण्यमेव बाध्यत्वप्रयोजकमिति वाच्यम् । तस्यासत्यपि प्रतिपादितत्वात् तदतिरेकेणासत्वानिर्वचनाच्चेति । एवं सच्चेन्न बाध्येतेत्यंशं दूषयित्वाऽसच्चेन प्रतीयेतेत्यंशं दूषयितुं पृच्छति ॥ एवमिति ॥ सत्ताहीनस्यापीति ॥ न त्वात्मनि व्यभिचारः किं त्वन्मतरीत्या मद्रीत्या वा ? नाद्यः । त्वन्मत आत्मनि सत्तायाः सत्त्वेनापादकाभावात् । न द्वितीयः । मन्मते तत्र दृश्यत्वस्यैवाभावेनापाद्यसत्त्वादिति चेन्न । उभयथाप्यदोषात् । मया तत्र सत्ताजातेरनङ्गीकारात् परं प्रत्यात्मनि दृश्यत्वस्योप-पादितत्वाच्च । यथा चैतत्तथा दृश्यत्वभङ्गे द्रष्टव्यम् ॥ रूप्यादाविति ॥ असदेव रजतं प्रत्यभादित्यनुभवबाधादिति भावः ॥ अत एवेति ॥ विपर्ययापर्यवसानादेवेत्यर्थः ॥ अन्यथाविज्ञातस्येति ॥ बाधपक्षे आत्मनि व्यभिचारादेवेत्यर्थः ॥ निरुपाख्यं चेदिति ॥ न च निरुपाख्यत्वं नाप्रतीयमानत्वम् । किन्तु शब्दवृत्यविषयत्वम् । तथा च कथं साध्याविशेष इति वाच्यम् । असतः पदवृत्यविषयत्वे निरुपाख्यपदप्रयोगस्य तत्राभावापत्तेः । किञ्चासतोऽपि असत्पदवाच्यत्वात् कथं पदवृत्यविषयत्वम् ? न च निर्धर्मकस्य कथं वाच्यत्वमिति वाच्यम् । तर्हि निरुपाख्यत्वमपि कथम् ? तत्र धर्मिसत्तासापेक्षमिति यदि तदेतदत्रापि तुल्यम् । ख्यात्यङ्गीकारेण पदवृत्तिविषय-त्वाङ्गीकारेणेत्यर्थः ॥ इतोऽन्यस्येति ॥

नन्वप्रतिपन्नोपाधिकत्वे सति स्वरूपेण निषेधप्रतियोगित्वं निःस्वरूपत्वम् । तच्च न प्रपञ्चे न वा शुक्तिरूप्यादाविति विपर्ययपर्यवसानोपपत्तिः । मिथ्यात्वलक्षणे च प्रतिपन्नोपाधाविति विशेषणबलान्नासत्यतिव्याप्तिर्न वा ब्रह्मण्यतिव्याप्तिरिति चेन्न । असतोऽपि भ्रमप्रतिपन्नोपाधिसम्भवात् । ब्रह्मणश्च स एवाधस्तादिति श्रुत्यैव प्रतिपन्नोपाधेः सत्वात् । तथा च दत्तेऽपि विशेषणे नासतो व्यावृत्तिरिति विपर्ययापर्वसानमेवेति ॥ किञ्चेति ॥ सत्त्वाभावतद्व्याप्तान्यतरस्य शुक्तिरूप्यादावङ्गीकारेण तस्मान्नासदिति विपर्यया-पर्यवसानमित्यर्थः ॥ असत इति ॥ अभावज्ञाने प्रतियोगितावच्छेदक प्रकारकप्रतियोगि-ज्ञानस्य कारणत्वादिति भावः ॥ असदिति ॥ निराकरणे निराकार्यज्ञानं कारणम् । निराकार्या चासद्विशिष्टा प्रतीतिः । न च विशेषणाप्रतीतौ विशिष्टप्रतीतिः सम्भाविनीति भावः ॥ असत्पदस्येति ॥ तथा चासच्चेन्न प्रतीयेतेति वाक्यस्याबोधकत्वात्तद्वैयर्थ्यम् । न चासत्पादस्याबोधकत्वेऽपि इतरपदसमुदायस्य बोधकत्वं भविष्यतीति वाच्यम् । तत्पद-जन्यबोधस्यासद्वैलक्षण्यासाधकत्वेन प्रकृतानुपयोगित्वात् ॥ असत इति ॥ व्यवहारस्य व्यवहर्तव्यधीजन्यत्वादिति भावः । न चासद्विषयकविकल्पाङ्गीकारेण सर्वस्योपपत्तिरिति वाच्यम् । विकल्पस्य प्रतीत्यतिरिक्तस्य वक्तुमशक्यत्वात् । सत्त्वस्योपपादयिष्यमाणत्वात् । न चास्तु विकल्पस्य ज्ञानत्वं तथापि तदन्यज्ञानविषयत्वं निषिध्यते इति वाच्यम् । विकल्पोऽनुभवः स्मरणं वा । उभयथापि शुक्तिरूप्यादेस्तदन्यज्ञानविषयत्वाभावेन इष्टापाद-नत्वात् । प्रतीयते चेति विपर्ययपर्यवसानायोगाच्च ॥ इष्टेति ॥ मयापि शुक्तिरूप्यादेः सत्त्वेन प्रमाविषयत्वानङ्गीकारादित्यर्थः ॥ भ्रान्तित्वादेवेति ॥ अन्यथा भ्रान्तित्वमेव न स्यात् । न चासतः सत्त्वेन प्रतीत्यभावेऽपि अनिर्वचनीयविषयत्वेन भ्रान्तित्वं भविष्यतीति वाच्यम् । अनिर्वचनीयत्वस्याद्याप्यसिद्ध्याऽन्योन्याश्रयात् । असदेवेदमित्यनुभवेनानि र्वचनीयत्वाभावस्यैवानिणीतत्वाच्चेति । किञ्च सत्त्वेन प्रतीत्या नासद्वैलक्षण्यं साधयितुं शक्यम् । असत्यपि सत्त्वेन प्रतीतिविषयत्वसत्वादित्याह ॥ येनेति ॥ ननु तद्वाक्या-दनुभव एव न भवत्यत आह ॥ न हीति ॥ तथात्वेऽनुभवविरोध इति भावः । ननु योग्यताभावादयोग्यतानिश्चयसद्भावाच्च कथं तद्बोधकमित्यत आह ॥ विपरीतेति ॥ न ह्ययोग्येऽयोग्यतानिश्चयः सर्वदाऽस्तीति नियमः । यदा स नास्ति यदा वा योग्यताभ्रमोऽस्ति तदाऽयोग्यादप्यनुभवो दुरपह्नव इति भावः ॥ अन्यथेति ॥ अयोग्याद्बोधानङ्गीकार इत्यर्थः।

प्रतारकवाक्यात्प्रवृत्तिदर्शनात् तस्याश्च स्वसमानप्रकारकस्वसमान विषयकज्ञान-साध्यत्वात् तादृशज्ञानस्य च वाक्यातिरिक्तप्रमाणाजन्यत्वादिति भावः । बाधकान्तरमाह ॥ योग्यताहीनादिति ॥ विकल्पः किं ज्ञानान्यन् मानसं वृत्यन्तरं ज्ञानविशेषो वा ? आद्य आह ॥ विकल्पस्येति ॥ विकल्पस्थले जानामीत्यबाधितानुभवाद् विकल्पोऽपि ज्ञानम् । अन्यथा तद्विरोधः स्यादित्यर्थः ॥ प्रवृत्तीति ॥ तस्याज्ञानसाध्यत्वादिति भावः । द्वितीय आह ॥ विकल्पस्येति ॥ तथा च न तेनासद्वैलक्षण्यसिद्धिरिति भावः ॥ द्वितीये ॥ असदेवोल्लिखन् इति पक्ष इत्यर्थः ॥ निःस्वरूपस्येति ॥ निःस्वरूप-त्वस्यैवासत्त्वान् निःस्वरूपस्यानिर्वचनीयत्वेऽसद्वैलक्षण्यमनिर्वाच्यस्य न स्यादित्यर्थः । न च नृशृृङ्गमसदिति वाक्यश्रवणसमनन्तरं विकल्प्यमानाखण्डानिर्वाच्यानात्मकनृशृृङ्गादे-र्वैलक्षण्यमुच्यते । नृशृृङ्गमस्तीत्यत्र तु नरि नृशृृङ्गमनिर्वाच्यम् । तस्मिंश्च सत्त्वमप्य-निर्वाच्यमेवेति वाच्यम् । उभयत्र नृशृृङ्गपदप्रतिपाद्यस्यैकस्यैवानुभवेन विशेषकल्पनायां प्रमाणाभावात् । न च नृशृृङ्गमस्तीत्यत्र सत्त्वस्यारोप्यतयाऽधिष्ठानाक्षेपे नासतस्तदयोगात् । नृशृृङ्गपदेनान्यदेव प्रत्याय्यते । नैवमितरत्रेति वाच्यम् । असतोऽप्यनिर्वाच्यवदधिष्ठानत्व-सम्भवात् । न चासन्न प्रतीयत एवेति वाच्यम् । अस्यानिर्वाच्यसिद्ध्युत्तरकल्प्य-त्वेनान्योन्याश्रयात् । अनिर्वचनीयं चेन्न प्रतीयेतेत्यपि वक्तुं शक्यत्वाच्च । तस्मान्निः-स्वरूपाद्वैलक्षण्यं वक्तव्यम् । सर्वथाऽसतो ज्ञानानङ्गीकारेऽपसिद्धान्त इत्याह ॥ अत्यन्ता-सत्यपीति ॥ न चेदमस्त्यादिपदसमभिव्याहृतपरमिति वाच्यम् । नास्त्यादिपद-समभिव्याहृतपरत्वे बाधकाभावात् । अन्यथा सच्चेन्न प्रतीयेतेति वाक्यमबोधकं स्यात् । अस्त्यादिपदसमभिव्याहाराभावादित्युक्तत्वात् ॥ तद्धैक इति ॥ यथाऽनेनासतः सत्त्वं प्रतीयते तथा मिथ्यात्वलक्षणभङ्ग एवोक्तम् । अपार्थकशब्देनाप्रत्यायकत्वं वा आत्यन्तिक-निषेधयोग्या प्रतीतिर्वा असत्प्रत्यायकत्वं वा ? नाद्य इत्याह ॥ अपार्थकेति ॥ न चानन्वयनिश्चयदशायामबोधकत्वमुच्यत इति वाच्यम् । तस्य योग्येऽप्यनन्वयभ्रमदशायां सत्त्वेन तस्याप्यपार्थकत्वापातात् । न चानन्वयानिश्चयदशायामपि व्यधिकरणप्रकारक-ज्ञानमात्रजनकत्वमिति वाच्यम् । तस्याप्यसद्विषयतामन्तरेण दुःसम्पादत्वादित्य-न्यत्रोक्तत्वात् । द्वितीय आह ॥ तेनेति ॥ तथाचानुभवविरोध इति भावः । तृतीय आह ॥ असदिति ॥ यौगिकेति ॥ न चैवमखण्डासद्बोधाभावापत्तिरिति वाच्यम् । यत्रोप-देशादिनाऽखण्डे शक्तिग्रहस्तत्र तस्याप्युपपत्तेः । यत्र तु न तद्ग्रहस्तत्र योगवृत्या बोध-सम्भवादिति । न चात्र शशे शृृङ्गाभावबोधनमात्रमेवेति वाच्यम् । तथा सति शशशृृङ्गमसदिति सामानाधिकरण्यानुपपत्तेः । प्रयोगान्तरे गवीत्यधिकरणान्तरप्रतीत्या शशस्य तदप्रतीतेश्चेति दिक् ॥ वार्तिकोक्तमिति ॥ तत्सिध्द्यधिकरणवार्तिकोक्तमित्यर्थः ॥ तत्रेति ॥ न च नास्तीतिपदसमभिव्याहारबलात् तथा प्रतीतिरतो न पौनरुक्त्यादीति वाच्यम् । तावताऽखण्डस्यैव प्रतियोगित्वप्रतीतेः । अन्यथा विशिष्टाभावो न सिद्ध्येतेति । तस्मात्सिद्धमेतदसतोऽपि सत्त्वेन प्रतीतिरस्तीति न तयाऽसद्वैलक्षण्यसाधनं युक्तमिति ।

अस्तु तर्हि असच्चेन्न प्रत्यक्षतः प्रतीयेतेति तृतीयः पक्ष इत्यत आह ॥ न तृतीय इति ॥ तथा च यथा कथञ्चिदपरोक्षप्रतीतिविषयत्वस्यासत्यपि सत्त्वान् न तेनासद्वैलक्षण्य-साधनं युक्तमिति भावः । नन्वनिषेध्यतया साक्षादपरोक्षतया प्रतीत्यभाव आपाद्यत इति चेन्न । तत्किं प्रमाभावो वा भ्रान्त्यभावो वा ? नाद्य इष्टापत्तेः । न द्वितीय इत्याह ॥ न चतुर्थ इति ॥ न च तादृशप्रत्यक्षसामग््रयभावात् कथं तादृशप्रत्यक्षम् ? इन्द्रियार्थ-सन्निकर्षो हि प्रत्यक्षसामग्री । न चासता सन्निकर्षः सम्भवतीति वाच्यम् । तार्किकाणां मते योगीन्द्रियादिनाऽतीतादेरिव तव प्रातिभासिकेनेव प्रत्यक्षस्याभावेनेवासता सन्निकर्षाभावेऽपि तद्भानजननोपपत्तेः । न च तत्र योगजधर्मादिर्नियामकोऽथवा स एव सन्निकर्ष इति वाच्यम् । प्रकृतेऽपि दोषस्य नियामकत्वात् । तस्यैव वा सन्निकर्षत्वात् । किञ्च प्रमायामेव निर्दोषेन्द्रियसन्निकर्षो हेतुः । न चेन्द्रियवत् सन्निकर्षस्यापि जन्यप्रत्यक्ष-सामान्यसामग्रीत्वमिति वाच्यम् । इन्द्रियजन्यत्वमात्रेण तदुपपत्तौ सन्निकर्षस्यापि सामान्यसामग्रीत्वे मानाभावात् । अत एव मणिकृदाह ॥ इन्द्रियत्वेनेन्द्रियजन्यं ज्ञानं प्रत्यक्षमिति ॥ अन्यथा सम्बन्धिभिन्नसम्बन्धस्यैव सन्निकर्षत्वात् तस्य चाभाव-प्रत्यक्षादावभावाद् अभावादि प्रत्यक्षाभावापत्तौ बहुविप्लवः स्यात् । किञ्च न हि सन्निकर्षः सन्निकर्षत्वेन कारणमननुगमात् । किन्त्ववान्तरव्यापारत्वेन । प्रकृतेऽपीन्द्रियस्य कारणत्वनिर्वाहार्थं कश्चिदवान्तरव्यापारो भविष्यतीति न कश्चित् क्षुद्रोपद्रवः । अपि च विषयेन्द्रियसन्निकर्षः कारणम् । प्रकृते च सोऽस्त्येव । मुक्तेरेव विषयत्वात् । यथा चैतत्तथा विषयत्वनिर्वचने प्रपञ्चितमित्यलम् ।

किञ्च प्रत्यक्षेणासतो ज्ञानाभावे शब्देनापि तत् कथं स्यात् । योग्यताज्ञानविरहात् । न चायोग्यताज्ञानविरहः शाब्दत्वावच्छिन्नसामग्री । सा च प्रकृतेऽस्त्येवेति वाच्यम् । लाघवेन योग्यतादेरेव हेतुत्वमिति वक्तुं शक्यत्वात् । अत एवाह ॥ सन्मात्राविषयकमिति ॥ न च सर्वस्यापरोक्षज्ञानस्य प्रातिभासिकसाधारणविषयत्वात् तदविषयकमपरोक्षज्ञानमसिद्धम् । सत्पदेन पारमार्थिकसत्वविवक्षायां मात्रपदवैयर्थ्यमेवेति वाच्यम् । सत्पदेन पारमार्थिकत्व-विवक्षायामपि सर्वस्याप्यधिष्ठानीभूतब्रह्मविषयत्वेन सद्विषयत्वान्मात्रपदाभावे आश्रया-सिद्धयनुद्धारात् । न च सामग्रीविरहेण बाध इति वाच्यम् । तस्या उपपादितत्वात् । न च शाब्दत्वमुपाधिरिति वाच्यम् । प्रत्यक्षत्वतुल्यत्वेन शाब्दत्वस्य साध्यव्यापकताऽनिश्चयाद-प्रयोजकत्वाच्च । न च धर्मादिकमपरोक्षप्रतीतिविषयः । प्रतीतिविषयत्वादित्या-भाससाम्यमिति वाच्यम् । तस्यानाभासत्वात् । धर्मादेरपि यत्किञ्चित्प्रत्यक्षविषयत्वात् । न चास्मदादिप्रत्यक्षविषयत्वे साध्ये आभासत्वमिति वाच्यम् । तत्रास्मदादियोग्यत्वस्यो-पाधित्वात् । न च साधनव्यापकत्वं धर्मादेरस्मदादियोग्यत्वे धर्मादिकं साक्षात्कारोमीति प्रत्ययापत्तेः । योग्यतायाः फलबलकल्प्यत्वादिति दिक् ॥ सविशेषत्व इति ॥ यत् सविशेषं तन्नासत् । यथा घटादीति व्याप्तेरिति भावः ॥ दुष्टेन्द्रियस्येति ॥ तथा च संस्काराभावान् न शशशृृङ्गादिप्रत्यक्षमिति भावः ।

ननु संस्कारस्य भ्रमोपयोगिता कथम् ? न तावत्प्रतीतौ । संस्कारजन्यत्वे स्मृतित्वापत्तेः । नापि रजतोत्पत्तौ । रजतोत्पत्यङ्गीकारेऽनिर्वचनीयतापक्षानुसरणमिति चेन्न । प्रतीतावेवोपयोगं ब्रूमः । न च स्मृतित्वापत्तिः । संस्कारजन्यत्वेन स्मृतित्वे संस्कारलिङ्गकानुमितेः प्रत्यभिज्ञायाः संस्कारध्वंसस्य च स्मृतित्वापत्तेः । किञ्चारोप्य-ज्ञानजननद्वाराऽस्तु भ्रमोपयोगिता । आरोप्यज्ञानं च स्मरणरूपमिति न कश्चिद्दोषः । न च भ्रमे आरोप्यज्ञानं न कारणमिति वाच्यम् । अन्वयव्यतिरेकसिद्धत्वात् । न चारोपस्यासत्यत्वात् तस्य च प्रागननुभवात् कथं संस्कारस्य तत्स्मारकत्वमिति वाच्यम् । लाघवेनारोप्यतावच्छेदकप्रकारकज्ञानस्यैव भ्रमकारणत्वेन तादृशस्य सत्यरजतानु-भवसाध्यत्वसम्भवेनोक्तदोषाभावात् । समानविषयकत्वस्य गौरवेण त्याज्यत्वात् । एतेन संस्कारस्तात्विकरजतादिगोचर एव प्राथमिकरजतादिभ्रमे प्रयोजकः । स चासद्रूप्य-शशशृृङ्गादिसर्वसाधारण एव तदविषयत्वाविशेषात् । तथा च कथं च नियामक इति परास्तम् । असद्रूप्याविषयत्वेऽप्यारोपसमानप्रकारकत्वेन रजतसंस्कारस्य रजतारोप-प्रयोजकत्वं न शशशृृङ्गारोपप्रयोजकत्वमिति व्यवस्थोपपत्तेः । भिन्नविषयकव्याप्ति-स्मृतेरनुमिताविव शक्तिग्रहस्य शाब्दानुभव इव भिन्नविषयकस्यापि प्रयोजकत्वोपपत्तेः । न ह्यावयोर्मते सामान्यलक्षणा अस्ति । तथा च शशशृृङ्गादिविषयारोपे संस्कारसाचि-व्याभावादिति यदुक्तं न साधूक्तम् । किञ्चासद्विशेषस्यास्तु भ्रान्तिविषयत्वम् । न च सविशेषत्वे सत्त्वायोग इति वाच्यम् । असतः सविशेषत्वस्यावश्यमङ्गीकार्यत्वादित्याह ॥ असत इति ॥ प्रतीत्यविशेषेऽन्यविशेषमङ्गीकृत्य विशेषान्तरानङ्गीकरणे हेत्वभावादिति भावः ॥ नृशृृङ्गेति ॥ न च शशशब्दस्य नृशब्दभ्रमदशायां नृशृृङ्गशब्देनेव शशशृृङ्ग-शब्देनापि नृशृृङ्गस्य प्रतीयमानत्वेन नृशृृङ्गादिशब्देनैव प्रतीयमानत्वरूपो विशेषोऽसिद्ध इति वाच्यम् । अभ्रमदशाविशिष्टस्यैव प्रतीयमानत्वस्य विशेषव्यवस्थापकत्वात् । अन्यथा घटादावपि घटादिशब्दैरेव प्रतीयमानत्वादिरूपो विशेषो न स्यात् । घटस्य पटत्व-भ्रमदशायां घटशब्देन पटस्य प्रतीयमानत्वादिति तत्रापि वक्तुं शक्यत्वात् । न चैवमेवेति वाच्यम् । घटादेर्घटत्वादिरूपोऽपि विशेषो न स्यात् । भ्रमदशायामन्यथाप्रतीयमानत्वादिति यत्किञ्चिदेतत् ॥ एतेनेति ॥ असतोऽपि धर्माश्रयत्वप्रतिपादनेनेत्यर्थः । यद्वा परोक्ष-प्रतीतिविषयत्वाङ्गीकारेणेत्यर्थः । एतदेव स्पष्टयति ॥ अतीतादेरिति ॥ अन्यथेति ॥ सत्त्वेन भ्रान्तेः सत्त्वसापेक्षत्व इत्यर्थः । तथा च त्वन्मतेऽपि रूप्यविषयिणी सत्त्वभ्रान्तिर्न स्यात् । तस्य सद्विलक्षणतया सत्त्वाभावेन सता ज्ञानादिना सम्बन्धाभावादित्यर्थः ।

ननु सम्बन्धादावसद्वैलक्षण्यमेव प्रयोजकं न सत्त्वमित्यत आह ॥ सम्बन्धा-दाविति ॥ उपलक्षणमेतत् । लाघवेनासत्त्वाभावस्यैव सत्त्वादित्यपि द्रष्टव्यम् । ननु तथाप्यसदपरोक्षप्रतीतौ कारणाभावात् कथमपरोक्षप्रतीतिरित्यत आह ॥ दुष्टादिति ॥ न च तदिन्द्रियसन्निकर्षस्य तत्प्रत्यक्षे कारणत्वात् तदभावे कथं तत्प्रत्यक्षमिति वाच्यम् । दत्तोत्तरत्वादित्यलम् । उक्तन्यायमन्यत्रातिदिशति एतेनेति । एतेनेति परामृष्टहेतुमाह ॥ इदमंशस्येति ॥ न च सामग्रीविरहात् कथं तथाप्रतीतिरिति वाच्यम् । तस्या उपपादयिष्यमाणत्वाद् उपपदितत्वाच्चेति भावः ॥ अपरोक्षप्रमाया एवेति ॥ वस्तुतस्तु विषयस्य क्वापि प्रत्यक्षे न हेतुत्वम् । सन्निकर्षहेतुत्वेनान्यथासिद्धत्वात् । अत एव यत्रार्थं विनापि सन्निकर्षस्तत्र तं विनापि प्रत्यक्षोदयः प्रत्यभिज्ञादौ । तथाचार्थस्याकारणत्वा-त्तदभावेऽपि प्रत्यक्षोदयो युक्तः । सन्निकर्षोऽपि न यत्किञ्चित्सन्निकर्षः कारणम् । किन्तु विषयसन्निकर्षः । विषयश्च शुक्तिकैवेति तत्सन्निकर्षोऽस्त्येव यत्सन्निकृष्टकरणेन यज्ज्ञानं जन्यते तस्य तद्विषयत्वात् । तथा च भ्रमरूपेऽपि प्रत्यक्षे सर्वापि सामग््रयस्त्येवेति भावः । एतदेवाभिप्रेत्याह ॥ रूप्येति ॥ लेख्यसन्निकर्षः कारणं गौरवादिति भावः ॥ अन्यथेति ॥ यावदुल्लेख्यसन्निकर्षस्य कारणत्व इत्यर्थः । न च रजतज्ञानस्य साक्षिरूपत्वान् नार्थादिजन्यत्वमिति वाच्यम् । रजतज्ञानस्य साक्षिरूपत्वासम्मतेः । चक्षुषा रजतमद्राक्ष-मित्यनुभवेन चाक्षुषत्वस्यैव युक्तत्वादिति भावः । किञ्च प्रतीयमानस्य रजतस्य सत्त्वप्रातिभासिकत्वयोरनुपपत्तेरसत्वमेवासेयम् । तथा च कथमसतः सत्त्वेनाप्रतीतिरित्याह ॥ किञ्चेति ॥ प्रकारान्तरेणानवस्थामाह ॥ एवं रूप्यमिति ॥ टीकोक्तानवस्थायां प्रतिबन्दिं परिहर्तुमनुवदति ॥ टीकायान्त्विति ॥ टीकायान्त्वित्युक्तमिति सम्बन्धः ॥ न चेति ॥ टीकोक्तानवस्थापक्ष इत्यर्थः ॥ मन्मत इति ॥ न च सत्त्वस्य सत्त्वेनाप्रतीतौ कथं व्यवहार इति वाच्यम् । घटोऽयमित्यादौ घटत्वादौ घटत्वादेः स्वरूपेण प्रतीत्या घट इत्यादि व्यवहारवत् सत्त्वस्यापि स्वरूपेण प्रतीत्या व्यवहारोपपत्तेः । न च स्वरूपमपि न सदिति वाच्यम् । दोषवशादसत एव प्रतीत्युपपत्तेः । न च सत्त्वस्य सत्त्वासत्त्वौदासीन्येन कथं तस्यासत्त्वसिद्धिरिति वाच्यम् । बाधकप्रत्ययेन तत्सिद्ध्युप-पत्तेरिति । उपलक्षणमेतत् । त्वन्मते सत्त्वावान्तरप्रातिभासिकसत्त्ववन् मन्मतेऽ-सत्वावान्तरासत्त्वाभावात् त्वन्मते सदित्युक्तौ प्रातिभासिकत्वादिसन्देहवत् शृृङ्गमित्युक्तौ नृशृृङ्गसन्देहवन् मन्मतेऽसत्त्वमित्युक्तौ असत्सत्त्वसन्देहाभावान् न प्रवृत्यनुपपत्तिरित्याद्यपि द्रष्टव्यम् ॥ किञ्चेति ॥ न चेष्टापत्तिः । चतुर्थप्रकाराभावेन पञ्चमप्रकाराभावप्रसङ्गात् ।

नन्वेवं सदसदात्मकत्वे सद्रूप्यमिति भ्रमो न स्यात् । तस्य सत्त्वात् सति सत्त्वज्ञानस्य यथार्थत्वादित्यत आह ॥ असदेवेति ॥ तथा चासद्वैलक्षण्यविषयत्वेन भ्रमत्वोपपत्तिरिति भावः । न चैवं बाधकेन भ्रमविषयानपहारे तस्य बाधकत्वमनुपपन्नमिति वाच्यम् । भ्रमविषयीकृतासद्वै लक्षण्याभावविषयत्वेन तदपहारसम्भवात् । न चागृहीता सत्त्वस्यापि सद्रूप्यमिति प्रतीतेर्नासद्वैलक्षण्यं भ्रमविषयः । न ह्येवमगृहीतसत्त्वस्यासदेवेति बुद्धिरस्त्यतः सत्त्वाभावविषयत्वं बाधकस्य युक्तमिति वाच्यम् । न ह्यसत्त्वाभावत्वप्रकारक-प्रतीतिमापादयामो येनासत्त्वज्ञानं विनापि सदिति बुद्धेर्जायमानत्वाद् असत्वाभावविषयत्वं न स्यात् । तदभावत्वप्रकारकज्ञाने हि तत्प्रतियोगिज्ञानापेक्षा न तु स्वरूपेण न वान्य-प्रकारेण ज्ञाने । अन्यथा प्रमेयत्वेनाभावज्ञानेऽपि तदपेक्षा स्यात् । प्रकृते चासत्त्वाभावः स्वरूपेण भासते इति काऽनुपपत्तिः । न हि सदित्यत्र सत्वेऽपि धर्मान्तरमवभासते । न ह्यसत्त्वं सत्त्वाभावरूपं येनासत्त्वज्ञानं सत्त्वज्ञानपूर्वकं स्यात् । सार्वदैशिकसार्वकालिक-निषेधप्रतियोगित्वस्यैवासत्त्वात्तदभावरूपत्वाच्च सत्त्वस्य तज्ज्ञानस्यैवासत्त्वज्ञानपूर्वकत्वमिति वैपरीत्यमेवेति । प्रकारान्तरेण भ्रमत्वं समर्थयते ॥ यद्वेति ॥

नन्वेवं सदिति प्रतीतेर्भ्रान्तित्वं न स्यादित्यत आह ॥ भ्रान्तित्वे चेति ॥ अन्यथेति ॥ एकैकात्मकत्वे विरोधादुभयबहिर्भावश्चेदित्यर्थः । न चेष्टापत्तिः । यथा-कथञ्चिदुभयत्वोपपत्तौ उभयबहिर्भावस्यायुक्तत्वात् । एकस्य तूभयत्वे संयोगपृथत्त्क-मित्यधिकरणविरोधश्च ॥ अनिर्वाच्यत्वाभाव एवेति ॥ सदसदात्मकत्वापत्येत्यर्थः ॥ बाधप्रतीत्योश्चेति ॥ न च सत्त्वासत्त्वे न प्रतीतिबाध प्रयोजके । शुक्तिरजतस्य सत्त्वाभावेऽपि प्रतीयमानत्वात् । शशविषाणादेश्चासतो बाधादर्शनादिति वाच्यम् । एवं हि सद्विलक्षणत्वमपि बाधकं न स्यात् शशविषाणादेस्तददर्शनात् । सद्विलक्षणविशेषस्य तथात्वेऽसद्विशेषस्यैव तथात्वमस्तु । असत एव बाध्यत्वस्य समर्थितत्वाच्च ।

एवमसद्विलक्षणमपि न प्रतीतिप्रयोजकम् । ब्रह्मणोऽसद्विलक्षणत्वेऽप्यवेद्यत्वेन प्रतीत्य-भावात् । ब्रह्म वृत्तिव्याप्यमपि नेति सर्वथायोगाच्च । तस्मात् सत्वासत्वे एव प्रतीतिबाधप्रयोजके लाघवादिति साधूक्तम् । नन्वेवं शशशृृङ्गादेरपि बाधः स्यादित्यत आह ॥ नृशृृङ्गादाविति ॥ प्रसक्तिसत्त्वे बाधस्येष्टत्वादिति भावः । उक्तमर्थं कारिकया सङ्गृह्णाति ॥ एवञ्चेति ॥

न्यायामृतप्रकाशः

साध्यावैशिष्ट्यपरिहारायाह ॥ अबाध्यतावच्छेदकेति ॥ प्रामाणिकत्वादित्यर्थः ॥ व्यभिचारादिति ॥ सत्ताजातिमतोऽर्थाक्रियाकारणस्य च प्रपञ्चस्य ब्रह्मज्ञानबाध्यत्वाङ्गी-कारादिति भावः । व्यवहारादिति भावः ॥ व्यवहारेति ॥ तथा च न व्यभिचार इति भावः नेह नानेति ॥ नेह नानेति श्रुतिबाधेन जगतो यदनिर्वाच्यत्वं तदसिद्धेरित्यर्थः । तथा च ‘यत् सत् तद् व्यवहारदशायां न बाध्येत, बाध्यते चेदं व्यवहारदशायां तस्मात् सन् न’ इति विपर्ययपर्यवसानं विधाय व्यवहारदशायां बाध्यत्वेनानिर्वचनीयत्वं साधितं स्यादिति यत्’ तदयुक्तम् । नेह नानेति वेदान्तजन्यचरमसाक्षात्कारबाधेनैव जगतोऽनिर्वाच्यत्वमिति त्वन्मतभङ्गादिति भावः । यद्वा व्यवहारदशायां न बाध्येत इत्यत्र ‘नेह नानेति श्रुत्या न बाध्यते इत्यर्थो विवक्षितो वा ‘युक्त्या न बाध्येत’ इति वा ‘प्रत्यक्षेण न बाध्येत’ इति वा । नाद्य इत्याह ॥ नेह नानेति ॥ व्यवहारदशायां नेह नानेति श्रुत्या बाध्येत तस्मात् सन् न इति विपर्यपर्यवसानं विधेयम् । तन्न सम्भवति । नेहं नानेति श्रुतिबाधस्य चरमत्वेन व्यवहारदशायमिदानीमभावाद् व्यावहारदशायां नेह नानेति श्रुतिबाध्यत्वाद्धेतो-रुच्यमानं यदनिर्वाच्यत्वं तस्यासिद्धेरित्यर्थः । न द्वितीयः, व्यभिचारादित्याह ॥ व्यवहारेति ॥ दृश्यत्वादियुक्तिभिस् त्रैकालिकनिषेधप्रतियोगित्वरूपबाध्यत्वसाधनाङ्गीकारेण व्यवहारदशायामिदानीमपि युक्त्या बाध्यत्वस्य प्रपञ्चे त्वन्मते दर्शनेन व्यभिचार इत्यर्थः । न तृतीय इत्याह ॥ प्रत्यक्षेति ॥ व्यावहारिकप्रातिभासिकयोरुभयोरप्यनिर्वाच्यत्वसाधन-मपेक्षितम् । तत्र व्यवहारदशायां प्रत्यक्षतो न बाध्येतेति तर्केण व्यावहारिकप्रपञ्चे सत्व-राहित्यं न सिध्यति । चरमसाक्षात्कारबाध्यत्वेन विपर्ययपर्यवसानासम्भवात् । प्रातिभासिके तु न तत् सम्भवति । तत्र विपर्ययपर्यवसानायोगात् । परोक्षतोऽध्यस्ते प्रत्यक्षेण बाधा-भावाद् अपरोक्षतोऽध्यस्ते नभोनैल्यादौ विभुत्वाद्यनुमानबाधस्यैव सत्त्वेन प्रत्यक्षेण बाधा-योगादित्यर्थः । अस्तु वा तर्केण सत्वराहित्यसिद्धिः, तथाऽपि नानिर्वाच्यत्वम् । सत्ताजातिराहित्येऽपि ब्रह्मवदनिर्वाच्यत्वाभावस्योपपत्तेरित्याह ॥ सत्तादीति ॥ किं च व्यवहारदशायां बाध्यत्वेनानिर्वाच्यत्वसाधनमयुक्तम् । यथेदानीं व्यवहारदशायामद्वैतस्य ‘द्वा सुपर्णा’ इत्यादिभेदश्रुतिबाधेऽपि पारमार्थिकत्वमङ्गीकृतं तद्वज् जगतोऽपि व्यवहारदशायां बाध्यत्वेऽपि पारमार्थिकसत्त्वमेवास्त्वित्याह ॥ व्यवहारेति ॥ विपर्ययपर्यवसानेऽ-प्रयोजकतेति भावः ।

ननु न साध्यावैशिष्ट्यं, ‘अबाध्यं चेद् अबाध्यमिति व्यवह्रियेत’ इति व्यवहार-स्यैवात्रापादानादित्यत आह ॥ व्यवहारस्येति ॥ शेषेति ॥ ख्यात्यन्यथाऽनुपपत्त्याऽ-सद्व्यावृत्तिसाधनवैय्यर्थ्यमिति भावः । त्वन्मतेऽसतः प्रतिपन्नोपाधेरभावेन तस्मिन् त्रैकालिक-निषेधप्रतियोगित्वरूपबाध्यत्वानङ्गीकारे ‘सच्चेन् न बाध्येत’ इति बाध्यत्वेन सद्वैलक्षण्य-सिद्धिवत् ‘असच्चेन् न बाध्येत’ इति बाध्यत्वेनैवासद्वैलक्षण्यसिद्धेरुपपत्तेस् तत्साधक-द्वितीयतर्कवैय्यर्थ्यमिति भावः । साध्यावैशिष्ट्यपरिहाराय सच्चेत्, अबाध्यत्वावच्छेदकावच्छिन्नं चेन् न बाध्येत इति विवक्षित चतुर्थपक्षोऽपि न युक्त इत्याह ख्यात्यनुपपत्त्याऽ-सद्व्यावृत्तिसाधनरूपशेषवैय्यर्थ्यादेवेत्यर्थः ॥ तदवच्छेदकस्येति ॥ अबाध्यतावच्छेदक-स्येत्यर्थः । तथा चाबाध्यतावच्छेदकं प्रामाणिकत्वम् । तदवच्छिन्नं प्रामाणिकमित्यर्थः स्यात् । तथा च पञ्चमपक्षान्तर्भावः स्यात् । स च दूषयिष्यते इति भावः ॥ बाध्य-स्यापीति ॥ रूप्यादेरित्यर्थः ॥ बाध्यत्वाकारेणेति ॥ निषेध्यत्वेन रूपेण बाधरूप-प्रमाणविषयत्वरूपप्रामाणिकत्वादित्यर्थः । एवं च रूप्ये व्यभिचार इत्यर्थः । सत्त्वेन प्रामाणिकत्वं विवक्षितमिति न रूप्ये व्यभिचार इति चेत् तत्राह सत्त्वेनेति ॥ आत्माश्रया-दिति ॥ ‘सच् चेन्न बाध्येत’ इत्यत्रापादकीभूतं सत्वं नाम सत्त्वेन प्रमाणविषयत्वरूपं चेत् सत्त्वलक्षणमध्ये सत्वप्रवेशादात्माश्रय इत्यर्थः । किं च ‘प्रामाणिकं चेन् न बाध्येत’ इत्यत्र ब्रह्मगतनिर्विशेषत्वादिधर्मे व्याभिचार इत्याह ॥ मानान्तरेति ॥ प्रामाणिकत्वोपपादनायोक्तं तत्वावेदकेत्यादि ॥ ‘केवलो निर्गुणश्च’ इति श्रुतिवेद्यत्वेनेत्यर्थः ।

ननु मानान्तरप्राप्तनिर्विशेषत्वानुवादित्वान्न स्वार्थे तात्पर्यमित्यत उक्तम् ॥ मानान्त-रेति ॥ आपाद्याभावमुपपादयति ॥ ब्रह्मान्यत्वेनेति ॥ भावाभावयोरैक्यायोगादित्यर्थः । विरुद्धत्वं चाह ॥ अबाध्य इति ॥ ननु प्रामाणिकत्वस्य कथं बाध्यत्वेनैव व्याप्तिरित्यत आह वैय्यर्थ्येनेति ॥ व्यवहारादेरन्यथासिद्धत्वादिति भावः ॥ प्रमाणेति ॥ तथा चानधिगतार्थं गन्तृप्रमाणविषयत्वरूपप्रामाणिकत्वादिति भावः । तथा च प्रामाणिकत्वं प्रपञ्चमात्रवृत्तीति तर्कस्य विरुद्धत्वमिति द्रष्टव्यम् ॥ रूप्यादीति ॥ तत्वावेदकस्यैव बाधकप्रमाणस्य रूप्याद्यप्रामाणिकत्वे तन्त्रतया रूप्यादिबाधकस्य च ब्रह्मभिन्न-विषयतयाऽतत्त्वावेदकस्य रजताभावादिविषयकत्वेऽपि रूप्याद्यप्रमाणिकत्वानापादकत्वात् । अन्यथाऽतत्वावेदकप्रमाणबाधितस्याप्यप्रमाणिकत्वे ‘द्वा सुपर्णा सयुजा’ इत्याद्यतत्वावेदक-प्रमाणबाधितस्याद्वैतस्याप्रामाणिकत्वापत्तेः । तथा चातत्वावेदकप्रमाणबाधितत्वेना-प्रामाणिकत्वसाधनेऽद्वैते व्यभिचारेण विपर्ययपर्यवसानं न सम्भवतीति भावः । विपर्यय-पर्यववसानेऽप्रयोजकत्वं चाह ॥ अतत्वेति ॥ रूप्यादेः पक्षीभूतस्येत्यर्थः । पारमार्थिकत्वं, प्रामाणिकत्वम् । तदुपपादकं स्वत इति ॥ ज्ञानमुत्पद्यमानं प्रमाणं सदेवोत्यापाद्यत इत्यङ्गीकारेण प्रामाण्यस्य स्वतस्त्वाङ्गीकारात् ‘इदं रजतम्’ इति ज्ञानस्यापि प्रामाण्यापत्या रूप्यादेरपि पारमार्थिकत्वोपपत्तेः । न च बाधेन रूप्यादिज्ञानस्य प्रामाण्यायोगाद् रूप्यादेरपारमार्थिकत्वोपपत्तिरिति वाच्यम् । अतत्वावेदकव्यावहारिकप्रमाणबाधितत्वस्याद्वैत-व्यभिचारेणापारमार्थिकत्वानापादकत्वादिति भावः । रूप्यादेरपामार्थिकत्वेऽतत्वावेदक-व्यावहारिकप्रमाणबाधः प्रयोजकत्वेन नोच्यते, किं नाम नेह नानेति तत्वावेदकाद्वैतश्रुतिबाध एव । तस्या ब्रह्मेतरसर्वनिषेधकत्वेन रूप्यादेरपि निषेधकत्वात् । औतस्य तु न तत्वावेदकप्रमाणबाधः । अतस्तस्य पारमार्थिकत्वमित्येवं रूप्यादेरद्वैताद्वैषम्यं स्यात् । एवं च ‘रूप्यादिकं प्रामाणिकं चेत् तत्वावेदकप्रमाणेन न बाध्येत’ इत्यापदनात् तत्र विपर्ययपर्यवसानसम्भवान् न दोष इत्याशंक्य निषेधति ॥ न चास्येति ॥ रूप्यादे-रित्यर्थः । कुतो न चेत्यत आह ॥ तस्या इति ॥ तथा हि भेदश्रुतेः प्रत्यक्षप्राप्त-व्यावहारिकभेदानुवादित्वान्न स्वार्थे तात्पर्यम् । एवं नेह नानेति श्रुतेः ‘नेदं रजतं’ इति प्रत्यक्षप्राप्तव्यावहारिकरूप्यनिषेधानुवादित्वेन स्वार्थे तात्पर्याभावान्न प्रामाण्यमिति बाधकत्वं न स्यादिति भावः ॥ असत एवेति ॥ इह ‘सच् चेन् न बाध्येत’ इति तर्के सत्शब्दार्थं विकल्प्य दूषणभीरुणा केनचित् सत्वं नाम ‘असत एव विलक्षणम्’ इत्युक्तम् । अत्राव-धारणाभावेऽसद्विलक्षणत्वरूपस्य सत्वलक्षणस्यानिर्वचनीयेऽतिव्याप्तिः स्यात् । अतोऽव-धारणम् । तस्य च सद्विलक्षणं न भवतीत्यर्थः । अतोऽसत एव विलक्षणत्वस्य न कुत्राप्यतिव्याप्तिरिति भावः । एतेनेत्युक्तं विशदयति ॥ अवधारणस्येति ॥ अत्र सत्वं नामसत एव विलक्षणत्वं, न तु सद्विलक्षणत्वम् । एवं च ‘सच् चेत्’ इत्यस्यासतो विलक्षणं न तु सतो विलक्षणं चेदित्यर्थः । तत्र न नञश् चेदित्यनेन सम्बन्धे तस्य च प्रत्येकं सम्बन्धे सति ‘असतो विलक्षणं सतश्च विलक्षणं न चेत्’ इत्यर्थः । तथा च ‘सद-सद्विलक्षणं न चेद् इति यावत्’ इति पर्यवस्यति । तथा च निषेधप्रतियोगिनः सदसद्वै-लक्षण्यस्य कुत्राप्यसिद्धत्वादापादाकासिद्धिरिति सम्प्रदायः ॥ बाधेनैवेति ॥ ‘सच् चेन्न बाध्येत’ इत्यस्य सदसद्विलक्षणं न चेन् न बाध्येतेत्यर्थे पर्यवसानाद् बाध्यते चेदं तस्मात् सदसद्विलक्षणं नेति न, किन्तु सदसद्विलक्षणमेवेति बाधान्यथाऽनुपपत्त्यैव सदसद्वैलक्षण्य-रूपानिर्वाच्यत्वसिद्धेः ख्यात्यन्यथाऽनुपपत्तिरूपद्वितीयतर्कोक्तिर्व्यर्थेत्यर्थः ॥ घट्टकुटीति ॥ सच् चेन् न बाध्येतेत्यत्र सत्वनिरुक्तिरूपविकल्पभीरुणाऽसत एव विलक्षणं सद् विवक्षित-मित्युक्तम् । तत्रावधारणार्थविचारे सच् चेदित्यस्य सदसद्विलक्षणं न चेदित्यर्थपर्यवसाने प्राप्ते तत्राप्यापादकप्रविष्टसत्त्वं नाम किम्? सत्ताजात्यादिमत्वं चेत् प्रपञ्चे सत्ताजात्यादि-मद्वैलक्षण्याभावत्वेऽपि बाध्यत्वस्यैव सत्वाद् व्यभिचार इत्येवमादिपूर्वविकल्प दूषणप्रसरेण घट्टकुट्टीप्रभातवृत्तान्त इत्यर्थः । अयं च न्यायः पूर्वमेव वर्णितः ॥ उक्तरीत्येति ॥ ‘रूप्यं नष्टं’ इत्यप्रतीत्या ज्ञानजन्यध्वंसप्रतियोगित्वाभावेनेष्टापत्तेरित्यर्थः । असद्विलक्षणत्वपक्ष इति बाध्यत्वेन सद्वैलक्षण्यं यस्य रूप्यादेः सिषाधयिषितं तस्यैवासद्वैलक्षण्यमङ्गीकर्तुस्तव मत इत्यर्थः । तथा च सच् चेन् न बाध्येतेत्यस्य प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगि न स्यात् । अत्र चेदं बाध्यते, अतः प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगि इति विपर्यय-पर्यवसानम् । तन्न सम्भवति । मिथ्यात्वभङ्गे उक्तरीत्या प्रतिपन्नोपाधौ त्रैकालिक-निषेधप्रतियोगित्वेऽसत्वस्यैव प्राप्तेः । रूप्यादेश्चासद्वैलक्षण्याङ्गीकारात् । अतो न विपर्यय-पर्यवसानं युक्तमित्यर्थः ।

एवं ‘सच् चेन् न बाध्येत’ इति तर्कं निराकृत्य ‘असच् चेन् न प्रतीयेत’ इति द्वितीयतर्कं दूषयितुमसत्शब्दार्थं विकल्पयति ॥ एवमिति ॥ साध्यावैशिष्ट्यपरिहारायाह ॥ निरुपाख्यत्वेति ॥ अवच्छेदकं निःस्वरूपत्वम् ॥ सत्ताहीनस्यापीति ॥ सत्ताजाति-हीनस्यापीत्यर्थः ॥ विपर्ययेति ॥ सत्ताजातिहीनस्यैवासत्त्वेन ‘असन्न भवति’ इत्युक्तेः सत्ताजातिहीनं न भवतीत्यर्थप्राप्त्या रूप्यादौ सत्ताजातिमत्वस्यैव प्राप्तेस् तस्य च बाधान् न विपर्ययपर्यवसानमित्यर्थः ॥ अत एवेति ॥ रूप्यादौ बाध्यत्वरूपासत्वस्यैव सत्वेन ‘असन्न भवति’ इति विपर्ययपर्यवसानाभावादेवेत्यर्थः ॥ तस्येति ॥ निरुपाख्यता-वच्छेदकस्येत्यर्थः । तथा च निरूपाख्यातावच्छेदकं निस्वरूपत्वं, तदवच्छिन्नं निःखरूप-मित्यर्थः स्यात् । एवं च पञ्चमपक्षान्तर्भावः स्यात् । स च दूषयिष्यत इति भावः । नन्वस्तु निरूपाख्यातावच्छेदकं निःस्वरूपत्वातिरिक्तं यत्किञ्चित् । तथापि निरूपाख्यतावच्छेदका-वच्छिन्नं निरूपाख्यमेव पर्यवस्यति, नान्यम् । यथा कारणतावच्छेदकावच्छिन्नस्य कारण-त्वम् । तथा च नास्यापादकत्वं युक्तम् । ‘रूप्यम् असच् चेत्’ इत्यस्य निरूपाख्यं चेदित्यर्थः पर्यवस्यति । निरूपाख्यत्वं नामाज्ञायमानत्वम् । तथा च रूप्यं निरूपाख्यं चेदित्यस्याज्ञायमानं चेदित्यर्थः स्यात् । एवं च रूप्येऽज्ञायमानत्वरूपापादकस्यासिद्धिः । न चासतो रूप्यस्य कथं प्रतीतिरिति वाच्यम् । असत एव ख्यातेर्मयाऽङ्गीकारादित्याशयेनाह ॥ असत एवेति ॥ इदमुपलक्षणम् । रूप्यं निरूपाख्यमज्ञायमानं चेन् न प्रतीयेतेति साध्यावैशिष्ट्यं च द्रष्टव्यम् ॥ पारमार्थिकत्वाकारेणेति ॥ रूप्यस्य बाध्यत्वं त्वयाऽङ्गीकृतम् । तद् बाध्यत्वं तावन्निरुच्यताम् । तद्धि न तावत् त्रैकालिकनिषेध-प्रतियोगित्वम् । निधर्मकस्य ब्रह्मणोऽपि पारमार्थिकत्वाकारेण त्रैकालिकनिषेधप्रतियोगि-त्वात् । अतोऽनिर्वाच्यस्य रूप्यस्य स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वमेव बाध्यत्वं वाच्यम् । तथा च रूप्यमसच् चेन् न प्रतीयेतेत्यत्रासत्वं नाम निःखरूपत्वं चेत् तर्हि तन् निर्वक्तव्यम् । पारमार्थिकत्वाकारेण त्रैकालिकनिषेधप्रतियोगित्वं चेद् ब्रह्मणोऽपि निःस्वरूपत्वापत्तिः । स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वं चेत् तर्हि शशशृङ्गादीनामपि स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वाद् अन्यस्य निःस्वरूपत्वस्याभावात्, एवं च त्वया रूप्यस्य यदा स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वं बाध्यत्वमङ्गीकृतं तदेदमेव निःस्वरूपत्वापरपर्यायमसत्वमिति तदप्यङ्गीकृतं स्यात् । तथा चासन्न भवतीति विपर्यय-पर्यवसानायोग इत्यर्थः । अभावाभावो भावो वा, तद्व्याप्यो वा इति मतद्वयसद्भावादाह ॥ सत्वाभावतद्व्याप्यान्यतरदिति ॥ सत्वाभावप्रकारकप्रमाविशेष्यकत्वादिरूपः सत्वाभाव-व्याप्तौ धर्मौ द्रष्टव्यः ॥ न विपर्यय इति ॥ रूप्यमसच् चेत् सत्वाभाववच् चेन् न प्रतीयेत, प्रतीयते च तस्मात् सत्वाभाववन् नेति विपर्ययपर्यवसानमयुक्तम् । सदसद्विलक्षण-रूपमनिर्वचनीयमेव रूप्यं ख्यायत इति मते रूप्ये सत्वाभावस्यैव सत्वादिति भावः ॥ अन्यच्चेदिति ॥ सत्वाभावातिरिक्तं स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वरूपं चेत् तर्हि उक्तरीत्या यदैतादृशबाध्यत्वं रूप्यस्याङ्गीकृतं तदेवेदमसत्वमिति तदप्यङ्गीकृतं स्यात् । तथा च विपर्ययपर्यवसानायोगेनाङ्गविकलतया तर्कस्याभासत्वप्राप्त्येष्टापत्तिरित्यर्थः । एवमसच् चेदित्यापादकं दूषयित्वा ‘न प्रतीयेत’ इत्यापाद्यं दूषयति ॥ एवमिति ॥ ज्ञाना-योगादिति ॥ प्रतियोगिज्ञानाभावादिति भावः ॥ असदिति ॥ असतोऽप्रतीतौ असन्न प्रतीयते इत्यसद्विषयकप्रतीतिनिरासो न भवति । विशेषणज्ञानाभावादिति भावः । अस-त्प्रतीत्यनङ्गीकारे दूषणान्तरं चाह ॥ असदिति ॥ अनर्थकत्वे असद्रूपार्थप्रतीतिजनकत्वा-भावे असत्प्रतीतिजनकत्वाभावे असन्न प्रतीयते’ इति वाक्यस्याबोधकत्वं स्यात् ।

ननु न प्रतीयते इति पदयोस् तावत् स्वार्थप्रतीतिजनकत्वात् ‘असन्न प्रतीयते’ इति वाक्यस्य संसर्गबोधकत्वं युक्तमित्यत उक्तम्’ ॥ प्रयुक्तेति ॥ वाक्यप्रयुक्तपदानां सर्वेषां सम्भूय संसर्गबोधनरूपैकार्थकारित्वनियमाद् असत्पदस्यासत्प्रतीत्यजनकत्वे सर्वेषां पदानां सम्भूय संसर्गबोधकत्वाभावेनासत्कर्मकप्रतीत्यभावरूपसंसर्गबोधकत्वम् ‘असन्न प्रतीयते’ इति वाक्यस्य न स्यादित्यर्थः ॥ असद्व्यवहारेति ॥ असद्विशिष्टव्यवहारेत्यर्थः । व्यवहारस्य व्यवहर्तव्यज्ञानसाध्यत्वादित्यर्थः ॥ सा किमिति ॥ तथा च ‘असच् चेद् असत्त्वेन न प्रतीयेत इत्यर्थो वा सत्त्वेन भ्रमो न स्याद् इत्यर्थो वा विवक्षित इत्यर्थः ॥ उक्तन्यायेनेति ॥ असद्व्यवहारानुपपत्यादिनेत्यर्थः । सतः शुक्त्यादेर् अन्यथा सतः सत्त्वेन प्रतीतौ भ्रान्तित्वं न स्यादिति भावः ॥ अरूप्यस्येति ॥ यथाऽरूप्यस्यैव शुक्तिकाशकलस्य रूप्यत्वेन प्रतीतिर्भ्रान्तित्वादेवोपपद्यते, एवं भ्रान्तित्वादेवासतोऽपि सत्त्वेन प्रतीतिसम्भवात् तर्केऽप्रयोजकतेत्यर्थः । असत एव सत्वभ्रमाधिष्ठानत्वोक्त्याऽधिष्ठानं सदेवेति नास्मन्मते नियतमित्यवधेयमित्याह ॥ तदुक्तमिति ॥ इतोऽप्यसतः प्रतीत्यङ्गीकार्येत्याह ॥ येनेति ॥ नन्वयोग्यतानिश्चयस्य प्रतिबन्धकत्वात् कथं सत्वप्रकारकज्ञानोत्पत्तिरित्यत उक्तम् ॥ येनेति ॥ अयोग्यतानिश्चयाभावदशायामित्यर्थः । ज्ञानोत्पत्तेः सत्वप्रकारकज्ञानोत्पत्तेः ।

ननु शशशृङ्गमस्तीति वाक्यान् निरर्थकवाक्येष्विव पदार्थज्ञानमेव न भवति । सत्यपि पदार्थज्ञानेऽपार्थकेष्विवान्वयधीरेव वा न भवतीति चेत् तत्राह ॥ न हीति ॥ अपार्थकेषु अनन्वितेषु इत्यर्थः । अनन्वितार्थकमिति भावः । कुतो न हीत्यतः शशशृंगमस्तीत्यादि-विपरीतबोधकवाक्येष्वपि शाब्दबोधसामग्रीं व्युत्पादयति ॥ विपरीतेति ॥ अयोग्यतेति ॥ अवास्तवयोग्यतेत्यर्थः ॥ योग्यतेति ॥ अत एव पूर्वं येन पुंसा शशशृंगाभावो न निश्चित इत्युक्तमिति ध्येयम् । अन्यथा, ज्ञानस्यैवानुत्पादे ॥ प्रवृत्यादेरिति ॥ शृङ्गार्थिन इति शेषः । आदिपदेन व्यवहारग्रहणम् । प्रवृत्यादेर् ज्ञानसाध्यत्वेन तदभावेऽयोगादिति भावः । वास्तवाकांक्षासन्निध्योरिव सत्या एव योग्यताया वाक्याद् वाक्यार्थज्ञानोत्पत्तौ हेतुत्वात् शशशृङ्गमस्तीति वाक्यान् न ज्ञानोत्पत्तिरित्यत आह ॥ योग्यतेति ॥ तद्धीनाद् योग्य-ताहीनात् ॥ बधिरेति ॥ बधिराणां कलहेन तुल्या कथा स्यादित्यर्थः । वाक्यार्थज्ञान-हेतुभूतवास्तवयोग्यताया प्रतिवादिवाक्येऽभावेन प्रतिवादिवाक्याज् ज्ञानस्यैवानुत्पत्तेरिति भावः ॥ विकल्पमात्रमेवेति ॥ न ज्ञानमित्यर्थः ॥ शाब्दज्ञानानुपातीति ॥ शब्दजन्यज्ञान-सदृश इत्यर्थः । अत्र विकल्पस्येच्छादिवज् ज्ञानान्यवृत्त्यन्तरत्वमभिप्रेतम्? ज्ञानविशेषत्वमेव वा? नाद्य इत्याह ॥ विकल्पस्येति ॥ वृत्त्यन्तरत्वे अन्तःकरणवृत्यन्तरत्व इत्यर्थः ॥ अनुभवेति ॥ शशविषाणशब्दात् शशविषाणं जानामीत्यनुभवविरोधादित्यर्थः ॥ प्रवृत्तीति ॥ ज्ञानस्यैव प्रवर्तकत्वादिति भावः । प्रवृत्त्ययोगमेवोपपादयति ॥ हीति ॥ अनुभूयत इति ॥ येन प्रवृत्तिर्न स्यादिति भावः । किं चासति इच्छादिरूपान्तःकरण-वृत्त्यन्तरवदिच्छादिवद्वा ज्ञानमेवाङ्गीक्रियताम् । न तु तदतिरिक्ते विकल्प इत्याह ॥ असतीति ॥ अन्यथेति ॥ विकल्पमात्रमित्यङ्गीकृत्य ज्ञानानङ्गीकार इत्यर्थः ॥ स्यादिति ॥ प्रतीत्यन्यथाऽनुपपत्त्या रूप्यादेरसद्वैलक्षण्यं न सिध्येदिति भावः । द्वितीये त्वाह ॥ विकल्पस्येति ॥ अनुभवेति ॥ ज्ञाने शशशृङ्गोल्लेखित्वावगाहिना शशशृङ्गं जानामीत्यनु-भवेन विरोधादित्यर्थः ॥ व्यवहारेति ॥ शशशृङ्गोल्लेखिव्यवहारेत्यर्थः । अनुभवविरोधमेवो-पपादयति ॥ न हीति ॥ कस्याप्यनुल्लेखितयाऽनुव्यवसायरूपानुभवविषयो व्यवसायो नानुभूयते । किन्तूल्लिखदेवानुभूयत इति भावः ॥ सिद्धमिति ॥ ज्ञाने उल्लिख्यमानस्यासत एव विषयत्वादिति भावः ।

ननु शशशृङ्गवाक्याज् जायमानशशशृङ्गप्रतीतिर् नासत्शृङ्गविषयिणी येनासतः प्रतीतिः स्यात् । किं नाम सदसद्विलक्षणविषयिणी सेत्यत आह ॥ न चेयमिति ॥ अनिर्वाच्यत्व इति ॥ सदसद्विलक्षणत्वेन रूप्यादितुल्यत्व इत्यर्थः ॥ रूप्यादेरिति ॥ रूप्यादेर-निर्वाच्यत्वं नाम असद्वैलक्षण्यं वक्तव्यम् । तत्र किमसत्, यद्वैलक्षण्यं रूप्यादेः स्यात् । शशशृृङ्गस्यासद्वैलक्षण्याङ्गीकारादिति भावः ॥ तस्येति ॥ निःखरूपशशशृृङ्गादिभिन्नस्य निरूपाख्यस्याभावेन बुद्धावनारोहात् तत्प्रतियोगिकवैलक्षण्यं न रूप्यादेर्ज्ञातुं शक्यमिति भावः ॥ तादृशेति ॥ शशशृृङ्गादिभिन्नं निरूपाख्यं किञ्चिदस्ति तद्वैलक्षण्यमेवानिर्वाच्यत्वं शशशृृङ्गादिवैलक्षण्यं तावन्न मन्तव्यं तदेवचास्मन्मनोगतमिति भावः । किञ्च शशशृृङ्ग-मस्तीति वाक्याज् जायमानं ज्ञानं नानिर्वाच्यविषयकम् । न च शृृङ्गस्यानिर्वाच्यत्वात् तद्विषयकं भवत्येवेति वाच्यम् । शशशृृङ्गमसदिति वाक्याद् यथाऽसदेव शृृङ्गं प्रतीयते एवं शृृङ्गमस्तीति वाक्याद् अनिर्वाच्यतयाध्यस्तास्तित्वाधिकरणीभूतं शशशृृङ्गमसदेव प्रतीयते इत्यङ्गीकार्यम् । न चासतः कथं प्रतीतिरिति वाच्यम् । अर्थे अत्यन्तमसत्यपि तद्विषये शब्दो ज्ञानं करोति इति त्वदङ्गीकारात् । अतोऽसच् चेन् न प्रतीयेतेति तर्के व्यभिचार इत्याह ॥ अत्यन्तेति ॥ इतोऽपि व्यभिचार इत्याह ॥ तद्धैक इति ॥ एतेनेति ॥ अत्यन्तासत्यपि ज्ञानजनकत्वेनेत्यर्थः ॥ निश्चितेति ॥ शशाधिकरणकशृृङ्गाधेयकसंसर्ग-रूपान्वयाभावस्य निश्चितत्वात् शशशृङ्गशब्दोऽपार्थक इत्यर्थः । यद्यपि मणौ व्योमकमल-शब्दोऽनिश्चितान्वयत्वादपार्थक इत्युक्तम् । तथाऽपि व्योमकमलशब्दोऽत्र ग्रन्थेऽप्रस्तुतः । परोक्षतः प्रतीयमानत्वं, यन्निषेधप्रतियोगित्वरूपमसत्वं न सिद्ध्येदिति भावः ।

नन्वत्र निषेध्यतयाऽसतोऽपरोक्षप्रतीतिविषयत्वेऽपि असच् चेदनिषेध्यतयाऽपरोक्षतो न प्रतीयेतेति विशेषणान्न दोष इति चेन्न । अस्यापि चतुर्थपक्षदूषणेनैव दूषयिष्यमाणत्वादिति ध्येयम् । ‘सत्त्वेनापरोक्षप्रतीतिर्वेति चतुर्थपक्षोऽपि नेत्याह ॥ न चतुर्थ इति ॥ भ्रान्ति-त्वादेवेति ॥ रूप्यमसच् चेत् सत्वेनापरोक्षतो न प्रतीयेतेत्यापादानं न युक्तम् । भ्रान्तित्वादेवासतोऽपि सत्वेन प्रतीत्युपपत्त्याऽप्रयोजकत्वात् । अन्यथा भ्रान्तित्वमेव न स्यात् । असतः सत्त्वेनापरोक्षतः पतीतेरेव भ्रान्तित्वादित्यर्थः । सदविषयकस्य पक्षत्वे ज्ञानसामान्यस्य भ्रमस्यैव पक्षत्वे भ्रमस्याधिष्टानरूपसद्विषयकत्वेनाश्रयविशेषमासिद्धिर्माभूदिति मात्रपदम् । भ्रमः भ्रमरूपज्ञानम् ॥ असदिति ॥ असद्विषयकपरोक्षभ्रमवदित्यर्थः । न चात्र शाब्दत्वमुपाधिरिति वाच्यम् । असद्विषयकभ्रमरूपानुमितौ साध्याव्यापकत्वादिति द्रष्टव्यम् । नन्वसद्विशेषस्य रूप्यादेरेवापरोक्षप्रतीतिरङ्गीक्रियते ।

नासतः शशशृृङ्गादेरित्याशङ्क्य निराकरोति ॥ न चेति ॥ कुतो न चेत्यत आह ॥ सद्विषत्वेति ॥ असतोऽप्यवान्तरविशेषत्वे पृथिव्यादिवत् सत्त्वापत्तेः । अतः कस्याप्य-सतोऽपरोक्षप्रतीतिविषयत्वं नास्तीत्यर्थः ॥ साचिव्याभावादिति ॥ प्रधानप्रमाजन्यसंस्कारो भ्रमहेतुः । रूप्यादिभ्रमहेतुदुष्टेन्द्रियसचिवश्च संस्कारः प्रधानभूतापणस्थ, रूप्यप्रमाजन्यः न ह्यत्र प्रधानभूतं शशशृृङ्गंमस्ति येन तत्प्रमाजन्यसंस्कारसचिवदुष्टेन्द्रियेण शशशृृङ्ग•परोक्षभ्रमः स्यादित्यर्थः । किञ्चासतोऽप्यपरोक्षप्रतीतिविषयत्वे शशशृंगादेरपि सा स्यादित्यापादनं न युक्तम् । असद्विशेषस्य रूप्यादेरेवापरोक्षप्रतीतिविषयत्वाङ्गीकारात् ।

नन्वसतोऽपि सद्विशेषत्वेऽसत्वायोग इति चेन्न । असत्यपि विशेषाणामनुभूयमानत्वात् । तेषां च वैज्ञानिकानां सत्वेऽपि धर्मिसत्त्वानपेक्षणात् । तद्वदपरोक्षप्रतीतिविषयत्वरूप विशेषस्यासद्विशेषे वैज्ञानिकसम्बन्धेनोपपत्तेर्धमिसत्वानपक्षेण, तेन विशेषेणासत्वाव्याघाता-दित्याह ॥ असत इत्यादिना ॥ असत्वरूपेणेत्यादि तृतीयान्तानां ‘विशेषेणेव’ इत्य-नेनान्वयः ॥ नृशृृङ्गादिशब्दैरेवेति ॥ शब्दशक्तिभ्रमविरहकाले इति शेषः । तेन शशशब्दस्य नरि भ्रमदशायां नृशृृङ्गशब्देनेव शशशृृङ्गशब्देनापि नृशृृृङ्गस्य प्रतीयमानत्वेन नृशृृङ्गशब्देनैव प्रतीयमानत्वेन तस्याविशेष इति निरस्तम् । तथा च नृशृृङ्गशब्देनैव शृृङ्गपरोक्षप्रतीति-व्यवहारविषयत्वं नृशृृङ्गस्य । आदिपदेन शशशृृङ्गशब्देनैव परोक्षप्रतीतिव्यवहारविषयत्वं शशशृृङ्गस्य शशशृृङ्गशब्दस्यैव रूपेणेत्यर्थः । कदाचिदेव न सर्वदा ॥ विशेषेणेवेति ॥ विशेषेण बौद्धेन धर्मिसत्वानपेक्षेण असत्वाव्याघात इवेत्यर्थः ॥ अनेनापीति ॥ अपरोक्षधीविषयत्वरूपेणापीत्यर्थः ॥ बौद्धेनेति ॥ बुद्ध्यैव केवलमस्तीति बौद्धम् । ज्ञायमानेन वैज्ञानिकसम्बन्धेन विद्यमानेनेति यावत् । सर्वसामर्थ्येत्यादि विषयत्वानाश्रयत्वे हेतुः । सता ज्ञानेनासम्बन्धादिति ॥ असतोऽपरोक्षधीविषयत्वे सता ज्ञानेन सम्बन्ध-मङ्गीकृत्य, तत्प्रयुक्तविषयत्वाश्रयत्वम्, असद् भाति, ज्ञायते इति भानकतृत्वकर्मत्वादिकं तस्मिन्नेव वक्तव्यम् । इदं चायुक्तं, सर्वसामर्थ्यहीनत्वादित्यर्थः। ततश्च ‘असन् नापरोक्षधी-विषयः, सर्वसामर्थ्यविधुरत्वाद् व्यतिरेकेण घटवत्’ इत्यनुमानमुक्तं भवति । एतेनेत्युक्तं विशदयति । अतीतादेरित्यादिना ‘विषयत्वादिवद् विषयत्वादिरूपधर्माश्रयत्वादिवत् । परोक्षज्ञानम् अनुमित्यादिरूपम् ॥ इहापीति ॥ अपरोक्षज्ञान एवासद्विषयकत्वं, न त्वसति अपरोक्षज्ञानविषयत्वमित्यस्त्वित्यर्थः ॥ तत्सत्वेति ॥ स्मृत्यादिविषयत्वप्रतियोगित्वादि-धर्मजातं धर्मिसत्तासापेक्षं न भवतीत्यतोऽतीतादौ तदङ्गीक्रियते चेदित्यर्थः । इदमपि सत्वानपेक्षणाद् विषयत्वमपि । तदेवोपपादयति ॥ न हीति ॥

सत्वप्रकारकभ्रमरूपापरोक्षज्ञानं न रूप्यादिधर्मिसत्वसापेक्षमित्यर्थः ॥ अन्यथेति ॥ सत्त्वप्रकारकभ्रान्तेः रूप्यादिधर्मिसत्वसापेक्षत्वे । सद्विलक्षणत्वेऽपि सद्विलक्षणत्वमङ्गीकर्तु-स्तव मतेऽपि सा भान्तिर्न स्यात् । रूप्यादौ सत्वाभावसत्वादित्यर्थः । यदुक्तं रूप्यादेरसतः सता ज्ञानेनासम्बन्धाद् भातीत्यादि भानकर्तृत्वाद्ययोग इति, तत् तव मतेऽपि समानम् । ननु मया रूप्यादेरसद्वैलक्षण्यङ्गीकारात् तस्य सता ज्ञानेन सम्बन्धे तन्त्रत्वाद् युक्तं मन्मते रूप्यादेर् भानकर्तृत्वादि इति चेत्, न सता ज्ञानेन सम्बन्धे असद्वैलक्षण्यादपि सत्त्वस्य तन्त्रत्वे लाघवाद् रूप्यादेस्तदभावादुक्तदोष तदवस्थ एवेत्याह सम्बन्धादाविति ॥ दुष्टा-दिति ॥ स्वरूपयोग्यस्य सहकारिविशेषसमवधाने सति कार्यविशेषजनकत्वदर्शनादिति भावः । रूप्यादेरत्यन्तासत्त्वे रूप्यार्थिनस्तत्र प्रवृत्ययोगात् तदन्यथाऽनुपपत्त्याऽसद्वैलक्षण्य-मङ्गीकार्यमिति असद्वेैलक्षण्यसाधकार्थापत्त्यन्तरमप्यनेनैव निरस्तमित्याह ॥ एतेनेति ॥ एतेनेत्युक्तमेव विवृणोति ॥ इदमंशस्येति ॥ तदर्थीति ॥ रूप्यार्थीत्यर्थः ॥ प्रवृत्तीति ॥ इष्टतावच्छेदकप्रकारकपुरोवृत्तिविशेष्यकज्ञानस्यैव प्रवर्तकत्वादिति भावः ॥ उपपत्तेरिति ॥ ततश्चार्थापत्तेरन्यथाऽप्युपपत्तिरिति भावः । अपरोक्षज्ञाने विषयस्य कारणत्वात् ‘अर्थादि-जन्यत्वादित्युक्तं वर्तमानार्थप्रमायामिति द्रष्टव्यम् ॥ हेतुत्वेति ॥ अपरोक्षज्ञानजनक-त्वेत्यर्थः । अर्थादीत्यादिपदेनेन्द्रियार्थसन्निकर्षग्रहणम् । अपरोक्षभ्रमस्तु नार्थेन्द्रियसन्निकर्षाभ्यां जन्य इति भावः । तथोक्तं गङ्गेशेन ‘असन्निकृष्टमपि दोषाद्भासत इत्युपेयम्’ इति । किञ्चेन्द्रियसन्निकर्षोऽप्यस्ति प्रकृत इत्याह ॥ रूप्येति ॥ अन्यथेति ॥ अपरोक्षप्रमाया एवेन्द्रियसन्निकर्षादिजन्यत्वमनङ्गीकृत्यापरोक्षज्ञानमात्र सन्निकर्षस्य हेतुत्वाङ्गीकारे रूप्यस्य प्रातिभासिकत्वपक्षे प्रातिभासिकस्य रूप्यस्यापरोक्षधीर्न स्यादेव । कुत इति चेत् प्रतिभास-मात्रशरीरस्य रूप्यस्य स्वापरोक्षप्रतिभासात् पूर्वमभावेन सन्निकर्षासम्भवादित्यर्थः । असतः सत्त्वेनापरोक्षप्रतीत्युपपादनाय प्रवृत्तम् ‘अन्यथात्वमसत्’ इत्याद्यनुव्याख्यानं हृदि निधाय स्वयं तदर्थमाह ॥ किञ्चेति ॥ अन्यथात्वमित्यस्यार्थो अनिदंरूपे इत्यादि । अनिदंरूपे रूप्ये यदिदन्त्वं प्रतिभाति प्रातिभासिके च रूप्ये यद् व्यावहारिकत्वं भातीति सम्बन्धः ॥ न तावदिति ॥ तथात्वे धर्मिणो रूप्यस्यापि सत्वप्रसङ्गादिति भावः । अनिर्वाच्यं सदसद्विलक्षणरूपं प्रातिभासिकम् । तथात्वे, अनिर्वाच्यत्वे ॥ तस्येति ॥ रूप्ये प्रतीतस्येतदन्त्वस्य व्यावहारिकत्वस्य च । सत्वप्रतीत्या भाव्यं कुतः? इत्यत उक्तम् ॥ सदसद्वैलक्षण्यार्थमिति ॥ रूप्यगतेदन्त्वादेरनिर्वाच्यत्वे असद्वैलक्षण्यात्, असद्वैलक्षण्यस्य चासत्वेन च न प्रतीतिरिति सत्वेन प्रतीतिरन्यथाऽनुपपत्यैव वक्तव्येति तयोः सत्त्वप्रतीत्या भाव्यमित्यर्थः । कुतस्तयोः सत्वप्रतीत्या भाव्यमित्यत्र युक्तिमाह ॥ प्रातिभासिकसत्वाय चेति ॥ इदन्त्वव्यावहारिकत्वयोरनिर्वाच्यत्वेन प्रातिभासिकत्वाङ्गीकारात् सत्वेन प्रतीतिं विना च प्रातिभासिकत्वासम्भवादित्यर्थः । ‘सत्वस्यासतः’ इत्यादेरर्थमाह ॥ एवं तदपीति ॥ रूप्ये प्रतीतेदन्त्वादौ यत् सत्वं प्रतीतं तस्य सत्वे रूप्यस्यापि सत्वापत्त्याऽनिर्वाच्यत्वं वाच्यम् । तस्याप्यनिर्वाच्यस्य प्रातिभासिकत्वाय सत्त्वान्तरवत्तया प्रतीतिर्वाच्येत्यनवस्था स्यादित्यर्थः । ‘अन्यथात्वमसत् तस्मात्’ इत्यस्याभिप्रायमाह ॥ तस्मादिति ॥ ते च सत्वे नापरोक्षे इति कथमसतः सत्वेनापरोक्षज्ञानाभाव इत्याशयः । अनिदंरूपे इदन्त्व-प्रकारकत्वेऽव्यावहारिके व्यावाहारिकत्वप्रकारकत्वे त्वन्यथात्वमित्युपपाद्यान्याकारत्व-मन्यथात्वमित्यर्थमभिप्रेत्योपपादयति ॥ एवमिति ॥ तयोरपीत्यादि ॥ निषिध्यमान इदन्त्वपारमार्थिकत्वे पारमार्थिकसती वा असद्विलक्षणे वा असती वा । आद्ये स्वरूपेण निषेधायोगः । द्वितीयेऽसद्विलक्षणयोः स्वरूपेण निषेधायोगात् तयोरपि पारमार्थिकत्वाकारेणैव निषेधो वाच्यः । तद्गतपारमार्थिकत्वस्यापि असद्विलक्षणत्वे पुनः पारमार्थिकत्वाकारेणैव निषेधो वाच्य इत्यनवस्थेत्यर्थः । तस्मात् तृतीयपक्ष एवाङ्गीकार्य इत्याह ॥ तयोरसत्वं वाच्यमिति ॥ ते चेति ॥ रूप्ये निषिध्यमानेदन्त्वपारमार्थिकत्वे इत्यर्थः ॥ अन्यथात्व-मिति ॥ अन्यप्रकारकत्वम् अन्याकारत्वं चान्यथात्वमित्यर्थः । तस्य प्रकारस्य आकारस्य च अत्रानिर्वचनीये रूप्ये प्रतीयमानयोरिदन्त्वव्यावहारिकत्वयोरसतोस्तत्र निषिध्यमानयोः पारमार्थिकत्वेदन्त्वाकारयोरसतोरेवापरोक्ष्यमानवस्थाभयात् परं प्रति स्वयमापादितम् । सुधायां तु प्रातिभासिके रूप्ये अन्यथात्वम् इदन्त्वं तावत् प्रतीयते । तत्रेदन्त्वेन प्रतीयमानस्य रूप्यस्य प्रातिभासिकस्य तथैव प्रतीतौ प्रवृत्त्ययोगाद् व्यावहारिकतया प्रतीतिर्वाच्या । तद्व्यावहारिकतायाः सत्त्वे रूप्यस्य प्रातिभासिकत्वायोगाद् असत्या एव तस्या आपरोक्ष्य-मायातम् । तस्या अप्यनिर्वाच्यत्वे तथैव तस्याः प्रतीतौ प्रवृत्त्ययोगाद् अनिर्वाच्यायास् तस्या व्यावहारिकत्वेनापरोक्ष्यं वाच्यम् । अनिर्वचनीयव्यावहारिकतागतव्यावहारिकत्वस्य सत्त्वे तदाश्रयव्यावहारिकताया अनिर्वाच्यत्वायोगाद् असदेव व्यावहारिकत्वमपरोक्षतया प्रतीयत इति वाच्यम् । तद्व्यावहारिकत्वस्याप्यनिर्वाच्यत्वे उक्तरीत्याऽनवस्थेत्येवं प्रातिभासिके रूप्ये यद्व्यावहारिकत्वं तस्यासत एव प्रतीत्यनङ्गीकारे सत्वपरम्परयाऽनवस्थेत्याह ॥ टीकाया-न्त्विति ॥ सत्वं व्यावहारिकत्वम् ॥ सत्वायोगादिति ॥ तथात्वे रूप्यस्यानिर्वाच्यत्व-विरोधात् । न हि यस्य सत्त्वं सत् तदनिर्वाच्यमिति सम्भवतीत्यर्थः ॥ अनिर्वाच्यत्व इति ॥ प्रातिभासिकत्व इत्यर्थः ॥ प्रवृत्तीति ॥ न हि प्रातिभासिकं क्वचिदर्थक्रिया-सूपयुज्यमानं दृष्टं येन तद्भावप्रतीत्यापि प्रवर्तेतेति भावः ॥ सत्त्वेनेति ॥ व्यावहारिकत्वे-नेत्यर्थः । तस्मिन्नपि सत्त्वे व्यावहारिकत्वे पक्षद्वयेऽपीदन्त्वव्यावहारिकत्वयोरेवासत्त्व-मभिप्रेतम् । तथाऽप्यनवस्थोपपादनभेदेन पक्षभेद इत्यवधेयम् । टीकाकाराणां व्याख्यानेऽनु-पपत्तिमाशङ्क्य परिहरति ॥ न चेति ॥ त्वत्पक्षेऽप्यनवस्थेति सम्बन्धः । मां प्रत्यापाद्यमानाऽनवस्था भवतामप्यायातीत्यर्थः । अनिर्वाच्यस्य रूप्यगतस्य प्रातिभासिक-सत्वस्य प्रातिभासिकत्वासिद्धिवदिति । सत्वस्य प्रतिभासमात्रशरीरत्वेन सत्वेन प्रतिभासं विना प्रातिभासिकत्वासम्भव इत्यर्थः ॥ मम मत इति ॥ तथा चासतः सत्वस्य मया प्रतीत्यनङ्गीकारान् न तत्प्रयुक्तानवस्था । त्वन्मते तु रूप्यसत्वस्य सत्वेनाभाने प्रातिभासिकत्वासिद्धेः, सत्त्वेन भानेऽङ्गीकार्ये तस्मिन्नपि सत्वे उक्तविकल्पप्रसरेणानवस्था स्यादेवेति भावः । न च सत्वाप्रतीतौ भवन्मते प्रवृत्त्ययोग इति वाच्यम् । इष्टतावच्छेदक-प्रकारकपुरोवृत्तिविशेष्यकज्ञानस्यैव प्रवर्तकत्वेनेदमंशस्यैव सद्रूप्यात्मना प्रतीतत्वमात्रेण तदर्थिप्रवृत्तिविषयत्वोपपत्तेरुक्तत्वादिति ध्येयम् । एवं ख्यातिबाधान्यथाऽनुपपत्तिर्दूषिता । अस्तु वा सा । तथाऽपि तदन्यथाऽनुपपत्त्या सदसद्वैलक्षण्यमेव कुतः? किं तु ख्यात्य-न्यथाऽनुपत्या सत्वमस्तु, बाधान्यथाऽनुपत्त्या चासत्वमस्तु । एवं सदसदात्मकत्वेनाप्यु-पपत्तेरित्याह ॥ किं चेति ॥ अनुपपत्ताविति ॥ ख्यातिबाधाभ्यामिति शेषः ।

ननु सदसदात्मको विधिसमुच्चयो विरुद्ध इति चेत् सदसद्वैलक्षण्यरूपे निषेधसमुच्चयेऽपि विरोधसाम्यात् । निषेधसमुच्चयस्यातात्विकत्वान् न विरोध इति चेत् तर्हि विधिसमुच्चय-स्याप्यतात्विकत्वेनाविरोधसाम्याद् इत्याह ॥ निषेधेति ॥ सति चैवं मम मते लाघवमित्याह ॥ एवं चेति ॥ सदसद्वैलक्षण्यरूपचतुर्थप्रकारेत्यर्थः । ननु रूप्यस्य सदसदात्मकत्वे सद्रूप्यमिति ज्ञानस्य भ्रमत्वं न स्यात् । रूप्यस्य वस्तुतः सद्रूपत्वादित्यत आह ॥ त्वत्पक्ष इति ॥ तव मते रूप्यस्यासद्विलक्षणत्वेऽपि ‘असदेव रूप्यमभात्’ इति बाधकज्ञानस्य यथा भ्रमत्वं नायाति, तस्य तत्र विद्यमानसद्वैलक्षण्यविषयकत्वात्, एवं ‘सद्रूप्यम्’ इति भ्रमस्यापि अविद्यमानासद्वैलक्षण्यविषयकत्वेन भ्रमत्वमक्षतमेवेत्यर्थः । अनिर्वाच्यं सदसद्विलक्षणम् ।

ननु सदसदात्मकरूप्ये सदसदात्मकसत्वप्रतीतौ भ्रमत्वं कुतः? इति चेत् । त्वत्पक्षेऽपि सदसद्विलक्षणे रूप्ये सदसद्विलक्षणसत्वप्रतीतौ कथं भ्रान्तित्वम् । ननु सदसद्विलक्षणे रूप्ये सदसद्विलक्षणसत्वावगाहित्वमेव भ्रान्तित्वे मन्मते प्रयोजकमिति चेत् । तर्हि ममापि सद-सदात्मके रूप्ये सदसदात्मकसत्त्वावगाहित्वमेव भ्रमत्वे प्रयोजकमस्त्वित्याह ॥ भ्रान्तित्वे चेति ॥ यदि ख्यातिबाधाभ्यां प्रत्येकं सत्वासत्त्वयोरनुपपत्त्या सदसदात्मकत्वमनङ्गीकृत्य सदसद्वैलक्षण्याङ्गीकारेऽतिप्रसङ्गमाह ॥ अन्यथेति ॥ मीमांसकैर् यावज्जीवमग्निहोत्रं जुहुयात् स्वर्गकाम इति वाक्योक्तमग्निहोत्राख्यं कर्म यावज्जीवं सन्ध्यावन्दनादिवद् विहितत्वान् नित्यम्, कामाधिकरणे विहितत्वात् काम्यं चाङ्गीकृतम् । एवं च केवलकाम्यत्वे नित्यत्वं विरुद्धम् । कामनाया असार्वकालिकत्वात् तदभावदशायामननुष्ठानापत्त्या यावज्जीवमित्युक्त-नित्यत्वायोगात् । केवलनित्यत्वे च काम्यत्वं विरुद्धम् । प्रत्यवायमात्रपरिहारार्थत्व-रूपनित्यत्वाङ्गीकारे स्वर्गकाम इत्युक्तकामनया क्रियमाणत्वरूपकाम्यत्वायोगात् । अतो नित्यकाम्यमित्यङ्गीकृतम् । तदपि न स्यात् । विरोधात् । नित्यकाम्यविलक्षणमेव तैरङ्गीकार्यं स्यात् । तथा तैरेव मीमांसकैर् गुणगुण्यादौ भेदाभेदोऽङ्गीकृतः । तत्र केवलभेदाङ्गी-कारेऽङ्गुलिद्वयवद् भेदेनानुपलम्भविरोधः । केवलाभेदाङ्गीकारे चापर्यायशब्दव्यवहारानुपपत्तिः । त्वगिन्द्रियेण घटोपलम्भेऽपि तद्गतरूपाद्यनुपलम्भरूपभेदकार्यविरोधश्च । अतः केवलभेदा-भेदार्देरनुपपत्त्या भेदाभेदावङ्गीकृतौ । तदपि न स्यात्, विरोधात् । अतो भेदाभेदवैलक्षण्यमेव गुणगुण्यादीनामङ्गीकार्यं स्यात् । न त्वेवमङ्गीकृतम् । अतः परीक्षकेण त्वयाऽपि सद-सदात्मकत्वमेवाङ्गीकार्यम् । न तु सदसद्वैलक्षण्यमित्यर्थः ॥ अनिर्वाच्यत्वाभाव एवेति ॥ यथा विपर्ययपर्यसानोपेतख्यातिबाधान्यथाऽनुपपत्त्या सदसद्वैलक्षण्यमङ्गीक्रियते, एवं ख्याति-बाधान्यथाऽनुपपत्त्यैव सदसद्वैलक्षण्याभाव एवाङ्गीकार्यः स्यात् ‘असद्विलक्षणं चेन् न बाध्येत, सद्विलक्षणं चेन् न प्रतीयेत’ इति तर्काभ्यां विपर्ययपर्यवसानसहिताभ्यां सदसद्वै-लक्षण्याभावरूपानिर्वाच्यत्वाभावलाभादिति भावः । एवं च त्वदीयार्थापत्योः प्रत्यर्थापत्तिबाध इति हृदयम् ॥ गौरवादिति ॥ तथा च सच् चेन् न बाध्येतासच् चेन् न प्रतीयेतेत्येव तर्को वाच्यः । अतो भवदीयतर्केऽप्रयोजकतेति भावः । ‘अबाधाप्रतीत्योः प्रतियोगिभूतयो-र्बाधप्रतीत्योर्यत् प्रयोजकं क्रियते तदभावस्यैव, अबाधाप्रतीती प्रत्यपि प्रयोजकत्वं वाच्य-मित्याशयेनाह ॥ अबाधेति ॥ अबाधाप्रतीति प्रति प्रतियोगिभूतयोर्बाधप्रतीत्योः प्रयोजकं कस्मात् प्रथमं चिन्त्यमित्यत्र हेतुत्रयमाह ॥ प्रथमेति ॥ अभावापेक्षया भावस्य प्रति-योगित्वेन प्रथमं बुद्धिस्थत्वादित्यर्थः ॥ कल्पकत्वाच्चेति ॥ भावप्रयोजककल्पनानन्तरम् अभावे तज्जिज्ञासा भवतीति भावप्रयोजककल्पनाऽभावप्रयोजकस्य कल्पिका भवतीत्यर्थः । एतत् सत्यम् प्रकृते किमायातमित्यत आह ॥ बाधेति ॥ न त्विति ॥ तथा च ‘सच्चेन् न बाध्येतासच्चेन् न प्रतीयेत’ इति तर्को न युक्त इति भावः ॥ तथा चेति ॥ एवं च प्रयोजकाभावात् ‘असद्विलक्षणं चेन् न बाध्येत सद्विलक्षणं चेन् न प्रतीयेत’ इति तर्को युक्त एवेति भावः । तर्कफलमाह ॥ एवं चेति ॥ बाध्यते, तस्माद् असद्विलक्षणं न भवतीत्येवमसत्वेन बाधोपपत्तिरस्तु । प्रतीयते तस्मात् सद्विलक्षणं न भवतीत्येवं सत्त्वेन प्रतीत्युपपत्तिरस्तु । तस्मात् सदसदात्मकत्वरूपो विधिरूपो विधिसमुच्चय एव स्यादित्यर्थः । एवं विरोधाद् विधिसमुच्चयो युक्त इत्यत उक्तम् ॥ उक्तरीत्येति ॥ निषेधसमुच्चयवद् विधिसमुच्चस्याप्यतात्विकत्वेन विरोधासम्भवादित्युक्तरीत्येत्यर्थः । नन्वसत्त्वं न बाधे प्रयोजकं नृशृङ्गादावसत्त्वासद्भावेऽपि बाधादर्शनादित्यत आह ॥ नृशृङ्गादाविति ॥ यथा तव मते बाधप्रयोजकत्वेन त्वदभिमतस्य सद्वैलक्षण्यस्य सत्वेऽपि नृशृङ्गादौ न बाध्यत्वम् । तस्य प्रतिपन्नोपाध्यभावेन प्रतियोग्यधिकरणसंसर्गज्ञानरूपप्रसक्त्यभावेन त्रैकालिकनिषेधरूपबाधा-भावात् । एवं मन्मतेऽपि बाधप्रयोजकीभूतस्यासत्वस्य नृशृङ्गादौ सत्वेऽपि प्रसक्त्यभावेन बाधाभावेऽपि न तस्य बाधप्रयोजकत्वक्षतिरिति भावः । किं चासद्विलक्षणं चेन् न बाध्येत इत्यादिनोक्तं दूषणं सङ्गृह्णाति ॥ एवं चेति ॥ सद्विलक्षणं चेन् न भायान् न प्रतीयेतेत्यर्थः ॥ इतीति ॥ इत्येवं सदसद्विलक्षणरूपानिर्वाच्याद् विलक्षणं सदसदात्मकमेव रूप्यं भवत्वित्यर्थः । नन्वेवं रूप्यस्य सदसदात्मकत्वे ‘सच्चासच्च रूप्यम्’ इत्याकारा प्रतीतिः स्यादिति चेन्न । वस्तुतो रजतस्य तथात्वेऽपि प्रतितेस्तदाकारत्वाभावात् । अन्यथा त्वन्मतेऽपि ‘रूप्यं सदसद्विलक्षणम्’ इत्याकारा प्रतीतिः स्यादित्यर्थः ।

न्यायकल्पलता

॥ व्यवहारदशायामिति ॥ नेह नानेति श्रुत्या व्यवहारदशायां प्रपञ्चबाधाभावा-दापाद्यस्य विपर्ययेऽपर्यवसानमित्यर्थः ॥ व्यवहारेति ॥ तथा च व्यभिचार इत्यर्थः ॥ शेषेति ॥ ख्यात्यनुपपत्त्याऽसद्व्यावृत्तिसाधनवैयर्थ्यमित्यर्थः ॥ अत एवेति ॥ शेष-वैयर्थ्यादेव ॥ मानान्तरेति ॥ ननु निर्विशेषत्वादिधर्मप्रतिपादकं न प्रमाणम् । किं तु लक्षणया शुद्धब्रह्मबोधकमेवेति चेन्न । निर्विशेषत्वातिरिक्तस्य शुद्धत्वस्य दुर्वचत्वात् । निर्विशेषस्याप्रामाणिकत्वे सविशेषत्वस्य प्रामाणिकत्वापाताच्च । न चोभयोरप्रामाणिकत्वम् । विरोधात् ॥ अबाध्य इति ॥ न च ब्रह्मणः स्वप्रकाशत्वेऽपि व्यवहारे प्रतिबन्धका-ज्ञाननिवृत्त्यर्थं प्रमाणापेक्षास्तीति युक्तम् । एतादृशाप्रामाणिकत्वस्य जगति इष्टत्वात् ॥ रूप्यादीति ॥ तथा च बाध्यत्वाप्रामाणिकत्वयोर्व्याप्त्यग्रहान्न बाध्यत्वेन प्रपञ्चेऽप्रामाणिकत्वं सिद्ध्यतीत्यर्थः । रूप्यादेस्तत्वावेदकबाध्यत्वेनाद्वैताद्वैषम्यमाशङ्क्य निराकरोति न चास्येति ॥ तस्या इति ॥ औतश्रुतेर्भिन्नविषयत्वेन न रूप्यादिबाधकत्वमित्यर्थः ॥ प्रतियोगीति ॥ तत्प्रसिद्धिसाधकानुमानस्य प्रागेव निरस्तत्वात् ॥ बाधेनैवेति ॥ न चार्थापत्त्यन्तरे तात्पर्यम् । एकत्वोक्तिविरोधात् । न च प्रयोजनैक्यात्तथोक्तिः । तेनासद्वैलक्षण्यमात्रसाधनात् ॥ इष्टापत्तेरिति ॥ रूप्ये न ज्ञाननिवर्त्यत्वम् । किं तु शुक्त्यज्ञानादावेवेत्यर्थः ॥ द्वितीय इति ॥ बाध्यत्वेन सद्वैलक्षण्यं यस्य रूप्यादेः सिषाधयिषितं तस्यासद्वैलक्षण्यपक्षेऽ-सद्विलक्षणत्वाङ्गीकारे रूप्यादौ त्रैकालिकनिषेधप्रति योगित्वरूपं बाध्यत्वं न स्यात् । उक्त-रूपबाध्यत्वेऽसत्त्वस्यैव प्रयोजकत्वादित्यर्थः ॥ रूप्यादाविति ॥ रूप्यादेः सत्ताहीन-रूपसत्त्ववत्त्वादित्यर्थः ॥ अत एवेति ॥ रूप्यादेर्बाध्यरूपासद्रूपत्वेन विपर्ययापर्यवसानात् ॥ तस्येति ॥ निरुपाख्यत्वावच्छेदकस्य ॥ असन्नेति ॥ रूप्यस्यापि स्वरूपेण निषेधपक्षे निःस्वरूपत्वादित्यर्थः । यत्तु अप्रतिपन्नोपाधिकत्वे सति स्वरूपेण निषेधप्रतियोगित्वं निःस्वरूपत्वम् ॥ न चैतद्रूप्यादाविति ॥ तन्न । असतोऽपि प्रतिपन्नोपाधेरुक्तत्वात् । न विपर्ययपर्यवसानमिति ॥ रूप्यादेः सत्त्वाभावात् । शशशृृङ्गमस्तीति वाक्येऽपि शाब्द-बोधसामग्रीं व्युत्पादयति ॥ विपरीतेति ॥ अन्यथेति ॥ ज्ञानानुत्पादे । योग्यताहीना-दिति । आहार्ययोग्यताज्ञानसत्वादिति भावः । प्रतिवादिवाक्येऽपि योग्यतासंशयोऽस्तीति कश्चित् । तन्न । विशेषादर्शनाभावात् ॥ कथेति ॥ बधिराणां कलहेन तुल्या कथा स्यात् । परस्परवाक्यार्थस्य परस्पराज्ञानादित्यर्थः । यद्यपि वादिवाक्यं नागमतया बोधकम् । तथापि पराभिमतव्याप्त्यादिस्मारकत्वेनोपयोगोऽस्त्येव ॥ अनुभवविरोधादिति ॥ शशविषाण-मस्तीति शब्दाच्छशविषाणं जानामीत्यनुभवादित्यर्थः । न चानुभवामीति न प्रत्यय इति वाच्यम् । शब्दात्स्वर्गमनुभवामीत्यनेन तुल्ययोगक्षेमत्वादिति भावः ॥ अन्यथेति ॥ तथा च प्रतीत्या रूप्यादेरसद्वैलक्षण्यं न सिद्ध्येदिति भावः ॥ निस्वरूपस्येति ॥ अनिर्वाच्य-त्वेनेष्टस्य रूप्यादेरनिर्वाच्यान्निःस्वरूपाद्भेदानुपपत्तेरन्यस्य च भेदप्रतियोगिनोऽभावाद् रूप्या-दीनां कस्माद्वैलक्षण्यमिष्यते । तथा च रूप्यादेरपि निःस्वरूपत्वमेव प्राप्तमित्यर्थः ॥ तस्येति ॥ निःस्वरूपभिन्नस्य निरूपाख्यस्याभावादिति मिथ्यात्वभङ्गे उक्तमित्यर्थः । एतेन सोपाख्यधर्मानुल्लेखित्वं वस्तुशून्यत्वमित्यपास्तम् ।

नन्वपरोक्षज्ञानाविषयादखण्डाच्छशशृृङ्गाद्वैलक्षण्यं रूप्यादेराशास्यत इत्यत आह ॥ तादृशादिति ॥ तावतापि रूप्यादेरसद्विशेषविलक्षणत्वे प्यसद्वैलक्षण्यं न सिद्ध्यतीत्यर्थः ॥ अत्यन्तासत्यपीति ॥ नन्वस्तित्वस्यानिर्वाच्यत्वेन शशशृृङ्गपदाभ्यां तदधिष्ठानमवश्यं वक्तव्यम् । अत्यन्तासच्च नाधिष्ठानमिति न शशशृृङ्गपदाभ्यां तदुपस्थितिः । दृष्टान्तीकृतवाक्ये तु नानिर्वाच्यं किञ्चिदपि प्रतीयत इति नाधिष्ठानज्ञानापेक्षेति वैषम्यम् । अत्यन्तासत्यपि ज्ञानमित्यादित्वस्त्यादि पदसमभिव्याहृतशशशृृङ्गमसदिति वाक्यपरम् । तस्माच्छशशृृङ्ग-मस्तीत्यत्र शशे शृृङ्गारोपः शृङ्गे च शशीयत्वस्यारोप इत्यनिर्वाच्यमेव शृङ्गमिति । मैवम् । अश्वादावत्र गोशृङ्गमस्तीति विशिष्टस्येव शशशृृङ्गस्य विशिष्टस्यैवानुभूयमानत्वात् । समस्तपद-प्रतिपाद्यस्यैवा परपदार्थेऽन्वयस्यौचित्याच्च । असच्छशशृृङ्गं प्रत्याश्रयत्वेन प्रतीतस्याश्वादे-रिदम्पदार्थस्यैवाधिष्ठानत्वसम्भवेन सर्वथा निरधिष्ठानत्वायोगाद स्तित्वस्यासदधिष्ठानत्वेऽपि न दोषः ॥ शशशृृङ्गमस्तीति ॥ अत्रेति शेषः ॥ एतेनेति ॥ अत्यन्तासत्यप्यर्थे शब्दस्य ज्ञानजनकत्वेनेत्यर्थः ॥ शशशृृङ्गशब्द इति ॥ व्योमकमलशब्देन शशशृृङ्गशब्दस्य समान-त्वादस्योदाहरणम् ॥ यौगिकेति ॥ न च यौगिकशब्दानामवयवशक्तिप्राधान्येन बोधकत्वाद-खण्डासद्बोधनमशक्यमिति युक्तम् । अवयवानां स्वशक्त्यसंसृष्टरूपस्य पदार्थान्तरान्वयाभि-मुखस्य सतः पाचकादेरिवाखण्डस्या सतोऽपि बोधनसम्भवात् ॥ वार्तिकेति ॥ खपुष्प-वार्तिके तत्सिद्ध्यधिकरणे उक्तम् । कथं तर्हि खपुष्पं भवत्सिद्धान्त इत्यत्राभावावगतिर् मरुभूमिवदत्र जलमित्यादिवदित्यवेहि । न ह्यत्राप्यभावः शब्द शक्य इति ॥ पौन-रुक्त्येति ॥ एतेन बोधकतानशशशृृङ्गपदमात्रे । किन्तु नास्तीति पदसमभिव्याहृते । अतो न पुनरुक्तिरिति निरस्तम् । पदान्तरसमभिव्याहारस्यान्वयविशेषावगमार्थत्वात् ॥ प्रत्यक्षतेति ॥ व्याप्तिज्ञानस्य सद्विषयत्वनियमादिति भावः । प्रत्यक्षो न स्यादिति भावः ॥ शशशृृङ्गा-दीति ॥ प्रतियोगिनमनन्तर्भाव्याभावप्रत्यक्षस्यादर्शनादित्यर्थः ।

ननु साक्षादित्यनिषेध्यतयेति वापरोक्षप्रतीतिविषयविशेषणान्नोक्तदोष इति । मैवम् । चतुर्थपक्षनिरासेन निरसिष्यमाणत्वात् ॥ सन्मात्रेति ॥ अधिष्ठानज्ञानाबाध्यमत्र सद्विव-क्षितम् । तेन प्रातिभासिकस्यापि परमते सद्विशेषतयाश्रयासिद्धिरित्यपास्तम् । भ्रममात्र-स्यैवोक्तसद्रूपाधिष्ठानविषयतयाश्रयासिद्धिर्मा भूदिति मात्रपदम् । न च शाब्दत्वमुपाधिः । भ्रमानुमितौ साध्याव्याप्तेः ॥ संस्कारेति ॥ संस्कारस्तावत्तात्विकरजतादिगोचर एव प्राथमिकरजतादिभ्रमप्रयोजकः सर्वमते । तथा च शब्दाभासादिजन्यस्य ज्ञानस्य न संस्कार-जनकत्वम् । ननु संस्कारस्य न तावत्प्रतीतौ साक्षादुपयोगः । स्मृतित्वापत्तेः । किन्त्वर्थो-त्पत्तिद्वारा । तथा च संस्कारनियामकताप्यनिर्वाच्यता पक्ष एव न तु असद्विषयतापक्ष इति चेन्न । अर्थस्य स्मृतित्वापत्त्या तुल्ययोगक्षेमत्वात् ॥ शशशृृङ्गादिशब्दैरेवेति ॥ शब्दशक्ति-भ्रमविरहकाल इति शेषः । तेन शशशब्दस्य नरि भ्रमदशायां नृशृङ्गशब्देनेव शशशृङ्गशब्देनापि नृशृङ्गस्य प्रतीयमानत्वेन नृशृङ्गशब्देनैव प्रतीयमानत्वं न तस्य विशेष इति निरस्तम् ॥ अन्यथेति ॥ सत्त्वप्रकारकभ्रान्तेः सत्त्वापेक्षत्वे तव मतेऽपि रूप्यस्य सद्विलक्षणत्वात् सत्त्वप्रकारकभ्रान्तिर्नस्यादित्यर्थः ॥ सम्बन्धादाविति ॥ तथा च तव मतेऽपि रजतस्य ज्ञानेन सम्बन्धः भातीत्यादौ कर्तृत्वादिकं च न स्यात् ॥ दुष्टादिति ॥ स्वरूपयोग्यस्य सहकारिविशेषसमवधाने सति कार्यविशेषजनकत्वदर्शनादि न्द्रियस्याप्यसन्निहिततत्तादिज्ञान-जनकत्वेन योग्यत्वादित्यर्थः ॥ प्रमाया एवेति ॥ न च सन्निकर्षोऽपि सामान्यसामग््रयैवेति वाच्यम् । सन्निकर्षे सति क्वाप्यप्रमाया अदर्शनेन प्रमाया एव दर्शनेनेन्द्रियवदुभयानुगत्यभावेन सन्निकर्षस्य सामान्यसामग्रीत्वाभावात् । अत एवोक्तं मणिकृता । असन्निकृष्टमपि दोषा-द्भासत इत्युपेयमिति ॥ अन्यथेति ॥ अपरोक्षज्ञानमात्रे सन्निकर्षस्य हेतुत्वे । अनिर्वाच्यस्यापरोक्षज्ञानं ह्यविद्यावृत्तिर्वा तत्प्रतिबिम्बितः साक्षी वा । नोभयमपि सन्निकर्षजन्यमिति भावेनोक्तम् ॥ आपरोक्ष्येति ॥ अत्यन्तासतः सत्वेनापरोक्षाप्रतीति-विषयत्वमभ्युच्चिनोति ॥ किञ्चेति ॥ तथात्वे । अनिर्वाच्यत्वे ॥ तस्येति ॥ रूप्ये प्रतीतस्येदन्त्वस्य व्यावहारिकत्वस्य च सत्त्वेन प्रतीतिं विना प्रातिभासिकत्वासम्भवादित्यर्थः ॥ तदपीति ॥ रूप्ये प्रतीतेदन्त्वादौ यत्सत्यं प्रतीतं तस्याप्यनिर्वाच्यस्य प्रातिभासिक-त्वाय सत्त्वान्तरवत्तया प्रतीतिर्वाच्या । एवं सत्त्वे प्रतीतसत्त्वस्यापि प्रातिभासिकत्वाय सत्त्वान्तरवत्तयेत्यनवस्था ॥ तयोरपीति ॥ रूप्ये निषेध्यमाने इदन्त्वपारमार्थिकत्वे सती वाऽसद्विलक्षणे । असती वा । आद्ये निषेधायोगः । द्वितीयेऽनवस्था । असद्विलक्षणयोः स्वरूपेण निषेधायोगात्तयोरपि पारमार्थिकत्वान्तरेण निषेधोे वाच्यः । तद्गतपारमार्थिक-स्याप्यसद्विलक्षणत्वे पारमार्थिकत्वान्तरेणेत्यनवस्था । तृतीये असतः सत्त्वेनापरोक्षप्रतीति-र्दुर्वारेत्याह ॥ ते चेति ॥ रूप्ये निषेध्यमाने इदन्त्वपारमार्थिकत्वे ॥ सत्त्वेनापरोक्षे इति ॥ सत्त्वनिषेधस्य सत्त्वप्रसक्तिपूर्वकत्वात्प्रकृते च परिशेषात्प्रत्यक्षरूपैव प्रसक्तिरिति भावः । अनुव्याख्यानं सम्मतयति ॥ तदुक्तमिति ॥ अन्यथात्वमिति ॥ अन्यप्रकारत्वमन्य-रूपत्वमिति यावत् । अनिदंरूपे इदन्त्वमव्यावहारिके व्यावहारिकत्वम् । तस्य अपारमार्थिके निषिध्यमानस्य पारमार्थिकत्वादेः । सुधायां तु शुक्तिकेदमंशस्य रजतत्वसंसर्गो रजतस्य चेदन्ता संसर्गोऽन्यथात्वशब्दार्थः । सत्त्वशब्देन रजते शुक्तिकासत्त्वसंसर्ग इति व्याख्यातम् । अत्र तु अनिर्वचनीये रूप्ये प्रतीयमानयोरिदंत्वव्यावहारिकत्वयोस् तत्र निषिध्यमानपारमार्थि-कत्वस्यासत एवापरोक्ष्यमनवस्थाभयात्परं प्रति स्वयमापादितम् । सुधायां तु इदंतारजत-त्वयोरितरेतरसंसर्गस्य रजते शुक्तिकासत्त्वसंसर्गस्य चानिर्वचनीयस्य तथैव प्रतीतौ प्रवृत्त्य-योगाद्व्यावहारिकतया प्रतीतिर्वाच्या । तद्व्यावहारिकतायाः सत्त्वे उक्तसंसर्गद्वयस्य प्रातिभासि-कत्वानुपपत्तेरसत्या एव तस्या आपरोक्ष्यमायातम् । तस्या अप्यनिर्वाच्यत्वे तथैव तस्याः प्रतीतौ प्रवृत्त्ययोगादनिर्वाच्यायास्तस्या व्यावहारिकत्वेनापरोक्ष्यं वाच्यम् । अनिर्वचनीय-व्यावहारिकतागतव्यावहारिकत्वस्य सत्त्वे तदाश्रयव्यावहारिकताया अनिर्वाच्यत्वानुपपत्तेर-सदेव व्यावहारिकत्वमपरोक्षतया प्रतीयत इति वाच्यम् । तद्व्यावहारिकत्वस्याप्यनिर्वाच्यत्वे उक्तरीत्यानवस्थेत्युक्तमित्याह ॥ टीकायान्त्विति ॥ इदन्त्वमिदन्त्वसंसर्गः । सत्वं सत्वसंसर्गः ॥ सत्त्वायोगादिति ॥ इदन्त्वादिसंसर्गद्वयस्यानिर्वाच्यत्वविरोधात् । न हि यस्य सत्त्वं सत्तदनिर्वाच्यमिति सम्भवतीत्यर्थः ॥ प्रवृत्तीति ॥ न ह्यनेनानिर्वाच्यं क्वचिदर्थक्रियासूपयुज्यमानं दृष्टम् । येन तद्भावं प्रतीत्यापि प्रवर्तेत ॥ सत्त्वेनेति ॥ व्यावहारिकत्वेनेत्यर्थः ॥ सत्व इति ॥ व्यावहारिकत्वे । अत्र पक्षद्वयेऽपीदन्त्वादेरेवा-सत्त्वमुक्तम् । अनवस्थोपपादनभेदेन तु पक्षभेद इति ध्येयम् ॥ अनिर्वाच्यस्येति ॥ सद्विलक्षणस्येत्यर्थः । एतेन सत्त्वस्य सत्त्वप्रतीतावतिरिक्तसत्त्वानपेक्षेति निरस्तम् । सत्त्वप्रतीतिं विना सत्त्वस्वरूपासिद्धेः ॥ असतःसत्त्वस्येति ॥ ननु तत्सत्वं स्वरूपतो न सत् । विज्ञानतोऽपि न सत् । सत्त्वेनाप्रतीतेः । तथा च सति कथं तन्निबन्धनो व्यवहार इति । मैवम् । सत्त्वेनाप्रतीतस्यासतोऽपि सत्त्वस्य प्रतीतिमात्रादेव व्यवहाराद्युपपत्तेः । न हि मम मतेऽप्यर्थो हेतुः । येनासतोऽर्थस्य स्वरूपसिध्द्यर्थं सत्त्वेन तज्ज्ञानमपेक्षेत ।

ननु रूप्यस्य सदसदात्मकत्वे सद्रूप्यमिति ज्ञानस्य भ्रमत्वं न स्यात् । रूप्यस्य सद्रूप-त्वादित्यत आह ॥ असदेवेति ॥ त्वन्मते रूप्यस्यासद्विलक्षणत्वेऽप्यसदेव रजतमिति बाधस्य यथा भ्रमत्वं नायाति तस्य तत्र विद्यमानसद्वैलक्षण्यविषयत्वात् । एवं सद्रूप्यमिति भ्रमस्याविद्यमानासद्वैलक्षण्यविषयत्वेन भ्रमत्वमक्षतमेव । तथा च तत्र प्रातीतिकमपि सत्त्वं माभूद् बाधोऽसत्त्वविषयकोऽस्तु ॥ सदसदात्मकत्वमिति ॥ सदसदात्मकत्वं यत्सत्वं तद्भ्रान्तौ विषयोऽस्तु । न चैवं सच्चासच्चरजतमित्याकारा प्रतीतिः स्यादिति वाच्यम् । वस्तुतो रजतस्य तथात्वेऽपि प्रतीतेस्तदाकारत्वाभावात् । अन्यथा त्वन्मतेऽपि सदस-द्विलक्षणमित्याकारा प्रतीतिः स्यात् । बाधकाले त्विष्टापत्तिरित्याह ॥ अन्यथेति ॥ उभय-बहिर्भाव इति ॥ काम्याकाम्यविलक्षणाभिन्नाभिन्नविलक्षणं च स्यादित्यर्थः ॥ प्रथमोप-स्थितत्वादिति ॥ अभावापेक्षया भावस्य प्रथमं बुद्धिस्थत्वादित्यर्थः ॥ कल्पकत्वादिति ॥ भावप्रयोजककल्पनानन्तराभावेन जिज्ञासा भवतीति भावप्रयोजककल्पनाभावे प्रयोजकस्य कल्पिता भवतीत्यर्थः ॥ बाधप्रतीत्योरिति ॥ न च प्रतीतौ न सत्त्वं तन्त्रम् । उभय-मतेऽपि रूप्येऽभावादिति युक्तम् । प्रतीत्या रूप्य एव सत्त्वस्यापाद्यमानत्वात् । तदिदमुक्तम् ॥ सत्त्वात्प्रतीतिरिति ॥ नन्वसत्त्वं न बाधे प्रयोजकम् । असत्त्वेऽपि नृशृङ्गादौ बाधादर्शनादित्यत आह ॥ नृशृृङ्गादाविति ॥ यथा तव मते नृशृङ्गादावबाध्ये बाधप्रयोज-कत्वेनाभिमतस्य सद्वैलक्षण्यस्य सत्त्वेऽपि तस्य बाधं प्रति प्रयोजकत्वाक्षतिस् तथाऽसत्त्वस्य नृशृङ्गादौ सत्त्वेऽपि न क्षतिरित्यर्थः । सङ्गृह्णाति ॥ एवं चेति ॥

॥ इति अनिर्वाच्यसाधकख्यातिबाधान्यथानुपपत्तिभङ्गः ॥