१२ अनिर्वाच्यत्वसाधकानुमानभङ्गः

अनुमानं चायुक्तम्

७०. अनिर्वाच्यत्वसाधकानुमानभङ्गः

न्यायामृतम्

अनुमानं चायुक्तम्, मिथ्यात्वभङ्गे उक्तरीत्यांऽशे सिद्धसाधनाद्, अप्रसिद्ध-विशेषणत्वाच्च, उक्तरीत्या व्याघाताच्च, ब्रह्मवत्सत्त्वराहित्येऽप्य निर्वाच्यत्वा-भावोपपत्त्याऽर्थान्तरत्वाच्च, सत्त्वादिराहित्यस्य प्रातिभासिकत्वादिपक्षेषु दोष-स्योक्तत्वाच्च, भेदनिरासानुपपत्तेरुक्तत्वाद्, वक्ष्यमाणरीत्या भ्रान्तिबाधयो-रन्यथैवोपपत्त्या विमतं सदसदात्मकं बाध्यत्वाद् व्यतिरेकेणात्मवदित्याद्याभास-साम्याच्च, असदेव रजतं प्रत्यभादिति प्रत्यक्षबाधाच्च । न चैवं मिथ्यैव रूप्यमभादितिप्रत्यक्षेणानिर्वाच्यत्वसिद्धिः, मिथ्याशब्दस्यासत्पर्यायत्वात् । विमतम् असत् सत्त्वानधिकरणत्वात्, नृशृृङ्गवदिति सत्प्रतिपक्षत्वाच्च । न च सत्त्वाभावमात्रेणासदितिधीः, त्वत्पक्षे ज्ञानेऽपि सत्त्वाभावेनासदितिधीप्रसङ्गाद्, असत्त्वाभावेन सदितिधीप्रसङ्गाच्च, नृशृृङ्गाद्यसत्त्वबुद्धितोऽस्यावैलक्षण्याननु-भवाच्च । किं चोक्तेषु सत्त्वासत्त्वपक्षेष्वाद्यद्वितीययोर् जगति सत्त्वराहित्यांशे रूप्यादावसत्त्वराहित्यांशे तृतीयचतुर्थयोरुभयत्रापि असत्त्वराहित्यांशे पञ्चमे उभयत्रापि सत्त्वराहित्यांशे सप्तमाष्टमनवमेष्वप्युक्तन्यायेनोभयत्राप्यसत्त्व-राहित्यांशे बाधः । षष्ठे त्वबाध्यत्वरूपसत्त्वेनोपपत्त्याऽर्थान्तरम्, सामान्यतोऽ- निर्वाच्यसाधकानुमानेष्वप्युक्तरीत्या व्याघातार्थान्तरादिकम् ।

किं चोक्तसत्त्वासत्त्वपक्षेषु षष्ठान्येष्वंशे बाधः । षष्ठेऽर्थान्तरम् । सत्त्वा-सत्त्वे समानाधिकरणात्यन्ताभावप्रतियोगिनी न भवतः, परस्परात्यन्ताभाव-त्वाद् घटत्वाघटत्ववत् । असत्त्वं सत्त्वानधिकरणनिष्ठं न, तत्प्रतिषेध-रूपत्वाद्, यथा अनित्यत्वं नित्यत्वानधिकरणनिष्ठं न । एवं सत्त्वं पक्षीकृत्यापि प्रयोक्तव्यमिति सत्प्रतिपक्षत्वम् । घटत्वाघटत्वे समानाधि-करणात्यन्ताभावप्रतियोगिनी, धर्मत्वाद् रूपरसवत् । कल्पितत्वमकल्पितत्वा-नधिकरणानिष्ठम्, धर्मत्वाद् रूपरसवदित्याभाससाम्यं च परस्परप्रतिषेधा-नात्मकत्वमुपाधिश्च । एवं च–

अविरुद्धौ रूपरसौ सत्त्वासत्त्वे विरोधिनी ।

अन्यथा सदसद्रूपं स्यात्किञ्चिद् रसरूपवत् ॥

किं चाद्ये सद्विलक्षणत्वासद्विलक्षणत्वकल्पितत्वाकल्पितत्वदृश्यत्वा दृश्यत्व-दुर्निरूपत्वादुर्निरूपत्वादौ द्वितीयतृतीययोर्यथाक्रममसद्वैलक्षण्ये सद्वैलक्षण्ये च त्रिष्वपि ज्ञेयत्वव्यवहार्यत्वादौ व्यभिचारः । न चौपाधिकधर्माणामुपाध्य-नतिरेकाज्ज्ञानत्वमेव ज्ञेयत्वमिति तदप्यत्यन्ताभावप्रतियोगीति वाच्यम्, तथात्वे दृक्त्वमेव दृश्यत्वाभिधानत्वादिकमेवाभिधेयत्वादिकमिति ब्रह्मण एव दृश्यत्वम्, न तु जडस्य ब्रह्मण इव च घटादेरप्यवाच्यत्वमित्याद्यतिप्रसङ्गात् । आवाभ्यां षट्पदार्थनियमस्यानङ्गीकाराच्च वैशेषिकैरप्यौपाधिकधर्माणामभावे सामान्ये वान्तर्भाव इति वा उपाध्यनतिरेकेऽपि घटाद्येव कार्यं न त्वाका-शादीति व्यवस्थित्यर्थं यस्योपाधिना सम्बन्धो न तत्रैवौपाधिकधर्मात्यन्ताभाव इति वा स्वीकृतत्वेनानैकान्त्यतादवस्थ्याच्च ।

न च ज्ञेयत्वाद्यपि स्वनिष्ठात्यन्ताभावप्रतियोगि, अन्यथाऽऽत्माश्रयादिति न व्यभिचार इति वाच्यम्, सत्त्वादेरप्यसत्त्वाद्यनधिकरणत्वात्, सत्त्वादिरूप-विशेषनिष्ठात्यन्ताभावप्रतियोगित्वसिद्ध्या सामान्यतः सिद्ध्युक्त्ययोगात्, असद्वैलक्षण्यमिथ्यात्वदृश्यत्वादिवच्छब्दप्रतिपाद्यत्वादेरप्यनन्यथासिद्धधीबलेन स्ववृत्तित्वाच्च, अत्यन्ताभावप्रतियोगित्वे व्यभिचारस्य दुर्वारत्वाच्च । न च शब्दबोध्यत्वाद्यपि निर्धर्मकात्मनिष्ठात्यन्ताभावप्रतियोगि, आत्मशब्देनैव प्रतिपाद्यतया व्याघातात्, सत्त्वासत्त्वयोरपि तन्निष्ठात्यन्ताभावप्रतियोगि-त्वेनार्थान्तरत्वाच्च । यदि च सर्वधर्मराहित्यश्रुत्याऽऽत्मनि सत्ववत्तदत्यन्ता-भावोऽपि नेति नार्थान्तरम्, तर्हि शब्दबोध्यत्वात्यन्ताभावोऽपि न तत्रेत्यनैकान्त्यतादवस्थ्यम् ।

न च सत्त्वमसत्त्वानधिकरणानात्मनिष्ठात्यन्ताभावप्रतियोगि, अनात्म-निष्ठात्यन्ताभावप्रतियोगित्वादसत्त्ववदिति प्रयोगान्नात्मन्यर्थान्तरमिति वाच्यम्, व्याघाताद्यनिस्ताराद्, अत्यन्ताभावस्य प्रामाणिकत्वे अपसिद्धान्तस्याऽ-प्रामाणिकत्वे च सिद्धसाधनस्यापाताच्च । अयं च दोषः पूर्वत्रापि द्रष्टव्यः । कल्पितत्वमकल्पितत्वानधिकरणानात्मनिष्ठात्यन्ताभावप्रतियोगि अनात्म-निष्ठात्यन्ताभावप्रतियोगित्वादकल्पितत्ववदित्याभाससाम्याच्च, आत्मन इवा-नात्मनोऽपि सत्त्वासत्त्वराहित्येऽप्यनिर्वाच्यत्वाभावोपपत्त्याऽर्थान्तरत्वाच्च, मिथ्यात्वे त्वद्रीत्या व्यभिचाराच्च । तस्मादप्रसिद्धविशेषणत्वं दुर्वारम् ।

एतेन सत्ख्यातिवादिनं प्रति असद्विलक्षणं विमतं सद्विलक्षणम्, बाध्य-त्वात् शुक्तिरजतत्वसंसर्गवदिति, असत्ख्यातिवादिनं च प्रति सद्विलक्षणं विमतमसद्विलक्षणमपरोक्षधीविषयत्वाद्, घटवदितिप्रयोगान्नाप्रसिद्धविशेषण-त्वादिकं पक्षधर्मताबलाच्चानिर्वाच्यसिद्धिरिति नवीनोक्तं निरस्तम्, व्याघात-बाधाद्यनिस्तारात् ।

अद्वैतसिद्धिः

प्रमाणं च प्रत्यक्षानुमानागमार्थापत्तयः (१) प्रत्यक्षं तावन्मिथ्यैव रजतमभादित्यादि । न च मिथ्याशब्दोऽसत्पर्यायः वक्ष्यमाणयुक्त्या नृशृृङ्गादिसाधारणासत्त्वस्य ख्यायमानरूप्यादौ वक्तुमशक्यत्वात् । न चैतावन्तं कालमसदेव रजतमभादित्यनुभवविरोधः, अनिर्वाच्य-त्वैकदेशसत्त्वव्यतिरेकविषयत्वेनैवोपपत्तेः । न चैवं ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यत्रापि सत्यमित्यस्यासत्त्वव्यतिरेकविषयतयैवोपपत्तिः, ब्रह्मणि सद्रूपतायाः प्रागुपपादितत्वेन तस्या-सत्त्वव्यतिरेकविषयत्वकल्पनाया अनुचितत्वात् । तथा च ब्रह्मणि सत्प्रत्ययस्य रूप्ये असत्प्रत्ययस्य च सत्त्वासत्त्वयोर्बाधका सत्त्वतत्सत्त्वाभ्यां विशेषेण न प्रसङ्गसाम्यम् ।

(२) अनुमानं च ‘विमतं सत्त्वरहितत्वे सति असत्त्वरहितत्वे सति सत्त्वासत्त्वरहितम्, बाध्यत्वाद् दोषप्रयुक्तभानत्वाद्वा, यन्नैवं तन्नैवम्, यथा ब्रह्म । न चाप्रसिद्धविशेषणत्वम्, ‘सत्त्वासत्त्वे, समानाधिकरणात्यन्ताभावप्रतियोगिनी, धर्मत्वाद्रूपरसवत्, सत्त्वमसत्त्वानधि-करणानिष्ठम्, असत्त्वं वा, सत्त्वानधिकरणानिष्ठम्, धर्मत्वाद्रूपवद्’ इति सामान्यतस्तत्सिद्धेः । न च साध्यैकदेशसिद्ध्या अंशतः सिद्धसाधनम्, गुणादिकं गुण्यादिना भिन्नाभिन्नम्, समानाधिकृतत्वादित्यत्रेव सिषाधयिषाबलेन सिद्धसाधनविरहस्योपपादितत्वात् । न च सत्त्वासत्त्वयोः परस्परविरहरूपतया साध्यं व्याहतमिति वाच्यम्, अतात्त्विकत्वेन परस्परविरहानात्मकत्वेन च समाहितत्वात् । भेदस्य तात्त्विकस्यैव निरसिष्यमाणत्वेन न तेन विरोधः । न च ब्रह्मवत् सत्त्वराहित्येऽपि सद्रूपत्वेनानिर्वाच्यत्वाभावोपपत्त्या अर्थान्तरम्, सत्त्वरहितस्य प्रपञ्चस्य सद्रूपत्वे मानाभावेन बाधात् । ब्रह्मणि च शून्यतापत्तिरेव सद्रूपत्वे प्रमाणम् । न च विमतं सदसदात्मकम्, बाध्यत्वाद् व्यतिरेकेण ब्रह्मवदित्याभाससाम्यं, विमतमसत् सत्त्वानधिकरणत्वान् नृशृृङ्गवदिति सत्प्रतिपक्षश्चेति वाच्यम्, ख्यातिबाधा-न्यथानुपपत्तिलक्षणविपक्षबाधकतर्कस्य वक्ष्यमाणत्वेनाभाससाम्य सत्प्रतिपक्षयोरभावात् । न चासदेव रजतमभादिति प्रत्यक्षबाधः, असदित्यस्य सत्त्वाभावविषयकत्वस्योक्तत्वाद्, अन्यथा ख्यात्यनुपपत्तेः । अत एव मिथ्याशब्दोऽप्यसत्पर्याय इति निरस्तम् । न चैवं ब्रह्मण्यपि सत्त्वाभावेनासदिति बुद्धिः स्यात्, निर्धर्मके सत्त्वरूपधर्माभावविषयकप्रतीतेरिष्टत्वात्, तुच्छत्वविषयकप्रतीतेरापादकाभावात् । न चैवमसत्त्वाभावेन जगति सदिति प्रतीत्यापत्तिः, इष्टापत्तेः । न च नृशृृङ्गासत्त्वबुद्धितो नास्या वैलक्षण्यमनुभूयत इति वाच्यम्, एतावता तस्या अपि सत्त्वराहित्यविषयकत्वमस्तु न तु तदनुरोधेन एतस्यास्तुच्छत्वविषयकत्वम्, तुच्छत्वे अत्र बाधकसत्त्वात्, समानाकारप्रतीत्योरपि विचित्रविषयकत्वस्य प्रागेव दर्शितत्वाच्च ।

यत्तु सत्त्वासत्त्वविकल्पेषु आद्यद्वितीययोर्जगति सत्त्वराहित्यांशे रूप्यादावसत्त्वराहित्यांशे, तृतीयचतुर्थयोर् उभयत्राप्यसत्त्वराहित्यांशे, पञ्चमे तूभयत्र सत्त्वराहित्यांशे, सप्तमेऽप्युक्त-न्यायेन उभयत्राप्यसत्त्वराहित्यांशे, एवमेवाबाध्यत्वशून्यत्वे, प्रामाणिकत्वशून्यत्वे च पक्षे बाधः, षष्ठे त्वबाध्यत्वरूपसत्त्वेनाप्युपपत्त्या अर्थान्तरम् इति तन्न, पूर्वोक्तासत्त्वमादायांशतो बाधसिद्धसाधनादेः परिहृतत्वात् । एवं सामान्यतो अनिर्वाच्यत्वसाधकमप्येतदर्थपरतया नेयम् । व्याघातादिपरिहारोऽप्येवमेव ।

ननु साध्यप्रसिद्ध्यर्थानुमाने सत्त्वासत्त्वे, ‘समानाधिकरणात्यन्ताभावप्रतियोगिनी न भवतः, परस्परात्यन्ताभावत्वात्, घटत्वाघटत्ववत् । असत्त्वं, सत्त्वानधिकरणानिष्ठं न, तत्प्रतिषेधरूपत्वात्, यथा अनित्यत्वं, नित्यत्वानधिकरणानिष्ठं न, एवं सत्त्वमपि पक्षीकृत्य प्रयोक्तव्यम् इति सत्प्रतिपक्षता, परस्परविरहानात्मकत्वं चोपाधिरिति चेन्न, सत्त्वासत्त्वयोः परस्परविरहानात्मकत्वस्योक्तत्वेन हेतोरसिद्धत्वाद्, उपाधेः साधनव्यापकत्वाच्च, ख्याति-बाधान्यथानुपपत्त्या विपक्षबाधकतर्केण उपाधिसत्प्रतिपक्षयोरनवकाशात् ।

यत्तु नित्यानित्यत्वदृष्टान्ते साधनवैकल्यमुक्तं, तदयुक्तम्, परेण ध्वंसाप्रतियोगित्व-तत्प्रयोगित्वयोः परस्परविरहरूपयोर् नित्यत्वानित्यत्वयोः सविध एवोक्तेः । यत्तु घटत्वा-घटत्वे, समानाधिकरणात्यन्ताभावप्रतियोगिनी, धर्मत्वाद् रूपरसवत्, कल्पितत्वम-कल्पितत्वानधिकरणानिष्ठम्, धर्मत्वाद्रूपवदिति चाभाससाम्यम् । सद्विलक्षणत्वासद्विलक्षणत्व-कल्पितत्वाकल्पितत्वानधिकरणानिष्ठं धर्मत्वाद्रूपवदिति चाभाससाम्यम् । सद्विलक्षणत्वास-द्विलक्षणत्वकल्पितत्वाकल्पितत्वदृश्यत्वादृश्यत्व दुर्निरूपत्वादुर्निरूपत्वादौ प्रथमस्य द्वितीय-तृतीययोर्यथाक्रममसद्वैलक्षण्ये सद्वैलक्षण्ये च त्रिष्वपि ज्ञेयत्वव्यवहार्यत्वादौ व्यभिचारश्च इति, तन्न, क्षितिः, सकर्तृका, कार्यत्वात्, घटवदित्यनुमाने अङ्कुरः सकर्तृकः कार्यत्वादित्या-भाससाम्यम् अङ्कुरादौ व्यभिचारो वा यथा न दोषः, तथा धर्मत्वेन हेतुना समानाधिकरणा-भावप्रतियोगित्वं साधयतो मम घटत्वाघटत्वादौ साध्यसत्त्वेन व्यभिचाराभावाद् हेतोश्चाना-भासत्वात् । न ह्यविरुद्धधर्मत्वादिकं तादृक्साध्यसत्त्वे प्रयोजकम्, किन्तु धर्मत्वमात्रम् । न हि दृश्यत्वादिधर्माणां कुत्राप्यभावासम्भवः । तदुक्तं ‘न हि स्वरूपतो दुर्निरूपस्य किञ्चिदपि रूपं वास्तवं सम्भवति’ इति । अत एवात्यन्ताभावप्रतियोगित्वेऽपि न व्यभिचारः । न चात्मनिष्ठात्यन्ताभाव प्रतियोगित्वेनार्थान्तरम्, आत्मनो निर्धर्मकत्वेनात्यन्ताभावस्याप्य-भावाद्, अनात्मनिष्ठत्वेन विशेषणाद्वा । न चैवं कल्पितत्वमकल्पितत्वानधिकरणानात्म-निष्ठात्यन्ताभावप्रतियोगि, अनात्मनिष्ठात्यन्ताभावप्रतियोगित्वाद्, अकल्पितत्ववदित्याभास-साम्यम्, अस्याः प्रसक्तेरिष्टत्वात् । मिथ्यात्वे यथा मिथ्यात्वसाधकदृश्यत्वादेर्न व्यभिचारः, तथास्यापि वादिविशेषं प्रति एकदेशसाधनेन साध्याप्रसिद्धिशङ्कापि । तथा हि सत्ख्याति-वादिनं प्रति असद्विलक्षणं विमतं सद्विलक्षणम्, बाध्यत्वात्, शुक्तिरजतसंसर्गवत् । असत्ख्यातिवादिनं प्रति सद्विलक्षणं विमतम्, असद्विलक्षणम्, अपरोक्षधीविषयत्वाद्, घटवत् । पक्षधर्मताबलादनिर्वचनीयत्वसिद्धिः । यथा च सिद्धसाधनव्याघातादिकं, तथोक्त-मधस्तात् । एवं प्रपञ्चनिष्ठव्यतिरेकप्रतियोगित्वं, सत्त्वासत्त्वोभयवृत्ति, प्रपञ्चनिष्ठव्यतिरेक-प्रतियोगि मात्रवृत्तित्वाद्, व्यवहार्यत्ववत् । सदसदुभयवृत्तित्वं, प्रपञ्चनिष्ठव्यतिरेक-प्रतियोगित्ववृत्ति, सत्त्वासत्त्वोभयवद्वृत्त्यशेषवृत्तित्वात्, भेदप्रतियोगित्ववत् । अप्रयोजकत्व-मनुकूलतर्कोक्त्या निरसिष्यते । तस्मादनुमानमत्र मानम् ॥

न्यायामृततरङ्गिणी

॥ मिथ्यात्वभङ्ग इति ॥ प्रत्येकमभावानां साध्यत्वेंऽशे सिद्धसाधनम् । ऐकाधि-करण्यावच्छिन्नानां साध्यत्वे साध्याप्रसिद्धिः । परस्परविरहरूपाणां सामानाधि-करण्यायोगाद्व्याघात इत्यर्थः ॥ सत्त्वादीति ॥ सत्वराहित्यस्य प्रातिभासकत्वे ब्रह्मवत्सत्त्वस्य पारमार्थिकत्वापत्तिरित्यर्थः ॥ भेदेति ॥ वैलक्षण्यस्य भेदरूपत्वादित्यर्थः । अनिर्वाच्यसाधकानुमानस्यानुकूलतर्कवत्ताशङ्कां निरस्यति ॥ वक्ष्यमाणेति ॥ प्रत्यक्षाविरोधमाशङ्क्य परिहरति ॥ न च सत्त्वेति ॥ नृशृृङ्गेति ॥ असत्त्वेन निश्चितस्य नृशृृङ्गादेरसत्त्वबुद्धित इत्यर्थः । एतेन तस्यापि सत्त्वराहित्यविषयत्वमस्तु न तु तदनु-रोधेनैतस्यासद्विषयत्वमित्यपास्तम् ॥ आद्यद्वितीययोरिति ॥ सत्ताजातेरर्थक्रिया-कारित्वरूपस्य च सत्त्वस्य जगति सत्त्वात्तदभावरूपस्य च रूप्येऽपि सत्त्वादित्यर्थः ॥ तृतीयचतुर्थयोरिति ॥ बाध्यत्वरूपस्याप्रामाणिकत्वरूपस्य चासत्त्वस्य तव मते प्रपञ्चे मतद्वयेऽपि रूप्ये विद्यमानत्वेनोभयत्रापि प्रपञ्चरूप्ययोरसत्वराहित्यांशे बाध इत्यर्थः ॥ पञ्चम इति ॥ रूप्यप्रपञ्चयोरशून्यत्वात् ॥ उक्तन्यायेनेति ॥ सत्त्वनिषेधेऽ-सत्त्वापरपर्यायस्य शून्यत्वस्य प्राप्त्या रूप्यप्रपञ्चयोरसत्त्वराहित्यांशे बाध इत्यर्थः ॥ षष्ठ इति ॥ प्रपञ्चे ब्रह्मत्वरूपसत्त्वाभावेऽप्यबाध्यत्वरूपं सत्त्वं तत्र न निषिद्धं स्यादित्यर्थः । किं चेत्यादिपूर्ववद्योज्यम् ॥ सत्त्वासत्त्वे इति ॥ संयोगतदत्यन्ताभावयोः सामानाधि-करण्याभावान्न तत्र व्यभिचार इति भावः । यथा सत्त्वासत्त्वयोर्न परस्परविरहानात्मकत्वं तथोक्तम् ॥ आद्य इति ॥ सद्विलक्षणत्वासद्विलक्षणत्वादौ समानाधिकरणात्यन्ताभाव-प्रतियोगित्वे सदसदाद्यात्मं किञ्चिदापद्येतेत्यर्थः ॥ ब्रह्मण इवेति ॥ अभिधानत्वाभावेन यथा ब्रह्मणोऽवाच्यत्वं तथा तत एव घटादेरप्यवाच्यत्वं स्यादित्यर्थः ॥ अत्यन्ताभाव-प्रतियोगित्व इति ॥ अत्यन्ताभावप्रतियोगित्वस्याप्यत्यन्ताभावप्रतियोगित्वे यन्निष्ठा-त्यन्ताभावप्रतियोगित्वमत्यन्ताभावप्रतियोगित्वस्य तत्रैव व्यभिचार इत्यर्थः ।

न्यायामृतकण्टकोद्धारः

एवमनिर्वचनीयलक्षणं निराकृत्य तत्र प्रमाणं निराकरणीयम् । तत्रानिर्वचनीये किं प्रत्यक्षं प्रमाणमुतानुमानमथागमः ? नाद्यो ऽनिर्वचनीयमिति प्रत्यक्षाभावात् । न च मिथ्यैव रजतमभादिति परामर्शान्यथानुपपत्या मिथ्यात्वप्रत्ययोऽस्तीति वाच्यम् । तावता मिथ्यात्वसिद्धावपि अनिर्वचनीयत्वासिद्धेः । न च मिथ्याशब्दोऽनिर्वचनीयस्य वाचक इति वाच्यम् । वाचकत्वप्रत्यायकनिगमनिरुक्तादेरभावात् । नापि लक्षकः । मुख्यार्थे बाधकाभावात् । न च तर्हि मिथ्यापदं निरर्थकमापद्यत इति वाच्यम् । असदर्थकत्वो-पपत्तेः । न च ख्यायमाने शुक्तिरूप्यादौ कथं शशविषाणादिसाधारणमसत्त्वमिति वाच्यम् । असतोऽपि ख्यातेरुपपादयिष्यमाणत्वात् । किञ्च मिथ्येति प्रत्ययस्यानिर्वचनीयत्व विषयत्वेऽसदेव रजतं प्रत्यभादित्यनुभवविरोधः । न चायमनिर्वचनीयैकदेश सत्त्व-व्यतिरेकविषयत्वेनैवोपपन्न इति नानिर्वचनीयत्वविरोध इति वाच्यम् । तथात्वे ब्रह्मणि सत्त्वप्रत्ययस्य असत्त्वव्यतिरेकविषयत्वापत्तेः । सत्त्वाभावेनासदिति प्रत्ययापत्तेश्च निर्धर्म-कत्वेनोपपादनं व्याहतमिति । न च ब्रह्मणः सद्रूपत्वात् तत्र सत्वप्रत्ययस्य न विषयान्तरकल्पनमिति वाच्यम् । सत्त्वाभावे सद्रूपताया असम्भवाद् बाधकाभावान्न सत्त्वप्रत्ययस्य विषयान्तरकल्पनमिति यदि तदेतदत्रापि तुल्यम् । शुक्तिरजतादेरसत्त्वे बाधकानां निराकरिष्यमाणत्वात् । तस्मान्नानिर्वचनीये प्रत्यक्षमिति मनसि निधायानुमानमेव दूषयति ॥ अनुमानञ्चेति ॥ विशेषतोऽनिर्वचनीयत्वसाधकमित्यर्थः ॥ अंश इति ॥ असत्त्वाभावसाधनांश इत्यर्थः । न च विमतं भिन्नाभिन्नमित्यत्रेव सिषाधयिषया तादृशसाध्यसाधनान्नांशतः सिद्धसाधनमिति वाच्यम् । तत्रेवात्राविशिष्टसाध्यं प्रति हेतोरप्रयोजकत्वाभावादित्युक्तत्वात् । अन्यथाऽतिप्रसङ्गात् ॥ अप्रसिद्धेरिति ॥ सामान्यसिद्धेर्दूषयिष्यमाणत्वादिति भावः ॥ उक्तरीत्येति ॥ असत्त्वाभावस्यैव सत्त्वेन पुनस्तदभावे साध्ये विरोध इत्यादिकयेत्यर्थः । न च निषेधसत्यसमुच्चयस्यातात्विकत्वेन समाधानमुक्तमिति वाच्यम् । अस्यानिर्वचनीयसिद्धयुत्तरकालीनत्वेनान्योन्याश्रयात् ॥ ब्रह्मवदिति ॥ सद्रूपत्वेन ब्रह्मवदेवाननिर्वचनीयत्वसम्भवादित्यर्थः । न च ब्रह्मवत् प्रपञ्चस्य सद्रूपत्वे प्रमाणं नेति वाच्यम् । ब्रह्मणोऽपि तदभावप्रसङ्गात् । श्रुत्यादिकं तूभयत्र तुल्यम् । उपपादितं चैतत् प्रपञ्चमिथ्यात्वानुमानबाधप्रस्तावे । न च ब्रह्मणः सद्रूपत्वाभावे शून्यतापत्तिरेव बाधकमिति वाच्यम् । प्रपञ्चेऽपि तुल्यत्वात् ॥ भेदेति ॥ न चातात्विक-भेदाभ्युपगमाददोष इति वाच्यम् । तथात्वेऽनिर्वचनीयस्याप्यतात्विकत्वापत्तेः । तस्यातात्विकत्वेऽनिर्वचनीयत्वं तात्विकमापद्येत । अन्योन्याश्रयादेरुक्तत्वाच्च ॥ वक्ष्यमाणेति ॥ न चानुकूलतर्कसद्भावान् नाभाससाम्यमिति वाच्यम् । ख्याति-बाधान्यथानुपपत्यतिरिक्तस्य तस्याभावात् । तस्याश्चाग्रे निरसिष्यमाणत्वात् ॥ असत्त्वाभावेनेति ॥ तथा च बाधानन्तरमसदेवेतिवत्सदेवेति प्रत्ययः स्यादित्यर्थः ॥ नृशृङ्गादीति ॥ तथा च बुध्यविशेषे विचित्रविषयत्वं न कल्प्यमन्यथाऽतिप्रसङ्गादिति भावः । आद्यद्वितीययोः सत्ताजात्यर्थक्रियाकारित्वतदभावयोरित्यर्थः । तृतीयचतुर्थयोर् अबाध्यत्वबाध्यत्वप्रामाणिकत्वाप्रामाणिकत्वयोरित्यर्थः । पञ्चमे अशून्यत्वशून्यत्व इत्यर्थः । सप्तमाष्टमनवमेषु अबाध्यत्वशून्यत्वप्रामाणिकत्वशून्यत्वपराङ्गीकृतसत्त्वासत्त्वे-ष्वित्यर्थः ॥ षष्ठ इति ॥ ब्रह्मत्वशून्यत्वपक्ष इत्यर्थः । न च बाध्यत्वं क्वचिदप्युपाधौ सत्त्वेनाप्रतीयमानत्वरूपसत्त्वासत्त्वमादाय बाधसिद्धसाधनादेः परिहार इति वाच्यम् । तादृशासत्वस्य शशविषाणादावभावेन प्रागेव दूषितत्वात् । तस्मान्न विशेषतोऽ-निर्वचनीयत्वसाधकमनुमानं सम्भवतीति । उक्तदूषणगणं सामान्यतोऽनिर्वचनीय-साधकेऽतिदिशति ॥ सामान्यत इति ॥ अंशे बाध इति ॥ आद्यद्वितीययोः सत्त्वाभावांशे अन्यत्रत्वसत्त्वाभावांश इत्यर्थः ॥ षष्ठ इति ॥ सद्रूपत्वेनोपपत्तेरित्यर्थः । सामान्यानुमानेषु सत्प्रतिपक्षत्वाभाससाम्योपाधीन् क्रमेणाह ॥ सत्त्वासत्त्व इत्यादिना ॥ परस्परेति ॥ न चासिद्धिरिति वाच्यम् । लाघवेनासत्त्वाभावस्यैव सत्त्वाङ्गीकारात् । अनेनैव न्यायेनोत्तरत्रासिद्धिपरिहारो द्रष्टव्यः । न च ख्यातिबाधानुपपत्ति-रूप-विपक्षबाधकतर्कान् न सत्प्रतिपक्षादीति वाच्यम् । तस्याग्रे निरसिष्यमाणत्वात् । न चोपाधेः साधनव्याकत्वमिति वाच्यम् । सत्त्वासत्त्वयोः परस्परप्रतिषेधात्मकत्वस्य समर्थितत्वात् । परानुमानेषु उपाधिप्रतिकूलतर्कौ दर्शयति ॥ एवञ्चेति ॥ न चैतावताऽविरुद्धधर्मवत्त्वं सदसद्रूपमेकं स्यादिति प्रतिकूलतर्कश्चोक्तः । तदुभयं न सम्भवति प्रयोजकश्चोपाधिर् न चाविरुद्धधर्मत्वं प्रयोजकं किन्तु धर्मत्वमात्रमिति । तथा तर्कोऽपि न सम्भवत्यनिष्ठप्रसङ्गत्वाभावादिति वाच्यम् । धर्ममात्रत्वस्योक्तसाध्यप्रयोजकत्वे व्याघातस्य वक्ष्यमाणत्वात् । सदसद्रूपत्वस्येष्टत्वे तद्वैलक्षण्यपर्यन्तधावनानुपपत्तेश्च ॥ किञ्चेति ॥ न च क्षितेः सकर्तृकत्वे साध्येऽङ्कुरः सकर्तृकः कार्यत्वादित्याभाससाम्यमङ्कुरादौ व्यभिचारश्च न पक्षसमत्वात् तथा प्रकृतेऽपि पक्षसमत्वान् नोक्तधर्मेषु व्यभिचारादीति वाच्यम् । दृश्यत्वादीनां प्रपञ्चे वस्तुतोऽभावे तेन मिथ्यात्वं न सिध्येत् । कल्पितस्य त्वात्मन्यपि सत्त्वात् कल्पितसद्वैलक्षण्यादौ विवादाभावात् तत्साधनार्थपरप्रयासानुपपत्तेश्च । व्याघातश्च सर्वत्रातिस्फुटः । ता च क्षितिसकर्तृकत्वानुमानेऽङ्कुरादेः पक्षसमत्वान्नैवं बाधकम् । किञ्च सर्वस्यापि पक्षसमत्वेऽयं घटोऽयमघट इत्यादिका कापि व्यवस्था न सिद्ध्यतीति असङ्कीर्णसर्वव्यवहारोच्छेदश्च । तथाचैवंविधबाधकादुक्तधर्माणां विपक्षत्वे व्यभिचारा-द्यभिमानमतिसंलग्नतरम् ॥ तथात्वे इति ॥ औपाधिकधर्माणामुपाध्यात्मकत्व इत्यर्थः । तथा चानौपाधिकदृश्यत्वादात्मन एव मिथ्यात्वं स्यादित्याशयः । तथा घटादेरप्य-वाच्यतापत्तौ शक्याभावात् तत्सम्बन्धरूपा लक्षणापि नेत्याशयः ॥ आवाभ्यामिति ॥ तथा च प्रतीत्यनुरोधेन ज्ञेयत्वादेर्ज्ञानत्वाद्यतिरिक्तत्वमवश्याङ्गीकरणीयम् । आवयोर्बाधका-भावादिति भावः । न्यायमतेऽपि व्यभिचारमुपपादयति ॥ वैशेषिकैरपीति ॥ वैशेषिकैरित्यस्य इति स्वीकृतत्वेनेत्यनेनान्वयः ॥ अन्यथेति ॥ स्वनिष्ठत्व इत्यर्थः । तथा च न ज्ञेयत्वादौ व्यभिचार इत्याशयः ॥ सत्त्वादेरपीति ॥ स्वनिष्ठत्वे आत्माश्रया-देस्तत्रापि वक्तुं शक्यत्वादिति भावः । किञ्चात्माश्रयाज् ज्ञेयत्वादि न स्वनिष्ठम् । तर्हि दृश्यत्वादिकमपि स्वनिष्ठं न स्यात् । तथा च तस्य मिथ्यात्वं न स्यात् । यदि दृश्यत्वं दृश्यमित्यादिप्रतीतिबलात् तत् स्ववृत्ति तर्हि ज्ञेयत्वं ज्ञेयमित्यादिप्रतीतिबलात् तदपि स्ववृत्तीत्याह ॥ असद्वैलक्षण्येति ॥ अत्यन्तेति ॥ न च तस्यापि पक्षसमत्वम् । तथात्वे यतोऽत्यन्ताभावप्रतियोगित्वं व्यावृत्तं तत्रैव धर्मत्वस्य व्यभिचार इति भावः ॥ आत्मशब्देनैवेति ॥ आत्मशब्दस्य तदप्रतिपादकत्वे तन्निष्ठात्यन्ताभावप्रतियोगित्वं शब्द-प्रतिपाद्यत्वादेर्न स्यात् । भूतले घटाभाव इत्यत्र भूतलशब्दस्य भूतलाप्रतिपादकत्व इवेति भावः ।

ननु सत्वासत्वयोरप्यभावो नेति सर्वराहित्यश्रुत्या बोध्यते । तथा च कथमात्म-निष्ठात्यन्ताभावप्रतियोगित्वेनार्थान्तरमित्यत आह ॥ यदीति ॥ तथापि ज्ञेयत्वादौ व्यभिचारः सुस्थ एव । तदत्यन्ताभावस्यात्मन्यभावात् । किञ्च सर्वराहित्यबोधनं व्याहतत्वेन श्रुत्यापि कर्तुं न शक्यते । सर्वराहित्यस्यापि सर्वमध्यपतितत्वेन तद्राहित्ये ब्रह्मणः सर्वधर्मवत्त्वापत्तिरिति भावः । व्याघातादीत्यादिशब्देन हेतावनात्मनिष्ठेत्यनेन यत्किञ्चिदनात्मनिष्ठत्वं वा सकलानात्मनिष्ठत्वं वा ? नाद्यः । घटत्वादौ व्यभिचारात् । साध्येऽप्यनात्मनिष्ठेत्यनेन यत्किञ्चिदनात्मविवक्षायामर्थान्तरम् । द्वितीये दृष्टान्ते साधन-वैकल्यमित्यादि सङ्गृहीतम् । उक्तन्यायमन्यत्रातिदिशति ॥ एतेनेति ॥ व्याघातेति ॥ पक्षविशेषणसाध्यपदानां व्याघातः । उभयत्रासद्विलक्षणमिति साध्येऽसदेव रजतं प्रत्यभादिति अनुभवविरोधश्चेति भावः ।

न्यायामृतप्रकाशः

॥ अनुमानं चेति ॥ ‘विमतं सत्त्वरहितत्वे सति असत्वरहितत्वे सति सदसत्वरहितं बाध्यत्वात्’ इत्याद्यनुमानमित्यर्थः ॥ उक्तरीत्येति ॥ प्रत्येकमभावानां साध्यत्वेऽ-सद्वैलक्षण्यांशे सिद्धसाधनमित्यर्थः । ऐकाधिकरण्यावच्छिन्नानां साध्यत्वे त्वप्रसिद्धविशेषण-तेत्याह ॥ अप्रसिद्धेति ॥ परस्परविरहरूपाणां साध्यमानानां सामानाधिकरण्यायोगाद् व्याघात इत्याह ॥ उक्तरीत्येति ॥ प्रत्येकमभावानां साध्यत्वपक्षे सत्वराहित्यसाधने निर्धर्मकब्रह्मवत् सत्वराहित्येऽप्यनिर्वाच्यत्वाभावोपपत्तेरर्थान्तरमित्याह ॥ ब्रह्मवदिति ॥ उक्तत्वादिति ॥ पूर्वं मिथ्यात्वभङ्गे उक्तत्वादित्यर्थः । वैलक्षण्यस्य भेदरूपत्वादिति भावः । ननु सदसदात्मकत्वसाधने सदसद्वैलक्ष्यसाधकख्यातिबाधान्यथानुपपत्तिबाध इति चेत् तत्रोक्तम् ॥ वक्ष्यमाणेति ॥ अन्यथैवेति ॥ सदसदात्मकत्वेनैवोपपत्त्येत्यर्थः ॥ आभास साम्यादिति ॥ तथा चानिर्वाच्यत्वसाधकानुमानस्यानुकूलतर्काभाव इत्याशयः । रूप्यस्यासद्वैलक्षण्यसाधनेऽसत्वागाह्यनुभवविरोध इत्याह ॥ असदेवेति ॥ मिथ्यैवेति ॥ मिथ्याशब्दस्यानिर्वाच्यपरत्वादिति भावः । एवं चानिर्वाच्यत्वानुमानस्य प्रत्यक्षानुकूल्य-सद्भावान्नाभाससाम्यमिति ध्येयम् । विमतं रूप्यम् ।

नन्वसदेव रजतं प्रत्यभादि त्यनुभवस्य सत्वाभावावगाहित्वेनासत्वाभावसाधने सत्त्वस्यैव प्राप्त्या पुनः सत्वस्य तदनिष्ठत्वस्य साधने व्याघातः । एवम् ‘असत्वं सत्वानधिकरणनिष्ठम्’ इत्यत्रापि सत्वानधिकरणेत्युक्त्या तत्रासत्वस्यैव प्राप्त्या पुनरसत्वस्य तदनिष्ठत्वस्य साधने व्याघात इत्यर्थः ॥ अर्थान्तरेति ॥ ब्रह्मत्वरूपसत्वाभिप्राये तद्राहित्येऽबाध्यत्वरूपसत्त्वे-नाप्युपपत्त्याऽर्थान्तरमित्यर्थः । आदिपदेनोक्तरीत्यांशे बाधो ग्राह्यः ॥ किञ्चेति ॥ पूर्वं सर्वपक्षेषु असत्वराहित्यांशे एव बाधो उक्तः। न सत्वराहित्यांशे । तत्राद्यद्वितीययोरेव सत्वराहित्यांशे बाध उक्तः । न तृतीयादिषु पक्षेषु । अत उक्तम् ॥ सत्त्वासत्वपक्षे-ष्विति ॥ तथा च सत्त्वराहि त्यांशेऽसत्त्वराहित्यांशे च बाधो द्रष्टव्य इत्यर्थः । तत्र सर्वत्राप्यसत्वराहित्यांशे बाध उक्त एव । सत्वराहित्यांशे बाधोऽप्याद्यद्वितीयपक्षयोरुक्त एव । तृतीयादिपक्षेषु सत्त्वराहित्यांशे बाधस्त्वित्थम् । तृतीय-सप्तमपक्षयोरबाध्यरूपसत्वस्य, चतुर्थाष्टमयोः प्रामाणिकत्वरूपसत्त्वस्य पञ्चमेऽशून्यत्वरूपसत्वस्य नवमे त्रिकालसर्वदेशीय-निषेधाप्रतियोगित्वरूपसत्वस्य प्रपञ्चे मयाङ्गीकृतत्वेन मां प्रति तद्राहित्यसाधनेंऽशे बाधः । अत्रांशे बाध षष्ठे पक्षे न सम्भवति । ब्रह्मत्वरूपसत्वस्य प्रपञ्चे मयाऽनङ्गीकृतत्वेन मां प्रति तद्राहित्यसाधनेंशे बाधायोगात् । अतः षष्ठान्येष्वंशेषु बाध इत्युक्तम् । षष्ठे पक्षे तूक्तरीत्या ब्रह्मत्वरूप सत्वाभावेऽप्यबाध्यत्वरूपसत्त्वेनाप्युपपत्त्याऽर्थान्तरमित्यर्थः । सामान्येना-निर्वचनीय साधकानुमानत्रयस्य क्रमेण सत्प्रतिपक्षमाह ॥ सत्त्वासत्त्वे इत्यादिना ॥ उत्तरत्र परस्परप्रतिषेधानात्मकत्वरूपाविरुद्धत्वमुपाधितयोच्यते । तद्भावे नेदं सत्प्रतिपक्षत्वमिति मन्तव्यम् । घटत्वाघटत्वयोः समानाधिकरणात्यन्ताभावप्रतियोगित्वं नास्ति । तथात्वे घटाघटविलक्षणवस्त्वापत्तेरित्यर्थः । एवमिति ‘सत्त्वमसत्त्वानधिकरणनिष्ठं न, तत्प्रतिषेध-रूपत्वात् । यद् यन्निषेधरूपं तत् तदनधिकरणनिष्ठं न, तथा नित्यत्वम् अनित्यत्वा-नधिकरणनिष्ठं न’ इति प्रयोक्तव्यमित्यर्थः । अनयैव रीत्या घटाघटविलक्षणकल्पिताकल्पित-विलक्षणसिद्धिरपि स्यादित्याभाससाम्यमित्याह ॥ घटत्वेति ॥ सत्त्वासत्त्वोभयपक्षकानुमाने उपाधिं चाह ॥ परस्परप्रतिषेधानात्मकेति ॥ परस्परात्यन्ताभावानात्मकत्वमित्यर्थः । यद्यपि टीकाकारैरविरुद्धत्वं चोपाधिरित्युक्तम् । तत्र रूपतद्ध्वंसयोरेकधर्मिनिष्ठात्यन्ताभाव-प्रतियोगित्वमस्ति । वायुनिष्ठात्यन्ताभावप्रतियोगित्वात् । अविरुद्धत्वं नास्ति । सहा-नवस्थानलक्षणविरोधस्यैव सत्वात् । अतः साध्याव्यापकत्वमायातीत्यतः परस्परप्रतिषेधा-नात्मकत्वमिति तद्व्याख्यानं कृतमिति मन्तव्यम् । तथा च रूपतद्ध्वंसयोः परस्पर-प्रतिषेधानात्मकत्वसद्भावान्न साध्याव्याप्तिरिति मन्तव्यम् । उपाधेः साध्यव्यापकत्वादिकं कारिकायां सङ्गृह्य दर्शयति ॥ एवं चेति ॥ आद्यपादे साध्यव्यापकत्वं द्वितीयपादे साधनाव्यापकत्वमिति द्रष्टव्यम् ।

ननु साधनव्यापकोऽयमुपाधिरिति चेत् तत्राह ॥ अन्यथेति ॥ रसश्च रूपं च रसरूपे । अत्र स्त इति रसरूपी । तद्वदित्यर्थः । यदि सत्त्वासत्वयोः रूपरसवत् परस्पर-प्रतिषेधानात्मकत्वरूपमविरुद्धत्वं स्यात् तर्हि रूपरसयोरविरुद्धत्वात् तदुभयोपेतं पृथिवी-जलरूपं वस्त्वस्ति । एवं सत्वासत्त्वयोरविरुद्धत्वे रूपरसवदेव तदुभयोपेतं सदसद्रूपं किञ्चिद् वस्त्वपि स्यात् । न च तदस्ति । अतो न साधनव्यापकत्वामिति भावः ॥ आद्य इति ॥ सत्वासत्वपक्षकानुमान इत्यर्थः । सद्विलक्षणत्वासद्विलक्षणत्वादीनामप्युक्तसाध्योपेतत्वे सदसद्रूपस्य कल्पिताकल्पितविलक्षणस्य दृश्यादृश्यविलक्षणस्य दुर्निरूपादुर्निरूपविलक्षणस्य च वस्तुनः प्राप्तेरिति ध्येयम् ॥ यथाक्रमेति ॥ दितीयानुमानेऽसद्वैलक्षण्ये व्यभिचारः । तस्य सत्वाधिकरणनिष्ठत्वेन तत्र साध्याभावादित्यर्थः । एवं निरवकाशव्यभिचारं स्वयमभि-धायाभिधेयत्वज्ञेयत्वादिकेवलान्वयि धर्मे व्यभिचारष् टीकाकारैरुक्तोऽस्ति सोऽयमुपपादनसापेक्ष इत्याशयेन तद्व्यभिचारमुक्त्वा तत्र प्रत्यनुपपत्तिपरिहारेण तं समर्थयते ॥ त्रिष्वपीति ॥ व्यवहार्यत्वम् अभिधेयत्वम् ॥ व्यभिचार इति ॥ साध्यत्रयसाधकस्य धर्मत्वस्य हेतो-रित्यर्थः ॥ उपाध्यनतिरेकादिति ॥ परम्परासम्बन्धाया जातेरेवोपाधित्वादित्यर्थः । ज्ञेयत्वाद्यौपाधिकधर्माणां ज्ञानत्वादिरूपजात्यतिरिक्तत्वे गुणादिवृत्तित्वेन द्रव्याद्यन्तर्भावा-योगाज् ज्ञानाद्युपाधिनिवृत्तौ निवर्तमानस्य नित्यत्वाभावेन सामान्येऽप्यन्तर्भावायोगात् । न चोपाधिरूपसामान्यऽन्तर्भाव इति वाच्यम् । दण्डित्वरूपित्वाद्युपाधीनां नित्यानेकसमवे-तत्वाभावेन सामान्यत्वाभावात् । तथाहि । ‘कृतद्धितसमासेभ्यः सम्बन्धाभिधानं भाव-प्रत्ययेन’ इति वचनाद् दण्डसम्बन्धः संयोगः दण्डित्वम् । न चासौ नित्यः । एवं रूपित्वं तत्समवायः । न चासावनेकसमवेतः । संयोगसमवायपृथग्भूतमपि तद् यदि नित्यं तदा दण्डादिसम्बन्ध्यभावेऽपि प्रतीयेत । अथानित्यं न सामान्यम् । तल्लक्षणाभावात् । ननु नित्येऽपि तस्मिन् दण्डित्वाद्यौपाधिकसाम्ये तयोः को विशेष इति वाच्यम् । सङ्करादि-बाधकसद्भावाभावाभ्यामेव विशेषोपपत्तेः । अत एवाबाधकं सामान्यं जातिः । सबाधक-मुपाधिरिति प्रवाद इति चेन् न । कादाचित्कदण्डादिसम्बन्धव्यङ्गेषु नित्यं विद्यमानेषु दण्डित्वपाठकत्वपाचकत्वादिषु परस्परपरिहारेणावर्तमानेषु संकरादिबाधकमेव दुर्निरूपमिति कथमुपाधिः सामान्यम् । अत उपाधिरूपसामान्याभावेन ज्ञेयत्वादीनामौपाधिकसामान्यत्वा-योगात् षड्पदार्थतिरेकः स्यादेव । अत औपाधिकधर्माणामुपाध्यनतितिक्तत्वमेव वाच्यम् । तथा च ज्ञानत्वमेव ज्ञेयत्वम् ।

ज्ञानत्वस्य चाखण्डत्वेन जातित्वाद्युक्तः सामान्येऽन्तर्भावः । ततश्च ज्ञेयत्वं नाम ज्ञानसम्बद्धः । तत्र ज्ञानस्याननुगतत्वेन ज्ञानत्वस्य व्यतिरेकिधर्मत्वेन केवलान्वयित्वा-भावादुक्तसाध्यवत्त्वेन व्यभिचार इति भावः । न चेश्वरज्ञानस्य नित्यतया तदुपाधिकज्ञेयत्वं नित्यमेव सामान्यं भविष्यति । तच्च केवलान्वय्येवेति वाच्यम् । अस्मादादिज्ञानोपाधिक-ज्ञेयत्वादिविषयत्वादस्य ग्रन्थस्येति ज्ञेयम् । यद्यौपाधिकधर्माणामुपाध्यनतिरिक्तत्वमङ्गीकृत्य ज्ञानत्वमेव ज्ञेयत्वमित्यङ्गीकारे न्यायसाम्याद् दृश्यत्वस्यापि दृक्त्वरूपतया तस्य ब्रह्मण्येव सत्त्वेन जडेऽभावाज् जडस्यैव दृश्यत्वं, न तु ब्रह्मण इति त्वदभिमतं न सिध्येत् । तथाऽभिधेयत्वं नामाभिधानत्वमेव । तच्च ब्रह्मणि नास्तीति न ब्रह्मणोऽभिधेयत्वमित्यङ्गी-कृतम् । तद्वद् घटादेरप्यभिधानत्वाभावेनाभिधेयत्वाभावापत्त्याऽवाच्यत्वं स्यादित्यत अति-प्रसङ्ग इत्याह ॥ तथात्वे इत्यादिना ॥ तथात्वे औपाधिकधर्माणामुपाध्यनतिरिक्तत्वे ।

ननु परम्परासम्बद्धजातेरेवोपाधित्वेन ज्ञानद्वारा ज्ञानत्वस्य घट इव दृग्द्वारा अभिधाद्वारा च दृक्त्वाभिधानत्वयोरपि जडे घटे सम्भवाद् दृश्यत्वं वाच्यत्वरूपाभिधेयत्वं च सम्भव-त्येवेति नातिप्रसङ्ग इत्यस्वरसादाह ॥ आवाभ्यामिति ॥ मायावादितत्ववादिभ्यामित्यर्थः । वक्तुं शक्यमेवं षड्पदार्थनियमवादिभिर्वैशेषिकैः, न त्वावाभ्याम् । आवयोर्वैशेषिकषड्पदार्थ-नियमाभावात् । अतो ज्ञेयत्वादेरैपाधिकधर्मजातस्य षड्पदार्थातिरिक्तत्वेऽपि दोषाभावा-दौपाधिकधर्माणामुपाध्यनतिरेककल्पनमयुक्तमिति भावः । वैशेषिकादिमतेऽप्यौपाधिकधर्माणा-मुपाध्यतिरिक्तत्वमेव । न चान्तर्भावासम्भवेन षड्पदार्थातिरेकप्रसङ्ग इति वाच्यम् । इष्टापत्तेः । अभाव एषामन्तर्भावादित्याह ॥ वैशेषिकैरपीति ॥ वैशेषिकैकदेशिभिरित्यर्थः । ननु ज्ञेयत्वादेर्नञर्थोल्लेखिधीविषयत्वाभावात् कथमभावेऽर्न्तभाव इति चेन्न । अस्त्यत्र सम्प्रदायविशेषः नैतेषां मते नञर्थोल्लेखिधीविषयत्वमभावत्वं, किं नाम षड्भावभिन्नत्वमेव । ततश्च ज्ञेयत्वादीनां तत्रान्तर्भावो युक्त इत्यङ्गीकारात् । तथा च वैशेषिकसूत्रं ‘षड्भाव-भिन्नोऽभावः’ इति । अस्तु वा नञर्थोल्लेखिधीविषयत्वमभावत्वम् । ज्ञेयत्वादीनां च तत्रार्न्तभावायागेऽपि उपाधिरूपे सामान्येऽन्तर्भावः सम्भवतीत्याह ॥ सामान्ये वेति ॥ वैशेषिकैकदेशिभिः शिवादित्यादिभिः । ‘सामान्यं द्विविधं, जातिरूपमुपाधिरूपं’ चेत्यङ्गी-कारात्, उपाधिरूपे सामान्येऽन्तर्भाव इत्यर्थः ।

ननु जात्युपाधिसाधारणस्य ‘नित्यमेकमनेकसमवेतं सामान्यं’ इति सामान्यलक्षणस्य दण्डित्वरूपित्वाद्युपाधयोऽपि लक्ष्याः । ते च ‘कृतद्धितसमासेभ्यः सम्बन्धाभिधानं भावप्रत्ययेन इति न्यायेन दण्डसम्योगादिपर्यवसिताः कथं नित्यानेकसमवेता इति चेन्न । परम्परासम्बन्धाया जातेरेवोपाधित्वात् । तस्याश्च नित्यत्वात् । कुतस्तर्हि जात्युपाधि-वैचित्र्यम्?’साक्षात् परम्परासम्बन्धभेदादेवेति ग्रहण’ इति पदार्थचन्द्रिकोक्तप्रकारेणो-पाधिसामान्यस्यापि सामान्यलक्षणाक्रान्तत्वेन तत्रान्तर्भावसम्भवात् षड्पदार्थातिरेककल्पन-मयुक्तमिति भावः । अस्तु वौपाधिकधर्माणां ज्ञेयत्वादीनां ज्ञानत्वाद्युपाध्यनतिरिक्तत्वम् । तथाऽपि व्यभिचार इत्याह ॥ उपाधीति ॥ औपाधिकधर्माणामिति शेषः ॥ स्वीकृत-त्वेनेति ॥ ज्ञानत्वाद्युपाधिसम्बन्धः सर्वत्रास्तीति नात्यन्ताभावप्रतियोगित्वमिति वाक्य-शेषः । अयं भावः । त्वन्मते कार्यत्वरूप औपाधिको धर्मोऽस्ति । स च घटादावेवास्ति नाकाशादावित्यङ्गीकृतम् । तत्र निमित्तशंकायां चाभिहितमस्ति ‘कार्यत्वं नाम कृतिरेव । तथा च यत्र कृतिरूपोपाधिना विषयत्वरूपः सम्बन्धोऽस्ति तत्रैव घटादौ कार्यत्वमस्ति । नाकाशादौ । तत्र कृतिसम्बन्धाभावात् । एवं च यत्रोपाधिना सम्बन्धो न तत्रैवौपाधिक-धर्मात्यन्ताभाव इति स्वीकृतत्वात् प्रकृते च ज्ञेयत्वोपाधिभूतज्ञानेन सर्वस्यापि सम्बन्धोऽस्ति । ईश्वरज्ञानस्य सर्वत्रापि सत्त्वात् । अस्माकमपि सामान्यलक्षण-प्रत्यासत्तिजन्यज्ञानस्य सर्वपदार्थसम्बन्धित्वेनानुगततया ज्ञानत्वस्यापि सर्वसम्बन्धेनोपाधि-सम्बन्धशून्यस्यैवाभावेन तत्र ज्ञेयत्वरूपौपाधिकधर्मात्यन्ताभावस्यैवाभावेन साध्याभावाद् व्यभिचारः स्यादेवेति ।

नन्वस्तु वा तस्य केवलान्वयित्वम् । तथाऽपि ज्ञेयत्वेन व्यभिचारः । तस्य सर्वत्र सत्त्वेऽपि स्वस्मिन्नभावात् । अन्यथाऽत्माश्रयापातात् । अतः स्वनिष्ठात्यन्ताभाव-प्रतियोगित्वमेवेति साध्यसद्भावान्न व्यभिचार इत्यत आह ॥ न चेति ॥ आत्माश्रयभीत्या स्वस्मिन् स्वस्य वृत्त्यनङ्गीकारे उक्तानुमानत्रयेण सामान्यतः सत्वासत्त्वानधिकरणं किञ्चिदस्तीति साध्यत इत्युक्त्ययोगात् । असत्वानधिकरणत्वरूपे सत्वपदार्थविशेष-सत्वात्यन्ताभावाधिकरणत्वमप्यस्ति । आत्माश्रयेण स्वस्मिन् स्वस्याभावात् । एवमेव सत्वानधिकरणत्वरूपे असत्व एवासत्वात्यन्ताभावोऽप्यस्तीति सत्त्वासत्त्वात्यन्ताभावयोः सत्त्वासत्वयोरेव विशेषतः सिद्धेरेव प्राप्त्या सामान्यतः सिद्ध्ययोगादित्याह ॥ सत्वादेर-पीति ॥ किं च ज्ञेयत्वादेरपि स्वस्मिन् वृत्तिः प्रामाणिकत्वादङ्गीकार्येति व्यभिचारः सुस्थ एवेत्याह असदिति ॥ असद्वैलक्षण्येऽसद्वैलक्षण्यानङ्गीकारेऽसद्वैलक्षण्येऽसत्वप्राप्त्या रूप्यादाव सत्वमेव स्यादिति भावः । मिथ्यात्वे मिथ्यात्वाभावे सत्यत्वप्राप्त्याऽद्वैतहानिः । दृश्यत्वे दृश्यत्वाभावेऽज्ञानासिद्धिरिति द्रष्टव्यम् । अभिधेयत्वस्य वाच्यत्वरूपत्वे सर्वशब्दलक्ष्ये ब्रह्मणि तस्याभावेन केवलान्वयित्वाभावादाह ॥ शब्दप्रतिपाद्यत्वादेरपीति ॥ अनन्य-थेति ॥ ‘स्वं रूपं शब्दस्य’ इति न्यायेनाभिधेयत्वमित्यस्यापि तेनैव शब्देनाभिधेयत्वात् स्ववृत्तित्वमनुभवसिद्धमित्यर्थः । निरवकाशव्यभिचारमाह ॥ अत्यन्ताभावेति ॥ अत्यन्ता-भावप्रतियोगित्वे किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वं नास्तीति व्यभिचारः ।

ननु अत्यन्ताभावप्रतियोगित्वस्यापि अत्यन्ताभावः कुत्रचिदस्त्येवेति न व्यभिचार इति चेन्न । अत्यन्ताभावप्रतियोगित्वस्यापि अत्यन्ताभावप्रतियोगित्वे, अत्यन्ताभावप्रतियोगित्वं यत्र नास्तीत्युच्यते तत्रैव पदार्थे धर्मत्वमस्ति, अत्यन्ताभावप्रतियोगित्वं नास्तीति व्यभिचारः स्यादित्यर्थः । अत एवोक्तं दुर्वारत्वादिति ॥ शब्दप्रतिपाद्यत्वस्यात्मन्य-भावोपपादनाय निर्धर्मकेत्युक्तम् । अतो न व्यभिचार इति भावः । आत्मनिष्ठेत्युक्त्याऽऽत्म-शब्दप्रतिपाद्यत्वस्यैव प्राप्त्या व्याघातेन तत्रापि शब्दप्रतिपाद्यत्वस्य सद्भावेनात्मनिष्ठात्यन्ता-भावप्रतियोगित्वाभावाद् व्यभिचार एवेत्याह ॥ आत्मेति ॥ आत्मनिष्ठात्यन्ता-भावप्रतियोगित्वेन व्यभिचारे सत्त्वासत्त्वयोरपि तन्निष्ठात्यन्ताभावप्रतियोगित्वेन, आत्मनः पारमार्थिकत्वेन तयोरभावसत्त्वेऽपि अनिर्वचनीयत्वाप्राप्त्या शुक्तिरूप्यादेरपि तदसिद्धेरर्थान्तरं स्यादित्याह ॥ सत्त्वेति ॥ नेतीति ॥ तथा च ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वमादाय नार्थान्तरमित्यर्थः । शब्दबोध्यत्वं शब्दप्रतिपाद्यत्वं, तथा च शब्दप्रतिपाद्यत्वाद्यपि निर्धर्मकात्मनिष्ठात्यन्तप्रतियोगीति यो व्यभिचारपरिहारः पूर्वं कृतः सोऽनुपपन्नः स्यात् । सर्वधर्मराहित्ये शब्दप्रतिपाद्यत्वात्यन्ताभावस्यापि ब्रह्मण्यभावेन तन्निष्ठात्यन्ताभावप्रतियोगि-त्वस्याभावेन व्यभिचारस् तदवस्थ इति भावः । सत्त्वासत्वे पक्षीकृत्य किञ्चिन्निष्ठात्यन्ता-भावप्रतियोगीति साध्यते चेदुक्तरीत्याऽर्थान्तरं प्राप्नोति । अतः प्रकारान्तरेणानिर्वाच्यत्व-साधकानुमानरचनामाशङ्क्य निराकरोति ॥ न चेति ॥ असत्वानधिकरणत्वमनात्मविशेषणम् । तथा चानेनानुमानेन सत्त्वासत्वानधिकरणानात्मसिद्ध्याऽनिर्वाच्यसिद्धिरिति भावः । सुधाया-मनात्ममात्रवृत्तित्वादिति हेतुः परेण प्रयुक्तोऽस्ति । तस्य चानात्मत्वे व्यभिचारष् टीकाकारै-रुक्तोऽस्ति । अतोऽत्रानात्मत्वे यथा न व्यभिचारस् तथा हेतुं निर्दिशति ॥ अनात्मेति ॥ दृष्टान्तीभूतेऽसत्त्वेऽसत्त्वानधिकरणशुक्तिरूप्याख्यानात्मनिष्ठात्यन्ताभावप्रतियोगित्वेन साध्य-मस्तीति ध्येयम् ॥ व्याघातादिति ॥ असत्वानधिकरणेत्युक्त्या सत्त्वाधिकरणत्वस्यैव प्राप्त्या पुनस्सत्वस्य तन्निष्ठात्यन्ताभावप्रतियोगित्वसाधने व्याघात इत्यर्थः । किं चात्रा-सत्त्वानधिकरणानात्मनिष्ठप्रामाणिकात्यन्ताभावप्रतियोगित्वं साध्यम् ? उत अप्रामाणिका-त्यन्ताभावप्रतियोगित्वम्? नाद्यो ऽपसिद्धान्तात् । द्वितीये त्विष्टपत्तिरित्याह ॥ अत्यन्तेति ॥ सत्वमात्रपक्षकास्मिन्ननुमाने उक्ते योऽत्यन्ताभावस्य प्रामाणिकत्वादिविकल्पेन दोषः स पूर्वत्रापि सामान्यप्रसिद्धिसम्पादके ‘सत्त्वासत्त्वे किञ्चिन्निष्ठात्यन्ताभावप्रतियोगिनी’ इत्यनुमानेऽपि योज्य इत्याह ॥ अयं चेति ॥ कल्पितत्वेति ॥ तथा च कल्पितत्वा-कल्पितत्वोभयानधिकरणानात्मसिद्धिरपि स्यादित्यर्थः । दृष्टान्तीभूतेऽकल्पितत्वेऽकल्पितत्वा-नधिकरणानात्मशुक्तिरूप्यनिष्ठात्यन्ताभावप्रतियोगित्वेन साध्यमस्तीति ध्येयम् । किं चानेनानुमानेनानात्मनः सत्वासत्वानधिकरणत्वं सिद्धम् । न च तावताऽनिर्वाच्यत्वसिद्धिः । निर्धर्मके ब्रह्मणि सत्वासत्वयोरुभयोरप्यभावेऽपि अनिर्वाच्यत्वाभावेन तद्वदनात्मनोऽप्य-निर्वाच्यत्वाभावोपपत्त्याऽर्थान्तरतेत्याह ॥ आत्मन इवेति ॥ त्वद्रीत्येति ॥ ज्ञेयत्वाद्यपि स्वनिष्टात्यन्ताभावप्रतियोगि । अन्यथाऽत्माश्रयादिति न व्यभिचार इति पूर्वं त्वया शङ्कित-त्वेन त्वदुक्तरीत्यैवेत्यर्थः । तथा च मिथ्यात्वे अनात्मभूतं यत् स्वयं तन्निष्ठात्यन्ताभाव-प्रतियोगित्वमस्ति, अन्यथाऽत्माश्रयात् । असत्वानधिकरणप्रपञ्चरूपानात्मनिष्ठत्वेन तन्निष्ठा-त्यन्ताभावप्रतियोगित्वाभावेनोक्तसाध्याभावाद् व्यभिचार इति भावः । अप्रसिद्धविशेषण-त्वोपपादनमुपसंहरति ॥ तस्मादिति ॥ अनिर्वाच्यप्रसिद्धिसाधकानुमानानां दूषितत्वा-दित्यर्थः । अनिर्वाच्यसाधकमनुमानद्वयं नवीनोक्तमाशंक्य निराकरोति ॥ एतेनेति ॥ भ्रमे प्रतीयमानरूप्यादि असदेवेति वादिनं प्रति पक्षविशेषणमसिद्धमित्यत उक्तम् ॥ सत्ख्याति-वादिनं प्रतीति ॥ अन्यत्र विद्यमानमेवान्यत्र दोषवशात् प्रतीयत इति वादिनं तार्किकं प्रति साध्यत इत्यर्थः । विमतं रूप्यादिसंसर्गः समवायः । ‘अत्र रजतत्वम्’ इति संसर्गारोपे तस्यैव बाध्यत्वादिति भावः । असत्वमादायार्थान्तरतापरिहाराय पक्षविशेषणम् । सत्ख्याति-वादिनं प्रति पक्षविशेषणमसिद्धमित्यत उक्तम् ‘असत्ख्यातिवादिनं च प्रति’ इति । शून्यवादिनं प्रतीत्यर्थः । ख्यातिबाधान्यथाऽनुपपत्तिविपर्ययपर्यवसानलब्धमिदमनुमानद्वयमिति मन्तव्यम् ॥ नाप्रसिद्धेति ॥ सद्वैलक्षण्यमात्रस्य संसर्गादौ प्रसिद्धत्वादिति भावः । कथमनेनानुमानद्वयेनानिर्वाच्यसिद्धिरित्यत आह ॥ पक्षधर्मेति ॥ पक्षविशेषणबलादित्यर्थः । पक्षधर्मताबलादिति पाठे तु स्वार्थे प्रत्ययो व्याख्येयो ऽसद्विलक्षणे विमते सद्वैलक्षण्यं सद्विलक्षणे चासद्वैलक्षण्यं सिद्ध्यद् अनिर्वाच्यत्वं विना न युक्तमिति तत्सिद्धिरिति भावः । एतेनेत्युक्तं विशदयति ॥ व्याघातेति ॥ ‘असद्विलक्षणं विमतं’ इत्युक्त्या सत्वस्यैव प्राप्तेः पुनस्तत्र सद्वैलक्षण्यस्य साधने व्याघातः । एवं ‘सद्विलक्षणं विमतम्’ इत्युक्त्याऽसत्त्वस्यैव प्राप्तेः पुनस्तत्रासद्वैलक्षण्यसाधने व्याघात इत्यर्थः ॥ बाधेति ॥ आद्यानुमाने शुक्तिरूप्य-प्रपञ्चयोरुभयोरप्यनिर्वाच्यत्वेन यदा प्रपञ्चस्य पक्षत्वं तदा तत्रार्थक्रियाकारित्वरूपसत्वस्यैव सत्वात् तत्र सद्वैलक्षण्यसाधने बाधः । तथा रूप्यज्ञानस्यापि तन्मतेऽनिर्वाच्यत्वेन तस्यापि पक्षत्वे तत्र ‘एतावन्तं कालं भ्रम आसीत्’ इत्यनुभवेन सत्वस्यैव गृहीतत्वात् सद्वैलक्षण्य-साधने बाधः । तथा द्वितीयानुमाने रूप्यस्य पक्षत्वे ‘असदेव रजतं प्रत्यभात्’ इत्यनु-भवेनासत्वस्यैव गृहीतत्वात् तत्रासद्वैलक्षण्यसाधने बाध इत्यर्थः । सत्वासत्त्वरहिततयाऽ-सद्विलक्षणब्रह्मवदनिर्वाच्यत्वाभावोपपत्त्याऽर्थान्तरमादिशब्दार्थः ।

न्यायकल्पलता

॥ मिथ्यात्वभङ्ग इति ॥ प्रत्येकमभावानां साध्यत्वेंऽशे सिद्धसाधनम् । ऐकाधि-करण्यावच्छिन्नानां साध्यत्वे साध्याप्रसिद्धिः । परस्परविरहरूपाणां सामानाधिकरण्यायोगा-द्व्याघातश्चेत्यर्थः ॥ दोषस्येति ॥ सत्वराहित्यस्य प्रातिभासकत्वे ब्रह्मवत्सत्त्वस्य पारमार्थि-कत्वापत्तिरित्यर्थः ॥ भेदेति ॥ वैलक्षण्यस्य भेदरूपत्वादित्यर्थः । अनिर्वाच्यसाधकानु-मानस्यानुकूलतर्कवत्ताशङ्कां निरस्यति ॥ वक्ष्यमाणेति ॥ प्रत्यक्षाविरोधमाशङ्क्य परिहरति ॥ न च सत्त्वेति ॥ नृशृृङ्गेति ॥ असत्त्वेन निश्चितस्य नरविषाणादेरसत्त्वबुद्धित इत्यर्थः । एतेन तस्यापि सत्त्वराहित्यविषयत्वमस्तु न तु तदनुरोधेनैतस्यासद्विषयत्वं समानाकार-प्रतीत्योरपि विचित्रविषयत्वसम्भवादित्यपास्तम् ॥ आद्यद्वितीययोरिति ॥ सत्ताजातेरर्थ-क्रियाकारित्वरूपस्य वा सत्त्वस्य जगति सत्त्वात्तदभावरूपासत्त्वस्य च रूप्येऽपि सत्त्वा-दित्यर्थः ॥ तृतीयचतुर्थयोरिति ॥ बाध्यत्वरूपस्याप्रामाणिकत्वरूपस्य चासत्त्वस्य तव मते प्रपञ्चे मतद्वयेऽपि रूप्ये विद्यमानत्वेनोभयत्रापि प्रपञ्चरूप्ययोरसत्वराहित्यांशे बाध इत्यर्थः ॥ पञ्चम इति ॥ रूप्यप्रपञ्चयोरशून्यत्वात् ॥ उक्तन्यायेनेति ॥ सत्त्वनिषेधेऽ-सत्त्वापरपर्यायस्य शून्यत्वस्य प्राप्त्या रूप्यप्रपञ्चयोरसत्त्वांशे बाध इत्यर्थः ॥ षष्ठेत्विति ॥ प्रपञ्चे ब्रह्मत्वरूपसत्त्वाभावेऽप्यबाध्यत्वरूपं सत्त्वं तत्र न निषिद्धं स्यादित्यर्थः । किं चेत्यादिपूर्ववद्योज्यम् ॥ सत्त्वासत्त्वे इति ॥ संयोगतदत्यन्ताभावयोः सामानाधि-करण्याभावान्न तत्र व्यभिचार इति भावः । यथा सत्त्वासत्त्वयोर्न परस्परविरहानात्मकत्वं तथोक्तम् ॥ आद्य इति ॥ सद्विलक्षणत्वासद्विलक्षणत्वादौ समानाधिकरणात्यन्ताभाव-प्रतियोगित्वे सदसदाद्यात्मकं किञ्चिदापद्येतेत्यर्थः ॥ ब्रह्मण इवेति ॥ अभिधानत्वाभावेन यथा ब्रह्मणोऽवाच्यत्वं तथा तत एव घटादेरप्यवाच्यत्वं स्यादित्यर्थः ॥ अत्यन्ताभाव-प्रतियोगित्व इति ॥ अत्यन्ताभावप्रतियोगित्वस्या प्यत्यन्ताभावप्रतियोगित्वे यन्निष्ठा-त्यन्ताभावप्रतियोगित्वमत्यन्ताभावप्रतियोगित्वस्य तत्रैव व्यभिचार इत्यर्थः । एतेन प्रपञ्च-निष्ठव्यतिरेकप्रतियोगित्वसत्त्वासत्त्वोभयवृत्ति । प्रपञ्चनिष्ठव्यतिरेकप्रतियोगिमात्रवृत्तित्वात् । व्यवहार्यत्ववदिति निरस्तम् । उपसंहरति– तस्मादिति ॥ एतेनेत्युक्तमेव विशदयति– व्याघातेति ॥

**॥ इति अनिर्वाच्यसाधकानुमानभङ्गः ॥ **