यदप्युच्यते अहमर्थो नात्मा पश्चात्परामर्शान्यथानुपपत्त्या ..
श्रीवेदव्यासाय नमः
पदवाक्यप्रमाणपारावारपारीण–सर्वतन्त्रस्वतन्त्र–श्रीव्यासतीर्थविरचितम्
६६. अहमर्थस्यानात्मत्वभङ्गः
न्यायामृतं
यदप्युच्यते अहमर्थो नात्मा पश्चात्परामर्शान्यथानुपपत्त्या सुषुप्तौ स्वतः प्रकाशमानस्यात्मनः सद्भावेऽप्यनेवंविधस्याहमर्थस्याभावाद्, ‘अथातोऽहङ्कारा-देशो ऽथात आत्मादेशः’ इति श्रुतौ पृथगुपदेशाच्च, ‘महाभूतान्यहङ्कार’ इति स्मृतावहङ्कारस्य क्षेत्रज्ञात्पार्थक्येन क्षेत्रत्वोक्तेश्च । तस्मादहमनुभवा-मीत्यात्मानुबन्ध्यनुभवस्याहं कर्तेत्यनात्मानुबन्धि कर्तृत्वादेश्चाश्रयोऽहङ्कारः, चिदचित्संवलनात्कत्वादध्यस्तः । यदि च सुषुप्तावहमर्थः प्रकाशेत, तर्हि स्मर्येत ह्यस्तन इवाहङ्कारः, अनुभूते स्मरणनियमाभावेऽपि स्मर्यमाणात्म-मात्रत्वादिति ।
तत्र न तावत् स्वप्रकाशत्वास्वप्रकाशत्वाभ्यां सुषुप्तावात्माहमर्थयोः प्रकाशाप्रकाशौ । अहमर्थः स्वप्रकाशात्मान्य इत्यस्याद्याप्यसिद्ध्याऽन्योन्या-श्रयात् । नापि परामार्शापरामर्शाभ्याम्, अहमस्वाप्सं न किञ्चिदहमवेदिष-मित्यहमर्थस्यैव परामर्शात् ।
अहमर्थे परामर्शो न चेत् स कथमात्मनि ।
अहंज्ञानान्नान्य आत्मपरामर्शो हि दृश्यते ॥
अस्वाप्समित्यत्रापि उत्तमपुरुषप्रयोगयोग्याहमर्थस्यैव स्फुरणात् । उक्तं च विवरणेऽपि ‘अन्तःकरणाविशिष्ट एवात्मनि प्रत्यभिज्ञानं ब्रूमो, न निष्कलङ्के, तस्य मोक्षावस्थायिनः शास्त्रैकसमाधिगम्यत्वात्’ इति । यदि चेदमर्थ-व्यावृत्तोऽहमर्थो न परामृश्येत, तर्ह्येतावन्तं कालं सुप्तोऽहं वाऽन्यो वेति संशयादि स्यात्, न त्वहमेवेति निश्चयः । ननु परामृश्यमानात्मन एवं प्रत्यक्त्वात्तथा निश्चय इति चेत्, प्रत्यक्त्वं न तावच् चिन्निर्भास्यप्रतिद्वन्द्वि चित्त्वम् अन्यत्वप्रतिद्वन्द्वि स्वत्वं वा चिदस्वपीदिति वा स्वयमस्वपीदिति वा परामर्शापातेनाहमिति परामर्शायोगात् । घटादिः स्वस्माद् भिन्नो नेत्यादि-प्रतीत्यात्मनीव घटादावपि स्वत्त्वस्य सत्त्वाच्च । नापि युष्मदर्थरूपपरा-ग्व्यावृत्तत्वम्, अहमर्थस्यैव तद्व्यावृत्तेः । न हि त्वन्मते आत्मनः पराग्व्यावृत्तिः । विवरणे ‘आत्मनः सर्वात्मकत्वान्न पराग्व्यावृत्तिरहमुपरागादेव व्यावृत्यवभासः’ इत्युक्तेः । तस्मादहमर्थत्वमेव प्रत्यक्त्वं वाच्यमिति घट्टकुट्टीप्रभातवृत्तान्तः । ननु नाहमंशे परामर्शः किं तु परामृश्यमान आत्मा इदानीं जातेनान्तःकरणेनावच्छेदादहन्त्वं प्राप्तस्तथानुभूयत इति चेन्न, न किञ्चिदहमवेदिषमित्यादावज्ञानाद्यंशेऽप्यपरामर्शत्वापातात् । न ह्यज्ञानादिकं निराश्रयमन्याश्रयं वा परामृश्यते, किं त्वहमर्थाश्रयमेव । एतावन्तं कालमहं स्वप्नं पश्यन्नासं जाग्रदासमित्यत्रेवाहमस्वाप्समित्यत्राप्यहमंशे परामर्शत्वानु-भवाच्च । अन्यथा यः पूर्वं दुःखी सोऽधुना सुखी जात इतिवद् यः पूर्वं मदन्यः सुप्तः सोऽधुनाऽहं जात इति धीः स्यात् ।
नन्वहङ्कारे परामृश्यमानात्मैक्यारोपात्तज्ज्ञाने परामर्शत्वाभिमान इति चेन्न, अपरामर्शे परामर्शत्वारोपादर्शनात् । सिद्धेऽहमर्थस्यात्मान्यत्वे परामृश्य-मानात्मैक्यारोपः, सिद्धे च तस्मिन्सुषुप्तावप्रकाशेनाहमर्थ स्यात्मान्यत्व-मितीतरेतराश्रयाच्च । अहमित्यतोऽन्य आत्मपरामर्शो नेत्युक्तत्वेन दृष्टहाना-दृष्टकल्पनापाताच्च । एतेन सुषुप्तावहमर्थप्रकाशे स्मर्येत ह्यस्तन इवाहङ्कार इति निरस्तम् । अहंशब्दोल्लेखिपरामर्शापादने सुषुप्तौ तदुल्लेख्यनुभवाभावादेव तदभावोपपत्तेः । तावन्मात्रेण च ह्यस्तनवैषम्यात् । अहमर्थविशेष्य-कस्याहन्त्वप्रकारकस्य वा परामर्शस्यापादने इष्टापत्तेः । स्मर्यते हि एतावन्तं कालं सुखमहमस्वाप्समिति सुषुप्तिकालीनसुखावच्छिन्नोऽहमर्थः । अन्यथा स्यर्येत ह्यस्तन इवात्मेति चोद्यं निरुत्तरं स्यात् । ननु तथाप्येतावन्तं काल-महमित्यभिमन्यमान आसमिति परामर्शः स्यादिति चेत्, कर्णे स्पृष्टः कटिं चालयति । अहमर्थप्रकाशेन तदभिमानपरार्शापादनस्य व्यधिकरणत्वात् । अन्यथा तवाप्यात्मेत्यभिमन्यमान आसमिति परामर्शः स्यात् । तस्मा-त्सुषुप्तावहमर्थः प्रकाशत एव । न किञ्चिदहमवेदिषमित्यज्ञानपरामर्शस्य त्वात्माद्यज्ञानादन्यदिवाहमर्थाज्ञानादन्यदेवाज्ञानं विषयः, अन्यथा विरोधात् । या तु न विजानात्ययमहमस्मीति सुषुप्तिविषया श्रुतिः, सापि नात्मानं न परांश्चेति सुषुप्तावात्माज्ञानश्रुतिवद्विशेषाज्ञानपरा ।
किं च सौषुप्तिकाज्ञानादिस्मर्तृत्वं किमनहमर्थस्य अविद्यावच्छिन्न-चैतन्यस्य ? अन्तःकरणावच्छिन्नस्याहमर्थस्य वा ? नाद्यः, योऽहमकार्षं सोऽहं सौषुप्तिकाज्ञानादि स्मरामीत्यबाधितानुभवात् । अन्त्ये त्वहमर्थस्यैेव तदनु-भवितृत्वं वाच्यम् । स्मृतिसंस्कारानुभवानामेकाधिकरणानामेव कार्यकारणा-भावात् । योऽहमन्वभूवं सोऽहं स्मरामीति प्रत्यभिज्ञानाच्चेति सुषुप्तावप्यहमर्थ-सिद्धिः । यद्यपि चैत्रमैत्रादिसाधारणं चैतन्यमेकं जीवत्वोपाध्यविद्यैक्याज् जीवश्चैकः, तथापि तयोरस्मर्तृत्वात् स्मर्तुश्चाहमर्थस्याविद्यावच्छिन्नानु-भवितृचैतन्यादन्यत्वेन नानुभवितृस्मर्त्रोरैक्यम् । यद्यप्यविद्या चैतन्यं प्रत्यवच्छेदिका, अन्तःकरणं तु अविद्यावच्छिन्नचैतन्यं प्रत्येवावच्छेदकं, न तु स्वातन्त्र्येण । तथाप्यविद्यान्तःकरणरूपोपाधिभेदे शुद्धचैतन्याविद्यावच्छिन्न-चैतन्यरूपोपधेयभेदे च सति मठाकाशतत्स्थघटाकाशयोरिव सुतरामुपहितभेदेन प्रत्यभिज्ञानविरोधो दुस्तरः । किं च सुषुप्तावहमर्थाभावेऽहं निर्दुःखः स्यामितीच्छया सुषुप्तौ प्रवृत्त्ययोगः । योऽहं सुषुप्तः सोऽहं जागर्मीति-प्रत्यभिज्ञाबाधश्च । योऽहं पूर्वेद्युरकार्षं सोऽहमद्य करोमीति प्रत्यभि-ज्ञानानुपपत्तिश्च, अहङ्कारव्यक्तिभेदात् । कृतहानाकृताभ्यागमप्रसङ्गश्च, कर्तुर्भोक्तुश्चाहमर्थस्य भिन्नत्वाद्, अभिन्ने चैतन्ये कर्तृत्वाद्यभावात् । कर्तृत्वाद्यारोपस्य च देहादावपि सत्त्वात् । अहं करोमीत्येव प्रतीत्याहमर्था-न्यात्मनि कर्तृत्वारोपस्याप्यभावाच्च । किं च अहङ्कार एव क्रियाशक्त्या प्राणः, विज्ञानशक्त्या मन इति गीयत इति त्वन्मतम् । तथा च सुषुप्तावहङ्कारविलये प्राणकार्यश्वासादि न स्यात् । ननु प्राणस्याहङ्काराद् भेदपक्षेऽहङ्कारस्य लयो युक्तः । अभेदपक्षेऽपि प्राणांशं विहायाविशिष्टांशस्यैव लयः कल्प्यत इति चेत्, न, प्राणस्याहमर्थत्वाभावे कर्तृत्वस्य प्राणोपाधिकत्वेनाहं कर्तेति बुद्ध्ययोगात् । अहमर्थत्वे सुषुप्तावहमुल्लेखापातात् । किं च न सुषुप्तावन्तःकरणस्य लयः ‘अथ हैतत्पुरुषः स्वपिति’ इत्यारभ्य ‘गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मनः’ इत्यादिश्रुतौ मनआदीनामुपरमस्यैवोक्तेः । ‘अथात आत्मादेश’ इति श्रुतौ चात्मनस्त्वन्मते स एवाधस्तात्’ इत्युपदिष्टेन भूम्नेवाहङ्कारेणाप्यैक्येऽपि पृथगुपदेशो युक्तः ।
ननु भूमात्मनोर्भिन्नत्वेन प्रत्यक्षसिद्धयोः पृथगुपदेशो ऐक्यार्थः, द्वयोः सार्वात्म्यायोगात् । अहङ्कारस्य त्वात्मैकत्वेन प्रत्यक्षसिद्धस्य पृथगुपदेशो भेदार्थ इति चेन्न, अहमर्थादन्यस्यात्मनः भूमाख्यब्रह्मभिन्नत्वेन प्रत्यक्षासिद्धत्वा-त्तयोरुपदेशो भेदार्थः । अहमर्थस्य तु ब्रह्मभिन्नत्वेन प्रत्यक्षसिद्धत्वात्तयोरुपदेश ऐक्यार्थ इति वैपरीत्यापत्तेः । त्वत्पक्षे श्रुत्युक्तानां भूमाहङ्कारात्मनां बिम्बप्रतिबिम्बमुखस्थानीयाविद्योपाधिकब्रह्मजीवचिन्मात्रत्व सम्भवेनाहङ्कारस्य जीवात्पार्थक्यासिद्धेश्च । ‘स एवेदं सर्वम्’ आत्मैवैदं सर्वम् ‘इत्युपसंहाराणां स एवाधस्तादहमेवाधस्तादात्मैवाधस्तात्’ इत्युपक्रमैः ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इत्यादिस्मृतिभिश्च सर्वगतत्वपरत्वेन सार्वात्म्योपदेशाभावाच्च । सर्वगत-त्वस्य चानेकेषु सम्भवात् । भूमात्मोपदेशाभ्यामेव ब्रह्मात्मैक्यसिद्ध्या मध्येऽ-हङ्कारोपदेशवैयर्थ्याच्च । ननु परोक्षस्य ब्रह्मण आपरोक्ष्याय स्थूलारुन्धतीन्याये-नाहङ्कारैक्योक्तिरिति चेन्न, त्वत्पक्षे प्रत्यगर्थरूपस्यात्मन एवापरोक्षैकरसत्वेन तदैक्योक्त्यैवापरोक्षसिद्ध्या अहङ्कारे अविद्यमानसार्वात्म्योक्त्ययोगात् । आत्मन आपरोक्ष्याभावे चात्मब्रह्मभेदस्य प्रत्यक्षत्वोक्त्ययोगात् । अपरोक्षाहङ्कारैक्योप-देशलब्धापरोक्ष्यस्य परोक्षात्मैक्योपदेशेन हान्यापाताच्च । श्रुत्यर्थस्तु–
भूमा नारायणाख्यः स्यात्स एवाहङ्कृतिः स्मृतः ।
जीवस्थस्त्वनिरुद्धो यः सोऽहङ्कार इतीरितः ॥
अणुरूपोऽपि भगवान्वासुदेवः परो विभुः ।
आत्मेत्युक्तः स च व्यापी…………….॥
इत्यादि छान्दोग्यभाष्योदाहृतस्मृत्याऽवगन्तव्यः ।
मोक्षधर्मे च–
अनिरुद्धो हि लोकेषु महानात्मा परात्परः ।
योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् ॥
सोऽहङ्कार इति प्रोक्तः सर्वतेजोमयो हि सः ॥ इति ।
सूत्रं च– सैव हि सत्यादय इति । अन्यथाऽहङ्कारस्य व्याप्त्युक्त्ययोगात् । अहङ्कारश्चाहङ्कर्तव्यं चेति श्रुतौ महाभूतान्यहङ्कार इति स्मृतौ च महत्तत्वकार्यं मनआदिकारणं वैकारिकादिभेदेन त्रिविधं च तत्त्वमुच्यते, न त्वहमर्थः,
महत्तत्वाद्विकुर्वाणाद्भगवद्वीर्यचोदितात् ।
क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत ॥
वैकारिकस्तैजसश्च तामसश्चेत्यतो भवः ।
मनसश्चेन्द्रियाणां च भूतानां महतामपि ॥ इत्यादिस्मृतेः ।
अन्यथा संविद्वाचिनो बुद्धिशब्दस्य बुद्धिरव्यक्तमेव चेति क्षेत्रे प्रयोगात् संविदपि क्षेत्रं स्यात् । अहङ्कारशब्दस्य दम्भाहङ्कारसंयुक्ता इत्यादौ देहेऽहम्बुद्धौ गर्वे च प्रयोगेण गर्वोऽभिमानोऽहङ्कार इत्यभिधानेन चाहमर्थवाचित्वनियमा-भावाच्च । अहमर्थेऽहंशब्दप्रयोगेऽप्यहङ्कारशब्दाप्रयोगाच्च । आत्मवाचिनोऽहं-शब्दस्य दकारान्तास्मच्छब्दजत्वेनाहङ्कारतत्त्ववाचिनश्च मकारान्ताव्ययत्वेन भेदस्य स्पष्टत्वाच्च । अहमर्थे आत्मानात्मधर्मदर्शनं त्वसिद्धं कर्तृत्वादेरात्म-धर्मत्वस्य वक्ष्यमाणत्वात् । अन्तःकरणधर्मत्वेऽपि गौरोऽहमित्यादौ देहस्येवाहं कर्तेत्यत्राप्यन्तःकरणस्याहमर्थानन्तर्भावेऽपि धर्ममात्रारोपसम्भवाच्च । या तु परकीयाहमर्थे अयमिति धीः सा अहमर्थस्यैव, प्रतिसम्बन्धिभेदेनेदमर्थत्वात्, न त्वहमर्थे, अनात्मांशसद्भावात् । अन्यथा परात्मन्ययमितिधीर्न स्यात् । न च ज्ञानानन्दरूप आत्माऽहं सुखीत्यहमर्थाद् भेदेन भातीति युक्तम्, अहमर्था-श्रितत्वेन प्रतीयमानयोरनयोरात्मत्वायोगात् । अस्याः प्रतीतेर्भ्रान्तित्वे च विरोधात् । न चात्मा सर्वात्मकः, अहमर्थस्त्विदमर्थव्यावृत्त इति वाच्यम्, सर्वात्मकेऽहमर्थे आत्मनीवेदमर्थव्यावृत्तिधियो भ्रान्तित्वोपपत्तेः । यत्त्वह-मर्थोऽनात्मा, अहम्प्रत्ययविषयत्वाच्छरीरवदिति । तन्न, त्वन्मतेऽअहमर्थान्त-र्गताधिष्ठानभूतचितोऽपि तत्प्रत्ययविषयत्वात् ।
किं च त्वयाऽऽत्मनो गौरोऽहमित्यनात्मारोपाधिष्ठानत्वं, मा न भूवं भूयासमित्यादिना परमप्रेमास्पदत्वमहमर्थस्य स्वसत्तायां प्रकाशव्यतिरेकवैधुर्ये-णात्मनः स्वप्रकाशत्वं चोक्तम्, तत्सर्वमहमर्थस्यानात्मत्वे न युक्तम् । न च प्रेमास्पदात्मैक्यारोपादहमर्थे तद्धीः, अन्योन्याश्रयात् । अहमर्थप्रेम्णोऽ-न्यस्यात्मप्रेम्णोऽननुभावाच्च । अहिते हितबुद्ध्या प्रेमोत्पत्तावपि अप्रेमास्पदे तदास्पदतारोपस्यादर्शनाच्च ।
वाचस्पतिना–
समारोप्यस्य रूपेण विषयो रूपवान् भवेत् ।
विषयस्य तु रूपेण समारोप्यं न रूपवत् ॥
इत्युक्तत्वेनाध्यस्तान्तःकरणगताप्रेमास्पदत्वस्यैवात्मनि प्रतीत्यापत्तेश्च । त्वद्रीत्या सुखानुभवरूपस्यात्मनो ऽहं सुखमनुभवामीत्यहमर्थाद् भेदेनैव प्रतीतेश्च । किं च मोक्षे अहमर्थाभावे आत्मनाशो मोक्ष इति बाह्यमतापत्तिः, प्रेमास्पदस्याहमर्थस्य च त्वन्मतेऽपि नाशात् । तदन्यस्य शून्यादेस्तन्मतेऽप्य-नाशात् । अपि चैवाहं मुक्तः स्यामितीच्छा न स्यात् ।
नन्वात्मन एव मुक्तिरिष्यते अहङ्कारे तु तदभेदारोपान्मुक्तः स्यामितीच्छा यथा शरीरस्यैव पुष्टीच्छायामप्यात्मनि तदैक्यारोपादहं पुष्टः स्यामितीच्छा यथा आत्मन एव सुखेच्छायामपि तदैक्यारोपाच्छरीरं सुखि स्यादितीच्छेति चेन्न, अन्योऽन्याश्रयस्योक्तेः । ‘तत्र माममृतं कृधि’ ‘ज्योतिरहं विरजा विपाप्मा भूयासम्’ इत्यादिश्रुतिविरोधाच्च । तत्र शरीरं पुष्टं स्यादित्यपीच्छावद् अहं सुखी स्यामित्यपीच्छावच्चेह चिन्मात्रं मुक्तं स्यादितीच्छायाः कदाप्यदर्शनेन मुक्तेरनिष्टत्वापाताच्च । यः कश्चिदात्मा मुक्तः स्यादितीच्छया च न मुमुक्षुप्रवृत्तिः । ममात्मा मुक्तः स्यादितीच्छा त्वहमर्थस्यैव मुक्तीच्छा । न च स्वतः पुरुषार्थ इच्छा नियन्तुं शक्या बौद्धतार्किकादिनियमितेच्छया आत्मनाशसुखानाशादेरपि पुमर्थत्वापातात् । किं चाहमर्थोऽन्तःकरण-गर्भितश्चेन्मम मन इति धीर्न स्यात् तदवच्छिन्नस्य पुनस् तदनन्वयात् । किं चैवं मनः स्फुरति मनोऽस्तीति ज्ञानादहमिति ज्ञानस्य वैषम्यानुभवो न स्याच् चिदचित्संवलनविषयत्वाविशेषात् । किं च सर्वाऽपि भ्रान्तिर्द्व्यंशविषया अन्यथा निरधिष्ठानभ्रमापातात् । न चाहमिति बुद्धेर्द्व्यंशत्वमनुभूयते । यदि कल्प्यते तदाऽऽत्मेति बुद्धेरपि द्व्यंशत्वं कल्प्यताम् । ननु रूप्यं स्फुरति रूप्यमस्तीत्यत्रेवाहं स्फुराम्यहमस्मीति द्व्यंशता भाति । रूप्यभ्रमे त्विदमंशा-वच्छिन्नं स्फुरणमधिष्ठानमितीदं रूप्यमितिधीः, इह तु स्फुरणमात्र-मधिष्ठानमिति स्फुरामीत्येव धीरिति चेन्न । त्वन्मते भ्रमज्ञानस्याप्यध्य-स्तत्वेनाधिष्ठानत्वायोगात् । अहमिच्छामीतिवदहं स्फुरामीत्यहमर्थाद् भिन्नत्वेन भासमानस्य स्फुरणस्य तदैक्यारोपाधिष्ठानत्वायोगाच्च । बाधकेन बाधिष्य-माणस्याध्यस्तधर्मत्वेन भासमानस्य चास्तित्वस्याधिष्ठानत्वायोगाच्च । त्वदभिप्रेतस्याहमित्यत्रैवांशद्वयमित्यस्यासिद्धेश्च । तस्मान्नाहमर्थस्यानात्मत्वे मानम् । आत्मत्वे तु प्रत्यक्षं तावत् ।
अनुमानानि च– अहमर्थः मोक्षान्वयी, तत्साधनकृत्याश्रयत्वात्, सम्मतवत् । ‘अहमर्थोऽनर्थनिवृत्याश्रयः, अनर्थाश्रयत्वात्, सम्मतवत् ।’ न चासिद्धिः, अहमज्ञो ऽहं दुःखमनुभवामीत्यबाधितानुभवात् । अनात्मत्वं नाहमर्थनिष्ठं, अनात्ममात्रवृत्तित्वाद् घटत्ववदित्यादीनि । श्रुतयश्च कस्मिन्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठा-स्यामिति, स प्राणमसृजत हन्ताहमिमास्तिस्रो देवता इत्यादौ जगत्कारणे सति प्राणमनस्सृष्टेः प्रागेवाहन्त्वोक्तेः । तदात्मानमेवावेदहं ब्रह्मास्मीत्यत्र चावधारणेन शुद्धात्मनोऽहन्त्वोक्तेः । अनवद्यस्य ब्रह्मणोऽहमुल्लेखोक्तेः ।
अहमित्येव यो वेद्यः स जीव इति कीर्तितः ।
स दुःखी स सुखी चैव स पात्रं बन्धमोक्षयोः ॥
इति श्रुतौ मोक्षान्वयोक्तेश्च । स्मृतयश्च ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति’ इति स्वप्रपन्नमायानिरसनशक्तस्येश्वरस्याहमुल्लेखोक्तेः । ‘अहं कृत्स्नस्य जगतः प्रभवः प्रलस्तथा’ इत्यत्राहमर्थस्य मन आदिसर्वकारण-त्वोक्तेः । ‘न चैव न भविष्यामः सर्वे वयमतः परम्’ इत्यत्रानिवृत्युक्तेः । ‘वेदैश्च सर्वैरहमेव वेद्यः’ इत्यत्र सर्ववेदवेद्यत्वोक्तेः । ‘ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्’ इत्यत्र मुक्तप्राप्यत्वोक्तेः । ‘अहमात्मा गुडाकेश’ इत्यादावात्मत्वाद्युक्तेः । एवं चाहं ब्रह्मास्मि तद्योऽहं सोऽसावित्यादौ परेणापि लक्षणा नाश्रयणीया । तस्मात्–
अज्ञोऽहमित्याद्यध्यक्षात् तदात्मानमिति श्रुतेः ।
अहमात्मेति च स्मृत्याऽहन्त्वं शुद्वात्मनः स्थितम् ॥
श्रीमधुसूदनसरस्वतीविरचिता
अद्वैतसिद्धिः
ततश्चाहङ्कारादिसृष्टिः । ननु अहमर्थ आत्मैव, तस्य कथमविद्यातः सृष्टिः? न च सुषुप्तौ स्वयं प्रकाशमानस्यात्मनः सम्भवेऽप्यनेवंविधस्याहमर्थस्याभावः, यदि च सुषुप्तावहमर्थः प्रकाशेत, तर्हि स्मर्येत ह्यस्तन इवाहङ्कारः, अनुभूते स्मरणनियमाभावेऽपि स्मर्यमाणात्म-मात्रत्वादिति वाच्यम्, हेतोरसिद्धेः, तर्के इष्टापत्तेः । न ह्यद्यापि स्वप्रकाशात्मान्यत्वमहमर्थे सिद्धमस्ति । आत्मान्यत्वेनाप्रकाशत्वसाधने तेन च तदन्यत्वसाधने अन्योन्याश्रयः । न चाहमर्थस्यापरामर्शः, सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति तस्यैव परामर्शादिति चेन्न, अहङ्कारस्तावदिच्छादिविशिष्टतयैव गृह्यत इत्यावयोः समम् । सुषुप्तौ च नेच्छादय इति कथं तदाऽहमर्थानुभवः? न च इच्छादिगुणविशिष्ट एवाहमर्थो गृह्यत इत्यत्र न नः सम्प्रतिपत्तिरिति वाच्यम्, गुणिग्रहणस्य गुणग्रहणव्याप्तत्वाद्, अन्यथा रूपादिहीनोऽपि घटः प्रथेत । न च रूपादिरहितानां तेषामसत्त्वं तत्र बीजमिति वाच्यम्, पूर्वरूपनाशाग्रिमरूपानुत्पत्तिक्षणाद्य-क्षणादौ तद्विनापि सत्त्वात् । एवं च गुणग्रहणे कथं गुणिग्रहणम् ? तथा च निर्गुण एवात्मा गृह्यत इति स्वीकर्तव्यम् । अनुभवाभावे च न तस्य जागरे परामर्शः । तथा चा-ज्ञानाश्रयत्वेन सुषुप्तावनुभूयमानादात्मनोऽहङ्कारो भिन्नः । एवमेवात्मान्यत्वे सिद्धे अस्वप्रकाशत्वसाधने नान्योन्याश्रयः । न च तर्हि ‘अहमस्वाप्सम्’ इत्यहमर्थस्य परामर्शानु-प्रवेशानुपपत्तिः, तदंशे परामर्शत्वासिद्धेः । एवं सत्यपि यथाऽज्ञानांशे तस्य परामर्शत्वं, तथोपपादितमधस्तात् । यद्यप्यहमस्वाप्समित्यादिज्ञानान्नान्य आत्मपरामर्शः, तथाप्यहमर्थस्य सुषुप्तिकालाननुभूतत्वेन तत्काले अज्ञानाश्रयत्वेन चानुभूतात्मन्येव परामर्शत्वपर्यवसानम् । अत एव चिदस्वपीत् स्वयमस्वपीदिति परामर्शाकारतापत्तिर्निरस्ता, तत्कालानुभूतान्तःकरण-संसर्गेण अहमित्याकारोपपत्तेः । यत्तूक्तं विवरणे– ‘अन्तःकरणविशिष्ट एवात्मनि प्रत्यभिज्ञानं ब्रूमः, न निष्कलङ्कचैतन्ये, तस्य मोक्षावस्थायिनः शास्त्रैकसमधिगम्यत्वाद्’ इति । तदत्र न विरोधाय, मोक्षावस्थायिनः शास्त्रैकसमधिगम्यत्वादिति हेतूक्त्या न निष्कलङ्क इति उपाधिमात्रविरहिणि प्रत्यभिज्ञाननिषेधेन चान्तःकरणपदस्य उपाधिमात्रपरत्वात् । तथा च सुषुप्तावप्यज्ञानोपहित एवात्मा गृह्यते । किं चान्तःकरणविशिष्टे प्रत्यभिज्ञाननिषेधो नाभिज्ञानिषेधोऽपीति न विरोधः सुषुप्तावभिज्ञाया एवोक्तत्वात् । न च यद्यहमर्थो न परामृश्येत तर्हि एतावन्तं कालं सुप्तोऽहमन्यो वेति संशयः स्यान् न त्वहमेवेति निश्चय इति वाच्यं सुषुप्तिकालानुभूतात्मैक्याध्यासादिति गृहाण । यथा पूर्वदिनानुभूतदेवदत्तादभिन्न-तयाऽनुभूते चैत्रे सोऽयं न वेति न संशयः किन्तु स एवेति निश्चयः । किञ्च निश्चये सति संशयाभावनियमः न तु निश्चयाभावे संशयनियमः । तदुक्तम्– ‘आरोपे सति निमित्तानुसरणम्, न तु निमित्तमस्तीत्यारोपः’ इति । न च एतावन्तं कालमहं स्वप्नं पश्यन्नासं जाग्रदास-मित्यत्रेवाहमस्वाप्समित्यत्रापि अहमंशे परामर्शत्वानुभवात् कथं तत्रापरामर्शत्वमिति वाच्यम्, परामृश्यमानात्मैक्यारोपात्तद्भानांशे परामर्शत्वाभिमानात् । न च अपरामर्शे परामर्शत्वारोपो न दृष्ट इति वाच्यम्, तद्भिन्ने तत्त्वेनानुभूयमाने परामर्शत्वारोपदर्शनात् ।
अत एव अहमर्थस्यात्मान्यत्वे यः पूर्वं दुःखी सोऽधुना सुखी जात इतिवद् यः पूर्वं मदन्यः सुषुप्तः सोऽधुना अहं जात इति धीः स्यादिति निरस्तम्, यथा दुःखित्वेन प्राक् ज्ञानं तथा मदन्यत्वेन प्राक् ज्ञानाभावात् । सुषुप्तावहमर्थाप्रकाशवत् तदन्यत्वस्याप्यप्रकाश एव । एवं च प्रागसत्त्वाग्रहणात् पूर्वकालगृहीतेनाभिन्नतया गृह्यमाणत्वाच्च नाहङ्कारे जन्मप्रत्ययः विवेकिनां चैतादृग्बुद्धाविष्टापत्तेः । न च सिद्धे अहमर्थस्यात्मान्यत्वे परामृश्यमानात्मैक्यारोपः सिद्धे च तस्मिन् सुप्तावप्रकाशेनाहमर्थस्यात्मान्यत्वसिद्धिरित्यन्योन्याश्रय इति वाच्यम् आत्मान्यत्वसिद्धेः प्रागेवाहमर्थापरामर्शस्य साधनाद्, अहमस्वाप्समित्यस्यैवात्मपरामर्श-त्वाङ्गीकारेण न दृष्टहानादृष्टकल्पनापत्तिः । अत एव च सुषुप्तावहमर्थप्रकाशे ह्यस्तन इव स्मर्येतेत्यत्र नेष्टापत्त्यवकाशः । किं च ‘एतावन्तं कालमहमित्यभिमन्यमान आसम्’ इति परामर्शः स्यात् । न च अहमर्थप्रकाशे तदभिमानापादनं कर्णस्पर्शे कटिचालनमिति वाच्यम्, तवैव हि तत् । अहमर्थमात्रसापेक्षतया तदभिमानप्रकाशयोरुभयोः समव्याप्ततया परस्पर-प्रकाशेन परस्परपरामर्शापादनस्या व्यधिकरणत्वात् । न च तवापि ‘आत्मेत्यभिमन्यमान आसम्’ इति परामर्शापत्तिः, अहङ्कारस्य तत्र तन्त्रतया तदभावे तदापादयितुमशक्यत्वात् । यत्तु सुषुप्तावहमर्थो भासत एव । ‘न किञ्चिदहमवेदिषम्’ इति अज्ञानपरामर्शस्यात्माद्यज्ञाना-दन्यदिवाहमर्थाज्ञानादन्यदेवाज्ञानं विषयः, अन्यथा विरोधाद् इति । तदज्ञानविजृम्भितम्, न हि साक्षिवेदनमज्ञानविरोधि । सुषुप्तौ च यथाहमर्थानवभासस् तथोक्तम् । न विजानात्यय-महमस्तीति श्रुतिरपि तदानीन्तनाहमर्थाज्ञाने प्रमाणम् । न चेयं श्रुतिर्नात्मानं न परांश्चेति सुषुप्तावात्माज्ञानश्रुतिवद्विशेषाज्ञानपरा ‘अहरहर्ब्रह्म गच्छन्ति सति सम्पद्य न विदुः’ इत्यात्मवेदनबोधकश्रुतिविरोधेन विशेषाज्ञानपरत्वं युक्तम् । न च प्रकृते तथा विरोधाभावात् ।
यत्तु अहमर्थस्तावत् स्मर्ता । स चाविद्यावच्छिन्नचैतन्यं वा ? अन्तःकरणा-वच्छिन्नचैतन्यं वा ? आद्ये योऽहमकार्षं सोऽहं सौषुप्तिकाज्ञानादि स्मरामीत्यनुभवविरोधः । अन्त्ये त्वहमर्थस्यैव तदनुभवितृत्वं वाच्यं स्मृतिसंस्कारानुभवानामेकाश्रयाणामेव कार्य-कारणभावाद्, ‘योऽहमन्वभूवं सोऽहं स्मरामि’ इति प्रत्यभिज्ञानाच्च इति । तन्न, दत्तोत्तर-त्वात् । उक्तं ह्यविद्यावच्छिन्नचैतन्यमनुभवितृ तदेव चान्तःकरणावच्छेदेनानुभूयमानं स्मर्त्रिति न तयोर्वैरूप्यम् । न च अविद्यावच्छिन्नचितोऽपि नैक्यमस्ति अन्तःकरणरूपोपाधिभेदेन भेदादिति वाच्यम्, अविद्यावच्छिन्न एवान्तःकरणावच्छेदात् । न च तथाप्यविद्यान्तःकरण-रूपोपाधिभेदेन मठाकाशतदन्तःस्थघटाकाशयोरिव उपहितभेदः स्यादिति वाच्यं दृष्टान्ता-सम्प्रतिपत्तेः । तयोरेवोपाध्योः परस्परमुपहितभेदकत्वं यौ परस्परानुपहितमुपधत्तः । अन्यथा कम्ब्वच्छिन्नग्रीवावच्छिन्नाकाशादन्य एव घटाकाशः स्यात् । न चैवं सुषुप्ता-वहमर्थाभावे अहं निर्दुःखः स्यामितीच्छया सुषुप्त्यर्थं प्रवृत्त्ययोगः, ‘कृशोऽहं स्थूलो भवामि’ इतिवत् प्रवृत्त्युपपत्तेः । न च तत्र कार्श्यादिनिष्कृष्टस्य शरीरस्यैव स्थौल्याधिकरणतया विवेकिनामुद्देश्यत्वमिति वाच्यम् प्रकृतेऽप्यन्तःकरणादिनिष्कृष्टस्यैव तदुद्देशविषयत्वात् ।
ननु ‘योऽहं सुप्तः सोऽहं जागर्मि’ ‘योऽहं पूर्वेद्युरकार्षं सोऽहमद्य करोमि’ इति प्रत्यभि-ज्ञानुपपत्तिर् अहमर्थस्य भेदात् । कृतहानाकृताभ्यागमप्रसङ्गश्च, कर्तुर्भोक्तुश्चाहमर्थस्य भिन्न-त्वाद्, अभिन्ने चैतन्ये कर्तृत्वाद्यभावात् तदारोपस्याप्यभावाद्, देहादावतिप्रसङ्गाच्चेति चेन्न, सुषुप्तौ कारणात्मना स्थितस्यैव उत्पत्त्यङ्गीकारेण सर्वोपपत्तेः । न च ‘अथ हैतत्पुरुषः स्वपिति’ इत्यारभ्य ‘गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मनः’ इत्यादिश्रुतौ मनआदीनामेवो-परमोक्तेर्नाहङ्कारोपरम इति वाच्यम्, मनस उपरमे तेनैवाहङ्कारोपरमस्यापि प्राप्तेः । अहङ्कारो हि अनुभवामीत्यात्मानुबन्ध्यनुभवस्याहं कर्तेत्यचिदनुबन्धिकर्तृत्वादेश्चाश्रयश् चिदचित्संवल-नात्मकत्वादध्यस्तः । तस्य चाचितोऽन्तःकरणस्योपरमे उपरतिः । ‘अथातोऽहङ्कारादेशो ऽथात आत्मादेशः’ इति श्रुतिरपि पृथगुपदेशेन पार्थक्ये प्रमाणम् ।
ननु आत्मनस्त्वन्मते ‘स एवाधस्तात्’ इत्युपदिष्टेन भूम्नेवाहङ्कारेणाप्यैक्येऽपि पृथगुपदेशो युक्तः । न च भूमात्मनोर्भिन्नत्वेन प्रत्यक्षसिद्धयोः पृथगुपदेश ऐक्यार्थः, द्वयोः सार्वात्म्या-योगाद्, अहङ्कारस्य तु आत्मैकत्वेन प्रत्यक्षसिद्धस्य पृथगुपदेशो भेदार्थ इति वाच्यम्, अहमर्थादन्यस्यात्मनो भूमाख्यब्रह्मभिन्नत्वेन प्रत्यक्षासिद्धत्वात्तयोरप्युपदेशो भेदार्थः, अहमर्थस्य तु ब्रह्मभिन्नत्वेन प्रत्यक्षसिद्धत्वात् तयोरुपदेश ऐक्यार्थ एव किं न स्यादिति चेन्न । अहङ्काराद् भिन्नात्मनो भूमरूपब्रह्मभिन्नत्वस्य प्रत्यक्षासिद्धत्वेऽपि तदभिन्नत्वस्यापि तदसिद्धतया उभयोः सार्वात्म्योपदेशानुपपत्तिसहकारेणास्याः श्रुतेस्तयोरभेदपरत्वमुचितम् । प्रकृते चाभेदपरत्वे विरोधः जडाजडयोरैक्यायोगात् । न च त्वन्मते भूमाहङ्कारात्मनां बिम्ब-प्रतिबिम्बमुखस्थानीया विद्योपाधिकब्रह्मजीवचिन्मात्रत्वसम्भवेनाहङ्कारस्य जीवात् पार्थक्या-सिद्धिरिति वाच्यम् । ‘यत्र नान्यत् पश्यति’ ‘स एवाधस्तात्’इत्यादिना भूमस्वरूपोक्त्यनन्तरं यत्रेत्यधिकरणाधिकर्तव्यनिर्देशात्स इति पारोक्ष्यनिर्देशाच्च द्रष्टृजीवादन्यत्वप्रसक्तौ तद्वारणार्थं ‘अथातोऽहङ्कारादेश’ इत्यहङ्कारेण भूमि्न निर्दिष्टे अहङ्कारस्य देहादिसङ्घाते अविवेकिप्रयोग-दर्शनात् तदभेदप्रसक्तौ निष्कृष्टाहङ्कारकेवलात्मस्वरूपमादाय ‘अथात आत्मादेश’ इति द्रष्टृभेद उच्यत इत्येतादृशार्थपरत्वेन बिम्बप्रतिबिम्बकल्पनाया अत्रासम्भवात् । सम्भवे वा अविद्योपाधिकजीवस्याहङ्कारत्वोक्तिः स्थूलारुन्धतीन्यायेन । अत एव ‘स एवेदं सर्वम्’ ‘अहमेवेदं सर्वम्’ ‘आत्मैवेदं सर्वम्’ इत्याद्युपसंहाराणां ‘स एवाधस्तादहमेवाधस्तादात्मै-वाधस्तात्’ इत्युपक्रमैः ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इत्यादिस्मृतिभिश्च सर्वगतत्वपरत्वेन न सार्वात्म्यपरत्वम्, येनाहम्पदस्य निष्कृष्टाहङ्कारचैतन्यपरत्वं स्यात् । सर्वगतत्वं चानेकेष्वपि सम्भवत्येव । भूमात्मोपदेशाभ्यामेव ब्रह्मात्मैक्यसिद्ध्या मध्ये अहङ्कारोपदेशवैयर्थ्यं चेति निरस्तम् । ‘स भगवः कस्मिन् प्रतिष्ठित’ इति प्रश्नानन्तरं किं क्वचिदधिष्ठानत्वमात्रं पृष्टम् ? परमार्थतः क्वचिदधिष्ठितत्वं वा ? आद्ये स्वे महिम्नीत्युक्त्वा द्वितीये भूमातिरिक्तमेव नास्तीत्येतदर्थपर ‘अन्यो ह्यन्यस्मिन् प्रतिष्ठित’ इति पूर्ववाक्यानुसारेण ‘स एवाधस्तात्’ इत्यादेरपि सार्वात्म्यपरत्वे निश्चिते एकत्रैव वाक्ये उपक्रमादिकल्पनेनार्थान्तराकल्पनात् कल्प्यमानस्य च प्रकृतार्थानुपपादकत्वात्, सर्वगता जातिरिति पक्षे व्यापकजातेरिव भूम्नोऽपि अन्याधिष्ठितत्वसम्भवात्, ‘सर्वं समाप्नोषि’ इत्यादिस्मृतेः सार्वात्म्यपरत्वस्य उपपादि-तत्वात् । नापि मध्ये अहङ्कारोपदेशवैयर्थ्यम्, ब्रह्मण आपरोक्ष्याय अहङ्कारैक्योक्तेः । न च त्वन्मते प्रत्यगर्थरूपस्यात्मन एवापरोक्षैकरसत्वेन तदैक्योक्त्यैवापरोक्ष्यसिद्ध्या अहङ्कारे अविद्यमानसार्वात्म्योक्त्ययोग इति वाच्यम्, आत्मसम्बन्धेनैवाहङ्कारोऽप्यपरोक्ष इत्यात्मैक्या-देवापरोक्ष्यं यद्यपि सिद्धं, तथाप्यहङ्कारे आपरोक्ष्यस्य सुप्रसिद्धत्वादहङ्कारोक्तिर्नायुक्ता । यत्तु–
‘भूमा नारायणाख्यः स्यात् स एवाहङ्कृतिः स्मृतः ।
जीवस्थस्त्वनिरुद्धो यः सोऽहङ्कार इतीरितः ।
अणुरूपोऽपि भगवान् वासुदेवः परो विभुः ।
आत्मेत्युक्तः स च व्यापी’
इत्यादिस्मृत्या श्रुतेः सार्वात्म्यं नार्थः, किं तु सर्वगतत्वम् इति । तन्न, श्रुतिविरोधेन स्मृतेरेव सार्वात्म्यपरत्वम्, न तु स्मृत्या श्रुतेरन्यथा नयनम् । न च मोक्षधर्मे
अनिरुद्धो हि लोकेषु महानात्मा परात्परः ।
योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् ॥
सोऽहङ्कार इति प्रोक्तः सर्वतेजोमयो हि सः ।
इत्यनेन ‘सैव हि सत्यादयः’ इति सूत्रेण साहङ्कारस्यात्मत्वम्, अन्यथा व्याप्त्युक्तिरयुक्ता स्यादिति वाच्यम्, ‘अहङ्कारश्चाहङ्कर्तव्यं च’ इति श्रुतेः ‘महाभूतान्यहङ्कार’ इति स्मृतेर् अहङ्कारस्य व्यापकत्वासम्भवाद् ‘अहं मनुरभवमित्यादाविवाहम्पदस्य निष्कृष्टाहङ्कार-चैतन्यपरत्वात् । ननु अनयोः श्रुतिस्मृत्योर्महत्तत्त्वकार्यं मनआदीनां कारणं वैकारिकादिभेदेन त्रिविधमहङ्कारादिपदवाच्यं विषयः न त्वहमर्थस् तथा च स्मृतिः–
महत्तत्वाद्विकुर्वाणाद्भगवद्वीर्यचोदितात् ।
क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत ॥
इत्यादेरविरुद्धार्थमादायोपपत्तेः । विरुद्धार्थत्वकल्पनायां ‘बुद्धिरव्यक्तमेव च’ इत्यत्र क्षेत्रे प्रत्युक्तबुद्धिशब्देन संविद उक्तौ संविदोऽपि क्षेत्रत्वापत्तिः । न च बुद्धिशब्दस्य नानार्थत्वम्, न त्वहङ्कारस्यात्मातिरिक्तार्थकत्वमिति वाच्यम्, ‘दम्भाहङ्कारसंयुक्ता’ इत्यादौ देहे अहम्बुद्धौ गर्वे च प्रयोगेण ‘गर्वोऽभिमानोऽहङ्कार’ इत्यभिधानेन चाहमर्थवाचित्वनियमाभावात्, तथा चात्मवाच्यहंशब्दोऽस्मच्छब्दसिद्धः, अहङ्कारशब्दोऽनात्मवाची । तत्पर्यायस्त्वहंशब्दो मान्ता-व्ययमिति चेन्न, मान्तदान्तत्वभेदेनार्थभेदकल्पनमयुक्तम् । सर्वेषामेव तेषां ‘अहम्’ इति प्रतीयमानाहङ्कारविषयत्वमेव, पर्यायतयैव प्रयोगदर्शनात् । अहङ्कारातिरिक्तात्मनि प्रयोगस्तु लक्षणया, मान्तदान्तत्वनानिर्धारिताहंशब्दस्याहङ्कारे प्रयोगदर्शनस्य नियामकत्वात् । यथा–
अनिरुद्धो हि लोकेषु महानात्मा परात्परः ।
योऽसौ व्यक्तव्यमापन्नो निर्ममे च पितामहम् ॥ इति ।
सोऽहङ्कार इति प्रोक्तः सर्वतेजोमयो हि सः ।
इत्यत्र लक्षणयाऽहङ्कारशब्द आत्मनीति । यत्तु अहमर्थे आत्मानात्मधर्मदर्शनमसिद्धम्, कर्तृत्वादेरात्मधर्मत्वाद् इति । तत्र कर्तृत्वादेरनात्मधर्मत्वं यथा तथा वक्ष्यामः । ननु अनात्मधर्मत्वेऽपि कर्तृत्वादेस्तदाश्रयस्याभानेऽपि कर्तृत्वादिकमात्मनि भासताम् ‘गौरोऽहम्’ इत्यत्र शरीरगतगौरत्वमिवेति चेन्न, दृष्टान्तासम्प्रतिपत्तेः, तत्रापि देहत्वेनाभानेऽपि गौरत्व-मनुष्यत्वादिना तत्प्रतीतेः ।
अनुमानं च अहमर्थो ऽनात्मा अहम्प्रत्ययविषयत्वात् शरीरवत् । न चाह-मर्थान्तर्गताधिष्ठानभूतचितोऽपि तत्प्रत्ययविषयत्वात् तत्र व्यभिचारः येन रूपेणाहम्प्रत्यय-विषयता तेन रूपेण तस्याप्यनात्मत्वात् स्वरूपेणाहम्प्रत्ययविषयत्वाभावान्न व्यभिचारः । अहमर्थः, आत्मान्यः, अहंशब्दाभिधेयत्वात्, अहङ्कारशब्दाभिधेयवत् । न चात्रासिद्धिः, पर्यायताया दर्शितत्वात् । न च त्वयाप्यात्मनो गौरोऽहमित्यनात्मारोपा धिष्ठानत्वं, मा न भूवं भूयासमित्यादिना परमप्रेमास्पदत्वं, अहमर्थस्य स्वसत्तायां प्रकाशाव्यभिचारेणात्मनः स्वप्रकाशत्वं चोक्तम्, तत्सर्वमहमर्थस्यानात्मत्वे न युक्तं स्यादिति वाच्यम्, इदम इवाधिष्ठानावच्छेदकत्वेनाधिष्ठानत्वोक्तेः । परमप्रेमास्पदत्वमहमर्थे आत्मैक्यारोपात् । न चैवमन्योन्याश्रयः सुषुप्तिकालीनप्रकाशाप्रकाशाभ्यां वैधर्म्येण भेदसाधनात् । न चाहमर्थ-प्रेम्णोऽन्यस्य प्रेम्णोऽननुभवः परामर्शसिद्धसुषुप्तिकालीनतादृशप्रेमानुभवस्य सत्त्वात् । न च अहिते हितबुद्ध्या प्रेमोत्पत्तिदर्शनेऽपि अप्रेमास्पदे प्रमास्पदतारोपो न दृष्ट इति वाच्यम्, अहमर्थे आत्मैक्यारोपनिबन्धनं प्रेमास्पदत्वम्, न तु स्वाभाविकमिति ब्रूमः, न तु प्रेमास्पदत्वारोपम् । अहमर्थात्मनोर्भेदेऽपि अहमर्थस्य प्रकाशाव्यभिचारः स्वप्रकाशात्मसम्बन्धं विना न घटत इति सोऽपि तत्र प्रमाणमिति नायुक्तिलेशोऽपि । न च–
समारोप्यस्य रूपेण विषयो रूपवान् भवेत् ।
विषयस्य तु रूपेण समारोप्यं न रूपवत् ॥
इति वाचस्पत्युक्तेरन्तःकरणगता प्रेमास्पदत्वस्यैवात्मनि प्रतीत्यापत्तिरिति वाच्यम्, किमधिष्ठानगतधर्मस्यारोप्येऽभानमापाद्यते ? आरोप्यगतधर्मस्याधिष्ठाने भानं वा ? नाद्यः, यद्धर्मवत्तया ज्ञायमाने अधिष्ठाने आरोप्यनिवृत्तिस्तस्यैवारोप्येऽभाननियमेन प्रकृते तदभावात् । न द्वितीयः, अधिष्ठानगतधर्मप्रतीत्यविरोधिन आरोप्यगतस्याधिष्ठाने भानेऽपि प्रकृते अविरोधात् । आत्मैक्याध्यासकाल एव प्रेमास्पदत्वसम्भवेनारोप्येऽपि अप्रेमास्पदत्वाप्रतीतेः कुतो विषये तत्प्रतीतिः ? यथा इदमिति रजताध्यासकाल एव रजते अनिदन्त्वाप्रतीतिः । यत्तु कैश्चित् परिह्रियते सुखानुभवरूपस्यात्मनो अहमर्थाद् भेदेनैव सुखमनुभवामीत्यादौ प्रतीतिर् इति, तन्न, वैषयिकसुखानुभवस्यात्मान्यत्वात् । न च मोक्षे अहमर्थाभावेनात्मनाशो मोक्ष इति बाह्यमतापत्तिः, प्रेमास्पदस्याहमर्थस्य त्वन्मतेऽपि नाशात्, तदन्यस्य शून्यस्य तन्मतेऽप्यनाशादिति वाच्यम्, औपाधिकप्रेमास्पदनाशेन बाह्यमतप्रवेशापत्तौ शरीरनाशेऽपि तदापत्तेः । एतावताहमर्थस्य मुक्त्यनन्वयेऽपि ‘माममृतं कृधि’ ‘ज्योतिरहं विरजा विपाम्पा भूयासमिति श्रुतिरपि चैतन्यगतमेवामृतत्वं विषयीकरोति, ‘अहं पुष्टः स्याम्’ इतीच्छेव स्वसमयविद्यमानशरीरवृत्तिपुष्टिम् । न च ‘शरीरं पुष्टं स्यात्’ इति शरीरमात्रे पुष्टीच्छावद् ‘आत्ममात्रं मुक्तं स्यात्’ इतीच्छाया अदर्शनेन मुक्तेरनिष्टत्वापत्तिरिति वाच्यम् । इच्छा-समये अन्तःकरणाध्याससम्भवेन यद्यपि नात्ममात्रगतमुक्तीच्छा तथापि विशिष्टगत-मुक्तीच्छाया एव विवक्षितविवेकेन विशेष्यमात्रगतमुक्तिविषयत्वपर्यवसानात् तस्यामिष्ट-त्वोपपत्तेः । न चाहमर्थस्यान्तःकरणग्रन्थित्वे ‘मम मन इति धीर्न स्याच् चिदचिद्ग्रन्थिरहङ्कारो ऽचिन्मात्रमन्तःकरणम् इति भेदेन षष्ठ्युपपत्तेः । न चैवं ‘मनः स्फुरति, मनोऽस्ति’ इत्यादिज्ञानादहमिति ज्ञानस्य वैषम्यानुभवो न स्याच् चिदचित्संवलनविषयत्वा विशेषादिति वाच्यम्, संवलनं हि न सम्बन्धमात्रम्, किन्तु तादात्म्येन प्रतिभासः । स च तत्र नास्तीति विशेषात् ।
ननु सर्वापि भ्रान्तिर्द्व्यंशविषया अन्यथा निरधिष्ठानकभ्रमापत्तेर् न च ‘अहम्’ इति बुद्धेर् द्व्यंशत्वमनुभूयते । कल्प्यते चेत्, आत्मेति बुद्धेरपि द्व्यंशत्वं कल्प्यतामिति चेन्न, किमिदं द्व्यंशविषयत्वम् ? अधिष्ठानारोप्यविषयत्वं चेत्तर्हीष्टापत्तिः । अहमर्थमिथ्यात्वस्यैव द्वितीयांशविषयत्वे प्रमाणत्वात् । आत्मेत्यत्र तु द्व्यंशविषयत्वे नैवं प्रमाणमस्ति येन तथा कल्प्यते । न च द्व्यंशविषयत्वं भिन्नभिन्नप्रकारावच्छिन्नाधिष्ठानारोप्यविषयत्वम्, रजतत्व-संसर्गारोपनिबन्धनेदंरजतमिति प्रतीतौ व्यभिचारात् । न हि रजतत्वेऽपि तत्र कश्चन प्रकारो भासते, रजतादेस्तत्र प्रकारत्वकल्पने मानाभावात्, तत्कल्पनां विनैवोपपत्तेस् तथा कल्पनायामतिप्रसङ्गादप्रयोजकत्वाच्च । यद्वा अत्रापि ‘अहं स्फुरामि’ ‘अहमस्मि’ इति द्व्यंशता भात्येव ‘रूप्यं स्फुरति’ ‘रूप्यमस्तीत्यत्रेव । इयांस्तु विशेषः यत्तत्र इदन्त्वा-वच्छिन्नस्फुरणमधिष्ठानमिति इदं रूप्यमिति धीर् इह तु स्फुरणमात्रमधिष्ठानमिति स्फुरामीत्येव बुद्धिः । न च भ्रमस्याप्यध्यस्तत्वेनाधिष्ठानत्वायोगः भ्रान्तोऽसि, स्फुरणं चैतन्यं ब्रूमः न त्वविद्यावृत्त्यादिकम् । एवं च न प्रत्यक्षमहमर्थस्यात्मत्वे प्रमाणम् ।
नाप्यनुमानम् । तथा हि अहमर्थो मोक्षान्वयी तत्साधनकृत्याश्रयत्वात् सम्मतवद् इत्यत्र विशेषव्याप्तौ दृष्टान्ताभावः । न हि कृत्याश्रये मोक्षान्वयित्वं क्वचित् सम्प्रतिपन्नमस्ति । सामान्यव्याप्तेः स्वर्गसाधनकृत्याश्रये ऋत्विजि स्वर्गानन्वयेन व्यभिचारात् । अहमर्थो ऽनर्थ-निवृत्त्याश्रयो ऽनर्थाश्रयत्वात् सम्मतवदित्यत्र शरीरे व्यभिचारः । न च तत्रानर्थाश्रयत्व-मसिद्धम्, ‘अहमज्ञ’ इति प्रतीत्या अहमीव ‘स्थूलोऽहमज्ञ’ इति प्रतीत्या शरीरेऽपि तत्स-त्त्वादन्यथा असिद्धिप्रसङ्गात् । अनात्मत्वं नाहमर्थवृत्ति अनात्ममात्रवृत्तित्वाद्, घटत्व-वदित्यत्र कृत्याश्रयावृत्तित्वमुपाधिः । नापि ‘कस्मिन्न्वहमुत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि’ ‘स प्राणमसृजत हन्ताहमिमास्तिस्रो देवता’ इत्यादौ जगत्कारणे सति प्राणमनःसृष्टेः पूर्वमहन्त्वोक्तेः, ‘तदात्मानमेवावेद् अहं ब्रह्मास्मीत्यवधारणेन शुद्धात्मनोऽहन्त्वोक्तेर् अनवद्यस्य ब्रह्मणोऽहमुल्लेखोक्तेः ‘अहमित्येव यो वेद्यः स जीव इति कीर्तितः । स दुःखी स सुखी चैव स पात्रं बन्धमोक्षयोः ॥’ इत्यादौ मोक्षान्वयोक्तेश्चैताः श्रुतयः प्रमाणम्, विशिष्टवाचकस्यैवाहम्पदस्य लक्षणया निष्कृष्टाहङ्कारचैतन्ये प्रयोगात् । लक्षणाबीजभूताऽनुपपत्तिरुक्ता । एतेन ‘मामेव ये प्रपद्यन्ते’ इत्यादिस्मृतयोऽपि व्याख्याताः । अत एव ‘तद्योऽहं सोऽसौ’ इत्यादावपि लक्षणाऽऽश्रयणीया विशिष्टवाचकत्वेन क्लृप्तस्य विशेष्ये लक्षणाया आवश्यकत्वात् ।
॥ इत्यद्वैतसिद्धावमहर्थस्यानात्मत्वोपपत्तिः ॥
श्रीव्यासरामाचार्यविरचिता
न्यायामृततरङ्गिणी
अहमर्थो नात्मा आत्मनि प्रकाशमानेऽप्यप्रकाशमानत्वादित्यत्र विशेषणासिद्धिमाह ॥ पश्चादित्यादिना ॥ विशेष्यासिद्धिमाह ॥ अनेवंविधस्येति ॥ अप्रकाशमानस्य । अथ इत्यादिछान्दोग्ये भूमप्रकरणे ‘यत्र नान्यत्पश्यति नान्यच्छ्रुणोति नान्यद्विजानाति स भूमा’ इत्यादिनोक्तभूमानं स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतस्स उत्तरतः स एवेदं सर्वमिति सर्वात्मकत्वेनोक्त्वा अथातोऽहङ्कारादेश एवाहमेवाधस्तादहमुपरिष्टादित्यादि नाहङ्कारं च सर्वात्मकत्वेन निरूप्य अथात आत्मादेश एवात्मैवाधस्तादात्मैवोप रिष्टादित्यादिनाहङ्कारोपदेशादात्मन उपदेशान्त रादहङ्कारो नात्मेत्यर्थः ॥ आत्मानु-बन्धीति ॥ आत्मत्वनियतः । अनात्मानुबन्धी अनात्मत्वव्याप्यत्वान्नियतः ॥ चिदचिदिति ॥ शुद्धचिद्रूपत्वाभावादित्यर्थः । विशेष्यासिद्धिं परिहरति ॥ यदि चेति ॥ ह्यस्तन इति ॥ यथा पूर्वदिनेऽहमित्यनुभूतोऽहमर्थोद्य स्मर्यते तथा सुषुप्तावहमर्थोऽनुभूत-श्चेत्सुप्तोत्थितेन स्मर्येतेत्यर्थः ॥ आत्मेति ॥ आत्मनानतिभिन्नत्वादित्यर्थः । आत्माह-मर्थयोरभेदवादिनं प्रत्यात्मनः प्रकाशे सत्यहमर्थस्याप्रकाश इत्येतदसिद्धमित्यभिसन्धायाह ॥ तत्रेति ॥ अहमर्थ इति ॥ अहमर्थस्याप्रकाशमानात्मान्यत्वेन सुषुप्तौ न प्रकाशसिद्धिस् तत्सिद्धौ च तथाविधात्मभिन्नत्वसिद्धिरित्यर्थः ॥ अहमर्थ इति ॥ सुप्तोत्थितमात्रस्यात्म परामर्शोऽहमर्थगोचर आत्मपरामर्शत्वाद् यथा सम्प्रतिपन्न इत्यन्वयव्यतिरेकव्याप्तिक मनुमानमित्यर्थः । हेतौ व्यभिचारं परिहरति ॥ अस्वाप्समितीति ॥ अभिज्ञाभिलपनयोः समानार्थत्वादित्यर्थः ॥ अन्तःकरणेति ॥ स्वयम्प्रकाशस्य ज्ञानान्तरागम्यत्वा-त्तद्विनाशप्रयुक्तसंस्काराभावात्स्वरूपस्य चाविनाशादविनाशिनः संस्काराभावान्नात्मनि प्रत्यभिज्ञा सम्भवतीत्याशङ्क्योक्तं विवरणे अन्तःकरणविशिष्ट इत्यादीत्यवगन्तव्यम् । निष्कलङ्के निष्कलङ्कात्मस्वरूपमात्रे ।
ननु विवरणवाक्यस्य निरुपाधिकात्मपरामर्शनिषेधे तात्पर्यम् । न त्वहङ्कार-विशिष्टतद्विधान इति चेन्न । अन्तःकरणस्यान्वहं विनाशात्तद्विशिष्टस्यापि विनाशित्वमिति न प्रत्यभिज्ञाविषयत्वमिति शङ्कोत्तररूपेण संसारावस्थायामन्तःकरणविशिष्टरूपानपाया-दित्युत्तरविवरणवाक्येन विरोधात् । ननु निश्चये सति संशयाभावनियमेऽपि निश्चयाभावे संशयनियमोऽसिद्ध इत्यत आह ॥ न त्विति ॥ कदाचिदपि तादृशसंशयः स्यादित्यर्थः । ननु परामृश्यमानात्मनि प्रत्यक्त्वनिश्चयान्न तत्र तद्विरुद्धपराक्त्वरूपान्यत्वसंशय इति शङ्कते ॥ नन्विति ॥ प्रत्यक्त्वनिश्चय एवाहन्त्वनिश्चय इति वक्तुमाह ॥ प्रत्यक्त्वमिति ॥ निर्भास्येति ॥ निर्भास्यं दृश्यं पराक् तत्प्रतिकूलं चित्त्वं प्रत्यक्त्वमित्यर्थः ॥ अन्यत्वेति ॥ अन्यत्वं पराक्त्वं स्वत्वं प्रत्यक्त्वमित्यर्थः । आद्य आह ॥ चिदिति ॥ द्वितीय आह ॥ स्वयमिति ॥ द्वितीये दोषान्तरमाह ॥ घटादिरिति ॥ घटादिरपि प्रत्यगर्थः स्यादित्यर्थः ॥ विवरण इति ॥ अहङ्कारस्य पराक्त्वसापेक्षत्वादात्मनश्चानपेक्षत्वान्न तयोर-भेद इत्युक्ते तर्ह्यात्मनोऽपि पराग्व्यावृत्त्या सापेक्षत्वान्नात्मत्वं स्यादिति शङ्कायां विवरणे उक्तमात्मन इति । सर्वात्मकत्वात् । पूर्णत्वात् ॥ घट्टकुटीति ॥ केचिद्वणिजः शुल्क-मदित्सन्तः शुल्कग्रहणस्थलं वञ्चयित्वाऽन्येन पथा जिगमिषन्तो विस्मृतमार्गा यत्र घट्टे शुल्कग्राहिणां कुटी स्थिता तत्रैव प्रभाते आगताः । सोऽयं घट्टकुटीप्रभातवृत्तान्तः ॥ नन्विति ॥ आत्मांशे परामर्शोऽहमर्थे त्वनुभव इत्यर्थः ॥ न किञ्चिदिति ॥ अज्ञानांशे परामर्शस्तु तवापि सम्मतः । अत एव न किञ्चिदवेदिषमित्यादावित्युक्तम् ।
ननु सुषुप्तावज्ञानस्य सत्त्वात्तदनुभवेन तस्य परामर्शो युज्यते अहमर्थस्य तु तदाऽसत्त्वान्न तस्य जाग्रति परामर्श इत्यत आह ॥ न हीति ॥ अज्ञानस्याहमर्थाश्रितस्यैव परामर्शात्तथैव सुषुप्तावनुभवो वाच्य इति तदाप्यहमर्थसत्त्वसिद्धिरित्यर्थः ॥ एतावन्त-मिति ॥ स्वप्नावस्थायामहमर्थस्य सत्त्वात्स्वप्नादुत्थितस्य स्वप्नं पश्यन्नासमित्यहमर्थविषयः परामर्शो भवति । तस्मिंश्च परामर्शे स्वप्नं पश्यन्नासमिति परामर्शवानस्मीत्यादिनाऽह मर्थविषयपरामर्शत्वमनुभूयते यथा । यथा वा जाग्रत्यनुभूतार्थेऽहमर्थविषयपरामर्शे जाग्रदन्तरकालीने जाग्रदासमिति परामर्शवानस्मीत्यनेन परामर्शत्वमनुभूयते । तथाऽ-स्वाप्समित्यत्राप्यस्वाप्समिति परामर्शवानस्मीत्यनुभवेनाहमर्थविषयकज्ञाने परामर्शत्व-मनुभूयत इत्यर्थः ॥ अन्यथेति ॥ अहमर्थे परामर्शाभावे ॥ यः पूर्वमिति ॥
ननु दुःखित्वेन प्राक् ज्ञानवन्मदन्यत्वेन प्राक् ज्ञानाभावात्कथमेवं परामर्श आपाद्यते । सुषुप्तौ चाहमर्थो प्रकाश एव न तु प्रागसत्वग्रहणम् । अतः कथं तत्र जन्मप्रत्ययोऽपीति चेन्मैवम् । अस्वाप्समिति स्वापक्रियाकर्तृत्वेनाहमर्थपरामर्शो न स्यादित्यत्र तात्पर्यात् । यत्तु प्रागसत्त्वाग्रहणान्न जन्मप्रत्यय इति तन्न । प्राक्सत्त्वाग्रहणमात्रेण जन्मप्रत्ययोपपत्तेः । अहमर्थे परामर्शत्वानुभवादित्यत्रान्यथासिद्धिं शङ्कते ॥ नन्विति ॥ पुरोवर्तिरजतयो-रैक्यारोपात्तज्ज्ञानयोस्तदारोपदर्शनेऽप्यनुभवपरामर्शयोः परामर्शत्वारोपादर्शनादित्याह ॥ अपरामर्श इति ॥ सिद्ध इति ॥ अहमर्थस्यैव परामृश्यमानत्वेन तयोरैक्यारोपः सम्भवतीत्यर्थः ॥ सिद्धे चेति ॥ परामृश्यमानात्मैक्यारोपे सिद्धे तन्निबन्धनोऽह-मर्थानुभवेऽपि परामर्शत्वाभिमान इति तस्यापरामृश्यमानत्वसिद्धौ सुषुप्तावप्रकाशमानत्वेन प्रकाशमानात्मान्यत्वसिद्धिरितीतरेतराश्रयत्वमित्यर्थः । एतेन स्वापकर्त्रैक्यारोपादहमर्थेऽ-स्वाप्समिति तत्कर्तृत्वारोपः पूर्वकालगृहीतेनाभिन्नतया गृह्यमाणत्वाच्च नाहङ्कारे जन्मप्रत्यय इति निरस्तम् । स्वापकर्तुरात्मनः पूर्वकालवर्तिनश्च तस्यैवाहमर्थत्वेन तदैक्यारोपा-सम्भवात् । अन्यथाऽन्योन्याश्रयात् । आत्मपरामर्शस्याहमर्थांशापरामर्शत्वे दोषान्तरमाह ॥ अहमितीति ॥ अहमंशे परामर्शादन्य आत्मपरामर्शो नास्तीत्युक्तं त्वया पुनरहमर्थे परामर्शत्वरहितस्यैवात्मप रामर्शत्वमुक्तमतो दृष्टहानादीत्यर्थः । एतेनास्वाप्समित्यस्यैवात्म-परामर्शत्वाङ्गीकारान्न दृष्टहानादीति निरस्तम् । अस्वाप्समित्यस्य तव मतेऽहमर्थांशे परामर्शत्वाभावात् ॥ एतेनेति ॥ अहमर्थे परामर्शत्वोपपादनेनेत्यर्थः । सुप्तोत्थितस्यात्म-परामर्शो यद्यहमर्थपरामर्शः स्यादहंशब्दोल्लेखी स्याद् यथा ह्यस्तनाहमर्थपरामर्श इत्यत्राहं-शब्दोल्लेख्यनुभवजन्यत्वमुपाधिरित्याह ॥ अहंशब्देति ॥ अन्यथेति ॥ ह्यस्तनवैषम्य-मात्रेणाहमर्थे परामर्शत्वाभावे आत्मांशेऽपि परामर्शत्वं न स्यादित्यर्थः ॥ निरुत्तरमिति ॥ अस्मदुक्तादन्यदुत्तरं नास्तीत्यर्थः ॥ तथापीति ॥ आत्मपरामर्शस्याहमर्थपरामर्शत्वेऽहं-शब्दोल्लेखाभावेऽपीत्यर्थः ॥ अहमर्थप्रकाशेनेति ॥ तदभिमानाप्रकाशसहितेनेत्यर्थः । एतेन अहमर्थमात्रसापेक्षतया तदभिमानप्रकाशयोरुभयोः समव्याप्ततयाऽभिमानपरामर्शापादनं व्यधिकरणमिति निरस्तम् । अभिमानप्रकाशयोः समव्याप्तत्वेऽप्यभिमानपरामर्शप्रयोजकस्य सुषुप्तावभिमानप्रकाशस्याभावात् । न चाहमर्थप्रकाश एवाभिमानप्रकाश इति वाच्यम् । तथात्वे इष्टापत्तेः ॥ अन्यथेति ॥ अहमर्थप्रकाशमात्रेण तदभिमानपरामर्शापादने आत्म-प्रकाशमात्रेण तदभिमानपरामर्शोऽपि स्यादित्यर्थः । न चाहङ्कारस्य तादृशपरामर्शप्रयोजक-तया तदभावे तदापादनासम्भव इति वाच्यम् । तर्हि मां प्रति तदापादनस्येष्टत्वात् । ननु सुषुप्तावहमर्थप्रकाशे न किञ्चिदहमवेदिषमित्यहमर्थावच्छिन्नाज्ञानपरामर्शो न स्यात् । प्रकाशमाने तादृशज्ञानविरोधादित्यत आह ॥ न किञ्चिदहमिति ॥ न किञ्चिदह-मवेदिषमिति परामृश्यमानज्ञानं प्रति यथाऽऽत्मा नावच्छेदकः प्रकाशमानत्वात्तथाह-मर्थोऽपि । अज्ञानं त्वात्माहमर्थाश्रयं तदन्यविषयमात्माद्यज्ञानादन्यदेव परामृश्यत इत्यर्थः ।
ननु दृष्टान्तासम्प्रतिपत्तिः साक्षिणि प्रकाशमान एवाज्ञानस्य मयाङ्गीकृतत्वादित्यत आह ॥ अन्यथेति ॥ साक्षिणोऽप्यज्ञानविरोधित्वस्योपपादितत्वादित्यर्थः । ननु छान्दोग्ये आत्मज्ञानार्थिनमिन्द्रं प्रति प्रजापतिना सुप्ते पुरुषे आत्मत्वेन निर्दिष्टे नाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति इन्द्रेणाहमर्थाद्यज्ञानेन दूष्यत इत्यत आह ॥ या त्विति ॥ श्रुतावात्माज्ञानस्याप्युक्तश्रुतिरित्यर्थः । न चाहरर्ब्रह्म गच्छन्ति सति सम्पद्य न विदुरित्यात्मवेदनबोधकश्रुतिविरोधेन नात्मानमित्यस्य विशेषाज्ञानपरत्वं युक्तम् उक्तश्रुतेस्तु न श्रुत्यन्तरविरोध इति वाच्यम् । अहरहरित्यादेरात्मवेदन बोधकत्वाभावात् । प्रत्युत न विदुरित्यनेन स्वस्वरूपाज्ञानस्यैव प्रतीतेः । नात्मानमित्यादिनैवाहरहः श्रुतिबाधसम्भवाच्च । अन्तःकरणावच्छिन्नस्याज्ञानादिस्मर्तृत्वानुरोधेन तस्यैव तदनुभवितृत्वमित्यर्थापत्त्या सुषुप्तावहमर्थसिद्धिरित्याह ॥ किं चेत्यादिना ॥ अहमर्थस्यानुभवितृत्वे प्रत्यक्षं प्रमाण-मप्याह ॥ योऽहमिति ॥ स्मर्त्रनुभवित्रोर्भेदे प्रत्यभिज्ञानविरोध इति भावेन तयोर्भेदा-भावमाशङ्क्य भेदमुपपादयति ॥ यद्यपीति ॥ तथापीति ॥ चैतन्यजीवयोः स्मर्त्रनु-भवित्रनुगमेऽपीत्यर्थः ॥ तयोरिति ॥ चैतन्यजीवयोः ।
ननु कौन्तेयस्यैव राधेयत्ववदविद्योपहितस्यानुभवितुरेवान्तःकरणोपहितस्य स्मर्तृत्वान्न तयोर्भेद इत्याशङ्क्य परिहरति ॥ यद्यप्यविद्येति ॥ ननूपाधिभेदेनोपधेयभेदस्तत्रैव यत्र परस्परानुपहित उपाधी उपधत्तः । अन्यथा कम्ब्ववच्छिन्नग्रीवावच्छिन्नाकाशादन्य एव घटाकाशः स्यात् । मैवम् । उपाधिभेदादुपधेयभेदस्यावश्यकत्वात् । अन्यथा साक्षिण एवान्तःकरणतद्वृत्तिघटाद्यवच्छिन्न इति साक्ष्येव प्रमाता प्रमाणं फलं प्रमेयं च स्यादिति सर्वसङ्करः स्यात् । कम्ब्वाद्यवच्छिन्नादन्यस्यैव घटाकाशत्वात् । अन्तःकरणरूपोपाधि-सम्बन्धविनैतदुपधेयस्याविद्योपधेयस्य च भेदोऽस्तीत्याह ॥ शुद्धचैतन्यस्येति ॥ अत एवोपधेयभेदे च सतीति चकारः ॥ अहं निर्दुःखः स्यामिति ॥ न च कृशोऽहं स्थूलो भवामीतिवत्प्रवृत्त्युपपत्तिरिति वाच्यम् । तत्र कार्श्न्यादिविशिष्टस्य शरीरस्यैव स्थौल्याधि-करणतया विवेकिनामुद्देश्यत्वात् । तत्र शरीरं स्थूलं स्यादितिवच्चिन्मात्रं निर्दुःखं स्यादितीच्छायाः प्रकृतेऽभावात् ॥ योऽहं सुप्त इति ॥ तव मतेऽहमर्थस्यासुप्तत्वादित्यर्थः । अहमर्थव्यक्त्यैक्यप्रत्यभिज्ञाबाधमप्याह ॥ पूर्वेद्युरिति ॥ अहङ्कारेति ॥ अहङ्कारव्यक्तेः पूर्वेद्युर्विद्यमानायाः सुषुप्तौ विनाशादित्यर्थः ।
ननु सुषुप्तौ कारणात्मनावस्थितस्याहमर्थस्य जागरे उत्पत्त्यङ्गीकारे न प्रत्यभिज्ञान-विरोधादीति चेन्न । कारणात्मनावस्थितस्याकर्तृत्वात् । कर्तृभूतपरिणामविशेषस्य च विनाशादित्यभिसन्धायोक्तं व्यक्तिभेदादिति । ननु कर्तृभोक्त्रोश्चैतन्यानुगमान्न कृतहा-न्यादीत्यत आह ॥ अभिन्न इति ॥ ननु चैतन्ये कर्तृत्वाद्यभावेऽप्यारोपितेन कर्तृत्वादिना तयोरभेद इत्याशङ्क्य परिहरति ॥ कर्तृत्वाद्यारोपस्येति ॥ स्थूलः करोमीति केवले चैतन्ये आरोपितकर्तृत्वाप्रतीतेरहं करोमीत्येव तदारोपो वाच्यः । तथा च कर्तृत्वस्य मुख्यः प्रत्ययोऽन्यो नास्तीत्येव मुख्य इति न तदारोप इत्यर्थः ॥ अहङ्कारलय इति ॥ प्राणस्यापि लयापत्त्येति शेषः ॥ भेदपक्ष इति ॥ अभिमन्तृत्वेन प्राणनादिधर्मित्वेन तयोर्भेदादित्यर्थः । तदुक्तं विवरणे । ‘नाहङ्कारमात्रत्वं प्राणस्योच्यते किं तु प्राणस्य पृथक्सतः पञ्चधा व्यापारहेतोः कारणीभूतस्याहङ्कारस्य क्रियाशक्तिरस्ति मनोऽधीनता-दर्शनात्प्राणवृत्तेः’ इति ॥ अभेदपक्षेऽपीति ॥ प्राणांशं प्राणशक्तिम् । तदुक्तं विवरणे । प्राणलक्षणक्रियाशक्त्यंशं वा विहाय विज्ञानशक्त्यंशस्य लयः कल्प्यताम् । सांशत्वा-दन्तःकरणस्येति । आद्यपक्षे दोषमाह ॥ प्राणस्येति ॥ द्वितीये शक्तितद्वतोर्भेदे स एव दोषः । अभेदे त्वाह ॥ अहमर्थत्व इति ॥ प्राणस्य सत्त्वात् सुप्तावहमर्थस्यापि सत्त्वा-पत्त्या तदुल्लेखः स्यादित्यर्थः ॥ किं चेति ॥ ‘य एष विज्ञानमयः पुरुषस्तदेतेषां प्राणानां विज्ञानेन विज्ञानमादाय एषोऽन्तर्हृदय आकाशस्तस्मिंच्छेते तानि यदा गृह्णात्यथ हैतत्पुरुषः स्वपिति नाम तद्गृहीत एव प्राणो भवति गृहीता वाग्गृहीतं चक्षुरित्यादौ वागादीनामुपरम एवोक्तो गृहीतम्’ इति श्रवणात् । न तु लय इत्यर्थः । यस्तु मनआदीनामुपरम-स्यैवोक्तेरित्यनेन मूलवाक्येन अथ हैतत्पुरुष इति श्रुतिर्मन आदीनामुपरमपरतया व्याख्याता नाहमर्थस्येति बुद्धा आक्षिपति मनउपरमे तेनैवाहङ्कारोपरमस्यापि प्राप्तेरिति सो बोधात् । न हि श्रुतावहङ्कारस्यानुक्तिं ब्रूमः किं तु लयस्य मनस आहङ्कारिकत्वेनानहङ्कारत्वाच्च ॥ अहङ्कारेणैक्येऽपीति ॥ अनेकेषां सर्वात्मनोपदेशानुपपत्तेरिति भावः ।
ननु नोपदेशानुपपत्तिः । अन्यथाऽप्युपपत्तेरिति शङ्कते ॥ नन्विति ॥ भिन्नत्वे-नेति ॥ व्यर्थस्य किञ्चिदिष्टज्ञापकत्वादिति भावः । ननु भेदोपदेशस्य व्यर्थस्यापि कथं भूमात्मनोरभेदज्ञापकत्वमित्यत आह ॥ द्वयोरिति ॥ तन्मात्रवृत्तिधर्मबोधनमुखेन तन्मात्रत्वमवगम्यत इति भावः ॥ अहङ्कारस्य त्विति ॥ अहङ्कारे सार्वात्म्योपदेशस्तु तदधिष्ठानात्मसम्बन्धेनोपचारादिति भावः ॥ अहमर्थादिति ॥ अहमर्थान्यात्मनि सार्वा-त्म्योपदेशस्त्वहमर्थवदुपचारादिति भावः । एतेन अहङ्कारभिन्नात्मनो भूमरूपब्रह्मभिन्नत्वेन प्रत्यक्षासिद्धत्वेऽपि तदभिन्नस्यापि तदसिद्धतयोभयोः सार्वात्म्योपदेशानुपपत्तिसहकारे-णास्याः श्रुतेस्तयोरभेदपरत्वमिति निरस्तम् । अहङ्कारभिन्नात्मभूम्नोरभेदस्य प्रत्यक्षा-सिद्धत्वेऽपि तयोर्भेदस्यापि तदसिद्धतया तद्बोधनेन वाक्यस्यार्थवत्त्वात् । सार्वज्ञं त्वहमर्थ- वदुपपत्स्यते ॥ ऐक्यार्थ इति ॥ अहमर्थस्य जहत्वान्न तदैक्यायोग इत्यत आह ॥ त्वत्-
पक्ष इति ॥ चिदैक्योपदेशसामर्थ्यादेवाहमर्थस्य कर्तृत्वाद्याश्रयस्याप्यजडत्वसिद्धेरिति भावः ॥ स एवेदमित्यादि ॥ तथा च नानेकेषां सार्वात्म्यानुपपत्त्या तदभेदासिद्धिरिति भावः ।
ननु स भगवः कस्मिन्प्रतिष्ठित इति प्रश्नानन्तरं किं क्वचिदधिष्ठानत्वमात्रं पृष्टं परमार्थतः क्वचिदधिष्ठितत्वं वा । आद्ये स्वे महिम्नीत्युक्त्वा द्वितीये भूमातिरिक्तमेव नास्तीत्येतदर्थपरान्योह्यस्मिन्प्रतिष्ठित इति पूर्ववाक्यानुसारेण स एवाधस्तादित्यादेरपि सार्वात्म्यपरत्वे निश्चिते एकवाक्ये उपक्रमादिकल्पना न युक्तेति चेत् । मैवम् । यतस्स भगवः कस्मिन् प्रतिष्ठित इति पृष्टे स्वे महिम्नीत्युत्तरिते महिमशब्देन गवाश्वादिकं चेत् तन्मया महिमत्त्वेन नोक्तमिति यदि वा न महिम्नीत्यनेनोक्ते तत्र हेत्वाकाङ्क्षायां ब्रवीमीति होवाच अन्यो ह्यन्यस्मिन् प्रतिष्ठितो ऽन्योऽल्पज्ञो ऽन्यस्मिन् प्रतिष्ठितः भूमा परिपूर्णो ऽतो नान्यस्मिन् प्रतिष्ठित इत्युक्ते तर्हि कथं स्वे महिमि्न प्रतिष्ठित इत्युच्यत इत्याकाङ्क्षायां भूम्न आधारभूतः स्वमहिम्नोच्यते स एवाधस्तादित्यादिना । तत्र कः प्रसङ्गः सार्वात्म्यस्य ।
ननु भूम्नस्स इति परोक्षनिर्देशात्परोक्षत्वप्राप्तौ तद्वारणायापरोक्षाहङ्कारैक्यमथातोऽ-हङ्कारादेश इत्यनेनाभिधायनिष्कृष्टाहङ्कारकेवलात्मस्वरूपैक्यं बोध्यते अथात आत्मादेश इत्यनेनेति नाहङ्कारवाक्यवैयर्थ्यमिति शङ्कते ॥ नन्विति ॥ ब्रह्मणः भूमरूपस्य ॥ आपरोक्ष्यायेति ॥ अपरोक्षद्रष्टृभेदायेत्यर्थः ॥ अहङ्कारेति ॥ अहङ्कारस्यापरोक्षत्वाद् भूम्नस्तदभेदोक्त्याऽपरोक्षत्वसिद्धिः । अन्यथा परोक्षापरोक्षयोरैक्यानुपपत्तेरित्यर्थः ॥ त्वत्पक्ष इति ॥ त्वन्मतेऽपरोक्षात्मसम्बन्धादेवाहङ्कारेऽप्यापरोक्ष्यमिति मुख्यापरोक्षात्माभेदोपदेशेनैव
भूम्नोऽप्यापरोक्ष्यस्यापि सिद्धिरित्यर्थः ॥ लब्धापरोक्ष्यस्येति ॥ भूमाख्यब्रह्मण इति शेषः ।
ननु तव मते ब्रह्मभिन्नाहङ्कारस्य कथं सर्वव्यापित्वमपीत्यतः श्रुत्यर्थमाह ॥ श्रुत्यर्थस्त्विति ॥ स एवाहङ्कृतिः स्मृत इत्यतः परम् अकार्योऽहमिति ह्येष ततोऽहङ्कार उच्यते । जीवस्थ इत्यादिपाठः । स च व्यापीत्येतदनन्तरं न च भेदो हरौ क्वचिदिति पाठः । यत्तु श्रुतिविरोधेन स्मृतेरेवान्यथा नयनमिति तन्न । उक्तरीत्याऽनुपपन्नायाः श्रुतेः स्मृत्या व्याख्यातत्वात् । न तु स्मृतिविरोधेन सान्यथा नीयते ॥ सैव हीति ॥ ‘एष तु वा अतिवदति यः सत्येनातिवदति’ इत्यादौ सत्यत्वे च विजिज्ञासितव्यमित्यादिनोक्ताः सत्यविज्ञानमतिश्रद्धानिष्ठा कृतिसुखभूमाहङ्कारात्मान्ताः सत्यादयः सर्वे परदेवतारूपा इत्यर्थः ॥ अन्यथेति ॥ अहङ्कारस्याब्रह्मत्व इत्यर्थः ।
नन्वहङ्कारस्य ब्रह्मत्वे प्रश्नोपनिषदि ‘यथा सोम्य वयांसि वासो वृक्षं सम्प्रतिष्ठन्ते एवं ह वै तत्सर्वं पर आत्मनि सम्प्रतिष्ठते पृथिवी च पृथिवीमात्रा चेत्यारभ्य अहङ्कारश्चाहङ्कर्तव्यं च’ इत्यादिनाहङ्कारस्य पृथिव्यादिवत् परमात्माश्रितत्वं प्रतीयमानं विरुध्यत इत्यत आह ॥ अहङ्कारश्चेति ॥ न त्वहमर्थ इति ॥ जीवो जीवस्थोऽनिरुद्धश्चेत्यर्थः ॥ अतो भव इति ॥ एतस्मान्त्रिविधाहङ्कारान्मनः प्रभृतीनां भव उत्पत्तिरित्यर्थः । नन्वेवमहङ्कारशब्दो नानार्थः स्यादित्यत आह ॥ संविद्वाचिन इति ॥ स्मार्तप्रयोगाद्बुद्धिशब्दवन्नानार्थत्वं न दोष इत्यर्थः । प्रयोगबाहुल्यमेवाह ॥ अहङ्कारशब्दस्येति ॥ देहेऽहम्बुद्धाविति ॥ देह-विषयकाहम्बुद्धावित्यर्थः ॥ अहमर्थ इति ॥ शब्दभेदान्न नानार्थत्वमित्यर्थः । शब्दभेदमेव साधयति ॥ आत्मेति ॥ तस्माद् अथातोऽहङ्कारादेश इति श्रुतौ न जडोऽहंशब्देनोच्यते । किं तु जीवस्थोऽनिरुद्धः । अहङ्कारश्चाहङ्कर्तव्यं चेत्यादिश्रुतिस्मृत्योस्त्वहङ्कारशब्देन न जीव उच्यते किं तु त्रिविधोऽहङ्कार इति न श्रुतिस्मृती आत्मभिन्नाहमर्थे प्रमाणमिति ॥ अहमर्थ इति ॥ तथा च चिदचित्संवलनात्मकमित्यर्थः ॥ अन्तःकरणेति ॥ सर्वांशा-वच्छेदेनाहमर्थे न कर्तृत्वादिकमित्यर्थः । ननु गौरोऽहमित्यादावपि देहत्वेनाभानेऽपि गौरत्वमनुष्यत्वादिना त्प्रतीतेर्दृष्टान्तासम्प्रतिपत्तिरिति चेन्न । यत्र सामग्रीवशात्सुरभि-जलमितिवद्गौरोऽहमिति धर्ममात्रारोपस्तस्यैव दृष्टान्तत्वात् । न हि सर्वत्राभेदारोप-सामग्रीनियमः ।
नन्वहमर्थस्य प्रत्यङ्मात्रत्वे परकीयघटे घटशब्दवत्परकीयेऽहमर्थेऽहंशब्दः प्रयुज्येतेत्यत आह ॥ या त्विति ॥ सम्बन्धिभेदेनाहंशब्दवाच्यस्यापीदं शब्दाभावे बाधकमाह ॥ अन्यथेति ॥ एतच्चोपलक्षणं परकीयाहमर्थेऽचित्सम्बन्धे नेदंशब्दत्वे स्वकीयाहमर्थोऽपीदं-शब्दः स्यादिति च बोध्यम् । अहमर्थस्यानात्मत्वे प्रत्यक्षमाशङ्क्य निराकरोति ॥ न चेति ॥ अस्या इति ॥ चिदचित्सम्वलनमपि न सिद्ध्येदित्यर्थः ॥ त्वन्मत इति ॥ आत्म-न्येव व्यभिचार इत्यर्थः । नन्वधिष्ठानचितो येन रूपेणाहम्प्रत्ययविषयत्वं तेन रूपेणानात्मत्वमपि । स्वरूपेण त्वात्मत्वेऽपि तेन रूपेणाहम्प्रत्ययविषयत्वस्याप्यभावान्न व्यभिचार इति चेन्न । चिदंशं विना स्वरूपेणाहम्प्रत्ययविषयत्वस्य पक्षेऽप्यभावात् ॥ गौरोऽहमितीति ॥ अहमर्थस्यैव गौरभ्रमाधिष्ठानत्वप्रेमास्पदत्वप्रतीतेरित्यर्थः ॥ अन्यो-न्येति ॥ माहं न भूवं भूयासमित्यहमर्थप्रेमास्पदनिबन्धनैवात्मनः प्रेमास्पदत्वसिद्धिस् तत्सिद्धौ चाहमर्थे तदारोप इत्यर्थः । ननु नाहमर्थद्वारात्मनि प्रेमसिद्धिः किं तु स्वत एवेति नान्योन्याश्रय इत्यत आह ॥ अहमर्थेति ॥ न च सुषुप्तिकालीनात्मप्रेमैव तादृश इति वाच्यम् । तदाप्यहमर्थप्रेमातिरिक्तात्मप्रेम्णोऽभावात् । अन्योन्याश्रयाच्च ॥ अहित इति ॥
ननु न प्रेमास्पदत्वारोपं ब्रूमः किं तु प्रेमास्पदात्मैक्यारोपादहमर्थे प्रेमास्पदत्वं न तु तत्स्वाभाविकमितीति चेन्न । अहमर्थमनन्तर्भाव्यात्मनि प्रेमादर्शनादित्युक्तत्वात् । अन्यस्यान्यात्मनावभास स्यैवारोपत्वाच्च ॥ समारोप्यस्येति ॥ आरोप्यसर्पादेर्भीषण-त्वादिना रूपेण विषयो रज्ज्वादी रूपवान् भीषणत्वादियुक्तो भवति विषयस्य रज्ज्वादिरूपेणाभिगम्यत्वादिना समारोप्यं सर्पादिरूपवदभिगम्यं न भवतीत्यर्थः । ननु सर्पगतानिदन्त्वादिवदन्तः करणगताप्रेमास्पदत्वस्यापि नात्मन्यारोप इति चेन्न । अधिष्ठान-त्वौपयिकतत्सामान्य धर्माविरुद्धानां समारोप्यगतानां विषये आरोपदर्शनात् । न हीदन्त्वादिवत्प्रेमास्पद त्वमप्यहमर्थारोपहेतुः । येन तद्विरुद्धानिदन्त्ववदप्रेमास्पदत्व-स्याप्यारोपो न स्यात् । यत्त्वधिष्ठानगतधर्मप्रतीत्यविरोधिन आरोप्यगतस्याधिष्ठाने भानमिति तन्न । अन्योन्याश्रयात् । यत्त्वात्मैक्याध्यासकाल एव प्रेमास्पदत्वसम्भवेना-रोप्येप्य प्रेमास्पदत्वाप्रतीतेः कुतो विषये तत्प्रतीतिरिति तन्न । वैपरीत्यस्यैवोचितत्वात् । अहमर्थे प्रेमास्पदत्वारोपहेतुमात्मैक्यारोपं दूषयति ॥ त्वद्रीत्येति ॥ आत्मनोऽ-हमर्थोद्भेदप्रतीतेर्न तत्र तस्यारोप इत्यर्थः । क्वचित्त्वहमनुभवामीति सुखानुभवाद्भेदेनैव प्रतीतेश्चेति पाठः । तत्र सुखस्यानुभवो यस्मिन्नित्यहमर्थ एव विवक्षितः । न चायं वैषयिकसुखानुभवः स चानात्मेति वाच्यम् । त्वन्मते विषयसम्बन्धेनापि स्वरूपसुख-मेवाभिव्यज्यत इत्युक्तेः । अहं स्फुरामीत्यत्र भेदप्रतीतेश्च ॥ मोक्ष इति ॥ न चौपाधिकप्रेमास्पदनाशेऽपि न बाह्यमतापत्तिः । अन्यथा शरीरनाशेऽपि तदापत्तिः स्यादिति वाच्यम् । स्वाभाविकप्रेमास्पदस्यान्यस्याननुभवेनाहमर्थस्यैव स्वाभाविकप्रेमास्प-दत्वात् ॥ अहं मुक्त इति ॥ अहमर्थस्य मुक्त्यनन्वयादित्यर्थः ॥ अन्योन्येति ॥ आत्माहमर्थयोर्भेदाधीनारोपसिद्धावुक्तेच्छाया अबाधकत्वं तदबाधकत्वे च भेदसिद्धिरित्यर्थः ॥ तत्र मामिति ॥ ‘यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते । कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि’ इत्यादिश्रुतौ मदर्थस्यैवामृतत्वप्रार्थनश्रवणान्न तत्र तदारोप इत्यर्थः ॥ अनिष्टत्वेति ॥ इच्छाविषयत्वाभावापातादित्यर्थः । आत्मन्यहमर्थमनन्तर्भाव्येच्छा नास्तीत्याह ॥ यः कश्चिदिति ॥ ममेति ॥ चिन्मात्रस्य ममात्मत्वाभावादित्यर्थः । नन्वहं मुक्तः स्यामितीच्छा नास्त्येव । किं तु मुच्यतामित्यादिरूपेत्यत आह ॥ न च स्वत इति ॥ ममेति ॥ ममेत्यत्र मनः प्रवेशादित्यर्थः ।
ननु दण्डिनो दण्ड इतिवदुपलक्षणत्वमस्त्वित्यत आह ॥ तदवच्छिन्नस्येति ॥ तद्विशिष्टस्येत्यर्थः । उत्सर्गप्राप्तविशेषणत्वे बाधकाभावेनोपलक्षणत्वायोगात् ॥ चिद-चिदिति ॥ न च सम्वलनं न सम्बन्धमात्रं किं तु तादात्म्येन प्रतिभास इति वाच्यम् । त्वन्मते स्फुरणादावपि तदारोपात् ॥ द्व्यंशविषयेति ॥ भिन्नभिन्नप्रकारावच्छिन्नाधिष्ठा नारोप्यविषयेत्यर्थः । तेन नेष्टापत्तिः । न च रजतत्वसंसर्गारोपनिबन्धे नेदंरजतमिति प्रतीतौ व्यभिचार इति वाच्यम् । रजतादेरेव तत्र प्रकारत्वात् । नन्वहमिति बुद्धे-र्भ्रमत्वानुरोधेन द्व्यंशत्वमपि तत्र कल्प्यत इत्यत आह ॥ यदीति ॥ त्वन्मत इति ॥ नन्वविद्यावृत्तिरूपभ्रमज्ञनास्याध्यस्तत्वेऽपि चैतन्यरूपस्फुरणस्य न तथात्वमिति चेन्न । चैतन्यमात्रस्याहंज्ञानत्वे सुषुप्त्यादावपि प्रतीतिमात्रशरीराहमनु वृत्त्यापातेनाविद्यावृत्त्य-वच्छिन्नचित एवाहंज्ञानस्य त्वया वाच्यत्वात् । तस्य चाध्यस्तत्वादिति भावः । रूप्यमस्तीत्यादौ न सत्ता रूप्याधिष्ठानमित्याह ॥ बाधकेनेति ॥ तथा च दृष्टान्ता-सम्प्रतिपत्तिरिति भावः ॥ प्रत्यक्षमिति ॥ अहमनुभवामीत्यादिकम् ॥ तत्साधनेति ॥ अपरिक्रीतसम्बन्धिकृतिर्विवक्षिता । तेन विशेषव्याप्तौ दृष्टान्ताभावः सामान्यव्याप्तौ तु स्वर्गसाधनकृत्याश्रये ऋत्विजि व्यभिचार इति निरस्तम् । नन्वविद्यादिरूपस्यानर्थस्य चिन्मात्राश्रितत्वेनासिद्धिरित्यत आह ॥ न चेति ॥ अहमज्ञ इति ॥ अहमर्थाश्रित-त्वेनैवामानप्रतीतेरित्यर्थः ।
ननु स्थूलोऽहं न जानामीति शरीरस्याप्यज्ञानाश्रयत्वात्तत्र व्यभिचार इत्यत उक्तमबाधितेति । शरीरमनन्तर्भाव्याहमज्ञ इत्येव प्रतीतेः शरीरस्य तदाश्रयत्वं बाधितमिति भावः ॥ अनात्मत्वमिति ॥ न च कृत्याश्रयावृत्तित्वमुपाधिः । त्वन्मते मुक्तौ साध्या-व्याप्तेः । अहं करोमीत्यहमर्थान्तर्गताधिष्ठानचितोऽपि कृत्याश्रयत्वात्तत्र मुक्तेर्वृत्तेः ॥ कस्मिन्न्वहमिति ॥ प्रश्नोपनिषदि कस्मिन्न्वहमित्यादिप्रतिष्ठा स्यामीत्यनन्तरं स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीमिन्द्रियं मनोऽन्नमन्नाद्वीर्यमित्यत्र प्राणमनःसृष्टेः पूर्वमहन्त्वोक्तिः । तथा छान्दोग्येऽपि हन्ताहमिमास्तिस्रो देवता इत्यादौ तेजोऽबन्नादिस्वरूपेण त्रिवृन्तं कुर्वति सच्छब्दनिर्दिष्टे ब्रह्मणि अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मन आपः पीतास्त्रेधा विधीयन्त इत्यादौ योऽणिष्ठः स प्राण इत्यादिनोक्तमनःप्राणसृष्टेः पूर्वमह-न्त्वोक्तिरित्यर्थः ॥ तदात्मानमिति ॥ बृहदारण्यके ब्रह्म वा इदमग्र आसीत्तदात्मा-नमेवावेदहं ब्रह्मास्मीत्यत्रावधारणब्रह्मशब्दाभ्यां शुद्धत्वानवद्यत्वप्रतीतिरित्यर्थः ॥ मोक्षेति ॥ बन्धान्वयोऽपि द्रष्टव्यः । न च श्रुतिस्मृत्योर्विशिष्टवाचकाहम्पदस्य लक्षणया निष्कृष्टाहङ्कारचैतन्यपरत्वमिति वाच्यम् । तद्बीजस्यानुपपत्तेरभावात् । अन्योन्याश्रय-त्वोक्तेश्च । अहमितः प्रेत्याभिसम्भवितास्मीति यस्य स्यादद्धा न विचिकित्सेति अहं मनुरभवं सूर्यश्चेति त्वद्रीत्या वामदेवस्य सर्वात्मकत्वविज्ञानप्रतिपादकं चोदाहर्तव्यम् ॥ एवं चेति ॥ अहमर्थस्यैवात्मत्वादित्यर्थः । कर्तृत्वादिविशिष्टस्य कथमैक्यमिति चेन्न । न ह्यहंशब्देन कर्तृत्वविशिष्टात्मोच्यत इति ब्रूमः । किं त्वात्मत्वविशिष्ट आत्मा । स तु वस्तुतः कर्तृत्वाश्रय इत्यन्यदेतत् । तर्ह्येतावताहंशब्दे लक्षणा कर्तृत्वादेर्मिथ्यात्वेनाप्यैक्य-स्योपपत्तेः ॥ अज्ञोऽहमिति ॥ अज्ञानाश्रयत्वेनाभिमते चिन्मात्रे प्रत्यक्षेण तदात्मान-मित्यादिश्रुत्याऽनवद्यस्य शुद्धस्य चाहन्त्वप्रतीतेरित्यर्थः ।
व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगंयजि ।
न्यायामृततरङ्गिण्यां नानात्मास्मत्पदास्पदम् ।
पाण्डुरङ्गि आनन्दभट्टारकविरचितः
न्यायामृतकण्टकोद्धारः
नन्वथाप्यविद्या स्वीकर्तव्या । अन्यथाऽहङ्कारादिकार्यानुपपत्तेः । तथा च कार्या-न्यथानुपपत्तिरेवाविद्यायां प्रमाणम् । प्रामाणिके चार्थे प्रमाणमेव विषयादि कल्प-यिष्यतीत्यतोऽहमिति प्रतीयमानो नाज्ञानकार्यं किन्त्वात्मैवेति प्रतिपादयितुं परमत-मनुवदति ॥ यदपीति ॥ तथा च स्वप्रकाशत्वास्वप्रकाशत्वा भ्यामात्माहमर्थयोर्नैक्यमिति भावः । श्रुत्यापि तयोर्भेदमुपपादयति ॥ अथात इति ॥ ऐक्ये पृथगुपदेशानुपपत्तेः पौनरुक्त्यादिति भावः । स्मृत्याप्येतमर्थं साधयति ॥ महाभूतानीति ॥ नन्वह-मर्थस्यात्मस्वरूपाद्भेदे आत्मसम्बन्ध्यनुभवाश्रयत्वप्रतीतिः कथमित्यतस्तदुपपादयन्नुपसंहरति ॥ तस्मादिति ॥ न चात्मवत् सुप्तावप्यहमर्थस्य प्रतीयमानत्वादस्वप्रकाशत्वमसिद्धमित्यत आह ॥ यदि चेति ॥ अनुभवकार्यस्मरणाभावेनानुभवस्याप्यसिद्धिरिति भावः ।
नन्वेवं तर्हि उदासीनानुभवासिद्धिरित्यत आह ॥ अनुभूत इति ॥ अहमर्थ इति ॥ नन्वहमर्थस्य स्वप्रकाशात्मान्यत्वसिद्धिः सुषुप्तौ प्रकाशानुपपत्यैव । तदनुपपत्तिश्चनात्मा-न्यत्वेन येनान्योन्याश्रयः स्यात् । किन्तु प्रकारान्तरेण । तथाहि । अहमर्थस्ताव-दिच्छाविशिष्टो गृह्यते । गुणिग्रहणस्य गुणग्रहणव्याप्तत्वात् । अन्यथा रूपादिहीनोऽपि घटः प्रथेत । तथा चेच्छाभावेन सुषुप्तौ नाहमर्थग्रहणम् । तथाचाप्रकाशमानस्य प्रकाश-मानाद्भेदसिद्धिरिति चेन्न । इच्छाविशिष्टाहमर्थग्रहणस्य ममासिद्धेः । न चोक्तगुणिग्रहणं गुणव्याप्तमिति वाच्यम् । व्याप्तेरसिद्धेः । किञ्च किं गुणग्रहणं यावद्गुणग्रहणव्याप्तं किं वा यत्किञ्चिद्गुणग्रहणव्याप्तमिति ? नाद्योऽसम्भवात् । न हि घटादिप्रकाशे यावद्गुणप्रकाशः । न द्वितीयः । सङ्ख्यादिगुणप्रकाशस्य प्रकृतेऽपि सम्भवात् । सुखमस्वाप्समिति सुखप्रकाशस्य तदानीमपि सत्त्वाच्च । अन्यथा उक्तव्याप्त्या एकात्मापि न प्रकाशेत । न चात्मा निर्गुण एवेति वाच्यम् । वास्तवगुणवत्त्वस्याहङ्कारेऽप्यभावाद् । कल्पितगुणवत्त्वस्यात्मन्यपि सुवचत्वात् । घटादिदृष्टान्तश्च विषमः । चाक्षुषत्वादौ महत्त्वसमानाधिकरणोद्भूत-रूपत्वादेरिव गुणिग्रहणे गुणवत्त्वादेरप्रयोजकत्वात् । तथा च सुषुप्तौ प्रकाशान्यथानुपपत्त्या न स्वप्रकाशान्यत्वसिद्धिः । एवञ्च कथं नान्योन्याश्रयः ॥ अप्रकाशत्वेन तदन्यत्वं तदन्यत्वेनाप्रकाश इति ॥ अहमस्वाप्समिति ॥ न च परामर्शस्य चिन्मात्र एव पर्यवसानमिति वाच्यम् । अनुपपत्तेरभावात् । अन्यथाऽतिप्रसङ्गात् । नन्वयं परामर्शोऽहमर्थविषयक इति मया नाङ्गीक्रियते इति तत्राह ॥ अहमर्थ इति ॥
ननु परामर्शो नाहमस्वाप्समित्येवं रूपोऽपि तु अस्वाप्समित्येव तद्रूपमतः कथमहमर्थ परामर्श इत्यत अस्वाप्समित्येतावत एव परामर्शत्वमङ्गीकृत्यापि तस्याप्यहमर्थविषयत्व-मनिवार्यमित्याह ॥ अस्वाप्समित्यत्रापीति ॥ अहमर्थविषयत्वानङ्गीकारे उत्तम-पुरुषप्रयोगो न स्यादित्याह ॥ अस्वाप्समितीति ॥ परामर्शस्याहमर्थविषयत्वे विवरण-सम्मतिमाह ॥ उक्तञ्चेति ॥ न चान्तःकरणपदस्योपाधिमात्रपरत्वं शास्त्रैकसमधिगम्य-त्वादिति हेतूक्त्या न निष्कलङ्क इति उपाधिमात्रविरहिणि प्रत्यभिज्ञाननिषेधाच्चेति वाच्यम् । तथात्वे सुप्तावपि चिन्मात्रस्य भानाभावापत्तेः । न चाहमर्थांशे न परामर्शत्वम् । अज्ञानांशेऽपि तदभावापत्तेः । न चान्तःकरणविशिष्टे प्रत्यभिज्ञानिषेधो नाभिज्ञानिषेधः । सुप्तौ त्वभिज्ञैवेति वाच्यम् । प्रत्यभिज्ञाभावे अभिज्ञाया अप्यभावापत्तेः । कार्याभावे कारणसत्त्वस्यानवश्यकत्वात् ॥ यदि चेति ॥
ननु सुषुप्तिकालानुभूतात्मैक्याध्यासान्न संशयः । किन्त्वहमेवेति निश्चयो यथा पूर्वदिनानुभूतदेवदत्ताभिन्नतयाऽनुभूते चैत्रे सोऽयं न वेति न संशयः । किन्तु स एवेति निश्चय इति चेन्न । अनुभूताननुभूतयोर्विरुद्धधर्माकरणत्वेनैक्याध्यासासम्भवात् । अहमर्था-भेदेनैव संशयाद्यभावोपपत्तौ ऐक्याध्यासेन तदुपपादनस्यायुक्तत्वात् । अन्यथा स्थायि-पदार्थोन्मज्जनापत्तेः । प्रत्यभिज्ञाया अप्यैक्याध्यासेनापि सम्भवात् । न चात्र नाहमिति बाधकमस्ति । अन्योन्याश्रयाच्च । तस्मात् संशयादिकं दुर्वचम् । नन्वहमेवेति निश्चये प्रत्यक्त्वं भासते । तच्चात्मनिष्ठमेवेति तथा निश्चयो भविष्यतीति शङ्कते ॥ नन्विति ॥ चिदिति ॥ अत्र उभयत्र चित्त्वं स्वत्वं वा प्रत्यक्त्वमभिमतम् । चिन्निर्भास्यप्रतिद्वन्द्वि इत्यनेन चित्त्वमेव व्याख्यातम् । तथा अन्यत्वप्रतिद्वन्द्वीत्यनेन स्वत्वम् । एवञ्च चिदित्यादि सङ्गच्छत इति द्रष्टव्यम् । यदा स्वत्वमत्यक्तं तन्नात्ममात्रनिष्ठमित्याह ॥ नापीति ॥ अहमर्थस्यैवेति ॥ परागर्थव्यावृत्तत्वं नाम तदभेदेनाप्रतीयमानत्वम् । आत्मा तु घटः सन्निति परागर्थसम्भेदेनैव प्रतीयत इति तादृशं प्रत्यक्त्वमहमर्थनिष्ठमेवेति भावः ॥ तस्मादिति ॥ तथा च नाहमर्थभेद आत्मनीति भावः । प्रतिबन्द्या समाधत्ते ॥ न किञ्चिदिति ॥ अविशेषादिति भावः ।
नन्वज्ञानपरामर्शेऽहमर्थो नैव विषय इत्यत आह ॥ न हीति ॥ तथा चाज्ञान-परामर्शान्यथानुपपत्तिरेवाहमर्थपरामर्शे प्रमाणमिति भावः । अहमर्थपरामर्शेऽनुभवोऽपि प्रमाणमित्याह ॥ एतावन्तमिति ॥ अन्यथेति ॥ अहमर्थस्य परामर्शत्वाभावे इत्यर्थः । न च यथा दुःखित्वेन प्राक्ज्ञानं तथा मदन्यत्वेन प्राक् ज्ञानाभावान्न तथा परामर्श इति वाच्यम् । तथापि यः सुप्तः सोऽधुना अहं जात इति परामर्शस्य वज्रलेपत्वापत्तेः । अहमिदानीं सुखी जात इतिवद् घटाद्यन्यत्वादिवन् मदन्यत्वग्रहणस्याप्यवश्यकत्वाच्च । अन्यथा कदाचिद् घटान्यत्वादौ सन्देहः स्यात् ॥ अपरामर्श इति ॥ न च परामर्शभिन्ने तत्त्वेनाग्रहदशायां परामर्शत्वारोपोऽस्तु । घटभिन्ने घटत्वारोपदर्शनादिति वाच्यम् । अज्ञानांशे परामर्शत्वानुभवेन तद्भिन्नत्वस्यैवायोगात् । अज्ञाने ज्ञानत्वारोपस्य अविषये विषयत्वारोपस्य क्वाप्यदर्शनाच्च । अत एवानुव्यवसायस्य तदंशे यथार्थत्वनियमः सिद्ध इति । न चात्मान्यसिद्धेः प्रागेवाहमर्थापरामर्शः साध्यत इति वाच्यम् । आत्मान्यत्वाति-रिक्तस्य तत्साधनोपायस्य दूषितत्वात् ॥ अहमित्यतोऽन्य इति ॥ न चास्यैव परामर्शत्वेनाभ्युपगमान् नायं दोष इति वाच्यम् । तथात्वेऽहमर्थांशेऽपि तदापत्तेः ॥ एतेनेति ॥ सुप्तावहमर्थप्रकाशोपपादनेनेत्यर्थः । इष्टापत्तिमेवाह ॥ स्मर्यते हीति ॥ अन्यथेति ॥ यद्युक्तः परिहारः स्मर्यते इत्यस्य न भवेदित्यर्थः ॥ करणत्वादिति ॥ न चाहमर्थमात्रसापेक्षतया तदभिमानप्रकाशयोरुभयोः समव्याप्ततया परस्परप्रकाशेन परस्पर-परामर्शापादनेन व्यधिकरणत्वमिति वाच्यम् । अहमर्थस्यात्ममात्रत्ववादिनं प्रति अहमर्थ-मात्रसापेक्षत्वसमव्याप्त्योरसिद्धेः ॥ अन्यथेति ॥ यद्यर्थप्रकाशेन तदभिमान आपाद्ये-तेत्यर्थः । न चाभिमानपरामर्शेऽहङ्कारस्य तन्त्रतया सुप्तौ चाहमर्थाभावेन तादृशपरामर्शाभाव इति वाच्यम् । अहमर्थस्यात्ममात्रत्ववादिनः सुप्तौ तदभावासिद्धेः ॥ तस्मादिति ॥ सुप्तावहमर्थप्रकाशे स्मर्येतेति बाधकाभावादेवेत्यर्थः ।
ननु सुप्तावहमर्थप्रकाशे न किञ्चिदहमवेदिषमिति परामर्शानुपपत्तिः । तत्र सर्व-विषयकाज्ञानप्रतीतेरित्यत आह ॥ न किञ्चिदिति ॥ आत्मान्यविषयत्वेन सङ्कोचे अहमर्थान्यत्वेनापि सङ्कोचनीयम् । अविशेषादिति भावः ॥ विरोधादिति ॥ न च साक्षिरूपज्ञानं नाज्ञानविरोधीति न परामर्शस्य सङ्कोच इति वाच्यम् । तर्ह्यहमर्थोऽपि साक्षिणैव भासत इत्यङ्गीकारेण तस्य प्रकाशेऽप्यज्ञानविषयतोपपत्तेः साक्षिणोऽप्यज्ञान-विरोधस्योपपादितत्वाच्च । ननु सुप्तावहमर्थप्रकाशे न विजानाम्ययमहमस्मीति श्रुतिविरोधस् तत्र सुप्तावहमर्थप्रकाशस्योक्तत्वादित्यत आह ॥ या त्विति ॥ न चात्मावेदनश्रुतिर् विशेषाज्ञानविषयेति युक्तमहरहर्ब्रह्म गच्छन्ति सति सम्पद्येत्यादि श्रुत्यनुसारात् । न च तथा प्रकृते श्रुतिरस्तीति वाच्यम् । तदात्मानमेवावेदहं ब्रह्मास्मीति श्रुतिसद्भावाद् अहमर्थ-स्यात्मानन्यत्वेन तद्वेदनश्रुतेरेवाहमर्थवेदनश्रुतित्वोपपत्तेश्च ॥ किञ्चेति ॥ न चात्राप्य-विद्यावच्छिन्नाहमर्थावच्छिन्नयोरभेदात् स्मर्त्रनुभवित्रोरैक्यमुक्तमेवेति वाच्यम् । उपहितानु-पहितयोर्भेदस्य त्वयापि वाच्यत्वात् । अन्यथा चिद्गतमुक्तेर्विशिष्टनिष्ठत्वं विशिष्टगतसंसारस्य चिन्मात्रनिष्ठत्वे बन्धमोक्षयोः समानकालीनत्वापत्तेः । तथा चाहमर्थस्यैवानुभवितृत्वमिति सुप्तावहमर्थसिद्धिरिति भावः ।
ननु जीवचैतन्यस्य सर्वसाधारणत्वात् तदुपाधेश्चाविद्यायाश्चैकत्वाद् अनुभवितृस्मत्रोरैक्यं भविष्यतीत्यत आह ॥ यद्यपीति ॥ तयोरिति ॥ चैतन्यजीवत्वोपाध्योरित्यर्थः ॥ स्मर्तुरिति ॥ बन्धमोक्षयोः समकालत्वापत्येत्यर्थः । नन्वन्तःकरणस्याविद्यावच्छिन्नचैतन्यं प्रत्येवावच्छेदकत्वात् स्वातन्त्र्येण तदभावान् नाविद्यावच्छिन्नान्तःकरणावच्छिन्नयोर्भेद इति न प्रत्यभिज्ञाविरोध इत्यत आह ॥ यद्यपीति ॥ न च दृष्टान्तासम्प्रतिपत्तिः । तयोरेवोपाध्योर् उपहितभेदकत्वं यौ परस्परानुपहितमुपधत्त अन्यथा कम्बवच्छिन्नग्रीवा-वच्छिन्नादन्य एव घटाकाशः स्यादिति वाच्यम् । विशेष्यविशिष्टयोर्भेदनियमेन परस्परानुपहितत्वस्याप्रयोजकत्वात् । अन्यथा शुद्धविशिष्टयोरप्यभेदापत्तौ शुद्धस्य मिथ्यात्वं विशिष्टस्य वा सत्यत्वं स्यात् । प्रकृतेऽप्यविद्यावच्छिन्नस्य विशेष्यत्वाद् अन्तःकरणा-वच्छिन्नस्य विशिष्टत्वात् । तथा च कथं न प्रत्यभिज्ञाविरोध इति ॥ किञ्चेति ॥ न च कृशोऽहं स्थूलो भवामीतिवत् प्रवृत्युपपत्तिरिति वाच्यम् । तत्र देहस्थौल्यार्थमेव प्रवृत्तेः । अहम्पदार्थे स्थौल्याद्युपचारात् तथा प्रयोगोपपत्तेः । न च प्रकृतेऽपि चैतन्यसुखार्थमेव प्रवृत्तिः, चैतन्येऽहन्त्वोपचारात् तथा प्रयोग इति वाच्यम् । देह एव कार्श्यादि नाहम्पदार्थे इतिवच् चैतन्य एव सुखं नाहम्पदार्थ इति बाधकाभावात् । बाधकाप्रवृत्तावप्युपचारकल्पने इदं रजतमित्यत्रापि तत्कल्पनापत्तेरिति ।
नन्वभिन्नं चैतन्यमेव प्रत्यभिज्ञाविषयो नाहमर्थ इत्यत आह ॥ अभिन्न इति ॥ तथापि प्रत्यभिज्ञानुपपत्तिरेवेति भावः । उपलक्षणमेतत् । उत्तमपुरुषप्रयोगानुपपत्तिश्चेति द्रष्टव्यम् । ननु वास्तवकर्तृत्वाभावेऽपि तदारोपस्य सम्भवात् प्रत्यभिज्ञोपपत्तिरित्यत आह ॥ कर्तृत्वेति ॥ तथा च तस्यापि प्रत्यभिज्ञाविषयत्वं स्यादिति भावः ॥ किञ्चेति ॥ यदा मनआदीनामुपरम एवोक्ते न विनाशस् तदाऽहङ्कारस्य न विनाश इति कैमुत्येन सिद्धिरिति भावः । न चोपरमशब्देन विनाश एव विवक्षित इति वाच्यम् । स्वव्यापाररहिते वस्तुनि उपरमशब्दप्रयोगेन विनाशे तस्याशक्तत्वात्, तथाप्यहङ्कारनाशानुक्तेश्च । न च मनस उपरम उक्ते अहङ्कारस्यापि स उक्त एवेति वाच्यम् । अहंमनसोर्भेदात् । अन्यथा मनोनिर्गमे पिबन्नास्तैवेति श्रुतौ अहमर्थावस्थानोक्त्यसम्भवापातात् । न ह्यहमर्थाभावेऽशन-पानादिसम्भवः । सुप्तावप्यहङ्कारकार्यप्राणावस्थानस्य प्रत्यक्षसिद्धत्वाच्चेति दिक् ।
नन्वात्वाहमर्थयोरैक्ये श्रुतौ अथात आत्मादेशो ऽथातोऽहङ्कारादेश इति पृथगुपदेशो न स्यात् । तथा च तदन्यथानुपपत्या तयोर्भेद इत्यत आह ॥ अथात इति ॥ तथा च पृथगुपदेशस्य व्यभिचारितया न भेदसाधकत्वमिति भावः । भूमात्मनोः प्रथगुपदेशो न भेदसाधनक्षमस् तस्यान्यथासिद्धत्वात् । आत्माहमर्थयोस्तु नान्यथासिद्ध इत्याशङ्कते ॥ नन्विति ॥ दृष्टान्ते पृथगुपदेशस्यैक्यसाधकत्वे द्वयोर्भिन्नत्वेन प्रत्यक्षसिद्धत्वं प्रयोजकम् ? उभयोः सार्वात्म्यायोगो वा ? नाद्य इत्याह ॥ अहमर्थादन्यस्येति ॥ ननु अहङ्काराद् भिन्नात्मनो भूम्ना भिन्नत्वेन प्रत्यक्षासिद्धत्वेऽपि तदभिन्नतयाप्यसिद्धत्वात् पृथगुपदेशस्य द्वयो र्सार्वात्म्यानुपपत्तिसहकारेणाभेदसाधकत्वमस्त्विति द्वितीय एवास्त्विति चेन्न । तर्ह्यहमर्थ-स्यापि तत एवाभेदसाधकत्वं स्यात् । पृथगुपदेशस्य द्वयोः सार्वात्म्यानुपपत्तेरविशेषात् । न च तत्र जडाजडयोरभेदानुपपत्याऽनुपपत्तेः क्षीणशक्तित्वमिति वाच्यम् । अहमर्थजडत्व-स्याद्याप्यसिद्धेः । सुप्तावप्रकाशत्वादेः प्रागेव दूषितत्वात् ॥ त्वत्पक्ष इति ॥
ननु ‘यत्र नान्यत् पश्यति’ ‘स एवाधस्तादित्यादिना भूमस्वरूपोक्त्यनन्तरं यत्रे-त्याद्यधिकरणाधिकर्तव्यनिर्देशात् स इति परोक्षनिर्देशाच्च द्रष्टुर्जीवादन्यत्वप्रसक्तौ तद्वारणार्थ-मथातोऽहङ्कारादेश इत्यहङ्कारेण भूमि्न निर्दिष्टेऽहङ्कारस्य देहादिसङ्घातेऽविवेकप्रयोगदर्शनात् तदभेदप्रसक्तौ निष्कृष्टाहङ्कारकेवलात्मरूपमादाय अथात आत्मादेश इति द्रष्ट्रभेद उच्यत इत्यर्थपरत्वेन बिम्बादिपरत्वमिति चेन्न । त्वन्मते शुद्धस्याद्रष्ट्रत्वेन द्रष्ट्रभेदसिद्ध्यर्थमथात आत्मादेश इत्यादेर्वैयर्थ्यापातात् । द्रष्ट्रभेदे निर्विशेषत्वानुपपत्तेश्च । न चाभेदस्य कल्पित-त्वान्न निर्विशेषत्वविरोध इति वाच्यम् । तर्हि वास्तवभेदप्राप्तेः । न हि वस्तुतो भिन्नेऽभेदप्रसक्तिं सम्पाद्य तन्निवृत्यर्थं पुनरन्याभेदोपदेश इति सम्भवति । तथात्वे उन्मत्तवाक्यत्वापत्तेः । ‘अथात आत्मादेश’ इत्यनेनैव द्रष्ट्रभेदसिद्धौ अहङ्कारेण निर्देश-वैयर्थ्याच्च । न च बिम्बादिपरत्वेऽपि स्थूलारुन्धतीन्यायेनाहङ्कारोपदेश इति वाच्यम् । तथापि भूमोपदेशानन्तरमहमर्थोपदेशानुपपत्तेः । न ह्यरुन्धत्युपदेशार्थं काञ्चित् सूक्ष्मां तारकामुपदिश्य स्थूलामुपदिशति । तस्माद्यत्किञ्चिदेतत् । किञ्चानेकेषां सार्वात्म्यायोगात् तयोरुपदेशोऽभेदार्थ इति ते मतम् । न च तद्युक्तमत्र सार्वात्म्योपदेशाभावात् किन्तु सर्वगतत्वस्यैवेत्याह ॥ स एवेदमिति ॥ न चेदं वाक्यं स भगवः कस्मिन् प्रतिष्ठित इत्यादिवाक्यानुसारेण भूमातिरिक्तं किमपि नास्तीत्येतदर्थपरम् । तद्वाक्ये भूम्न अधिकरणे पृष्टे परमार्थतः स्वयमधिकरणमित्याद्युक्तेरिति वाच्यम् । स भगव इत्यादिवाक्ये ब्रह्मणः स्वाधारत्वेन स्वातन्त्र्यमन्यस्य ब्रह्माधारत्वेन पारतन्त्र्यमेवोच्यते । न तु भूमातिरिक्त-वस्त्वभावोऽपदार्थत्वाद् अवाक्यार्थत्वाच्च । तथा च न तदनुसारेणेदं वाक्यं सार्वात्म्यपरम् । किन्तु ब्रह्मणः सर्वनियमनार्थं सर्वगतत्वपरमेवेति ।
ननु सार्वात्म्यवत् सर्वगतत्वमप्यनेकेष्वपि सम्भवतीति तदन्यथानुपपत्या तदभेद-सिद्धिरित्यत आह ॥ सर्वगतत्वस्य चेति ॥ किञ्च ब्रह्मात्माभेदसिध्यर्थं हि सर्वोपदेश इति ते मतम् । तस्य चाहङ्कारोपदेशं विनैव सिद्धेरहङ्कारोपदेशवैयर्थ्यमित्याह ॥ भूमेति ॥ आत्मन इति ॥ न चात्मन अपरोक्षत्वेऽपि अहङ्कारे तत्सुप्रसिद्धमिति तदुपदेश इति वाच्यम् । अपरोक्षैकरसेऽप्रसिद्धं तत्सम्बन्धेनापरोक्षे तत्सुप्रसिद्धमित्यस्यायोगात् । अन्य-थाऽत्मनोऽपरोक्षैकरसतासिद्धेरिति । ननु श्रुतेरुक्तार्थपरत्वाभावेऽर्थान्तराभावेनाप्रामाण्यप्रसङ्ग इत्यत आह ॥ श्रुत्यर्थस्त्विति ॥ तथा च स्मृत्यैव श्रुतेर्व्याख्यातत्वाद् अर्थान्तरसम्भवेन नाप्रामाण्यम् । न च श्रुत्या स्मृतेर्बाधः श्रुतेर्बलवत्वादिति वाच्यम् । स्मृतेर्व्याख्यानरूपत्वेन निर्णीतार्थत्वात् । श्रुतेश्च व्याख्येयत्वेन सन्दिग्धार्थत्वात् स्मृत्यनुसारेणैव श्रुतेर्व्याख्ये-यत्वात् । अन्यथा अपि स्मर्यते इत्यादिसूत्रैः स्मृत्यनुसारेण श्रुत्यर्थप्रतिपादनानुपपत्तेः । मोक्षधर्मवचनाच्चाहङ्कारशब्दोऽहमर्थवाचीत्याह ॥ मोक्षधर्मे चेति ॥ न चात्र लक्षण-याऽहङ्कारशब्द आत्मपर इत्युच्यते इति वाच्यम् । प्रोक्त इत्यनेन शक्तेरेव प्रतिपादनात् । अहङ्कारशब्दस्यात्मपरत्वानङ्गीकारे सूत्रविरोधोऽपीत्याह ॥ सूत्रं चेति ॥ न च सैव हि सत्यादय इत्यत्रादिशब्द अहङ्कारान्यपर इति वाच्यम् । सङ्कोचे बाधकाभावात् । अन्यथा भूमान्यपर इत्यपि स्यात् । अहङ्कारशब्दस्यात्मपरत्वानङ्गीकारे बाधकमप्याह ॥ अन्य-थेति ॥ न चात्र व्याप्त्युक्तिरौपचारिकीति वाच्यम् । भूमादावपि तथाभावप्रसङ्गात् ।
ननु अहङ्कारशब्दस्यात्मवाचित्वे अहङ्कारश्चेत्यादिश्रुतिस्मृतिविरोधः । तत्राहङ्कार-स्यात्मनः पार्थक्येन क्षेत्रत्वस्योक्तत्वादित्यत आह ॥ अहङ्कारश्चेति ॥ अहङ्कारशब्दस्य नानार्थत्वान्न कोऽपि विरोधः । न चैवं नानार्थत्वकल्पनायां कल्पनागौरवमिति वाच्यम् । अक्षादिपदवत् प्रामाणिकत्वात् । अस्तु वा अहङ्कारशब्दस्य तत्त्ववाचित्वम् । प्रकृतश्रुतौ व्याप्त्युक्तिबाधकाद् लक्षणयाऽनिरुद्धपरत्वे बाधकाभावात् । नन्वहङ्काराख्यं तत्वमस्तीत्यत्र किं प्रमाणमित्यत आह ॥ महत्तत्त्वादिति ॥ नन्वहमर्थपरस्याहंङ्कारशब्दस्य क्षेत्रे प्रयोगाद् अहमर्थस्य क्षेत्रत्वमित्यत आह ॥ अन्यथेति ॥ नन्वहङ्कारशब्दोऽहमर्थत्वनियतो न बुद्धिशब्दस्तथेत्यत आह ॥ अहङ्कारशब्दस्येति ॥ तथा च व्यभिचारान् नाहङ्कार-शब्दस्याहमर्थत्वनियम इति भावः । किञ्चाहङ्कारशब्दस्याहमर्थे प्रयोगे सति तदर्थत्वमिति शङ्कनीयम् । तदेव नास्तीत्याह ॥ अहमर्थ इति ॥ नन्वहमर्थेऽहंशब्दप्रयोगाद् अहंशब्दाहङ्कारशब्दयोश्च पर्यायत्वाद् अहङ्कारशब्दोऽपि तत्र प्रयुक्त एवेत्यत आह ॥ आत्म-वाचिन इति ॥ अहङ्कारशब्दपर्यायोऽहंशब्दो मकारान्तमव्ययम् । तच्चात्मनि कदापि न प्रयुज्यते । आत्मवाच्यहंशब्दस्तु दकारान्तास्मच्छब्दजः । स त्वहङ्कारे कदापि न प्रयुज्यत इति तयोरर्थभेद आवश्यकः । तथाचाहंशब्दप्रयोगान् नाहङ्कारशब्दप्रयोग इति भावः । ननु त्रयाणामपि पर्यायत्वमेवाऽहमिति प्रतीयमानाहङ्कारविषयत्वादिति चेन्न । अहमिति प्रतीतेरहङ्कारविषयत्वासिद्धेः । त्रयाणामहङ्कारविषयत्वस्य सुतरामसिद्धेश्च । अन्यथाऽहङ्कारे मामित्यादिप्रयोगापत्तेश्च । तथा च मान्तदान्तत्वभेदेनार्थभेदकल्पनमेव युक्तमन्यथा साङ्कर्यप्रसङ्गादिति भावः । नन्वहमर्थेऽचिद्धर्मस्य कर्तृत्वादेः प्रतीयमानत्वाद् अचिदंशोऽपि स्वीकर्तव्य एव । तथा चागतमहमर्थे चिदचित्संवलनात्मकत्वम् । आत्मा तु चिन्मात्रमिति तस्मात्तस्य भेदसिद्धिरित्यत आह ॥ अहमर्थ इति ॥
ननु कथमसिद्धिः कर्तृत्वादेरचिद्धर्मस्यात्मनि प्रतीयमानत्वात् । अहं कर्तेति हि सर्वेषां प्रतीतिरित्यत आह ॥ कर्तृत्वादेरिति ॥ ननु भोक्तृत्वादीनां भोगाद्युपाधिकत्वाद् भोगा-देश्चान्तःकरण परिणामत्वेन तद्धर्मत्वमावश्यकमित्यत आह ॥ अन्तःकरणधर्मत्व इति ॥ न च तदंशाभावे तद्धर्मप्रतीतिरसिद्धैवेति वाच्यम् । संसर्गारोपपक्षे शुक्त्यादावपि रजतत्वादि-धर्मप्रतीत्या रजतांशस्वीकारापत्तेः । तथा च गौरोऽहमित्यादिसर्वे प्रत्यया यथार्थाः प्रसज्येरन्निति भावः । नन्वहमर्थे इदमंशाभावे परकीयाहमर्थे इदमिति प्रतीतिर्न स्यात् । तस्या अचिदंशनियतत्वादित्यत आह ॥ यत्विति ॥ अन्येति ॥ यद्ययमिति बुध्याऽनात्मांशसद्भावस्तदेत्यर्थः । नन्वहमर्थाश्रितत्वेन प्रतीयमानत्वादात्मनो नाहमर्थत्व-मित्याशङ्क्य निषेधति ॥ न चेति ॥ अहमर्थाश्रितत्वेनेति ॥ अस्यां प्रतीतौ वैषयिकयोर्ज्ञानसुखयोरेव प्रतीत्या तयोरात्मत्वाभावादिति भावः ॥ विरोधादिति ॥ भ्रान्तेर्विषयाभावनियतत्वेन तया भेदसाधने नित्यत्वसाधनकृतकत्ववद् विरुद्धमिति भावः । ननु तथापि विरुद्धधर्माधिकरणत्वान् नाहमर्थात्मनोरैक्यमित्याशङ्क्य निषेधति ॥ न चेति ॥ अहमर्थ इति ॥ तथा चासिद्धिरिति भावः ॥ त्वन्मत इति ॥ न च चितोऽपि येन रूपेणाहमिति प्रतीतिविषयत्वं तेन रूपेणानात्मत्वमिष्टमेवेति नानैकान्तिकतेति वाच्यम् । हेतौ साध्ये वा तेन रूपेणेत्यस्याप्रवेशात् । अहमर्थस्यापि तेन रूपेणानात्मत्वेऽपि स्वरूपेणात्मत्वोपपत्तेः । चैतन्यमनात्मा अहमिति प्रत्ययविषयत्वात् शरीरवदित्यपि प्रयोगाद् आभाससाम्यं च । बाधादिकं चोभयत्रापि तुल्यमिति ।
नन्वहमर्थ आत्मानो ऽहंशब्दाभिधेयत्वाद् अहङ्कारशब्दाभिधेयत्वाच्छ रीरादि-वदित्यादिनाऽहमर्थस्यान्यत्वसिद्धिरिति चेन्न । ब्रह्मण्यपि तदात्मानमेवावेदित्यादिप्रयोगेण हेतुसत्त्वेनानैकान्त्यात् । तत्र लक्षणयैव प्रयोगान्न हेतुसत्त्वमिति यदि तदा प्रकृतेऽपि तथा प्रयोगसम्भवादसिद्धिः । अहमर्थाज्ञानान्यात्मज्ञाना भावेनाहमिति ज्ञानविषयत्वस्यात्मत्व-नियतत्वेन बाधाद्यापाताच्च । नात्मेति प्रतीतिविषयत्वस्योपाधित्वाच्च । द्वितीयहेतुश्च स्वरूपासिद्धः । पर्यायताया निरस्तत्वादप्रयोजकत्वाच्च । नानार्थन्यायेनोभयोरप्युभय-शब्दवाच्यत्वसम्भवाच्च ॥ किञ्चेति ॥ न चेदमानात्मनोऽधिष्ठानावच्छेदकत्वेनाधिष्ठान-त्वोक्तिरिति वाच्यम् । दृष्टान्तासम्प्रतिपत्तेः । अहमर्थस्यात्मान्यत्वसिद्ध्यनन्तरमेवा-धिष्ठानावच्छेदकत्वस्य कल्पनीयत्वेनान्योन्याश्रयाच्च । त्वन्मते प्रपञ्चारोपेऽपि ब्रह्मणोऽधिष्ठानावच्छेदकत्वापाताच्च ॥ अन्योन्याश्रयादिति ॥ सिद्धे अहमर्थात्मनोर्भेदे तदैक्यारोपसिद्धिः । तत्सिद्धौ च भेदसिद्धिरिति । न च प्रकाशाव्यभिचारः स्वप्रकाशात्मसम्बन्धं विना न सम्भवतीति अहङ्कारस्य स्वसत्तायां प्रकाशावैधुर्येण स्वप्रकाशत्वसाधनं युक्तमेवेति वाच्यम् । अस्याप्यात्माहमर्थयोर्भेदसाध्यत्वेनान्योन्या-श्रयात् । प्रकारान्तरेण भेदसिद्धेर्निरस्तत्वात् । तथा चात्मनः स्वप्रकाशत्वादिसिद्धयेऽह-मर्थत्वमवश्यमभ्युपेयमिति भावः ॥ वाचस्पतिनेति ॥ न चाधिष्ठानगतेदन्तावद् आत्मगतप्रेमास्पदत्वस्याहमर्थे भानमविरुद्धमिति वाच्यम् । सत्यस्थलेऽपीदं रजतमिति प्रतीत्येदन्तायाः साधारणत्वात् । वाचस्पतिवचनस्य तु अधिष्ठानगतासाधारणधर्मस्य नाध्यस्ते भानमध्यस्तगतासाधारणस्य तु अधिष्ठाने भानमित्येवम्परत्वेनारोप्यगतस्यैव निरुपाधिकपरमप्रेमास्पदत्वाभावस्य प्रतीतिः स्यादित्यापादनाददोष इति भावः ॥ अहमिति ॥ तथा च नात्मैक्याध्यासेन तद्गतपरमप्रेमास्पदत्वानुभव इति शेषः । न चायमनुभवो वैषयिकसुखविषय इति वाच्यम् । इतोऽतिरिक्तस्याजन्यसुखानुभवस्याभावाद् विषयैरपि नित्यं सुखमभिव्यज्यत इत्युक्तत्वेन त्वन्मते जन्यसुखस्याभावाच्च ॥ किञ्चेति ॥ न च सोपाधिकप्रेमास्पदनाशेन बाह्यमतप्रवेशः । तथात्वे शरीरनाशेनापि तदापत्तेरिति वाच्यम् । अहमर्थातिरिक्तस्य निरुपाधिकप्रेमास्पदस्याननुभवाद् अहमर्थ एव निरुपाधिक-प्रेमास्पदताया दर्शितत्वाच्च । तथा चाहमर्थनाशे कथं न बाह्यमतप्रवेशापत्तिरिति । नन्वहमर्थनाशेऽपि चिन्मात्रस्यानाशान्न बौद्धमतप्रवेश इति चेन्न । तत्तुल्यस्य तन्मतेऽपि सत्त्वादित्याह ॥ तदन्यस्येति ॥ निर्विशेषत्वेन चिन्मात्रस्य शून्यतुल्यत्वादिति भावः ॥ एवमिति ॥ चिन्मात्रस्यैव मुक्तिरहमर्थस्य तु नाश एवेत्यङ्गीकार इत्यर्थः । किन्तु चिन्मात्रं मुक्तं स्यादिति इच्छा स्यादिति शेषः । चिन्मात्रस्यैव मुक्त्यन्वयेऽपि मुक्तः स्यामि-तीच्छोपपद्यत इति शङ्कते ॥ नन्विति ॥ अत्रैवानुरूपदृष्टान्तद्वयमाह ॥ यथेति ॥ अन्योन्येति ॥ आत्माहमर्थयोर्भेदसिद्धौ तथा कल्पनम् । तत्कल्पने च तयोर्भेद-सिद्धिरित्यन्योन्याश्रय इत्यर्थः ॥ तत्रेति ॥ न च श्रुतिरपि शुद्धचैतन्यगतममृतत्वं विषयीकरोति नाहमर्थनिष्ठमिति वाच्यम् । अहमर्थवाच्यस्मच्छब्दप्रयोगानुपपत्तेः । न च लक्षणया चिन्मात्रपरोऽस्मच्छब्द इति वाच्यम् । मुख्यार्थबाधकस्यात्मान्यत्वस्यासिध्याऽ-न्योन्याश्रयात् । एवमेव लक्षणाश्रयणेऽतिप्रसङ्गाच्च ।
दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमुपपादयन् मुक्तेरनिष्टत्वमप्याह ॥ तत्रेति ॥ न चेच्छा-समयेऽन्तःकरणाध्याससम्भवेन तथेच्छाया अभावेऽपि विवक्षितविवेकेन विशेष्यगतमुक्ति-विषयत्वमेव कल्पनीयमिति वाच्यम् । अन्योन्याश्रयत्वस्योक्तत्वात् । अहमर्थस्याद्या-प्यात्मभेदासिध्या अन्तःकरणाध्यासकल्पनासम्भवात् । ननु प्रकृतेऽप्यात्मा मुक्तः स्यादिति विपरीतेच्छा अस्तीत्यत आह ॥ यः कश्चिदिति ॥ तथात्वे यः कश्चित् तृप्तः स्यादितीच्छया भोजनादौ प्रवृत्तिः स्यादिति भावः । ननु ममात्मा मुक्तः स्यादितीच्छया प्रवृत्तौ अङ्गीक्रियमाणायां नातिप्रसङ्ग इत्यत आह ॥ ममेति ॥ मामात्मा तृप्तः स्यादितीच्छावदिति भावः । ननु सेच्छा नाहमर्थं विषयीकरोति । किन्त्वात्ममात्र-गतत्वमित्यत आह ॥ न चेति ॥ तथा चातिप्रसङ्गः स्यादिति भावः ॥ किञ्चैवमिति ॥ न च संवलनं न सम्बन्धमात्रम् । किन्तु तादात्म्यम् । अहमिति प्रतिभासे चिदचितोस्तादात्म्यं विषयः । मनः स्फुरतीत्यत्र तु न तद्विषय इति विशेष इति वाच्यम् । इदं रजतमित्यत्रेव मनः स्फुरति प्रकाशते इत्यत्रापि सामानाधिकरण्येन तादात्म्य-भानस्यावश्यकत्वात् । अन्यथा इदं रजतमित्ययं तादात्म्यारोपो न स्यात् । तथा च विशेषापादनं युक्तमेवेति ॥ यदि कल्प्यत इति ॥ न चाहमर्थस्य मिथ्यात्वान्यथानु-पपत्तिप्रमाणादहमित्यत्र द्व्यंशता कल्प्यते । आत्मेत्यत्र तु कल्पकं न प्रमाणमिति न द्व्यंशताकल्पनमिति वाच्यम् । अन्योन्याश्रयात् । अहमर्थमिथ्यात्वस्याद्याप्यसिद्धत्वात् । न चात्मान्यत्वेन मिथ्यात्वम् । तस्याप्यसिद्धत्वात् । किञ्च विषयत्वं भिन्नभिन्न-प्रकारावच्छिन्नाधिष्ठानारोप्यविषयत्वम् । न च तदहमिति प्रतिभासेऽस्ति । न च तादृशद्व्यंशविषयत्वस्य रजतमिदमिति संसर्गारोपे व्यभिचारः । न च तत्रापि रजत-प्रकारावच्छिन्नत्वमेव रजतत्वांश इति वाच्यम् । तत्र मानाभावादिति वाच्यम् । रजतत्वं स्मृतमारोपणीयम् । न च स्मृतिर्निष्प्रकारिका । न वा तदन्यः प्रकारोऽनुभूयत इति रजतावच्छिन्नमेव रजतत्वमारोप्यमिति क्व संसर्गारोपे व्यभिचारः ॥ त्वन्मत इति ॥ न च स्फुरामीत्यत्राविद्यावृत्तिर्न विषयः । किन्तु स्फुरणं चैतन्यम् । तस्य चान-ध्यस्तत्वादधिष्ठानत्वं भविष्यतीति वाच्यम् । एवं हि रजतं स्फुरतीति प्रतीत्या रजतस्यापि स्फुरणरूपचैतन्यमेवाधिष्ठानं स्यात् । तथा च इदमर्थासन्निकर्षेऽपि अहमितिवद् रजतमिति प्रतीतिः स्यादिति विज्ञानवादप्रवेशः । न च तत्र स्फुरतीति वृत्तेरेवोल्लेखो न चैतन्यस्येति वाच्यम् । तर्हि प्रकृतेऽपि स्फुरामीति भ्रमस्यैवोल्लेख इति गृहाण । तथा च भ्रमस्याध्यस्तत्वात् कथमधिष्ठानत्वम् । किञ्च स्फुरणस्याधिष्ठानत्वे स्फुरणमहमिति प्रतीतिः स्यात् । न तु स्फुरामीति । किञ्च देवदत्तो गच्छतीतिवद् अहमर्थस्फुरणयोराश्रयाश्रयिभावेन प्रतीत्या भेदप्रतीतेर्नाधिष्ठानाध्यस्तभाव इत्याह ॥ अहमिच्छामीतीति ॥
ननु तथाप्यस्तित्वमेवाधिष्ठानं भविष्यति । तस्यानध्यस्तत्वेनाधिष्ठानसम्भवाद् इत्यत आह ॥ बाधकेनेति ॥ तथा च बाध्यत्वेन तस्याप्यध्यस्तत्वमवश्यमुपेयमिति भावः । अस्तु वाऽन्यत्र यथा तथा अहमित्यत्र तु न सर्वथा द्वयंशत्वमित्याह ॥ त्वदभिप्रेत-स्येति ॥ कल्पनं तु प्रागेव प्रमाणाभावेन दूषितमिति भावः । तथा चाहमर्थस्यात्मभिन्नत्वे न किमपि प्रमाणमित्युपसंहरति ॥ तस्मादिति ॥ नन्वहमर्थस्यात्मत्वेऽपि प्रमाणा-भावात् । कथमात्मत्वमित्यत आह ॥ आत्मत्वे त्विति ॥ अहम् इत्यादिकं योऽहं सुप्तः सोऽहं सुप्तः सोऽहं करोमीत्यादिकञ्च । अत्र यावती अनुपपत्तिः सा सर्वापि परिहृतैवेति ।
अनुमानमप्याह ॥ अहमर्थ इति ॥ नन्वत्र विशेषव्याप्तिर्वा सामान्यव्याप्तिर्वा ? नाद्यो दृष्टान्ताभावात् । न द्वितीयः स्वर्गसाधनकृत्याश्रये ऋत्विजि व्यभिचाराद् इति चेन्न । स्वर्गेतरफलानपेक्षत्वे सति इति विशेषणान्नर्त्विजि व्यभिचारः । तस्य स्वर्गेतर-दक्षिणाद्यपेक्षत्वात् । तथा च सामान्यव्याप्तौ न दोषः ॥ अहमर्थ इति ॥ न च शरीरे व्यभिचारः । तत्रानर्थाश्रयत्वहेतोरभावात् । न ह्यहं कर्ता भोक्तेत्यादिवत् शरीरं कर्तृ भोक्तृ इत्याद्यनुभवोऽस्ति । तथा च न व्यभिचारः । अहमर्थस्य च तदाश्रयावृत्तित्वमुपाधिः । कृत्यादय आत्मगुणा इति पक्षे तस्य सत्त्वेन साधनव्यापकत्वाद् अनुकूलतर्काभावेन साध्याव्यापकत्वाच्च । कृत्यादयोऽन्तःकरणधर्मा इति पक्षे तु अन्तःकरणादौ साध्या-व्यापकत्वाच्च मम मन इति प्रतीत्याऽन्तःकरणस्याहमर्थाद्भेदेनाहमर्थस्यान्तःकरणत्वा-नाश्रयत्वात् ॥ श्रुतयश्चेति ॥ अहमर्थस्यात्मत्वे प्रमाणमिति शेषः । न च सर्वत्राहंशब्दो लक्षणया निष्कृष्टचैतन्यपर इति वाच्यम् । लक्षणाबीजमुख्यार्थानुपपत्तेरभावात् । एवमेव लक्षणास्वीकारेऽतिप्रसङ्गाच्च । तदेवमहमर्थात्मनोरभेदान् नाहङ्कारादिकार्यानुपपत्याऽ-विद्यास्वीकरणीयेति मत्वोपसंहरन् उक्तमर्थं कारिकारूढं करोति ॥ तस्मादिति ॥
॥ इति अहमर्थस्यानात्मत्वभङ्गः ॥
श्रीनिवासतीर्थविरचितः
न्यायामृतप्रकाशः
अहमर्थो नात्मा तस्मिन्प्रकाशमानेऽप्यप्रकाशमानत्वादित्यनुमाने विशेषणासिद्धिं परिहरति ॥ पश्चादिति ॥ परामर्शः स्मरणम् । हेतौ विशेष्यभागं दर्शयति ॥ अनेवंविधस्येति ॥ अप्रकाशमानस्येत्यर्थः । अनुमानानुग्राहिकां श्रुतिं चाह ॥ अथात इति ॥ छान्दोग्ये भूमप्रकरणे ‘यत्र नान्यत्पश्यति’ इत्याद्युक्त्वा ‘स एवाधस्तात्’ इत्यादिना भूमानं सर्वात्म-कत्वेनोक्त्वा ‘अथातोऽहङ्कारादेशो ऽहमेवाधस्तात्’ इत्यादिना अहङ्कारं च निरूप्य ‘अथात आत्मादेश आत्मैवाधस्तात्’ इत्यादिनाऽहङ्कारादात्मनः पार्थक्येनोपदेशाच्चाहमर्थो नात्मा अन्यथा तदनुपपत्तेरित्यर्थः । क्षेत्रज्ञाज् जीवात् ‘क्षेत्रज्ञ आत्मा पुरुषः’ इत्यभिधानात् । अहङ्कारस्य चिदचित्संवलनात्मकत्वमुपपादयति ॥ तस्मादिति ॥ तच् चित्संवलनो-पपादनायाह ॥ अहमिति ॥ आत्मानुबन्धीति ॥ तथा चात्मानुबन्ध्यनुभवाश्रयत्वस्या-हङ्कारे प्रतीयमानत्वादहमर्थे चिद्भागोऽस्तीत्यर्थो ऽचित्संवलनोपपादनायाह ॥ अनात्मानु-बन्धीति ॥ अनात्मत्वनियतं यत् कर्तृत्वं तस्याप्यत्र प्रतीयमानत्वाद् अचित्संवलन-मस्तीत्यर्थः ॥ अध्यस्त इति ॥ अनुभवितृत्वाद्याश्रयस्य शुद्धचिद्रूपत्वकेवलाचिद्रूपत्वयोर-भावाद् उभयसंवलनात्मकस्य तु सत्यत्वायोगादध्यस्त इत्यर्थः । उक्तहेतौ विशेष्यासिद्धिं परिहरति ॥ यदि चेति ॥ ह्यस्तन इवेति ॥ पूर्वदिनानुभूताहमर्थ इवेत्यर्थः । यथा पूर्व-दिनेऽहमित्यनुभूतोऽहमर्थोऽद्य स्मर्यते तथा सुषुप्तौ अहमर्थोऽनुभूतश्चेत्सुप्तोत्थितेन स्मर्ये-तेत्याशयः ।
नन्वहमस्वाप्समिति स्मर्यत इति चेत् तदंशेऽनुभवरूपताया वक्ष्यमाणत्वात् । अनुभूते स्मरणनियमाभावात्सुप्तावह मर्थानुभवेऽपि इदानीं स्मरणाभावो युक्त इत्यत आह ॥ अनुभूत इति ॥ स्मर्यमाणेति ॥ स्मर्यमाणात्ममात्रत्वाङ्गीकारात् । स्मर्यमाणात्मानतिभिन्नत्वाङ्गी-कारात् तथा च स्मरणमावश्यकमेव । न स्मर्यते च । अतोऽप्रकाशरूपविशेष्यस्य नासिद्धि-रित्यर्थः । इति यदप्युच्यत इत्यन्वयः । आत्माहमर्थयोरभेदवादिनं प्रति आत्मनः प्रकाशे सति अहमर्थस्याप्रकाश इत्येतदसिद्धमित्यभिसन्धायाह ॥ तत्रेति ॥ आत्मनः स्वप्रकाशत्वात्प्रकाशो ऽहमर्थस्यान्यप्रकाशत्वादप्रकाश इत्यर्थः ॥ अद्यापीति ॥ अहमर्थस्य प्रकाशमानात्मान्यत्वसिद्धौ सुषुप्तावप्रकाशसिद्धिस् तत्सिद्धौ च तथाविधात्मभिन्नत्वसिद्धि-रित्यन्योन्याश्रय इत्यर्थः ॥ नापीति ॥ आत्मनः परामर्शात्सुषुप्तौ प्रकाशो ऽहमर्थ-स्यापरामर्शात्सुषुप्तावप्रकाश इत्यर्थः । अहमर्थापरामर्श एवासिद्ध इत्याह ॥ अहमिति ॥ अवेदिषमित्यत्राहमर्थस्यैवोत्तमपुरुषविषयत्वादित्यर्थः ॥ परामर्शादिति ॥ तथा च न तस्य परामृश्यमानात्मान्यत्वमित्यर्थः ।
नन्वयमात्मन एव परामर्शो न त्वहमर्थस्येत्याशङ्क्य तत्र दूषणं कारिकयैव सङ्गृह्णाति ॥ अहमर्थ इति ॥ आत्मविषये स परामर्शः कथमित्यर्थः । नन्वहंज्ञानादन्यत्वमेवात्म-परामर्शस्य अस्वाप्समित्यत्राहमर्थाप्रतीतेः । येन तद्विषयत्वं स्यादित्यत आह ॥ अस्वाप्समित्यत्रापीति ॥ अभिज्ञाभिलपनयोः समानार्थत्वाज् ज्ञानप्रसङ्गे प्रयोगोदाहरणं नासङ्गतमिति ज्ञेयम् । अहमर्थस्यैव परामर्शविषयत्वमित्येतद्विवरणकारस्यापि संमतमित्याह ॥ उक्तं चेति ॥ प्रत्यभिज्ञानं स्मरणरूपपरामर्शः ॥ शास्त्रेति ॥ तथा च तस्यास्मि-न्परामर्शे भानमयुक्तमित्यर्थः । एवमहमर्थस्यैव परामर्शविषयत्वमुपपाद्य विपक्षे बाधकमप्याह ॥ यदि चेति ॥ इदमर्थः परागर्थः । तद्व्यावृत्तः प्रत्यग्रूपः । प्रत्यक्त्वमेवाहमर्थत्वं न ततो भिन्नं तथा च यदि परागर्थव्यावृत्तः प्रत्यगर्थरूपोऽहमर्थो न परामृश्यते तर्ह्येतावन्तं कालं सुप्तोऽहं वा प्रत्यगर्थो वेत्यर्थः । अन्यः परागर्थो वेति सन्देहः स्यान् न त्वहमेवेति निश्चयो ऽन्यत्वाख्येदमर्थरूपपरागर्थव्यावृत्तेः सुप्तावभानात् । पुरुषत्वव्यावृत्त्यप्रतीतिदशायां पुरोवृत्तिनि तत्कोटिकसंशयदर्शनात् । न ह्येवं भवति संशयः कस्यचित् । अतः सुप्ता-विदमर्थव्यावृत्तं प्रत्यक्त्वरूपमहमर्थत्वमेव प्रतीयत इत्यङ्गीकार्यम् । ततश्च तस्यैव परामर्श-विषयत्वसिद्धिरिति भावः ।
ननु अहमर्थो न परामृश्यते किन्त्वात्मैकः स एव च प्रत्यगर्थस् तथा च परामृश्य-मानात्मनि प्रत्यक्त्वनिश्चयान्न एवाहन्त्वनिश्चय इति वक्तुं प्रत्यक्त्वं विकल्प्य दूषयति ॥ प्रत्यक्त्वमिति ॥ चिन्निर्भास्येति ॥ चिज्ज्ञानं तेन निर्भास्यं दृश्यपराग्भूतं जडं तत्प्रति-द्वन्द्वि तत्प्रतिकूलं यच् चित्त्वं तदेव प्रत्यक्त्वमित्यर्थः । अन्यत्वं पराक्त्वं तद्विरुद्धं यत्स्वत्वं तदेव प्रत्यक्त्वमित्यर्थः । आद्य आह ॥ चिदिति ॥ अहमर्थभिन्नपरागर्थविरोधिचित्त्वरूप-प्रत्यगर्थपरामर्शाङ्गीकारे चिदस्वपीदिति परामर्शः स्यादित्यर्थः । द्वितीय आह ॥ स्वय-मिति ॥ अहमर्थभिन्नपरागर्थभूतान्यत्वविरोधिस्वत्वरूपप्रत्यगर्थपरामर्शाङ्गीकारे स्वयमस्व-पीदिति परामर्शः स्यादित्यर्थः । किञ्च स्वत्वरूपप्रत्यक्त्वस्य घटादावतिव्याप्तिश्च स्यान् न च तत्र स्वत्वाभाव इति वाच्यम् । घटादिः स्वस्माद्भिन्नो नेत्यादिप्रतीत्या स्वत्वस्य प्रतीय-मानत्वाद् अन्यथा स्वस्मादित्यप्रयोगाद् अतो घटादिरपि प्रत्यगर्थः स्यादित्याह ॥ घटादि-रिति ॥ युष्मदर्थेति ॥ पराग्व्यावृत्तत्वमेव प्रत्यक्त्वम् । पराक्त्वनिर्वचनाय युष्मदर्थे-त्युक्तम् । नेदमहमर्थव्यावृत्तमित्याह ॥ अहमर्थस्यैवेति ॥ तदिति ॥ युष्मदर्थरूप-पराग्विरुद्धत्वादित्यर्थः । किञ्च युष्मदर्थभूतपराग्व्यावृत्तत्वरूपप्रत्यक्त्वस्यात्मन्यसम्भवो ऽनावृतात्मचैतन्यस्य व्याप्तत्वेन युष्मदर्थत्वरूपपराक्त्वस्यैव सत्त्वेन तद्व्यावृत्तेरभावादित्या-शयेनाह ॥ न हीति ॥ आत्मनो युष्मदर्थत्वं विवरणेऽप्युक्तमस्तीत्याह ॥ विवरण इति ॥ सर्वात्मकत्वाद् अपरिच्छिन्नत्वात् । तर्हि युष्मदर्थव्यावृत्त्यवभासः कथमित्यत उक्तम् ॥ अहमुपरागादिति ॥ देहान्तरावस्थितत्वेनयुष्मदर्थाहङ्काराभेदारोपादेवेत्यर्थः ॥ घट्ट-कुटीति ॥ केचिद्वणिजः शुल्कमदित्सन्तः शुल्कग्रहणस्थलं वञ्चयित्वाऽन्येन पथा जिगमिषन्तो विस्मृतमार्गा यत्र घट्टे शुल्कग्राहिणी कुटी स्थिता तत्रैव प्रभाते समागताः सोऽयं घट्टकुटीप्रभातवृत्तान्तः । तथा च प्रकृतेऽहमर्थस्य परामर्शविषयत्वं सिद्धमित्यवधेयम् । तथा च सुषुप्तावप्रकाशमानत्वमसिद्धमिति भावः ।
ननु नाहमर्थस्य परामर्शविषयत्वं किन्त्वाऽऽत्मन एवेत्याशङ्कते ॥ नन्विति ॥ नाहमंश इति ॥ आत्मांशे परामर्शो ऽहमर्थे त्वनुभव इत्यर्थः । नन्वहमस्वाप्यमित्यह-न्त्वाश्रय एव परामृश्यते नात्मा तस्याहन्त्वानाश्रयत्वादित्यत आह ॥ इदानीमिति ॥ जाग्रद्दशायामित्यर्थः । सुप्तावहङ्काराभावेनेदानीं तस्योत्पन्नत्वादित्यवधेयम् । अवच्छेदात् सम्बन्धात् । तथा अहन्त्वेन अनुभूयते ज्ञायते । तथा च नृसिंहाकारमिदं ज्ञानमिति भावः ॥ न किञ्चिदिति ॥ अविद्यायाः सुप्तौ सद्भावात्तदंशे परामर्शरूपत्वं तवापि सम्मतम् । तन्न स्यादिति भावः । कुत इत्यत आह ॥ न हीति ॥ अन्येति ॥ अहमर्थान्येत्यर्थः ॥ परामृश्यत इति ॥ येन सुप्तावपि तथानुभवः सिद्ध्येदिति भावः ॥ अहमर्थेति ॥ तथा च न किञ्चिदवेदिषमित्यहमर्थाश्रितत्वेनैवाज्ञानस्य परामृश्यमानत्वात्सुप्तावपि तथैवानुभवो वाच्यः । स तु न सम्भवति तदा त्वयाऽहमर्थानङ्गीकारात् । तथा चाहमर्थांश इवा-ज्ञानांशेऽप्यनुभवापत्त्या सुप्तावविद्या न सिद्ध्येदिति सुप्तावपि परामर्शानुसारेणाहमर्था श्रितत्वे-नैवानुभवे वाच्ये तदाप्यहमर्थसिद्ध्याऽस्मदिष्टसिद्धिरिति भावः । नाहमंशे परामर्श इत्ये-तदसदित्याह ॥ एतावन्तमिति ॥ यथा स्वप्नावस्थायामहमर्थसद्भावात्स्वप्नादुत्थितस्य स्वप्नं पश्यन्नहमासमित्यहमर्थविषयः परामर्शो भवति तस्मिंश्च परामर्शे स्वप्नं पश्यन्नासमिति परामर्शवानस्मीत्यनुव्यवसायेनाहमर्थविषयकपरामर्शत्वमनुभूयते, यथा वा जाग्रदवस्थायाम् अहमर्थसद्भावाज्जाग्रदहमासमिति जाग्रदनुभूताहमर्थविषयकः परामर्शः जाग्रदन्तरकाले भवति तस्मिंश्च परामर्शे जाग्रदहमासमिति परामर्शवानस्मीत्यनुव्यवसाये नाहमर्थविषयकज्ञाने परामर्शत्वमनुभूयते तथाऽहमस्वाप्समिति परामर्शवानस्मीत्यनुव्यवसायेनाहमर्थविषयकज्ञाने परामर्शत्वमनुभूयतेऽतो नाहमंशे परामर्श इत्युक्तमसदिति भावः ॥ अन्यथेति ॥ अहमंशे अहमर्थे परामर्शत्वानुभवादित्युक्तमसदित्याशङ्कते ॥
॥ नन्विति ॥ परामृश्यमानो य आत्मा तदैक्यारोपात्तज्ज्ञानेऽनुभवरूपे परामर्शत्वस्य स्मृतित्वस्य अभिमान आरोप इत्यर्थः ॥ अपरामर्श इति ॥ अनुभव इत्यर्थः ॥ परमर्श-त्वेति ॥ स्मृतित्वेत्यर्थः । पुरोवृत्तिन्यारोपो युक्तो ऽनुभवे स्मृतित्वारोपस्य कुत्राप्यदर्शनात् तथात्वेऽनुव्यवसायस्य प्रमात्वनियमभङ्गापातादित्याशयः ॥ सिद्ध इति ॥ अहमर्थस्य परामृश्यमानात्मत्वे तु वास्तवैक्यस्यैव प्राप्त्या न तयोरैक्यारोपः सम्भवतीति भावः ॥ सिद्धे चेति ॥ परामृश्यमानात्मैक्यारोपे सिद्धे तन्निबन्धनाहमर्थानुभवेऽपि परामर्शत्वाभिमान इति तस्यापरामृश्यमानत्वसिद्धौ च सुषुप्तावप्रकाशमानत्वेन प्रकाशमानात्मान्यत्वसिद्धिरित्यर्थः । अहंज्ञानस्यैवात्मपरामर्शरूपत्वानङ्गीकारे दृष्टहानादिकमित्याह ॥ अहमितीति ॥ दृष्ट-शब्दोऽनुभवसिद्धत्वपरः । अहमर्थस्यैवात्मत्वेनाऽहमर्थज्ञानस्यैवात्मपरामर्शत्वस्यानुभवसिद्धस्य हानम् अहमित्यतोऽन्य आत्मपरामर्श इत्यनुभवासिद्धस्य कल्पनमित्यर्थः । अहङ्कारः स्मर्येतेत्यत्र अहं शब्दोल्लेखिपरामर्शस्स्यादित्यापाद्यते उताहमर्थविशेष्यकाहन्त्वप्रकारकपरा-मर्शस्स्यादिति । नाद्य इत्याह ॥ अहंशब्देति ॥ तदुल्लेखीति ॥ अहंशब्दोल्लेखिनाम-सविकल्पकं नास्तीत्यर्थः ॥ तदभावेति ॥ स्मृतेः समानविषयकानुभवजन्यत्वादिति भावः । नन्वेतावता सुप्तावहमर्थप्रकाशोऽङ्गीकृतः । तर्हि ह्यस्तनेऽपि जाग्रदवस्थायामहमर्थानुभव-सद्भावात् ह्यस्तनसुषुप्त्योर्वैषम्यं न स्यादित्यत आह ॥ तावन्मात्रेणेति ॥ ह्यस्तनेऽहं-शब्दोल्लेखिनामसविकल्पकमस्ति । सुषुप्तौ तन्नास्तीत्येतावन्मात्रेणैव वैषम्यमित्यर्थः । द्वितीये त्विष्टापत्तिरित्याह ॥ अहमर्थेति ॥ इष्टापत्तिमेवोपपादयति ॥ स्मर्यते हीति ॥ अहमर्थो ऽहन्त्वप्रकारक इति शेषः । ह्यस्तनवैषम्यमात्रेणाहमर्थे परामर्शत्वाभावे आत्मांशेऽपि परामर्शत्वं न स्यात् । यदि सुषुप्तावात्मा प्रकाशेत तर्हि स्मर्येत ह्यस्तन इवात्मेति चोद्यमस्मदुक्तोत्तरान्योत्तरशून्यं स्यादित्याह ॥ अन्यथेति ॥ ह्यस्तन आत्मेवेति सम्बन्धः । तत्रात्मशब्दोल्लेखिपरामर्शापादने सुषुप्तौ तदुल्लेख्यनुभवाभावादेव तदभावोपपत्तेः । आत्म-विशेष्यकपरामर्शापादने अस्वाप्समिति तत्परामर्शसद्भावेनेष्टापत्तिरित्येवोत्तरं वाच्यं तदस्माक-मपि समानमित्यर्थः ॥
ननु तथापीति ॥ यदि सुषुप्तौ अहमर्थः प्रकाशेत तर्हि एतावन्तं कालमहमित्यभि-मन्यमान आसमिति परामर्शः स्यादित्यापाद्यत इत्याशङ्कते ॥ नन्विति ॥ अहमर्थेति ॥ अहमर्थप्रकाशेऽङ्गीक्रियमाणे तदभिमानपरामर्शापादनस्य व्यधिकरणत्वात् । न ह्यस्माभिः सुषुप्तावहमर्थाभिमानप्रकाश उक्त इति भावः ॥ अन्यथेति ॥ अहमर्थप्रकाशेन तदभिमान-परामर्शापादने आत्मप्रकाशमात्रेणात्मेत्यभिमन्यमान आसमित्यभिमानपरामर्शः स्यादित्या-पादयितुं शक्यत्वात् । तत्र व्यधिकरणत्वान्नैवमापादनं युक्तमित्युत्तरमिति वाच्यं तन्ममापि तुल्यमिति भावः । ननु सुषुप्तावहमर्थप्रकाशे न किञ्चिदहमवेदिषमिति अर्थावच्छिन्नाज्ञान-परामर्शस्तावदनुभूयते स न स्यात् प्रकाशमानेऽहमर्थेऽज्ञानविरोधादिति चेत् तर्ह्यात्मनोऽपि सुषुप्तौ प्रकाशेन किञ्चिदहमवेदिषमिति परामर्शो न स्यात् । तस्याप्यज्ञानावच्छेदकत्वप्राप्त्या प्रकाशमाने आत्मनि अज्ञानायोगात् । आत्मान्यविषयकमेवाज्ञानमिति चेत् तर्ह्यत्राप्यह-मर्थान्यविषयकमेवाज्ञानमस्तु तथा चाहमर्थविषयकाज्ञानादन्यदेव घटादिप्रपञ्चविषयकमेवाज्ञानं सुषुप्तावनुभूतं सत्स्मर्यते इत्याह ॥ न किञ्चिदिति ॥
ननु आत्माज्ञानादन्यदिवेति दृष्टान्त अयुक्तः प्रकाशमान एवात्मन्यज्ञानाङ्गीकारात् साक्षिणोऽज्ञानाविरोधित्वादित्यत आह ॥ अन्यथेति ॥ प्रकाशमानेऽज्ञानस्य विरुद्धत्वा-दित्यर्थः । साक्षिणोऽप्यज्ञानविरोधित्वमुपपादितमिति भावः ॥ अयमिति ॥ अयं पुमान् सुप्तोऽहमस्मीति स्वात्मानं न विजानातीति श्रुत्या सुप्तावहमर्थाज्ञानाभिधानादित्यर्थः । नात्मानमिति श्रुतेः सुषुप्तावात्माज्ञानमपि न स्यादित्युक्ते तत्र त्वया वाच्यम् ऐषा श्रुतिरात्म-निष्ठविशेषाज्ञानपरेति तदेतदत्रापि समम् । अहमर्थनिष्ठविशेषाज्ञानपरा न विजानातीति श्रुतिरित्यपि सुवचत्वादित्यर्थः । अन्तःकरणावच्छिन्नस्य स्मर्तृत्वानुरोधेन तस्यैव तदनु-भवितृत्वात्स्मर्तृत्वानु भवितृत्वयोरैकाधिकरण्यनियमादित्यर्थापत्त्याऽहमर्थसिद्धिरित्याह ॥ किं चेति ॥ अनहमर्थस्य अहमर्थभिन्नस्य ॥ अविद्येति ॥ साक्षिचैतन्यस्येत्यर्थः । कुतो नाद्य इति चेद् अहमर्थस्यैव स्मर्तृतायाः प्रत्यक्षसिद्धत्वादित्याह ॥ योऽहमिति ॥ नन्वन्तः करणावच्छिन्नस्याहमर्थस्य स्मर्तृत्वेऽनुभवितृत्वमपि तस्यैव कुत इति चेत्तत्राह ॥ स्मृतीति ॥
स्मर्तृत्वानुभवितृत्वयोरहमर्थनिष्ठत्वं प्रत्यभिज्ञाप्रत्यक्षसिद्धं चेत्याह ॥ योऽहमन्वभूवमिति ॥
ननु न प्रत्यभिज्ञाविरोधो ऽनुभवितृचैतन्यस्य सर्वदा सर्वगतत्वात् । तथा च योऽहमित्यनुभवितुश्चैतन्यस्यैव स्मर्तृत्वमङ्गीकृतं तस्य पूर्वदिनानुभवितृतया द्वितीयदिने स्मर्तृतया चैत्रादिदेहस्थितत्वात् । तथाविद्यारूपोपाधेश् चैतन्यसम्बन्ध्यजीवत्ससम्पादक-स्यैकत्वेन तदवच्छिन्नो जीवश्चैक एव । तथा च तस्यैवानुभवितृत्वं स्मर्तृत्वं चैति तयो-रैकाधिकरण्यप्राप्त्या न प्रत्यभिज्ञाविरोध इत्याशङ्क्य निराकरोति ॥ यद्यपीति ॥ तयो-श्चैतन्यजीवयोः । अविद्यावच्छिन्नादनुभवितृजीवादननुभवितृचैतन्यमात्राच्चेत्यर्थः । तथा च प्रत्यभिज्ञाविरोधस्तदवस्थ एवेति भावः । ननु पुनरनुभवितृस्मर्त्रोरैक्यमेव । तथा हि अविद्या शुद्धचैतन्यम् अवच्छिद्यजीवत्वं सम्पादयति स एवानुभविता अन्तःकरणं चाविद्यावच्छिन्नं जीवं सम्बन्ध्य स्मर्तृत्वं सम्पादयति । यथा हि महाकाशसम्बन्धी मठोपाधिर्मठावच्छिन्नाकाशं करोति । मठान्तर्गतो घटोपाधिर्मठाकाशसम्बन्धी सन् घटाकाशं करोति । तथा चानुभवितुर-विद्यावच्छिन्नजीवस्यैवान्तःकरणावच्छिन्नाहमर्थत्वेन स्मर्तृत्वात्तयोरैकाधिकरण्येन न प्रत्यभिज्ञाविरोध इत्याशङ्क्य निराकरोति ॥ यद्यपीति ॥ अविद्यावच्छिन्नचैतन्यं जीव-मित्यर्थः । तर्हि सुतराम् अनुभवितृस्मर्त्रोर्भेदसिद्धिर् अविद्यान्तःकरणोपाधिभेदात् ताभ्यामुप-धेययोः शुद्धचैतन्याविद्यावच्छिन्नयोश्च भेदात् । यथा हि मठावच्छिन्नाकाशतदन्त स्थघटा-वच्छिन्नाकाशयोर्भेद उपाध्योर्मठघटयोर्भेदात् तदुपाधेययोः शुद्धमहाकाशमठाकाशयोर्भेदाद् एवमिहाप्यनुभवितुरविद्यावच्छिन्नचैतन्यात्स्मर्तुरन्तः करणावच्छिन्नस्य भिन्नत्वेन प्रत्यभिज्ञा-विरोधस्तरितुमशक्य इत्याह ॥ तथापीति ॥ प्रवृत्त्ययोग इति ॥ प्रत्युताहमर्थस्य सुषुप्तौ नाशादिति भावः ॥ योऽहमिति ॥ त्वन्मतेऽहमर्थस्यासुप्तत्वादिति भावः ॥ प्रत्यभि-ज्ञेति ॥ सुप्तिजागरयोरहमर्थैक्यावगाहि प्रत्यभिज्ञेत्यर्थः ॥ प्रत्यभिज्ञानेति ॥ त्वन्मतेऽह-मर्थस्यैव कर्तृत्वात्कर्तृत्वाधिकरणयोः पूर्वतनाद्यतनयोरहमर्थयोरैक्यावगाहिप्रत्यभिज्ञेत्यर्थः । कथं तदनुपपत्तिरित्यत आह ॥ अहङ्कारेति ॥ पूर्वतनाहमर्थनाशेन पुनरद्यतनाहमर्थो-त्पत्त्यङ्गीकारेण पूर्वतनाद्यतनाहङ्कारव्यक्त्यो र्भेदादित्यर्थः ॥ कर्तुरिति ॥ कर्तृत्वभोक्तृत्वयो-रुभयोरपि त्वन्मतेऽहमर्थनिष्ठत्वेन पूर्वतनकर्तुरिदानीं तत्फलभोक्तुश्चाहमर्थस्य भिन्नत्वात्पूर्वत-नाहमर्थस्य कृतहानिर् अद्यतनाहमर्थस्य कर्माभावेऽपि भोगप्रसङ्ग इत्यर्थः । ननु कर्तृभोक्त्रो-श्चैतन्यानुगमेनानुगमेनाभेदोपपत्तेर्न कृतहानादीत्यत आह ॥ अभिन्न इति ॥
ननु चैतन्ये वास्तवकर्तृत्वाद्यभावेऽपि आरोपितं कर्तृत्वमस्तीति तादृशकर्तृत्वोपेत-चैतन्यानुगमेनाभेदसद्भावान्नाकृतहानादीत्यत आह ॥ कर्तृत्वादिति ॥ स्थूलः करोतीति प्रतीतेरित्यर्थः । तथा चारोपितकर्तृत्वस्यापि प्रसङ्गेनाप्रयोजकत्वेन न तेन व्यावहारिक-कर्तृभोक्तृभेदप्रमानिर्वाहः । गुञ्जापुञ्जे वह्नित्वारोपेणारोपितदाहकर्तृत्वसद्भावात्तेनापि वास्तव-स्फोटादिरूपकार्यापत्तिरिति भावः ॥ अहमिति ॥ अहमर्थान्यस्मिन् चैतन्ये कर्तृत्वारोपो न युक्तः । तथा हि चैतन्यं कर्त्रिति कदाप्यारोपादर्शनाद् अहं करोमीत्येव तदारोपो वाच्यः । आरोपश्च प्रधानपूर्वक इति मुख्यकर्तृत्वप्रत्ययोऽन्यत्र वक्तव्यः । स चैतदन्यो नास्तीति अयमेव मुख्यप्रत्यय इति न तदारोप इति भावः । अहङ्कारविलये क्रियाशक्तेरपि नाशेन प्राणस्यापि प्रविलयापत्त्येति शेषः ॥ नन्विति ॥ प्राणस्याहङ्काराद्भेद इत्येकं मतम् अभेद इत्यपरं मतमिति मतद्वयसत्वादेवमुक्तिः ॥ तल्लयो युक्त इति ॥ तथा च तल्लयेऽपि प्राणकार्यश्वासाद्युपपत्तिरिति भावः । प्राणस्याहङ्कारभेदपक्षे आह ॥ प्राणस्येति ॥ प्राणेति ॥ चेष्टनेत्यर्थः । अहमर्थे चेष्टाभावेन क्रियाकर्तृत्वाभावादिति भावः । अभेदपक्षे त्वाह ॥ अहमर्थत्वेति ॥ प्राणस्येति वर्तते । स्वान्यथानुपपत्त्या सुषुप्तौ प्राणस्य सत्वा-त्तदभिन्नाहमर्थस्यापि सत्वापत्त्या तदुल्लेखः स्यादित्यर्थः । स्वरूपतः सत्वेऽपि तदुल्लेखः किमर्थः ? न हि यावदस्ति तावतोल्लेखितव्यमित्यस्ति नियम इत्यस्वरसादाह ॥ किं चेति ॥ न सुषुप्ताविति ॥ न स्वरूपेण नाशः किं तूपरम एवेत्यर्थः । गृहीतं स्वव्यापारा-दुपरतम् ॥ उपरमस्यैवेति ॥ तथा च मनो गृहीतमिति सतोऽन्तःकरणस्योपरम एवोक्तो न तु लय इत्यर्थः ‘अथातोऽहंकारादेशो ऽथात आत्मादेश’ इति श्रुतौ पृथगुक्तत्वाच्चा-हङ्कारात्मनोर्भेद इत्युक्तमयुक्तम् । तथात्वे आत्मनोऽपि भूम्नो भेदेनोपदेशान्यथानुपपत्त्या आत्मापि भूम्नो भिन्नः स्यात् । तस्माद्वेदोपदेशेऽपि यथा भूमात्मनोरैक्यमेवाङ्गीकृतं द्वयोः श्रुत्युक्तसार्वात्म्यानुपपत्तेर् एवमात्माहङ्कारयोर्भेदोपदेशे सत्यपि ऐक्यमेवास्तु । तथा च भेदोपदेशोऽप्रयोजक इत्याह ॥ अथात इति ॥
ननु नोपदेशानुपपत्तिः, ऐक्यार्थत्वेनान्यथासिद्धत्वादिति शङ्कते ॥ नन्विति ॥ भूमा-त्मनोः परमात्मजीवात्मनोः ॥ प्रत्यक्षसिद्धयोरिति ॥ अन्योन्याभावप्रत्यक्षेऽधिकरण-प्रत्यक्षस्य तन्त्रत्वादत्र च जीवस्य प्रत्यक्षसिद्धत्वात्तद्भेदोऽपि प्रत्यक्षसिद्ध एवेति भावः ॥ पृथगिति ॥ ‘अप्राप्ते शास्त्रमर्थवत्’ इति न्यायेन प्रत्यक्षसिद्धभेदोपदेशस्य व्यर्थत्वाद् व्यर्थं सत् किञ्चिदिष्टं ज्ञापयतीति न्यायेन ऐक्यार्थ इत्यर्थः । ननु भेदोपदेशस्य व्यर्थस्यापि कथं भूमात्मनोरभेदज्ञापकमित्यत आह ॥ द्वयोरिति ॥ द्वयोः ‘स एवेदं सर्वम्’ इत्याद्युक्तसार्वात्म्यस्य च श्रुतावुच्यमानत्वादिति भावः ॥ पृथगिति ॥ पूर्वन्यायेनेति भावः । अहङ्कारे सार्वात्म्योपदेशस्तु तदारोपाधिष्ठानात्मसम्बन्धेनोपचरित इति ज्ञातव्यम् । आत्मनो जीवस्याहमित्यनुभवव्यतिरेकेणात्मनि प्रत्यक्षाप्रवृत्तेरित्यर्थः । उपदेशः पृथगुप-देशः ॥ भेदार्थ इति ॥ तथा च भूमात्मनोर्भेदप्रतिपादकत्वोपपत्त्या त्वदिष्टव्याघात इति भावः ॥ ब्रह्मेति ॥ भूमशब्दोक्तेत्यर्थः ॥ तयोरिति ॥ अहङ्कारभूम्नोः पृथगुपदेश इत्यर्थः ॥ ऐक्यार्थ इति ॥ उक्तन्यायादित्यर्थः । तथा च भूमाहङ्कारयोरप्यैकप्रतिपादकत्वोपपत्त्या तवात्यन्तानिष्टप्राप्तिरिति भावः ॥ भूमेत्यादि ॥ अविद्याशब्देन मायापि ग्राह्या । तथा च भूम्नो बिम्बस्थानीयमायोपाधिकब्रह्मत्वाद् अहङ्कारस्य प्रतिबिम्बस्थानीयाविद्योपाधिकजीवत्वाद् आत्मनश्च मुखमात्रस्थानीयब्रह्मजीवानुस्यूतचिन्मात्रत्वेन तत्प्रतिपादकत्वाङ्गीकारेण त्वदभि-प्रेतचिदचित्संवलनात्मकाहङ्कारप्रतिपादनप्रसक्तेरेवाभावेन तच्छ्रुतिबलादहमर्थस्य जीवात्मैक्या-सिद्धिरित्यर्थः । द्वयोः सर्वात्म्यानुपपत्तेः पृथगुपदेश ऐक्यार्थ इत्युक्तं दूषयति ॥ स एवेति ॥ उपसंहाराणां भूमाहङ्कारात्मप्रकरणेषु श्रुतानामित्यर्थः ॥ उपक्रमैरिति ॥ भूम-प्रभृतीनामाधाराधेयभावेन सर्वगतत्वप्रतिपादकोपक्रमैः सर्वगतत्वपरत्वेन व्याख्येयत्वा-दित्यर्थः । उपक्रमस्यासञ्जातविरोधित्वेन प्रबलत्वात्तदनुरोधेनोपसंहाराणां नेयत्वादिति भावः ।
ननु भवत्पक्षेऽपि कथमनेकेषां सर्वगतत्वमित्यत आह ॥ सर्वगतत्वस्य चेति ॥ तार्किकादिमते गगनादीनामनेकेषामपि सर्वगतत्वाङ्गीकारादिति भावः ॥ भूमेति ॥ जीव-ब्रह्मणोरभेदप्रतिपादनायास्य प्रकरणस्य त्वन्मते आरब्धत्वादिति भावः ॥ स्थूलारुन्धती-न्यायेनेति ॥ यथाऽरुन्धतीं दर्शयितुं तत्समीपस्था प्रत्यक्षसिद्धा स्थूलतारका इयम-रुन्धतीत्यभेदेनादावुपदिश्यते अनन्तरं तस्यां बुद्धौ प्रसृतायां पश्चान्नेयमरुन्धती किं तु तत्समीपस्थेति प्रदर्श्यते एवं प्रत्यक्षसिद्धाहङ्कारैक्यमपि द्वारत्वेनोपदिश्यत इत्यर्थः । ऐक्योक्तिः सार्वात्म्योपदेशेनेति शेषः । आत्मन एव जीवस्यैव ॥ तदैक्येति ॥ भूमशब्दोक्तब्रह्मण इति शेषः ॥ सिद्ध्येति ॥ ततश्च न द्वारापेक्षेति भावः । अरुन्धत्यास्तु शैघ््रयेण प्रत्यक्षसिद्धत्वा-भावात्तत्र द्वारापेक्षेति वैषम्यं ज्ञातव्यम् । नन्वात्मन आपरोक्ष्याभावादपरोक्षाहङ्कारो द्वारत्वे-नोपदिश्यत इति चेत्तत्राह ॥ उक्तीति ॥ आत्मन इति ॥ भूमात्मनोर्भिन्नत्वेन प्रत्यक्ष-सिद्धयोः पृथगुपदेश ऐक्यार्थ इत्यनेनेत्यर्थः । अन्योन्याभावप्रत्यक्षत्वे तन्त्रस्याधिकरण-प्रत्यक्षत्वस्यालाभादिति भावः । आत्मनो जीवस्यापरोक्ष्याभावे दूषणान्तरमाह ॥ अपरोक्षेति ॥ द्वारभूतेत्यर्थः ॥ आपरोक्ष्यस्येति ॥ भूमाख्यब्रह्मण इति शेषः ॥ उपदेशे-नेति ॥ लब्धेन परोक्षत्वेनेत्यर्थः ॥ हानीति ॥ बाधः सत्प्रतिपक्षो वा स्याद् उभयथापि त्वदिष्टासिद्धिरिति भावः ।
ननु भवन्मतेऽपि कथं ब्रह्मभिन्नाहङ्कारस्य सर्वव्यापित्वं सञ्जाघटीतीत्यत आह ॥ श्रुत्यर्थस्त्विति ॥ तथा चाहंशब्दोऽनिरुद्धपरम् इति भावः ॥ सैव हीति ॥ सत्याद्या अहमात्मान्ताः सा परदेवतैव तत्स्वरूपभूता एवेत्यर्थः । प्रत्युत प्रसिद्धाहङ्कारपक्ष एवेयं श्रुतिरनुपपन्नेत्याह ॥ अन्यथेति ॥ ननु षट्प्रश्नोपनिषदि अहङ्कारश्चेत्यादिनाहमर्थस्य पृथिव्यादिवत्परमात्माश्रितत्वं प्रतीयते तदहमर्थापरपर्यायाहङ्कारस्यानिरुद्धत्वे विरुद्धमित्यत आह ॥ अहङ्कारश्चेति ॥ न त्वहमर्थो ऽस्मदभिप्रेतो जीवस्थोऽनिरुद्धः । अहङ्कारस्य महत्तत्वकार्यादित्वे प्रमाणमाह ॥ महत्तत्वादिति ॥ अतो भव एतस्मात् त्रिविधाहङ्कारान् मनःप्रभृतीनां भव उत्पत्तिरित्यर्थः । अस्मदुक्तार्थमनङ्गीकृत्य महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव चेति स्मृतौ अहङ्कारस्य क्षेत्रज्ञाज्जीवात्पार्थक्येन क्षेत्रत्वोक्त्या नाहमर्थो जीव इत्यङ्गीकारे संविद्रूपचैतन्यवाचिनो बुद्धिशब्दस्य बुद्धिरव्यक्तमेव चेति क्षेत्रमध्ये पाठात् संविदोऽपि क्षेत्रत्वापत्तिः । अतस् तत्र बुद्धिशब्दो नानार्थक इत्यङ्गीकार्यम् । तदहङ्कारशब्देऽपि सममित्याह ॥ अन्यथेति ॥ अहङ्कारशब्दस्य नानार्थत्वमेव दर्शयति ॥ अहङ्कार-शब्दस्येति ॥ देहेऽहम्बुद्धाविति ॥ देहविषये याहम्बुद्धिस्तत्रेत्यर्थः ॥ अहमर्थेति ॥ त्वदभिमतान्तःकरणरूपाह मर्थेत्यर्थः ॥ अहंशब्देति ॥ कारशब्दरहितकेवलाहंशब्देत्यर्थः ॥ दकारान्तेति ॥ अस्मदस् त्वाहौ सावित्यहादेशे सति निष्पन्नत्वादित्यर्थः । तस्मादह-मनुभवामीत्यादिनाहमर्थेऽनुभवितृत्वकर्तृत्व रूपात्मानात्मधर्मदर्शनाच्चिदचित्संवलनसिद्धिरित्युक्तं दूषयति ॥ अहमर्थ इति ॥ वक्ष्यमाणत्वात् । उत्तरभङ्गस्यादावेवेति शेषः । अस्तु वान्तःकरणधर्मत्वं कर्तृत्वादेस् तथाप्यहङ्कर्तेत्यत्रान्तःकरणस्य अहमर्थभूतजीवस्वरूपानन्त-र्भावेन ततो भिन्नत्वेऽपि अन्तःकरणगतकर्तृत्वाख्यधर्ममात्रारोपेणैवाहं कर्तेति प्रतीतिरस्तु । न धर्म्यैक्यम् । यथा विदेहनिष्ठगौरत्वादेरात्मन्यारोपेऽपि न देहस्यात्मस्वरूपान्तर्भाव-स्तद्वदित्याह ॥ अन्तःकरणधर्मत्वेऽपीति ॥
ननु सर्वत्राहमर्थस्य जीवाख्यप्रत्यङ्मात्रत्वे परकीये घटे घटशब्दवत् परकीयेऽहमर्थेऽहं-शब्दस्य प्रत्ययप्रयोगौ स्यातां न त्वयमिति धीः प्रयोगो वा । अस्ति चायमिति धीः प्रयोगश्च । तेन ज्ञायतेऽहमर्थेनात्मांशोऽस्तीति तत्राह ॥ या त्विति ॥ सत्यं सोऽपि वस्तुतोऽहमर्थ एव । तथापि स्वदेहापेक्षया तदीयदेहाख्यप्रतिसम्बन्धिभेदेन इदमर्थत्वात् परागर्थत्वाद् अयमिति धीरित्यर्थः ॥ अयमिति ॥ अनात्मांशाभावादित्यर्थः । अहमर्थ-स्यात्मभिन्नत्वे प्रत्यक्षमाशङ्क्य निराकरोति ॥ न चेति ॥ जानामि ज्ञानवानित्यर्थः । अहमर्थस्य ज्ञानसुखरूपात्माभिन्नत्वे तद्वत्त्वमहमर्थे प्रतीयमानमयुक्तं स्यात् । तेन ज्ञायते नाहमर्थः सुखादिरूपात्मेतीति भावः ॥ अनयोरिति ॥ प्रकृतज्ञानानन्दरूप आत्मा अहमर्थाद्भेदेन भातीत्येतदित्युक्तं भवति ।
ननु ज्ञानसुखयोरहमर्थाश्रितत्वेन प्रतीतिर्भ्रान्तिरिति चेत्तत्राह ॥ अस्या इति ॥ विरोधादिति ॥ अहं जानाम्यहं सुखीति प्रतीत्यैवाहमर्थभेदेनात्मा भातीत्युच्यते । इदानीं तस्या भ्रान्तित्वाङ्गीकारे त्वदभिमतप्रमेयासिद्ध्या विरोधादित्यर्थः ॥ सर्वात्मक इति ॥ अविद्यानावृतजीवचैतन्यस्यापरिच्छिन्नत्वेन सर्वगतत्वेन प्रत्यक् पराक् च भवति अहमर्थ-स्त्विदमर्थव्यावृत्तः परागर्थव्यावृत्तः प्रत्यगर्थ एवेति यावत् । तथा च नात्माहमर्थयोरैक्यमिति भावः ॥ सर्वात्मक इति ॥ यथा आत्मनः सर्वात्मकत्वेन इदमर्थव्यावृत्तिधियः प्रत्यक्त्व-मात्रधियो भ्रान्तित्वमुच्यते तथाहङ्कारस्यापि अहमेवेदं सर्वमिति सर्वात्मकत्वेन प्रतीतेऽह-मर्थेऽपि इदमर्थव्यावृत्तिधियः प्रत्यक्त्वमात्रधियो भ्रान्तित्वोपपत्तेरित्यर्थः । चिदचित्संवल-नात्मकाहमर्थान्तर्गतेऽचिद्भागारोपाधिष्ठानभूते आत्मचैतन्यभागेऽहम्प्रत्ययविषये व्यभिचार इत्याह ॥ त्वन्मत इति ॥ किं चेति ॥ आत्मानात्मनोरन्योन्यात्मकतामन्योन्य-धर्मांश्चाध्यस्य सर्वे प्रमातृत्वभोक्तृत्वादिव्यवहाराः प्रवर्तन्त इति भाष्ये इतरेतराध्यासं प्रतिपाद्य तत्रात्मन्यनात्मारोपोपपादनाय गौरोऽहमित्याद्युदाहृतम् । तदहमर्थस्यात्मभिन्नत्वेऽत्युक्तं स्यात् । अत्र गौरदेहैक्याध्यासोऽहमर्थ एव प्राप्तो नात्मनीत्यर्थः ॥ मा न भूवमिति ॥ माहं न भूवम् अपि तु भूयासमित्यर्थः । परमप्रेमास्पदत्वमात्मन उपपादयितुम् इयं प्रतीतिरुदाहृता । अनया चाहमर्थस्यैव प्रेमास्पदत्वमनुमीयते । अतोऽहमर्थस्यानात्मत्वे इदमयुक्तं स्यादित्यर्थः ॥ अहमर्थेति ॥ आत्मा स्वप्रकाशः स्वसत्तायां प्रकाशव्यतिरेकवैधुर्याद् अप्रकाशरहित-त्वादिति यावद् इत्यनेनात्मनः स्वप्रकाशत्वं साधितम् । तत्र च हेतोः स्वरूपासिद्धि-परिहाराय आत्मनः प्रकाशव्यतिरेकवैधुर्योपपादनाय अहमिति सदा प्रकाशोपपादनं कृतम् इदमप्यहमर्थस्यानात्मत्वे अयुक्तं स्यात् । अहमर्थसम्बन्धिप्रकाशव्यतिरेकवैधुर्येणात्मनः स्वप्रकाशत्वसाधनस्याप्ययुक्तत्वादित्यर्थः । आत्मनः प्रेमास्पदत्वोपपादनाय मा न भूव-मित्यहमर्थस्य प्रेमास्पदत्वोक्तिरयुक्तेति यदुक्तं तदयुक्तं परमप्रेमास्पदीभूतात्मैक्यारोपादहमर्थे परमप्रेमास्पदत्वधिय उपपत्तेरित्याशङ्क्य निराकरोति ॥ न चेति ॥ अन्योन्याश्रया-दिति ॥ आत्मनः प्रेमास्पदत्वे सिद्धे तदैक्यारोपादहमर्थस्य प्रेमास्पदत्वारोपसिद्धिस् तत्सिद्धौ चात्मनः प्रेमास्पदत्वसिद्धिरित्यन्योन्याश्रयादित्यर्थः । नन्वात्मनः प्रेमास्पदत्वसिद्धिर्नाहमर्थस्य प्रेमास्पदत्वारोपसिद्ध्यधीना । अतो नान्योन्याश्रय इत्यत आह ॥ अहमर्थेति ॥ तथा चाहमर्थप्रेम्णो योऽनुभवस्तद्व्यतिरिक्तात्मप्रेमानुभवाभावादात्मप्रेमास्पदत्वमहमर्थप्रेमास्पद-त्वाधीनमित्यन्योन्याश्रय इत्यर्थ इत्याहुः ।
सम्प्रदायस्तु अहमर्थे प्रेमास्पदत्वारोपसिद्धौ प्रकारान्तरेणात्मप्रेमास्पदत्वोपपादना-सम्भवात्तन्निबन्धानात्मप्रेमास्पदत्वसिद्धिरित्यन्योन्याश्रयत्वोपपादनं पूर्वमेव कर्तव्यम् । इतोऽ-प्यहमर्थे प्रेमास्पदत्वधीर्न भ्रान्तिरित्याह ॥ अहमर्थेति ॥ अहमर्थप्रेम्णोऽनुभवस्य वक्तुम-शक्यत्वादतो मा न भूवमित्ययमेवात्मप्रेमानुभव इति वाच्यम् । तथा च प्रधाना-भावादस्यैवानुभवस्यानारोपत्वसिद्धिरित्यर्थः । किं च वस्तुतोऽप्रेमास्पदेऽहमर्थे प्रेमास्पद-त्वारोपो न युक्तः । इच्छारोपः साक्षिरूपो वाच्यः । स न युक्तः । तथात्वे साक्षिणो भ्रमत्वापत्तेः । नन्वनिष्टसाधने सर्पादौ मालात्वभ्रमेण इदमिष्टसाधनं मालात्वादितीष्टसाधनता भ्रमानन्तरम् इष्टसाधनताया अभावेऽपि इदं मे स्यादितीच्छानुभूयत इति चेत्तत्राह ॥ अहित इति ॥ अनिष्टसाधने इष्टसाधनताबुद्ध्या प्रेमोत्पत्तौ सत्यामेव वस्तुतः प्रेम्णः सत्वा-त्प्रेमानुभवो भवति । अहिते प्रेमोत्पत्तिश्च भवति । परं तु प्रेमाभावे प्रेमज्ञानं तु न भवत्येवेत्याशयः । आत्मरूपाधिष्ठानगतप्रेमास्पदत्वस्य आरोप्येऽङ्गीकारे वाचस्पतिग्रन्थ-विरोधोऽत आरोप्यान्तःकरणगताप्रेमास्पदत्वस्यैवात्मनि प्रतीत्यापत्तिरित्याह ॥ वाचस्पति-नेति ॥ अयं श्लोकः कल्पतरौ व्याख्यातः । समारोप्यस्य सर्पादेर्भीषणत्वादिरूपेण धर्मेण विषयोऽधिष्ठानभूतो रज्ज्वादिर्भीषणत्वादियुक्तो भवति विषयस्य रज्ज्वादिरूपेण पुरतो गम्यमानत्वादिना समारोप्यं सर्पादिरूपवद् अभिगम्यमानं न भवतीत्यर्थः । अहमर्थे प्रेमा-स्पदत्वारोपहेतुम् आत्मैक्यारोपं दूषयति ॥ त्वद्रीत्येति ॥ सुखविषयकानुभवरूपस्य सुख-मनुभवामि सुखानुभववानस्मि । अहमर्थाद्भेदेनेत्येव पाठः । सुखानुभवादिति पाठस्तु चिन्त्यः । तथा चात्मनोऽहमर्थाद्भेदेन प्रतीतेर्न तत्र तस्यारोप इत्यर्थः । बाह्यमतापत्तिर् वेदबाह्यो यो बौद्धस् तन्मतापत्तिः ।
ननु प्रेमास्पदरूपात्मभूतवस्तुनाशाङ्गीकारात्तन्मतस्य निन्द्यत्वं न मन्मतस्येत्यतः प्रेमास्पदवस्तुनाशस्त्वन्मतेऽप्यविशिष्ट इत्याह ॥ प्रेमास्पदस्येति ॥ वास्तवं नाहङ्कारस्य प्रेमास्पदत्वम् । किं तु आत्मैक्यारोपादहमर्थे तद्धीरित्येतद्दूषितमिति भावः । ननु मोक्षे प्रेमास्पदाहङ्कारनाशेऽपि तदन्यस्य ब्रह्मणोऽविनाशात्तद्भावस्य पुरुषार्थत्वमिति चेत्तर्हि समं शून्यवादेऽपीत्याह ॥ तदन्यस्येति ॥ आत्मान्यस्येत्यर्थः । तद्भाव एव तन्मते पुरुषार्थ इति साम्यमिति भावः । एवम् अहमर्थस्य आत्मान्यत्वे ॥ न स्यादिति ॥ अहमर्थस्य मुक्त्यनन्वयादित्यर्थः ॥ तदभेदेति ॥ मुक्तावप्यात्माभेदेत्यर्थः । तर्ह्यहं मुक्तः स्यामितीच्छा कथमित्यत आह ॥ अहङ्कारे त्विति ॥ तदैक्येति ॥ पुष्टत्वाश्रयशरीरैक्यारोपादित्यर्थः ॥ तदैक्येति ॥ सुख्यात्मैक्येत्यर्थः ॥ अन्योन्येति ॥ आत्माहमर्थयोर्भेदादीना मारोपसिद्धौ उक्तेच्छाया अबाधकत्वसिद्धिस् तदबाधकत्वसिद्धौ भेदसिद्धिरित्यन्योन्याश्रय इत्यर्थः ॥ तत्र मामिति ॥ तथा च माम् अहमिति अहमर्थस्यैवामृतत्वप्रार्थनश्रवणादात्मन एव मुक्तिरिष्यत इत्युक्तमसदिति भावः ॥ तत्रेति ॥ ऐक्यारोपादहं पुष्टः स्यामितीच्छायामपि कदाचिच्छरीरं पुष्टं स्यादिति मुख्येच्छा भवति । तथा ऐक्यारोपादेव शरीरं सुखि स्यादितीच्छायामपि कदाचिदहं सुखी स्यामीतीच्छा भवति । तद्वन् मुक्त्यन्वय्यात्माभेदारोपेणाहं मुक्तः स्यामि-तीच्छायामपि कदाचिद्वाचिन्मात्रं मुक्तं स्यादितीच्छा प्रसज्येत । न ह्येवं कदाचित्कस्य-चिदिच्छा दृष्टा । अतो मुक्तेरनिष्टत्वापाताद् आत्मसम्बन्धितयेच्छाविषयत्वाभावापाता-दित्यर्थः । ननु कश्चिदात्मा मुक्तः स्यादित्यात्मसम्बन्धितया मुक्तेरिच्छाविषयत्वं सम्भवतीति चेत्तत्राह ॥ कश्चिदात्मेति ॥ कस्यचिदात्मनो मुक्तीच्छया मुमुक्षोः स्वस्य न प्रवृत्ति-र्युक्तेत्यर्थः । न ह्यन्यस्य स्वर्गेच्छया स्वस्य यागे प्रवृत्तिर्दृष्टेति भावः । ननु ममात्मा मुक्तः स्यादित्यात्मनो मुक्तीच्छा सम्भवतीति चेत्तत्राह ॥ ममेति ॥ अहमर्थस्यैवेति ॥ तदतिरिक्तस्य चिन्मात्रस्य ममात्मेत्यहमर्थवाचिशब्दाविषयत्वादिति भावः ।
नन्वहं मुक्तः स्यामितीच्छा नास्त्येव किं तु चिन्मुच्यतामित्यादिरूपैव । एवमिच्छयैव मुमुक्षुप्रवृत्तिरिति मया हि नियम्यते इति चेत्तत्राह ॥ न चेति ॥ कुतो न नियन्तुं शक्येत्यत आह ॥ बौद्धेति ॥ तथात्वे आत्मनाशो भूयादिति बौद्धकल्पितमुक्तीच्छया आत्मनाशस्य पुरुषार्थत्वापातात् । तथा एकविंशतिसुखध्वंसो भूयादिति तार्किककल्पित-मुक्तीच्छया सुखनाशस्यापि पुरुषार्थत्वापात इत्यर्थः । अहमर्थस्य चिदचित्संवलनात्मकत्वे बाधकान्तरं चाह ॥ किं चेति ॥ वस्तुगत्याऽहमर्थोऽस्मन्मते आत्मैव । तत्र त्वयान्तः-करणरूपा चिद्भागाङ्गीकार इत्यर्थः ॥ मम मन इति ॥ ममेति प्रतीयमानेऽहमर्थे मनसः प्रविष्टत्वान् मम मन इति प्रतीतिर्न स्यात् । न हि दण्डिनो दण्ड इति प्रतीतिः सम्भव-तीत्यर्थः । एतदेवाह ॥ तदवच्छिन्नस्येति ॥ तद्विशिष्टस्येत्यर्थः । तथात्वे अवच्छेदककोटौ स्वस्यैव प्रवेशापत्त्या आत्माश्रयः स्यादिति भावः । कुत इत्यत आह ॥ चिदचिदिति ॥ मनः स्फुरतीत्यत्र मनसोऽचित्त्वात् स्फुरणस्य चित्त्वाच्चिदचित्संवलनसद्भावादहमर्थेऽपि तत्संवलनस्य त्वयैवाङ्गीकारात्तयोर्ज्ञानयोश्चिदचित्संवलनविषयकत्वाविशेषाद्वैषम्यमनुभूयमानं न स्यादित्यर्थः ॥ द्व्यंशेति ॥ अधिष्ठानारोप्यरूपांशद्वयेत्यर्थः ।
ननु आरोप्यविषयकत्वमेवावश्यकं किमधिष्ठानविषयकत्वेनेत्यत आह ॥ अन्यथेति ॥ ततः किं प्रकृत इत्यत आह ॥ न चेति ॥ अधिष्ठानभूतचिदंशो नानुभूयत इत्याशयः । नन्वहमिति बुद्धेर्भ्रमत्वान्यथानुपपत्त्यैवाननुभूतमपि द्व्यंशत्वं कल्प्यत इत्यत आह ॥ यदीति ॥ तथा चात्मस्वरूपेऽपि चिदचित्संवलनापातेन तद्बुद्धेरपि भ्रमत्वापात इत्याशयः । नन्वत्रापि द्व्यंशत्वमनुभूयत एव । अहं स्फुरामि अहमस्मीत्यत्र स्फुरणसदर्थयोश्चैतन्यस्वरूप-त्वेनाधिष्ठानांशत्वात् । यथा हि रूप्यं स्फुरति रूप्यमस्तीत्यत्र स्फुरणसदर्थयोरधिष्ठानत्वं दृष्टं तद्वत् । ननु तर्हि तत्र यथा इदं रूप्यमिति धीर्भवति तथाहमिदमिति धीः स्यान् न तु स्फुरामीति धीरिति चेन्न । तत्र रूप्यं प्रति शुद्धं स्फुरणं सदर्थश्च नाधिष्ठानं किन्त्विद-मंशावच्छिन्नमेव तत्रत्येदं रूप्यमिति धीर्भवति अत्र तु शुद्धचिदाख्यस्फुरणस्यैवाधिष्ठानत्वादहं स्फुरामीत्येव धीर्भवतीति शङ्कते ॥ नन्विति ॥ त्वन्मत इति ॥ अविद्यावृत्तिरूप-भ्रमरूपज्ञानस्वरूपस्याप्यध्यस्तत्वेनारोप्याधिकसत्ताकत्वाभावान्नाधिष्ठानत्वमिति भावः । नन्वविद्यावृत्तिरूपभ्रमरूपज्ञानस्याध्यस्तत्वेऽपि चैतन्यरूपस्फुरणस्य अहंज्ञानरूपस्य न तथात्वम् अतो युक्तमधिष्ठानत्वमिति चेन्न । चैतन्यमात्रस्याहंज्ञानत्वे सुषुप्त्यादावप्यह-मनुवृत्त्यापातेनाविद्यावृत्त्यवच्छिन्नचित एवाहंज्ञानत्वेन त्वया वाच्यत्वात्तस्य चाध्यस्तत्वे-नानधिष्ठानत्वादिति भावः । लोकेऽधिष्ठानमारोप्यसम्भिन्नत्वेन प्रतीयमानं दृष्टं न तु तद्भिन्नत्वेन । प्रकृतेऽहं स्फुरामीत्यस्य स्फुरणवानहमित्यर्थकत्वेनाश्रयाश्रयिभावप्रतीत्याऽह-मर्थाद्भेदेनैव स्फुरणं भासते अहमिच्छामीत्यत्र यथा इच्छावत्त्वं प्रतीयते तद्वत् । अतः स्फुरणं नाहमर्थारोपाधिष्ठानम् अन्यथेच्छाया अप्यहमर्थारोपाधिष्ठानत्वं स्यादित्याशयेनाह ॥ अह-मिच्छामीतिवदिति ॥ रूप्यमस्तीत्यत्रेवाहमस्मीत्यत्रापि सदर्थोऽधिष्ठानत्वेन प्रतीयत इत्युक्तं तत्र दृष्टान्त एवासम्प्रतिपन्न इत्याह ॥ बाधकेनेति ॥ नेदं रूप्यं सदिति बाधकप्रत्ययेनेत्यर्थः । किं चाहमिति प्रतीतावेव चिद्रूपाधिष्ठानारोप्यांशद्वयमस्तीति त्वदभिप्रेतं तन्न प्राप्तं किन्त्वहं स्फुरामीति ज्ञान एव द्व्यंशत्वम् अतोऽहमिति ज्ञानस्य द्व्यंशत्वोपपादनायाहं स्फुरामीत्यादौ द्व्यंशत्वोपपादनमसङ्गतमित्याह ॥ त्वदभिप्रेतस्येति ॥ किं तर्ह्यहमर्थ-स्यात्मत्वे प्रमाणमित्यत आह ॥ आत्मत्वे त्विति ॥ प्रत्यक्षम् अहमज्ञ इत्यादिकम् ॥ तत्साधनेति ॥ यो यत्फलसाधनकृत्याश्रयः स तत्फलसम्बन्धवान् यथा स्वर्गसाधन-कृत्याश्रयो यजमानः स्वर्गफलान्वयीत्यर्थः ।
ननु पुत्रः पूतः स्यादिति पुत्रगतपूतत्वरूपफलोद्देशेन पिता जातेष्टिकरणे प्रवर्तते तत्र पुत्रसम्बन्धिपूतत्वरूपफलसाधनीभूतकृत्याश्रये पितरि पूतत्वरूपफलसम्बन्धाभावेन व्यभिचारः स्यादिति चेन्न । उत्तरभङ्गे वक्ष्यमाणरीत्या पुत्रगतं पूतत्वं न जातेष्टिफलं किं तु पूतपुत्रकत्वम् । तच्च पितृगतमेवेति व्यभिचारशङ्काया एवाभावात् । इममर्थमजानानाः केचित् स्वसम्बन्धिफलसाधनकृत्याश्रयत्वं हेत्वर्थो विवक्षितोऽतो न पितरि व्यभिचार इत्याहुः । स्वर्गसाधनहोमादिकृत्याश्रये ऋत्विजि स्वर्गान्वयशून्ये व्यभिचारः स्यादिति चेन्न । अपरिकीर्त- सम्बन्धिकृत्याश्रयत्वादित्यर्थः । अपरिक्रीतः प्रधानो यजमानः । ऋत्विजस्तु द्रव्यदानेन यजमानपरिक्रीतत्वान्न व्यभिचार इत्यवधेयम् । अनर्थेत्यादिना मोक्ष एव नामान्तरेण निर्दिष्टः ॥ संमतवदिति ॥ अत्र यो यदाश्रयः स तन्निवृत्त्याश्रयः यथा घटाश्रयः कपालस् तन्निवृत्त्याश्रय इति द्रष्टव्यम् । अनर्थाश्रयत्वहेतोरसिद्धिमाशङ्क्य निराकरोति ॥ न चेति ॥ अहमज्ञ इत्यादि ॥ अज्ञानवैषयिकसुखादेरेवानर्थत्वादिति भावः । प्रमेयत्वादौ व्यभिचार-वारणाय मात्रपदम् । सति सच्छब्दवाच्ये ब्रह्मणि ॥ प्रागिति ॥ अहमर्थनाशवत्त्वेन त्वत्संमते प्रलयकालेऽपीत्यर्थः । त्वन्मते तु चिदचिद्रूपमनस्संवलनात्मकाहमर्थस्य मन-आदिसृष्ट्युत्तरकालीनत्वादिति भावः ॥ शुद्धेति ॥ तथा च नाहमर्थस्यात्मभिन्नत्वमिति भावः ॥ अनवद्यस्येति ॥ त्वन्मतेऽहमर्थसम्बन्धस्यैव मुख्यावद्यत्वेन निरवद्यस्य ब्रह्मणोऽहमित्यवेदिति श्रुत्युक्ताहमुल्लेखायोगादिति भावः ॥ मोक्षान्वयेति ॥ बन्धान्वयोऽपि द्रष्टव्यः । अहमर्थस्य मायाकल्पितस्य मिथ्यात्वेनात्मभिन्नत्वे बाधकमाह ॥ मामे-वेत्यादि ॥ स्वप्रपन्नमायानिरसनसमर्थस्य मायिकाहमर्थसम्बन्धो न युक्त इति भावः । अस्मदुक्तरीत्याऽहमर्थस्यात्मत्वाङ्गीकारे तद्योऽहं सोऽसावित्यादौ विशिष्टयोरैक्यायोगात् पदद्वयस्य भागत्यागेन चैतन्यमात्रस्य लक्षणाजघन्यवृत्तिराश्रीयते । इतः परं सा नाश्रयणीया । अहमर्थस्यास्मदुक्तरीत्यात्मत्वेन एकस्यायंशब्दस्य मुख्यार्थत्वे सम्भवति पदद्वयस्य लक्षणा-श्रयणं न त्वया कार्यमित्याह ॥ एवञ्चेति ॥ नन्वथापि कर्तृत्वादिविशिष्टस्यैवात्म-शब्दार्थत्वात्तदभेदायोगेनाहमर्थस्यैवात्मत्वेऽपि तत्पदे लक्षणा मया कार्यैवेति चेन्न । ‘तदात्मानमेवावेदहं ब्रह्मास्मि’ इति शुद्धचैतन्यस्यैवाहन्त्वोक्तेर्न लक्षणा कार्येति भावः । उत्तरत्र कारिकायामेतत्सूचनार्थमेव तदात्मानमिति श्रुतेरिति शुद्धचैतन्यस्यैवाहन्त्वप्रतिपादिका श्रुतिः सङ्गृहीतेति द्रष्टव्यम् । सङ्गृह्णाति ॥ तस्मादिति ॥ अहमात्मेतीति ॥ ‘अहमात्मा गुडाकेश’ इत्यादिस्मृतेरित्यर्थः ॥
श्रीकूर्मनरहरिआचार्यविरचिता
न्यायकल्पलता
अहमर्थस्यानात्मत्वं निराचिकीर्षुर्परमतमनुवदति ॥ यदपीति ॥ अहमर्थो नात्मा आत्मनि प्रकाशमानेऽप्यप्रकाशमानत्वादिति बुद्धिस्थहेतौ विशेषणासिद्धिमुद्धरति पश्चा-दित्यादिना ॥ विशेष्यासिद्धिमप्याकरोति अनेेवमिति ॥ अप्रकाशमानस्येत्यर्थः । अथात इत्यादि । छान्दोग्ये भूमप्रकरणे । भूमात्वेन विजिज्ञासितव्य इति सनत्कुमारेण प्रोक्तं प्रति भूमानं भगवो विजिज्ञास इति । नारदेन पृष्टो सनत्कुमारस्तं प्रति प्रोवाच । ‘यत्र नान्य-त्पश्यति नान्यच्छ्रुणोति नान्यद्विजिज्ञासे तं भूमा’ इत्यादिनोपदिष्टभूमानम् । ‘स एवाधस्तात्् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः स एवेदं सर्वम्’ इति सर्वात्मकत्वेनोपदिश्य अथातोऽहंकारादेश एवाहमधस्तादहमुपरिष्टादहंपश्चादहं पुरस्तादित्या-दिना अहङ्कारं च सर्वात्मकत्वेन निरूप्य अथात आत्मोदेश एवात्मैवाधस्तादात्मैवोपरिष्टा-दित्यादिना अहंकारोपदेशादात्मन उपदेशान्तरादहंकारो नात्मेत्यर्थः । आत्मानुबन्धीनीति ॥ आत्मत्वनियतः । अनात्मानुबन्धी । अनात्मत्वनियतश् चिदचिदिति । शुद्धचिद्रूपत्वा-भावादित्यर्थः । विशेष्यानङ्गीकारे बाधकमाह ॥ यदि चेति ॥ ह्यस्तन इति ॥ यथा पूर्वेद्युरहमित्यनुभूतोऽहमर्थोऽद्य स्मर्यते । तथा सुषुप्तावहमर्थोऽनुभूतश्चेत्तर्हि सुप्तोत्थितेन स्मर्ये-तेत्यर्थः । स्मर्यमाणेति परामृश्यमानात्मात्यन्ताभिन्नत्वादित्यर्थः । समाधत्ते तत्रेति ॥ पूर्वपक्षे प्राप्ते समाधानमुच्यत इति शेषः । आत्माऽहमर्थयोस्तदभेदवादिनं प्रति आत्मनः प्रकाशे सति अहमर्थस्याप्रकाश इत्येदसिद्धमिति भावः ॥ अन्योन्याश्रयादिति ॥ अहमर्थस्य प्रकाशमानात्मान्यत्वेन सुषुप्तावप्रकाशसिद्धिः । तत्सिद्धौ च तथाविधात्मभिन्नत्व-सिद्धिरित्यर्थः । सङ्गृह्णाति ॥ अहमर्थ इति ॥ सुप्तोत्थितमात्रस्यात्मपरामर्शो ऽहमर्थगोचर आत्मपरामर्शत्वात् । यथा सम्प्रतिपन्न इत्यन्वयव्यतिरेकव्याप्तिकमनुमानमित्यर्थः । हेतौ व्यभिचारं निरस्यति ॥ अस्वाप्समितीति ॥ ‘अस्मद्युत्तम’ इति सूत्रेणाप्रयुज्यमानेऽप्यस्मदि उत्तमपुरुषप्रयोगविधानेन ज्ञायमानार्थत्वादभिज्ञाभिलपनयोः समानार्थत्वमित्यर्थः ॥ अन्तः-करणेति ॥ स्वयं प्रकाशस्य ज्ञानान्तरगम्यत्वेन तद्विनाशप्रयुक्तसंस्काराभावात्स्वरूपस्य चाविनाशादविनाशिनः संस्कारजनकत्वान्नात्मनि प्रत्यभिज्ञासम्भवतीत्यशङ्क्योक्तं विवरणे । अन्तःकरणविशिष्ट एवेत्यादि । न निष्कलङ्के न निष्कलङ्कात्मस्वरूपमात्रे । ननु विवरणवाक्यस्य निरुपाधिकात्मपरामर्शनिषेधे तात्पर्यम् । नत्वहङ्कारविशिष्टतद्विधान इति । मैवम् । अन्तःकरणस्यान्वहं विनाशात्तद्विशिष्टस्यापि विनाशित्वमिति न प्रत्यभिज्ञा-विषयत्वमिति शङ्कोत्तररूपेण संसारावस्थायामन्तःकरणविशिष्टरूपानपायादित्युत्तरविवरण-वाक्येन विरोधात् । ननु निश्चये सति संशयाभावनियमेऽपि न निश्चयाभावे संशयनियमो सिद्ध इत्यत आह न त्विति ॥ कदाचिदपि तादृशसंशयः स्यादित्यर्थः ।
ननु परामृश्यात्मनि प्रत्यक्त्वनिश्चयान्न तत्र तद्विरुद्धपराक्त्वरूपान्यत्वसंशय इति शङ्कते नन्विति ॥ प्रत्यक्त्वनिश्चय एवाहंत्वनिश्चय इति वक्तुमाह ॥ प्रत्यक्त्वमिति ॥ निर्भास्येति ॥ निर्भास्यं दृश्यं पराक् तत्प्रतिकूलचित्त्वं प्रत्यक्त्वमित्यर्थः ॥ अन्यत्वेति ॥ अन्यत्वं पराक्त्वं तद्विरुद्धचित्त्वं प्रत्यक्त्वमित्यर्थः । आद्यं दूषयति ॥ चिदिति ॥ द्वितीयं प्रत्याह ॥ स्वयमिति ॥ द्वितीये दोषान्तरमाह घटादिरिति ॥ घटादिरपि प्रत्यगर्थः स्यादित्यर्थः ॥ विवरण इति ॥ अहङ्कारस्य पराक्त्वसापेक्षत्वादात्मनश्चानपेक्षत्वान्न तयोरभेद इत्युक्ते तर्ह्यात्मनोऽपि पराग्व्यावृत्त्या सापेक्षत्वान्नात्मत्वं स्यादिति शङ्कायां विवरणे उक्तमात्मन इति । सर्वात्मकत्वात् । पूर्णत्वात् ॥ घट्टकुटीति ॥ केचिद्वणिजः शुल्कमदित्सन्तः शुल्कग्रहणस्थलं वञ्चयित्वाऽन्येन पथा जिगमिषन्तो विस्मृतपथा यत्र घट्टे शुल्कग्राहिणां कुटी स्थिता तत्रैव प्रभाते आगताः । सोऽयं घट्टकुटीप्रभातवृत्तान्तः । आत्मांशे परामर्शः । अहमर्थेत्वनुभव इति मत्वा शङ्कते ॥ नन्विति ॥ न किञ्चिदिति ॥ अज्ञानांशे परामर्शस्तु तवापि सम्मतः । अत एव न किञ्चिदवेदिषमित्यादावित्युक्तम् ।
ननु सुषुप्तावज्ञानस्य सत्त्वात्तदनुभवेन तस्य परामर्शो युज्यते अहमर्थस्य तु तदानीम-सत्त्वान्न तस्य जाग्रति परामर्श इत्यत आह ॥ न हीति ॥ अज्ञानस्याहमर्थाश्रितस्यैव परामर्शात्तथैव सुषुप्तावनुभवो वाच्य इति तदाप्यहमर्थसत्त्वसिद्धिरित्यर्थः ॥ एतावन्त-मिति ॥ स्वप्नावस्थायामहमर्थस्य सत्त्वात्स्वप्नादुत्थितस्य स्वप्नं पश्यन्नासमित्यहमर्थविषयः परामर्शो भवति । तस्मिंश्च परामर्शे स्वप्नं पश्यन्नासमिति परामर्शवानस्मीत्यादिनाऽह मर्थविषयपरामर्शत्वमनुभूयते यथा । यथा वा जाग्रत्यनुभूतार्थेऽहमर्थविषयपरामर्शे जाग्रदन्तर-कालीने जाग्रदासमिति परामर्शवानस्मीत्यनेन परामर्शत्वमनुभूयते । तथाऽस्वाप्समित्यत्राप्य-स्वाप्समिति परामर्शवानस्मीत्यनुभवेनाहमर्थविषयकज्ञाने परामर्शत्वमनुभूयत इत्यर्थः ॥ अन्यथेति ॥ अहमर्थे परामर्शाभावे ॥ यः पूर्वमिति ॥
ननु दुःखित्वेन प्राक् ज्ञानवन्मदन्यत्वेन प्राक् ज्ञानाभावात्कथमेवं परामर्श आपाद्यते । सुषुप्तौ चाहमर्थाप्रकाश एव न तु प्रागसत्वग्रहणम् । अतः कथं तत्र जन्मप्रत्ययोऽपीति । चेन्मैवम् । अस्वाप्समिति स्वापक्रियाकर्तृत्वेनाहमर्थपरामर्शो न स्यादित्यत्र तात्पर्यात् । यत्तु प्रागभावसत्त्वाग्रहणान्न जन्मप्रत्यय इति । तदज्ञानविजृम्भितम् । प्राक्सत्त्वाग्रहणमात्रेण जन्मप्रत्ययोपपत्तेः । अहमर्थे परामर्शत्वानुभवादित्यत्रान्यथासिद्धिं शङ्कते ॥ नन्विति ॥ अपरामर्श इति ॥ पुरोवतिर्रजतयोरैक्यारोपात्तज्ज्ञानयोस्तदारोपदर्शनेऽप्यनुभवपरामर्शत्वारो-पादर्शनादित्यर्थः सिद्ध्यति । अहमर्थस्यैव परामृश्यमानत्वेन तयोरैक्यारोपः सम्भवतीत्यर्थः ॥ सिद्धे चेति ॥ परामृश्यमानात्माभेदारोपे सिद्धे तन्निबन्धनोऽहमर्थानुभवे परामर्शत्वाभिमान इति तस्यापरामृश्यमानत्वसिद्धौ सुषुप्तावप्रकाशमानत्वेन प्रकाशमानात्मान्यत्वसिद्धिरितीतरे-तराश्रयत्वमित्यर्थः । एतेन स्वापकर्त्रैक्यारोपादहमर्थेऽस्वाप्समिति तत्कर्तृत्वारोपः पूर्वकाल-गृहीतेनाभिन्नतया गृह्यमाणत्वाच्च नाहङ्कारे जन्मप्रत्यय इति निरस्तम् । स्वापकर्तुरात्मनः पूर्वकालवर्तिनश्च तस्यैवाहमर्थत्वेन तदैक्यारोपासम्भवात् । अन्यथाऽन्योन्याश्रयादिति भावः । आत्मपरामर्शस्याहमर्थांशापरामर्शे दोषान्तरमाह ॥ अहमितीति ॥ अहमंशे परामर्शादन्य आत्मपरामर्शो नास्तीत्युक्तम् । त्वया पुनरहमर्थे परामर्शभिन्नस्यैवात्मपरामर्शत्वमतो दृष्ट-हानादीत्यर्थः । एतेनास्वाप्समित्यस्यैवात्मपरामर्शत्वाङ्गीकारान्न दृष्टहानादीति निरस्तम् । त्वन्मतेऽस्वाप्समित्यस्याहमर्थांशे परामर्शत्वाभावात् ॥ एतेनेति ॥ अहमर्थे परामर्श-त्वोपपादनेनेत्यर्थः ।
ननु सुप्तोत्थितस्यात्मपरामर्शः । यद्यहमर्थपरामर्शः स्यात्तर्हि अहंशब्दोल्लेखी स्याद् यथा ह्यस्तनोऽहमर्थपरामर्श इत्यत्राहंशब्दोल्लेख्यनुभवजन्यत्वमुपाधिरित्याह ॥ अहंशब्देति ॥ साधनाव्यपकतामुपपादयति तावन्मात्रेणेति ॥ प्रामाणिकत्वेनेष्टापत्तिं विशदयति ॥ स्मर्यते इति ॥ परामृश्यत इत्यर्थः । साक्ष्यनुभवस्य नित्यतया संस्कारजन्यत्वाभावात् । अन्यथेति ॥ ह्यस्तनवैषम्यमात्रेणाहमर्थे परामर्शत्वाभावे आत्मांशेऽपि परामर्शत्वं न स्यादित्यर्थः ॥ निरुत्तरमिति ॥ अस्मदुक्तादन्यदुत्तरं नास्तीत्यर्थः ॥ तथापीति ॥ आत्मपरामर्शस्याहमर्थपरामर्शत्वेऽहंशब्दोल्लेखाभावेऽपीत्यर्थः । सोपहासं दूषयति ॥ अहमर्थ-प्रकाशेनेति ॥ तदभिमानप्रकाशसहितेनेत्यर्थः । एतेन अहमर्थमात्रसापेक्षतया तदभिमान-प्रकाशयोरुभयोः समव्याप्ततयाऽभिमानपरामर्शापादनं व्यधिकरणमिति व्युदस्तम् । अभिमान-प्रकाशयोः समव्याप्तत्वेऽप्यभिमानपरामर्शप्रयोजकस्य सुषुप्तावभिमानप्रकाशस्याभावात् । न चाहमर्थप्रकाश एवाभिमानप्रकाश इति वाच्यम् । तथात्वे इष्टापत्तेः ॥ अन्यथेति ॥ अहमर्थप्रकाशमात्रेण तदभिमानपरामर्शापादने आत्मप्रकाशमात्रेण तदभिमानपरामर्शोऽपि स्यादित्यर्थः । न चाहङ्कारस्य तादृशपरामर्शप्रयोजकतया तदभावे तदापादनासम्भव इति युक्तम् । तर्हि मां प्रति तदापादनस्येष्टत्वात् ।
ननु सुषुप्तावहमर्थप्रकाशे न किञ्चिदहमवेदिषमित्यहमर्थावच्छिन्नाज्ञानपरामर्शो न स्यात् । प्रकाशमाने तदज्ञानविरोधादित्यत आह ॥ न किञ्चिदहमिति ॥ न किञ्चिदहमवेदिषमिति परामृश्यमानमज्ञानं प्रति यथाऽऽत्मा नावच्छेदकः प्रकाशमानत्वात्तथाहमर्थोऽपि । अज्ञानं तु अहमर्थात्माश्रयम् । तदन्यविषयमात्माद्यज्ञानादन्यदेव परामृश्यत इत्यर्थः । ननु दृष्टान्ता-सम्प्रतिपत्तिः साक्षिणि प्रकाशमान एवाज्ञानस्य मयाङ्गीकृतत्वादित्यत आह ॥ अन्यथेति ॥ साक्षिणोऽप्यज्ञानविरोधित्वस्योपपादितत्वादित्यर्थः । ननु आत्मज्ञानार्थिनमिन्द्रं प्रति प्रजापतिना सुषुप्तपुरुषे आत्मत्वेन निर्दिष्टेनाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्यय-महमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति इन्द्रेणाह-मर्थाद्यज्ञानेन दूष्यत इत्यत आह ॥ यात्विति ॥ नाहेत्यत्र छान्दसं दीर्घत्वम् । श्रुतावात्माज्ञानस्याप्युक्तत्वात् सावश्यं सङ्कोचनीयेत्याह सापीति ॥ ‘नात्मानं न परांश्चैव न सत्यं नापि चानृतम् । प्राज्ञः किञ्चन संवेत्ति तुर्यं तत्सर्वदृक्सदा’ माण्डूक्यश्रुतिर्यथा । आत्मविशेषाज्ञानपरा तथाऽहमर्थविशेषाज्ञानपरोक्तश्रुतिरित्यर्थः । प्राज्ञपदेन प्राज्ञसम्परिष्वक्तो जीवो गृह्यते । प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेदनान्तरमिति श्रुतेः । यत्तु अहरर्ब्रह्म गच्छन्ति, सति सम्पद्य न विदुरित्यात्मवेदनश्रुतिविरोधेन नात्मानमित्यस्य विशेषा-ज्ञानपरत्वं युक्तम् उक्तश्रुतेस्तु न श्रुत्यन्तरविरोध इति । तदज्ञानविजृम्भितम् । अहरह-रित्यादेरात्मवेदनबोधकत्वाभावात् । प्रत्युत न विदुरित्यनेन स्वस्वरूपाज्ञानस्यैव प्रतीतेश्च । नात्मानमित्यादिनैवाहरहः श्रुतिबाधसम्भवाच्च । अन्तःकरणावच्छिन्नस्याज्ञानादिस्मर्तृत्वानुरोधेन तस्यैव तदनुभवितृत्वमित्यर्थापत्त्या सुषुप्तावहमर्थसिद्धिरित्याह ॥ किं चेत्यादिना ॥ अह-मर्थानुभवितृत्वे प्रत्यभिज्ञाप्रत्यक्षमपि प्रमाणयति ॥ योऽहमन्वभूवमिति ॥ स्मर्त्रनु-भवित्रोर्भेदे प्रत्यभिज्ञानविरोध इति भावेन तयोर्भेदाभावमाशङ्क्य भेदमुपपादयति ॥ यद्यपीति ॥ तथापीति ॥ चैतन्यजीवयोः स्मर्त्रनुभवित्रनुगमेऽपीत्यर्थः । तयोश् चैतन्यजीवयोः ।
ननु कौन्तेयस्यैव राधेयत्ववदविद्योपहितस्यानुभवितुरेवान्तःकरणोपहितस्य स्मर्तृत्वान्न तयोर्भेद इत्याशङ्क्य परिहरति ॥ यद्यप्यविद्येति ॥ ननूपाधिभेदेनोपधेयभेदस्तत्रैव यत्र परस्परानुपहित उपाधी उपधत्तः । अन्यथा कम्ब्ववच्छिन्नग्रीवावच्छिन्नाकाशादन्य एव घटा-काशः स्यादिति । मैवम् । उपाधिभेदादुपधेयभेदस्यावश्यकत्वात् । अन्यथा साक्ष्यैव एवान्तः-करणतद्वृत्तिघटाद्यवच्छिन्न इति प्रमाता प्रमाणं फलं प्रमेयं च स्यादिति सर्वसङ्करः स्यात् । कम्ब्वाद्यवच्छिन्नाकाशादन्यस्यैव घटाकाशत्वात् । अन्तःकरणरूपोपाधिसम्बन्धं विनैव तदुपधेयस्याविद्योपधेयस्य च भेदोऽस्तीत्याह ॥ शुद्धचैतन्यस्येति ॥ अत एवोपधेयभेदे च सतीति चकारः ॥ अहं निर्दुःखः स्यामिति ॥ न च कृशोऽहं स्थूलो भवामीति-वत्प्रवृत्त्युपपत्तिरित्युक्तम् । तत्र कार्श्यादिविशिष्टस्य शरीरस्यैव स्थौल्याधिकरणतया विवेकिनामुद्देश्यत्वात् । तत्र शरीरं स्थूलं स्यादितिवच्चिन्मात्रं निर्दुःखं स्यादितीच्छायाः प्रकृतेऽभावात् ॥ योऽहं सुप्त इति ॥ तव मतेऽहमर्थस्यासुप्तत्वादित्यर्थः । अहमर्थ-व्यक्त्यभेदप्रत्यभिज्ञाबाधकमाह ॥ योऽहं पूर्वेद्युरिति ॥ अहङ्कारेति ॥ पूर्वेद्युर्विद्यमानस्या-हङ्कारस्य सुषुप्तौ विनाशाङ्गीकारादित्यर्थः ।
ननु सुषुप्तौ कारणात्मनावस्थितस्याहमर्थस्य जागरे उत्पत्त्यङ्गीकारे न प्रत्यभिज्ञा-विरोधादीति चेन्न । कारणावस्थितस्याकर्तृत्वात् । कर्तृभूतपरिणामविशेषस्य च विनष्टत्वा-दित्यभिसन्धायोक्तं व्यक्तिभेदादिति । ननु कर्तृभोक्त्रोश्चैतन्यानुगमान्न कृतहान्यादीत्यत आह ॥ अभिन्न इति ॥ ननु चैतन्ये कर्तृत्वाद्यभावेऽप्यारोपितेन कर्तृत्वादिना तयोरभेद इत्या-शङ्क्य परिहरति ॥ कर्तृत्वाद्यारोपस्येति ॥ स्थूलः करोमीति प्रतीतेरित्यर्थः । आरोपितेन कर्तृत्वादिना व्यावहारिककर्त्राभेदेन प्रमाया अनिर्वाहादिति भावः । अहंकरोमीति केवले चैतन्ये आरोपितकर्तृत्वाप्रतीतेरहं करोमीत्येव तदारोपो वाच्यः । तथा च कर्तृत्वस्य मुख्यः प्रत्ययोऽन्यो नास्तीत्येव मुख्य इति न तदारोप इत्यर्थः ॥ अहङ्कारलय इति ॥ प्राणस्यापि लयापत्त्येति शेषः ॥ भेदपक्ष इति ॥ अभिमन्तृत्वेन प्राणनादिधर्मित्वेन तयोर्भेदादित्यर्थः । तदुक्तं विवरणे । ‘नाहङ्कारमात्रत्वं प्राणस्योच्यते किं तु प्राणस्य पृथक्सतः पञ्चधा व्यापारहेतोः कारणीभूतस्याहङ्कारस्य क्रियाशक्तिरस्ति मनोऽधीनतादर्शनात्प्राणवृत्तेः’ इति ॥ अभेदपक्षेऽपीति ॥ प्राणांशं प्राणशक्तिम् । तथोक्तं विवरणे । प्राणलक्षणक्रियाशक्त्यंशं वा विहाय विज्ञान-शक्त्यंशस्य लयः कल्प्यताम् । सांशत्वादन्तःकरणस्येति । आद्यपक्षे दूषणमाह ॥ प्राण-स्येति ॥ द्वितीये शक्तितद्वतोर्भेदे स एव दोषः । अभेदे त्वाह ॥ अहमर्थत्व इति ॥ प्राणस्य सत्त्वात् सुप्तावहमर्थस्यापि सत्त्वापत्त्या तदुल्लेखः स्यादित्यर्थः ॥ किं चेति ॥ बृहदारण्यके ‘य एष विज्ञानमयः पुरुषस्तदेतेषां प्राणानां विज्ञानेन विज्ञानमादाय एषोऽन्तर्हृदय आकाशस्तस्मिंच्छेते तानि यदा गृह्णात्यथ हैतत्पुरुषः स्वपिति नाम तद्गृहीत एव प्राणो भवति गृहीता वाग्गृहीतं चक्षुरित्यादौ वागादीनामुपरम एवोक्तो गृहीतमिति श्रवणात् । न तु लय इत्यर्थः । यत्तु मनआदीनामुपरमस्यैवोक्तेरित्यनेन मूलग्रन्थेन अथ हैतत्पुरुष इति श्रुतिर्मन आदीनामुपरमपरतया व्याख्याता नाहमर्थस्येति बुद्ध्वा आक्षिपति । मनउपरमे तेनैवाहङ्कारोपरमस्यापि प्राप्तेरिति । तदबोधविजृम्भितम् । श्रुतौ लयस्यानुक्तिं ब्रूमः । न तु अहंकारस्य । मनस आहङ्कारिकत्वेनानहङ्कारत्वाच्च । वैकारिकान्मनोजज्ञ इति भागवतोक्तेः ॥ अहङ्कारेणाप्यैक्येऽपीति ॥ अनेकेषां सर्वात्म्योपदेशानुपपत्तेरिति भावः । ननु नोपदेशानु-पपत्तिः । अन्यथाऽप्युपपत्तेरिति शङ्कते ॥ नन्विति ॥ भिन्नत्वेनेति ॥ व्यर्थस्य किञ्चिदिष्टज्ञापकत्वादिति भावः ।
ननु भेदोपदेशस्य व्यर्थस्यापि कथं भूमात्मनोरभेदज्ञापकत्वमित्यत उक्तम् ॥ द्वयो-रिति ॥ तन्मात्रवृत्तिधर्मबोधनमुखेन तन्मात्रत्वमवगम्यत इति भावः ॥ अहङ्कारस्य त्विति ॥ अहङ्कारे सार्वाभेदोपदेशस्तु तदधिष्ठानात्मसम्बन्धेनोपचारादिति भावः । कुतो नेत्यत आह ॥ अहमर्थादिति ॥ अहमर्थान्यात्मनि सार्वात्म्योपदेशस्त्वहमर्थवदुपचारादिति भावः । एतेनाहमर्थभिन्नात्मनो भूमरूपब्रह्मभिन्नत्वेन प्रत्यक्षासिद्धत्वेऽपि तदभिन्नस्यापि तदसिद्धतयोभयोः सार्वात्म्योपदेशानुपपत्तिसहकारेणास्याः श्रुतेस्तयोरभेदपरत्वमिति निरस्तम् । अहङ्कारभिन्नात्मभूम्नोरभेदस्य प्रत्यक्षादिसिद्धत्वेऽपि तयोर्भेदस्यापि तदसिद्धतया तद्बोधनेन वाक्यस्यार्थवत्त्वात् । सार्वज्ञं त्वहमर्थवदुपपत्स्यते ॥ ऐक्यार्थ इति ॥ नन्वहमर्थस्य जडत्वान्न तदैक्यायोग इत्यत आह ॥ त्वत्पक्ष इति ॥ चिदैक्योपदेशसामर्थ्यादेवाहमर्थस्य कर्तृत्वाद्याश्रयस्याप्यजडत्वसिद्धेरिति भावः ॥ स एवेदमित्यादि ॥ तथा च नानेकेषां सार्वात्म्यानुपपत्त्या तदभेदासिद्धिरिति भावः ।
ननु ‘स भगवः कस्मिन्प्रतिष्ठित’ इति प्रश्नानन्तरं किं क्वचिदधिष्ठानत्वमात्रं पृष्टं परमार्थतः क्वचिदधिष्ठितत्वं वा । आद्ये स्वे महिम्नीत्युक्त्वा द्वितीये भूमातिरिक्तमेव नास्तीत्येतदर्थ-पराऽन्यो ह्यन्यस्मिन्प्रतिष्ठित इति पूर्ववाक्यानुसारेण स एवाधस्तादित्यादेरपि सार्वात्म्यपरत्वे निश्चिते एकत्रैव वाक्ये उपक्रमादिकल्पना न युक्तेति चेत् । मैवम् । यतस्स भगवः कस्मिन् प्रतिष्ठित इति पृष्टे स्वे महिम्नीत्युत्तरिते महिमशब्देन गवाश्वादिकं चेत् तन्मया महिमत्त्वेन नोक्तमिति । यदि वा न महिमि्न इति गो अश्वमिह महिमेत्याचक्षतेऽस्तिहिरण्यमित्यादिनोक्ते तत्र हेतुत्वाकाङ्क्षायां ब्रवीमीति होवाच अन्यो ह्यन्यस्मिन् प्रतिष्ठितो ऽन्यः परमात्मलक्षणः । अल्पशक्तिरल्पज्ञो ऽन्यस्मिन् स्वोत्कृष्टप्रतिष्ठितः । भूमा तु परिपूर्णः । भावभवित्रोरभेदात् । अतो नान्यस्मिन् प्रतिष्ठित इत्युक्ते तर्हि कथं स्वे महिमि्न प्रतिष्ठित इत्युच्यत इत्याकाङ्क्षायां भूम्न आधारभूतः स्वमहिम्नोच्यते स एवाधस्तादित्यादिना । तत्र कः प्रसङ्गः सार्वात्म्यस्य । ननु भूम्नस्स इति परोक्षनिर्देशात्परोक्षत्वप्राप्तौ तद्वारणायापरोक्षाहङ्कारेणैक्यमथातोऽहङ्कारादेश इत्यनेनाभिधाय निष्कृष्टाहङ्कारकेवलात्मस्वरूपैक्यं बोध्यते । अथात आत्मादेश इत्यनेनेति नाहङ्कारवाक्यवैयर्थ्यमिति शङ्कते ॥ नन्विति ॥ ब्रह्मणः भूमरूपस्य ॥ आपरोक्ष्यायेति ॥ अपरोक्षद्रष्टृभेदायेत्यर्थः ॥ अहङ्कारस्यापरोक्षत्वाद् भूम्नस्तदभेदोक्त्याऽपरोक्षत्वसिद्धिः । अन्यथा परोक्षापरोक्षयोरभेदानुपपत्तेरित्यभिसन्धायोक्तम् ॥ अहं करोति समाधत्ते त्वत्पक्ष इति ॥ त्वन्मतेऽपरोक्षैकरसात्मसम्बन्धादेवाहङ्कारेऽप्यापरोक्ष्यमिति मुख्यापरोक्षात्माभेदोप-देशेनैव भूम्नोऽप्यापरोक्ष्यस्यापि सिद्धिरित्यर्थः । विपक्षे बाधकमाह आत्मन इति ॥ लब्धा-परोक्ष्यस्येति ॥ भूमाख्यब्रह्मण इति शेषः ।
ननु तत्त्वविन्मते ब्रह्मभिन्नाहङ्कारस्य कथं सर्वव्यापित्वमपीत्यतः स्मृत्या श्रुत्यर्थमाह ॥ श्रुत्यर्थस्त्विति ॥ अबाधितत्वपरविशेषार्थस्तुशब्दः । स एवाहङ्कृतिः स्मृत इति । अहंकृतिरितिशब्दवाच्य इत्यर्थः । अतः परम् अकार्योऽहमिति ह्येष ततोऽहङ्कार उच्यते । जीवस्थ इत्यादिपाठः । स च व्यापी न च भेदो हरौ क्वचिदित्यन्तः पाठः । यत्तु श्रुति-विरोधेन स्मृतेरेवान्यथानयनमिति तन्न । उक्तरीत्याऽनुपपन्नायाः श्रुतेः स्मृत्या व्याख्या-तत्वात् । न तु स्मृतिविरोधेन सान्यथा नीयते सूत्रं चेति ॥ उक्तार्थे प्रमाणमिति शेषः ॥ सैव हीति ॥ एष तु वा अतिवदति यः सत्येनातिवदतीत्यादौ सत्यत्वे च विजिज्ञासितव्यमित्यादिनोक्ताः सत्यविज्ञानमतिश्रद्धानिष्ठाकृतिसुखभूमाहङ्कारात्मान्ताः सत्यादयः सर्वे परदेवतारूपा इत्यर्थः । सत्याद्या अहमात्मान्ता यद्गुणा समुदीरिताः । तस्मै नमो भगवते यस्मादेव विमुच्यते इति स्मृतेरित्याशयः ॥ अन्यथेति ॥ अहङ्कारस्याब्रह्मत्व इत्यर्थः ।
नन्वहङ्कारस्य ब्रह्मत्वे षट्प्र्रश्नोपनिषदि यथा सोम्य वयांसि वासो वृक्षं सम्प्रतिष्ठन्ते एवं ह वै तत्सर्वं परे आत्मनि सम्प्रतिष्ठते पृथिवी च पृथिवीमात्रा चेत्यारभ्य अहङ्कारश्चाहङ्कर्तव्यं चित्तं च चेतयितव्यं चेत्यादिनाहङ्कारस्य पृथिव्यादिवत् परमात्माश्रितत्वं प्रतीयमानं विरुध्यत इत्यत आह ॥ अहङ्कारश्चेति ॥ न त्वहमर्थ इति ॥ जीवो जीवस्थोऽनिरुद्धश्चेत्यर्थः । अस्मदादेशादहमर्थो नेत्यर्थः । किन्तु जीवो जीवस्थो अनिरुद्धश्चेति । नन्वेवमहङ्कारशब्दो नानार्थः स्यादित्याशङ्क्य विपक्षे बाधकमाह अन्यथेति ॥ स्मार्तप्रयोगाद्बुद्धिशब्दवन्नानार्थत्वं न दोषः किन्तु इष्टमेवेत्यर्थः । प्रयोगबाहुल्यमेवाह ॥ अहङ्कारशब्दस्येति ॥ देहेऽहम्बुद्धा-विति ॥ देहविषयकाहं कर्तेतिमानसबुद्धावित्यर्थः । । एतच्च परमतेनोक्तमिति ध्येयम् ॥ अहमर्थेति ॥ वस्तुतस्तु शब्दभेदान्नानार्थत्वमित्यर्थो ऽहमर्थेति ॥ साक्षिणीत्यर्थः । शब्दभेदमेव साधयति ॥ आत्मेति ॥ तस्मात् ‘अथातोऽहङ्कारादेश’ इति छन्दोगश्रुतौ न जडोऽमहत्तत्वविकारोऽहंशब्देनोच्यते । किं तु जीवस्थोऽनिरुद्धः । अहङ्कारश्चाहङ्कर्तव्यं चेत्यादिश्रुतिस्मृत्योस्त्वहङ्कारशब्देन जीवो नोक्तः । किं तु त्रिविधोऽहङ्कार इति न श्रुतिस्मृती आत्मभिन्नाहमर्थे प्रमाणमिति ॥ अहमर्थ इति ॥ तथा च चिदचित्संवलनात्मकमित्यर्थः ॥ अन्तःकरणेति ॥ सर्वांशावच्छेदेनाहमर्थेन कर्तृत्वादिकमित्यर्थः ।
ननु गौरोऽहमित्यादावपि देहत्वेनाभानेऽपि गौरत्वमनुष्यत्वादिना त्प्रतीतेर्दृष्टान्तासम्प्रति-पत्तिरिति चेन्न । यत्र सामग्रीवशात्सुरभिजलमितिवद्गौरोऽहमिति धर्ममात्रारोपस्तस्यैव दृष्टान्त-त्वात् । न हि सर्वत्राभेदारोपसामग्रीनियमः । नन्वहमर्थस्य प्रत्यङ्मात्रत्वे परकीयघटे घटशब्द-वत्परकीयेऽहमर्थेऽहंशब्दः प्रयुज्येतेत्यत आह ॥ या त्विति ॥ सम्बन्धिभेदेनाहंशब्द-वाच्यस्यापीदं शब्दाभावे बाधकमाह ॥ अन्यथेति ॥ एतच्चोपलक्षणं परकीयाहमर्थेऽ-चित्सम्बन्धे नेदंशब्दत्वे स्वकीयाहमर्थोऽपीदंशब्दः स्यादिति च ज्ञेयम् । अहमर्थस्यानात्मत्वे प्रत्यक्षमाशङ्क्य अपाकरोति ॥ न चेति ॥ अस्या इति ॥ चिदचित्सम्वलनमपि न सिद्ध्येदित्यर्थः । परमतमवष्टभ्योत्तरयति ॥ सर्वात्मक इति ॥ वस्तुतस्तु इदं शब्दः प्रमितत्वमाह । तच्च जगतीवात्मन्यपि अस्त्येव । तथाचाहृदयवाचामहृदया एव प्रतिवाचो भवन्तीति न्यायेनोक्तमित्यवगन्तव्यम् ॥ त्वन्मत इति ॥ आत्मन्येव व्यभिचार इत्यर्थः ।
नन्वधिष्ठानचितो येन रूपेणाहम्प्रत्ययविषयत्वं तेन रूपेणात्मत्वमपि । स्वरूपेण त्वात्मत्वेऽपि तेन रूपेणाहम्प्रत्ययविषयत्वस्याप्यभावान्न व्यभिचार इति । मैवम् । चिदंशं विना स्वरूपेणाहम्प्रत्ययविषयत्वस्य पक्षेऽप्यभावात् । एतेनाहमर्थ आत्मान्यो ऽहंशब्दाभि-धेयत्वात् । अहंकारशब्दाभिधेयवदिति निरस्तम् । महत्तत्वविकारपक्षीकारे सिद्धसाधनात् । अस्मदर्थस्य पक्षत्वे बाधात् । सास्नादिमद्व्यक्तिः स्वभिन्ना गोशब्दाभिधेयत्वात् पृथिवीवदित्या-दावसाम्याच्च । स्वव्याहतिमभ्युच्चिनोति किञ्चेति ॥ गौरोऽहमितीति ॥ अहमर्थस्यैव गौरभ्रमाधिष्ठानत्वनिरुपाधिप्रेमास्पदत्वप्रतीतेरित्यर्थः ॥ अन्योन्येति ॥ माहं न भूवं भूयास-मित्यहमर्थप्रेमास्पदनिबन्धनैवात्मनः प्रेमास्पदत्वसिद्धिस् तत्सिद्धौ चाहमर्थे तदारोप इत्यर्थः ।
ननु नाहमर्थद्वारात्मनि प्रेमसिद्धिः किं तु स्वत एवेति नान्योन्याश्रय इत्यत आह ॥ अहमर्थेति ॥ न च सुषुप्तिकालीनात्मप्रेमैव तादृश इति युक्तम् । तदाप्यहमर्थ-प्रेमातिरिक्तात्मप्रेम्णोऽभावात् । अन्योन्याश्रयाच्च ॥ अहित इति ॥ ननु न प्रेमास्पदत्वारोपं ब्रूमः किं तु प्रेमास्पदात्मैक्यारोपादहमर्थे प्रेमास्पदत्वं न तु तत्स्वाभाविकमितीति । मैवम् । अहमर्थमनन्तर्भाव्यात्मनि प्रेमादर्शनादित्युक्तत्वात् । अन्यस्यान्यात्मनावभासस्यैवारोपत्वाच्च ॥ समारोप्यस्येति ॥ आरोप्यस्य सर्पादेर्भीषणत्वादिना रूपेण विषयो रज्ज्वादी रूपवान् भीषणत्वादियुक्तो भवति । विषयस्य रज्ज्वादेः रूपेणाभिगम्यत्वादिना । समारोप्यं सर्पादि-रूपवदभिगम्यं न भवतीत्यर्थः । न च सर्पगतानिदन्त्वादिवदन्तः करणगताप्रेमास्पदत्वस्यापि नात्मन्यारोप इति वाच्यम् । अधिष्ठानत्वौपयिकतद्गतसामान्यधर्माविरुद्धानां समारोप्यगतानां विषये आरोपदर्शनात् । न हीदन्त्वादिवत्प्रेमास्पदत्वमप्यहमर्थारोपहेतुः । येन तद्विरुद्धानि-दन्त्ववदप्रेमास्पदत्वस्याप्यारोपो न स्यात् । यत्त्वधिष्ठानगतधर्मप्रतीत्यविरोधिन आरोप्य-गतस्याधिष्ठाने भानमिति तन्न । अन्योन्याश्रयात् । न चात्मैक्याध्यासकाल एव प्रेमा-स्पदत्वसम्भवेनारोप्येऽप्य प्रेमास्पदत्वाप्रतीतेः कुतो विषये तत्प्रतीतिरिति वाच्यम् । वैपरीत्यस्यैवोचितत्वात् । अहमर्थे प्रेमास्पदत्वारोपहेतुमात्मैक्याध्यासं दूषयति ॥ त्वद्रीत्येति ॥ आत्मनोऽहमर्थाद्भेदप्रतीतेर्न तत्र तस्यारोप इत्यर्थः । न चायं वैषयिक-सुखानुभवः स चानात्मेति वाच्यम् । तस्यापि साक्षिग्राह्यत्वात् । त्वन्मते विषयसम्बन्धेन स्वरूपसुखमेवाभिव्यज्यत इत्युक्तेश्च । अहं स्फुरामीत्यत्र भेदप्रतीतेश्च ॥ मोक्ष इति ॥ न चौपाधिकप्रेमास्पदनाशेऽपि न बाह्यमतप्रवेशापत्तिः । अन्यथा शरीरनाशेऽपि तदापत्तिः स्यादिति वाच्यम् । अनौपाधिकप्रेमास्पदस्यान्यस्याननुभवेनाहमर्थस्यैव स्वाभाविकप्रेमास्पद-त्वात् । त्वन्मतेऽपीति ॥ निर्विशेषब्रह्मणः शून्याविशेषात् । अन्यथा निर्विशेषव्याघात इत्यर्थः ॥ अहं मुक्त इति ॥ अहमर्थस्य मुक्त्यनन्वयादित्यर्थः ॥ अन्योन्येति ॥ आत्माहमर्थयोर्भेदाधीनारोपसिद्धावुक्तेच्छाया अबाधकत्वं तदबाधकत्वे च भेदसिद्धिरित्यर्थः । अहमर्थस्यानात्मत्वश्रुतिविरोधमप्याह ॥ तत्र मामिति ॥ ‘यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते । कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि’ इत्यादिश्रुतौ मदर्थस्यैवामृतत्वप्रार्थन-श्रवणान्न तत्र तदारोप इत्यर्थः ॥ अनिष्टत्वेति ॥ इच्छाविषयत्वाभावापातादित्यर्थः । आत्मन्यहमर्थमनन्तर्भाव्येच्छा नास्तीत्याह ॥ यः कश्चिदिति ॥ ममेति ॥ चिन्मात्रस्य ममात्मत्वाभावादित्यर्थः । नन्वहं मुक्तः स्यामितीच्छा नास्त्येव । किं तु मुच्यतामित्यादि-रूपेत्यत आह ॥ न च स्वत इति ॥ मम मन इति ॥ ममेत्यत्र मनः प्रवेशादित्यर्थः ।
ननु दण्डिनो दण्ड इतिवदुपलक्षणत्वमस्त्वित्यत आह ॥ तदवच्छिन्नस्येति ॥ तद्विशिष्टस्येत्यर्थः । उत्सर्गप्राप्तविशेषणत्वे बाधकाभावेनोपलक्षणत्वायोगात् ॥ चिद-चिदिति ॥ न च सम्वलनं न सम्बन्धमात्रं किं तु तादात्म्येन प्रतिभास इति युक्तम् । त्वन्मते स्फुरणादावपि तदारोपात् ॥ द्व्यंशविषयेति ॥ भिन्नभिन्नप्रकारावच्छिन्नाधिष्ठा-नारोप्यविषयेत्यर्थः । तेन नेष्टापत्तिः । न च रजतत्वसंसर्गारोपनिबन्धनेदंरजतमिति प्रतीतौ व्यभिचार इति वाच्यम् । रजतादेरेव तत्र प्रकारत्वात् । नन्वहमिति बुद्धेर्भ्रमत्वानुरोधेन द्व्यंशत्वमपि तत्र कल्प्यत इत्यत आह ॥ यदीति ॥ त्वन्मत इति ॥ नन्वविद्यावृत्ति-रूपभ्रमज्ञनास्याध्यस्तत्वेऽपि चैतन्यरूपस्फुरणस्य न तथात्वमिति चेन्न । चैतन्यमात्र-स्याहंज्ञानत्वे सुषुप्त्यादावपि प्रतीतिमात्रशरीराहमनुवृत्त्यापातेनाविद्यावृत्त्यवच्छिन्नचित एवाहं-ज्ञानस्य त्वया वाच्यत्वात् । तस्य चाध्यस्तत्वादिति भावः । रूप्यमस्तीत्यादौ न सत्ता रूप्याधिष्ठानमित्याह ॥ बाधकेनेति ॥ तथा च दृष्टान्तासम्प्रतिपत्तिरिति भावः ॥ तस्मा-दिति ॥ बाधकज्ञानादित्यर्थः । उपजीव्यत्वादिना प्रबलप्रमाणं प्रथममाह ॥ प्रत्यक्षमिति ॥ अहमनुभवामीत्यादिकम् । अन्यथात्वतदभिमताद्वैतज्ञानप्रामाण्यं न सिद्ध्येदिति भावः ॥ तत्साधनेति ॥ अपरिक्रीतसम्बन्धिकृतिर्विवक्षिता । तेन विशेषव्याप्तौ दृष्टान्ताभावः सामान्यव्याप्तौ तु स्वर्गसाधनकृत्याश्रये ऋत्विजि व्यभिचार इति निरस्तम् । नन्वविद्यादि-रूपस्यानर्थस्य चिन्मात्राश्रितत्वेनासिद्धिरित्यत आह ॥ न चेति ॥ अहमज्ञ इति ॥ अहमर्थाश्रितत्वेनैवाज्ञानप्रतीतेरित्यर्थः ।
ननु स्थूलोऽहं न जानामीति शरीरस्याप्यज्ञानाश्रयत्वात्तत्र व्यभिचार इत्यत उक्तम्–अबाधितेति ॥ शरीरमनन्तर्भाव्याहमज्ञ इत्येव प्रतीतेः शरीरस्य तदाश्रयत्वं बाधितमिति भावः ॥ अनात्मत्वमिति ॥ न च कृत्याश्रयावृत्तित्वमुपाधिः । त्वन्मते मुक्तौ साध्याव्याप्तेः । अहं करोमीत्यहमर्थान्तर्गताधिष्ठानचितोऽपि कृत्याश्रयत्वात्तत्र मुक्तेर्वृत्तेः ॥ कस्मिन्न्वह-मिति ॥ षट्प्रश्नोपनिषदि ‘स ईक्षाञ्चक्रे कस्मिन्न्वहम्’ इत्यादिप्रतिष्ठास्यामीतीक्षणानन्तरं ‘स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापःपृथिवीमिन्द्रियं मनोऽन्नमन्नाद्वीर्यम््’ इत्यत्र प्राणमनःसृष्टेः पूर्वमहन्त्वोक्तिः । तथा छान्दोग्येऽपि ‘हन्ताहमिमास्तिस्रो देवता’ इत्यादौ तेजोऽबन्नानि स्वरूपेण त्रिवृतिं कुर्वन्ति स्वातन्त्र्यात् सच्छब्दनिर्दिष्टे ब्रह्मणि अन्नमशितं त्रेधा विधीयते, तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति, यो मध्यमस्तन्मांसं, योऽणिष्ठ-स्तन्मन, आपः पीतास्त्रेधा विधीयन्ते, तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति, यो मध्यस्तल्लोहितः, योऽणिष्ठः स प्राण इत्यादिनोक्तमनःप्राणसृष्टेः पूर्वमहन्त्वोक्तिरित्यर्थः ॥ तदात्मानमिति ॥ बृहदारण्यके ‘ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मी-त्यत्रावधारणब्रह्मशब्दाभ्यां शुद्धत्वानवद्यत्वप्रतीतिरित्यर्थः ॥ अहमित्येेवेति ॥ एवकारो भिन्नक्रमो ऽहन्त्वप्रकारकवित्तिविषयत्वायोगव्यवच्छिन्न इत्यर्थः ॥ मोक्षेति ॥ बन्धा-न्वयोऽपि द्रष्टव्यः । न च श्रुतिस्मृत्योर्विशिष्टवाचकाहम्पदस्य लक्षणया निष्कृष्टाहङ्कार-चैतन्यपरत्वमिति युक्तम् । तद्बीजस्यानुपपत्तेरभावात् । अन्योन्याश्रयत्वोक्तेश्च । अहमितः-प्रेत्याभिसम्भवितास्मीति यस्य स्यादद्धा न विचिकित्सेति अहं मनुरभवं सूर्यश्चेति त्वद्रीत्या वामदेवस्य सर्वात्मकत्वविज्ञानप्रतिपादकं चोदाहर्तव्यम् ॥ एवं चेति ॥ अहमर्थ-स्यैवात्मत्वादित्यर्थः । कर्तृत्वादिविशिष्टस्य कथमैक्यमिति चेन्न । न ह्यहंशब्देन कर्तृत्व-विशिष्टात्मोच्यत इति ब्रूमः । किं त्वात्मत्वविशिष्ट आत्मा । स तु वस्तुतः कर्तृत्वाद्याश्रय इत्यन्यदेतत् । न ह्येतावताहंशब्दे लक्षणा । आनन्दादिवदहन्त्वमपि स्वरूपमेवास्तु । कर्तृत्वादेर्मिथ्यात्वेनाप्यैक्यस्योपपत्तेः । उपसंहरन्सङ्गृह्णाति ॥ तस्मादिति ॥ अज्ञानाश्रय-त्वेनाभिमते चिन्मात्रे अज्ञोऽहमिति प्रत्यक्षेण तदात्मानमित्यादिश्रुत्याऽनवद्यस्य शुद्धस्य चाहन्त्वप्रतीतेरित्यर्थः ।
श्रीमद्व्यासयतीन्द्रार्यसत्कल्पतरुसंश्रिति ।
न्यायकल्पलतायां हि नानात्माऽस्मत्पदास्पदम् ॥
॥ इति अहमर्थस्यानात्मत्वभङ्गः ॥