एतेन मा भूद् ब्रह्मण्यविद्या, माया तु स्यात्
६३. परोक्तब्रह्ममायावित्वभङ्गः
न्यायामृतम्
एतेन मा भूद् ब्रह्मण्यविद्या, माया तु स्यात् । तस्या लीलोप-करणत्वेनादोषत्वादिति निरस्तम् । तथा हि– सा किमज्ञानविशेषः ? किं वा देवासुरसङ्ग्रामादौ देवादेर् बाह्यसाधनमनपेक्ष्यैव वह्निजलादिविचित्रसत्यवस्तु-सर्जनशक्तिवच्छक्तिविशेषः ? यद्वा ऐन्द्रजालिकस्येवाविद्यमानप्रदर्शनशक्तिः ? नाद्यः, उक्तरीत्या सामान्याभावे विशेषायोगात् । अज्ञानस्य लीलोपकरणत्वा-दर्शनाच्च, तस्मिन्मायाशब्दाप्रयोगाच्च । न ह्यैन्द्रजालिकोऽपि कस्यचिदज्ञाने-नेन्द्रजालं दर्शयति, किं तु मणिमन्त्रादिनैव । न द्वितीयः, इष्टापत्तेः । न तृतीयः, व्यामोहनीयजीवादर्शने व्यामोहनायोगात् । कल्पिततद्दर्शनस्य च भ्रान्तिं विनाऽयोगात् । कल्पितत्वेन तद्दर्शने च तद्व्यामोहनायोगात् । तस्यापि द्वितीयचन्द्रदर्शनस्येवाविद्यां विनाऽयोगाच्च । किं च तस्याः शक्तेः सत्त्वे औतहानिः, जीवकल्पितत्वे तद्व्यामोहकत्वायोगः, ब्रह्मकल्पितत्वे तस्याज्ञाना-वश्यम्भावः । परोक्तब्रह्ममायित्वभङ्गः ।
न्यायामृततरङ्गिणी
॥ व्यामोहनीयेति ॥ व्यामोहक्रियायाः कर्मकारकापेक्षत्वात्परस्मिन्नन्यथाबुद्धि-जननरूपव्यामोहनस्य च व्यामोहनीयदर्शनापेक्षत्वाच्चेति भावः ॥ कल्पितेति ॥ भ्रान्तेश्च मायां विनाऽयोगात्तस्याश्चाद्याप्यसिद्धेरित्यर्थः ॥ तस्यापीति ॥ कल्पित-त्वेन रूपेण व्यामोहनीयदर्शनस्येत्यर्थः ॥ जीवेति ॥ मायाया मायाविनं प्रत्यव्यामोहकत्वात् । परोक्तब्रह्ममायावित्वभङ्गः ।
न्यायामृतकण्टकोद्धारः
एतेन सर्वप्रत्ययस्याज्ञानविरोधोपपादनेनेत्यर्थः । तस्मिन् अज्ञाने इत्यर्थः । एतदेवो-पपादयति ॥ न हीति ॥ व्यामाहनीयेति ॥ ऐन्द्रजालिकव्यामोहनीयदर्शन एव व्यामोहनस्य दृष्टत्वादिति भावः । ननु कल्पिता एव दृश्यन्ते इत्यत आह ॥ कल्पि-तेति ॥ भ्रान्तेश्चाज्ञानसापेक्षत्वादिति भावः । ननु कल्पितमकल्पितत्वेन पश्यतः भ्रान्तिरावश्यकी । न कल्पितं कल्पितत्वेनेत्यत आह ॥ कल्पितत्वेनेति ॥ न हि कश्चिदैन्द्रजालिकः स्तम्भादिकं पुरुषत्वेन कल्पयित्वा व्यामोहको दृष्ट इति भावः । ननु वृक्षादेः सत्त्वादिवत् कल्पितत्वेन निश्चयेऽपि दर्शनं स्यादित्यत आह ॥ तस्यापीति ॥ अज्ञानं च सर्वज्ञत्वेन प्रागेव दूषितमिति भावः । इति परोक्तब्रह्ममायावित्वभङ्गः ।
न्यायामृतप्रकाशः
ननु सर्वज्ञस्य मायापि न सम्भवतीति चेत्तत्राह ॥ तस्या इति ॥ लीलोपकरणत्वेन लीलासाधनत्वेन । आवरकत्वाभावादित्यर्थः । अदोषत्वात् सार्वज्ञाद्यविघातित्वादित्यर्थः ॥ अविद्यमानप्रदर्शनशक्तिरिति ॥ अविद्यमानप्रदर्शनेन परव्यामोहनशक्तिरित्यर्थः ॥ सामा-न्येति ॥ अज्ञानस्वरूपस्यैवाभाव इत्यर्थः । तस्मिन् लीलोपकरणे वस्तुनीत्यर्थः । माया नाज्ञानविशेष एव । ऐन्द्रजालिकः पुमान् मायया सर्पादिकं प्रदर्शयतीति तावद्व्यवहारोऽस्ति । स न स्यात् । कुत इत्यत आह ॥ न हीति ॥ कस्यचिद्वस्तुनः । व्यामोहक ईश्वरो व्यामोहनीयं पश्यति न वा । आद्येऽपि व्यामोहनीयजीवस्याकल्पितत्वाभावेन कल्पितत्वे वाच्ये तान्कल्पितान् जीवान् किं स्वरूपेण पश्यति कल्पितत्वेन वा । व्यामोहनीयं न पश्यतीति पक्षे त्वाह ॥ व्यामोहनीयेति ॥ व्यामोहनक्रियायाः कर्मकारकापेक्षत्वात् परस्मिन्नन्यथाबुद्धिजननरूपव्यामोहनस्य व्यामोहनीयदर्शनापेक्षत्वादित्यर्थः । आद्येऽपि प्रथमपक्षे आह ॥ कल्पितेति ॥ कल्पितानां दर्शनस्य भ्रान्तिं विनाऽयोगाद् भ्रान्तिरङ्गी-कार्या । तस्याश्चाविद्याकार्यत्वादविद्याऽप्यङ्गीकार्या स्यात् । तथा च मा भूद्ब्रह्मण्यविद्ये-त्युक्तत्वेन स्ववचनविरोधापातादिति भावः । आद्ये द्वितीयपक्षे त्वाह ॥ कल्पितत्वेनेति ॥ तद्व्यामोहनेति ॥ एते मत्कल्पिता इति जानन्नेव पुनस्तद्व्यामोहने प्रवर्तत इत्येतददृष्ट-चरम् । न हि स्वाप्नः पुरुषः कल्पित इति जाग्रदवस्थायां जानन् पुनस्तद्व्यामोहनाय प्रवर्तते न वा रज्जौ सर्पः कल्पित इति जानन् तद्बाधनायोद्यतदण्डो दृश्यत इति भावः । व्यामोहनाय कल्पितत्वेन दर्शनाङ्गीकारेऽपि पुनरविद्याङ्गीकारप्राप्त्या मा भूद्ब्रह्मणीति स्ववचनविरोध एवेत्याशयेनाह ॥ तस्यापीति ॥ अङ्गुल्यवष्टम्भादिना कल्पित एव द्वितीय-श्चन्द्रो भासत इत्येवं कल्पितत्वेन द्वितीयचन्द्रदर्शनमपि अविद्यामूलकमेव सोपाधिकभ्रमत्वेन भ्रमस्याज्ञानकार्यताया अङ्गीकार्यत्वात् तथेहापीत्यर्थः ॥ तस्याः शक्तेरिति ॥ अविद्यमान-प्रदर्शनेन परव्यामोहनशक्तेरित्यर्थः । सा शक्तिः किं सती कल्पिता वा । आद्ये आह ॥ सत्व इति ॥ द्वितीयेऽपि किं जीवकल्पिता उत ब्रह्मकल्पिता । नाद्य इत्याह ॥ जीवेति ॥ तदिति ॥ कल्पितत्वे जीवव्यामोहकत्वेत्यर्थः । ऐन्द्रजालिकपुरुषकल्पितमायायाः स्वाश्रयमायाविव्यामोहकत्वादर्शनादत्रापि तस्याः शक्तेर्जीवव्यामोहकत्वस्यैवायोगादिति भावः । न द्वितीय इत्याह ॥ ब्रह्मेति ॥ तस्येति ॥ कल्पनाया अज्ञानकार्यत्वाद् ब्रह्मकल्पित-त्वाङ्गीकारे तस्याज्ञानप्राप्त्या पुनः स्ववचनविरोध एवेति भावः ॥ परोक्तब्रह्ममायित्व-भङ्गविवरणम् ॥
॥ इति परोक्तब्रह्ममायावित्वभङ्गः ॥