भ्रमोपादानत्वेनाविद्याकल्पनं तु द्वितीलक्षणनिरासेनैव निरस्तम्
५८. अविद्यार्थापत्तिभङ्गः
न्यायामृतम्
भ्रमोपादानत्वेनाविद्याकल्पनं तु द्वितीलक्षणनिरासेनैव निरस्तम् । किं च शुक्तिरूप्यमुपादानसहितं चेत्, सकर्तृकं भवेत् । न चेशो जीवो वा तस्य कर्तेति युज्यते । नापि निर्विकारस्य ब्रह्मणः श्रौतजगदुपादानत्वनिर्वाहाय तत्कल्पनम्, सत्यस्य त्रिगुणस्य प्रधानस्यैव तदुपादानत्वेन श्रुत्यादिसिद्धत्वाद्, अविद्याया अपि अनादित्वेन निरवयवतया ब्रह्मवदेव विकारायोगाच्च । किं च ब्रह्मण उपादानत्वेऽपि नाविद्या कल्प्या, त्वद्रीत्या ब्रह्मण एव तात्त्विका-विकाराविरुद्धेनातात्त्विकविकारेण शुक्त्यादिवद् विवर्ताधिष्ठानत्वरूपोपादानत्वो-पपत्तेः । अन्यथा अविद्यादेराश्रयसापेक्षस्य द्वितीयस्य तत्त्वतोऽद्वितीयाद् ब्रह्मणोऽन्यदधिकरणं कल्प्यं स्यात् ।
न च परिणामित्वेनाविद्याकल्पनम्, असत्यस्य सत्यरूपान्तरापत्तिरूप-परिणाम्यनपेक्षत्वात् । न च कार्यापेक्षितस्वसत्तासमानसत्ताकोपादानत्वेन तत्कल्पनम्, विवर्ताधिष्ठानरूपोपादानेन निवृत्तोपादानाकांक्षस्यापि घटादि-दृष्टान्तेनोक्तोपादानकल्पने घटादेः कार्यस्य स्वासमानसत्ताकोपादानानपेक्षत्वेना-समानसत्ताकस्य ब्रह्मणो वियदादावनुपादानत्वापातात् । रूप्ये स्वसमान-सत्ताकनिमित्तस्यापि कल्पनापाताच्च । न च जीवस्यानवच्छिन्नब्रह्मानन्दा-प्रकाशाय तत्कल्पना, भेदेनैव तदुपपत्तेः । अनवच्छिन्नानन्दस्यापि प्रकाशमान-प्रत्यङ्मात्रत्वेनाप्रकाशानुपपत्तेश्च ॥
अद्वैतसिद्धिः
जीवस्यानवच्छिन्नब्रह्मानन्दाप्रकाशान्यथानुपपत्तिश्च तत्र मानम् । न च जीवस्य ब्रह्म-भेदेनैव तादृगप्रकाशोपपत्तिः, जीवब्रह्मभेदस्याग्रे निरसिष्यमाणत्वात् । न चानवच्छिन्ना-नन्दस्यापि प्रकाशमानप्रत्यङ्मात्रत्वेनाप्रकाशमानत्वानुपपत्तिः, शरीरप्रतियोगिकस्यात्मनि स्वरूपभेदस्यात्माकारेण प्रकाशमानत्वेऽपि भेदाकारेणाप्रकाशमानत्ववद्रूपान्तरेण ब्रह्मणः प्रकाशमानत्वेऽपि उक्ताकारेणाविद्यावशादप्रकाशमानत्वोपपत्तेरुक्तत्वात् ।
भ्रमस्य सोपादानत्वान्यथानुपपत्तिरपि अविद्यायां प्रमाणम् । न चान्तःकरणमुपादानम्, अन्तःकरणस्य ज्ञानजनने प्रमाणव्यापारसापेक्षत्वेन प्रमाणाविषये शुक्तिरूप्यादौ ज्ञाना-जनकत्वात्, सादित्वेनानादिभ्रमपरम्परानुपादानत्वाच्च । न च ब्रह्मैवोपादानम्, तस्या-परिणामित्वात् । न च विवर्ताधिष्ठानत्वेन शुक्त्यादेरिवोपादानत्वम्, अविद्यामन्तरेणा-तात्त्विकान्यथाभावलक्षणस्य विवर्तस्यैवासम्भवात्, शुक्त्यादेरधिष्ठानावच्छेदकतया विवर्ता-धिष्ठानत्वाभावात् । न च– उपादानापेक्षस्य विवर्तस्य तात्त्विकातिरिक्तोपादानकल्पनवद-विद्यादेराश्रयसापेक्षस्य ब्रह्मातिरिक्तमतात्त्विकमधिकरणं कल्प्यं स्यादिति– वाच्यम् । ब्रह्मण एव विकारित्वे अनित्यत्वादिप्रसक्तिवद् ब्रह्मण एवाधिष्ठानत्वे बाधकाभावेन द्वितीय-स्याधिकरणस्याकल्पनात् । न च– असत्यस्य सत्यरूपान्तरापत्तिलक्षणपरिणाम्यनपेक्षत्वेन परिणामित्वेनापि नाविद्याकल्पनमिति– वाच्यम् । परिणामिसत्तासमानसत्ताकत्वनियमेना-सत्यत्वस्यैवाभावात् । न च– घटादौ स्वसमानसत्ताकोपादानकत्वदर्शनेन प्रपञ्चेऽपि तादृशो-पादानकल्पने घटादेः स्वाधिकसत्ताकोपादानानपेक्षत्ववद् वियादादेरपि ब्रह्मानुपादानकत्वं स्यादिति– वाच्यम् । ‘तदभिध्यानादेव तु तल्लिङ्गात् स’ इत्यनेन न्यायेन घटादेरपि मृदवस्थचैतन्योपादानकतया तादृशोपादानानपेक्षत्वासिद्धेः । अत एव– रूप्येऽपि स्वसमान-सत्ताकस्य निमित्तस्यापि कल्पनापत्तिरिति– निरस्तम्, निमित्तमात्रे वा इयं कल्पना ? विशेषे वा ? नाद्यः, अधिष्ठानरूपनिमित्तस्य सर्वत्राधिकसत्ताकत्वात् । द्वितीये तूत्तरोत्तरभ्रमे पूर्वपूर्वभ्रमस्य निमित्तत्वेनेष्टापत्तेः । न च त्रिगुणात्मकं प्रधानमुपादानमिति वाच्यम्, तस्या-सत्यत्वे अविद्यानतिरेकात् । सत्यत्वेऽपि सावयवम् ? निरवयवं वा ? आद्ये अनादित्व-भङ्गः । द्वितीये परिणामित्वायोगो ब्रह्मवत् । न चाविद्यापक्षेऽपि समः पर्यनुयोगः, तस्याः काल्पनिकत्वेन पर्यनुयोगायोगात् । तस्मादर्थापत्तिरविद्यायां प्रमाणम् । इत्यद्वैतसिद्धाव-विद्यायामर्थापत्तिः ।
न्यायामृततरङ्गिणी
भ्रमशब्देन ज्ञानं वा अर्थो वा । नाद्य इत्याह ॥ द्वितीयेति ॥ अन्तःकरणस्यैव तदुपादानत्वसम्भवादिति भावः । न चान्तःकरणस्य प्रमाणसापेक्षस्यैव ज्ञानजनक-त्वेन प्रमाणाविषये शुक्तिरूप्यादौ न ज्ञानजनकत्वमिति वाच्यम् । शुक्तिविषय-प्रमाणसहितेनान्तःकरणेन दोषवशाद्रूप्यविशिष्टशुक्तिगोचरपरिणामविशेषजननसम्भवात् । द्वितीयं निराकरोति ॥ किञ्चेति ॥ सोपादानत्वव्यापकसकर्तृकत्वस्याभावान्न रूप्यं सोपादानमित्यर्थः ॥ सत्यस्येति ॥ ननु प्रधानस्य सावयवत्वेऽनादित्वभङ्गः निरवयवत्वे परिणामायोग इत्यत आह ॥ अविद्याया इति ॥ अविद्यायाम-विद्यात्वेनैव सर्वानुपपत्तिपरिहारे सत्ये प्रधाने ईश्वरशक्त्या तदस्त्वित्यर्थः ॥ अतात्विकेति ॥ न चाविद्यामन्तरेणातात्विकान्यथाभावलक्षणविवर्त एव न सम्भवतीति वाच्यम् । अविद्यान्तरं विनैवातात्विकाविद्यावदविद्यां विनैवातात्विक-वियदादिविवर्तसम्भवात् ॥ अन्यथेति ॥ उपादानापेक्षस्य वियदादिरूपविवृतस्य तात्विकब्रह्मातिरिक्तोपादानकल्पनायामित्यर्थः ॥ अन्यदिति ॥ सद्वितीयमतात्विक-मित्यर्थः । ननु वियदादिर्ब्रह्मणो विवर्तोऽविद्यायाः परिणामः, तथा च परिणामस्य परिणामिनं विनाऽयोगादविद्याकल्पनमित्यत आह ॥ न चेति ॥ सत्यभूत-परिणामस्यैव स्वोचितपरिणाम्यपेक्षा न त्वसत्यस्य तस्येत्याह ॥ असत्यस्येति ॥ तत्वतोऽसंसारिणः संसारित्ववत् तत्वतोऽपरिणामिनोऽपि मिथ्याभूतपरिणामित्वे बाधकाभावाद्ब्रह्मण एव परिणामित्वोपपत्तिरित्यपि बोध्यम् । ननु घटादौ स्वसमसत्ताकोपादानदर्शनाद्रूप्यादेरपि तथाविधोपादनमविद्या कल्प्यत इत्यत आह ॥ न च कार्येति ॥ कार्यस्येति ॥ रूप्यस्य घटादेश्चेत्यर्थः ॥ अनपेक्षत्वेनेति ॥ दृष्टत्वादिति शेषः । न च तदभिध्यानादेव तु तल्लिङ्गात् स इत्यनेन न्यायेन घटा-देरपि मृदवस्थचैतन्योपादानकतया तादृशोपादानापेक्षत्वमसिद्धमिति वाच्यम् । घटादौ चैतन्योपादानकत्वे मानाभावात् । रूप्यस्य घटादिदृष्टान्तेन स्वसमान-सत्ताकोपादानकल्पनायां घटादेरिव तत्र स्वसमानसत्ताकनिमित्तकल्पनाप्यापद्यत इत्याह ॥ रूप्य इति ॥ रूप्यस्य स्वसमानसत्ताकनिमित्तकत्वं न स्यात् तथा चाधिष्ठानस्य सादृश्यादेश्च निमित्तत्वं न स्यादित्यर्थः । तेन उत्तरोत्तरभ्रमे पूर्वपूर्वभ्रमस्य निमित्तत्वेनेष्टापत्तिरिति निरस्तम् ॥ भेदेनेति ॥ तद्दूषणाभासस्य निरसिष्यमाणत्वादिति भावः । न च ममेव तव मते ब्रह्मणि विशेषोऽस्तीत्याह मात्रशब्देन ।
न्यायामृतकण्टकोद्धारः
॥ भ्रमोपादानत्वेनेति ॥ अन्तःकरणस्यात्मनो वा उपादानत्वसम्भवादिति भावः । न चान्तःकरणस्य ज्ञानजनने प्रमाणसापेक्षत्वनियमेन प्रमाणाविषये शुक्तिरूप्यादौ न ज्ञानजनकत्वमिति वाच्यम् । अन्तःकरणस्य लाघवेन ज्ञापकसापेक्षत्वेनैव ज्ञानजनकत्व-सम्भवे प्रमाणसापेक्षत्वकल्पने गौरवात् । भ्रमेऽन्तःकरणानपेक्षणे व्यासक्तस्यापि भ्रमापत्तेश्च । न चान्तःकरणस्य सादित्वान् नानादिभ्रमपरम्परोपादानत्वमिति वाच्यम् । अन्तःकरणसादित्वस्याज्ञानसिद्ध्यधीनत्वेनान्योन्याश्रयात् । धर्मिकल्पनाद् इति न्यायेन अन्तःकरणस्यैवानादित्वकल्पनौचित्याच्च । अन्तःकरणस्य सादित्वे नित्यं मनोऽनादि-त्वादित्यादिसयुक्तिकश्रुतिविरोधश्च । भ्रमपरम्पराया अनादित्वासिद्धेश्च । ननु भ्रमो द्विविधो ऽर्थज्ञानात्मकः । तथा च ज्ञानं प्रत्यन्तःकरणस्योपादानत्वेऽपि शुक्तिरूप्यो-पादानत्वेनाज्ञानं स्वीकर्तव्यमिति चेन्न । तस्य निरुपादानत्वात् सोपादानत्वव्यापक-सकर्तृकत्वाभावाद् इत्याशयेनाह ॥ शुक्तिरूप्यमिति ॥ उपादानगोचरचिकीर्षादेरभावान् न जीवस्य कर्तृत्वम् । ईश्वरस्य तु तत्प्रतीत्यभावादेव । अन्यथा भ्रान्तत्वापत्तेः । ईश्वरकर्तृकत्वे तस्य व्यावहारिकतापत्तेश्चेति भावः ॥ सत्यस्येति ॥ ननु प्रधानस्य सावयवत्वेऽनादित्वायोगः । निरवयवत्वे परिणामित्वायोगो ब्रह्मवदिति चेन्न । निरवयवत्वेऽपि सांशत्वेन परिणामित्वोपपत्तेः । न चावयवातिरिक्ता अंशा एव न सन्ति प्रमाणाभावादिति वाच्यम् । तेषामिह पक्षी नेह पक्षीत्यादि प्रतीत्यन्यथानुपपत्त्यादिनाऽ-न्यत्र साधितत्वात् ॥ अविद्याया इति ॥ नन्वविद्यायाः काल्पनिकत्वेन तत्रानुपपत्तिर्न दूषणमिति चेत् तर्हि तस्या ब्रह्मरूपत्वं जगदावरकत्वमित्याद्यपि कल्प्यं स्यात् । तत्रानु-पपत्तिपरिहारे अविद्यानिरवयवत्वेऽपि तत्परिहार आवश्यक इति भावः ।
॥ किञ्चेति ॥ न चाविद्यामन्तरेणातात्विकान्यथाभावलक्षणस्य विवर्तस्यासम्भव इति वाच्यम् । तस्य दोषेणैवोपपत्तेः । अन्यथाभावोऽन्यथाज्ञानं चेद् दोषान्तः-करणादिनैवोपपन्नम् । अर्थस्य त्वसत्त्वादेव न कारणान्तरापेक्षेति भावः ॥ अन्यथेति ॥ न च विकारित्वेऽनित्यत्वादिवद् अविद्याश्रयत्वे बाधकाभावान् नाविद्याया अधिकरणान्तरं कल्प्यमिति वाच्यम् । अतात्त्विकविकारेण वास्तवानित्यत्वापादनासम्भवात्, कल्पिता-नित्यत्वेऽप्यविरोधाद् अज्ञानाश्रयत्वेऽपि सार्वज्ञाद्यभाव ‘निरनिष्ट’ इत्यादिश्रुतिविरोध-रूपबाधकसद्भावाच्च ॥ असत्यस्येति ॥ न च परिणामस्य परिणामिसमसत्त्वनियमेना-सत्यत्वमसिद्धमिति वाच्यम् । मिथ्यात्वेन परिणामस्यैवासम्भवात् । मिथ्यात्वा-देवासत्यत्वनियमाच्च । सत्यत्वपक्ष एवोक्तनियमाच्च ॥ रूप्य इति ॥ न च निमित्त-मात्र उक्तनियमकल्पनायां शुक्तिरूप्य एव व्यभिचारो निमित्तविशेषे तत्कल्पनायाम् इष्टापत्तिः । पूर्वभ्रमस्योत्तरोत्तरभ्रमकारणत्वादिति वाच्यम् । निमित्तमात्रे एतत्कल्पनाया आपाद्यत्वात् । तथा च अधिष्ठानरूपब्रह्मणोऽपि कार्यसमसत्त्वं स्यात् । शुक्ति-रूप्याधिष्ठानमपि पक्षसममतो न तत्र व्यभिचारापादनमित्याशयात् ॥ भेदेनैवेति ॥ तस्या उपपादयिष्यमाणत्वाद् इति भावः ॥ अनवच्छिन्नेति ॥ न च शरीर-प्रतियोगिकस्यात्मभेदस्यात्माकारेण प्रकाशमानत्वेऽपि उक्ताकारेणाविद्यावशादप्रकाश-मानत्वोपपत्तिरिति वाच्यम् । निर्विशेषे निराकारे चात्मनि रूपद्वयस्य वाऽकारद्वयस्य वाऽयोगात् । आकारस्य मिथ्यात्वेनाज्ञानस्य तदावरकत्वायोगाच्च । प्राप्ताप्राप्त-विषयत्वेनाकारस्यैवावरणविषयत्वात् । तस्मान्नाविद्यायामर्थापत्तिर्मानम् ।
न्यायामृतप्रकाशः
यदुक्तं मिथ्याभूतस्य भ्रमस्य कादाचित्कत्वेन सोपादानत्वात्तदनुगुणं मिथ्याभूतमुपादान-मङ्गीकार्यं सैवाविद्येति भ्रमोपादानत्वान्यथानुपपत्त्याऽविद्यासिद्धिरिति भावरूपाज्ञानसद्भावेऽर्था-पत्तिः प्रमाणमिति तद्दूषयति ॥ भ्रमेति ॥ अत्र भ्रमपदेन ज्ञानमर्थो वा । नाद्य इत्याह ॥ द्वितीयेति ॥ अन्तःकरणस्यैव तदुपादानत्वसम्भवेनार्थापत्तेरन्यथोपपत्तिरिति भावः । द्वितीयं निराकरोति ॥ किञ्चेति ॥ भवेदिति ॥ घटादौ दृष्टत्वादित्यर्थः । सोपादानत्वस्य सकर्तृकत्वव्याप्यत्वात्तदङ्गीकारे सकर्तृकत्वमप्यङ्गीकार्यं स्यात् ॐमिति चेत्तत्र प्रष्टव्यं स कर्ता ईश्वरो वा जीवो वा । नाद्यः शुक्तिरूप्यं कालत्रयेऽपि नास्तीति जानत ईश्वरस्य तत्स्रष्टृत्वायोगात् । न द्वितीयो ऽनुभवविरुद्धत्वादित्याशयेनाह ॥ न चेश इति ॥ भावरूपाज्ञानसाधकार्थापत्त्यन्तरमाशङ्क्य निराकरोति ॥ नापीति ॥ श्रौतेति ॥ ‘यतो वा इमानी’त्यत्र पञ्चम्या अपादानत्वमर्थः ‘अपादाने पञ्चमी’ति श्रवणाद् उपादानत्वमेवास्या-पादानत्वमिष्यते एवं श्रुतमुपादानत्वं निरवयवतया निर्विकारस्य न युक्तमिति तन्निर्वाहाया-विद्या कल्प्यते तत्सम्बन्धाच्च युक्तमुपादानत्वमित्यर्थः । जगदुपादानत्वान्यथानुपपत्तेरन्यथो-पपत्तिमाह ॥ सत्यस्येति ॥ तदिति ॥ जगदित्यर्थः । तथा च ब्रह्मण उपादानत्वमेवा-प्रामाणिकमित्याशयः । यत इति श्रुतपञ्चम्यर्थस्तु–
‘अपादानत्वमेवास्य यद्युपादानतेष्यते ।
अङ्गीकृतं तत्पितृवन्न तु विश्वात्मना भव’
इत्यादिनोत्तरप्रस्थानोक्तरीत्या द्रष्टव्यः । ननु प्रधानस्य सावयवत्वेऽनादित्वभङ्गः निरवयवत्वे परिणामायोग इत्यत आह ॥ अविद्याया इति ॥ यद्धि सावयवं तद्विकृतं भवति न त्वखण्डम् अविद्या च ब्रह्मवदेव निरंशाऽतस्तस्यां कल्पितायामपि न ब्रह्मणो जगत्कारणत्वनिर्वाह उभयोरप्यखण्डत्वादिति भावः । ब्रह्मण एव विवर्त्तेत्याद्यन्वयः ।
अयमर्थः । ब्रह्मण उपादानत्वेऽपि नाविद्या कल्प्या । न च निर्विकारस्य तदयोगो ऽतात्विकविकाराङ्गीकारात् तस्य च तात्विकाऽविकाराविरोधित्वात् । अतात्विको विकारः कीदृश इति चेत् शुक्त्यादीनां रजतं प्रतीव विवर्ताधिष्ठानत्वमेवेति नाविद्या तदर्थं कल्प्येति ॥ अन्यथेति ॥ अतात्विकस्यापि तात्विकेन विरोधमङ्गीकृत्य ब्रह्मणस् तात्विकाविकारवत एव उपादानत्वायोगेन तदर्थमुपादानान्तरभूताविद्याकल्पन इत्यर्थः ॥ अविद्यादेरिति ॥ आश्रयविषयसापेक्षत्वेन सद्वितीयत्वमविद्यास्वभावः ब्रह्मणश्च द्वितीयासहिष्णुत्वरूपमद्वितीयत्वं स्वभावः । एवं च सद्वितीयत्वस्वभावाविद्याधिकरणत्वं नाद्वितीयस्य ब्रह्मणो युक्तं तथात्वे सद्वितीयत्वस्वभावाविद्यास्वाधिकरणब्रह्माद्वितीयत्वस्वभावं व्याहन्यात् । स्वेनैव सद्वितीय-त्वात् । अतोऽविद्याया ब्रह्मातिरिक्तमेवाधिकरणं कल्प्यं स्यात् । तथा च तत्र त्वया वक्तव्यं ब्रह्मणोऽद्वितीयत्वं तात्विकम् अविद्यायाः सद्वितीयत्वमतात्विकम् एवं च तात्विकस्यातात्विकेन विरोधाभावान्नाधिकरणान्तरं कल्प्यत इति । एवं प्रकृतेऽपि विरोधाभावान्न कारणान्तरं कल्प्यमित्यर्थः । अन्ये तु अन्यथेत्यस्य उपादानापेक्षस्य तात्विक्रबह्मातिरिक्तोपादान-कल्पनायामित्यर्थः । अन्यत् सद्वितीयम् अतात्विकमित्यर्थ इत्याहुः।
ननु वियदादिर्ब्रह्मणो विवर्तोऽपि परिणामभूतः परिणामस्य परिणामि विनाऽयोगाद् ब्रह्मणश्चापरिणामितयाऽविद्याकल्पनमित्यत आह ॥ न चेति ॥ सत्येति ॥ सत्य-रूपान्तरापत्तिरूपश्चासौ परिणामश्च सोऽस्यास्तीति परिणामी तदनपेक्षत्वादित्यर्थः । अविद्यायाः परिणामित्वं तदा स्याद् यदि सत्यजगदाख्यरूपान्तरापत्तिरूपः परिणामः स्यात् । न चैवं जगतः सत्यत्वाभावादित्यभिप्रेत्यासत्यस्येत्युक्तं सत्यरूपांतरापत्तिरूप-परिणाम्यनपेक्षत्वादसत्यस्येत्यन्वयः । सत्यभूतपरिणामस्यैव स्वोचितपरिणाम्यपेक्षा न त्वसत्यस्य । अतो न परिणामित्वेनाविद्याकल्पनमिति भावः ॥ कार्येति ॥ कार्यस्य घटादेर्व्यावहारिकस्य स्वसमानसत्ताकोपादानत्वदर्शनाद् रूप्यादेरपि मिथ्यात्वेन समानसत्ताकोपादानापेक्षत्वात्तदनुगुणं मिथ्याभूतमुपादानम् अविद्याख्यं कल्पनीयमित्यर्थः । रूप्यादेः किमुपादानमिति शङ्कायां विवर्त्ताधिष्ठानतया ब्रह्मैवोपादानमित्युक्त्या आकाङ्क्षाया निवृत्तत्वात् । न च घटादेः स्वसमानसत्ताकोपादानकत्वदर्शनाद् रूप्यादावपि स्वसमान-सत्ताकमुपादानं कल्पनीयं तच्चाविद्येति वाच्यम् । तर्हि घटादेः स्वसमानसत्ताकोपादा-नापेक्षत्वदर्शनाद् वियदादिकार्यासमसत्ताकस्य ब्रह्मणो वियदादावुपादानत्वं त्वयोच्यमानं न स्यादित्यतिप्रसङ्ग इत्यर्थः । यदि घटादिदृष्टान्तेन रूप्यादेः स्वसमानसत्ताकोपादानकत्वं कल्प्यते तर्हि घटादेः स्वसमानसत्ताकनिमित्तकारणकत्वदर्शनेन रूप्यादेरपि स्वसमानसत्ताक-निमित्तकारणत्वापत्त्या प्रातिभासिकं किञ्चिन्निमित्तकारणमपि कल्प्यं स्यादित्याह ॥ रूप्य इति ॥
अर्थापत्त्यन्तरमाशङ्क्य निराकरोति ॥ न चेति ॥ जीवस्यापरिच्छिन्नानन्दात्मक-ब्रह्माभिन्नत्वेन सर्वदाऽनन्दप्रकाशः स्यात् । न चासावस्ति अतस्तदप्रकाशाय तत्प्रतिबन्धक-तयाऽविद्या कल्प्यत इत्यर्थः । कुतो न चेत्यत आह ॥ भेदेनैवेति ॥ स्यादियं कल्पनाऽपि यद्यभेद एव जीवब्रह्मणोः स्यात् । न चैवं, किन्तु भेदस्यैव सत्वेना-परिच्छिन्नानन्दब्रह्मात्मकत्वस्यैवाभावेन तत्प्रकाशप्रसक्तेरेवाभावात् । तथा च तदप्रकाशाय तत्कल्पना न युक्तेति भावः । अस्तु वाऽनवच्छिन्नब्रह्मानन्दात्मकत्वं तथापि तदप्रकाश एव न युक्तो ऽपरिच्छिन्नानन्दस्यापि सर्वदाप्रकाशमानप्रत्यक्चैतन्यमात्रत्वेनाप्रकाशानुपपत्ते-स्तदर्थमविद्याकल्पनमप्रामाणिकमित्याह ॥ अनवच्छिन्नेति ॥
न्यायकल्पलता
ननु तथाऽपि भ्रमान्यथानुपपत्त्या तदुपादानत्वेनाज्ञानं सेस्त्यतीत्याशङ्क्य निराकरोति ॥ भ्रमोपादानत्वेनेति ॥ भ्रमशब्देन ज्ञानं वाऽर्थो वा । नाद्य इत्याह ॥ द्वितीयेति ॥ अन्तःकरणस्यैव तदुपादानत्वसम्भवादिति भावः । नन्वन्तःकरणस्य प्रमाणापेक्षस्यैव ज्ञान-जनकत्वेन प्रमाणाविषये शुक्तिरूप्यादौ कथं ज्ञानजनकत्वमिति चेन्न । शुक्तिविषयप्रमाण-सहितेनान्तःकरणेन दोषवशाद्रूप्यविशिष्टशुक्तिविषयकवृत्तिलक्षणज्ञानाख्यपरिणामस्य जनन-सम्भवात् । द्वितीयं निराकरोति ॥ किञ्चेति ॥ सोपादानत्वव्यापकसकर्तृकत्वस्याभावान्न रूप्यं सोपादानमित्यर्थः ॥ सत्यस्येति ॥ ननु प्रधानस्य सावयवत्वेऽनादित्वासम्भवः । निरवयवत्वे परिणामायोग इत्यत आह ॥ अविद्याया अपीति ॥ अविद्यायामविद्यात्वेनैव सर्वानुपपत्तिपरिहारे सत्ये प्रधानेऽपीश्वरशक्त्या तदुपपत्तिः । यद्धि युक्त्या विरुद्ध्येत तदीशकृतमेव हीति स्मृतेरिति भावः ॥ अतात्विकेति ॥ न चाविद्यामन्तरेणातात्विका-न्यथाभावलक्षणविवर्त एव न सम्भवतीति वाच्यम् । अविद्यान्तरं विनैवातात्विकाविद्यावद-विद्यां विनैवातात्विकवियदादिविवर्तसम्भवात् ॥ अन्यथेति ॥ उपादानापेक्षस्य वियदादि-रूपविवर्तस्य तात्त्विकब्रह्मातिरिक्तोपादानकल्पनायामित्यर्थः ॥ अन्यदिति ॥ सद्वितीयम-तात्विकमित्यर्थः ।
ननु वियदादिर्ब्रह्मणो विवर्तोऽविद्यायाः परिणामस् तथा च परिणामस्य परिणामिनं विनाऽयोगादविद्याकल्पनमित्याशङ्क्य निराकरोति ॥ न चेति ॥ सत्यभूतपरिणामस्यैव स्वोचितपरिणाम्यपेक्षा न त्वसत्यस्य तस्येत्यभिप्रायेण दूषयति ॥ असत्यस्येति ॥ तत्त्वतोऽसंसारिणः संसारित्ववत्तत्वतोऽपरिणामिनोऽपि मिथ्याभूतपरिणामित्वे बाधकाभावा-द्ब्रह्मण एव परिणामित्वोपपत्तिरित्यपि बोध्यम् । ननु घटादौ स्वसमसत्ताकोपादानदर्शना-द्रूप्यादेरपि तथाविधोपादानमविद्या कल्प्यत इत्याशङ्क्य निराकरोति ॥ न च कार्येति ॥ कार्यस्येति ॥ रूप्यस्य घटादेश्चेत्यर्थः ॥ अनपेक्षत्वेनेति ॥ दृष्टत्वादिति शेषः । ननु तदभिध्यानादेव तु तल्लिङ्गात्स इत्यनेन न्यायेन घटादेरपि मृदवस्थचैतन्योपादानतया तादृशो-पादानानपेक्षत्वमसिद्धमिति चेन्न । घटादौ चैतन्योपादानकत्वे मानाभावात् । रूप्यस्य घटादिदृष्टान्तेन स्वसमानसत्ताकोपादानकल्पनायां घटादेरिव तत्र स्वसमानसताकनिमित्त-कल्पनाऽप्यापद्यत इत्याह ॥ रूप्य इति ॥ रूप्यस्य स्वसमसत्ताकनिमित्तकत्वं न स्यात् । तथा चाधिष्ठानस्य सादृश्यादेश्चानिमित्तत्त्वं न स्यादित्यर्थः । तेन उत्तरोत्तरभ्रमे पूर्वपूर्वभ्रमस्य निमित्तत्वेनेष्टापत्तिरिति निरस्तम् ॥ भेदेनैवेति ॥ अभेदासहिष्णुभेदेनेत्यर्थः । तद्दूषणा-भासस्य निरसिष्यमाणत्वादिति भावः । ननु रूपान्तरेण ब्रह्मणः प्रकाशमानत्वेऽपि अनवच्छिन्नानन्दाकारेण अविद्यावशादप्रकाशमानत्वमित्याशङ्कां व्यदसितुं मात्रशब्दः । न च तव मते ब्रह्मणि विशेषोऽस्ति । येन केनचिद्रूपेण प्रकाशमानत्वं रूपान्तरेणाप्रकाशमानत्वं स्यादिति भावः ।
ननु त्रिगुणात्मकं प्रधानमुपादानमिति भवता वाच्यम् । तस्यासत्यत्वेऽविद्यानतिरेकात् । सत्यत्वे सावयवं निरवयवं वा । आद्येऽनादित्वभङ्गः । द्वितीये परिणामित्वायोगो ब्रह्मवत् । न चाविद्यापक्षेऽपि समः पर्यनुयोगः । तस्याः काल्पनिकत्वेन पर्यनुयोगायोगादिति । मैवम् । प्रधानस्य ब्रह्मवत्स्वापृथक्सिद्धावयवयोगित्वरूपस्य सावयवत्वस्य सत्वात् । समर्थ-यिष्यते चैतत् । अविद्यायाः काल्पनिकत्वेऽनादित्वानुपपत्तेः । अन्योन्याश्रयादिदोषाणां दुरुद्धरत्वाच्चेत्यलं क्षोदीयस्यतिपीडया ।
न्यायामृतसौगन्ध्यम्
अथ जीवस्यानवच्छिन्नब्रह्मानन्दाप्रकाशान्यथानुपपत्तिस्तत्र मानमिति चेन्न । प्रत्यक्षानुमानश्रुतिसिद्धब्रह्मभिन्नजीवस्यैव तादृगप्रकाशोपपत्तेः । अनवच्छिन्नानन्दप्रकाशस्यापि प्रत्यङ्मात्रत्वेनाप्रकाशमानत्वानुपपत्तेश्च । न च शरीरप्रतियोगिकस्यात्मनि स्वरूपभेद-स्यात्माकारेण प्रकाशमानत्वेऽपि भेदाकारेणाप्रकाशमानत्ववद् रूपान्तरेण ब्रह्मणः प्रकाशमानत्वेऽपि उक्ताकारेणाविद्यावशादप्रकाशोपपत्तिरिति वाच्यम् । निर्विशेषरूपभेदाभावाद् अज्ञानकल्पितरूपस्य च अज्ञानावरणानर्हत्वात् ।
न च भ्रमस्य सोपादानत्वान्यथानुपपत्तिस्तत्र मानम् । अन्तःकरणस्यैव भ्रमोपादानत्वाद् भ्रमविषयस्यासत्वेनानुपादेयत्वात् । न चान्तःकरणस्य ज्ञानजनने प्रमाणसापेक्षत्वेन प्रमाणा-विषयशुक्तिरूप्यादौ कथं तस्य ज्ञानजनकत्वम् (इति वाच्यम्) । दोषसहकृतप्रमाणस्य भ्रमजनकस्य तत्रापि सत्वात् । न चानादिभ्रमे कथं तदुपादानमिति वाच्यम् । अनादि-भ्रमस्यैवाभावात् । किञ्च न परिणामित्वेनाप्यविद्याकल्पनं युक्तम् । असत्यस्य सत्य-रूपान्तरापत्तिलक्षणपरिणाम्यनपेक्षणात् । न च परिणामस्य परिणामिसमानसत्ताकत्वेना-विद्याकल्पनम् । त्रिगुणात्मकप्रकृतेरेव तथोपादानत्वात् । न च तस्य मिथ्यात्वेनाविद्या-नतिरेकः, सत्यत्वे सावयवत्वे अनादित्वभङ्ग इति वाच्यम् । सावयवत्वं हि नावयवजन्यत्वं किन्तु सदेशत्वं तच्च नित्यदिगादाविव नानित्यत्वे बीजम् । किञ्च घटादौ स्वसमानसत्ता-कोपादानकत्वदर्शनेन प्रपञ्चेऽपि तादृशोपादानकल्पने तस्य स्वाधिकसत्ताकोपादानकत्वा-नपेक्षत्ववद् वियदादेरपि त्वदभिमतब्रह्मोपादानकत्वं न स्यात् । शुक्तिरूप्येऽपि स्वसमानसत्ताकस्य कर्त्रादिनिमित्तकारणस्यापत्तिः ।
एतेन निमित्तमात्रे वा इयं कल्पना विशेषे वा । नाद्यः । अधिष्ठानरूपनिमित्तस्य सर्वत्राधिकसत्ताकत्वात् । द्वितीये तूत्तरोत्तरभ्रमे पूर्वपूर्वभ्रमस्य निमित्तत्वेनेष्टापत्तेरिति निरस्तम् । स्वापि्नकशुक्तिरूप्यभ्रमे अधिष्ठानस्याधिकसत्ताकत्वाभावात् । द्वितीयमप्यशुद्धं दोषेन्द्रियादेस्तथात्वापादानात् ।
यत्तु अतात्विकत्वस्य तत्वप्रमानिवर्त्यत्वव्याप्यत्वेन रूप्यादौ ग्रहादुक्तनिवर्त्यत्वस्य च प्रपञ्चे साक्षात्कल्पने गौरवस्योक्तत्वेन तत्त्वधीनाश्यतया श्रुत्यनुभवादिसिद्धस्य ज्ञानस्य नाशद्वारैव (अज्ञाननाशद्वारैव) तत्कल्पनीयम् । तथा चाज्ञानस्यानुपादानत्वे तन्नाशस्य प्रपञ्चनाशे हेतुत्वं कल्प्यम्, उपादानत्वे तु तत्क्लृप्तम्, अत उपादानत्वमावश्यकम् । किञ्च ब्रह्मणो मिथ्याभूतोऽन्यथाभावो विवर्तः, न च ब्रह्मान्यथा भवतीति तद्गताविद्याया अन्यथा-भवनं वाच्यम् इति । तन्न । शुक्तिरूप्यादौ तत्वज्ञाननिवर्त्यत्वस्यासम्प्रतिपन्नत्वात् । प्रपञ्चेऽपि तन्निवर्त्यत्वे मानाभावात् । भावे वा साक्षादेवास्तु प्रामाणिकगौरवस्यादोषत्वात् । अन्यथाभवनं हि अन्यथा भानमेव वाच्यम् । तच्च ब्रह्मणोऽप्यस्ति । अन्यथा अविद्याया अपि मिथ्यात्वेनान्यथाभवनासम्भवात् । कार्यकारणयोरभेदाच्च । न च विकारिणमुपादानं विना कार्यस्यादृष्टत्वाद् विकारिकारणमावश्यकमिति वाच्यम् । सत्यायाः प्रकृतेरेव स्वीकर्तुमुचितत्वात् ।
॥ इति अविद्यार्थापत्तिभङ्गविवरणम् ॥