यच्चाद्यानुमानं, तत्र सुखादिप्रमायां बाधः
५६. अविद्यानुमानभङ्गः
न्यायामृतं
यच्चाद्यानुमानं, तत्र सुखादिप्रमायां बाधः । तस्याः साक्षिरूपत्वेना-ज्ञानानिवर्तकत्वात् । वृत्तेः पक्षत्वेऽपि परोक्षवृत्तौ बाधः । तस्याः स्वविषये अज्ञाननिवर्तकत्वे तद्विषयस्याभिव्यक्तापरोक्षैकरसचैतन्यसम्भेदेनापरोक्षत्वा-पाताच्च । उक्तं च विवरणे ‘विषयत्वं नानुमेयादौ सुषुप्तिव्यावृत्तिः’ इति । अपरोक्षवृत्तेः पक्षत्वेऽपि परोक्षवृत्तौ व्यभिचारः । तद्व्यावृत्त्यर्थं हेतुविशेषणे अप्रयोजकत्वम् । सर्वभ्रमेष्वधिष्ठानत्वेनानुगतसदर्थविषयापरोक्षवृत्तौ बाधश्च । तन्निवर्त्याज्ञानसद्भावे भ्रमोपादानत्वलक्षणस्य तत्राव्याप्तिः स्यात् । न हि सदर्थरूपाधिष्ठानाज्ञाने क्वचिद् भ्रमः । तदन्यस्य पक्षत्वे धारावाहिकद्वितीयादि- प्रमायां बाधोऽसिद्धिश्च । स्वनिवर्त्यप्रथमप्रमाव्यवहितायास्तस्या द्वितीयादि-प्रभायास् तमः प्रतीवाज्ञानं प्रत्यनिवर्तकत्वात् । सूक्ष्मतत्तत्क्षणानामप्रत्यक्षत्वेन प्रकाशितप्रकाशकत्वाच्च । तदन्यस्य पक्षत्वेऽपि अनात्मविषयापरोक्षवृत्तौ बाधः । त्वन्मते जडावरकाज्ञानाभावात् । ननु घटोऽयमित्यादिवृत्तिरपि तदवच्छिन्नचैतन्यविषया, अज्ञानमपि तथेति न बाध इति चेन्न । एकाज्ञानपक्षे तदभावाद् । अवच्छिन्नस्याप्यस्वप्रकाशत्वेनाप्रसक्तप्रकाशतयाऽऽवरणायोगाच्च । रूपादिहीनस्याऽत्मन आकाशादिवद् घटाद्यवच्छिन्नस्यापि चाक्षुषत्वाद्ययोग-स्योक्तत्वाच्च । अयं घट इति शब्दजन्येन घटमात्रविषयकज्ञानेनायं घट इत्यपरोक्षवृत्तेर् विषयभेदाप्रतीतेश्च । आत्मविषयापरोक्षवृत्तेः पक्षत्वेऽप्यनात्म-ज्ञाने व्यभिचारः । आत्मविषयत्वेन हेतुविशेषणे दृष्टान्तस्य साधनवैकल्यमिति दिक् ।
साध्येऽप्याद्यं विशेषणं व्यर्थम् । यतो ज्ञानमज्ञानस्यैव निवर्तकमिति त्वन्मते, अभावनिवृत्तिरेव भाव इति मन्मते च स्वनिवर्त्यविशेषणेनैव प्रागभावव्यावृत्तिसिद्धेरभावव्यतिरिक्तपदेनैव तद्व्यावृत्तिसिद्ध्या शेषवैयर्थ्याच्च । द्वितीयं चायुक्तम् । जडे अज्ञानस्यानङ्गीकृतत्वात् । निर्विशेषचितश्चाज्ञानादि-साक्षितया प्रकाशमानत्वेनाज्ञानस्यावरणत्वायोगात् । स्वोत्पादकादृष्टव्यावृत्ते-रावरणपदेनैव सिद्ध्या शेषवैयर्थ्याच्च । ज्ञानमज्ञानस्यैव निवर्तकमिति त्वन्मते स्वोत्पादकादृष्टस्य स्वनिवर्त्यपदेनैव व्यावृत्तिसिद्धेः । तृतीयं चायुक्तम् । वृत्ति-श्चिदुपरागार्थेति मते, घटाकारवृत्त्या तत्प्रतिबिम्बितचैतन्येन वाऽभिव्यक्तं घटाधिष्ठानचैतन्यं घटप्रकाशकमिति मते च घटप्रकाशकज्ञानस्य घटाज्ञाना-निवर्तकत्वात् । घटाकारवृत्तिस् तत्प्रतिबिम्बितचैतन्यं वा घटप्रकाशकमिति मतस्य चाऽध्यासिकसम्बन्धस्यातन्त्रत्वापातेनायोगात् । चरमसाक्षात्कारोत्पत्ति-प्रतिबन्धकादृष्टस्य तदनिवर्त्यत्वे मिथ्यात्वासिद्ध्या स्वनिवर्त्यपदेन तद्व्यावृत्य-सिद्धेश्च । चतुर्थं चायुक्तम् । अज्ञानस्य चिन्मात्राश्रितत्वात् । वृत्तेः, तत्प्रति-बिम्बितचैतन्यस्य वा, तदभिव्यक्ताधिष्ठानचैतन्यस्य वा प्रमाणज्ञानस्य तदनाश्रितत्वात् । त्वन्मतेऽपि विषयस्थाज्ञानस्यैवावरणत्वाच्च । अज्ञातत्वस्य तद्विषयकज्ञानाभावरूपत्वे आद्यविशेषणेनैव व्यावृत्तिसिद्धेर् अविद्याविषयत्व-रूपत्वे चाविद्यासिद्ध्या चतुर्थवैयर्थ्याच्च ।
किं च स्वविषयावरणपूर्वकमित्येतावतैवालम् । अन्यद् व्यर्थम् । न हि प्रमाप्रागभावः, प्रमोत्पत्तिप्रतिबन्धकादृष्टं वा, अज्ञानातिरिक्तमन्यत्किञ्चिद्वा आवरणम् । तथात्वे तेनैव स्वप्रकाशब्रह्मावरणसम्भवेन हेतोरप्रयोजकत्वा-पातात् । न च तमोव्युदासाय तृतीयम् । तस्य प्रमामात्रविषयावरणत्वा-भावात् । न च व्यापकविशेषणानामुद्देश्यप्रतीत्यर्थत्वादवैयर्थ्यमिति वाच्यम् । यत्राविशेषितं साध्यं प्रति हेतोरप्रयोजकता विमतं भिन्नाभिन्नं, समानाधि-कृतत्वादित्यादौ तत्रैव विशिष्टप्रतीतेरुद्देष्टव्यत्वात् । अन्यथा अतिप्रसङ्गात् । नीलधूमकरणिका वह्णिप्रमोद्देश्येत्यपि सुवचत्वेन हेतावपि व्यर्थविशेषणत्वस्या-दोषत्वापाताच्च ।
हेतौ च प्रकाशकत्वं ज्ञानत्वं वा ? ज्ञानहेतुत्वं वा ? साक्षात् परम्परया व्यवहारहेतुत्वमात्रं वा ? तमोनिवर्तकत्वं वा ? आवरणनिवर्तकत्वं वा ? अज्ञानान्धकारान्यतरनिवर्तकत्वं वा ? प्रकाशकशब्दवाच्यत्वमात्रं वा ? नाद्यः, दृष्टान्ते अभावात् । न द्वितीयः, असिद्धेर् इन्द्रियादौ व्यभिचाराच्च । अत एव न तृतीयः । न चतुर्थः । अज्ञानान्धकारानुगततमस्त्वाभावात् । साध्या-वैशिष्ट्याच्च । अत एव न पञ्चमः । कुद्दालादौ व्यभिचाराच्च । न षष्ठः । साध्यावैशिष्ट्यादेव । न सप्तमः । शब्दसाम्येनैकसाध्यसाधने पृथिव्यादेरपि गोत्वेन शृृङ्गित्वसाधनापातात् । उक्तं च विवरणे– ज्ञानप्रकाश्यत्वादज्ञान-विरोधिनोऽन्यदेवालोकप्रकाश्यत्वं तमोविरोधित्वं नामेति । एवं च–
पक्षदृष्टान्तानुगतं प्रकाशत्वं न विद्यते ।
शब्दसाम्येन चेत्पृथ्व्या गोत्वाच्छृङ्गं समापतेत् ॥
किं च प्रमाणस्य च ब्रह्मज्ञानस्य चिदन्याप्रकाशकत्वात् स्वप्रकाश-चितश्चाध्यासाधिष्ठानत्वादिना सदा प्रकाशमानत्वेनाप्रकाशितत्वाभावात् तत्र हेतोरसिद्धिः । किं चास्या अनुमितेरप्रकाशितप्रकाशित्वाभावे प्रकाशित-प्रकाशकत्वं वा, अप्रकाशकत्वं वा स्यादुभयथाप्यनुमितिर्व्यर्था । तत्प्रकाशकत्वे चात्रैव बाधो व्यभिचारो वा । अस्याः स्वविषयावरणानिवतर्कत्वात् । न ह्यज्ञानावरणमज्ञानमस्ति । दृष्टान्तेऽपि द्वितीयादिप्रभाया अन्धकारानुत्पन्नत्वेन प्रथमपदं व्यर्थम् । दृष्टिसृष्टिपक्षे दृष्टान्ते उभयवैकल्यं च । अनादित्वे सति भावत्वमभावविलक्षणत्वं वा न निवर्त्यनिष्ठमनादिभावमात्रवृत्तित्वात् । अनाद्यभावविलक्षणमात्रवृत्तित्वाद्वा, आत्मत्ववत् । निवर्त्यत्वं वा नानादि-भावनिष्ठं नानाद्यभावविलक्षणनिष्ठं वा, निवर्त्यमात्रवृत्तित्वात्, प्रागभावत्ववत् । अनादित्वं वा, न आवरणनिष्ठं, अनादिमात्रवृत्तित्वात्, प्रागभावत्ववत् । प्रमाणज्ञानं वा अभावान्यानाद्यनिवर्तकम्, ज्ञानत्वाद् भ्रमवदित्यादिना सत्प्रति-पक्षता च । पूर्वं कृत्यभावमात्रेणाकृतस्य कृतिवत् स्मृत्यभावमात्रेणास्मृतस्य स्मृतिवच्च पूर्वं प्रकाशाभावमात्रेणाप्रकाशितस्य प्रकाशोपपत्तेरप्रयोजकत्वं च । किं च घटादिविषय आलोकप्रकाशस्तमोविरोधीति तन्निवर्तकोऽस्तु । ज्ञान-प्रकाशस्तु नाज्ञानविरोधी, घटाद्यधिष्ठानचैतन्यस्याज्ञानाविरोधित्वाद्, वृत्तेस्त्व-नधिष्ठानत्वेन तज्ज्ञानत्वाभावात् । त्वन्मते हि ज्ञानज्ञेययोराध्यासिकस्सम्बन्धः ।
द्वितीयानुमानेऽप्युक्तरीत्या सुखादिप्रमासु बाधः । किं च साध्ये चैत्रगतत्वं किं प्रमातत्प्रागभावयोरन्यतरविशेषणम् ? तदतिरिक्तानादेर्वा ? नाद्यः । वृत्ते-स्तत्प्रतिबिम्बितचैतन्यस्य वाऽधिष्ठानचैतन्यस्य वा, प्रमाया आत्मगतत्वा-भावात् । प्रमाप्रागभावस्य च प्रतियोगिसामानाधिकरण्यात् । न द्वितीयः । दृष्टान्ते साध्याभावात् । मैत्रप्रमायाः स्वसमानाधिकरणं स्वप्रागभावमज्ञानं च प्रति निवर्तकत्वेऽपि चैत्रगतानाद्यनिवर्तकत्वात् । साध्ये प्रमापदवैयर्थ्यं च । चैत्रप्रमा चैत्रगतस्याभावातिरिक्तस्यानादेर् निवर्तिका न, प्रमात्वान्मैत्र-प्रमावदिति प्रकारणसमता च । न चात्रोपाध्याभाससाम्ये शङ्क्ये । उक्त-साध्यानङ्गीकारे गौरवेण लाघवतर्कानुग्रहाच्चैत्रगतप्रमाभावातिरिक्ताभावनिवर्तकत्वं समव्याप्तोपाधिश्च । व्यतिरेकोपसंहारस्थलं च प्रागभावः । चैत्राप्रमा स्वप्राग-भावातिरिक्ताभावनिवर्तिका, प्रमात्वान्मैत्रप्रमावत् । घटः, चैत्रेच्छा वा, चैत्रा-प्रमा वा स्वप्रागभावातिरिक्तानादिनिवर्तिका, घटत्वाद् इच्छात्वाद्वा, अप्रमा-त्वाद्वा, घटान्तरवत्, मैत्रेच्छावद्वा, मैत्राप्रमावद्वेत्याद्याभाससाम्यं च ।
किं चैवं विशिष्टव्यतिरेकिणश् चैत्रप्रमा चैत्रनिष्ठत्वे सति चैत्रप्रमा-भावातिरिक्तानादिनिवर्तकत्वानधिकरणम्, प्रमात्वान्मैत्रप्रमावदिति साध्या-भावेऽपि सुवचत्वात् स्वव्याघातः । न चात्रोपाधिः शङ्क्यः । अयमुपाधिर् एतदुपाधित्वे सति साध्यव्यापकत्वानधिकरणं, धर्मत्वादित्यादिना विशिष्ट-व्यतिरेकिणैव साध्याव्यापकत्वादेः सुसाधत्वात् । अत एव तृतीयानुमानं निरस्तम् । किं च भ्रान्तेस्तद्विषयस्य वा पक्षत्वे द्वितीयलक्षणभङ्गरीत्या बाधः । विगीतो भ्रमः, एतज्जनकबाध्यातिरिक्तोपादानकः, विभ्रमत्वात् संमतवदिति प्रकरणसमता च । एतेन विमता अनित्यप्रमा प्रमाभावातिरिक्तस्यानादे-र्निवर्तिका कार्यत्वाद् घटवत् । विमता प्रमा प्रमाभावातिरिक्तस्यानादेर्निवर्तिका ज्ञानत्वाद् भ्रमवत् । भ्रमानुत्तरप्रमा स्वाभावातिरिक्तस्वविरोधिनिवर्तिका, प्रमा-त्वाद् भ्रमोत्तरप्रमावत् । ज्ञानत्वं स्वविषयावरणनिवर्तकनिष्ठं, अप्रकाशितार्थ-प्रकाशवृत्तित्वादालोकत्ववत् । अनित्यज्ञानमभावत्वानधिकरणस्वविरोधि-समानाधिकरणं प्रयत्नान्यत्वे सत्यनित्यत्वे सति सविषयकत्वादनित्येच्छावत् । इच्छा हि स्वविरोधिद्वेषसमानाधिकरणा, एवं चाज्ञानमित्यादिनवीनानुमानं निरस्तम् । अप्रयोजकत्वाद्यनिस्तारात् ।
अद्वैतसिद्धिः
अनुमानमपि तत्र विवरणोक्तं प्रमाणम्– विवादपदं प्रमाणज्ञानम्, स्वप्रागभावव्यतिरिक्त-स्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकम्, अप्रकाशितार्थप्रकाशकत्वात्, अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति । अत्र प्रमाणपदं प्रमाणवृत्तेरेव पक्षत्वेन सुखादिप्रमायां साक्षि-चैतन्यरूपायामज्ञानानिवर्तिकायां बाधवारणाय । धर्म्यंशप्रमाणवृत्तेरिदमित्याकाराया अज्ञाना-निवर्तिकायाः पक्षबहिर्भावाय विवादपदमिति विशेषणम् । विशेषाकारप्रमाणवृत्तिरिति फलितोऽर्थः । परोक्षप्रमाया अप्यसत्त्वावरणरूपप्रमातृगताज्ञाननिवर्तकत्वान् न तदंशेऽपि बाधः । नन्विदमिति प्रमाणवृत्तेरज्ञानानिवर्तकत्वे अज्ञातज्ञापकत्वरूपप्रमात्वेन व्यवहारो न स्यात्, न इदमाकारभ्रमसंशयादर्शनेन तद्गोचराज्ञानकल्पने मानाभावेन तत्र सुखादिज्ञान-वद्यथार्थत्वमात्रेण प्रमात्वव्यवहारोपपत्तेः । यथाहुः– ‘धर्म्यंशे सर्वमभ्रान्तं प्रकारे तु विपर्यय’ इति । यदि तु भ्रमसंशयाजनकमपि तदाकारमज्ञानमनुभवबलादास्थीयेत, तर्हि सापि पक्षेऽन्तर्भवतु, प्रमाणवृत्तित्वावच्छेदेनैवाज्ञाननिवर्तकत्वानपायात्, तदा च विवादपदमिति विशेषणमनादेयम् । एतस्मिन् पक्षे भ्रमोपादानत्वयोग्यत्वमविद्यालक्षणं द्रष्टव्यम्, भ्रमोपादा-नत्वस्य धर्म्यंशज्ञाननिवर्त्याज्ञानेऽव्याप्तेरित्यवधेयम् । धारावाहिकबुद्धीनां च तत्तत्काला-वच्छिन्नार्थविषयत्वेनाज्ञातज्ञापकत्वमस्त्येव; कालस्य सर्वप्रमाणवेद्यत्वाभ्युपगमात् । अनात्माकारप्रमाणवृत्तीनां च तत्तदवच्छिन्नचैतन्यविषयत्वेन स्वविषयावरणनिवर्तकत्वमस्त्येव, चित्त्वेनैव प्रकाशप्रसक्तेः, न त्वनवच्छिन्नचित्त्वेन, गौरवात्, ‘एतावन्तं कालं मया न ज्ञातोऽयमिदानीं ज्ञात’ इत्यनुभवाच्च । रूपादिहीनस्यापि तत्तदवच्छिन्नचैतन्यस्य प्रत्यक्षादि-विषयत्वमुक्तं प्राक् । प्रतिकर्मव्यवस्थामभ्युपगम्य चेदमनुमानम्, न तु दृष्टिसृष्टिपक्ष इति ध्येयम् । साध्ये चाद्यं विशेषणं प्रतियोग्यतिरिक्ता प्रागभावनिवृत्तिरिति मते प्रागभावे-नार्थान्तरवारणाय । तदुदीच्यध्वंसादिकमादाय नार्थान्तरप्रसक्तिः, किन्तु पूर्ववर्त्त्यभावमादायेति वस्तुगतिमनुरुध्य प्राक्पदम् । अवैयर्थ्यं च प्रतियोगिविशेषणत्वेनाखण्डाभावसम्पादकतया ।
एतेन– यतो ज्ञानमज्ञानस्यैव निवर्तकमिति नियमात् स्वनिवर्त्यपदेनैव प्रागभावव्युदासे किमाद्यविशेषणेनेति– निरस्तम्; प्रमात्वेन ज्ञाननिवर्त्यत्वमन्येषां नेत्यत्र तात्पर्यात् । न च स्वविषयावरणपदेनैव तद्व्युदासः, ‘अस्ति प्रकाशत’ इति व्यवहारविरोधित्वरूपस्यावरण-त्वस्य भावाभावसाधारणत्वात् । वृत्तिजनकादृष्टेनार्थान्तरवारणाय तु विशेषणमिदम् । न चावरणपदेनैव तद्व्युदासे स्वविषयेति व्यर्थम्, यददृष्टं स्वविषयज्ञानजनकं विषयान्तरज्ञान-प्रतिबन्धकतया तदावरकं, तादृशादृष्टपूर्वकत्वेनार्थान्तरवारकत्वात् ।
न च जडे अज्ञानस्यानङ्गीकाराच्चितश्चाज्ञानादिसाक्षितया भासमानत्वात् क्वावरणमिति वाच्यम् । अज्ञानादिसाक्षितया चितः प्रकाशमानत्वेऽपि ‘अस्ति प्रकाशत’ इति व्यवहारा-भावेन तदंशेऽज्ञानावरणस्यावश्यकत्वात् । वक्ष्यते चैतत् । स्वनिवर्त्येति च विशेषणं वृत्तिप्रतिबन्धकादृष्टेनार्थान्तरवारणाय । न च चरमसाक्षात्कारोत्पत्तिप्रतिबन्धकादृष्टस्य तद-निवर्त्यत्वे मिथ्यात्वासिद्धिस् तन्निवर्त्यत्वे तद्व्युदसनमशक्यमिति वाच्यम् । प्रतिबन्धकादृष्टे विद्यमाने न ज्ञानोत्पत्तिरिति प्रथमं तन्निवृत्तेः कारणात्मना स्थितस्य तस्य ज्ञाननिवर्त्यत्वाच्च मिथ्यात्वम् । न चैवमपि स्वनिवर्त्यत्वमव्याहतम्, स्वनिवर्त्यस्वरूपत्वे तात्पर्यात् । अन्धकारेणार्थान्तरवारणार्थमिदमिति केचित् । तन्न, स्वदेशगतेत्यनेनैव तद्व्युदासात् । यथा च वृत्तिप्रतिबिम्बितचैतन्यस्य विषयावच्छिन्नचैतन्येन सहैकलोलीभावादज्ञाननिवर्तकत्वं, तथोक्तं प्राक् । स्वदेशगतेति च विशेषणं विषयगताज्ञातत्वेनार्थान्तरवाणाय । यद्यप्यविद्या-विषयत्वरूपमज्ञातत्वमसिद्धम्, ज्ञातत्वाभावरूपं तु प्रथमविशेषणेनैव परास्तम्, तथापि प्रथमेन प्रागभावव्युदासादत्यन्ताभावव्युदासाय चतुर्थमिति द्रष्टव्यम् ।
ननु कथं ज्ञानाश्रयगतत्वमज्ञानस्य ? वृत्त्यादिरूपस्य ज्ञानस्याज्ञानाश्रयचिदनाश्रित-त्वादिति चेन्न; अन्तःकरणस्य चिदाश्रितत्वेन तद्वृत्तेस्तत्प्रतिफलितचैतन्यस्य वा ज्ञानस्य चिदाश्रितत्वसम्भवात्, किञ्चिदवच्छिन्नतदाश्रितस्यापि तदाश्रितत्वानपायात्, कर्णशष्कुल्य-वच्छिन्नाकाशाश्रितस्य शब्दस्याकाशाश्रितत्ववत् । एवं च भावाभावसाधारणमावरणमिति मतेन साध्यमुपपादितम् । अभावो नावारक इति सिद्धान्ते तु साध्यद्वये तात्पर्यम्– स्वप्रागभावातिरिक्तस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकमित्येकम् । स्वविषयावरण(स्वनिवर्त्य-स्वदेशगतवस्त्वन्तर)पूर्वकमित्यपरमिति न किञ्चिदसमञ्जसम् ।
हेतौ च प्रकाशकत्वं प्रकाशकपदवाच्यत्वं, अप्रकाशविरोधित्वं वा ज्ञानालोकयोः साधारणम् । यद्यपि प्रकाशकपदवाच्यत्वं नामकरणवशात् कस्मिंश्चित् पुरुषेऽप्यस्ति, तथापि प्रकाशकशब्देन शास्त्रे सर्वदेशकालयोर्वा व्यवह्रियमाणत्वं तद्विवक्षितम् । अथवाऽस्तु साधारणम् । अप्रकाशितार्थगोचरेति विशेषणाद् व्यभिचारव्युदासः ।
अप्रकाशितत्वं च ‘न प्रकाशत’ इति व्यवहारगोचरत्वम्, तच्च स्वप्रकाशचैतन्येऽप्य-स्तीत्युपपादितम् । एवं निरुक्ताप्रकाशविरोधित्वमपि ज्ञानालोकयोः प्रत्यक्षसिद्धम् । उक्तं च विवरणे– ‘ज्ञानप्रकाश्यत्वाज्ञानविरोधित्वादन्यदेव आलोकप्रकाश्यत्वं तमोविरोधित्वं नामे’ति । अत उभयोरेव साक्षादप्रकाशविरोधित्वसम्भवान्नेन्द्रियसन्निकर्षादौ व्यभिचारः । एवं चा-प्रकाशितार्थगोचरत्वे सति प्रकाशशब्दवाच्यत्वाद् अप्रकाशविरोधिप्रकाशत्वादिति वा हेतुः पर्यवसितः । विपर्ययविषयस्तु नाज्ञातः, विपर्ययान्यकालासत्त्वेन तस्यानिर्वचनीयस्य मान-गोचरत्वाभावेन प्रकाशप्राक्कालसत्त्वघटिताप्रकाशितत्वासम्भवाद्, अत एव स नाप्रकाश-विरोधी, स्वविषये अप्रकाशाभावाद्, अधिष्ठानाप्रकाशस्तु तस्य जनक एव । स्मरणे च व्यभिचाराभावः स्पष्टः । अनुकूलतर्कश्च त्वदुक्तमर्थं न जानामीति प्रतीत्यन्यथानुपपत्त्यादि-रूपः प्रागुक्त एव । एतेन गोशब्दवाच्यत्वेन पृथिव्या अपि शृृङ्गित्वानुमानापातोऽपास्तः, तत्रानुकूलतर्काभावात् । अज्ञानस्य स्वरूपेणाज्ञानाविषयत्वेऽपि तद्भावत्वादिकमज्ञानविषयो भवत्येव, तस्याज्ञानग्राहकसाक्ष्यग्राह्यत्वात् । अन्यथा तत्र विवादो न स्यात् । एवं प्रमाया स्वविषयावरणाभावपूर्वकत्वमपि न प्रमास्वरूपग्राहकसाक्षिग्राह्यम् । तथा च तद्ग्राहिकाया एतस्या अनुमितेः साध्यसाधनोभयाधिकरणत्वान् न कोऽपि दोषः । दृष्टान्ते चान्धकारा-व्यवहितोत्पत्तिकत्वं विशेषणम् । तेन न प्रथमपदवैयर्थ्यं न वा द्वितीयादिप्रभायां साध्यसाधनवैकल्यं विस्तरेण चान्यत्र व्युत्पादितमिदमस्माभिः ।
ननु– अनादित्वे सति भावत्वमभावविलक्षणत्वं वा, न निवर्त्यनिष्ठम्, अनादिभावमात्र-वृत्तिधर्मत्वाद्, अनाद्यभावविलक्षणमात्रवृत्तित्वाद्वा, आत्मत्ववत् । निवर्त्यत्वं वा, नानादि-भावनिष्ठम्, अनाद्यभावविलक्षणनिष्ठं नेति वा, निवर्त्यमात्रवृत्तित्वात्, प्रागभावत्ववत् । अनादित्वं वा, नावरणनिष्ठम्, अनादिमात्रवृत्तित्वात्, प्रागभावत्ववत् । प्रमाणज्ञानं वा अनाद्यभावान्यानाद्यनिवर्तकम्, ज्ञानत्वाद्, भ्रमवदित्यादिना सत्प्रतिपक्षता, कृत्यभावमात्रेणा-कृतस्य कृतिवत् पूर्वप्रकाशाभावमात्रेणाप्रकाशितस्य प्रकाशोपपत्तेरप्रयोजकत्वं चेति– चेन्न, अनुकूलतर्काभावेनाप्रयोजकत्वात्, सिद्धान्तिहेतोश्चानुकूलतर्कसद्भावेन साध्यव्याप्यत्वे निश्चिते सत्प्रतिपक्षाप्रयोजकत्वादीनामनवकाशात् । अनादिभावत्वस्य निवर्त्यावृत्तित्वेऽप्यविद्याया भावविलक्षणाया निवर्त्यत्वोपपत्तेराद्यानुमानेनाविरोधश्च । द्वितीये त्वनाश्रितमात्रवृत्तित्व-मुपाधिः । तृतीयचतुर्थयोः सकलनिवर्त्यावृत्तित्वमुपधिः । पञ्चमे सकलानाद्यवृत्तित्वमुपाधिः । षष्ठे प्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धिरिति च दूषणानि ।
तत्त्वप्रदीपिकोक्तं च– चैत्रप्रमा, चैत्रगतप्रमाप्रागभावातिरिक्तानादिनिवर्तिका, प्रमात्वा-न्मैत्रप्रमावत् । विगीतो विभ्रमः, एतज्जनकाबाध्यातिरिक्तोपादानकः, विभ्रमत्वात्, संमत-वदिति । अत्राद्ये सुखादिज्ञानेषु न बाधः, अन्तःकरणवृत्तेरेव प्रमापदेनोक्तेः । चैत्रगतत्वं च नानादेर्विशेषणम्, मैत्रप्रमायाश्चैत्रनिष्ठानादिनिवर्तकत्वाभावेन दृष्टान्ते साध्यवैकल्यापातात्, किन्तु प्रमातदभावयोरन्यतरस्य । प्रमायाश्चात्मगतत्वं प्राग्व्याख्यातम् । साध्ये तु प्रमापद-मुपरञ्जकमेव । यदि त्वभावे प्रागिति विशेषणं नास्ति, तदा भावरूपाज्ञानस्यापि स्वाभावा-भावत्वेन तदतिरिक्तानादिनिवर्तकत्वे बाधवारणाय । चैत्रासमवेतत्वं चैत्रान्यसमवेतत्वं च नोपाधिः, चैत्रसुखादौ व्यभिचारेण साध्याव्यापकत्वात् ।
न च चैत्रप्रमा चैत्रगतस्याभवातिरिक्तस्यानादेर्निवर्तिका न, प्रमात्वात्, मैत्रप्रमादिवदिति सत्प्रतिपक्षः, प्रतियोगिप्रसद्ध्यप्रसिद्धिभ्यां व्याहतेः । चैत्रगतप्रमाभावातिरिक्ताभावनिवर्तकत्वं तु नोपाधिः, चैत्रगतप्रमाभावातिरिक्तस्य स्वजन्यव्यवहारप्रागभावस्य निवर्तकतया पक्षे साधनव्यापकत्वात् । विपक्षबाधकसत्त्वाच्च नाभाससाम्यम् । अत एव द्वितीयानुमानमपि सम्यक् । न च – विगीतो विभ्रमः, एतज्ज्ञानजनकबाध्यातिरिक्तोपादानकः, विभ्रमत्वात्, संमतवदिति सत्प्रतिपक्ष इति– वाच्यम् । बाध्यस्य त्वन्मतेऽजनकत्वात्, साध्याप्रसिद्धेः, ब्रह्माविद्योभयोपादानकत्वेनाविरोधाच्च ।
नव्यास्तु विमता प्रमा, प्रमाभावातिरिक्तस्यानादेर्निवर्तिका, कार्यत्वाद्, घटवद् । भ्रमानुत्तरप्रमा, स्वाभावातिरिक्तस्वविरोधिनिवर्तिका, प्रमात्वात्, भ्रमोत्तरप्रमावत् । ज्ञानत्वं, स्वविषयावरणनिवर्तकनिष्ठम्, अप्रकाशितार्थप्रकाशवृत्तित्वाद् आलोकत्ववत् । अनित्यज्ञानम्, अभावत्वानधिकरणस्वविरोधिसमानाधिकरणम्, प्रयत्नान्यत्वे सति सविषयत्वे सत्यनित्य-त्वाद्, अनित्येच्छावत् । सा हि तादृग्द्वेषसमानाधिकरणा । न चैतेषु अप्रयोजकत्वशङ्का, विपक्षबाधकतर्कस्योक्तत्वात् । एवमन्यदप्यूहनीयम् । ज्ञानविरोधित्वं, अनादिभावत्व-समानाधिकरणम्, सकलज्ञानविरोधिवृत्तित्वाद्, दृश्यत्ववत् । यद्वा– अनाद्यभावविलक्षणत्वम्, ज्ञानविरोधिवृत्ति, अनाद्यभावविलक्षणमात्रवृत्तित्वाद्, अभिधेयत्ववदिति । एवमभावविलक्षणा-ज्ञाने अनुमानान्यूहनीयानि ।
न्यायामृततरङ्गिणी
तस्या इति ॥ साक्षिणोऽज्ञानसाधकत्वेन तदनिवर्तकत्वादित्यर्थः । परोक्षवृत्तेः स्वविषयेऽज्ञानानिवर्तकत्वे संमतिमाह ॥ उक्तं चेति ॥ अतीतादेर्ज्ञानं प्रति कारकत्वं नास्तीत्युक्ते तर्हि तद्वदेव विषयत्वमपि न स्यादित्याशङ्कायां तदपि नास्ती-त्युत्तरिते विषयत्वस्योपलभ्यमानत्वात्कथं तदभाव इति पुनः शङ्कायाम् अतीतादिषु विषयत्वाभावं दर्शयितुं विषयशब्दार्थकथनपरमिदं विवरणवाक्यम् । विषयत्वं नामानुमेयेषु सुषुप्तिव्यावृत्तिः । सा चाभावस्तद्धर्मो न भवति । विज्ञानाकारतापि न विषयव्यापारः । किन्तु विज्ञानस्यैवेति नातीतेऽर्थे क्रियाकारित्वमिति । एतच्च तत्त्वप्रदीपने व्याख्यातम् । सुषुप्तिव्यावृत्तिस्तद्विषयाज्ञाननिवृत्तिः । सा चानुमेयधर्मो न भवति । किन्त्वज्ञानस्यात्माश्रितत्वात्तन्निवृत्तिरप्यात्माश्रितैवेति ।
अन्ये तु सुषुप्तिव्यावृत्तिरित्यस्य साधकाद्यभावाद् विषयस्य या पूर्वसंशययोग्यता तस्या निवृत्तिरित्यर्थः । स च नातीतादौ । असतस्तदाश्रयत्वायोगादित्याहुः । केचित्तु परोक्षस्थले विषयावच्छिन्नाभावावरणतत्कार्यसद्भावेऽपि प्रमात्रवच्छिन्ना-सत्त्वावरणानिवृत्त्याऽनुमेयादौ व्यवहारोपपत्तिः । इदमेव सुषुप्तिव्यावृत्तिशब्देनोक्त-मित्याहुः । सर्वथाऽपि विषयावच्छिन्नप्रमेयचैतन्यगताज्ञानं न निवर्तत इत्यविवादम् । तदिदमुक्तं तस्याः स्वविषयेऽज्ञाननिवर्तकत्व इति । तथा च परोक्षवृत्तौ स्वविषयावरणस्य स्वनिवर्त्यत्वाभावाद्बाध इत्यर्थः ।
ननु धर्म्यंशाज्ञानेऽपि भ्रमोपादानत्वयोग्यताऽस्तीति तत्र नाव्याप्तिरित्यत आह ॥ न हीति ॥ धर्म्यंशाज्ञाने सति धर्मिणोऽज्ञानाभावाद् भ्रमो न स्यादित्यर्थः ॥ धारावाहिकेति ॥ न चास्मन्मते धारावाहिका बुद्धिरेव नास्ति । एकस्यैव ज्ञानस्य तावत्समयस्थित्युपपत्तेरिति वाच्यम् । तथापि प्रतिपाद्यं नैयायिकं प्रति बाधः स्यादेव । बाधमुपपादयति ॥ तस्या इति ॥ असिद्धिमुपपादयति ॥ सूक्ष्मेति ॥ रूपादिहीनस्येति ॥ स्वरूपायोग्यस्य किञ्चिदवच्छिन्नस्यापि न चाक्षुषत्वमिति भावः ॥ उक्तत्वाच्चेति ॥ परिच्छिन्नत्वहेतुभङ्ग इति शेषः । एतेन रूपहीनस्यापि तार्किकाभिमतात्मनः प्रत्यक्षत्ववदरूपस्यापि रूपस्य चाक्षुषत्ववच्च सन् घट इति सदर्थस्य ब्रह्मणश्चाक्षुषत्वमविरुद्धमिति निरस्तम् ॥ अयं घट इति ॥ यथा शाब्द-ज्ञाने न चैतन्यं विषयस्तथा तत्समानविषयेऽपरोक्षज्ञानेऽपि न तद्विषय इत्यनात्म-विषयापरोक्षवृत्तौ बाध इति भावः ॥ आत्मविषयेति ॥ सा चान्ततश्चरम-वृत्तिरेवेति भावः ॥ यत इति ॥ प्रागभावस्याज्ञानभिन्नत्वान्न ज्ञाननिवर्त्यत्व-मित्यर्थः ॥ अभावेति ॥ प्रमाणज्ञानं स्वप्रागभावनिवृत्तिरेव न तु तन्निवर्तकमिति न प्रमाणज्ञानप्रागभावस्तन्निवर्त्य इत्यर्थः । न च प्रतियोग्यतिरिक्ता प्रागभाव-निवृत्तिरिति मतेनैतदुक्तमिति वाच्यम् । तस्याप्रामाणिकत्वात् ॥ शेषेति ॥ न च प्रतियोगिविशेषणत्वेनाखण्डाभावसम्पादकतया न वैयर्थ्यमिति वाच्यम् । तत्त्वनिर्णयकथायां लघुना साध्यनिर्देशेन साध्यसिद्धौ सम्भवन्त्यामखण्डा-भावान्तर्भाविनः साध्यस्यानिर्देश्यत्वात् । अन्यथा अखण्डाभावन्यायेनाखण्डो-पाधावपि तदनापत्तेः ॥ आवरणत्वायोगादिति ॥ तथा च तद्विशेषणविशिष्टं साध्यं पक्षे बाधितमित्यर्थः । नन्वज्ञानादिसाक्षितया चितो भासमानत्वेऽप्यस्ति प्रकाशत इति व्यवहाराभावेन तदंशेऽज्ञानावरणमस्तीति शङ्कानिरासायोक्तम् ॥ निर्विशेषेति ॥ सत्ताप्रकाशयोः प्रकाशमानचिन्मात्रत्वेन तादृशव्यवहारानुपपत्तेरित्यर्थः ॥ स्वोत्पादकादृष्टेति ॥ अदृष्टस्यावरणत्वाभावादित्यर्थः ॥ शेषेति ॥ स्वविषयेत्य-स्येत्यर्थः । एतेन यददृष्टं स्वजनकं विषयान्तरज्ञानप्रतिबन्धकतया तदावरकं तादृशादृष्टपूर्वकत्वेनार्थान्तरवारणाय स्वविषयेति विशेषणमिति निरस्तम् । स्वजनकं स्वविषयज्ञानान्तरप्रतिबन्धकतया स्वविषयावरणं चादृष्टविशेषमादायार्थान्तरतादव-स्थाच्च ॥ वृत्तिरिति ॥ वृत्तिश्चिदुपरागोर्थेति मते चितोऽनावृतत्वेन वृत्ते-रावरणनिवर्तकत्वं नास्तीत्यर्थः ॥ घटाकारेति ॥ घटाकारवृत्त्यादिनैव घट-प्रकाशकघटाधिष्ठानचैतन्यस्यावरणाभिभवरूपाभिव्यक्तेर्जातत्वेन घटज्ञानरूपस्य घटाधिष्ठानचैतन्यस्यावरणनिवर्तकत्वं नास्तीत्यर्थः ।
ननु वृत्तिस्तत्प्रतिबिम्बितचैतन्यं वा घटप्रकाशकम् । तच्च घटाधिष्ठानचैतन्यस्य प्रमेयभूतस्यावरणं निवर्तयतीति शङ्कां परिहरति ॥ वृत्तिरति ॥ ज्ञाने ज्ञेयाध्यास-स्यानुक्तेरित्यर्थः ॥ चरमेति ॥ न च चरमसाक्षात्कारप्रतिबन्धकादृष्टे सति न तदुत्पत्तिरिति प्रथमं तन्निवृत्तिः । कारणात्मनाऽवस्थितस्य तस्य ज्ञाननिवर्त्यत्वाच्च मिथ्यात्वमपीति वाच्यम् । तावताऽपि ज्ञाननिवर्त्यत्वाव्याहतेः ॥ अज्ञानस्येति ॥ वृत्त्यादिरूपस्य ज्ञानस्याज्ञानाश्रयचिन्मात्रानाश्रितत्वादित्यर्थः । नन्वन्तःकरणस्य चिदाश्रितत्वेन तद्वृत्तिस्तत्प्रतिबिम्बितचैतन्यं वा ज्ञानं चिन्मात्राश्रितमेव । किञ्चि-दवच्छिन्नाश्रितस्याप्यवच्छेद्याश्रयत्वानपायात् । कर्णशुष्कुल्यवच्छिन्नाकाशाश्रितस्य शब्दस्याकाशाश्रितत्ववत् । मैवम् । त्वन्मतेऽवच्छेद्यावच्छिन्नयोर्भेदात् । अन्यथा विशिष्टनिष्ठयोर्दृश्यत्वमिथ्यात्वयोर्विशेष्यनिष्ठत्वं स्यात् । किञ्च वृत्तिस्तत्प्रतिबिम्बित-चैतन्यं वा न घटादिज्ञानम् । तत्र तदनध्यासात् । किन्तु वृत्त्याद्यभिव्यक्तं घटाधिष्ठानचैतन्यं घटादिज्ञानम् । तच्च नाज्ञानाश्रयचिन्मात्राश्रितम् । तदिदमुक्तं तदभिव्यक्ताधिष्ठानचैतन्यस्य वेति । प्रमाणज्ञानस्यान्तःकरणनिष्ठत्वादावरणस्य विषयनिष्ठत्वान्न तयोः समानदेशत्वमित्याह ॥ त्वन्मत इति ॥ आद्येति ॥ न चाद्यविशेषणेन प्रागभावो व्यवच्छिद्यते स्वनिवर्त्येत्यनेन त्वत्यन्ताभाव इति वाच्यम् । स्वप्राक्पदविरहितेनाद्यविशेषणेनैवोभयव्यवच्छेदसम्भवादित्यर्थः ॥ अविद्येति ॥ अज्ञानसिद्धिरेव स्यान्न तु सिद्धसाधनादिकमित्यर्थः ।
ननु अस्ति प्रकाशत इति व्यवहारविरोधित्वरूपमावरणत्वं भावाभावसाधारणमत आह ॥ तथात्व इति ॥ तस्येति ॥ असाधारण्येन व्यपदेशा भवन्तीति न्यायेन वा मात्रशब्दान्तर्भावेण वा स्वविषयमात्रावरणत्वरूपार्थलाभसम्भवादिति भावः । यत्तु स्वप्रागभावव्यतिरिक्तस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकमित्येकं साध्यं स्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकमिति द्वितीयं साध्यमिति साध्यद्वये तात्पर्यमिति । तन्न । उक्तरीत्या ज्ञानाज्ञानयोः समानदेशत्वाभावात् । प्रागभावस्य स्वनिवर्त्यत्वाभावेन प्रथमसाध्ये स्वप्रागभावव्यतिरिक्तेत्यस्य वैयर्थ्याच्च । द्वितीयसाध्ये आवरणपूर्वकमित्येतावतैव पूर्णत्वाच्च ॥ अप्रयोजकतेति ॥ एतच्चोपलक्षणम् । यादृशसाध्यनिर्देशं विना विवादपदसाध्यसिद्धिर्न भवति तादृशं साध्यं निर्देष्टव्यमित्यर्थः । तेनार्थान्तरादिवारकविशेषणानां नानुपादानप्रसङ्गः । एतेन ईश्वरानुमानेऽदृष्टप्रागभावव्याप्यप्रागभावाप्रतियोगीति विशेषणं विनाभावकार्यत्वहेतोर-प्रयोजकत्वाभावात्तद्विशेषणमप्यनुपादेयं स्यादिति निरस्तम् । तत्रार्थान्तरवारणात् । प्रकृते तदभावात् ॥ शब्दसाम्येनेति ॥ पर्वतमहानसवृत्तिधूमव्यक्त्योर्भेदेऽपि धूमत्वस्यैकत्ववज् ज्ञानप्रभयोरेकं प्रकाशत्वं नास्तीत्यर्थः । पक्षदृष्टान्तयोरनुगतो हेतुर्नास्तीत्यत्रोपष्टम्भकमाह ॥ उक्तं चेति ॥ अहङ्कारस्यात्मव्यतिरिक्तत्वसाधक-संविदभिन्नस्य स्वात्मनः स्वप्रकाशत्वं साधयितुं संविदो स्वप्रकाशत्वे विश्वस्यानव-भासप्रसङ्ग इति दूषणेऽभिहिते नन्वप्रकाशमानमेव ज्ञानं चक्षुरादिवद्विषयमवभासये-दिति कुतो विश्वस्यानवभास इति शङ्किते विषयप्रकाशजनने न चक्षुषः प्रकाशकत्वं संवेदनं तु स्वयमर्थप्रकाश एव प्रदीपवदवभासमानमेवार्थं प्रकाशयतीति परिहृते ।
ननु प्रदीपालोकस्याप्यर्थानुभवजननेनैव चक्षुरादिवदर्थप्रकाशकताऽस्त्विति पुनः शङ्कायां ज्ञानप्रकाश्यत्वादज्ञानविरोधिनोऽन्यदेवालोकप्रकाश्यत्वं तमोविरोधितया प्रसिद्धम् । तदव्यवधानेनालोकेन क्रियत इत्यादिना चक्षुरपेक्षया आलोकसंवेदनयो-र्वैलक्षण्यमभिधाय आलोकसंवेदनयोरपि प्रकाशकत्वे वैलक्षण्यमस्तीति विवरणेऽ-भिहितमित्यर्थः ॥ प्रमाणस्येति ॥ चरमवृत्तेरित्यर्थः ॥ अध्यासेति ॥ प्रकाशमानस्यैवाधिष्ठानत्वादित्यर्थः । नन्वधिष्ठानचित्प्रकाशेऽप्यस्ति प्रकाशत इत्यादिरूपेण न प्रकाश इति चेन्न । निरस्तत्वात् ॥ अस्या इति ॥ अज्ञान-विषयिण्याः ॥ प्रकाशितेति ॥ विशेषणाभावाद्विशिष्टहेतोरभावे प्रकाशितप्रकाशकत्वं विशेष्याभावात्तदभावेऽप्रकाशकत्वं स्यादित्यगत्याऽनुमितौ विशिष्टाभावस्यासम्भव इत्यर्थः ॥ उभयथेति ॥ आद्ये सिद्धसाधनम् । द्वितीये बाधादनुमितिर्व्यर्था । अर्थविषया न भवतीत्यर्थः । तर्कितानुमितौ विकल्पनान्न व्याघातः ॥ तदिति ॥ अप्रकाशितेत्यर्थः ॥ अत्रैवेति ॥ पक्षबहिर्भावे व्यभिचारः पक्षत्वे तु बाध इत्यर्थः ।
केचित्तु विवादगोचरापन्नमित्यनेन जन्यसविकल्पकाजन्यचाक्षुषघटप्रमाणज्ञानं विवक्षितम् । परमते जन्यज्ञानमात्रस्य सविकल्पकजन्यत्वात्सविकल्पकस्य जन्य-ज्ञानजन्यत्वाच्च पक्षाप्रसिद्धिवारणाय जन्यसविकल्पकाजन्येत्युभयोपादानम् । अनेन धारावाहिकद्वितीयादिबुद्धिव्युदासः । पराभिमतेश्वरज्ञानव्यावृत्तये चाक्षुषप्रमाणज्ञानेति । साध्ये च स्वशब्दः समभिव्याहृतपरः । स्वप्रागभावपदेन स्वसमानाधिकरणप्रागभावः कथ्यते । स्वविषयावरणेति स्वजननायोग्यम् । स्वनिवर्त्येति स्वजन्यध्वंसप्रतियोगि । स्वदेशगतेति स्वाश्रये वर्तमानम् । एवं च पक्षीभूतज्ञानस्य घटपटादेः संशय-जनकत्वसम्भवात् तत्प्रागभावस्तन्निवर्त्य इति संशयादिप्रागभावात्मत्वस्वजनका-दृष्टेच्छा प्रागभावपूर्वकत्वेनार्थान्तरत्व व्यावृत्ते प्रातिलोम्येन विशेषणानि । अज्ञानं चैवंविधमिति न बाधः । अथवा प्रमाणज्ञानस्य प्रागभाव एव स्वप्रागभावः स्व-विषये संशयादिजनकतायोग्यमेव स्वविषयावरणम् । स्वसत्ताक्षणनियतध्वंस-प्रतियोगिस्वनिवर्त्यम् । ततश्च प्रागभावोऽपि परमते विशेषादर्शनतया संशयादिजनक इति स्वप्रागभावस्वजनकादृष्टान्धकारादिव्यावृत्तये स्वप्रागभावेत्यादिविशेषणानि । परमते मनःसंयोगपूर्वकत्वेनार्थान्तरनिवृत्तये स्वनिवर्त्येतीति ।
अत्र ब्रूमः । पटबुभुत्सयोन्मीलितेन चक्षुषा दैवाद् घटपटसंयोगे सति इच्छाप्राबल्यात् पटज्ञानानन्तरं जायमाने घटचाक्षुषज्ञाने पटज्ञानपूर्वकत्वेन सिद्ध-साधनम् । पटज्ञानं हि स्वशब्दनिर्दिष्टघटज्ञानसमानाधिकरणप्रागभावव्यतिरिक्तं स्वजननायोग्यं स्वजन्यध्वंसप्रतियोगिस्वाश्रयगतं च भवति । द्वितीयसाध्येऽपि यत्र घटे पाषाणादिसंशयानन्तरं विशेषदर्शनं विनैव समीपागमनादिना घट इति प्रमाणज्ञानं चाक्षुषं जायते तत्र पूर्वतनसंशयमादाय सिद्धसाधनम् । घटविषयक-संशयोऽपि धर्मिज्ञानकोटिज्ञानत्वादिना घटविषयकसंशयान्तरजननयोग्य इति घटप्रमाविषयावरणं भवति । स्वसत्ताक्षणनियतध्वंसप्रतियोगी च भवतीति । यथाश्रुतेन स्वविषयावरणपूर्वकमित्यनेनैव साध्यसिद्धेरुक्तकुसृष्टेरनाश्रयणीयत्वाच्च । ग्रन्थस्वारस्यस्य त्वयाऽपि त्यक्तत्वाच्च । नन्वन्धकारनिवृत्त्यव्यवहितोत्तरकालीनं चाक्षुषज्ञानं पक्षत्वेनाभिमतम् । साध्यं च स्वसमानाधिकरणप्रागभावव्यतिरिक्तेत्यादि- विवक्षितमिति चेन्न । स्मृत्यभावमात्रेणास्मृतस्य स्मृत्यनन्तरं स्मृतत्ववत्पूर्वं प्रकाशाभावमात्रेणाप्रकाशितस्य तस्मिन्सति प्रकाशितत्वोपपत्त्याऽप्रयोजकत्वात् । एतच्च आकर एव स्पष्टम् । अन्धकारनिवर्तकत्वं चोपाधिः ।
॥ अनादित्वे सतीत्यादि ॥ नन्वनादिभावत्वस्य निवर्त्यावृत्तित्वेऽप्यविद्याया भावविलक्षणाया निवर्त्यत्वोपपत्तेर्न विरोध इति चेन्न । अनादित्वे सत्यभावविलक्षणत्वेनानिवर्त्यत्वस्यापि प्रसङ्गेनाभावविलक्षणनिवृत्तौ सादित्वस्यैव प्रयोजकत्वात् । न च द्वितीयानुमाने अनाश्रितमात्रवृत्तित्वमुपाधिः । ध्वंसत्वे साध्याव्याप्तेः ॥ निवर्त्यत्वं चेति ॥ न चैतयोः सफलनिवर्त्यावृत्तित्वमुपाधिः । विनाशसामग्रीयुक्तत्वे साध्याव्याप्तेः । न च विनाशसामग्रीयुक्तत्वेऽनादिभाव-निष्ठत्वस्य वा अनाद्यभावविलक्षणनिष्ठत्वस्य वा अभावो नेति न तत्र साध्याव्याप्तिरिति वाच्यम् । अभावविलक्षणस्य विनाशे सादित्वस्य प्रयोजकत्वेन अनादिभावे विनाशसामग्रीयुक्तत्वस्याभावात् । साध्यव्यापकोपाधिव्यतिरेकनिश्चयवति विनाशसामग्रीयुक्तत्वेऽनादिभावनिष्ठत्वादेः साध्यव्यतिरेकस्य सन्दिग्धत्वेन निश्चित-व्यापकाभाववति व्याप्यसंशयरूपव्यभिचारसंशयेनोपाधेर्व्यतिरेकव्याप्त्यसिद्धेश्च ॥ अनादित्वं चेति ॥ कारणाजन्यत्वमित्यर्थः । न चात्र सकलानाद्यवृत्तित्वमुपाधिः । निश्चितोपाधिव्यतिरेकवति प्रागभावप्रतियोगित्वादौ साध्यस्य सन्देहेनोपाधेर्व्यतिरेक-व्याप्त्यसिद्धेः ॥ प्रमाणज्ञानं चेति ॥ न चात्र प्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धिरिति वाच्यम् । आवाभ्यामप्रसिद्धप्रतियोगिकस्याप्यभावस्य स्वीकारात् ॥ आत्मगतत्वा-भावादिति ॥ न च वृत्तिरूपैकोपाध्यारूढत्वेन प्रमायाश्चैत्रगतत्वमिति वाच्यम् । तथा सति प्रमातृप्रमाणप्रमेयसाङ्कर्यापत्त्या तत्परिहाराय कल्पितभेदमादाय व्यवस्था-यास्त्वस्याऽपि वाच्यत्वेन प्रमातत्तत्प्रागभावयोश्चैत्रगतत्वाभावादित्यर्थः ॥ साध्य इति ॥ चैत्रप्रमायाः पक्षीकृताया प्रमामात्रप्रागभावनिवर्तकत्वनिश्चयेन प्रमापदस्या-व्यावर्तकत्वादित्यर्थः ॥ प्रकरणसमता चेति ॥ तेनैव हेतुना सत्प्रतिपक्ष इत्यर्थः । ननु सत्प्रतिपक्षानुमाने चैत्रासमवेतत्वमुपाधिः । चैत्रप्रमा चैत्रगतानादिनिवर्तिका न प्रमात्वान् मैत्रप्रमावदित्यनुमानेन चैत्रप्रमाप्रागभावोऽपि न सिद्ध्येदित्याभास-साम्यमित्यत आह ॥ न चात्रेति ॥ आत्मत्वादौ साध्याव्याप्तेरित्यर्थः । आभास-साम्यं परिहरति ॥ उक्तेति ॥
ननु जन्यमात्रे चैत्रगतप्रमाभावातिरिक्तस्वप्रागभावनिवर्तकत्वेनोपाधिसाध्ययोः सत्वात्तद्व्यतिरेकसहचाराग्रह इत्यत आह ॥ व्यतिरेकेति ॥ प्रागभाव इति ॥ आकाशादिरप्युत्पन्न इति पक्षे प्रागभावः । मतान्तरे त्वाकाशादिरप्युपसंहारस्थलमिति बोध्यम् ॥ चैत्रप्रमेति ॥ अनेन प्रागभावद्वयसिद्ध्यापत्तिः ॥ घट इति ॥ अनेन प्रागभावातिरिक्तमनादिभूतं घटविरोधि सिद्ध्यति ॥ चैत्रेच्छा वेति ॥ अनेन प्रागभावद्वेषाभ्यामतिरिक्तम् इच्छाविरोधिभूतम् अप्रमाप्रागभावाज्ञानाभ्यामतिरिक्त-प्रमानिवर्त्यं च सिद्ध्यतीत्यतिप्रसङ्ग इत्यर्थः ॥ चैत्रनिष्ठत्वे सतीति ॥ एतच्च निवर्तकत्वविशेषणम् । चैत्रप्रमायां चैत्रनिष्ठत्वस्य विशेषणत्वस्य सत्त्वेन तद्विशिष्टस्य चैत्रप्रमाभावातिरिक्तानादिनिवर्तकत्वस्यानधिकरणत्वे साध्यमाने विशेष्यभूतस्य निरुक्तनिवर्तकत्वस्यानधिकरणत्वं सिद्ध्यतीत्यर्थः । नन्वत्र चैत्रावृत्तित्वमुपाधिरित्यत आह ॥ न चेति ॥ एतदुपाधित्वे सतीति ॥ एतच्च साध्यव्यापकत्वस्य विशेषणम् । साध्यव्यापकत्वानधिकरणत्वमादाय पक्षे साध्यसिद्धिः ॥ अत एवेति ॥ आभाससाम्यसत्प्रतिपक्षादिनेत्यर्थः ॥ किं चेति ॥ अभावभ्रमादौ व्यभिचारेण । ज्ञानस्य भ्रमानुपादानत्वादित्यर्थः ॥ एतज्जनकेति ॥ एतज्जनक-बाध्यातिरिक्तोपादानक इति पर्यवसितार्थः । न च बाध्यस्याजनकत्वादे-तज्जनकबाध्याप्रसिद्ध्या तदतिरिक्ताप्रसिद्धिरिति वाच्यम् । प्रतियोग्यप्रसिद्धेर-भावप्रसिद्धिं प्रति गुणत्वेन दोषत्वभावात् ॥ प्रयत्नान्यत्वे सतीति ॥ एतच्च प्रवृत्त्यभाव एव निवृत्तिरिति मतमाश्रित्य प्रयत्ने व्यभिचारवारणाय । मतान्तरे तु प्रवृत्तेर्निवृत्त्या निवृत्तेश्च प्रवृत्त्या समानाधिकरणत्वेन साध्यसत्त्वाद्व्यभिचाराभावेन तदनुपादेयमिति ध्येयम् । नन्विच्छाविरोधिद्वेषसिद्धावपि अनिच्छा यथा न सिद्ध्यति तथा ज्ञानविरोधिनः सिद्धावपि कथमज्ञानसिद्धिरित्यत आह ॥ ज्ञानेति ॥ अप्रयोजकत्वादिति ॥ स्मृत्यभावमात्रेणास्मृतत्ववदित्यादिनोक्तस्येति शेषः ।
व्यासाद्रिसृततर्काम्बुपूरैः पक्षयुगं युजि ।
न्यायामृततरङ्गिण्यां नानुमाऽज्ञानसाधिका ॥
न्यायामृतकण्टकोद्धारः
एवमज्ञाने प्रत्यक्षं निरस्यानुमानं निरस्यति ॥ यच्चेति ॥ तस्या इति ॥ साक्षिणोऽज्ञानसाधकत्वेन न तद्बाधकत्वमिति भावः । ननु परोक्षप्रमाया अपि स्वविषयावरणप्रमातृगताज्ञाननिवर्तकत्वात् कथं तत्र बाध इत्यत आह ॥ तस्या इति ॥ न च प्रमातृगताज्ञाननिवर्तकत्वेऽपि विषयगताज्ञानानिवृत्त्या चैतन्याभिव्यक्त्या न विषयापरोक्ष्यमिति वाच्यम् । अपरोक्षवृत्तिस्थलेऽपि तथात्वापत्त्या विषयापरोक्षत्वा-नापत्तेः । तत्राज्ञानद्वयस्य निवृत्तिः, अत्र तु प्रमातृगताज्ञानस्यैवेत्यत्र विनिगमका-भावात् । वृत्तिसम्बन्धस्योभयत्राप्यविशेषात् । वृत्तेस्तन्निष्ठत्वाभावस्य च प्रतिकर्म-व्यवस्थाभङ्गे उपपादितत्वाच्च । अहमज्ञ इत्याद्यनुभवादीनां प्रमातृनिष्ठाज्ञानज्ञापकत्वेन विषयनिष्ठाज्ञाने प्रमाणाभावाच्च । भ्रमादेरन्यथैवोपपत्तेश्चोक्तत्वादिति दिक् । तथा च परोक्षवृत्तौ बाध एवेति परोक्षस्थलेऽज्ञाननिवृत्तिर्नेत्यत्र विवरणसम्मतिमाह ॥ उक्तं चेति ॥ अप्रयोजकत्वमिति ॥ परोक्षवृत्तेरिवापरोक्षवृत्तेरपि उक्तसाध्याभावेऽपि व्यवहारादि-कार्यसम्भवादिति भावः ॥ सर्वेति ॥ न चाधिष्ठानांशे वारणार्थं विवादपदमिति वाच्यम् । तदंशे हेतोर्व्यभिचारो विशेषणे चाप्रयोजकत्वमिति भावः ।
ननु धर्म्यंशे साध्यस्यापि सद्भावान्न व्यभिचार इत्यत आह ॥ तन्निवर्त्येति ॥ न च भ्रमोपादानत्वयोग्यत्वं लक्षणम् । तच्च तत्राप्यस्तीति नाव्याप्तिरिति वाच्यम् । योग्यतावच्छेदकरूपाभावे योग्यत्वस्याप्यसम्भवात् । योग्यत्वे वा कदाचिदपि तज्जातीये भ्रमाद्यापत्तेः । अन्यथा कस्यापि स्वरूपायोग्यत्वं न स्यात् । ननु काल-मादायाज्ञानसम्भवान् न बाधासिद्धी इत्यत आह ॥ स्वस्येति ॥ न च कालस्य सर्वप्रमाणवेद्यतया कथं प्रत्यक्षत्वमिति वाच्यम् । साक्षिमात्रवेद्यत्वेन सर्वप्रमाण-वेद्यत्वाभावात् । कालसामान्यस्य तथात्वेऽपि कालविशेषाणामतीन्द्रियत्वावश्यंभावात् । अन्यथा कदेति प्रश्नायोगात् । प्रश्नादौ विवादोऽपि न स्यात् । यदा च कालविशेषाणां स्थलोपाधीनाम् अतीन्द्रियत्वं तदा सुतरां सूक्ष्माणां क्षणलवादीनां क्षणादीनादायैवा-प्रकाशित्वादिकं वक्तव्यम् । स्थूलोपाधेश्चैकत्वेनोक्तदोषानिस्तारात् । रूपादिचाक्षुषादि-ज्ञानविषयत्वासम्भवाच्च । महत्वसमानाधिकरणोद्भूतरूपवद्द्रव्यस्य चाक्षुषत्वनियमाच्च । अव्यवधानेन नियतोपनायकाभावाच्च ॥ त्वन्मत इति ॥ प्रकाशाप्रसक्तौ सत्यां तत्प्रतिबन्धकत्वेनावरणस्य कल्पनादिति हि त्वन्मतम् । तथा च कथं जडेऽज्ञानम् ? तत्र प्रकाशप्रसक्तेरभावादिति भावः ॥ एकेति ॥ प्रातिस्विकज्ञानेनाज्ञाननिवृत्तेरभावात् । तन्निवृत्तौ च सद्यो मोक्षः स्यात् । अज्ञाननिवृत्तेरेव मोक्षत्वात् । नन्वनेकाज्ञानपक्ष एवेदं साध्यमतो नोक्तदोष इत्यत आह ॥ अवच्छिन्नस्येति ॥ विशिष्टस्य त्वन्मते जडत्वादिति भावः ॥ रूपादीति ॥ इदं तु प्रागेवोपपादितम् ॥ अयमिति ॥ तथा च शाब्दवृत्तौ यथा नावच्छिन्नविषयत्वं केवलघटमात्रविषयत्वं तथा परोक्षवृत्तावपीति भावः । व्यभिचार इत्युपलक्षणम् । अप्रयोजकत्वं चेत्यपि द्रष्टव्यम् ।
एवं पक्षं दूषयित्वा साध्यमपि दूषयति ॥ साध्येऽपीति ॥ प्रागभावव्यतिरिक्तेति विशेषणं व्यर्थमित्यर्थः ॥ यत इति ॥ न च प्रमात्वेन अन्येषां ज्ञाननिवर्त्यत्वं नेति नियमस्यार्थ इति वाच्यम् । अज्ञानेऽपि तेन रूपेण निवर्त्यत्वाभावेनान्येषामिति व्यर्थं स्यात् । न हि प्रमात्वेन ज्ञानमज्ञाननिवर्तकम् । परोक्षप्रमाया अज्ञाननिवर्तकत्वा-भावात् । न चापरोक्षप्रमात्वेन अज्ञानं ज्ञाननिवर्त्यमेवेति वाच्यम् । चरमसाक्षा-त्कारोत्तरानुवृत्ताज्ञाने तदभावात् । तदा ज्ञाननिवृत्तौ जीवन्मुक्तस्य शरीराद्युपलब्धिर्न स्यात् । किञ्च प्रमात्वेन निवर्तकत्वे घटप्रमया पटाज्ञाननिवृत्तिः स्यात् । न च तत्प्रमात्वेन तदज्ञाननिवृत्तिरिति वाच्यम् । एवं हि तत्प्रमात्वेन तत्प्रागभावनिवृत्तिरिति कथमन्येषां प्रमात्वेन ज्ञाननिवर्त्त्यत्वं नेति नियमार्थ इति । न च प्रागभावे निवर्त्ये प्रमात्वं निवर्तकतावच्छेदकं न प्रवेश्यं, गौरवात् । किन्तु तद्व्यक्तित्वमेवेति वाच्यम् । अज्ञानेऽपि तुल्यत्वात् । तस्मादन्येषां ज्ञानसामान्यनिवर्त्त्यत्वाभाव एव नियमार्थ इति स्वनिवर्त्त्यपदेनैव प्रागभावव्यावृत्तिसिद्धेराद्यं विशेषणं व्यर्थमेव । किञ्च द्वितीयविशेषणेन प्रागभावव्यावृत्तिसिद्धेराद्यं व्यर्थम् । न चावरणत्वमस्ति प्रकाश इति व्यवहारविरोधि-त्वम् । तच्च ज्ञानप्रागभावस्यापीति न तेन तद्व्यावृत्तिरिति वाच्यम् । प्रमाणविषयस्य चितोऽज्ञानादिसाक्षितया प्रकाशमानत्वेन साक्षिज्ञानप्रकाशोऽस्ति साक्षी प्रकाशत इत्यादि-व्यवहारे वृत्तिप्रागभावस्य विरोधित्वाभावेनावरणत्वाभावेन तेनैव व्यावृत्तिसिद्धेः । न च घटोऽस्ति घटः प्रकाशत इत्यादिव्यवहारविरोधित्वं प्रागभावस्यास्ति इति वाच्यम् । एवं हि प्रागभावो घटावरणं स्यान् नाज्ञानविषयावरणम् । जडस्याज्ञानविषयत्वानङ्गीकारात् ।
किञ्चाज्ञानेऽपि नैतादृशमावरणत्वम् । परोक्षवृत्तौ सत्त्यामज्ञाने विद्यमानेऽपि अस्ति प्रकाशत इति व्यवहारस्यापि जायमानत्वेन तद्विरोधित्वाभावात् । न चेदमावरणत्वं प्रमातृनिष्ठाज्ञानस्यैव । न विषयनिष्ठाज्ञानस्य । तच्च निवृत्तमेवेति वाच्यम् । आवरणत्व-शून्यत्वस्याज्ञानस्यापारिभाषिकत्वात् । द्वैविध्यकल्पनस्य बहुशो दूषितत्वाच्चेति दिक् ।
॥ अभावेति ॥ न चाखण्डाभावसम्पादकतया सार्थकत्वमिति वाच्यम् । यत् हि अविशिष्टाभावघटिते साध्ये हेतोरप्रयोजकत्वं तत्र विशिष्टाभावसम्पादकतया सार्थकत्वम् । अन्यत्र तु व्यर्थत्वमेव । न च प्रकृते तथा । तथा च कथमखण्डाभावसम्पादकतया सार्थकत्वमिति भावः ॥ जड इति ॥ न च प्रकाशमानत्वेऽप्यस्ति प्रकाशत इति व्यवहारविरोधित्वेनाज्ञानस्यावश्यकत्वमिति वाच्यम् । तादृशव्यवहारे प्रकाशमानत्वस्यैव प्रयोजकतया तत्सत्त्वे व्यवहारावश्यकत्वेनाज्ञानासम्भवात् । चैतन्यमस्ति चैतन्यं प्रकाशत इति व्यवहारस्य सकलसिद्धत्वाच्च ॥ स्वेति ॥ तथा च स्वविषयेति व्यर्थमिति भावः । न च यस्यादृष्टस्य घटज्ञानोत्पादकता पटज्ञानप्रतिबन्धकता च तादृशं स्वोत्पादकादृष्टं विवक्षितम् । तथा च कथमावरणपदेन व्यावृत्तिरिति वाच्यम् । तादृशादृष्टस्य असद्भावे मानाभावात् । सद्भावे वा स्वविषयेत्यनेन तस्यावरणात् । प्रमाणवृत्तिसामान्यस्य पक्षतया स्वपदेन तस्यैव परामर्शेन प्रमाणवृत्तिविषयावरणत्वात् । प्रमाणवृत्तित्वावच्छिन्नविषयत्वावच्छिन्न आवरणत्वस्याज्ञानेऽप्यभावात् । न हि घटाज्ञानं पटावरकम् । न चाज्ञानजातीयं तथेति वाच्यम् । तर्हि यज्जातीयत्वावच्छिन्न-मावरणमिति विवक्षयैव तादृशादृष्टावरणे शेषवैयर्थ्यमेव ।
किञ्च प्रतिबन्धकादृष्टस्यापि क्वचिज्जनकत्वसम्भवेन तस्यापि प्रमाणवृत्तिविषयत्वा-वच्छिन्नावरणत्वाभावेनानेनैव तद्व्यावृत्तिसम्भवेऽग्रिमविशेषणवैयर्थ्यमेवेति दिक् । ज्ञान-मिति यथा नियमस्य नान्योऽर्थस्तथोक्तम् ॥ वृत्तिरिति ॥ न च वृत्तेरप्रकाशत्वेऽपि अज्ञाननिवर्तकत्वमस्तु । अतिप्रसङ्गस्य तत्सन्निकर्षजन्यत्वेन निरासादिति वाच्यम् । तथात्वे हेतोरसिद्धिः । अप्रकाशत्वात् । वृत्त्युपरक्तचैतन्यस्याप्यज्ञानानिवर्तकत्वाच्च ।
ननु वृत्त्या तत्प्रतिबिम्बितचैतन्याभिव्यक्तं घटाधिष्ठानचैतन्यं भवत्वज्ञाननिवर्तकम् । न चाज्ञानसाधकस्य कथं तन्निवर्तकत्वमिति वाच्यम् । केवलस्य साधकत्वेऽप्यभिव्यक्तस्य निवर्तकत्वसम्भवादिति चेन्न । अभिव्यक्तत्वस्य निवृत्ताज्ञानत्वरूपत्वेनाभिव्यक्तत्वेऽज्ञान-निवृत्तिर् अज्ञाननिवृत्तौ चाभिव्यक्ताधिष्ठानचैतन्यमित्यन्योन्याश्रयात् ।
ननु वृत्तिस्तत्प्रतिबिम्बितं चैतन्यमेव प्रकाशकमिति मते नेदमनुमानमित्यत आह ॥ घटाकारेति ॥ तस्यातन्त्रत्वे मिथ्यात्वानुमानमप्रयोजकमेवेति भावः ॥ चरमेति ॥ न च चरमवृत्तिप्रतिबन्धकादृष्टं स्वरूपेण न चरमसाक्षात्कारेण नश्यति । ततः स्वनिवर्त्त्यपदेन तद्व्यावृत्तिसिद्धिः । कारणात्मना तु नश्यतीति मिथ्यात्वसिद्धिरिति वाच्यम् । एतादृशकल्पनायां प्रमाणाभावात् । चरमवृत्त्यनन्तरमपि तत्प्रतिबन्धका-दृष्टसद्भावे प्रमाणाभावाच्च । उपादानोपादेययोरभेदेन कारणात्मना निवृत्तौ स्वरूपेणापि निवृत्तेरावश्यकत्वाच्च ॥ वृत्तेरिति ॥ न चान्तःकरणस्य चिदध्यस्तत्वात् तत्परिणाम-वृत्त्यादेस्तदाश्रितत्वमिति वाच्यम् । तन्तुपरिणामादेः कार्पासनिष्ठत्वानुभवात् । किञ्च ज्ञानस्य शुद्धचैतन्येऽध्यासो ऽन्तःकरणस्य चाज्ञानावच्छिन्न इति कथमेकदेशत्वम् । अवच्छिन्नानवच्छिन्नयोर्भेदात् । जीवनिष्ठसंसारादेः शुद्धनिष्ठत्वापातात् । तथा च शुद्धाशुद्धविभागो न स्यादिति भावः ॥ त्वन्मत इति ॥
न विषयनिष्ठमिति वाच्यम् । तत्सद्भावे प्रमाणाभावात् । उक्तप्रमाणैश्चावरणरूपस्यैव तस्य सिद्धेश्च ॥ अज्ञातत्त्वस्य चेति ॥ न च ज्ञातो घट इत्यादिप्रतीत्यन्यथानुपपत्त्या ज्ञाततावद् अज्ञातो घट इति प्रतीत्यनुपपत्त्याऽज्ञाततापि विषयनिष्ठा स्वीक्रियत इति वाच्यम् । तस्यावरणत्वाभावेन तेनैव परिहारात् । आवरणत्वे वा तेनैवोपपत्त्याऽ-ज्ञानासिद्धिप्रसङ्गाच्च । ज्ञातमित्यादेर्ज्ञानविषयत्वेनैवोपपत्त्या दृष्टान्तासम्प्रतिपत्तेश्च ।
नन्वभावो नावरक इति मतेन साध्यद्वये तात्पर्यम् । तथा हि । स्वप्रागभाव-व्यतिरिक्तस्वनिवर्त्त्यस्वदेशगतवस्त्वन्तरपूर्वकमित्येकं साध्यम् । स्वविषयावरणस्वनिवर्त्त्य-स्वदेशगतवस्त्वन्तरपूर्वकमित्यपरम् । तथा च न वैयर्थ्यमित्यत आह ॥ किञ्चेति ॥ तथा च प्रथमसाध्ये उत्पादकादृष्टेनार्थान्तरम् । द्वितीयतृतीये विशेषणवैयर्थ्यं चेति भावः । न च स्वविषयावरणपूर्वकमित्येव साध्यं क्रियते । तावताप्यज्ञानसिद्धेरप्रत्यूहत्वादिति वाच्यम् । ज्ञानाभावेनैवाप्रकाशिप्रकाशत्वस्य धर्म्यंशे प्रत्यक्षादेवोपपत्त्याऽप्रयोजकत्वे तात्पर्यात् । तावतापि ज्ञाननिवर्त्त्याज्ञानासिद्धेश्च ।
ननु तथात्वे प्रमाप्रागभावप्रतिबन्धकादृष्टाभ्यामर्थान्तरं स्यादित्यत आह ॥ न हीति ॥ अन्यथेति ॥ अविशेषितसाध्यं प्रत्यप्रयोजकत्वाभावेऽपि यदुद्देश्यत्वं तदा वह्नित्वेन विप्रतिपत्तौ प्रमेयवह्नित्वस्यापि साधनापत्तिरित्यर्थः ॥ हेतोवपीति ॥ न च व्यर्थ-विशेषणे हेतौ व्याप्तिरेव नेति वाच्यम् । अविनाभावरूपाया व्याप्तेस्तत्राप्यप्रत्यूहत्वात् । एवं साध्यं दूषयित्वा हेतुं दूषयति ॥ हेतौ चेति ॥ शब्दसामान्येति ॥ न च गो-शब्दवाच्यत्वेन पृथिव्याः शृृङ्गित्वसाधनं न सम्भवति, अनुकूलतर्काभावात् । प्रकृते च न जानामीति प्रतीत्यनुपपत्तिलक्षणप्रतिकूलतर्कपराहतिरेव बाधिकेति वाच्यम् । तस्या ज्ञानाभावविषयत्वेनैवोपपत्तेः । अनुपपत्तेः परिहृतत्वात् । पुरुषे व्यभिचारश्च । न च प्रकाशशब्देन सर्वदेशकालयोर्व्यवह्रियमाणत्वं विवक्षितमिति वाच्यम् । निर्जनदेशे वृक-जीवाज्ञानपक्षे मुक्तिकाले प्रलयकाले च तादृशव्यवहाराभावेन चासिद्धेः । न चास्तु प्रकाशशब्दवाच्यत्वमेव हेतुः । पुरुषे चाप्रकाशितार्थगोचरेति विशेषणाद् व्यभिचारव्युदास इति वाच्यम् । प्रकाशितार्थगोचरत्वाभावस्य तत्रापि सत्त्वात् । न चाप्रकाशितत्त्व-मर्थविशेषणम् । अर्थश्च गोचरत्वविशेषणमिति वाच्यम् । अर्थेऽप्यप्रकाशितत्वं नाम प्रकाशशब्दवाच्यगोचरत्वाभावः । तत्र किं यत्किञ्चित् प्रकाशशब्दवाच्यगोचरत्वाभावो वा प्रकाशशब्दवाच्यत्वावच्छिन्नगोचरत्वाभावो वा । नाद्यः । प्रकाशितप्रकाशे व्यभिचारात् । न द्वितीयः । प्रकाशशब्दवाच्यपुरुषगोचरत्वाप्रसिद्ध्या तदवच्छिन्नगोचरत्वरूपप्रतियोग्य-प्रसिद्ध्या तदभावस्यासिद्धेः । अप्रकाशितत्वाभावश्च पक्षे मूले एव स्पष्टं प्रतिपादयिष्यते ।
एतेनाप्रकाशविरोधिप्रकाशत्वादिति विवक्षितमिति परास्तम् । प्रकाशशब्दवाच्या-भावविरोधित्वे सति प्रकाशशब्दवाच्यत्वादि । अन्यस्य दृष्टान्तदार्ष्टान्तिकोभयसाधारणत्वा-भावात् । तथा च प्रकाशशब्दवाच्ये पुरुषे व्यभिचारः स्पष्ट एवेत्यलं मृतमारणेन । उक्तमर्थं कारिकारूढं करोति ॥ एवं चेति ॥ एवं विशेष्यासिद्धिमुक्त्वा विशेषणा-सिद्धिमाह ॥ किं चेति ॥ ब्रह्मान्यप्रकाशकत्वे तस्य तस्य बाधितत्वेनाबाधितार्थकत्व-रूपप्रमाण्यविघात इत्यर्थः । न च प्रकाशितत्त्वं न प्रकाशत इति व्यवहारगोचरत्वम् । तच् चितोऽप्यस्तीति वाच्यम् । प्रकाशमाने न प्रकाशत इति व्यवहारासम्भवात् । अन्यथा घटे प्रकाशमानेऽपि तथात्वापातात् । एवं सम्पूर्णासिद्धिमुक्त्वा व्यभिचारमप्याह ॥ किं चेति ॥ व्यभिचारो वा बाधो वेति ॥ अनुमितेरपक्षत्वे व्यभिचारः । पक्षत्वे बाध इति व्यवस्थितविकल्पार्थो वाशब्दः । हेतुसत्त्वमुक्त्वा साध्याभावमाह ॥ अस्या इति ॥
नन्वज्ञानस्य स्वरूपतः साक्षिवेद्यत्वेऽपि तद्गतमनादित्वादिकं न साक्षिवेद्यम् । अन्यथा तत्र विवादो न स्यात् । अतस्तद्विषयाज्ञानमस्त्येवेति वाच्यम् । अनुमिते-र्व्यापकतावच्छेदकप्रकारकत्वनैयत्येनानुमितावपि तस्याविषयत्वेन तया तज्ज्ञाननिवृत्तिर्न स्यात् । अनादिभावत्वादेरपि जडत्वेन अज्ञानविषयत्वायोगाच्च । त्वन्मते प्राति-भासिकाज्ञाननिष्ठस्य प्रातिभासिकत्वनियमेनानादित्वादेरपि प्रातिभासिकतयाऽज्ञान-विषयत्वायोगाच्च । धर्मधर्मिणोरभेदेनानादित्वादेरपि साक्षिविषयत्वापरिहाराच्च । तस्मा-दज्ञानानुमितौ व्यभिचारः सुस्थः । उपलक्षणं चैतत् । विपर्यये व्यभिचारश्च । न चाप्रकाशितत्वस्याज्ञानविषयत्वरूपस्य प्राक्कालसत्त्वघटिततया विपर्ययविषयेऽभावाद् विपर्ययेन हेतुवृत्तिरिति वाच्यम् । प्रकाशशब्दवाच्यगोचरत्वाभावरूपस्याप्रकाशितत्त्वस्य विपर्ययविषयेऽपि सत्त्वात् । अन्यस्य पक्षेऽसिद्धत्वेनासिद्ध्यापत्तेरिति ॥ दृष्टान्तेऽपीति ॥ न चान्धकारोत्पन्नपटे चान्धकाराव्यवहितोत्पन्नत्वं विवक्षितम् । तच्च द्वितीयप्रभायामिति प्रथमविशेषणं सार्थकमिति वाच्यम् । लाघवादन्धकारसमानकालीनत्वविवक्षया द्वितीयादिवारणेन प्रथमविशेषणानर्थक्यतादवस्थ्यात् । अपदार्थत्वस्योभयत्र तुल्यत्वात् । विशेषणान्तरविवक्षया विशेषणसार्थक्योपपादनस्यानुचितत्वाच्च ॥ दृष्टिसृष्टीति ॥ न च दृष्टिसृष्टिपक्षे नेदमज्ञानसाधकमिति वाच्यम् । तर्हि तत्पक्षेऽज्ञानासिद्ध्यापातात् । प्रमाणान्तराभावात् । प्रत्यक्षस्य निरासात् । आगमादेश्च निरसिष्यमाणत्वात् । इदानीं सत्प्रतिपक्षमाह ॥ अनादित्वे सतीति ॥ न च पक्षभेदे कथं सत्प्रतिपक्षत्वम् । अन्यथाऽतिप्रसङ्गादिति वाच्यम् । विरोधित्वमात्रस्यैव सत्प्रतिपक्षत्वे तन्त्रत्वेन पक्षैक्यस्यातथात्वात् । अत एव केवलान्वयिनि सत्प्रतिपक्षावतारः । अन्यथा तत्र सत्प्रतिपक्षाभावेऽसत्प्रतिपक्षोपदर्शकावयवोऽपि तत्र न स्यात् । न चोक्तानुमानानाम् अप्रयोजकत्वेन दुर्बलत्वम् । सिद्धान्त्यनुमानं तु न तथेति वाच्यम् । तत्राप्य-प्रयोजकत्वस्य वक्ष्यमाणत्वात् । निरुपाधिकसहचारस्यैव विपक्षबाधकत्वसम्भवाच्च । न चाद्यानुमानमविरोधित्वेनानादिभावत्वस्य निवर्त्त्यनिष्ठत्वेऽप्यनाद्यभावविलक्षणत्वस्य निवर्त्त्यनिष्ठत्वे बाधकाभावादिति वाच्यम् । अभावविलक्षणत्वस्य भावत्वनियतत्वेन वा तस्य च भावत्वरूपत्वेन वा तस्य निवर्त्त्यानिष्ठत्वेनैव तस्यापि निवर्त्त्यनिष्ठत्वाभाव-सिद्धेः । न च द्वितीयानुमानेऽनादिमात्रवृत्तित्वमुपाधिरिति वाच्यम् । ध्वंसत्वे साध्याव्यापनात् । पक्षमात्रव्यावर्तकविशेषणत्वं न, पक्षेतरत्वाच्च । सिद्धान्त्यभिप्रेतानु-मानस्यापि भूतरूपवत्तेजस्त्वेनोपाधिना सोपाधिकत्वाच्च । न च तृतीयचतुर्थयोः सकलनिवर्त्त्यावृत्तित्वमुपाधिः । प्रागभावजन्यप्रागभावान्यतरत्वे साध्याव्यापकत्वात् । न च पञ्चमे सकलानाद्यवृत्तित्वमुपाधिरिति वाच्यम् । तमोऽन्यत्वे साध्याव्यापकत्वात् । न च तस्य प्रागभावनिष्ठत्वेन साध्याधिकरणत्वमेव नेति वाच्यम् । प्रागभाव-स्यावरणत्वाभावस्य प्रागेवोपपादितत्वात् । अन्यथा तेनैवार्थान्तरतापत्तेः । पक्षमात्र-व्यावर्तकविशेषणत्वेन पक्षेतरत्वाच्च । न च षष्टे प्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धिरिति वाच्यम् । शब्दाभासादिना तत्प्रसिद्धिसम्भवात् । अन्यथा सद्वैलक्षण्यज्ञानं तवापि न स्यात् । गौरवेण प्रतियोगिप्रमात्वेन कारणत्वाच्चेति दिक् ।
अप्रयोजकत्वमप्याह ॥ पूर्वमिति ॥ अन्यथा स्मृतत्वादेः पदार्थान्तरतापत्तिरिति भावः । बाधमप्याह ॥ किं चेति ॥ नन्वनधिष्ठानत्वेऽपि तज्ज्ञानत्वमस्त्वित्यत आह ॥ त्वन्मते हीति ॥ न त्वाध्यासिकसम्बन्धस्य अतन्त्रत्वप्रसङ्गादिति भावः । न च वृत्त्यभिव्यक्तस्याधिष्ठानत्वात् तत्प्रकाशत्वमिति वाच्यम् । अन्योन्याश्रयादिति ।
अत्र कश्चिद् विवादगोचरापन्नमित्यनेन जन्यसविकल्पकाजन्यचाक्षुषप्रमाणज्ञानम् अन्धकारनिवृत्त्यव्यवहितोत्तरकालीनचाक्षुषज्ञानं वा विवक्षितम् । अत्र च प्रमाणज्ञानस्य पक्षत्वात् । चाक्षुषेत्यनेन च परोक्षवृत्तेः सविकल्पकाजन्येत्युक्त्या धारावाहिकबुद्धि-व्यावृत्तिः । अस्मन्मते तु धारावाहिकबुद्धिरेव नास्ति । एकस्यैव ज्ञानस्य तावत्पर्यन्त-मवस्थानसम्भवात् । न तस्य पक्षातापत्त्या बाधः । पराभिमतेश्वराज्ञानादिव्यावृत्तये चाक्षुषप्रमाणज्ञानेति । परमते सर्वस्यापि जन्यज्ञानस्य ईश्वरसविकल्पकजन्यत्वात् । जन्यज्ञानजन्यत्वाच्च । पक्षाप्रसिद्धिवारणाय जन्यसविकल्पकाजन्येति उभयोपादानम् । यथेश्वरानुमाने जन्यविशेषणम् । एवमेव द्वितीयनिरुक्तावपि । एवं च पक्षदूषणानव-काशः । साध्ये च स्वशब्दः समभिव्याहृतपरः । अत्र च स्वप्रागभावपदेन स्वसमानाधि-करणप्रागभावः कथ्यते । स्वविषयावरण इत्यनेन स्वजननायोग्यत्वं स्वनिवर्त्त्येत्यनेन स्वजन्यध्वंसप्रतियोगित्वं स्वदेशगतेत्यनेन स्वाश्रये वर्तमानत्वम् । एवं च पक्षीभूत-ज्ञानस्य घटापटादिसंयोगजनकत्वसम्भवात् तत्प्रागभावः स्वनिवर्त्त्य इति । संयोगादि-प्रागभावात्मत्वस्वजनकादृष्टेच्छाप्रागभावपूर्वकत्वेनार्थान्तरतावारणायैतानि विशेषणानि । अज्ञाने चैवं भूतमिति न बाधः । स्वप्रागभावान्यत्वं चाभावान्यत्वादन्यदेवेति न तद्वैयर्थ्यम् । अथवा प्रमाणज्ञानस्य प्रागभाव एव स्वप्रागभावः । स्वविषये संशया-जननयोग्यमेव स्वविषयावरणम् । स्वसत्ताक्षणनियतप्रतियोगिस्वनिवर्त्त्यम् । ततश्च प्रागभावोऽपि परमते विशेषदर्शनतया संशयादिजनक इति । स्वप्रागभावस्वजनका-दृष्टान्धकारादिव्यावृत्तये स्वप्रागभावेत्यादि विशेषणम् । परमते मनःसंयोगपूर्वकत्वे-नार्थान्तरतानिवृत्तये स्वनिवर्त्त्येति । अथवा पराभिमतप्रागभावान्यत्वघटज्ञानसमान-विषयत्वज्ञाननिवर्त्त्यत्वज्ञानसमानाश्रयत्वविशिष्टाज्ञानसिद्ध्यर्थानि विशेषणानीति न कस्यापि वैयर्थ्यम् । एकेनापि तेन विनोद्देशासिद्धेः । न चाज्ञानस्य कथं प्रमाणज्ञान-समानाश्रयत्वमिति वाच्यम् । अज्ञानाश्रयघटत्वावच्छिन्नचैतन्ये वाऽन्तःकरणावच्छिन्नत्व-मिति तन्निष्ठज्ञानस्यैवाज्ञानसमानाश्रयत्वमिति । न च नीरूपस्य ब्रह्मणः कथं चाक्षुषज्ञानविषयत्वम् ? महत्त्वसमानाधिकरणोद्भूतरूपवत एव चाक्षुषत्वादिति वाच्यम् । परमते घटः सन्निति चाक्षुषज्ञाने सत्ताया इव तदुपपत्तेः । सत्तास्थानीयत्वाद् ब्रह्मणः । न च सत्ताया जातित्वाद् आत्मनस्तु द्रव्यत्वात् कथं सत्तातुल्यत्वमिति वाच्यम् । ज्ञानानन्दादिरूपत्वेन पराभिपे्रतात्मवैलक्षण्याङ्गीकारात् । तथा च सत्तातुल्यतैवेति । एवं च साध्यविशेषणानां सार्थकत्वेन साध्ये न वैयर्थ्यम् । हेतुरप्यप्रकाशितार्थप्रकाशकत्वम् । न चोक्तदोषः । एतद्विषयावरणसमयवृत्तित्वे सति एतदावरणनिवर्तकत्वम् । न च वर्णिताज्ञानातिरिक्तप्रमाणज्ञाननिवर्त्त्यविषयावरणमस्ति । येन साध्यं विना हेतोरनु-पपत्तेर्नाप्रयोजकतापि । स्वप्रागभावस्य स्वानिवर्त्त्यत्वान् न तेनोपपत्तिः । वस्तु-तस्तदभाव एव । न चोक्तहेतोरसिद्धिः । ज्ञानेनाज्ञानं निवृत्तमित्यनुभवेन ज्ञानेन तु तदज्ञानमिति स्मृत्या च सिद्धेः । एवं च न कोऽपि दोष इत्याह ।
तन्न । धर्म्यंशे सति कल्पके तथाऽपि बाधात् । न हि तदंशेऽप्यज्ञानं तवापि सम्मतम् । अन्यथा तदंशे भ्रमाभावेन तज्ज्ञाने भ्रमोपादानत्वलक्षणस्याव्याप्तिप्रसङ्गात् । किं च धारावाहिकद्वितीयादिबुद्धौ बाधोऽसिद्धिश्च । न च धारावाहिकबुद्धेर्जन्य-सविकल्पकजन्यत्वाज् जन्यसविकल्पकाजन्येत्यनेन तद्व्यावृत्तिरिति वाच्यम् । मया विशिष्टज्ञाने विशेषणज्ञानस्य हेतुत्वानङ्गीकारात् । त्वयाऽप्यनङ्गीकाराच्च ।
किं च निर्विकल्पकानङ्गीकारेण जन्यज्ञानाजन्यत्वेनैव पूर्णत्वे सविकल्पकेत्यस्य वैयर्थ्याच्च । किञ्च चाक्षुषघटज्ञानविषये घटे आवरणरूपाज्ञानाभावेन बाधः । जडे प्रकाशप्रसक्त्यभावेन तत्प्रतिबन्धकत्वेनाज्ञानाङ्गीकारात् । न च चाक्षुषघटज्ञानपदेन घटा-वच्छिन्नचैतन्याज्ञानं विवक्षितमिति वाच्यम् । आश्रयासिद्धेः । अवच्छिन्नस्यापि घटतुल्यत्वेन तत्राप्यज्ञानासम्भवात् । तस्मान्न धर्मिसिद्धिः । साध्येऽप्याद्यविवक्षायां भ्रान्तिसंशयपूर्वकत्वेनार्थान्तरम् । अस्ति च भ्रान्तिसंशययोरुक्तविशेषणवत्ता । तयोः स्वप्रागभावव्यतिरिक्तत्वात् । व्यभिचारेण प्रमाणज्ञानजननायोग्यत्वात् । स्वनिवर्त्त्यत्वात् स्वदेशगत्वाच्च । न च तत्र न स्वनिवर्त्त्यत्वमिति वाच्यम् । अज्ञानेऽपि तदभाव-प्रसङ्गात् । ज्ञानेनाज्ञानं निवृत्तमित्यनुभवात् तत्र तदङ्गीकारे सम्यग्ज्ञानेन संशयो वा भ्रान्तिर्वा निवृत्तेत्यनुभवेन तत्रापि तदङ्गीकारणीयम् । न च तयोः स्वत एव निवृत्तिरिति वाच्यम् । सकलनिवृत्तकतत्त्वज्ञानसाध्यत्वात् । किं च प्रथमविवक्षया बाधः । अज्ञानस्य वासनोपादानत्वेन स्वजननयोग्यत्वाच्च । द्वितीयविवक्षायामपि ताभ्यामेवार्थान्तरम् । न च द्वितीयपक्षे कथं संशयादिनाऽर्थान्तरम् ? तस्य स्वविषये संशयजननयोग्यत्व-रूपावरणत्वाभावादिति वाच्यम् । संशयादेस्तत्त्वेन संशयादिकं प्रत्ययोग्यत्वेऽपि धारावाहिकसंशयादिकमादाय पूर्वस्य संशयादेरुत्तरत्र संशयादिकं प्रति धर्मिज्ञानत्वेन विशेषणज्ञानत्वेन तज्जननयोग्यत्वात् ।
किं च द्वितीयपक्षे स्वप्रागभावस्य न संशयादिजननयोग्यत्वम् । प्रमाणज्ञान-प्रागभावस्य संशयाद्यहेतुत्वात् । अन्यप्रागभावस्यान्यत्राहेतुत्वात् । तथा च तेनैव स्वप्रागभावनिवारणे प्रथमविशेषणे वैयर्थ्यमेव । न च विशेषादर्शनतया संशयादि-जननयोग्यतेति वाच्यम् । विशेषादर्शनस्य हेतुत्वे विशेषदर्शनकालेऽपि संशयापत्त्या तत्सामग््रयभावस्यैव हेतुत्वात् । विशेषदर्शनानन्तरं च न संशयः । कोटिस्मरणाभावात् । किं च प्रथमविवक्षायामपीच्छाभावस्य स्वसमानाधिकरणत्वात् । स्वदेशगतेत्यनेन तद्व्यावृत्तेस्तेनैवार्थान्तरम् । तद्विशेषणवैयर्थ्यं च । न च द्वितीयविवक्षायामपि न स्वदेशगतेत्यनेन तमोवारणम् । प्रमाणजनितघटाकारवृत्तेर्घटनिष्ठत्वेन तमसोऽपि तद्देशगतत्वात् । अज्ञानस्य चैतन्यमात्राश्रयतया वृत्तेस्त्वन्तःकरणावच्छिन्नाश्रयतयाऽ वच्छिन्नशुद्धयोर्भेदेन समानाश्रयत्वस्याज्ञानेऽसम्भव एव । अन्यथा विशिष्टनिष्ठसंसारादेरपि शुद्धनिष्ठत्वापत्तेः । ब्रह्मणश्च गुणवत्वादिना द्रव्यत्वमन्यत्रोपपादितमिति न सत्तातुल्यता । तस्य चाक्षुषादिविषयत्वे च औपनिषदत्वभङ्गश्च । अवच्छिन्नस्य कल्पितत्वादेव नाधिष्ठानत्वमित्यादि ज्ञातव्यम् । प्रथमविवक्षायामप्यन्त्यविशेषणं व्यर्थमेव । अन्वय-व्यतिरेकयोरभावेनान्यतरकर्मादिनैव संयोगस्योपपत्त्या प्रमाणज्ञानस्य संयोगाजनकत्वेन संयोगप्रागभावस्य स्वनिवर्त्त्यत्वाभावात् ।
किं चोभयत्राभावव्यतिरिक्तेत्यनेनैवोपपत्त्या प्रागिति व्यर्थमेव । न चाखण्डा-भावत्वेनोपपत्तिः । यत्र च विशेष्याभावेन न कार्यनिर्वाहस् तत्र विशिष्टाभावोपपादनात् । तत्र च वैयर्थ्ये तथा समाधानात् । अन्यथा धूमाभावे साध्ये प्रमेयवह्न्यभावोऽपि हेतुः स्यादिति । किं च पक्षद्वयेऽपि स्वविषयावरणेत्यनेनैव प्रसक्तप्रकाशप्रतिबन्धकत्व-रूपावरणत्वमादाय सर्वनिवारणेऽनुपयुक्तकुसृष्टियुक्तिविवक्षया विशेषणान्तरसार्थक्यकथना- योगात् । अन्यथा प्रमेयत्वे सति धूमवत्वादिति प्रयुक्ते वैयर्थ्येऽभिहिते आरोपितधूम-व्यभिचारवारणाय विशेषसार्धक्यमिति स्यात् । तस्मान्न विवक्षाद्वयं युक्तम् । नाप्युद्देश-सिद्ध्यर्थमिति तृतीयः प्रकारः । यत्राविशिष्टं साध्यं प्रत्यप्रयोजकता तत्रैवोद्देश्य-सिद्ध्यर्थत्वात् । न चेश्वरानुमानप्रतिबन्दी । तत्रादृष्टजनकज्ञानादिनाऽर्थान्तरत्वे प्राप्ते दुष्टप्रागभावेत्यादिविशेषणोपादानात् । न ह्यत्रार्थान्तरता । न वा तैर्विशेषणैस्तत्परिहारः । अन्यथाऽनुपयुक्तप्रमेयत्वादि विशेषणान्यादाय वैयर्थ्ये उद्देश्यसिद्ध्यर्थमिति स्यात् । यत्र च भेदसाधने ब्रह्म स्वसमसत्ताकभेदवदभ्रान्तत्वादित्यनुमानविशेषणोपादानं तत्रार्थान्तरता-निवृत्तिरूपप्रयोजनमप्यस्तीति दिक् ।
नाप्युक्तो हेतुर्युक्तः । असिद्धेर्निवर्त्त्यनिवर्तकयोरेकसमयावृत्तित्वे वा समानाधिकरणत्वे वा निवर्त्त्यनिवर्तकभावायोगात् । किं चोक्तावरणत्वस्य प्रागभावेऽपि सत्त्वेन तन्नवर्तकत्वेनैवोपपत्त्याऽप्रयोजकत्वाच्च । न च प्रागभाव एव नास्तीति वाच्यम् । तस्य पुरैव साधितत्वात् । परोक्षवृत्तौ व्यभिचारश्च । न च तत्र तन्निवर्तकतैव नेति वाच्यम् । परोक्षज्ञानेनाज्ञानं निवृत्तमित्यनुभवात् । न च तदपि पक्षतुल्यमिति वाच्यम् । परोक्षस्थलेऽज्ञाननिवृत्त्यनङ्गीकारात् । किं च पक्षे हेतुज्ञानाभावात् कथमनुमानम् ? न च ज्ञानेनाज्ञानं निवृत्तमित्यनुभवाज् ज्ञानेन तु तदज्ञानमिति स्मृतेश्च तत्सिद्धिरिति वाच्यम् । तत्राज्ञानपदेन ज्ञानप्रागभावस्य भ्रान्त्यादेर्वोक्तेः । ज्ञानविरोधित्वरूपाज्ञानत्वस्य तत्रापि सद्भावात् । ज्ञानत्वाधिकरणतया प्रतीयमानस्य कथमज्ञानत्वमिति चेन्न । न हि ज्ञानसामान्यविरोधित्वम् अज्ञानत्वम् । तस्याज्ञानेऽपि भावात् । न हि भ्रान्त्या-ज्ञाननिवृत्तिर्भ्रान्तेरज्ञानोपादानकत्वे भ्रान्तौ विद्यमानायां तदावश्यकत्वात् । तस्माज् ज्ञानविशेषविरोधित्वेनाज्ञानत्वं वाच्यम् । तच्च भ्रान्तावपि तुल्यम् । न च भ्रान्तिः स्वयमेव निवर्तत इति वाच्यम् । दत्तोत्तरत्वात् । साध्यावैशिष्ट्याच्च । न च साध्य-मनेवंरूपमिति कथं तदवैशिष्ट्यमिति वाच्यम् । साध्यं यथा सन्दिग्धं तथा सन्दिग्ध-मित्यर्थात् । न चाज्ञानसिद्धिः । पूर्वमपि हेतोः सामान्यतो ज्ञानं सम्भवतीति वाच्यम् । अज्ञानसिद्धेः पूर्वं प्रागभावमादायैव हेतुज्ञानेनैवोपपत्त्याऽप्रयोजकत्वम् । आवरणनिवर्त-कत्वेनैवोपपत्त्या प्रथमविशेषणवैयर्थ्यं च । एतेनैव प्रकारेण अन्यकुविवक्षान्तरमपि दूषणीयमित्यलं मृतमारणेनेति ।
यत्तु सर्गाद्यकालीनं कार्यं जडोपादानं कार्यत्वात् सम्मतवद् इत्यणुव्यतिरिक्ता-नादिजडोपादानसिद्धावनादित्वे सति जडोपादानत्वं भावत्वं वा ज्ञाननिवर्त्त्यवृत्ति जड-वृत्तित्वाद् घटत्वादिवत् । न च भावत्वस्य जीवत्वादिवृत्तित्वेनार्थान्तरत्वम् । ज्ञानत्वादेरपि तस्य ज्ञाननिवर्त्त्यत्वादिति भावरूपाज्ञानसिद्धिरिति । तदतितुच्छम् । दृष्टान्ते साध्यवैकल्यात् । न ह्यज्ञानासिद्धौ घटादेरपि घटत्वासिद्धौ घटादेर्ज्ञाननिवर्त्त्यत्वं सिद्धम् । किं चानादिभावत्वस्यापि नाश्यतावच्छेदकत्वेन तस्य निवर्त्त्यत्वासमानाधि-करणतया निवर्त्त्यसमानाधिकरणत्वबाधः । अन्यथा ब्रह्मत्वं निवर्त्त्यवृत्ति पदार्थवृत्तित्वाद् घटत्ववद् इत्यपि स्यात् । न च निवर्त्त्यवृत्तीत्येव साध्यम् । अज्ञानसिद्ध्याऽर्थान्तर-त्वात् । ध्वंसत्वे व्यभिचाराच्च । ध्वंसस्यापि निवृत्त्यङ्गीकारेऽज्ञाननिवृत्तेरपि निवृत्तौ मुक्तस्य संसारित्वापत्तेः । न च ध्वंसत्वं न जडवृत्तीति वाच्यम् । ध्वंसस्य चेतनत्वा-पत्तेः । न च ध्वंसो ब्रह्मरूप एवेति वाच्यम् । साध्यासाध्ययोरैक्यायोगात् ।
किं चानादित्वे सति जडोपादानत्वं भावत्वं वा न निवर्त्त्यवृत्त्यनादिभावमात्र-वृत्तित्वाद् ब्रह्मत्ववदिति सत्प्रतिपक्षताया भाववृत्तित्वानवच्छिन्नसाध्यव्यापकं सादि-वृत्तित्वमुपाधिश्च । निवर्त्त्यवृत्तित्वाभावेऽपि जडवृत्तित्वोपपत्त्याऽप्रयोजकता चेति अलमतिविस्तरेण ।
एतेनैव ध्वंसातिरिक्तप्रत्यक्षधर्माजनकं घटादिजन्यज्ञानं वृत्तिजातिमदतिरिक्तप्रत्यक्ष-निवर्तकं स्वसामग्रीकाले स्वसमानाधिकरणज्ञानाविषयविषयजन्यज्ञानत्वाद् ध्वंसजनक-प्रतियोगिप्रत्यक्षवद् ब्रह्मसाक्षात्कारः स्वविषयाज्ञाननिवर्तकः प्राथमिकसाक्षात्कारत्वाद् घटादिसाक्षात्कारवदिति निरस्तम् । ज्ञानप्रागभावसंशयभ्रान्तिनिवर्तकत्वेनार्थान्तरत्वाद् अप्रयोजकत्वाच्च । न चाज्ञानातिरिक्तस्य न ज्ञाननिवर्त्त्यत्वमिति वाच्यम् । अनुभवबलेन भ्रान्त्यादेरपि तन्निवर्त्त्यत्वात् । न चाज्ञानाभावे भ्रमाभाव इति वाच्यम् । दोषादिनैव तदुपपत्तेः । न च मोक्षशास्त्रानारम्भप्रसङ्गो बाधकः । भ्रान्त्यादिनिवर्तकत्वेन तदारम्भ-सम्भवाद् इति दिक् ।
अथ तत्त्वप्रदीपिकोक्तमनुमानं दूषयति ॥ द्वितीयानुमानेऽपीति ॥ न च प्रमा-पदेनान्तःकरणवृत्तिरेव विवक्षितेति वाच्यम् । धर्म्यंशप्रमाधारावाहिकद्वितीयादिप्रमा-परोक्षप्रमासु बाधापरिहारात् । अन्यत्तु प्रथमानुमानदूषणानुसारेण ज्ञेयम् ॥ वृत्तेरिति ॥ न चात्मनो वृत्त्यवच्छेदे न वृत्तेस्तद्गतत्वमिति वाच्यम् । अत्र चैत्रशब्देन चैतन्य-मात्रग्रहणे विशेषणासामर्थ्यम् । शरीरविशिष्टस्य ग्रहणे च शरीरविशिष्टे प्रमाया अभाव एव । अन्तःकरणविशिष्टस्य ग्रहणे तु विशिष्टनिष्ठया वृत्त्या न विशेष्यमात्रनिष्ठनिवृत्तिः । अन्यनिष्ठेनान्याज्ञानानिवृत्तेः । विशिष्टविशेष्ययोर्भेदादित्यत्र तात्पर्यम् । चैत्रासमवेतत्वस्य चैत्रान्यसमवेतत्वस्य वोपाधित्वं च । न च चैत्रसुखादौ साध्याव्यापकत्वमिति वाच्यम् । ज्ञानत्वरूपपक्षधर्मावच्छिन्नसाध्यव्यापकत्वात् ॥ चैत्रप्रमेति ॥ न चात्र प्रतियोग्य-प्रसिद्ध्या कथमभावसाधनमिति वाच्यम् । शब्दाभासादिना प्रतियोगिज्ञानसम्भवात् । न ह्यावयोर्मते प्रतियोगिप्रमाऽपेक्षिता । अन्यथा सद्वैलक्षण्यज्ञानं न स्यात् ॥ न चेति ॥ चैत्रासमवेतत्त्वं ज्ञानत्वरूपपक्षधर्मावच्छिन्नसाध्यव्यापकत्वमुपाधिः । चैत्रप्रमा चैत्र-गतस्यानादेर्निवर्तिका न प्रमात्वान् मैत्रप्रमावद् इत्याभाससाम्यं च ॥ उक्तेति ॥ तथा चानुकूलतर्केण हेतुसाध्ययोर्व्याप्यव्यापकभावग्रहे साध्यव्याप्यहेत्वव्यापकत्वादुपाधेः साध्याव्यापकत्वम् अत एव नाभाससाम्यं चेत्यर्थः ॥ चैत्रगतेति ॥ न च चैत्र-गतप्रमाभावातिरिक्तस्य स्वजन्यव्यवहारप्रागभावस्य निवर्तकतया साधनव्यापकत्वान्नाय-मुपाधिरिति वाच्यम् । अभावाभावोऽतिरिक्त इति मते तदसम्भवात् । येन व्यवहारो नोत्पादितस्तत्र साधनाव्यापकत्वसम्भवात् । न हि सर्वमेव ज्ञानं व्यवहारजनकमिति नियमः । न च तत्रापि निवृत्तिजननयोग्यरूपं निवर्तकत्वमस्त्येवेति वाच्यम् । योग्यता-वच्छेदकानिरुक्त्या तदसम्भवात् । निवृत्तिफलोपहितत्वस्यैवोपाधित्वसम्भवाच्च ।
ननु व्यतिरेकहीनः कथमुपाधिरित्यत आह ॥ व्यतिरेकेति ॥ आभाससाम्यं चेति ॥ न चानुकूलतर्कसद्भावान्नाभाससाम्यम् । अनुकूलतर्काभावस्य प्रागेव व्युत्पादि-तत्वात् ॥ किं चैवमिति ॥ विशिष्टव्यतिरेकिण इत्यस्य सुवचत्वादित्यनेनान्वयः ॥ अत एवेति ॥ सत्प्रतिपक्षाप्रयोजकत्वादित एवेत्यर्थः ॥ विगीतो भ्रम इति ॥ न च त्वन्मते बाध्यजनकत्वस्याप्रसिद्धेः साध्याप्रसिद्धिरिति वाच्यम् । पररीत्या प्रसिद्धि-सम्भवात् । प्रतियोगिज्ञानमात्रस्याभावप्रतीतिकारणत्वादित्युक्तमेव । न च मायाब्रह्मणो-रुभयोरुपादानत्वादविरोध इति वाच्यम् । एतज्जनकबाध्यातिरिक्तमात्रोपादानक इति साध्यकरणात् । ब्रह्मण उपादानत्वासम्भवस्य वक्ष्यमाणत्वाच्च ॥ एतेनेति ॥ उपलक्षण-मेतत् । सत्प्रतिपक्षतोपाध्यादिकमपि द्रष्टव्यम् । एतेनैव ज्ञानविरोधित्वम् अनादि-भावत्वसमानाधिकरणं ज्ञानविरोधिवृत्तित्वाद् दृश्यत्ववत् । अनाद्यभावविलक्षणत्वं ज्ञान-विरोधिवृत्त्यनाद्यभावविलक्षणमात्रवृत्तित्वात् । अभिधेयत्ववदिति निरस्तम् । ज्ञान-विरोधित्वं नानादिभावत्वसमानाधिकरणं ज्ञानविरोधिन्येव वृत्तित्वात् । ज्ञानप्रागभावत्व-वदिति प्रथमानुमाने सत्प्रतिपक्षताऽबाध्यवृत्तित्वमुपाधिश्च । द्वितीयानुमाने चानाद्यभाव-विलक्षणत्वं न ज्ञानविरोधिवृत्त्यनाद्यभावविलक्षण एव वृत्तित्वाद् ब्रह्मत्ववदिति सत्प्रति-पक्षता । आत्मगुणज्ञानाभावान्यतरवृत्तित्वस्योपाधित्वात् । अप्रयोजकत्वानिस्ताराच्च । एवमेवान्यदप्यनुमानं निरसनीयमिति दिक् ॥
न्यायामृतप्रकाशः
आद्यानुमाने साध्यहेतुपक्षदृष्टान्तान्विविच्य दूषयितुमादौ तावत्त्वन्मते पक्षालाभ इत्या-शयेन पक्षं विविच्य दूषयति ॥ यच्चेति ॥ सुखादीति ॥ साक्षिरूपसुखादिप्रमाया अपि प्रमाणभूतज्ञानत्वेन पक्षकोटिनिविष्टत्वादिति भावः । तस्य स्वनिवर्त्यवस्त्वन्तरपूर्वकत्वं नास्तीत्याह ॥ तस्या इति ॥ साक्षिणोऽज्ञानसाधकत्वेन तदनिवर्तकत्वादित्यर्थः । उक्तदूषणपरिहाराय पक्षं सङ्कोचयति ॥ वृत्तेरिति ॥ सूक्षिरूपप्रमाणज्ञानभिन्नाया इत्यर्थः ॥ बाध इति ॥ तस्याः स्वविषयेऽज्ञानानिवर्तकत्वात् परोक्षवृत्तौ स्वविषयावरणस्य स्व-निवर्त्यत्वाभावाद्बाध इति भावः । परोक्षवृत्तेरपि स्वविषयेऽज्ञाननिवर्त्तकत्वमङ्गीकृत्य बाध-परिहारे बाधकमाह ॥ तस्या इति ॥ तद्विषयस्य परोक्षवृत्तिविषयस्य ॥ सम्भेदेनेति ॥ सम्बन्धेनेत्यर्थः । परोक्षवृत्तेः स्वविषयेऽज्ञानानिवर्त्तकत्वे संमतिमाह ॥ उक्तं चेति ॥ विषयत्वं नानुमेयादौ सुषुप्तिर् व्यावृत्तिः सा चाभावो न भवतीति विवरणवाक्यम् । तस्याय-मर्थः । सुषुप्तिरविद्या तथा च सुषुप्तिव्यावृत्तिरेवाज्ञाननिवृत्तिरेव लोके घटादेर्विषयत्वम् अभावोऽभावरूपा च सा सुषुप्तिव्यावृत्तिरनुमेयादौ परोक्षस्थले परोक्षवृत्त्या न भवतीति । उक्तदूषणपरिहाराय पुनः पक्षं सङ्कोचयति ॥ अपरोक्षवृत्तेरिति ॥ व्यभिचार इति ॥ अप्रकाशितार्थप्रकाशकत्वसत्वेऽपि उक्तरीत्या साध्याभावादित्यर्थः ।
ननु परोक्षवृत्तिभिन्नत्वे सतीति हेतुविशेषणान्न व्यभिचार इत्यत आह ॥ तद्व्यावृत्त्यर्थ-मिति ॥ अप्रयोजकत्वमिति ॥ यथा हेतुः परोक्षवृत्तौ विद्यमानोऽपि साध्यं प्रत्य-प्रयोजक एवं पक्षेऽप्यप्रयोजकोऽस्त्वित्यर्थः ॥ सदर्थेति ॥ सदर्थो विद्यमानार्थः धर्म्यंश इदमंशरूप इति यावत् । ननु इदमंशवृत्तिनिवर्त्त्याज्ञानस्यापि सत्वान्न बाध इत्यत आह ॥ तन्निवर्त्येति ॥ नन्विदमंशाज्ञानस्यापि भ्रमोपादानत्वमेवेति नाव्याप्तिरित्यत आह ॥ न हीति ॥ सदर्थरूपाधिष्ठानाज्ञाने प्रत्युत तज्ज्ञानस्यैव भ्रमहेतुत्वादित्यर्थः । एतद्दूषण-परिहाराय पुनः पक्षं सङ्कोचयति ॥ तदन्यस्येति ॥ इदमंशापरोक्षवृत्तिभिन्नपरोक्षवृत्तिरूप-प्रमाणज्ञानस्येत्यर्थः । बाधमुपपादयति ॥ स्वेति ॥ तत्रादावज्ञानम् अनन्तरं तन्निवर्तिका प्रथमा प्रमा तन्निवर्तिका च द्वितीयादिप्रमा एवं च सति द्वितीयादिप्रमाया अपि पक्ष-निविष्टत्वाद् द्वितीयप्रमानिवर्त्या या प्रथमप्रमा तया द्वितीयादिप्रमाया व्यवहितत्वेन प्रथम-प्रमानिवर्त्तन एव चरितार्थतया प्रथमप्रमानिवर्त्याज्ञानानिवर्त्तकत्वाद्बाध इत्यर्थः । तत्र दृष्टान्तः द्वितीयादीति । तमोनिवर्त्तिका प्रथमप्रमैव न द्वितीयादिप्रमा तद्वदित्यर्थः ।
ननु नासिद्धिर् द्वितीयादिप्रमाणेऽपि अन्यान्यक्षणलवविशिष्टार्थप्रकाशकत्वेनाप्रकाशितार्थ-प्रकाशकत्वसद्भावादित्यत आह ॥ सूक्ष्मेति ॥ यथाऽऽहुः प्रत्यक्षेण सूक्ष्मकालभेदानामना-कलनादिति । एतद्दूषणपरिहारय पुनरपि पक्षं सङ्कोचयति ॥ तदन्यस्येति ॥ द्वितीयादि-प्रमाभिन्नापरोक्षप्रमारूपज्ञानस्येत्यर्थः ॥ अनात्मेति ॥ जडेत्यर्थः । बाधमुपपादयति ॥ त्वन्मत इति ॥ तथा च जडविषयापरोक्षवृत्तेरपि पक्षत्वेन तस्याः स्वनिवर्त्याज्ञान-पूर्वकत्वाभावाद्बाध इत्यर्थः । बाधपरिहारं शङ्कते ॥ नन्विति ॥ तथा च घटाद्य-वच्छिन्नचैतन्यावरकमित्यर्थः ॥ न बाध इति ॥ घटाद्यवच्छिन्नचैतन्ये त्वज्ञानमस्तीति स्वनिवर्त्याज्ञानपूर्वकत्वसद्भावान्न बाध इति भावः ॥ तदभावादिति ॥ घटोऽयमित्याद्य-परोक्षप्रमानिवर्त्यत्वमज्ञानस्य नास्ति तथात्वेऽज्ञानस्यैकत्वेन तन्निवृत्तौ सद्यो मोक्षापात इति भावः । अपसरणादिपक्षस्य दूषितत्वादिति भावः ॥ अस्वप्रकाशत्वेनेति ॥ शुद्ध-चैतन्यस्यैव प्रकाशत्वादिति भावः ॥ अयोगाच्चेति ॥ तत्प्रतिबन्धरूपावरणायोगाच्चेत्यर्थः । तथा च घटावच्छिन्नचैतन्येऽप्यज्ञानाभावादनात्मवृत्तौ बाधस्तदवस्थ इत्याशयः । घटोऽय-मित्याद्यपरोक्षवृत्तेस्तदवच्छिन्नचैतन्यविषयत्वम् अङ्गीकृत्याज्ञाननिवर्त्तकत्वं न सम्भवती-त्युक्तम्, अधुना घटोऽयमित्यादिवृत्तेश्चैतन्यविषयकत्वमेव नास्तीत्याह ॥ रूपादीति ॥ स्वतो रूपादिहीनस्य घटाद्यवच्छिन्नस्य चैतन्यस्य चाक्षुषत्वमस्तु । चन्द्रावच्छेदेन राहोरि-वेत्यत उक्तमाकाशादिवदिति । स्वतो रूपादिहीनस्याप्याकाशस्य घटाद्यवच्छेदेनापि चाक्षुष-ताया अदर्शनादित्यर्थः । राहोस्तु नीलरूपवत्त्वेन न स्वतो नीरूपत्वमिति भावः । यथा घटाद्यनात्मविषयशाब्दज्ञाने न चैतन्यं विषयस् तथा तत्समानविषयेऽपरोक्षज्ञानेऽपीति आत्म-विषयापरोक्षवृत्तौ बाधस्तदवस्थ एवेत्याह ॥ अयं घट इति ॥ तथा चोभयवृत्त्योः साम्ये परोक्षवृत्तिवदपरोक्षवृत्तेरप्यज्ञानानिवर्त्तकत्वाद्बाध इति भावः । एतद्दूषणपरिहाराय पुनरपि पक्षं सङ्कोचयति ॥ आत्मेति ॥ सा चान्ततश्चरमवृत्तिरेवेति भावः ॥ व्यभिचार इति ॥ त्वन्मते जडावरकाज्ञानाभावेन साध्याभावादित्यर्थः ॥ दृष्टान्तस्येति ॥ अप्रकाशितार्थ-प्रकाशिकायां प्रदीपप्रभायाम् आत्मविषयकत्वाभावादित्यर्थः ।
एवं पक्षं दूषयित्वा साध्यं दूषयति ॥ साध्येऽपीति ॥ प्रागभावव्यावृत्त्यर्थं स्वप्राग-भावव्यतिरिक्तेति विशेषणमिति चेत्तत्राह ॥ यत इति ॥ प्रागभावस्याभिन्नत्वान्न ज्ञान-निवर्त्यत्वमिति भावः ॥ अभावेति ॥ प्रमाणज्ञानं स्वप्रागभावनिवृत्तिरेव न तु तन्निवर्त्तक-मिति न प्रमाणज्ञानप्रागभावस्तन्निवर्त्य इत्यर्थः । न चाभावाभावो भावव्याप्य इति मतानु-सारेण प्रतियोग्यतिरिक्तां प्रागभावनिवृत्तिमङ्गीकृत्यैतदुक्तमिति वाच्यम् । तन्मतस्या-प्रामाणिकत्वादित्याशयात् ॥ शेषेति ॥ प्रागित्यस्य वैयर्थ्यादित्यर्थः । न च प्रागभाव-स्यापि ध्वंसाद्यभावव्यतिरिक्तत्वेन पुनस्तमादायार्थान्तरतेति वाच्यम् । सामान्येन प्रयुक्तपदस्य विशेषार्थपर्यवसानेन दूषणेऽतिप्रसङ्ग इति भावः । न चाखण्डाभावे न वैयर्थ्यमिति वाच्यम् । तत्वनिर्णयकथायां लघुना निर्देशेन साध्यसिद्धौ सम्भवन्त्यामखण्डाभावान्तर्भावेन साध्यस्या-निर्देष्टव्यत्वादित्याशयात् ॥ द्वितीयं चेति ॥ स्वविषयावरणपदमित्यर्थः । अज्ञानस्य नावरणत्वम् । तथा हि । आवरणं ह्याव्रियमाणेन व्याप्तम् । तच्चाव्रियमाणं जडं चैतन्यगत-विशेषो वा शुद्धचैतन्यं वा । नाद्य इत्याह ॥ जड इति ॥ विषय इत्यर्थः । आवरण-रूपतत्कृत्याभावादिति भावः । न द्वितीय इत्याह ॥ निर्विशेषेति ॥ न तृतीय इत्याह ॥ चितश्चेति ॥ आवरणत्वेति ॥ तथा च तद्विशेषणविशिष्टं साध्यं पक्षे बाधितमिति भावः । ननु स्वोत्पादकादृष्टव्यावृत्त्यर्थं तद्विशेषणमिति चेत्तत्राह ॥ स्वेति ॥ शेषेति ॥ स्वविषयेति पदेत्यर्थः । स्वोत्पादकादृष्टव्यावृत्तेः स्वनिवर्त्यपदेनैव सिद्धेः स्वविषयावरणपदं व्यर्थमेवेत्याह ॥ स्वोत्पादकेति ॥ स्वोत्पादकादृष्टस्याज्ञानभिन्नत्वान्न ज्ञानेन साक्षा-त्तन्निवर्त्यमित्यर्थः । वृत्तिश्चिदुपरागार्थेति मते चितोऽज्ञाननिवर्त्तकत्वेन पक्षीभूताया वृत्तेरावणनिवर्तकत्वाभावाद्बाध इत्यर्थः ।
मतान्तरेऽपि बाधमुपपायति ॥ घटाकारेति ॥ घटाकारतया तत्प्रतिबिम्बितचैतन्येन वा घटप्रकाशकस्य घटाधिष्ठानचैतन्यस्यावरणाभिभवरूपाभिव्यक्तेर्जातत्वेन पक्षीभूतस्य घट-ज्ञानरूपस्य घटाधिष्ठानचैतन्यस्यावरणनिवर्त्तकत्वं नास्तीत्यर्थः । ननु वृत्तिप्रतिबिम्बितचैतन्यं वा घटप्रकाशकं ज्ञानं पक्षत्वेनाभिसंहितं तच्च घटादिष्ठानचैतन्यस्यावरणं निवर्त्तयतीति न बाध इत्यत आह ॥ घटाकारेति ॥ मतस्यायोगादित्यन्वयः । तत्र हेतुराध्यासिकेति । त्वन्मते ज्ञाने ज्ञेयस्याध्यस्तत्वेन वृत्तेस्तत्प्रतिबिम्बितचैतन्यस्य वा ज्ञानत्वे तत्र घटाध्यासो वाच्यः । स न युक्तः । त्वन्मते ज्ञानत्वेनाभिमतयोर्मिथ्यात्वेन घटाद्यधिकसत्ताकत्वाभावात् । अतस्तयोर्ज्ञानत्वाभावेन वृत्त्याद्यभिव्यक्तस्य घटाधिष्ठानचैतन्यस्यैव ज्ञानत्वे वाच्ये तस्य चावरणभूताज्ञानानिवर्त्तकत्वेन बाध एवेत्यर्थः । स्वप्रतिबन्धकादृष्टं व्यावर्त्तयितुं तद्विशेषण-मिति चेत्तत्राह ॥ चरमेति ॥ तदनिवर्त्यत्व इति ॥ पक्षीभूतचरमसाक्षात्काररूपप्रमाण- ज्ञानानिवर्त्यत्वे ज्ञाननिवर्त्यत्वाभावेन मिथ्यात्वासिद्ध्या तन्निवर्त्यत्वे वाच्ये स्वनिवर्त्यपदेन तद्व्यावृत्त्यसिद्धेश्चेत्यर्थः । न च चरमसाक्षात्कारप्रतिबन्धकादृष्टे सति तदनिवृत्तिरिति प्रथम-तन्निवृत्तिः कारणात्मनाऽवस्थितस्य प्रतिबन्धकादृष्टस्य ज्ञाननिवर्त्यत्वाच्च मिथ्यात्वमपीति वाच्यम् । तावता ज्ञानविर्त्यत्वापरिहारात् ॥ चतुर्थं चेति ॥ स्वदेशगतविशेषणमित्यर्थः । प्रमाणज्ञानाज्ञानयोः समानदेशत्वमेव नास्तीत्याह ॥ अज्ञानस्येति ॥ चिन्मात्रेति ॥ मुखमात्रस्थानीयं यज्जीवब्रह्मानुस्यूतं चिन्मात्रं तदाश्रितत्वात् ‘‘आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवले’’ति वचनादित्यर्थः ॥ वृत्तेरित्यादि ॥ वृत्त्यादिरूपस्य ज्ञानस्या-ज्ञानाश्रयचिन्मात्रानाश्रितत्वादित्यर्थः । यत्राज्ञानं वर्तते न तत्र प्रमाणज्ञानमिति भावः । किञ्च यद्विषयनिवृत्यादतो न तयोः समानदेशत्वमित्याह ॥ त्वन्मत इति ॥
ननु विषयगताज्ञातत्वं व्युदसितुमेतद्विशेषणं सार्थकमिति चेत्तत्राह ॥ अज्ञातत्व-स्येति ॥ विषयेऽज्ञातत्वं किं ज्ञानप्रागभावरूपत्वं ज्ञानात्यन्ताभावरूपत्वं वा । नाद्यः । आद्यविशेषणेनैव तद्व्यावृत्तिसिद्धेः प्रागभावस्य प्रतियोगिसमानदेशत्वेन स्वदेशगतपदेनापि व्यावृत्त्यसिद्धेश्च । नापि द्वितीयः । स्वप्रागभावव्यतिरिक्तेत्यत्र प्राक्पदवैयर्थ्यस्योक्तत्वादभाव-व्यतिरिक्तपदेनैव तद्व्यावृत्तिसिद्धेरित्यर्थः । आद्येत्येतदुपलक्षणपरं स्वनिवर्त्यपदेनात्यन्ताभाव-व्यावृत्तिर्द्रष्टव्येत्याहुः । अन्त्ये त्वाह ॥ अविद्येति ॥ अविद्यास्वरूपस्यैवासिद्धौ तद्विषयत्व- मादायार्थान्तरताप्रदानायोगेनैतदनुमानात्प्रागेवाविद्यायाः सिद्धत्वेनानुमानस्याधिगतार्थ-बोधकत्वेनाप्रामाण्यापत्त्या तत्र किमर्थान्तरतापरिहाराय विशेषणदानक्लेशेनेत्यर्थः ॥ अन्यदिति ॥ स्वप्रागभावव्यतिरिक्तेत्यादिविशेषणमित्यर्थः । ननु प्रागभावादित्यावृत्त्यर्थं तद्विशेषणमिति चेन्न । स्वविषयावरणपूर्वकमित्यनेन तद्व्यावृत्तिसिद्धेः । तत्कथमित्यत आह ॥ न हीति ॥ प्रमाप्रागभाव इति स्वप्रागभावव्यतिरिक्तपदव्यावर्त्य इत्यर्थः । प्रमेत्यादि-स्वनिवर्त्यपदव्यावर्त्य इत्यर्थः ॥ अन्यत्किञ्चिदिति ॥ स्वदेशगतपदव्यावर्त्यमित्यर्थः । अज्ञानस्यैवावरणत्वेनाज्ञातत्वस्यावरणत्वाभावादिति भावः ।
ननु प्रमाप्रागभावादीनामावरणत्वेन तदादायार्थान्तरतायाः स्वविषयावरणपूर्वकमित्यनेना-वारणात्तदर्थं तद्विशेषणजातं सार्थकमेवेत्यत आह ॥ तथात्व इति ॥ तेनैवेति ॥ आवरणत्वेन त्वदभिमतप्रमाप्रागभावादिनेत्यर्थः ॥ अप्रयोजकत्वेति ॥ अप्रकाशितार्थ-प्रकाशकत्वस्य हेतोः प्रागभावादिव्यतिरिक्ताज्ञानाख्यावरणपूर्वकत्वरूपसाध्यं विनापि सत्व-मस्त्वित्यप्रयोजकता । न चैतादृशाज्ञानाख्यावरणपूर्वकत्वरूपसाध्याभावेऽपि हेतूच्छित्तिरेव बाधिकेति वाच्यम् । अज्ञानव्यतिरिक्तं त्वदभिमतं यत्प्रागभावादिरूपमावरणं तेनैव हेतो-रुपपत्तेस्तदुच्छित्त्यभावादित्यर्थः । स्वनिवर्त्यविशेषणस्य सार्थक्यमाशङ्क्य निराकरोति ॥ न चेति ॥ अन्धकारस्य प्रमाणविषयघटाद्यावणत्वेऽपि प्रमाणज्ञाननिवर्त्यत्वाभावात्तदा-दायार्थान्तरतेति भावः ॥ तस्येति ॥ अन्धकारस्येत्यर्थः ॥ प्रमामात्रेति ॥ अन्धकारे सति तत्रत्यशुक्तिप्रमा वा तत्र रजतभ्रमो वा न भवत्येवेति तस्य प्रमामात्रविषया-वरणत्वाभावात् । अत्र च स्वविषयावरणेत्यनेन प्रमामात्रविषयावरणत्वाभिधानान्न तदा-दायार्थान्तरतेत्यर्थः । इदं हि विवरणोक्तमनुमानम् । एतद्व्याख्यानावसरे त्वदीयेन प्राग-भावादिव्यतिरिक्तवेदान्तजन्यचरमसाक्षात्काररूपप्रमामात्रविषयावरणानाद्यज्ञानसिद्धिरित्युक्तत्वादिति भावः । अविशेषितं विमतं गुणादिकम् । गुण्यादिनेति शेषः । विमतमभिन्नमित्यभेदमात्रे साध्ये तस्मिन्सत्यभवतस्तदप्रयोज्यत्वादिति न्यायेनाभेदे सत्यपि घटः कलश इति सामानाधिकरण्यादर्शनादप्रयोजकत्वनिरासाय भिन्नाभिन्नमिति विशिष्टधीस्तत्रोद्देश्या दृष्टा । न चैवं प्रकृते प्रागभावव्यतिरिक्तेत्यादिविशेषणं विहाय स्वविषयावरणपूर्वकमित्यविशेष-साध्यकरणेऽप्रयोजकताऽस्ति येनात्रापि विशिष्टधीरुद्देश्येति विशेषणसार्थक्यं स्यादित्यर्थः । अविशेषितसाध्यं प्रति हेतोरप्रयोजकत्वभावेऽपि विमतम् उपादानगोचरापरोक्षज्ञान-चिकीर्षाकृतिमज्जन्यमित्यादाविव विशिष्टधिय उद्देश्यत्वान्न व्यापकगतविशेषणानां वैयर्थ्य-मित्यङ्गीकारे कुत्रापि व्यापकगतविशेषणवैयर्थ्यं नोद्भाव्येत । तथा च पर्वत उष्ण-स्पर्शापाकजशुक्लभास्वररूपवद्वह्निमान् धूमवत्त्वादित्याद्यपि स्यादित्यतिप्रसङ्ग इत्यर्थः । यथा उद्देश्यप्रतीत्यर्थत्वेन व्यापकगतविशेषणानामवैयर्थ्यम्, एवं हेतुविशेषणेऽपि वक्तुं शक्यत्वा-द्व्यर्थविशेषणत्वस्यादूषणत्वमेव स्यादित्याह ॥ नीलधूमेति ॥
एवं साध्यं दूषयित्वा हेतुं दूषयति ॥ हेताविति ॥ मात्रमित्यस्यैव विवरणं साक्षा-दिति । तन्मते द्वितीयादिज्ञाने साक्षाद् आद्येऽज्ञाननिवृत्तिद्वारा परम्परयेत्यर्थः ॥ दृष्टान्त इति ॥ प्रभायां ज्ञानत्वाभावेन साधनवैकल्यादिति भावः ॥ असिद्धेरिति ॥ प्रमाणजन्ये प्रमाणरूपे ज्ञाने ज्ञानहेतुत्वाभावरूपा स्वरूपासिद्धिरित्यर्थः ॥ इन्द्रियादाविति ॥ ज्ञानहेतुत्वे सत्यपि स्वनिवर्त्यवस्त्वन्तरपूर्वकत्वाभावान् न हि साक्षादिन्द्रियनिवर्त्यं प्रागभावादिव्यतिरिक्तं वस्त्वन्तरमस्ति । अज्ञानस्येन्द्रियनिवर्त्यत्वेऽपि ज्ञानद्वारैव निवर्त्यत्वं न साक्षात् । साक्षात् स्वनिवर्त्यत्वस्यैवात्र विवक्षितत्वादिति भावः ॥ अत एवेति ॥ इन्द्रियादेः साक्षाद्वस्तुव्यवहाराहेतुत्वे ज्ञानद्वारा घटादिव्यवहारहेतुत्वे च सत्यपि उक्तसाध्या-भावेन इन्द्रियादौ व्यभिचारादेवेत्यर्थः ॥ अज्ञानेति ॥ तमश्शब्देनाज्ञानविवक्षायां तन्निवर्त्त-कत्वस्य दृष्टान्ते प्रभायामभावात्साधनवैकल्यं स्याद् अन्धकारविवक्षायां तन्निवर्त्तकत्वस्य पक्षेऽसिद्धिः स्याद् उभयानुगतस्यैकस्य तमस्त्वस्याभावादित्यर्थः । अज्ञाननिवर्त्तकत्व-विवक्षायां दोषान्तरमाह ॥ साध्येति ॥ अज्ञानस्येदानीमप्यसिद्धत्वेन तद्घटितहेतोरपि सन्दिग्धत्वादिति भावः । आवरणशब्देनान्धकारविवक्षायां स्वरूपासिद्धिर् अज्ञानविवक्षायां साधनवैकल्यं साध्यावैशिष्ट्यं च । उभयानुगतं चैकमावरणत्वं नास्त्येवेत्यर्थः ॥ कुद्दाला-दाविति ॥ कुद्दालायाः शलाकादेरपि कुड्याद्यावरणनिवर्त्तकत्वेन अज्ञानपूर्वकत्वाभावा-द्व्यभिचार इत्यर्थः ॥ साध्येति ॥ साध्यवत्तद्घटितहेतोरपि संमुग्धत्वादित्यर्थः ॥ न सप्तम इति ॥ ज्ञानप्रभयोर्नानुगतमेकप्रकारत्वमस्तीत्यर्थः । प्रकाशशब्दप्रयोगस्तावदस्तीति चेत्तत्राह ॥ शब्देति ॥ आलोकसंवेदनयोः प्रकाशत्वे वैलक्षण्यमस्तीत्यत्र विवरणसंमतिमाह ॥ उक्तं चेति ॥ अज्ञानविरोधिनो ऽज्ञानविरोधित्वात् । ज्ञानप्रकाशकत्वाज् ज्ञाननिष्ठप्रकाशकत्वाद् अन्यदेव तमोविरोधित्वरूपम् आलोकनिष्ठं प्रकाशकत्वं नामेत्यर्थः । अन्त्यपक्षदूषणं कारिकया सङ्गृह्णाति ॥ एवं चेति ॥ असिद्धिमप्याह ॥ किं चेति ॥ अध्यासेति ॥ प्रकाशमानस्यैवाधिष्ठानत्वादिति भावः ।
ननु चिन्मात्रस्य सदा प्रकाशमानत्वेऽपि तद्गतविशेषस्य सदा प्रकाशमानत्वाभावान्न सिद्धिरित्यत उक्तम् ॥ प्रमाणस्येति ॥ वेदान्तजन्यचरमवृत्तिरूपस्येत्यर्थः ॥ चिदन्येति ॥ निष्प्रकारकत्वादिति भावः । प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तेत्यादिरूपायामस्यामेवानुमितौ व्यभिचारं बाधं च वक्तुमाह ॥ किञ्चेति ॥ अस्यामेवानुमितौ अप्रकाशितार्थप्रकाशकत्वं नास्त्युतास्तीति विकल्प्याद्ये दोषमाह ॥ अप्रकाशितेति ॥ विशेषणविशिष्टस्य हेतोरभावे प्रकाशितार्थप्रकाशकत्वमेव स्यात् । तथा चानुमितिर्व्यर्था सिद्धसाधनतापत्तेः । विशेष्या-भावाद्विशिष्टहेतोरभावे सर्वथा प्रकाशकत्वमेव न स्यात् । तथा चाज्ञानसिद्धिरेव न स्यात् । अनुमितेः साध्याप्रकाशकत्वात् । अतोऽनुमितिर्व्यर्था स्याद् अनुमितेः साध्यज्ञप्त्यर्थत्वादिति भावः । द्वितीये दोषमाह ॥ तत्प्रकाशकत्वे चेति ॥ अनुमितेरप्रकाशितप्रकाशकत्वे चेत्यर्थः । अत्रापि प्रष्टव्यम् इयमनुमितिः पक्षीभूतप्रमाणशब्देन विवक्षिता न वेति । नेति पक्षे पक्षबहिर्भूतत्वादस्यामेवानुमितौ व्यभिचारः स्यात् । आद्येऽस्यानुमितेः पक्षान्तर्भावाद्बाधः स्यादित्यर्थः । व्यभिचारं बाधं च साध्याभावोपपादनेनोपपादयति ॥ अस्या इति ॥ अस्या अनुमितेः स्वविषयभूतं यदज्ञानं तदावरणनिवर्तकत्वं नास्तीत्यर्थः । कुत इत्यत आह ॥ न हीति ॥
हेतुं दूषयित्वेदानीं दृष्टान्तं दूषयति ॥ दृष्टान्तेऽपीति ॥ न च द्वितीयादिप्रभायाम् उभयवैकल्यवारणाय तद्विशेषणमिति वाच्यम् । अन्धकार इत्युक्त्यैव तन्निरासात् । न हि द्वितीयादिप्रभा अन्धकारोत्पन्ना किन्त्वाद्यैवेत्यर्थः ॥ दृष्टिसृष्टीति ॥ आवरणभूतान्धकारस्य दृष्टिसृष्टत्वेन दृष्टिनिवृत्तावेव निवृत्त्यङ्गीकारात्प्रभायां तन्निवर्त्तकत्वानङ्गीकारेण स्वनिवर्त्य-वस्त्वन्तरपूर्वकत्वाभावात्साध्यवैकल्यम् । प्रभाया अपि दृष्टिसृष्टत्वेन दृष्टेरेवार्थप्रकाशकतया प्रभायां तदभावात्साधनवैकल्यं चेत्यर्थः ।
प्रतिपक्षं चाह ॥ अनादित्वे सतीति ॥ प्रमाणज्ञानमित्याद्यनुमानेन ज्ञाननिवर्त्यमज्ञानं साधितं तद्विरोधप्रमाणमेतैरनुमानैः साध्यते अनादिभावत्वे सति ज्ञाननिवर्त्यत्वं लक्षणं तत्रानादिभावस्याज्ञानस्य ज्ञाननिवर्त्यत्वं नास्तीति यदा साध्यते तदेदं स्वनिवर्त्यत्वघटित-साध्यविरोधिभूतं सत् प्रतिपक्षरूपमिति द्रष्टव्यम् । अज्ञानलक्षणान्तर्गतं भावत्वम् अभाव-निवृत्तिरेव अज्ञानस्य भावाभावविलक्षणत्वादित्याशयेनाभावविलक्षणत्वं वेति पक्षनिर्देशः कृत इति ध्येयम् । तथा चानादित्वे सति भावत्वं न निवर्त्यनिष्ठम् अनादिभावमात्रवृत्तित्वाद् आत्मत्ववद् अनादित्वे सत्यभावविलक्षणमात्रवृत्तित्वादात्मत्ववदित्यनुमानद्वयं द्रष्टव्यम् । अनुमानद्वयेऽपि भावत्वस्य वाऽभावविलक्षणत्वस्य वा ज्ञाननिवर्त्यघटादिनिष्ठत्वेन बाध-वारणायानादित्वे सतीत्युक्तम् । अनादित्वमात्रस्य निवर्त्यप्रागभावनिष्ठतया बाधवारणाय भावत्वपदम् । आद्ये हेतौ प्रागभावत्वे व्यभिचारवारणाय भावपदम् । घटत्वे व्यभिचार-वारणायानादिपदम् । प्रमेयत्वे व्यभिचारवारणाय मात्रपदम् । द्वितीयहेतावपि वृत्तित्वमात्रं प्रागभावत्वे व्यभिचारीति, अतो भावपदम् । प्रमेयत्वे व्यभिचारवारणाय मात्रपदम् । निवर्त्यत्वस्य घटादिनिष्ठतया बाधवारणायानादिपदम् । निवर्त्यत्वस्य प्रागभावनिष्ठतया बाध-वारणाय भावपदमिति मन्तव्यम् । घटत्वे व्यभिचारवारणायानादिपदम् ॥ निवर्त्येति ॥ वृत्तित्वमात्रम् आत्मत्वे व्यभिचारीति निवर्त्यपदम् । प्रमेयत्ववारणाय मात्रपदम् । स्वविषयावरणत्वघटितसाध्यविरोधिप्रतिपक्षमाह ॥ अनादित्वमिति ॥ अनाद्यावरणं नास्तीत्यनेनानुमानेन सिद्धमिति द्रष्टव्यम् । वृत्तित्वमात्रस्यान्धकारे व्यभिचारित्वादनादि-पदम् । प्रमेयत्ववारणाय मात्रपदम् । प्रतिपक्षत्वे विरोधिप्रमेयसाधकत्वमेव तन्त्रं न समान-धर्मिकत्वं न वा साध्याभावसाधकत्वं, तथात्वे केवलान्वयिन्यसत्प्रतिपक्षत्वाख्यरूपोपपादनं न स्यात् । तत्र सत्प्रतिपक्षप्रसक्तेरेवाभावात् शब्दोऽभिधेयो नेति साधयितुमशक्यत्वात् । अतः समानधर्मिकत्वादेरतन्त्रत्वमुक्त्वाऽभिधेयत्वं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगीत्यादिरूपेण सत्प्रतिपक्षप्रसक्तिर्मणिकृतोपपादिता तद्वदिहापीति द्रष्टव्यम् । समानधर्मिकत्वादेरावश्यकत्वे तादृशमपि सत्प्रतिपक्षमाह ॥ प्रमाणज्ञानं वेति ॥ प्रागभावरूपानादिनिवर्त्तकत्वेन बाधवारणायाभावान्येत्युक्तम् । प्रागभावव्यतिरिक्तानादिनिवर्त्तकत्वस्य परेण साधितत्वात्तस्यायं प्रतिपक्ष इति ज्ञातव्यम् । भ्रमस्य स्वप्रागभावव्यतिरिक्तानाद्यनिवर्त्तकत्वाद् दृष्टान्तत्वमिति ध्येयम् ।
अप्रयोजकतां चाह ॥ पूर्वमिति ॥ अप्रकाशितार्थस्य प्रकाशः पूर्वं प्रकाशाभावस्य सत्वादेवास्तु न तद्विषयकाप्रकाशशब्दवाच्यभावरूपाज्ञानसद्भावात् । तथाहि यथा अकृतस्य घटादेः कृतिः पूर्वं तद्विषयककृत्यभावादेव न तु घटादिविषयकभावरूपाकृतिद्भावात् । यथा चास्मृतस्य घटादेः स्मृतिः पूर्वं तद्विषयकस्मृत्यभावादेव न तु घटादिविषयकभावरूपास्मृति-सद्भावात्तथेहापि । अन्यथाऽज्ञानवद्भावरूपाकृत्यस्मृती अप्यङ्गीकार्ये प्रसज्येते इत्यर्थः । किञ्च स्वविरोधिनिवर्त्तकत्वं चोपाधिरित्याह ॥ किञ्चेति ॥ आलोकप्रकाश इति ॥ दृष्टान्तीभूतालोकरूपप्रकाश इत्यर्थः । तन्निवर्त्तकः स्वविरोधितमोनिवर्त्तकः । ज्ञानप्रकाशः ज्ञानरूपप्रकाशः ॥ नाज्ञानेति ॥ तथा चोक्तसाध्यवत्यालोके स्वविरोधितमोनिवर्त्तकत्व-सद्भावेन साध्यव्यापकत्वात् पक्षीभूते प्रमाणज्ञाने उक्तहेतुमति स्वविरोधिनिवर्त्तकत्वरूपो-पाध्यभावेन साधनाव्यापकत्वाच्चायमुपाधिरिति भावः । ननु साधनव्यापकोऽयमुपाधिर् ज्ञानस्याज्ञानविरोधित्वेन स्वविरोध्यज्ञाननिवर्त्तकत्वादिति चेत् । अत्र प्रष्टव्यम् । अज्ञानविरोधिज्ञानं किं घटाधिष्ठानचैतन्यं वृत्तिर्वा तत्प्रबिम्बितचैतन्यं वा नाद्य इत्याह ॥ घटादीति ॥ अविरोधित्वेन तत्राज्ञानस्य निवृत्तत्वात्सर्वदा सर्वेषां घटप्रकाशापात इत्यर्थः । न द्वितीयतृतीयावित्याह ॥ वृत्तेरिति ॥ उभयोरपि मिथ्यात्वेन अध्यस्ताधिकतत्वा-वेदकत्वाभावेनाज्ञानत्वादिति भावः ॥ तज्ज्ञानत्वेति ॥ घटादिज्ञानत्वाभावादित्यर्थः । अनधिष्ठानत्वेऽपि तज्ज्ञानत्वमस्त्वित्यत आह ॥ त्वन्मत इति ॥ ज्ञेयस्याधिष्ठानभूते ज्ञान एवाध्यासाङ्गीकारादिति भावः ।
एवमाद्यानुमानं सविस्तरं निरस्य चैत्रप्रमापक्षकानुमानमपि निरस्याति ॥ द्वितीयेति ॥ बाध इति ॥ सुखादिप्रमाणामपि चैत्रप्रमात्वेन पक्षत्वात्तासु चैत्रप्रमाप्रागभावव्यतिरिक्तानादि- निवर्त्तकत्वाभावाद्बाध इत्यर्थः । सुखादिविषये भावरूपाज्ञानाभावादिति भावः ॥ तदिति ॥ चैत्रेत्यर्थः ॥ तदतिरिक्तेति ॥ चैत्रप्रमातत्प्रागभावातिरिक्तस्यानादेर्वा विशेषणमित्यर्थः ॥ वृत्तेरित्यादि ॥ मतभेदेनेति ज्ञेयम् । प्रमाया वृत्त्यादिरूपायाः प्रमायाः ॥ आत्मेति ॥ वृत्तेस्तत्प्रतिबिम्बितचैतन्यस्य चान्तःकरणनिष्ठत्वेनाधिष्ठानचैतन्यस्य च सर्वथाऽवृत्तित्वेनात्म-गतत्वाभावादित्यर्थः । तथा च बाध इति भावः । प्रागभावविशेषणत्वे दोषमाह ॥ प्राग-भावस्येति ॥ प्रागभावस्य प्रतियोगिसमानदेशत्वेन वृत्त्यादिरूपप्रमाया आत्मगतत्वाभावेन प्रागभावस्यापि तद्गतत्वाभावाद्बाध एवेत्यर्थः । तदेवोपपादयति ॥ मैत्रेति ॥ मैत्रप्रमाया-श्चैत्रगतः प्रमाप्रागभावातिरिक्तो योऽनादिश्चैत्रीयाज्ञानाख्यस्तन्निवर्त्तकत्वाभावात्साध्यवैकल्य-मित्यर्थः ॥ प्रमापदेति ॥ चैत्रप्रमाप्रागभावातिरिक्तेति साध्यकरणे समभिव्याहारादेव प्रमा-प्रागभावातिरिक्तेति प्राप्तेः प्रमापदमधिकमित्यर्थः । प्रतिरोधो द्विविधस् तेनैव हेतुना हेत्वन्तरेण चेति । तत्राद्यः प्रकरणसम इत्युच्यते । द्वितीयः सत्प्रतिपक्ष इत्युच्यत इति टीकाकारैर्मिथ्यात्वानुमानखण्डनटीकायाम् उक्तत्वात्तेनैव हेतुना प्रतिरोधरूपप्रकरणसममाह ॥ चैत्रप्रमेति ॥ दृष्टान्ते चैत्रीयाज्ञानाख्यानादिनिवर्त्तकत्वाभावेन साध्यं द्रष्टव्यम् । ननु प्रकरणसमानुमानेऽपि चैत्रासमवेतत्वमुपाधिः । तथा चैत्रप्रमा चैत्रीयप्रमाप्रागभावनिवर्त्तिका न प्रमात्वान्मैत्रप्रमावदित्यनुमानेन चैत्रप्रमाप्रागभावस्यापि निवर्त्यत्वं न स्यादित्याभाससाम्य-मित्याशङ्क्य निराकरोति ॥ न चेति ॥ उक्तेति ॥ हेतुभूतं प्रमात्वमङ्गीकृत्य प्राग-भावातिरिक्तानाद्यनिवर्त्तकत्वं न स्यादित्यभावानाद्यज्ञानोभयनिवर्त्तकत्वरूपं साध्याभाव-मङ्गीकृत्याप्रयोजकताशङ्कायां गौरवापत्तेर्लाघवात्प्रागभावनिवर्त्तकत्वमङ्गीकृत्यानादिनिवर्त्त-कत्वाभाव एव साध्य इति लाघवतर्कानुग्रहसद्भावादुपाध्याभाससाम्ययोराभासत्वमेव
‘‘अनुकूलेन तर्केण सनाथे सति साधने ।
साध्यव्यापकताभङ्गात्पक्षे नोपाधिसम्भवः’’ ॥
उपाधेरात्मत्वे साध्याव्यापकत्वं च द्रष्टव्यम् । लाघवतर्केणाभावनिवर्त्तकत्वस्य सिद्धत्वा-त्तद्विरोधेन आभाससाम्यानुमानमाभास एवेति भावः ।
एवं प्रकरणसमानुमानं समर्थ्योपाधिमप्याह ॥ चैत्रगतेति ॥ दृष्टान्तीकृतायां मैत्रप्रमायां चैत्रगतप्रमाप्रागभावातिरिक्तानादिनिवर्त्तकत्वमस्ति तथा चैत्रगतप्रमाप्रागभावातिरिक्तो योऽभावः स्वप्रमाप्रागभावस् तन्निवर्त्तकत्वं चास्तीति साध्यव्यापकः । साध्योपाध्योरनाद्यज्ञानाभाव-घटितत्वेन भेदः । साध्यसमव्याप्तश्च हेतुमत्यां चैत्रप्रमायां चैत्रगतप्रमाप्रागभावातिरिक्ता-भावानिवर्त्तकत्वं नास्ति प्रागभावव्यतिरिक्ताभावस्य प्रध्वंसादेरनिवर्त्यत्वात् साधनाव्यापकश्चेति भावः । ननु जन्यपदार्थमात्रे चैत्रगतप्रमाप्रागभावातिरिक्तस्वप्रागभावनिवर्त्तकत्वस्य सत्वे-नोपाधिसाध्ययोः सत्वाद्व्यतिरेकसहचारग्रहस्थलाभावेन साध्याभावाविनाभाव्यभावत्वाभावान्नाय- मुपाधिरित्यत आह ॥ व्यतिरेकेति ॥ प्रागभावस्यानादित्वेन तत्प्रतियोगिकप्रागभावाभावेन चैत्रप्रमाभावातिरिक्तप्रागभावनिवर्त्तकत्वाभावोऽस्ति । तत एव चैत्रगतप्रमाप्रागभावातिरिक्ता-नादिनिवर्त्तकत्वाभावोऽप्यस्तीत्यर्थः ।
आभाससाम्यं चाह ॥ चैत्रप्रमेति ॥ स्वशब्देन चैत्रप्रमा गाह्या दृष्टान्ते मैत्रप्रमायां चैत्रप्रमाप्रागभावातिरिक्तस्वप्रागभावनिवर्त्तकत्वेन साध्यं द्रष्टव्यम् । तथा चानेनानुमानेन चैत्र-प्रमानिवर्त्याभावद्वयसिद्ध्यापत्तिरिति भावः ॥ घट इत्यादि ॥ अत्रापि स्वशब्देन पक्षीभूतो घटो ग्राह्यः । घटः स्वप्रागभावातिरिक्तानादेर्निवर्त्तकः घटत्वाद्घटान्तरवदित्यनुमानेन स्व-प्रागभावातिरिक्तं घटनिवर्त्यं किञ्चिदनादि सिद्ध्येत् । पक्षीभूतो यो घटस्तत्प्रागभावाति-रिक्तस्वप्रागभावरूपानादिनिवर्त्तकत्वेन दृष्टान्ते न साध्यवैकल्यमिति द्रष्टव्यम् । तथा चैत्रेच्छा स्वप्रागभावातिरिक्तानादिनिवर्त्तिका इच्छात्वान्मैत्रेच्छावदित्यनुमानेन स्वप्रागभावातिरिक्तानादि-भूतं किञ्चिदिच्छानिवर्त्यमपि सिद्ध्येत् । द्वेषस्तु नानादिः । दृष्टान्ते पक्षीभूतेन प्रागभावातिरिक्तस्वप्रागभावस्यानादिभूतस्य भावादिति भावः । उपादाननिवर्त्तकत्वेन साध्यं द्रष्टव्यम् । तथा चैत्राप्रमास्वप्रागभावातिरिक्तानादेर्निवर्त्तिका अप्रमात्वान्मैत्राप्रमावदित्यनेन स्वप्रागभावातिरिक्तं किञ्चिदनादिभूतम् अप्रमानिवर्त्यमपि सिद्ध्येत् । दृष्टान्ते पक्षभूताप्रमा-प्रागभावातिरिक्तस्वप्रागभावरूपानादिनिवर्त्तकत्वात्साध्यं द्रष्टव्यमिति विवेकः ।
स्वव्याघातं चाह ॥ किञ्चैवमिति ॥ एवं विशिष्टव्यतिरेकिणश् चैत्रगतप्रमा-प्रागभावातिरिक्तानादिनिवर्त्तकत्वरूपसाध्यस्याभावसाधनेऽपि सुवचत्वादित्यन्वयः ॥ चैत्र-प्रमेत्यादि ॥ अयमर्थः । चैत्रनिष्ठत्वे सति चैत्रप्रमाभावव्यतिरिक्तानादिनिवर्त्तकत्वादि-करणत्वं विशिष्टम् । एतदभावो दृष्टान्ते मैत्रप्रमायां चैत्रप्रागभावातिरिक्तो योऽनादिः स्वप्रागभावस्तन्निवर्त्तकत्वाधिकरणत्वरूपे विशेष्ये सत्यपि चैत्रनिष्ठत्वरूपविशेषणा-भावोऽस्ति । पक्षीभूतायां चैत्रप्रमायां चैत्रनिष्ठत्वरूपे विशेषणे सत्यपि चैत्रप्रमाप्रागभावाति-रिक्तो योऽनादिर्मैत्रप्रमाप्रागभावस्तन्निवर्त्तकत्वाधिकरणत्वरूपविशेष्याभावोऽस्तीति विशिष्टा-भावोऽनुगत इति ध्येयम् । नन्वत्र चैत्रावृत्तित्वमुपाधिरित्यत आह ॥ न चात्रेति ॥ अयमुपाधिः शङ्क्यमानचैत्रावृत्तित्वरूप उपाधिः । धर्मत्वादित्यनन्तरं निषिद्धत्वोपाधिवदिति दृष्टान्तो द्रष्टव्यः । एतदुपाधित्वे सति साध्यव्यापकत्वाधिकरणत्वस्य विशिष्टस्याभावो दृष्टान्ते विशेषणाभावेन पक्षे विशेष्याभावेन द्रष्टव्यः ॥ अत एवेति ॥ विशिष्टव्यतिरेकिणोऽति-प्रसञ्जकत्वादेवेत्यर्थः । विगीतो विभ्रम एतज्जनकाबाध्यातिरिक्तोपादानक इत्याद्याभास-साम्यादेवेत्यर्थ इत्यन्ये ॥ तृतीयेति ॥ विगीतो विभ्रम एतज्जनकाबाध्यातिरिक्तोपादानकः विभ्रमत्वात्संमतवदित्यनुमानमित्यर्थः । पक्षत्वे पक्षबोधकविभ्रमशब्देनाभिप्रेतत्वे ॥ द्वितीय-लक्षणभङ्गेति ॥ अर्थस्य मन्मतेऽसत्वेन त्वन्मते च सद्विलक्षणत्वेन निरुपादानत्वाद् भ्रान्तिरूपज्ञानस्य तु त्वन्मते सद्विलक्षणत्वेन निरुपादानत्वान् मन्मते तु सत्वेना-न्तःकरणोपादानकत्वान्नाज्ञानमुपादानमित्युक्तरीत्येत्यर्थः ।
तेनैव हेतुना प्रतिरोधमाह ॥ विगीत इति ॥ एतज्जनकाबाध्यातिरिक्तोपादानक इत्यस्य एतज्जनकबाध्योपादानक इति पर्यवसितार्थः । तत्र प्रतिरोध उच्यते ॥ एत-ज्जनकेति ॥ एतज्जनकबाध्यातिरिक्तोपादानक इति पाठः । दृष्टान्तीकृतभ्रमोपादानशुक्त्यज्ञाने ज्ञाननिवर्त्यत्वाख्यबाध्यत्वरूपविशेष्यसत्वेऽपि एतज्जनकत्वरूपविशेषणाभावेन पक्षीभूत-जगद्भ्रमजनके चाज्ञाने एतज्जनकत्वरूपिवशेषणसत्वेऽपि बाध्यत्वरूपविशेष्यस्यास्मद्रीत्याऽ-भावाद्विशिष्टाभावोऽनुगत इति द्रष्टव्यम् । एतज्जनकबाध्योपादानको नेत्यपि क्वाचित्कः पाठः । अत्रापि विशिष्टाभावो द्रष्टव्यः । अप्रयोजकत्वादिदूषणजातेन भावरूपाज्ञानसाधकानि नवीनानुमानान्यपि निरस्तानि भवन्तीत्याह ॥ एतेनेति ॥ प्रमामात्रपक्षीकारे ईश्वरप्रमाया अपि पक्षकोटिनिवेशे तत्र कार्यत्वहेतोः स्वरूपासिद्ध्यापत्तेरनित्यप्रमेत्युक्तम् । वेदान्तजन्या चरमप्रमेत्यर्थः । दृष्टान्ते स्वप्रागभावरूपानादित्वमादाय साध्यं द्रष्टव्यम् ॥ भ्रमोत्तरेति ॥ अयं घट इत्यादिप्रमेत्यर्थः । पक्षीभूतप्रमाप्रागभावातिरिक्तः यः स्वविरोधिभ्रमस्तन्निवर्त्तकत्वं दृष्टान्तेऽस्ति पक्षे तु स्वाभावातिरिक्तस्वविरोध्यज्ञाननिवर्त्तकत्वेन साध्यपर्यवसानं द्रष्टव्यम् । प्रमामात्रपक्षीकारे भ्रमोत्तरचरमप्रमाया अपि प्राप्त्या तस्याश्च स्वविरोधिभ्रमनिवर्त्तकत्वे-नार्थान्तरतावारणाय भ्रमानुत्तरप्रमेत्युक्तम् । प्रमामात्रस्य दृष्टान्तत्वे तत्र प्रागभावातिरिक्त-स्वविरोधिनिवर्त्तकत्वस्य प्रतिवादिनोऽसंमतेः साध्यवैकल्यं स्यादित्यतो भ्रमोत्तरेत्युक्तम् । तथा च स्वविरोधिभ्रममादाय दृष्टान्ते उक्तसाध्यमस्तीति ध्येयम् ।
॥ स्वेति ॥ स्वशब्देन पक्षीभूतज्ञानत्वाधिकरणं ज्ञानं तस्य यो विषयो ब्रह्म तदावरणं यत्तन्निवर्त्तकं यज्ज्ञानं तन्निष्ठमित्यर्थः । अनेन ज्ञाननिवर्त्यावरणसिद्धिः । तच्चाज्ञानमेवेति भावः ॥ आलोकत्ववदिति ॥ आलोकत्वस्यालोकविषयावरणान्धकारनिवर्त्तकालोकनिष्ठ-त्वादिति ध्येयम् ॥ अनित्यज्ञानमिति ॥ अनेन भावरूपज्ञानविरोधिस्वदेशगताज्ञान-सिद्धिरिति ज्ञेयम् । ज्ञानमात्रस्य पक्षत्वे नित्येश्वरज्ञाने स्वविरोध्यज्ञानसामानाधिकरण्याभावेन बाधः स्यादतोऽनित्यज्ञानमित्युक्तम् । इच्छामात्रस्य दृष्टान्तत्वे ईश्वरेच्छाया अपि प्राप्त्या तत्र स्वविरोधिद्वेषसामानाधिकरण्याभावेन साध्यवैकल्यापत्तेरनित्येच्छावदित्युक्तम् । स्वविरोधि-प्रागभावसमानाधिकरणत्वेनार्थान्तरतावारणायाभावत्वानधिकरणेत्युक्तम् । स्वविषयकत्वादित्ये-वोक्तौ ईश्वरीयज्ञानेच्छयोर्व्यभिचारः स्यादतोऽनित्यत्वे सतीत्युक्तम् । तावत्युक्ते ज्ञानेच्छा-प्रयत्नानां सविषयकत्वात्तन्मध्ये ज्ञानस्य पक्षत्वादिच्छाया दृष्टान्तत्वादुर्वरिते प्रयत्ने व्यभिचारः स्यात् । ज्ञानविरोध्यज्ञानवदिच्छाविरोधिद्वेषवत्प्रयत्नविरोधिनोऽन्यस्याभावेन साध्याभावात् । अतः प्रयत्नान्यत्वे सतीत्युक्तम् । सविषयकत्वपदत्यागे घटादौ व्यभिचारः स्यादित्यादि ध्येयम् । दृष्टान्ते साध्यमुपपादयति ॥ इच्छा हीति ॥ पक्षे साध्यपर्यवसानं दर्शयति ॥ ज्ञानेति ॥ एतेनेत्युक्तमेव विशदयति ॥ अप्रयोजकत्वादीति ॥ अनुकूलतर्काभावेन कार्यत्वहेतोरुक्तसाध्यं विनाऽप्युपपत्तेरप्रयोजकत्वस्य आदिपदेन चैत्रप्रमास्वप्रागभावातिरिक्ता-भावनिवर्त्तिका प्रमात्वान्मैत्रप्रमावदित्याभाससाम्यस्य चानिस्तारादित्यर्थः ।
न्यायकल्पलता
परोक्तमनुमानं दूषयितुमाह ॥ यच्चेति ॥ बाधो ऽंशतो बाधः ॥ तस्या इति ॥ साक्षिणोऽज्ञानसाधकत्वेन तदनिवर्तकत्वादित्यर्थः । परोक्षवृत्तेः स्वविषयेऽज्ञानानिवर्तकत्वे संमतिमाह ॥ उक्तं चेति ॥ अतीतादेर्ज्ञानं प्रति कारकत्वं नास्तीत्युक्ते तर्हि तद्वदेव विषयत्वमपि न स्यादित्याशङ्कायां तदपि नास्तीत्यभिहिते विषयत्वस्योपलभ्यमानत्वात्कथं तदभाव इति पुनराशङ्कितेऽतीतादिषु विषयत्वाभावं दर्शयितुं विषयशब्दार्थकथनपरमिदं विवरणवाक्यम् । विषयत्वं नामानुमेयेषु सुषुप्तिव्यावृत्तिः । सा चाभावस्तद्धर्मो न भवति । विज्ञानाकारतापि न विषयव्यापारः किन्तु विज्ञानस्यैवेति नातीतेर्थे क्रियाकारित्वमिति । एतच्च तत्वदीपने व्याख्यातम् । सुषुप्तिव्यावृत्तिस्तद्विषयाज्ञाननिवृत्तिः । सा चानुमेयधर्मो न भवति । किन्तु अज्ञानस्यात्माश्रितत्वात्तन्निवृत्तिरप्यात्माश्रितैवेति । अन्ये तु सुषुप्ति-व्यावृत्तिरित्यस्य साधकाद्यभावात् । विषयस्य या पूर्वसंशययोग्यता तस्या निवृत्तिरित्यर्थः । सा च नातीतादौ । असतस्तदाश्रयत्वायोगादित्याहुः । केचित्तु परोक्षस्थले विषयावच्छिन्ना-भावावरणतत्कार्यसद्भावेऽपि प्रमात्रवच्छिन्नासत्वावरणानिवृत्याऽनुमेयादौ व्यवहारोपपत्तिः । इदमेव सुषुप्तिव्यावृत्तिशब्देनोक्तमित्याहुः । सर्वथा विषयावच्छिन्नप्रमेयचैतन्यगताज्ञानं न निवर्तत इत्यविवादम् । तदिदमुक्तं तस्याः स्वविषयेऽज्ञाननिवर्तकत्व इति । तथा च परोक्षवृत्तौ स्वविषयावरणस्य स्वनिवर्त्यत्वाभावाद्बाध इत्यर्थः ।
ननु धर्म्यंशाज्ञानेऽपि भ्रमोपादानत्वयोग्यताऽस्तीति तत्र नाव्याप्तिरित्यत आह ॥ न हीति ॥ धर्म्यंशाज्ञाने सति धर्मिणोऽज्ञानाभावाद् भ्रमो न स्यादित्यर्थः ॥ धारावाहि-केति ॥ नन्वस्मन्मते धारावाहिकबुद्धिरेव नास्ति । एकस्यैव ज्ञानस्य तावत्समय-स्थित्युपपत्तेरिति चेन्न । तथात्वे श्रवणाद्यावृत्तेरसम्भवापातात् । आवृत्तिरसकृदुपदेशादिति सूत्रविरोधाच्च । प्रतिवादिनैय्यायिकादीन् प्रति बाधानुद्धाराच्च । उक्तं बाधमुपपादयति ॥ तस्या इति ॥ असिद्धिमप्युपपादयति ॥ सूक्ष्मेति ॥ बाधमुद्धर्तुं शङ्कते ॥ नन्विति ॥ दूषयति ॥ एकाज्ञानेति ॥ अनेकाज्ञानपक्षेऽपि दोषमाह ॥ अवच्छिन्नस्यापीति ॥ रूपादिहीनस्येति ॥ परमतेन सर्वात्मना तत्वविन्मतेन तु प्राकृतभौतिकरूपादि-शून्यस्येत्यर्थः । न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनमिति तैत्तरीयश्रुतेः स्वरूपायोग्यस्य किञ्चिदवच्छिन्नस्यापि न चाक्षुषत्वमिति भावः ॥ उक्तत्वाच्चेति ॥ परिच्छिन्नत्वहेतुभङ्ग इति शेषः । एतेन रूपहीनस्यापि तार्किकाभिमतात्मनः प्रत्यक्षत्ववद् अरूपस्यापि रूपस्य चाक्षुषत्ववच्च सन् घट इति सदर्थस्य ब्रह्मणश्चाक्षुषत्वमविरुद्धमिति निरस्तम् ॥ अयं घट इति ॥ यथा शाब्दज्ञाने न चैतन्यं विषयस्तथा तत्समानविषयेऽ-परोक्षज्ञानेऽपि न तद्विषय इति अनात्मविषयापरोक्षवृत्तौ बाध इति भावः ॥ आत्म-विषयेति ॥ सा चान्ततश्चरमवृत्तिरेवेति भावः । किञ्च कथं ज्ञानाश्रयगतत्वमज्ञानस्य । वृत्यादिरूपस्य ज्ञानस्याज्ञानाश्रयचिदनाश्रितत्वात् । नन्वन्तःकरणस्य चिदाश्रितत्वेन तद्वृत्तेस्तत्प्रतिफलितचैतन्यस्य वा ज्ञानस्य चिदाश्रितत्वम् । किञ्चिदवच्छिन्नतदाश्रितस्यापि तदाश्रितनिर्विशेषचिदाश्रितत्वानपायात् । कर्णशुष्कल्यवच्छिन्नाकाशाश्रितस्य शब्दस्याकाशा-श्रितत्ववदिति चेन्न । अज्ञानस्य निर्विशेषचिदाश्रितत्वाङ्गीकारविरोधात् । अदृष्टोपगृहीत-कर्णशुष्कल्यवच्छिन्नस्यैव नभस श्रोत्रत्वम् । अन्यथा बाधिराभावप्रसङ्गः । अतिरिक्त-विशिष्टानभ्युपगन्तृमतेऽनुपपत्तिरेवेति दूषणं सूचयितुं दिगित्युक्तम् ।
॥ यत इति ॥ प्रागभावस्याज्ञानभिन्नत्वान्न ज्ञाननिवर्त्यत्वमित्यर्थः ॥ अभावेति ॥ प्रमाणज्ञानं स्वप्रागभावनिवृत्तिरेव न तु तन्निवर्तकमिति न प्रमाणज्ञानप्रागभावस्तन्निवर्त्य इत्यर्थः । न च प्रतियोग्यतिरिक्ता प्रागभावनिवृत्तिरिति मते नैतदुक्तमिति युक्तम् । अनवस्थापातेन तस्याप्रामाणिकत्वात् ॥ शेषेति ॥ न च प्रतियोगिविशेषणत्वेनाखण्डा-भावसम्पादकतया न वैय्यर्थ्यमिति वाच्यम् । तत्वनिर्णयकथायां लघुना साध्यनिर्देशेन साध्यसिद्धौ सम्भवत्यामखण्डाभावान्तर्भावेण साध्यस्यानिर्देश्यत्वात् । अन्यथाऽखण्डाभाव-न्यायेनाखण्डोपाधावपि तदनापत्तेः ॥ आवरणत्वायोगादिति ॥ तथा च तद्विशेषणविशिष्टं साध्यं पक्षे बाधितमित्यर्थः । नन्वज्ञानादिसाक्षितया चितो भासमानत्वेऽपि अस्ति प्रकाशत इति व्यवहाराभावेन तदंशेऽज्ञानावरणमस्तीति शङ्कानिरासायोक्तम् ॥ निर्विशेषेति ॥ सत्ताप्रकाशयोः प्रकाशमानचिन्मात्रत्वेन तद्व्यवहारानुपपत्तेरित्यर्थः । तदुक्तमनुव्याख्याने निर्विशेषे स्वयम्भाते किमज्ञानावृतं भवेदिति ॥ स्वोत्पादकादृष्टेति ॥ अदृष्टस्यावरणत्वा-भावादित्यर्थः ॥ शेषेति ॥ स्वविषयेत्यस्येत्यर्थः । एतेन यददृष्टं स्वजनकं विषयान्तर-ज्ञानप्रतिबन्धकतया तदावरकं तादृशादृष्टपूर्वकत्वेनार्थान्तरवारणाय स्वविषयेति विशेषणमिति निरस्तम् । स्वजनकं स्वविषयज्ञानान्तरप्रतिबन्धकतया स्वविषयावरणं चादृष्टविशेष-मादायार्थान्तरतादवस्थ्याच्च ॥ वृत्तिरिति ॥ वृत्तिश्चिदुपरागार्थेति मते चितोऽनावृतत्वेन वृत्तेरावरणनिवर्तकत्वं नास्तीत्यर्थः ॥ घटाकारेति ॥ घटाकारवृत्यादिनैव घटप्रकाशकघटा-धिष्ठानचैतन्यस्य आवरणाभिभवरूपाभिव्यक्तेर्जातत्वेन घटज्ञानरूपस्य घटाधिष्ठानचैतन्य-स्यावरणनिवर्तकत्वं नास्तीत्यर्थः ।
ननु वृत्तिस्तत्प्रतिबिम्बितचैतन्यं वा घटप्रकाशकम् । तच्च घटाधिष्ठानचैतन्यस्य प्रमेय-भूतस्यावरणं निवर्तयतीति शङ्कां परिहर्तुमुक्तम् ॥ वृत्तिरिति ॥ ज्ञाने ज्ञेयाध्यासस्यालाभा-दित्यर्थः ॥ चरमेति ॥ ननु चरमसाक्षात्कारप्रतिबन्धकादृष्टे सति न तदुत्पत्तिरिति प्रथमं तन्निवृत्तिः । कारणात्मनाऽवस्थितस्य तस्य ज्ञाननिवर्त्यत्वाच्च मिथ्यात्वमपीति चेन्न । तावताऽपि ज्ञाननिवर्त्यत्वाव्याहतेः ॥ अज्ञानस्येति ॥ वृत्यादिरूपस्य ज्ञानस्याज्ञानाश्रय-चिन्मात्रानाश्रितत्वादित्यर्थः । नन्वन्तःकरणस्य चिदाश्रितत्वेन तद्वृत्तिस्तत्प्रतिबिम्बितचैतन्यं वा ज्ञानं चिदाश्रितमेव । न हि किञ्चिदवच्छिन्नाश्रितस्यापि तदवच्छेद्याश्रयत्वमपैति । कर्ण-शुष्कुल्यवच्छिन्नाकाशाश्रितस्य शब्दस्याकाशाश्रितत्ववदिति । मैवम् । त्वन्मतेऽवच्छेद्या-वच्छिन्नयोर्भेदात् । अन्यथा विशिष्ठनिष्ठयोदृश्यत्वमिथ्यात्वयोर्विशेष्यनिष्ठत्वं स्यात् । किञ्च वृत्तिस्तत्प्रतिबिम्बितचैतन्यं वा न घटादिज्ञानम् । तत्र तदनध्यासात् । किन्तु वृत्याद्यभि-व्यक्तं घटाद्यधिष्ठानचैतन्यं घटादिज्ञानम् । तच्च नाज्ञानाश्रयचिन्मात्राश्रितम् । तदिदमुक्तं तदभिव्यक्ताधिष्ठानचैतन्यस्य वेति । प्रमाणज्ञानस्यान्तःकरणनिष्ठत्वादावरणस्य विषयनिष्ठ-त्वान्न तयोः समानदेशत्वमित्याह ॥ त्वन्मत इति ॥ आद्येति ॥ न चाद्यविशेषणेन प्रागभावो व्यवच्छिद्यते । स्वनिवर्त्येत्यनेन तु अत्यन्ताभाव इति युक्तम् । स्वप्राक्पद-विरहितेनाद्यविशेषणेनैवोभयव्यवच्छेदसम्भवादित्यर्थः ॥ अविद्येति ॥ अज्ञानसिद्धिरेव स्यान्न तु सिद्धसाधनादिकमित्यर्थः ।
ननु अस्ति प्रकाशत इति व्यवहारविरोधित्वरूपमावरणत्वं भावाभावसाधारणमत आह ॥ तथात्व इति ॥ तस्येति ॥ असाधारण्येन व्यपदेशा भवन्तीति न्यायेन मात्रशब्दान्त-र्भावेन वा स्वविषयमात्रावरणत्वरूपार्थलाभसम्भवादित्यर्थः ।
यत्तु स्वप्रागभावव्यतिरिक्तस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकमित्येकं साध्यम् । स्व-विषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकमिति द्वितीयं साध्यमिति साध्यद्वये तात्पर्यमिति । तन्न । उक्तरीत्या ज्ञानाज्ञानयोः समानदेशत्वाभावात् । प्रागभावस्य स्वनिवर्त्यत्वाभावेन प्रथमसाध्ये स्वप्रागभावव्यतिरिक्तेत्यस्य वैय्यर्थ्याच्च । द्वितीयसाध्ये आवरणपूर्वकमित्येतावतैव पूर्णत्वाच्च ॥ अप्रयोजकतेति ॥ एतच्चोपलक्षणम् । यादृशसाध्यनिर्देशं विना विवादपद-साध्यसिद्धिर्न भवति तादृशं साध्यं निर्देष्टव्यमित्यर्थः । तेनार्थान्तरादिवारकविशेषणानां नानुपादानप्रसङ्गः । एतेनेश्वरानुमानेऽदृष्टप्रागभावव्याप्यप्रागभावाप्रतियोगीति विशेषणं विनाऽ-भावकार्यत्वहेतोरप्रयोजकत्वाभावात् तद्विशेषणमप्यनुपादेयं स्यादिति निरस्तम् । अदृष्टप्राग-भावेत्यादिविशेषणं विनाऽर्थान्तरापत्या तद्वारकत्वेन तत्सार्थक्यात् । अत एव ब्रह्म स्वसमानसत्ताकजीवप्रतियोगिकभेदवद् अभ्रान्तित्वादित्यनुमाने कल्पितभेदवत्तयाऽर्थान्तर-निवृत्तये स्वाभिमतसाध्यसिद्धये स्वसमानसत्ताकेति विशेषणं तथाऽत्रापीति निरस्तम् । तत्रार्थान्तरवारणावत् । प्रकृते तदभावात् ॥ शब्दसाम्येनेति ॥ पर्वतमहानसवृत्तिधूम-व्यक्त्योर्भेदेऽपि धूमत्वस्यैकत्ववज् ज्ञानप्रभयोरेकं प्रकाशत्वं नास्तीत्यर्थः । पक्षदृष्टान्त-योरनुगतो हेतुर्नास्तीत्यत्रोपष्ठंम्भकमाह ॥ उक्तं चेति ॥ अहङ्कारस्यात्मव्यतिरिक्तत्व-साधकसंविदभिन्नस्यात्मनः स्वप्रकाशत्वं साधयितुं सविदोऽस्वप्रकाशत्वे विश्वस्यानवभासप्रसङ्ग इति दूषणेऽभिहिते नन्वप्रकाशमानमेव ज्ञानं चक्षुरादिवद्विषयमवभासयेदिति कुतो विश्वस्या-नवभास इति शङ्किते विषयप्रकाशजनने न चक्षुषः प्रकाशकत्वं सवेदनं तु स्वयमर्थप्रकाश एव प्रदीपवदवभासमानमेवार्थं प्रकाशयतीति परिहृते ननु प्रदीपालोकस्याप्यर्थानुभवजननेनैव चक्षुरादिवदर्थप्रकाशकताऽस्त्विति पुनः शङ्कायां ज्ञानप्रकाश्यत्वादज्ञानविरोधिनोऽन्यदेवालोक-प्रकाश्यत्वं तमोविरोधितया प्रसिद्धं तदव्यवधानेनालोकेन क्रियते इत्यादिना चक्षुरपेक्षया आलोकसंवेदनयोर्वैलक्षण्यमभिधाय आलोकसंवेदनयोरपि प्रकाशकत्वे वैलक्षण्यमस्तीति विवरणोऽभिहितमित्यर्थः ।
सङ्गृह्णाति ॥ एवं चेति ॥ प्रमाणस्येति ॥ चरमवृत्तेरित्यर्थः ॥ अध्यासेति ॥ प्रकाशमानस्यैवाधिष्ठानत्वादित्यर्थः । नन्वधिष्ठानचितः प्रकाशेऽपि अस्ति प्रकाशत इत्यादि-रूपेण न प्रकाशत इति चेन्न । निरस्तत्वात् । व्याहत्यापि दूषयति ॥ किञ्चेति ॥ अस्या अज्ञानविषयिण्याः ॥ प्रकाशितेति ॥ विशेषणभावाद्विशिष्टहेतोरभावे प्रकाशित-प्रकाशकत्वं, विशेष्याभावात्तदभावेऽप्रकाशकत्वं स्यादित्यगत्याऽनुमितौ विशिष्टाभावस्यासम्भव इत्यर्थः ॥ उभयथेति ॥ आद्ये सिद्धसाधनाद् द्वितीये बाधादनुमितिर्व्यर्था । अर्थविषया न भवति । विगतार्थत्वाद्विरुद्धार्थत्वाच्चेत्यर्थः । पराभिमतानुमितौ विकल्पनान्न सिध्यसिद्धि-व्याघातः ॥ तदिति ॥ अप्रकाशितेत्यर्थः ॥ अत्रैवेति ॥ पक्षबहिर्भावे व्यभिचारः । पक्षत्वे तु बाध इत्यर्थः ॥ अस्या इति ॥ उत्पत्स्यमानत्वेन पराभिमताया अनुमिते-रित्यर्थः । केचित्तु विवादगोचरापन्नमित्यनेन जन्यसविकल्पकाजन्यचाक्षुषघटप्रमाणज्ञानं विवक्षितम् । परमते जन्यज्ञानमात्रस्य सविकल्पकजन्यत्वात्सविकल्पकस्य जन्यज्ञान-जन्यत्वाच्च पक्षाप्रसिद्धिवारणाय जन्यसविकल्पकाजन्येत्युभयोपादानम् । अनेन धारावाहिक-द्वितीयादिबुद्धिव्युदासः । पराभिमतेश्वरज्ञानव्यावृत्तये चाक्षुषप्रमाणज्ञानेति । साध्ये च स्वशब्दः समभिव्याहृतपरः । स्वप्रागभावपदेन स्वसमानाधिकरणप्रागभावः कथ्यते । स्व-विषयावरणेति स्वजननायोग्यम् । स्वनिवर्त्येति स्वजन्यध्वंसप्रतियोगि । स्वदेशगतेति स्वाश्रये वर्तमानम् । एवं च पक्षीभूतज्ञानस्य घटपटादेः संयोगजनकत्वसम्भवात् तत्प्राग-भावस्तन्निवर्त्य इति संयोगादिप्रागभावात्मत्वस्वजनकादृष्टेच्छाप्रागभावपूर्वकत्वेनार्थान्तर-व्यावृत्तये प्रातिलोम्येन विशेषणानि । अज्ञानं चैवंविधमिति न बाधः । अथवा प्रमाण-ज्ञानस्य प्रागभाव एव स्वप्रागभावः । स्वविषये संशयादिजनकतायोग्यमेव स्वविषयावरणम् । स्वसत्ताक्षणनियतध्वंसप्रतियोगि स्वनिवर्त्यम् । ततश्च प्रागभावोऽपि परमते विशेषादर्शनतया संशयादिजनक इति स्वप्रागभावस्वजनकादृष्टान्धकारादिव्यावृत्तये स्वप्रागभावेत्यादिविशेष-णानि । परमते मनःसंयोगपूर्वकत्वेनार्थान्तरनिवृत्तये स्वनिवर्त्येतीत्याहुः ।
अत्रोच्यते । पटबुभुत्सयोन्मीलितेन चक्षुषा दैवाद् घटपटसंयोगे सति बुभुत्साप्राबल्या-त्पटज्ञानानन्तरं जायमाने घटचाक्षुषज्ञाने पटज्ञानपूर्वकत्वेना सिद्धसाधनम् । पटज्ञानं हि स्वशब्दनिर्दिष्टघटज्ञानसमानाधिकरणप्रागभावव्यतिरिक्तं स्वजननायोग्यं स्वजन्यध्वंसप्रतियोगि स्वाश्रयगतं च भवति । द्वितीयसाध्येऽपि यत्र घटे पाषाणादिसंशयानन्तरं विशेषदर्शनं विनैव समीपगमनादिना घट इति चाक्षुषं प्रमाणज्ञानं जायते तत्र पूर्वतनसंशयमादाय सिद्ध-साधनम् । घटविषयकसंशयोऽपि धर्मिज्ञानकोटिज्ञानत्वादिना घटविषयकसंशयान्तरजननयोग्य इति घटप्रमाविषयावरणं भवति । स्वसत्ताक्षणनियतध्वंसप्रतियोगी च भवतीति । यथाश्रुतेन स्वविषयावरणपूर्वकमित्यनेनैव साध्यसिद्धेरुक्तकुसृष्टेरनादरणीयत्वाच्च । ग्रन्थस्वारस्यस्य त्वया त्यक्तत्वाच्च । नन्वन्धकारनिवृत्त्यव्यवहितोत्तरकालीनचाक्षुषज्ञानं पक्षत्वेनाभिमतम् । साध्यं च स्वसमानाधिकरणप्रागभावव्यतिरिक्तेत्यादि विवक्षितमिति चेन्न । स्मृत्यभावमात्रेणास्मृतस्य स्मृत्यनन्तरं स्मृतत्ववत् पूर्वं प्रकाशाभावमात्रेणाप्रकाशितस्य तस्मिन्सति प्रकाशितत्वो-पपत्याऽप्रयोजकत्वात् । एतच्चाकर एव स्पष्टम् । अन्धकारनिवर्तकत्वं चोपाधिः ॥
॥ अनादित्वे सतीत्यादि ॥ नन्वनादिभावत्वस्य निवर्त्यावृत्तित्वेऽप्यविद्याया भाव-विलक्षणाया निवर्त्यत्वोपपत्तेर्न विरोध इति चेन्न । अनादित्वे सत्यभावविलक्षणत्वेना-निवर्त्यत्वस्यापि प्रसङ्गेनाभावविलक्षणनिवृतौ सादित्वस्यैव प्रयोजकत्वात् । न च द्वितीयानुमाने अनाश्रितत्वमात्रवृत्तित्वमुपाधिः । ध्वंसत्वे साध्याव्याप्तेः ॥ निवर्त्यत्वं वेति ॥ न चैतयोः सकलनिवर्त्यावृत्तित्वमुपाधिः । विनाशसामग्रीयुक्तत्वे साध्याव्यापकत्वात् । न च विनाशसामग्रीयुक्तत्वेऽनादिभावनिष्ठत्वस्य वाऽनाद्यभावविलक्षणनिष्ठत्वस्य वाऽभावो नेति न तत्र साध्याव्याप्तिरिति वाच्यम् । अभावविलक्षणस्य विनाशे सादित्वस्य प्रयोजकत्वे-नानादिभावे विनाशसामग्रीयुक्तत्वस्याभावात् । साध्यव्यापकोपाधिव्यतिरेकनिश्चयवति विनाश-सामग्रीयुक्तत्वेऽनादिभावनिष्टत्वादेः साध्यव्यतिरेकस्य सन्दिग्धत्वेन निश्चितसाध्यव्यापका-भाववति व्याप्यसंशयरूपव्यभिचारसंशयेनोपाधेर्व्यतिरेकव्याप्त्यसिद्धेश्च ॥ अनादित्वं वेति ॥ कारणशून्यत्वमित्यर्थः । न चात्र सकलानाद्यवृत्तित्वमुपाधिः । निश्चितोपाधिव्यतिरेकवति प्रागभावाप्रतियोगित्वादौ साध्यस्य सन्देहेनोपाधेर्व्यतिरेकव्याप्त्यसिद्धेः ॥ प्रमाणज्ञानं वेति ॥ न चात्र प्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धिरिति वाच्यम् । आवाभ्यामप्रसिद्ध-प्रतियोगिकस्याप्यभावस्य स्वीकारात् ॥ आत्मगतत्वाभावादिति ॥ न च वृत्तिरूपैको-पाध्यारूढत्वेन प्रमायाश्चैत्रगतत्वमिति वाच्यम् । तथा च प्रमातृप्रमाणप्रमेयसाङ्कर्यापत्या तत्परिहाराय कल्पितभेदमादाय व्यवस्थायास्त्वयाऽपि वाच्यत्वेन प्रमातत्प्रागभावयोर्न चैत्रगतत्वम् । वृत्तेरन्तःकरणगतत्वाच्चेत्यर्थः ॥ साध्य इति ॥ चैत्रप्रमायाः पक्षीकृतायाः प्रमामात्रप्रागभावनिवर्तकत्वनिश्चयेन प्रमापदस्याव्यावर्तकत्वादित्यर्थः ॥ प्रकरणसमता चेति ॥ तेनैव हेतुना सत्प्रतिपक्षतेत्यर्थः । ननु सत्प्रतिपक्षानुमाने चैत्रासमवेतत्वमुपाधिः । चैत्रप्रमा न चैत्रगतानादिनिवर्तिका प्रमात्वान् मैत्रप्रमावदित्यनुमानेन चैत्रप्रमाप्रागभावोऽपि न सिद्ध्येदित्याभाससाम्यमित्यत आह ॥ न चात्रेति ॥ आत्मत्वादौ साध्याव्याप्तेरित्यर्थः । आभाससाम्यं परिहरति ॥ उक्तेति ॥
ननु जन्ममात्रे चैत्रगतप्रमाभावातिरिक्तस्वप्रागभावनिवर्तकत्वेनोपाधिसाध्ययोः सत्वा-त्तद्व्यतिरेकसहचाराग्रह इत्यत आह ॥ व्यतिरेकेति ॥ आकाशादिरप्युत्पन्न इति पक्षे प्रागभाव उपसंहारस्थलं मतान्तरे तु आकाशादिरपीति बोध्यम् ॥ चैत्रप्रमेति ॥ अनेन प्रागभावद्वयसिद्ध्यापत्तिः ॥ घट इति ॥ एतेन तु प्रागभावव्यतिरिक्तमनादिभूतं घटविरोधि सिद्ध्यति ॥ चैत्रेच्छा वेति ॥ अनेन प्रागभावद्वेषाभ्यामतिरिक्तमिच्छाविरोधिभूतं, अप्रामा-प्रागभावाज्ञानाभ्यामन्यदप्रमानिवर्त्यं च सिद्ध्यतीत्यतिप्रसङ्ग इत्यर्थः ॥ चैत्रनिष्ठत्वे सतीति ॥ एतच्च निवर्तकत्वविशेषणम् । चैत्रप्रमायां चैत्रनिष्ठत्वस्य विशेषणस्य सत्वेन तद्विशिष्टस्य चैत्रप्रमाभावातिरिक्तानादिनिवर्तकत्वस्यानधिकरणत्वे साध्यमाने विशेष्यभूतस्य निरुक्तनिवर्तकत्वस्यानधिकरणत्वं सिद्ध्यतीत्यर्थः । नन्वत्र चैत्रावृत्तित्वमुपाधिरित्यत आह ॥ न चेति ॥ एतदुपाधित्वे सतीति ॥ एतच्च बुद्ध्या विविक्तस्य साध्यव्यापकत्वस्य विशेषणम् । साध्यव्यापकत्वानधिकरणत्वमादाय पक्षे साध्यसिद्धिः ॥ अत एवेति ॥ आभाससाम्यसत्प्रतिपक्षादिनेत्यर्थः ॥ किञ्चेति ॥ अभावभ्रमादौ व्यभिचारेणाज्ञानस्य भ्रमानुपादानत्वादित्यर्थः ॥ एतज्जनकेति ॥ एतज्जनकबाध्यातिरिक्तोपादानक इति पर्यवसितार्थः । न च बाध्यस्याजनकत्वादेतज्जनकबाध्याप्रसिद्ध्या तदतिरिक्ताप्रसिद्धिरिति वाच्यम् । प्रतियोग्यप्रसिद्धेरभावप्रसिद्धिं प्रति गुणत्वेन दोषत्वाभावात् ॥ प्रयत्नान्यत्वे सतीति ॥ एतच्च प्रवृत्यभाव एव निवृत्तिरिति मतमाश्रित्य प्रयत्ने व्यभिचारवारणाय । मतान्तरे तु प्रवृत्तेर्निवृत्या निवृत्तेश्च प्रवृत्या समानाधिकरणत्वेन साध्यसत्वाद्व्यभिचाराभावेन तदनुपादेयमिति ध्येयम् । नन्विच्छाविरोधिद्वेषसिद्धावपि अनिच्छा यथा न सिद्ध्यति तथा ज्ञानविरोधिनः सिद्धावपि कथमज्ञानसिद्धिरित्यत आह ॥ ज्ञानेति ॥ एतेनेत्युक्तमेव दूषणजातं विशदयति ॥ अप्रयोजकत्वादीति ॥ पूर्वं कृत्यभावमात्रेणाकृतस्य कृति-वत्स्मृत्यभावमात्रेणास्मृतस्य स्मृतिवच्चेत्यादिनोक्तस्येति शेषः । एतेनैव ज्ञानविरोधित्वमनादि-भावत्वसमानाधिकरणं सकलज्ञानविरोधिवृत्तित्वाद् दृश्यत्ववत् । अनाद्यभावविलक्षणत्वं वा ज्ञानविरोधिवृत्ति अनाद्यभावविलक्षणमात्रवृत्तित्वात् । अभिधेयत्ववदित्यपि निरस्तम् ॥
श्रीमद्व्यासयतीन्द्रार्यसत्कल्पतरुसंश्रिति ।
न्यायकल्पलतायां हि नानुमाऽज्ञानसाधिका ॥
न्यायामृतसौगन्ध्यं
यच्चात्र विवरणानुमानं प्रमाणं विवादपदं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषया-वरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकम् अप्रकाशितार्थप्रकाशकत्वात् । अन्धकारे प्रथमोत्पन्न प्रदीपप्रभावत् । स्वप्रागभावस्वोत्पादकादृष्टस्वोत्पत्तिप्रतिबन्धकादृष्टविषयगताज्ञातत्वैरर्थान्तरता- वारणाय क्रमेण साध्यविशेषणानीति । तन्न । धारावाहिकद्वितीयादिबुद्धिषु बाधासिद्ध्यापत्तेः । न च (धारावाहिकबुद्धीनां) तत्तत्कालावच्छिन्नार्थविषयकत्वेनाज्ञातज्ञापकत्वान् नोक्तदोषः, (अनात्माकारप्रमाणवृत्तीनां तत्तदवच्छिन्नचैतन्यविषयत्वेन स्वविषयावरणनिवर्तकत्वात्) चित्त्वेनैव प्रकाशप्रसक्तिर् न त्वनवच्छिन्नचित्त्वेन गौरवादिति वाच्यम् । तत्तत्काला-वच्छिन्नस्य चैतन्यस्य शुद्धभिन्नत्वे तस्य दृश्यत्वेन तत्र मिथ्यात्वं नेति व्यभिचारः । तदभिन्नत्वे तद्दोषतादवस्थात् ।
ज्ञानमज्ञानस्यैव निवर्तकमिति नियमात् स्वनिवर्त्यपदेनैव अर्थान्तरवारणेनेतरपदानां वैय्यर्थ्यात् । न च प्रमात्वेन ज्ञाननिवर्त्यत्वमन्येषां नेत्यत्र तात्पर्यम् । भ्रमस्याज्ञान-तदधीनान्यतरानिवर्तकत्वेन प्रमात्वेनैव सर्वनिवर्तकत्वात् । अज्ञानातिरिक्तस्य स्वविषया-वरणत्वाभावेन तेनैव सर्वपदान्तरवैयर्थ्यात् । न च अस्ति प्रकाशते इत्यादिव्यवहार-विरोधित्वरूपावरणत्वं स्वप्रागभावे स्वोत्पत्तिप्रतिबन्धकादृष्टेऽप्यस्तीति वाच्यम् । स्वप्रकाश-निर्विशेषस्वरूपातिरिक्तसत्ताप्रकाशयोस्त्वन्मते असत्वात् ।
किञ्च जडेऽज्ञानस्यानङ्गीकाराच् चितश्चाज्ञानादिसाक्षितया सदा भासमानत्वाद् आवरण-स्यैवाप्रसिद्धिः । एतेनाज्ञानादिसाक्षितया चितः प्रकाशमानत्वेऽप्यस्ति प्रकाशते इति व्यवहाराभावेन तदंशे अज्ञानावरणमावश्यकमिति निरस्तम् । मोक्षे उक्तव्यवहाराभावेना-ज्ञानावरणापाताच्च ।
किं च ज्ञानाश्रयगतत्वमज्ञानस्यासिद्धम् । न चान्तःकरणस्य चिदाश्रितत्वेन तद्वृत्ते-स्तत्प्रतिफलितज्ञानस्य वा चिदाश्रितत्वसम्भवः । किञ्चिदवच्छिन्नतदाश्रितस्यापि तदाश्रित-त्वानपायात् । कर्णशष्कुल्यवच्छिन्नाकाशाश्रितस्य शब्दस्याकाशाश्रितत्ववदिति वाच्यम् । वृत्तेस्तत्प्रतिबिम्बितस्य च त्वन्मते ज्ञानत्वाभावात् । ज्ञानज्ञेययोर्हि आध्यासिकसम्बन्धः, स चोभयत्र नास्ति, किं तु वृत्त्यभिव्यक्ताधिष्ठानचैतन्ये सोऽस्ति । तदेव ज्ञानं, तच्चानाश्रित-मेव । किञ्चिदवच्छिन्नतदाश्रितस्य तदाश्रितत्वे साक्षाज् ज्ञानस्याज्ञानाश्रयाश्रितत्वालाभात् । न हि घटाश्रितं घटत्वं साक्षाद्भूतलाश्रितमिति व्यवहृतिः ।
किञ्च प्रमाणज्ञानालोकसाधारणमेकं प्रकाशत्वमप्यसिद्धम् । न च प्रकाशकत्वं प्रकाशक-पदवाच्यत्वम् अप्रकाशविरोधित्वं वा ज्ञानालोकयोः साधारणम् । प्रकाशपदवाच्यत्वस्याति-प्रसक्तत्वात् । अज्ञानान्धकारानुगताप्रकाशस्याप्रसिद्ध्या तद्विरोधित्वासम्भवात् । न च प्रकाशकपदेन शास्त्रे सर्वदेशकालयोर्वा व्यवह्रियमाणत्वं तद्विवक्षितमिति वाच्यम् । ज्ञाना-लोकसाधारणतया व्यवह्रियमाणत्वस्याप्यनुगतस्यासिद्धेः । उक्तं च विवरणे ‘ज्ञान-प्रकाश्यत्वादज्ञानविरोधित्वादन्यदेव आलोकप्रकाश्यत्वं तमोविरोधित्वं नामे’ति ।
एतेन एवं चाप्रकाशितार्थगोचरत्वे सति प्रकाशशब्दवाच्यत्वादप्रकाशविरोधिप्रकाश-कत्वादिति वा हेतुः पर्यवसित इति निरस्तम् । स्वप्रकाशचितः सर्वदा भासमानत्वेना-प्रकाशितार्थगोरचत्वस्यैवासिद्धेः ।
किञ्च गोपदवाच्यत्वेन पृथिव्या अपि शृङ्गित्वानुमानापाताच्च । किञ्चाज्ञानानुमितेः प्रकाशितार्थप्रकाशकत्वम् अप्रकाशकत्वं वा स्यादिति उभयथा व्यर्थत्वापत्या अप्रकाशितार्थ-प्रकाशकत्वमवश्यं वाच्यम् । तथा च तत्र व्यभिचारः ।
किञ्चानादित्वे सति भावत्वम् अभावविलक्षणत्वं च न निवर्त्यनिष्ठम् अनादिभावमात्र-वृत्तिधर्मत्वात्, अनाद्यभावविलक्षणमात्रवृत्तित्वाद्वा आत्मत्ववत् । निवर्त्यत्वं वा नानादि-भावनिष्ठम् अनाद्यभावविलक्षणनिष्ठं नेति वा निवर्त्यमात्रवृत्तित्वात् प्रागभावत्ववत् । अनादित्वं वा नावरणनिष्ठम् अनादिभाववृत्तित्वात् प्रागभावत्ववत् । प्रमाणज्ञानं वा अभावान्यानाद्य-निवर्तकं ज्ञानत्वाद् भ्रमवद् इत्यादिना सत्प्रतिपक्षता, कृत्यभावमात्रेणाकृतस्य कृतिवत् पूर्वं प्रकाशाभावमात्रेणाप्रकाशितस्य प्रकाशोपपत्तेरप्रयोजकत्वं च । ननु अनादिभावत्वस्य निवर्त्यावृत्तित्वेऽपि अविद्याया भावविलक्षणाया निवर्त्यत्वोपपत्तेर्न विरोध इति चेन्न । अभावविलक्षणे अज्ञाने भावादिवैलक्षण्यस्य व्याहतत्वात् । अनादित्वे सति अभावविलक्षण-त्वेनानिवर्त्यत्वस्यापि प्रसङ्गेन अभावविलक्षणवृत्तौ सादित्वस्यैव प्रयोजकत्वात् । न च द्वितायानुमाने अनाश्रितभावमात्रवृत्तित्वमुपाधिः । अत्यन्ताभावत्वान्योन्याभावत्वध्वंसत्वेषु साध्याव्याप्तेः । न चात्यन्ताभावादयोऽधिकरणातिरिक्ता नाङ्गीक्रियन्त इति वाच्यम् । सप्रतियोगिकाभावनिष्प्रतियोगिकनिर्विशेषब्रह्मणोरभेदासम्भवात् । स्वप्रागभावव्यतिरिक्तेति विशेषणं वदता विवरणेन ध्वंसस्य प्रतियोगिभिन्नत्वाङ्गीकारात् । न च तृतीयचतुर्थयोः सकलनिवर्त्यावृत्तित्वमुपाधिः । ध्वंसप्रतियोगित्वलक्षणानित्यत्वे साध्याव्याप्तेः । न च पञ्चमे सकलानाद्यवृत्तित्वमुपाधिः । प्रागभावप्रतियोगित्वरूपे नित्यत्वे साध्याव्याप्तेः । न चोक्त-नित्यत्वे आवरणावृत्तित्वं सन्दिग्धम् । उपाधेः साध्यव्यापकत्वसन्देहेन तदभावस्य साध्या-भावासाधकत्वात् । न च षष्ठे प्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धिः । आवाभ्याम् अप्रसिद्ध-प्रतियोगिकस्याप्यभावस्य स्वीकारात् ।
यत्तु तत्त्वप्रदीपिकोक्तम् । चैत्रप्रमा चैत्रगतप्रमाप्रागभावातिरिक्तानादिनिवर्तिका प्रमात्वान् मैत्रप्रमावत् । विगीतो विभ्रम एतज्जनकाबाध्यातिरिक्तोपादानकः विभ्रमत्वात् सम्मतवदिति । तन्न । प्रमायास्तत्प्रागभावस्य च चैत्रगतत्वाभावात् । न च वृत्तिरूपैकोपाध्यारूढत्वेन प्रमायाश्चैत्रगतत्वमिति वाच्यम् । वृत्यारूढस्य विषयेणाध्यासिकसम्बन्धाभावेन विषय-प्रकाशत्वरूपज्ञानत्वाभावात् । शुद्धचित्तोऽनाश्रितत्वाच्च । चैत्रप्रमा स्वप्रागभावातिरिक्तानादि-भावनिवर्त्तिका न चैत्रसमवेतत्वात् सुखादिवत् । चैत्रप्रमा चैत्रगतस्यानादिभावस्य निवर्तिका न प्रमात्वान् मैत्रप्रमावत् । चैत्रप्रमा स्वप्रागभावातिरिक्तभावनिवर्तिका प्रमात्वान् मैत्रप्रमावत् । घटश्चैत्रेच्छा वा चैत्राप्रमा वा स्वप्रागभावातिरिक्तानादिनिवर्तिका घटत्वादिच्छात्वाद्वा अप्रमात्वाद्वा घटान्तरवन् मैत्रेच्छावन् मैत्राप्रमावद्वेत्याभाससाम्यम् ।
द्वितीयानुमानमप्यशुद्धम् । विगीतो विभ्रम एतज्जनकबाध्यातिरिक्तोपादानकः विभ्रमत्वात् सम्मतवद् इति सत्प्रतिपक्षात् । न च बाध्यस्य त्वन्मतेऽजनकत्वात् साध्याप्रसिद्धिः । पक्षविशेषणकानुमाने साध्याप्रसिद्धेरदोषत्वात् । प्रतियोग्यप्रसिद्धिरभावप्रसिद्धिं प्रत्यनुगुणत्वाच्च ।
एतेन विमता प्रमा प्रमाभावातिरिक्तस्य अनादेर्निवर्तिका कार्यत्वाद् घटवज् ज्ञानत्वाद्वा भ्रमवत् । भ्रमानुत्तरप्रमा स्वप्रागभावातिरिक्तस्वविरोधिनिवर्तिका प्रमात्वाद् भ्रमोत्तरप्रमावत् । ज्ञानत्वं स्वविषयावरणनिवर्तकनिष्ठम् अप्रकाशितार्थप्रकाशवृत्तित्वादालोकत्ववत् । अनित्यज्ञानम् अभावत्वानधिकरणस्वविरोधिसमानाधिकरणं प्रयत्नान्यत्वे सति सविषयत्वे सति अनित्यत्वाद् अनित्येच्छावत् । इच्छा हि स्वविरोधिद्वेषसमानाधिकरणा ज्ञानविरोधिभावश्चाज्ञानमित्यादि नवीनानुमानानि निरस्तानि । विमता प्रमा स्वप्रागभावातिरिक्तस्याभावस्यानिवर्तिका कार्यत्वाद् घटवत् । प्रमा स्वाभावातिरिक्तस्वविरोध्यनादिनिवर्तिका ज्ञानत्वाद् भ्रमवदित्याभाससाम्य-माद्ये । द्वितीयतृतीययोर् विमता प्रमा स्वप्रागभावातिरिक्तानादेर्निवर्तिका न कार्यत्वाद् घटवत् । ज्ञानत्वं स्वविषयावरणनिवर्तकनिष्ठं न गुणत्वव्याप्यत्वाद् रूपत्वादिवदिति सत्प्रतिपक्षात् । चतुर्थे संस्कारे व्यभिचारात् ।
ननु ज्ञानविरोधित्वम् अनादिभावत्वसमानाधिकरणं सकलज्ञानविरोधिवृत्तित्वाद् दृश्यत्व-वत् । यद्वा अनाद्यभावविलक्षणत्वं ज्ञानविरोधिवृत्ति अनाद्यभावविलक्षणमात्रवृत्तित्वाद् अभिधेयत्ववदिति चेन्न । आद्ये ज्ञानत्वावच्छिन्नप्रतियोगिताकाभावत्वे व्यभिचारात् । द्वितीये अनाद्यभावविलक्षणत्वं न ज्ञानविरोधिवृत्ति भावमात्रवृत्तित्वादभावविलक्षणमात्रवृत्तित्वादिति सत्प्रतिपक्षात् ।
॥ इति अविद्यानुमानभङ्गविवरणम् ॥