नापि ज्ञाननिवर्त्यत्वान्यथानुपपत्तिस्तत्र मानम्
५०. ज्ञाननिवर्त्यत्वान्यथोपपत्तिविचारः
न्यायामृतं
नापि ज्ञाननिवर्त्यत्वान्यथानुपपत्तिस्तत्र मानम् । न हि ज्ञानमज्ञानस्यैव मिथ्याभूतस्यैव वा निवर्तकमिति नियमः । ज्ञानमात्रेण ज्ञानसमानविषयका-ज्ञानानुपादानकस्य सत्यस्य तत्प्रागभावस्येश्वरज्ञानेन घटादेरुत्तरज्ञानेन पूर्व-ज्ञानस्य, प्रत्यभिज्ञानादिना संस्कारस्य, विषये दोषदर्शनेन रागादेः, सुहृद्दर्शनेन दुःखादेर्गरुडध्यानादिना विषादेः, अग्निचित्कपिलादिदर्शनेन दुरितादेः, सेत्वादिदर्शनेन ब्रह्महत्यादेश्च निवृत्तेः । ननु सेत्वादिदर्शनमज्ञाननिवृत्तिद्वारेणा-दृष्टद्वारेण वा तन्निवर्तकम् । साक्षान्निवर्तकत्वेऽपि न ज्ञानत्वेन । किं तु विहितक्रियात्वेनेति चेत्, समं प्रकृतेऽपि । श्रुतदर्शनत्यागेन तत्प्राप्ति-स्तज्जन्यादृष्टं वा निवर्तकं चेदिहापि ब्रह्मध्यानं तज्जन्यादृष्टं वा निवर्तकमस्तु । ‘‘तस्याभिध्यानात्’’ इत्यादिश्रुतेः । ननु सेतुदर्शनमात्रं न निवर्तकम् । किं तु दूरागमनादिविशिष्टमिति चेदिहापि ब्रह्मज्ञानमात्रं न निवर्तकम्, किन्तु नियमाधीतवेदान्तश्रवणादिविशिष्टम् । भाषाप्रबन्धजन्येनानधीतवेदान्तजन्येन, अधीतवेदान्तजन्येनाप्यसम्भावनाविपरीतभावनाप्रबलारब्धकर्मादिना प्रतिबद्धेन तेन तदनिवृत्तेः । अन्यथा वेदान्ताध्ययनश्रवणादिनियमस्यासम्भावनादि-निवर्तकमननादेश्च वैयर्थ्यं स्यात् । प्रारब्धकर्मवशाज्जीवन्मुक्तस्य संसारानुवृत्तिश्च न स्यात् ।
किञ्च, लोकेऽदृष्टत्वेऽपि विपक्षे बाधकाभावात् श्रुतिबलात् सत्यस्यापि बन्धस्य निवृत्तिः किं न स्यात् ? अन्यथा लोकेऽधिष्ठानतत्त्वे साक्षात्कृते कर्मवशादपि निरुपाधिकभ्रमाननुवृत्तेर्जीवन्मुक्तिदशायां कर्मवशादनुवृत्तस्य जगतः सत्यतैव स्यात् । अपि च लोके कल्पितस्य नित्यनैमित्तिक-कर्मसाध्यान्तःकरणशुद्ध्यजन्यज्ञाननिवर्त्यत्वनियमात् तज्जन्यज्ञाननिवर्त्यस्य प्रपञ्चस्य तज्जन्यदेवतादर्शननिवर्त्यदुरितवत् सत्यतैव स्यात् । अपि च कल्पिते संस्कारनिरपेक्षज्ञाननिवर्त्यतायाः संस्कारसापेक्षगरुडभ्रमरादिज्ञानसन्ताननिवर्त्ये विषकीटत्वादौ च सत्यताया दर्शनेन, श्रवणादिजनितसंस्कारसापेक्षज्ञान-निवर्त्यस्य प्रपञ्चस्य सत्यतैव स्यात् । किञ्च, लोके निवृत्तिनिवर्त्ययोः समान-सत्ताकत्वनियमादज्ञाननिवृत्तिवदज्ञानमपि तात्त्विकं स्यात् । प्रातिभासिकस्य रूप्यस्य प्रध्वंसो व्यावहारिकश्चेत्तयोर्विरोधो न स्याद्, व्यावहारिकप्राति-भासिकयोः शुक्तिरूप्यभेदाभेदयोरिवेत्युक्तम् । किञ्चाज्ञानाज्ञेययोर्दोषाधिष्ठानयोश्च समानसत्ताकत्वनियमाद् ब्रह्मवदज्ञानमपि सत्यं स्यात् । किञ्च, यथाऽनादि-भावरूपस्यान्यत्रादृष्टाऽपि निवृत्तिः श्रुतिबलात्तथा सत्यस्यापि किं न स्यात् ।
किञ्च, ज्ञानमज्ञानस्यैव निवर्तकमित्यत्र ज्ञानं नाम यदि ज्ञप्तिस्तदा असिद्धिः । त्वन्मते ज्ञप्तिरूपस्य चैतन्यस्य बन्धानिवर्तकत्वात् । बन्ध-निवर्तिकायाश्च वृत्तेरज्ञप्तित्वात् । वृत्तिप्रतिबिम्बितचैतन्यं ज्ञप्तिः, सा च तन्निवर्तिकेति चेन्न । मुक्तावानन्दज्ञप्त्यभावापातात् । साक्षिविषयसुखादाव-ज्ञानापाताच्च । एतेन येन यत् प्रकाशते तत्र सा ज्ञप्तिः । एवं च घटादौ वृत्तिप्रतिबिम्बितचैतन्यं ज्ञप्तिः । सुखादौ तु चैतन्यमात्रमिति निरस्तम् । मोक्षे आनन्दप्रकाशस्य स्वरूपचैतन्यस्य तज्ज्ञप्तिरूपत्वेन तेनैवाज्ञानस्य नित्य-निवृत्त्यापातात् । ज्ञानकरणं चेन्न व्याप्तिः । शुक्त्यज्ञानस्य रूप्यस्य वा ज्ञान-करणेन निवृत्तेरसंमतेः । न जानामीत्यज्ञानस्य ज्ञप्तिविरोधित्वेनैव प्रतीतेश्च ।
एवमज्ञानं नाम यदि ज्ञानविरोधि भावरूपं सत्यं, न तर्हि विश्वमिथ्यात्व-सिद्धिः । यदि तु मिथ्या, तर्हि न व्याप्तिः । शुक्तिज्ञाननिवर्त्यस्याज्ञानस्य शुक्तिवत् सत्यत्वात् । न हि बाधज्ञाने रूप्यमिथ्यात्ववत् शुक्त्यज्ञानमिथ्यात्वं भाति । प्रत्युतैतावन्तं कालं शुक्त्यज्ञानमासीदिति सत्त्वमेव । एवं यदि निवृत्तिर्नाम विनाशः । तदा विरोधः, लोके ज्ञाननाश्ये अज्ञानादौ सत्यताया एव, मिथ्याभूते रूप्यादौ च ज्ञाननाश्यत्वाभावस्यैवानुभवात् । न हि रूप्यं ज्ञानेन नष्टमिति बाधोऽस्ति । यदि तु निवृत्तिर्नाम प्रतिपन्नोपाधौ निषेध-स्तदाऽसिद्धिः । ‘‘क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावर’’ इत्यादिश्रुत्या ‘‘ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा’’ इत्यादिस्मृत्या ‘‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्’’ इत्यादिसूत्रैश्च बन्धनाशस्यैवोक्तेः ।
अत्र यदुक्तं विवरणे ‘ज्ञानेन सत्यस्य निवृत्तिश्चेत् किं विषयेण सम्बद्धस्य निवृत्तिः ? किं वाऽश्रयेण ? यद्वोभाभ्याम् । नाद्यः । चित्रावयविनि नीलविशिष्टद्रव्यज्ञानेन तद्गतपीतिमादेरनिवृत्तेः । न द्वितीयः । आत्मज्ञानेन तद्गतधर्माद्यनिवृत्तेः । न तृतीयः । शरीरज्ञानेन देहात्मसम्बन्धानिवृत्तेः’ इति । तत्र ब्रूमः– ज्ञानेनाज्ञानस्यारोपितस्य वा कस्य निवृत्तिः ? न तावद्विषयेण सम्बद्धस्य । चैत्रनिष्ठमैत्रविषयकज्ञानेन मैत्रनिष्ठघटविषयकाज्ञानस्य, इदमंश-ज्ञानेन तत्रारोपितरूप्यस्य चानिवृत्तेः । नाप्याश्रयेण सम्बद्धस्य । चैत्रस्य घटज्ञानेन तदीयपटाज्ञानस्यात्मन्यारोपितदेहतादात्म्यस्य चानिवृत्तेः । नाप्युभाभ्यां सम्बद्धस्य । चैत्रनिष्ठमैत्रविषयकज्ञानेन मैत्रनिष्ठचैत्रविषयका-ज्ञानस्य आत्मनिष्ठदेहविषयकज्ञानेन देहात्मतादात्म्यादेश्चानिवृत्तेः ।
ननु ज्ञानेन समानाश्रयविषयकस्याज्ञानस्य निवृत्तिः । निवृत्ते चाज्ञाने तत्कार्यं स्वयमेव निवर्तत इति चेन्न । चैत्रस्य शङ्खे श्वेतत्वानुमित्या तदीय-श्वेतत्वविषयकाज्ञानस्यारोपितपीतत्वस्य वा, त्वन्मतेऽपि बिम्बप्रतिबिम्ब-योरैक्यसाक्षात्कारेणैक्याज्ञानस्यारोपितभेदस्य वा अनिवृत्तेः । श्वेतत्वानुमित्या-दिना तदज्ञाननिवृत्तौ अज्ञानकार्यस्यारोपितपीतत्वादेरनुवृत्तिर्न स्यात् । भ्रमस्य सोपाधिकत्वेऽपि उपादाननिवृत्तौ कार्यानुवृत्त्ययोगात् । ज्ञानस्य स्वप्राग-भावनिवर्तन इवाज्ञाननिवर्तनेऽप्यन्यानपेक्षणात् । किञ्च, चैत्रस्येदानीन्तनेन घटसाक्षात्कारेण भविष्यद्घटसाक्षात्कारनिवर्त्याविद्यानिवृत्त्यापत्त्या सकृत्साक्षा-त्कृतस्य घटादेः सदा आपरोक्ष्यं स्यात् । नन्वज्ञानस्यैकत्वाज् जडानावरकत्वाच्च घटादिज्ञानमज्ञाननिवर्तकमेव नेति चेत्, तर्हि बन्धस्य ज्ञाननिवर्त्यत्वेन दृष्टानुसारादज्ञानमयत्वमपि न स्यात् । ननु ज्ञाननिवर्त्यस्य भ्रान्त्यादेर्ज्ञान-विरोधित्वं दृष्टमिति चेत्, तर्हि बन्धस्य दृष्टानुसाराज् ज्ञानविरोधित्वं कल्प्य-ताम् । न भावरूपाज्ञानत्वं न वा मिथ्यात्वम् । न हि भ्रान्तिः स्वरूपेण मिथ्येत्यविद्यावादे वक्ष्यते । मिथ्याभूतस्य च रूप्यस्य ज्ञाननिवर्त्यत्वमसम्मत- मित्युक्तम् । अपि च चरमसाक्षात्कारेण जीवन्मुक्तिदशानुवृत्तस्याप्यविद्यालेशस्य वाऽज्ञानसंस्कारस्य वाऽऽरब्धकर्मादेर्वा निवृत्तिः किं न स्यात् ? तस्मात् त्वयाऽप्यज्ञानस्यारोपितस्य वा ज्ञानविरोधिन एव ज्ञानेन निवृत्तिर्विरोधश्च कार्योन्नेय इति वाच्यम् । सममेतन्ममापि ।
वस्तुतस्त्वीश्वरप्रसादादेव बन्धनिवृत्तिः । ‘‘यस्य प्रसादात् परमार्ति-रूपादस्मात् संसारान्मुच्यते नापरेण’’ इत्यादिश्रुतेः, ‘‘मत्प्रसादात् तरिष्यसि’’ इत्यादिस्मृतेश्च । ज्ञानं तु प्रसादहेतुः । तदुक्तम्–
यथा दृष्ट्या प्रसन्नः सन् राजा बन्धापनोदकृत् ।
एवं दृष्टः स भगवान् कुर्याद् बन्धविभेदनम् ॥ इति ।
‘‘दृष्ट्वैव तं मुच्यते’’ इत्यवधारणमयोगव्यवच्छेदपरं वा मोक्षहेतु-प्रसादेऽन्ययोगव्यच्छेदपरं वा । उक्तं हि विष्णुपुराणे–
‘‘एवं ज्ञाते तु भगवाननादिः पुरुषोत्तमः ।
प्रसीदति ततस्तस्मिन् प्रसन्ने क्लेशसंक्षयः ॥’’ इति ।
श्रीमधुसूदनसरस्वतीविरचिता
अद्वैतसिद्धिः
‘तरति शोकमात्मवित्’, ‘तथा विद्वान् नामरूपाद्विमुक्तः’, ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥’ इत्यादिश्रुतिस्मृतिबोधित-ज्ञाननिवर्त्यत्वान्यथानुपपत्तिरपि बन्धमिथ्यात्वे प्रमाणम् । सत्यत्वे ब्रह्मवदनिवर्त्यत्वापत्तेः । तथा हि– शुक्तिरूप्यरज्जुसर्पादौ ज्ञाननिवर्त्यत्वे न तावत् तत्तद्रूपवत्त्वं ज्ञाननिवर्त्यता-वच्छेदकम् । अननुगमात् । किन्तु सर्वानुगतं मिथ्यात्वमेवाज्ञानकल्पितत्वापरपर्यायम-वच्छेदकम्, एवं ज्ञानस्यापि तन्निवर्तकत्वे न शुक्त्यादिविषयत्वमवच्छेदकम् । अननु-गमात् । किन्तु सर्वानुगतमधिष्ठानप्रमात्वमेव । तथा च यत्र ज्ञानस्याधिष्ठानप्रमात्वेन निवर्तकता, तत्र मिथ्यात्वेनैव निवर्त्यतेति नियमः सिद्ध्यति । एतादृशनियमानभ्युपगमे चानन्तनियमकल्पनागौरवरूपो बाधकस्तर्कः । तथा हि– यन्निष्ठा यदाकारा प्रमा-रूपाऽन्तःकरणवृत्तिरुदेति, तन्निष्ठं तदाकारमज्ञानं नाशयतीति नियमस्य सिद्धत्वात् । उपादाननाशस्य चोपादेयनिवर्तकत्वात् शुक्त्यादिज्ञानेन तत्तदाकाराज्ञाननाशे तदुपादेयानां रजतादीनां निवृत्तिरौचित्यावर्जितैवेति नियमान्तराकल्पनेन लाघवमनुकूलस्तर्कोऽस्मत्पक्षे । अज्ञानोपादेयत्वं च शुक्तिरजतादीनामन्वयव्यतिरेकसिद्धमग्रे स्थास्यति । एवं स्थिते कृत्स्नस्यापि प्रपञ्चस्यात्मप्रमानिवर्त्यत्वे तदज्ञानकल्पितत्वमेव तत्रावच्छेदकं कल्प्यते । न त्वननुगतमाकाशत्वादि । न वा ब्रह्मभिन्नत्वं सद्भिन्नत्वं वा सर्वानुगतमपि । तुच्छेऽति-प्रसक्तेः । तद्वारकविशेषणप्रक्षेपे तु सदसद्विलक्षणत्वरूपमिथ्यात्वमेव निवर्त्यताप्रयोजकं पर्यवसितम् । अन्यथा नियमान्तरकल्पनागौरवापत्तेः । तथा च शुक्त्यादिज्ञानस्य येन रूपेण निवर्तकत्वं, तेन रूपेणात्मज्ञानस्य निवर्तकत्वम् । रूप्यादौ येन रूपेण निवर्त्यत्वं, प्रपञ्चे तद्रूपं विनाऽनुपपद्यमानं स्वोपपादकतया तत्र तत् कल्पयतीति सिद्धं मिथ्यात्वम् ।
ननु भवेदेतदेवम्, यद्यात्मज्ञानस्य प्रपञ्चे निवर्त्ये शुक्त्यादिज्ञानसाधारणमधिष्ठान-प्रमात्वमेवावच्छेदकमित्यत्र किञ्चिन्मानं भवेद् । रूपान्तरेणापि निवर्तकत्वसम्भवात् । श्रुतिस्तु द्वैतप्रपञ्चस्याद्वितीयात्मज्ञानं निवर्तकमित्येतावन्मात्रे प्रमाणम् । न त्ववच्छेदक-विशेषेऽपि । न च ज्ञाननिवर्त्यतामात्रान्मिथ्यात्वसिद्धिः, सेतुदर्शनादिनिवर्त्यदुरितादिषु व्यभिचारात् । तत्र विहितक्रियात्वादिना निवर्तकत्वान्न व्यभिचार इति चेत्, प्रकृतेऽपि रूपान्तरं नावच्छेदकमिति कुतो निरणायि ? ज्ञानस्य हि स्वप्रागभावं प्रति प्रतियोगित्वेन निवर्तकता, पूर्वज्ञानादिकं प्रति तु उत्तरविरोधिगुणत्वेन, संस्कारं प्रति फलत्वेन, रागादिकं प्रति विषयदोषदर्शनत्वेन, विषं प्रति गरुडध्यानत्वेन, सेत्वादिदर्शनस्य दुरितं प्रति विहितक्रियात्वेन । एवं च मिथ्यात्वं विनापि ज्ञाननिवर्त्यत्वदर्शनान् न तन्मिथ्यात्वस्य साधकम् । उदाहृतेष्वपि सत्यत्वासम्प्रतिपत्त्या मिथ्यात्वमेवास्तीति चेत्, अस्तु वा मास्तु । ज्ञाननिवर्त्यत्वमात्रं तु न तस्य साधकमिति ब्रूमः । हेत्वन्तरेण सिद्धौ चैतदुपन्यसो व्यर्थः । शुक्तिरूप्यादौ कथमिति चेच्छृणु । अधिष्ठानज्ञानत्वेन तत्र ज्ञानस्य निवर्तकत्वात् । अधिष्ठानज्ञानत्वं हि अज्ञाननाशकज्ञानत्वं वा, अज्ञानसमानविषयकप्रमात्वं वेति तेन रूपेण निवर्तकत्वे मानाभावान् नात्माज्ञानोपादानकत्वरूपमिथ्यात्वसिद्धिः प्रपञ्चस्येति प्राप्तम् । अत्रोच्यते । आत्मज्ञानस्याप्यधिष्ठानज्ञानत्वेनैव प्रपञ्चं प्रति निवर्तकत्वम् । प्रकारान्तरा-सम्भवात् । तथा हि– प्रतियोगित्वं तावन्नावच्छेदकम् । प्रपञ्चस्य भावरूपत्वात् । ज्ञानस्य प्रागभावनिवृत्तिरूपत्वेन प्रतियोगित्वेन प्रागभावनिवर्तकत्वासिद्धेश्च । नाप्युत्तरगुणत्वम् । आकाशादेरात्मविशेषगुणत्वाभावात् । इच्छादेरपि प्रपञ्चनिवर्तकत्वापाताच्च । नापि फलत्वम् । संस्कारस्य स्मरणजनकत्ववदाकाशादेरात्मज्ञानजनकत्वाभावात् । संस्कारस्य स्मृत्यनाश्यत्वेनोदाहरणासिद्धेश्च । विषयदोषदर्शनस्य तु रागादिनिवर्तकत्वं रागादिकारणीभूत-बलवदनिष्ठाननुबन्धीष्टसाधनत्वभ्रमरूपतत्कारणनिवर्तकत्वेनेति न प्रकृतोदाहरणादतिरिच्यते । शुक्तिरूप्यतुल्यत्वात् । गरुडध्यानं तु न प्रत्युदाहरणम् । ध्यानस्य रागादेरिव ज्ञानत्वा-नभ्युपगमात् । ज्ञानस्येच्छानधीनत्वेन तदधीनज्ञानापेक्षया वैलक्षण्यात् । स्पष्टं चैतदाकरे । ज्ञानत्वेऽपि तस्य सेतुदर्शनपक्षान्नातिरेकः, शास्त्रविहितत्वाविशेषात् । केवलं सेत्वादि-दर्शनवद्विहितक्रियात्वमवशिष्यते । तच्च न सम्भवति । ज्ञानस्य कर्तुमकर्तुमशक्यत्वेन विधेयत्वायोगात् । विस्तरेण च ज्ञाने विधिराकरेषु निराकृतः । निराकरिष्यते चेहापि । सेतुदर्शने कथमिति चेत् ? विशिष्टाकारेण विधेयत्वोपपत्तेः । न हि सेतुदर्शनमात्रस्य दुरित-नाशकत्वम् । तत्रत्यम्लेच्छानामपि दुरितनाशप्रसङ्गात् । किन्तु परराष्ट्रादुपस्थानादिपूर्वकव्रत-कलापविशिष्टस्य । तथा च छत्रपादुकादिवर्जनदोषोद्घोषणदूरदेशगामित्वभिक्षाभोजित्वादि-नियमानां कृतिसाध्यत्वात् तद्विशिष्टं सेतुदर्शनमपि कृतिसाध्यमिति विशिष्टरूपेण विधानो-पपत्तिः । आत्मज्ञाने तु नास्ति किञ्चिद्विशेषणमपि कृतिसाध्यं, येन तद्विशिष्टत्वेनापि विधेयत्वं स्यात् । कर्मसमुच्चयस्य निराकरिष्यमाणत्वाद् । बन्धस्याज्ञानमात्रहेतुकत्वेन ज्ञानातिरिक्तनिवर्तकानपेक्षणाच्च । बन्धस्याज्ञानहेतुकत्वं च ‘मायां तु प्रकृतिं विद्यात्’ ‘अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः’ इत्यादिश्रुतिस्मृतिन्यायसिद्धम् । वक्ष्यते चाग्रे । अज्ञाननिवर्तकज्ञानस्य चोत्पत्तिमन्तरेणान्यापेक्षा नास्तीति शुक्त्यादिज्ञाने दृष्टम् । तथा चोक्तं वार्तिककृद्भिः -
‘‘तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः ।
अविद्या सह कार्येण नासीदस्ति भविष्यति’’ ॥ इति ।
‘‘प्रत्यग्याथात्म्यधीरेव प्रत्यगज्ञानहानिकृत् ।
सा चात्मोत्पत्तितो नान्यद् ध्वान्तध्वस्तावपेक्षते ॥’’
इति च । अत एव ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति ।’ ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ इत्यादिश्रुतिः,
‘या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥’
इत्यादिस्मृतिश्चाविद्यावस्थायां संसारोपलम्भं विद्यावस्थायां च तदनुपलम्भं दर्शयति । तस्मादधिष्ठानप्रमात्वेनात्मज्ञाननिवर्त्यत्वाच्छुक्तिरूप्यादिष्विव बन्धेऽपि मिथ्यात्वं सिद्धम् ।
यत्त्वीश्वरज्ञानेन सत्यं घटादि निवर्तत इति प्रत्युदाहरणम् । तन्न । ईश्वरज्ञानस्य तार्किकमतेऽपि उपादानगोचरापरोक्षज्ञानत्वेनैव कारणत्वात् । अभावस्य च निरुपादानत्वाद्, अभावं प्रति कारणत्वे मानाभावात् । सोपादानत्वे तु समवेतत्वेन तस्यापि भावत्वापत्तेः । अत्यन्ताभावादिवच्च तदजन्यत्वेऽपि ध्वंसस्य तद्विषयत्वोपपत्तेः । न च तादृगीश्वरज्ञाने सम्प्रतिपत्तिरप्यन्येषामिति न काऽप्यनुपपत्तिः । यथा च शुक्त्यादिज्ञानस्य रूप्यादि-निवर्तकत्वमप्रामाण्यज्ञानविरहमपेक्ष्यैव, एवमात्मज्ञानस्यापि श्रवणादिनिर्वृत्तावसम्भावनादि-निवृत्तिरूपाप्रामाण्यज्ञानविरहापेक्षत्वमिति न किञ्चिदप्यधिकं कल्पितम् । आत्मज्ञानस्य सर्वसुकृतसाध्यत्वं शुक्त्यादिज्ञानापेक्षया विलक्षणमिति तु दृष्टान्तदार्ष्टान्तिकयोर्वैधर्म्य-मात्रोद्भावनाद् वैधर्म्यसमा जातिः । अज्ञानस्य च समानाधिकरणसमानाकारज्ञाननिवर्त्यत्वं, जीवन्मुक्तौ च प्रारब्धकर्मप्रतिबन्धेन बन्धनाशविलम्ब इत्यादि सर्वमुपरिष्टादुपपादयिष्यते । सत्यस्य ज्ञाननिवर्त्यत्वे तु आश्रयविषयोभयसम्बन्धित्वादिना अतिप्रसङ्गो विवरणकारैर्वर्णितः। तस्मादधिष्ठानज्ञानत्वेन ज्ञाननिवर्त्यत्वं मिथ्यात्वे प्रमाणमिति सिद्धम् ।
न्यायामृततरङ्गिणी
ननु शुक्तिरूप्यादौ ज्ञाननिवर्त्यतावच्छेदकं न तत्तद्रूप्यत्वादिकम् । अति-प्रसङ्गात् । किन्तु सर्वानुगतं मिथ्यात्वमेवाज्ञानकल्पितत्वापरपर्यायमवच्छेदकम् । अतस्तरति शोकमात्मविदित्यादिश्रुतिसिद्धज्ञाननिवर्त्यत्वकस्य प्रपञ्चस्यापि ज्ञान-निवर्त्यतावच्छेदकमिथ्यात्वावच्छिन्नत्वमास्थेयम् । अन्यथा ज्ञाननिवर्त्यत्वानुपपत्ति-रित्येतन्निराकरोति ॥ नापीति ॥ ज्ञानेति ॥ ज्ञानस्य निवर्तकत्वान्यथाऽनु-पपत्तिरपि समानन्यायेन बोध्या । आद्यामनुपपत्तिं दूषयति ॥ ज्ञानमिति ॥ द्वितीयां दूषयति ॥ मिथ्याभूतस्यैवेति ॥ यतोऽयं न नियमोऽतो मिथ्यात्वं न ज्ञाननिवर्त्यतावच्छेदकम् । मानाभावात् । शुक्तिरूप्यादेर्ज्ञाननिवर्त्यत्वाननुभवेनोक्त-युक्तेरसिद्धेः । श्रुतिस्त्वात्मज्ञानं संसारनिवर्तकमित्याचक्षाणाऽवच्छेदकविशेषं नान्वेष-यतीति भावः । नन्वस्तु ज्ञाननिवर्त्यत्वमात्रेण मिथ्यात्वमित्यत आह ॥ ज्ञान-मात्रेणेति ॥ ईश्वरेति ॥ ननु घटादिनिवृत्तेरुपादानशून्यतयोपादानाद्यगोचरमीश्वर-ज्ञानं न तत्र हेतुरिति चेन्न । कर्तृत्वनिविष्टज्ञानस्योपादानगोचरतया हेतुत्वेऽपि सर्वकार्यहेतोस्तस्य तन्नियमाभावात् । ईश्वरेच्छया सर्वं भवतीत्यापृथग्जनमनुभवे-नेच्छावत् तज्ज्ञानस्यापि कार्यमात्रनिमित्तत्वात् । ध्वंसस्याभावत्वानुभवेन भावत्वापादानस्य बाधिततया तस्यानुपादानकत्वासिद्धेश्च ॥ प्रत्यभिज्ञानेति ॥ अनित्यात्मविशेषगुणत्वेन धर्मादिवत् संस्कारस्य प्रत्यभिज्ञारूपफलनाश्यत्वावसाया-दित्यर्थः । अग्निचिच् चयनाख्यकर्मकर्ता । तथा च प्रागभावादिषु व्यभिचाराज् ज्ञाननिवर्त्यत्वमात्रं न मिथ्यात्वापादकमित्यर्थः ।
साक्षात्वगर्भोक्तव्याप्तौ न व्यभिचार इति शङ्कते ॥ नन्विति ॥ अज्ञानेति ॥ सेत्वज्ञानेत्यर्थः । नन्वज्ञाननिवृत्तिः पक्षेऽपि समेत्यत आह ॥ अदृष्टेति ॥ ननु सेतुदर्शनानन्तरमेव पापनिवृत्तौ बाधकाभावेनादृष्टकल्पने मानाभाव इत्यत आह ॥ साक्षादिति ॥ प्रागभावादिष्वपि प्रतियोगित्वादिना ज्ञानं निवर्तकमतस्तत्रापि न व्यभिचार इत्यर्थः ॥ ध्यानमिति ॥ ध्यानं तु ज्ञानभिन्नमनोवृत्त्यन्तरं तवाभि-मतमतो ज्ञाननिवर्त्यत्वं प्रपञ्चेऽसिद्धमित्यर्थः ॥ तस्येति ॥ तथा च तवेव मम नात्यन्तमश्रुतकल्पनेत्यर्थः ।
ननु निवर्त्यातिरिक्तानपेक्षज्ञानजन्यध्वंसप्रतियोगित्वं मिथ्यात्वम् । पापे तु नैवमिति शङ्कते ॥ नन्विति ॥ किन्त्विति ॥ परिषदुपस्थानादिपूर्वकव्रतकलाप-विशिष्टं छत्रपादुकादिवर्जनस्वदोषोद्धोषणादिसहितं सेतुदर्शनं तथा । अन्यथा तत्रत्यम्लेच्छादीनामपि ततस्तन्निवृत्त्यापत्तेरित्यर्थः । ‘तदा विद्वान् नामरूपाद्विमुक्तः’ ‘अथ मर्त्योऽमृतो भवति’ इति श्रुतेः प्रञ्चनिवृत्तौ कालादेर्हेतुत्वादुक्तस्यासिद्धिरिति दोषे सत्येव दोषान्तरमाह ॥ नियमाधीतेति ॥ गुरुमुखोच्चारणानूच्चारणानध्याय-परिपालनादिभिर्मुण्डकाध्ययनादौ शिरोव्रतादिभिश्च नियमैरधीतेत्यर्थः ॥ नियमा-दीति ॥ श्रवणादिनियमस्य प्रयोजनत्वेन कल्प्यमानं यद्दृष्टमदृष्टं वा तत्सहित-मित्यर्थः । आदिशब्देन प्रबलप्रारब्धकर्मनिवृत्तिः । वेदान्तव्यावर्त्यमाह ॥ भाषेति ॥ भाषाप्रबन्धो भाषारचितग्रन्थः । अधीतव्यावर्त्यमाह ॥ अनधीतेति ॥ पुस्तकादि-पठितवेदान्तजन्येनेत्यर्थः । नियमव्यावर्त्यमाह ॥ अधीतेति ॥ तेन ब्रह्मज्ञानेन । ननु ज्ञानस्य स्वप्रागभावनिवर्तन इवाज्ञाननिवर्तनेऽपि नान्यापेक्षा । तदुक्तं वार्तिके– ‘प्रत्यग्याथात्म्यधीरेव प्रत्यगज्ञानहानिकृत् । सा च स्वोत्पत्तितो नान्यद्धान्त-ध्वस्तावपेक्षते’ इतीत्यत आह ॥ अन्यथेति ॥ अज्ञाननिवृत्तेर्दुरितनिवृत्त्यसाध्यत्व इत्यर्थः ॥ वैयर्थ्यमिति ॥ ननु श्रवणादिनियमादेर्ज्ञानादिनिवर्त्यजिज्ञासा-प्रतिबन्धककल्मषातिरिक्तब्रह्मनिर्णयप्रतिबन्धककल्मषनिवृत्तिद्वारेण ब्रह्मज्ञान एवोप-योगोऽतो न वैयर्थ्यमिति चेन्न । अवघातजन्यवैतुष्यान्यापूर्वस्येव श्रवणादिजन्य-ब्रह्मज्ञानान्याज्ञाननिवृत्तेरेव नियमादृष्टसाध्यत्वौचित्यात् ।
ननु मम रीत्या रूप्यनिवर्तके शुक्तिज्ञानेऽज्ञानसमानविषयकप्रमाणत्वेन तन्निवर्तकत्वात् तेनैव रूपेण ब्रह्मज्ञानस्य प्रपञ्चनिवर्तकत्वकल्पनान् निवर्त्यस्य प्रपञ्चस्य स्वनिवर्तकज्ञानसमानविषयकाज्ञानोपादानकत्वं सिद्ध्यतीत्याशङ्क्याह ॥ किञ्चेति ॥ लोकेऽक्लृप्तेन ब्रह्मज्ञानत्वेन ब्रह्मज्ञानस्य प्रपञ्चनिवर्तकत्वमस्तु श्रुतिबलादित्यर्थः । ननु यागे श्रुतस्वर्गसाधनत्वोपपत्तयेऽपूर्वमिव बन्धे श्रुतज्ञान-निवर्त्यत्वोपपत्तये मिथ्यात्वं कल्प्यत इत्यत आह ॥ सत्यस्येति ॥ यागवत् प्रकृतेऽनुपपत्त्यभावात्सत्यस्यापि दुरितादेर्ज्ञानान्निवृत्तिदर्शनादित्यर्थः । एतेन निरुक्ता-वच्छेदकानादरं सूचयति । ननु लोकदृष्टत्याग एव विपक्षे बाधक इत्यत आह ॥ अन्यथेति ॥ शुक्तिब्रह्मणोर्ज्ञाने वैलक्षण्यस्य सर्वसिद्धत्वादित्यर्थः । वैधर्म्योपपादन-मिदम् । न तु वैधर्म्येण प्रत्यवस्थानम् । अत एवेदं वैधर्म्यसमजातिरिति परास्तम् । भाषाप्रबन्धादिजन्येनासम्भावनादिप्रतिबद्धेन वेदान्तजन्येनापि ब्रह्मज्ञानेन उक्त-रीत्याऽज्ञानानिवृत्त्या उक्तावच्छेदकस्य व्यभिचारेण वेदान्तविचारादिजन्यस्य विजातीयस्य ज्ञानस्य प्रपञ्चनिवर्तकत्वमित्याह ॥ अपि चेति ॥ नियमादिति ॥ अज्ञानसमानविषयकप्रमाणनिवर्त्यत्वेन स्वनिवर्तकप्रमासमानविषयकाज्ञानोपादान-कत्वसिद्धिरस्त्विति शेषः ॥ सत्यतैवेति ॥ रूप्यसाधारणरूपेण ज्ञाननिवर्त्यत्वा-भावादिति भावः । एतेन शुक्तिब्रह्मणोर्ज्ञानयोः सर्वसुकृतासाध्यत्वतत्साध्यत्ववर्णनं वैधर्म्यसमजातिरिति परास्तम् । अवच्छेदकभेदोक्त्या प्रपञ्चे मिथ्यात्वापादका-भावस्योक्तत्वात् । वयं तु ब्रूमः । अज्ञानसमानविषयकप्रमानिवर्त्यत्वेऽपि रूप्यादे-स्तन्निवर्तकप्रमाया अज्ञानसमानविषयत्वमायाति । न तु रूप्यादेरज्ञानोपादान-कत्वम् । अज्ञाने व्यभिचारात् । अन्धकारोपादानाज्ञानानिवर्तकस्यापि प्रकाशस्य तन्निवर्तकत्ववदुपपत्तेश्चाविरोधस्य फलबलकल्प्यत्वादिति ।
ज्ञाननिवर्त्यत्वस्य मिथ्यात्वं विनाऽनुपपत्तिरूपव्याप्त्यभावं वक्तुं संस्कारा-निवर्त्यत्वमुपाधिमाह ॥ अपि चेति ॥ उपाधेः साध्येनान्वयव्याप्तिं दर्शयितुं कल्पित इत्यादि । अप्रयोजकत्वनिरासार्थं व्यतिरेकव्याप्तिप्रदर्शनाय संस्कारेत्यादि । उपाधेः स्वव्यतिरेकेण सत्प्रतिपक्षोत्थापनसामर्थ्यं वक्तुं श्रवणादीत्यादि । ज्ञान-निवर्त्यत्वस्य मिथ्यात्वव्यभिचारमप्याह ॥ किं चेति ॥ अज्ञानमपीति ॥ तथा चाज्ञान एव व्यभिचार इति भावः । निवृत्तिनिवर्त्ययोः समानसत्ताकत्वनियमोऽ-सिद्धः । शुक्तिरूप्यतन्निवृत्त्योर्भिन्नसत्ताकत्वेन तत्र व्यभिचारादित्याशङ्क्य परिहरति ॥ प्रातिभासिकस्येति ॥ प्रकारान्तरेणाज्ञाने व्यभिचारमुपपादयति ॥ अज्ञानेति ॥ दोषेति ॥ तथा चाविद्यारूपदोषस्यापि स्वाधिष्ठानेन ब्रह्मणा समसत्ताकत्वमित्यर्थः । नन्वज्ञानेऽपि ज्ञाननिवर्त्यत्वेन मिथ्यात्वमनुमीयतेऽतो न तत्र व्यभिचार इत्यत आह ॥ किञ्चेति ॥ श्रुतिबलादिति ॥ तथा चाप्रयोजकत्वान्नाज्ञाने मिथ्यात्वानुमान-मिति भावः ॥ सत्यस्यापीति ॥ अज्ञानस्येति शेषः । ज्ञानत्वाज्ञाननिवर्तकत्वयोः सामानाधिकरण्याभावान्नोक्तव्याप्तिसम्भव इत्याह ॥ किं चेति ॥ मुक्ताविति ॥ वृत्तिप्रतिबिम्बितचैतन्यस्य मुक्तावभावादित्यर्थः । मुक्तावानन्दाज्ञानं च स्यादित्यपि बोध्यम् ॥ साक्षीति ॥ उक्तरूपस्याज्ञाननिवर्तकस्य सुखादावभावादित्यर्थः । सुखादौ ज्ञप्त्यभावश्च स्यादित्यपि बोध्यम् ॥ एतेनेति ॥ चैतन्यमात्रस्याज्ञानरूप-बन्धानिवर्तकत्वेन । चैतन्यमात्रस्याज्ञाननिवर्तकत्वे दोषमाह ॥ मोक्ष इति ॥ मुक्त्यानन्दे सुखादौ च चैतन्यमात्रप्रकाश्ये तन्मात्रस्य ज्ञप्तित्वेन ज्ञप्तेश्चाज्ञाननिवर्तक-तया मुक्तानन्दस्येदानीं प्रकाशापातादित्यर्थः ॥ न जानामीति ॥ अज्ञानस्य ज्ञानकरणेन विरोधोऽपि नास्त्यतो न ज्ञानकरणमज्ञाननिवर्तकमित्यर्थः ॥ तदधिगम इति ॥ तस्य ब्रह्मणोऽधिगमे ज्ञाने सति ज्ञानोत्तरं कृतस्य पापस्य ओषोऽसम्बन्धः ज्ञानात्पूर्वमुत्पन्नस्य पापस्य विनाशः । तद्यथा पुष्करपलाश इत्यादौ, तद्यथेषीका-तूलमित्यादौ श्रुतौ तथा व्यपदेशादित्यर्थः ।
सत्यभूतस्य ज्ञानान्निवृत्तौ दृष्टान्तासिद्धिरित्याह ॥ चित्रेति ॥ ननु चित्राख्य-रूपस्यैकत्वात् तत्र नीलरूपाद्यभावात् कथं चित्रावयविनो नीलवैशिष्ट्यमुच्यते । अत्र केचित् । चित्रावयव्यारम्भकनीलविशिष्टज्ञानमित्यर्थः । न चैवं चित्रावयविनीति पदवैयर्थ्यम् । नीलज्ञानस्य स्वविषयनिवर्तकत्वे चित्रावयविन एवानुपपत्तिरिति प्रदर्शनार्थत्वादित्याहुः । तन्न । नीलावयविनि पीतिमादेरभावेन तद्गतपीतिमादे-रित्यस्यासङ्गत्यापत्तेः । अन्ये तु चित्रावयव्यारम्भकपीतावयवे नीलोऽयमासीदिति ज्ञानं नीलज्ञानमिह विवक्षितम् । न चैतज्ज्ञानं वर्तमानं पीतं निवर्तयति । न च वर्तमानविषयज्ञानमेव स्वविषयविरोधिनिवर्तकमिति वाच्यम् । पारमार्थिकप्रपञ्च-वादिनस् तत्काले तदसम्भवेन निष्प्रपञ्चब्रह्मज्ञानस्य प्रपञ्चनिवृत्तेः पूर्वं वर्तमानप्रपञ्चा-भावविषयत्वासम्भवेन ततः प्रपञ्चनिवृत्त्यसम्भवादित्याहुः । तदपि न । चित्रावय-विनीत्यस्यास्वारस्यापत्तेः । अपरे तु नानारूपसमाहार एव चित्रम् । तथैव प्रतीतेः। कारणे चित्राभावेन कार्ये तदयोगाच्च । शुक्लादिरूपस्य समानजातीयरूपारम्भकत्व-नियमात् । नानारूपवदवयवारब्धद्रव्यरूपस्याव्याप्यवृत्तित्वं चानुभवबलात् स्वीकर्त-व्यम् । अभावान्तरे गुणान्तरे चादृष्टस्यापि तस्य संयोगे तदभावे च दर्शनबले-नाभ्युपगमात् । एकस्यैव संयोगात्यन्ताभावस्य व्याप्याव्याप्यवृत्तित्वाभ्युपगमे किमपराद्धं रूपेणेत्याहुः । तदपि न । नानारूपसमाहारस्य चित्रत्वे नीलधवलारुणेषु कर्बुरार्थकचित्रप्रत्ययापत्तेः । नीलपीतादिषु मिथस्संसृष्टेषु अनारब्धद्रव्येष्वपि कर्बुर-प्रत्ययस्तु द्रव्यान्तरोत्पादावभिमानात् । तस्मान् नीलादिवच् चित्रमपि रूपान्तरमेव ।
नन्वेकरूपवदवयवसहितस्यावयविन उपलम्भेऽपि चित्रप्रत्ययः स्यादिति चेद् अस्त्येव तत्र चित्ररूपप्रत्ययः । चित्रत्वजातेस्तु न । अवयववृत्तिविजातीय-समाहाराभिव्यङ्ग्यत्वात्तस्याः । अत एव त्र्यणुके चित्रे कदापि न प्रत्ययः । तथाऽप्यचित्रे पार्श्वे चित्रप्रत्ययो मा भूत् । धवलप्रत्ययस्तु कुत इति चेद् अवयव-रूपसञ्चरेणावयविनोऽपि तथा प्रत्ययात् । तस्माच्चित्रावयविनि नीलविशिष्टज्ञान-मित्येतदनुपपन्नमेव । तदेतद् बौद्धधिक्कारे स्पष्टम् ॥ तर्हीति ॥ घटादिज्ञानस्या-ज्ञानानिवर्तकत्वे ज्ञानस्याज्ञाननिवर्तकत्वे दृष्टान्ताभावाद् ब्रह्मज्ञानस्य बन्धनिवर्त-कत्वेन बन्धस्याज्ञानमयत्वं न सिद्ध्येदित्यर्थः ॥ त्वयाऽपीति ॥ उक्तं च विवरणे । कथं पुनर्लोके सहाज्ञानेनाध्यासस्य तत्वज्ञानानिवृत्तेरप्रतिपत्तौ ब्रह्मज्ञानात् सहाज्ञानेनाध्यासस्य निवृत्तिर्दृष्टद्वारेण कल्पन इति नैव दोषः । तत्त्वावभास-विरोधिनोऽग्रहणमिथ्याज्ञानादेस्तत्त्वज्ञानेन निवृत्तिदर्शनादिहापि तत्त्वावभासविरोधि-तयैव भावरूपाज्ञानादेः कल्प्यमानत्वात् तस्य ब्रह्मज्ञानान्निवृत्तेरुपपत्तेरिति ॥ सममेतदिति ॥ प्रकाशेनान्धकारस्येव सत्यस्य बन्धस्य ब्रह्मज्ञानान्निवृत्तिर्विरोधा-दित्येवाङ्गीकर्तव्यमित्यर्थः ।
न्यायामृतकण्टकोद्धारः
ननु तथापि ‘तरति शोकमात्मवित्’ ‘तथा विद्वान् नामरूपाद्विमुक्तः’ ‘भिद्यते हृदयग्रन्थिः’ इत्यादिश्रुतिबोधितज्ञाननिवर्त्यत्वान्यथानुपपत्तिर्मिथ्यात्वे प्रमाणम् । मिथ्यात्वं विना ज्ञाननिवर्त्यत्वासम्भवादित्यत आह ॥ नापीति ॥ न हीति ॥ ननु शुक्तिरूप्यादौ ज्ञाननिवर्त्यत्वं तावदस्ति । तत्र निवर्त्यतावच्छेदकं न शुक्तिरूप्य-त्वादिकम् । अननुगमात् । किन्तु मिथ्यात्वमेव । एवं ज्ञानस्य निवर्तकतावच्छेदकं न शुक्तिविषयत्वादिकम् । अननुगमात् । किन्तु सर्वानुस्यूतमधिष्ठानप्रमात्वमेव । एवं चाधिष्ठानप्रमात्वेन ज्ञानं यस्य निवर्तकं तन्मिथ्येति नियमः स्वीक्रियते । एवं चैकनियमकल्पनालाघवम् । अन्यथा गौरवमिति । एवंस्थिते जगति श्रुत्या ज्ञान-निवर्त्यत्वे बोधिते तदन्यथानुपपत्त्या मिथ्यात्वं सिद्ध्यति । न च सद्विलक्षणत्वं ब्रह्म-भिन्नत्वं ज्ञाननिवर्त्यतावच्छेदकमिति वाच्यम् । असतोऽपि निवृत्त्यापत्तेः । तद्व्यावृत्त्यर्थं विशेषणे मिथ्यात्व एव पर्यवसानमिति । मैवम् । एवं हि शुक्तिरजतादेर्मिथ्यात्वं न स्यात् । निवर्तकस्य शुक्तिज्ञानस्य त्वया प्रमात्वानङ्गीकारात् । किञ्चोभयसाधारणं प्रमात्वं न तावत् तद्वति तत्प्रकारकत्वम् । वेदान्तजन्यचरमान्तःकरणवृत्तौ तदभावात् । नापि निष्प्रकारकत्वम् । शुक्तिवृत्तौ तदभावात् । नापि भ्रमभिन्नज्ञानत्वम् । शुक्तिवृत्तेः सप्रकारकत्वेन त्वद्रीत्या भ्रमत्वेन तदभावात् । न च प्रमात्वपदस्थाने ज्ञानत्वं प्रवेश्य-मिति वाच्यम् । अधिष्ठानज्ञानत्वस्य भ्रमसाधारणत्वेन निवर्तकतानवच्छेदकत्वात् । अन्यथा सप्रकारकब्रह्मज्ञानस्यापि निवर्तकत्वसम्भवे अखण्डार्थत्ववर्णनं वृथा स्यात् । तस्मान्न निवर्तकतावच्छेदकमनुगतं सम्भवति । नापि मिथ्यात्वं निवर्त्यतावच्छेदकम् । तद्धि न तावदसत्वम् । प्रपञ्चस्याप्यसत्वापत्तेः । नाप्यज्ञानकल्पितत्वम् । तस्य शुक्तिरूप्ये ममासिद्धेः । ज्ञाननिवर्त्यत्वान्यथानुपपत्त्या तत्सिद्धौ चान्योन्याश्रयापत्तेः । ज्ञाननिवर्त्यत्वे सिद्धे तदन्यथानुपपत्त्योक्तमिथ्यात्वसिद्धिः । तत्सिद्धौ च तदवच्छेदेन ज्ञाननिवर्त्यत्वसिद्धिरिति । किञ्च निवर्त्यत्वं न ध्वंसप्रतियोगित्वम् । शुक्तिज्ञानेन रजतं नष्टमित्यननुभवात् । प्रतिपन्नोपाधावत्यन्ताभावप्रतियोगित्वं चेत् तदवच्छेदकमसत्व-मेवास्तु । तथा च जगतोऽप्यसत्वमेव स्यात् । किञ्च तादृशं ज्ञाननिवर्त्यत्वं न श्रुत्या बोधितमिति कस्यानुपपत्त्या मिथ्यात्वसिद्धिरिति । तस्मादनुगतेन निवर्त्यनिवर्तक-भावासम्भवान् मूलोक्तरीत्याऽननुगतमेव तत् स्वीकर्तव्यमिति । न चोक्तस्थलेषु सत्यत्वासम्प्रतिपत्त्या मिथ्यात्वमस्त्येवेति वाच्यम् । तस्य ज्ञानानिवर्त्ये असत्यपि विद्यमानत्वेन ज्ञाननिवर्त्यतानवच्छेदकत्वात् । किञ्च ज्ञाननिवर्त्यत्वस्यान्यथाप्युपपत्त्या न मिथ्यात्वसाधकत्वमित्यन्यथासिद्धावुद्भावितायां सत्यत्वासम्प्रतिपत्तिरनुत्तरम् । अन्यथा-सिद्धिरेव परिहरणीयेति ।
ननु दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यम् । दृष्टान्ते हि येन रूपेण निवर्तकता तेन रूपेण ब्रह्मज्ञाननिवर्तकतायाः प्रकृतेऽसम्भवात् । तथाहि न तावद् ब्रह्मज्ञानस्य प्रतियोगित्वेन निवर्तकता । प्रपञ्चस्य भावरूपत्वात् । ज्ञानस्य प्रागभावनिवृत्तित्वेन प्रतियोगित्वेन निवर्तकतासिद्धेश्च । नाप्युत्तरगुणत्वेन । आकाशादेरात्मविशेषगुणत्वाभावात् । इच्छादेरपि प्रपञ्चनिवर्तकतापत्तेश्च । नापि फलत्वेन । संस्कारस्य स्मृतिजनकत्ववद् आकाशादेरात्म-ज्ञानजनकत्वाभावात् । संस्कारस्य स्मृत्यनाश्यत्वेनोदाहरणासिद्धेश्च । विषयदोषदर्शनस्य तु रागादिनिवर्तकत्वं रागादिकारणीभूतबलवदनिष्टाननुबन्धीष्टसाधनत्वभ्रमरूपतत्कारण-निवर्तकत्वेन । गरुडध्यानं तु न ज्ञानम् । तस्य मानसक्रियात्वात् । ज्ञानस्येच्छा-नधीनत्वेन तदधीनध्यानापेक्षया वैलक्षण्याच्चेति चेन्न । सत्यस्यापि ज्ञाननिवर्तकता सम्भवतीत्यस्मिन्नंशे दृष्टान्तः । न तु येन रूपेण दृष्टान्ते निवर्तकता तेन रूपेण प्रकृत इत्येतस्मिन्नंशे । तथा चानुक्तोपालम्भः । किञ्चास्तु प्रतियोगित्वेन निवर्तकता । प्रतियोगित्वं च विरोधित्वं तत्सत्ताऽसहिष्णुत्वम् । मूषकप्रतियोगिमार्जारादिसाधारणम् । विरोधिता च फलबलकल्प्येति न किञ्चिदनुपपन्नम् । न च ज्ञानस्य प्रागभावनिवृत्ति-रूपत्वेन न तन्निवर्तकतेति वाच्यम् । प्रागभावनिवृत्तिर्ज्ञानादितिरिक्तेत्येतन्मते-नास्याभिधानात् ।
यच्चोक्तं विषयदोषदर्शनस्य रागकारणनिवर्तकत्वेन रागानिवर्तकत्वमिति । तत्तुच्छम् । उत्पन्नो यदा रागस्तदैव तत्कारणस्य ज्ञानस्य निवृत्तत्वान् न विषयदोषदर्शनस्य तत्र कारणता । किन्त्वन्वयव्यतिरेकाभ्यां रागनिवृत्तिकारणत्वमेव । स्मरणस्य संस्कार-नाशकत्वं च स्मरणानन्तरं स्मृतेः स्मृत्यन्तरानुदयात् सिद्धमित्यलम् ।
यच्चोक्तं ध्यानं न ज्ञानमिति । तन्न । स्मृतिसन्तानस्यैव ध्यानत्वात् । न च ध्यान-स्येच्छाधीनत्वात् तदनधीनज्ञानात्मकत्वं विरुद्धमिति वाच्यम् । ज्ञानविशेषस्यापीच्छा-धीनत्वात् । अन्यथाऽङ्गचलनादिरूपक्रियाया इच्छाधीनत्वाद् ध्यानस्यापि तन्न स्यात् । तस्माद् ध्यानस्य ज्ञानत्वेऽपि इच्छाधीनत्वमुपपद्यते । तथा च गरुडध्यानं गरुडस्मृतिः । अत एव ध्याते स्मरामीत्यनुव्यवसायः । तस्मान्न दृष्टान्तदार्ष्टान्तिकासङ्गतिः ॥ समं प्रकृतेऽपीति ॥ ब्रह्मज्ञानस्यापि विहितकियात्वेनैव निवर्तकताऽस्त्वित्यर्थः । ननु ब्रह्म-दर्शनस्य न विधेयत्वं सम्भवति । कर्तुमकर्तुमन्यथाकुर्तुं शक्यस्यैव विधेयत्वात् । ज्ञानस्य चातथात्वात् । तथा च न विहितक्रियात्वेन निवर्तकतेति चेन्न । ज्ञानविशेषस्य तथात्वात् । उपपादयिष्यते चैतत् तृतीयपरिच्छेदे ।
ननु दर्शनमात्रस्य न विधेयता । काप्यदर्शनात् । सेतुदर्शनादौ दृष्टमिति चेन्न । तत्र कृतिसाध्यबहुविशेषणविशिष्टाकारेण विधेयता । अन्यथा तत्रत्यम्लेच्छादीनां सेतुदर्शन-मात्राद् ब्रह्महत्यानिवृत्तिः स्यात् । प्रकृते च न तादृशं विशेषणम् । ज्ञानस्याज्ञान-निवृत्तावन्योन्यानपेक्षणात् । बन्धस्य चाज्ञानमात्रोपादानकत्वेनाज्ञाने निवृत्ते निवृत्त्य-वश्यम्भावात् । तथा च ब्रह्मज्ञानस्याविधेयत्वात् कथं विहितक्रियात्वेन निवर्तकतेति शङ्कते ॥ नन्विति ॥ इहापीति ॥ तथा च ब्रह्मज्ञानस्यापि कृतिसाध्यविशेषणविशिष्टा-कारेण विधेयत्वसम्भवान्न काचिदनुपपत्तिरिति भावः । नन्वत्र विशेषणप्रवेशः किमर्थ इत्यत आह ॥ भाषाप्रबन्धेनेति ॥ अन्यथेति ॥ यदि भाषाजन्यब्रह्मदर्शन-मात्रान्निवृत्तिरित्यर्थः । तथा च श्रवणाद्यभावेऽपि तत्वमस्यादिवाक्यजसाक्षात्कारसम्भवाद् अज्ञाननिवृत्त्यापातेनाज्ञाने निवृत्ते चोपादेयानवस्थानेन प्रारब्धकर्माभावात् सद्यो मोक्षोदये जीवन्मुक्त्यादिकं किमपि न स्यादिति भावः । न च ब्रह्मज्ञानस्य प्रपञ्चनिवर्त-कत्वाङ्गीकारेऽपि अधिष्ठानसाक्षात्कारत्वं न निवर्तकतावच्छेदकम् । किन्तु नियमाधीत-वेदान्तश्रवणादिसाध्यत्वमिति न भाषाजन्यस्य निवर्तकत्वमिति वाच्यम् । तथा सति शुक्तिरजतादिसाधारण्यं न स्यात् । तादृशज्ञाननिवर्त्यत्वेन मिथ्यात्वासिद्धेश्चेति । अत एव न वैधर्म्यसमा जातिः । नियमादिसाध्यस्य निवर्तकतावच्छेदकत्वानवच्छेदकत्वयो-र्दोषाभिधानान्न वैधर्म्यमात्रादिति ।
ननु तथापि सत्यस्य निवृत्तिर्न सम्भवति । क्वाप्यदृष्टत्वात् । उक्तदृष्टान्तेषु सत्यत्वा-सम्प्रतिपत्तेः । अन्यथा ब्रह्मणोऽपि निवृत्तिः स्यादित्यत आह ॥ किञ्चेति ॥ सत्यत्वा-विशेषेऽपि ब्रह्मणो न निवृत्तिः । तन्निवृत्तिबोधकप्रमाणाभावात् । अन्यथा मिथ्यात्वेऽपि न निवृत्तिः । अदर्शनात् । मिथ्याभूतस्य शुक्तिरजतादेर्निवृत्त्यसम्प्रतिपत्तेः । अन्यथा असतोऽपि निवृत्तिः स्यादिति सुवचत्वादिति भावः । अत एव बन्धो मिथ्या अधिष्ठान-प्रमात्वेनात्मज्ञाननिवर्त्यत्वात् शुक्तिरूप्यवदिति निरस्तम् । अन्यथासिद्धिस्वरूपा-सिद्ध्योरापत्तेः । बाधाच्च । ईश्वरज्ञाननिवर्त्यघटादिवत् सत्यत्वेनैवोपपत्तेश्च । न चेश्वर-ज्ञानस्योपादानसाक्षात्कारत्वेन कारणत्वाद् ध्वंसस्य च निरुपादानत्वात् कथं तत्र कारणत्वमिति वाच्यम् । उपादानापेक्षया कारणत्वस्य लघुत्वात् । न च तादृश-ज्ञानासम्प्रतिपत्तिरिति वाच्यम् । तस्य व्यवस्थाप्यत्वात् ॥ अन्यथेति ॥ यदि दृष्टानु-सार्येव कल्पनेत्यर्थः । न चायमपि जीवन्मुक्त्यनुवृत्तः सोपाधिक एवेति वाच्यम् । जीवन्मुक्तिदशायां भिक्षाटनादिप्रवृत्तिसम्पादकत्वेन निरुपाधिकत्वात् । सोपाधिकस्य प्रवृत्त्यसमर्थत्वस्य पीतः शङ्ख इत्यादौ दर्शनादिति भावः । अज्ञाननिवर्त्यत्वान्यथानुपपत्तेः प्रतिकूलतर्कपराहतिमाह ॥ अपि चेति ॥ न च देवतादर्शननिवर्त्यदुरिते न साध्य-सिद्धिः । तथा च कथं दृष्टान्त इति वाच्यम् । यदतादृशयज्ज्ञाननिवर्त्यं तत् तत्र कल्पितं नेति व्याप्तौ उक्तदुरितस्य निदर्शनत्वोपपत्तेः । दुरितस्य देवतायामकल्पितत्वात् । अत्र यदि बन्धः ब्रह्मणि कल्पितः स्याद् विशिष्टकर्मसाध्यान्तःकरणशुद्धिजन्यब्रह्मज्ञाननिवर्त्यो न स्यात् । अत्र सामान्यान्वयव्याप्तौ शुक्तिरजतं दृष्टान्तः । व्यतिरेकव्याप्तौ मूलोक्त इत्यवधेयम् । न चैवं ब्रह्मणि कल्पितत्वाभावो विपर्ययपर्यवसानेन स्यात् । न सत्यता । तथा च सत्यतैव स्यादिति कथमुपसंहार इति वाच्यम् । ब्रह्मणि कल्पितत्वाभावेऽ-कल्पितत्वमेव सिद्ध्यति । ब्रह्मातिरिक्ते तेन कल्पनानङ्गीकारादिति द्रष्टव्यम् ॥ अपिचेति ॥ न च ब्रह्मज्ञानोत्पत्तौ श्रवणादिजन्यसंस्कारसापेक्षत्वेऽपि ब्रह्मज्ञानेनापि ज्ञाननिवृत्तौ न तदपेक्षेति वाच्यम् । अस्माभिरपि संस्कारसापेक्षताया उत्पत्तावेवाभि-धानात् । अत्रापि पूर्ववदेव समाधानं द्रष्टव्यम् ॥ किञ्चेति ॥ न चाज्ञाननिवृत्तिरपि न तात्विकीति वाच्यम् । तस्या मिथ्यात्वे मिथ्याभूतस्य निवृत्तिनियमेन मुक्तस्य संसारापत्तिः स्यात् । न चाविद्यानिवृत्तिः पञ्चमप्रकारेति वाच्यम् । बन्धस्यापि पञ्चम-प्रकारतापातात् । पञ्चमप्रकारत्वे त्रितयान्यतरत्वापत्तेर्दुर्वारत्वात् ।
ननु रूप्यस्य प्रातिभासिकत्वेऽपि तद्ध्वंसस्य व्यावहारिकत्वात् कथं निवृत्ति-निवर्त्त्ययोः समानसत्ताकत्वमित्यत आह ॥ प्रातिभासिकस्येति ॥ मया तस्या सत्वाङ्गीकारेण तद्ध्वंसासम्प्रतिपत्तेश्चेत्यपि द्रष्टव्यम् ॥ किञ्चेति ॥ न चाज्ञानस्य मन्मते सर्वत्र प्रातिभासिकत्वाद् अज्ञेयस्य च क्वचित् पारमार्थिकत्वात् क्वचिच्च व्यावहारिकत्वात् समानसत्ताकत्वनियमोऽसिद्ध इति वाच्यम् । अज्ञानस्यापि व्यावहारिकोपादानत्वाद् ब्रह्मधीनाश्यत्वाच्च व्यावहारिकत्वमेष्टव्यम् । अन्यथा सतोऽप्यसदुपादानकत्वं मिथ्याभूत-स्यापि सत्योपादानकत्वं स्यादिति कार्यानुगुणत्वेन मिथ्याभूतमुपादानमावश्यकमिति त्वत्सिद्धान्तो भज्येत ॥ किञ्चेति ॥ नन्वेतल्लोके अदृष्टत्वेऽपीत्यनेन पुनरुक्तम् । तत्रापि श्रुतिबलात् सत्यस्य निवृत्तेरुक्तेरिति चेन्न । अत्रान्यत्रादृष्टत्वेन सत्यनिवृत्त्य-नङ्गीकारे अनादिभावरूपस्यापि अन्यत्र निवृत्तेरदृष्टत्वात् सापि न स्यादित्यत्र तात्पर्यात् । अत एव यथाऽनादिभावरूपस्येत्युक्तम् ॥ त्वन्मत इति ॥ चैतन्यस्य बन्धनिवर्तकत्वे तस्य सर्वदा सत्वात् सर्वदा बन्धनिवृत्तिः स्यादिति भावः । ननु तर्हि या निवर्तका सैव ज्ञप्तिरित्यत आह ॥ बन्धेति ॥ विवरणे वृत्तौ ज्ञानशब्दस्य करणव्युत्पत्त्या वृत्ति-रित्युक्तत्वाद् वृत्तिर्न ज्ञप्तिरिति भावः ॥ मुक्ताविति ॥ या ह्यज्ञाननिवर्तिका सैव प्रकाशिका । आवरणनिवर्तकस्यैव प्रकाशत्वात् । तथा च मोक्षे वृत्त्यभावेन तत्प्रति-बिम्बितचैतन्यरूपज्ञप्त्यभावे आनन्दप्रकाशो न स्यादित्यर्थः ॥ साक्षिविषयेति ॥ वृत्त्य-भावदशायां सुखज्ञानाभावादिति भावः ॥ मोक्ष इति ॥ न च चैतन्येनानन्दप्रकाशमात्रं जायते, न त्वावरणनिवृत्तिरिति वाच्यम् । आवरणनिवर्तकातिरिक्तस्य प्रकाशत्वे मानाभावात् । तथा च प्रकाशत्वेऽज्ञाननिवर्तकत्वमावश्यकमिति नित्यनिवृत्त्यापात इत्यर्थः ॥ ज्ञानकारणं चेदिति ॥ न च ज्ञानशब्देन वृत्तिरेव विवक्षिता । अतो नोक्तदोष इति वाच्यम् । अज्ञाननिवर्तकस्यैव प्रकाशत्वेन वृत्तेरेव प्रकाशत्वे आध्यासिक-सम्बन्धस्यातन्त्रत्वप्रसङ्गः । मोक्ष आनन्दप्रकाशश्च न स्यादिति भावः ॥ एवमिति ॥ अज्ञानवद् विश्वस्यापि सत्यत्वोपपत्तेरिति भावः ॥ असिद्धिरिति । क्षिधातोः, भस्मसात्करणशब्दस्य, विनाशशब्दस्य चोक्तरूपनिवृत्तौ शक्त्यभावात् । अन्यथा शुक्तिरजतं नष्टमित्यादिव्यवहारापातादिति भावः । निवर्त्यस्य सत्यत्वं मिथ्यात्वं चास्तु । निवर्तक-तावच्छेदकं तु विरोधित्वम् । तच्च फलबलकल्प्यमिति वक्तुं विवरणमुत्थापयति ॥ अत्रेति ॥ नानारूपसमाहारश्चित्रमित्यभिप्रायेणाह ॥ चित्रेति ॥ प्रतिबन्द्या समाधत्ते ॥ ज्ञानेनेति ॥ चैत्रनिष्ठेति ॥ न च तन्मैत्रनिष्ठघटाज्ञानसमानविषयकं नेति वाच्यम् । नीलविशिष्टज्ञानस्य पीतिमाद्यविषयत्वात् । इदं रजतमिति ज्ञानेन रजतनिवृत्त्यापत्तेश्च ।
ननु ज्ञानं मिथ्याभूतस्य यस्य कस्यचिन्निवर्तकमिति न नियमः । किन्तु ज्ञान-मज्ञानस्यैव निवर्तकम् । अज्ञाने निवृत्ते तदुपादानकं स्वयमेव निवर्तत इति कथमेते विकल्पा इत्याशङ्कते ॥ नन्विति ॥ ज्ञानमात्रस्याज्ञाननिवर्तकत्वं ? ज्ञानविशेषस्य वा ? नाद्य इत्याह ॥ चैत्रस्येति ॥ ननु न ज्ञानसामान्यमज्ञाननिवर्तकम् । अपि तु प्रत्यक्ष-ज्ञानमित्यत आह ॥ बिम्बप्रतिबिम्बयोरिति ॥ इदं तु परमताभिप्रायेण । स्वेन तत्रैक्यसाक्षात्कारानभ्युपगमात् । भेदज्ञाने विद्यमाने ऐक्यसाक्षात्कारायोगात् । ननु श्वेतत्वानुमितिरूपज्ञानेनापि तदज्ञानं निवर्तत एवेत्यत आह ॥ श्वेतत्वानुमित्यादि-नेति ॥ ननु सोपाधिकत्वादनुवृत्तिर्भविष्यतीत्यत आह ॥ भ्रमस्येति ॥ ननु सोपाधिकभ्रमे उपाधिनिवृत्तिसहितं ज्ञानमज्ञाननिवर्तकम् । अतो नोक्तदोष इत्यत आह ॥ ज्ञानस्येति ॥ अन्यथा प्रागभावनिवर्तनेऽपि उपाधिनिवृत्त्यपेक्षा स्यात् । एवमज्ञानत्वं न निवर्त्यतावच्छेदकमित्याह ॥ किञ्चेति ॥ न चैकं ज्ञानमेकमज्ञानं नाशयति, नाज्ञाना-न्तरम् । फलबलेन तथा स्वभावादिति वाच्यम् । तर्ह्यज्ञानान्तरस्य जवनिकावत् प्रतिबन्धकस्य सद्भावे कदापि घटप्रकाशो न स्यात् । प्रकृतदूषणपरिहारोपयोगित्वेन शङ्कते ॥ नन्विति ॥ बन्धस्येति ॥ तथा च ज्ञानं स्वसमानाश्रयविषयकाज्ञाननिवर्तकमिति व्याप्तिरपि न स्यादिति भावः ॥ नन्विति ॥ तथा च ज्ञानविरोधित्वादेव मिथ्यात्वमपि कल्प्यत इति भावः । अज्ञानत्वमज्ञानमयत्वम् । ज्ञानविरोधिनो भ्रान्त्यादेर्मिथ्यात्वा-सम्प्रतिपत्तेर्न तद्विरोधित्वेन मिथ्यात्वं कल्प्यमिति भावः । ननु ज्ञाननिवर्त्यं शुक्तिरूप्यं मिथ्या दृष्टमित्यत आह ॥ मिथ्याभूतस्येति ॥ तथात्वे शुक्तिरूपं नष्टमिति प्रतीतिः स्यादिति भावः ।
ननु ज्ञाते द्वैतं न विद्यत इति श्रुत्या ज्ञाने सति द्वैताभावः प्रतिपाद्यते । तदन्यथानु-पपत्त्या ज्ञानस्य द्वैताभावप्रयोजकता कल्प्यते । तथा च ज्ञानप्रयुक्ताभावप्रतियोगित्वमेव मिथ्यात्वम् । न चेदानीमपि ब्रह्मज्ञानसम्भवाद् द्वैताभावः स्यादिति वाच्यम् । चरम-साक्षात्कारस्य द्वैताभावप्रयोजकत्वादित्यत आह ॥ अपि चेति ॥ तथा च चरम-साक्षात्कारोऽपि न द्वैताभावप्रयोजकः । तस्मिन् सत्यपि द्वैतानुवृत्तिदर्शनादिति भावः । फलितं दर्शयति ॥ तस्मादिति ॥ तथा च बोधकप्रमाणे सत्यस्यापि विरोधिना ज्ञानेन निवृत्तिर्युक्तैवेति भावः । ज्ञाननिवर्त्यत्वं प्रपञ्चस्याङ्गीकृत्योक्तम् । वस्तुतस्तु तन्नास्ती-त्याह ॥ वस्तुतस्त्विति ॥ ननु दृष्ट्वैव मुच्यते नापरेणेति श्रुत्याऽवधारणसहित-याऽन्यस्य कारणत्वं निषिध्यते । तथा च प्रसादस्य तत्कारणत्वे तच्छ्रुतिविरोध इत्यत आह ॥ दृष्ट्वैवेति ॥ विशेषस्मृतिबलात् सामान्यश्रुतेरर्थान्तरवर्णनं युक्तमेवेति भावः ॥
न्यायामृतप्रकाशः
ज्ञाननिवर्त्यत्वेति ॥ यतो ज्ञानमज्ञानस्य तत्कार्यस्य वा निवर्तकमित्यङ्गीकारात् । ‘तरति शोकमात्मवित्’ इत्यादौ ज्ञाननिवर्त्यत्वोक्तेस्तदन्यथाऽनुपपत्त्याऽज्ञानतत्कार्यान्यतरत्व-रूपमिथ्यात्वसिद्धिरित्यर्थः । मिथ्याभूतस्येति ॥ अज्ञानोपादानकस्येत्यर्थः । उभयोरपि नियमयोर्व्यभिचारमाह ॥ ज्ञानमात्रेणेति ॥ चरमसाक्षात्कारव्यतिरिक्तेनेत्यर्थः । ज्ञानमात्रेण ज्ञानमात्रप्रागभावस्येत्याद्युक्त्याऽऽद्यनियमभङ्गः, सत्यस्येत्युक्त्या द्वितीयनियमभङ्ग इति ज्ञातव्यम् । ज्ञानप्रागभावस्येत्यादिषष्ठीनां निवृत्तेरित्यनेनान्वयः । ननु जगदन्तर्गतस्य ज्ञानप्रागभावादेर्मूलाज्ञानोपादानकत्वमस्त्येवेत्यत उक्तम् । ज्ञानसमानविषयकेत्यादि ॥ निवर्तकज्ञानसमानविषयकाज्ञानेत्यर्थः । चरमसाक्षात्कारव्यतिरिक्तज्ञाननिवर्त्याज्ञानानुपादान-कस्येति यावत् ॥ तत्प्रागभावेति ॥ घटाद्यज्ञाननिवर्तकत्वेनाभिमतघटज्ञानप्रागभाव-स्येत्यर्थः । ज्ञानसमानेत्यादि सत्यस्येति विशेषणद्वयं घटादेः पूर्वज्ञानस्येत्यादावपि योज्यम् । घटज्ञानप्रागभावो घटज्ञानसमानविषयक घटाज्ञानानुपादानकः सत्यश्च घटज्ञानेन निवर्तते चेति ज्ञातव्यम् ।
ननु प्रागभावनिवृत्तेर् ज्ञानरूपत्वेन कथं स्वेन स्वोत्पत्तिरिति चेन्न, प्रागभावनिवृत्तिः प्रतियोग्यतिरिक्तेति मतेनेदमिति ज्ञातव्यम् । ईश्वरस्येति ॥ ईश्वरज्ञानस्य सर्वोत्पात्तिम-न्निमित्तकारणत्वेन घटादिनिवृत्तिं प्रत्यपि कारणत्वमस्त्येवेति भावः । सर्वोत्पत्तिमन्निमित्त-कारणीभूतेश्वरज्ञानेन निवर्तते चेति भावः । उत्तरेति । धारावाहिकज्ञानस्थले घटविषयकोत्तर- ज्ञानसमानविषयकं घटाज्ञानानुपादानकं सत्यं च पूर्वज्ञानम् उत्तरज्ञाननाश्यमित्यर्थः । प्रत्यभिज्ञानादिनेति ॥
ननु प्रत्यभिज्ञया पूर्वानुभवजन्यसंस्कारः न निवर्तते, प्रत्युत दृढीकृतो भवति । तस्य स्मृतिमात्रनिवर्त्यत्वादिति चेन्न । अनित्यात्मविशेषगुणत्वेन फलैकनाश्यत्वेन च कार्यकारण-भावस्य धर्माधर्मादौ दर्शनाद् अनित्यात्मविशेषगुणभूतसंस्कारस्य प्रत्यभिज्ञारूपफलैक-नाश्यत्वमस्त्येवेत्याहुः । तच् चिन्त्यम् । अनित्यात्मविशेषगुणस्य सुखस्य दुःखस्य वा स्वयमेव फलरूपत्वेन फलान्तरशून्यतया फलैकनाश्यत्वाभावात् । केचित्तु स्मृत्येव प्रत्यभि-ज्ञयाऽपि संस्कारो नश्यत्येवेति मताभिप्रायेणेदमित्याहुः । वस्तुतस्तु प्रत्यभिज्ञानादिनेत्यनेना-तद्गुणसंविज्ञानबहुव्रीहिणा स्मृतिर्ग्राह्या । तथा च घटस्मृतिसमानविषयकघटाज्ञानानु-पादानकस्य सत्यस्य संस्कारस्य निवृत्तेरित्यर्थः । विषय इति । हेयतादिदर्शनेनेत्यर्थः । तथा दोषदर्शनसमानविषयकदोषाज्ञानानुपादानकस्य सत्यस्य रागादेर्दोषदर्शनेन निवृत्ते-रित्यर्थः । सुहृदिति ॥ सुहृद्दर्शनसमानविषयकसुहृदज्ञानानुपादानकस्य सत्यस्य दुःखादेः सुहृद्दर्शनेन निवृत्तेरित्यर्थः । गरुडध्यानेति ॥ अस्मन्मते परोक्षज्ञानसन्ततेरेव ध्यानत्वेन तस्यापि ज्ञानत्वादिति भावः । एवं च गरुडध्यानसमानविषयकगरुडाज्ञानानुपादानकस्य सत्यस्य विषस्य गरुडध्यानेन निवृत्तेरित्यर्थः । अग्निचिदिति । अग्निचयनाख्यकर्म-कर्त्रित्यर्थः । कपिलेति ॥ ‘कपिलां गां निरीक्षेत दुरितक्षयकाम्यया’ इति स्मृतेः । एवं च अग्निचित्कपिलधेनुदर्शनसमानविषयकाग्निचित्कपिलधेन्वज्ञानानुपादानकस्य सत्यस्य दुरिता-देरग्निचित्कपिलधेनुदर्शननिवर्त्यत्वादित्यर्थः । सेत्वादीति ॥ सेतुदर्शनसमानविषयकसेत्व-ज्ञानानुपादानकस्य सत्यस्यापि ब्रह्महत्यादेः सेत्वादिदर्शननिवर्त्यत्वादुक्तनियमद्वयस्य व्यभिचार इत्यर्थः । सेत्वादिदर्शनेन ब्रह्महत्यादेर्निवृत्तेरित्युक्तव्यभिचारपरिहारमाशङ्कते । नन्विति ॥ ब्रह्महत्यायाः सेतुदर्शननिवर्त्यत्वं नास्ति किं नाम सेतुदर्शनेन सेत्वज्ञानं निवर्तते । अज्ञाननिवृत्त्यनन्तरं ब्रह्महत्यादि निवर्तते । तेन ज्ञानस्य तत्कार्यस्य वा ज्ञानेन निवृत्तिनियमस्य न व्यभिचार इत्यर्थः ।
ननु तर्हि प्रपञ्चेऽपि न ज्ञाननिवर्त्यत्वं, किं नाम ज्ञानजन्याज्ञाननिवृत्तिद्वारेणैवेति स्यादित्यस्वरसादाह ॥ अदृष्टेति ॥ सेतुदर्शनजन्यादृष्टद्वारेणैव ब्रह्महत्या निवर्तते, न साक्षात् सेतुदर्शनेन । अतो न व्यभिचार इत्यर्थः । ब्रह्मज्ञानेन तु प्रपञ्चः साक्षादेव निवर्तते । नादृष्टद्वारेण । ज्ञाने जाते सत्यदृष्टादेः सर्वप्रपञ्चस्य विलयादिति ज्ञातव्यम् । अथवा साक्षाज् ज्ञानत्वेन ज्ञाननिवर्त्यत्वमेवाभिप्रेतम् । न चोक्तव्यभिचारः । सेतुदर्शने ब्रह्महत्यानिवर्तकतावच्छेदकं न ज्ञानत्वम् । किं नाम विहितक्रियात्वमेव । ‘सेतुं पश्येत पुरुषो ब्रह्महत्याजिघांसया’ इत्यादौ विहितत्वात् । अतो विहितक्रियात्वेनैव ब्रह्महत्या-निवर्तकतया ज्ञानत्वेनानिवर्तकत्वान्न व्यभिचार इत्याह । साक्षादिति ॥ सममिति ॥ तर्हि ब्रह्मज्ञानस्यापि न ज्ञानत्वेन प्रपञ्चनिवर्तकत्वम् । किं नाम द्रष्टव्य इत्यादौ तस्यापि विहितत्वाद् विहितक्रियात्वेनैव निवर्तकत्वमस्त्विति न ज्ञानत्वेन निवर्तकत्वमतो न ज्ञाननिवर्त्यत्वमित्यसिद्धिरित्यर्थः ।
ननु ब्रह्महत्यादेः सेतुज्ञाननिवर्त्यत्वं नास्त्येव । किं नाम सेतुप्राप्तिनिवर्त्यत्वं वा सेतु-प्राप्तिजन्यादृष्टनिवर्त्यत्वं वाऽङ्गीक्रियते । अतो न ज्ञाननिवर्त्यत्वस्य ब्रह्महत्यादौ व्यभिचार इत्याशङ्क्य निराकरोति । श्रुतेति ॥ ‘सेतुं पश्येत’ इत्यादौ ब्रह्महत्यानिवर्तकत्वेन श्रुत-दर्शनेत्यर्थः । इदं विशेषणं परस्य श्रुतहान्यश्रुतकल्पनाप्रदर्शनायेति ज्ञातव्यम् । ब्रह्म-ध्यानमिति । त्वन्मते ध्यानस्य मानसक्रियात्वेन ज्ञानत्वाभावाद् ब्रह्मध्यानं वा तज्जन्यादृष्टं वा प्रपञ्चनिवर्तकमस्तु । अतो न प्रपञ्चेऽपि ज्ञाननिवर्त्यत्वमित्यसिद्धिरित्यर्थः । ब्रह्मज्ञानं विहाय ध्यानस्यैव निवर्तकत्वपक्षः श्रेयान्, श्रुतत्वादित्याह ॥ तस्येति ॥ ‘तस्याभिध्या-नाद्योजनात् तत्वभावाद् भूयश्चान्ते विश्वमायानिवृत्तिः’ इति श्रुतेरित्यर्थः ।
ननु ज्ञानमात्रनिवर्त्यत्वमेवाभिप्रेयम् । एवं च ब्रह्महत्यादौ सेतुदर्शनमात्रनिवर्त्यत्वं नास्ति । किं नाम दूरगमनादिविशिष्टसेतुदर्शननिवर्त्यत्वमेव । अन्यथा तत्रत्यानामपि तन्निवृत्तिः स्यादित्याशङ्कते ॥ तन्विति ॥ तर्हि प्रकृतेऽपि न ब्रह्मज्ञानमात्रं प्रपञ्चनिवर्त-कम् । तथात्वे गायनादिरूपकार्नाटकादिभाषाप्रबन्धजन्यब्रह्मज्ञानेनापि निवृत्त्यापातात् । अतो वेदान्तजन्यज्ञानमेवेति वक्तव्यम् । इदमपि न सम्भवति । अनधीतवेदान्तस्य तस्य व्युत्पन्नस्य वेदान्तपुस्तकावलोकनादिजन्यब्रह्मज्ञानस्यापि तन्निवर्तकत्वापत्तेः । अतोऽधीत-वेदान्तजन्यज्ञानमेव निवर्तकमिति वाच्यम् । तदपि न सम्भवति । प्रदोषानध्यायाधीत-वेदान्तजन्यस्य तन्निवर्तकत्वाभावात् । अतो नियमाधीतवेदान्तजन्यज्ञानमेव तन्निवर्तकमिति वाच्यम् । इदमपि न युक्तम् । सत्यपि नियमेन वेदान्ताध्ययने तज्जन्यब्रह्मज्ञानस्य वेद-भराक्रान्तानामदर्शनाद् वेदान्तव्याख्यानश्रवणमपेक्षितम् । तदपि न यादृशतादृशम् । किं नाम समित्पाणित्वादिगुरूपसत्तिपूर्वकमेवापेक्षितम् । एतदपि न युक्तम् । नियमाधीत-वेदान्तश्रवणनियमजन्येनापि ब्रह्मज्ञानेन संसारानिवृत्तेर् असम्भावनाविपरीतभावनयोः सत्यो-स्तदयोगात् । अतस्तदुभयनिवर्तकं मननं ध्यानं चापेक्षितम् । एतदपि न युक्तम् । नियमाधीतवेदान्तश्रवणमननध्याननियमजन्यसाक्षात्कारे सत्यपि, प्रबलप्रारब्धकर्मप्रतिबद्धेन तेन संसारानिवृत्तेः । अन्यथा जीवन्मुक्तानां संसारानुवृत्तिर्न स्यात् । अतस्तदभावोऽप्य-पेक्षितः । एवं च न नियमाधीतवेदान्तश्रवणमननध्याननियमजन्यप्रारब्धकर्माप्रतिबद्धमेव ब्रह्मज्ञानं तन्निवर्तकमिति वाच्यम् । अतो ब्रह्मज्ञानमात्रनिवर्त्यत्वाभावादसिद्धिः स्यादेवेत्याह इहापीत्यादिना ॥ श्रवणादीत्यादिपदेन मननध्यानसङ्ग्रहः । द्वितीयादिपदेन प्रारब्ध-कर्माप्रतिबद्धत्वग्रहणम् । पदानां कृत्यं स्वयमेव दर्शयति ॥ भाषेत्यादिना ॥ उक्तरीत्या स्पष्टमेतत् । तेनेति ॥ ब्रह्मसाक्षात्कारेण संसारानिवृत्तेरित्यर्तः । अन्यथेति ॥ नियमाधीतवेदान्तश्रवणादिनियमजन्यसाक्षात्कारस्य संसारनिवर्तकत्वमनङ्गीकृत्य ब्रह्मज्ञान-मात्रस्य तन्निवर्तकत्वाङ्गीकार इत्यर्थः । प्रारब्धकर्माप्रतिबद्धत्वमप्यावश्यकम् । तदनङ्गीकारे बाधकमाह ॥ प्रारब्धेति ॥ जीवन्मुक्तस्य नियमाधीतवेदान्तश्रवणमननध्याननियमजन्य-ब्रह्मसाक्षात्कारवतः शुकवामदेवादेरित्यर्थः । अदृष्टत्वेऽपीति ॥ त्वद्रीत्या मिथ्याभूतस्य रूप्यादेरेव ज्ञानेन निवृत्तिदर्शनेन सत्यस्य निवृत्त्यदर्शनेऽपीत्यर्थः । विपक्ष इति ॥ सत्य-स्यापि निवृत्त्यङ्गीकारे बाधकाभावादित्यर्थः । अन्यथेति ॥ लोकदृष्टान्ताङ्गीकारस्यैवावश्य-कत्व इत्यर्थः । जीवन्मुक्तिदशायामधिष्ठानसाक्षात्कारवतामपि शुकादीनां भिक्षाटनादिप्रवृत्त्य-न्यथाऽनुपपत्त्या जगद्भ्रमोऽस्ति । स न स्यात् । तथा च तदाऽनुवृत्तस्य जगतः सत्यतैव स्यात् । लोकेऽधिष्ठानतत्वसाक्षात्कारानन्तरं भ्रमादर्शनात् । ननु लोकेऽधिष्ठानभूतशङ्ख-साक्षात्कारे सत्यपि पैत्यभ्रमानुवृत्तिदर्शनात् प्रकृतेऽपि तथाऽस्त्विति चेन्न । तस्य विशेष-दर्शनानिवर्त्यभ्रमत्वेन सोपाधिकत्वाद् विशेषदर्शननिवर्त्यनिरुपाधिकभ्रमानुवृत्तेरधिष्ठानतत्व-साक्षात्कारानन्तरमदर्शनात् । कर्मवशादुपपद्यत इति चेन्न । अप्रामाणिकतया कर्मवशादप्य-दर्शनात् । अतो जगद्भ्रमस्य निरुपाधिकत्वेनाधिष्ठानतत्वसाक्षात्कारानन्तरं विशेषदर्शन-सद्भावात् कर्मवशादप्यनुवृत्त्ययोगस्य लोकदृष्ट्या प्राप्तत्वेन तदानीमनुवृत्तस्य जगतः सत्यतैव स्यात् । अतोऽलौकिकत्वात् कार्यानुसारेण भ्रममङ्गीकृत्य लोकदृष्टेरप्रयोजकत्वं वाच्यम् । तन्ममापि तुल्यम् । अतः सत्यस्यापि निवृत्तिरस्त्विति भावः । लोकसिद्धस्यैव कल्पनाङ्गी-कारे त्वद्रीत्या तयैवानिष्टमापद्यत इत्याह ॥ अपि चेत्युत्तरग्रन्थेन । लोके शुक्तिरूप्ये । अन्तःकरणशुद्ध्यजन्यज्ञानेति । नेदं रजतमित्यादिज्ञानेत्यर्थः । तज्जन्येति । तथा च प्रपञ्चः सत्यो भवितुमर्हति नित्यनैमित्तिककर्मसाध्यान्तःकरणशुद्धिजन्यज्ञाननिवर्त्यत्वात् । नित्यनैमित्तिकर्मसाध्यान्तःकरणशुद्धिजन्यदेवतादर्शननिवर्त्यदुरितवत् । व्यतिरेकेण रूप्यवद् इत्यनुमानमनेनोक्तं भवतीति द्रष्टव्यम् । कल्पिते रूप्ये । संस्कारेति । श्रवणादिजन्य-संस्कारेत्यर्थः । एतादृशं च नेदं रजतमिति ज्ञानम् । विषनिवर्तकं यद् गरुडज्ञानसन्तानं तद् गरुडस्वरूपश्रवणजन्यसंस्कारसापेक्षम् । कीटत्वनिवर्तकं यद् भ्रमरज्ञानसन्तानं तदपि भ्रमरानुभवजन्यसंस्कारसापेक्षमेवेति ज्ञातव्यम् । यथाऽऽहुः–
‘कीटः पेशस्कृतारुद्धः कुड्ये यान्तमनुस्मरन् ।
संरम्भभययोगेन विन्दते तत्सरूपताम् ॥’ इति ।
श्रवणादीति ॥ एवं च प्रपञ्चः सत्यो भवितुमर्हति । संस्कारसापेक्षज्ञाननिवर्त्यत्वात् । गरुडज्ञाननिवर्त्यविषवत् । भ्रमरज्ञाननिवर्त्यकीटत्ववच्च । व्यतिरेकेण रूप्यवद् इत्यनुमानं द्रष्टव्यम् । लोके व्यावहारिकस्थले, घटध्वंसादावित्यर्थः । अज्ञानेति ॥ अज्ञाननिवृत्तेः पञ्चमप्रकारायाः पारमार्थिकत्वाङ्गीकारात् । अभावरूपा धर्मा नाद्वैतं घ्नन्तीति मण्डनमि-श्रोक्तेरित्यर्थः । स्यादिति ॥ तथा चाज्ञानं स्वनिवृत्तिसमसत्ताकं निवर्त्यत्वाद् घटवद् इत्यनुमानमुक्तमिति ज्ञातव्यम् । ननु रूप्ये व्यभिचारः । तस्य हि स्वनिवृत्तिसमसत्ताकत्वं नास्ति । रूप्यस्य प्रातिभासिकत्वात्, तद्ध्वंसस्य व्यावहारिकत्वादिति चेन्न । एवं भिन्नसत्ताकत्वाङ्गीकारे शुक्तिरूप्यतद्ध्वंसयोः कालिको विरोधोऽस्ति, स न स्यात् । तथा हि शुक्तौ प्रातिभासिकरूप्याभेदप्रतीतिकाले व्यावहारिकभेदोऽस्ति । तयोर्भेदाभेदयोर्भिन्न-सत्ताकयोर्कालिकविरोधादर्शनाद्रूप्यतद्ध्वंसयोरपि भिन्नसत्ताकत्वे सर्वजनीनः कालिको विरोध एव न स्यात् । अस्ति चासौ । अतः समानसत्ताकत्वे वाच्ये व्यभिचाराभावः सुस्थ इत्याह । प्रातिभासिकस्येति । अज्ञेयेति । अज्ञानविषयेत्यर्थः । नियमादिति ॥ नियम-दर्शनादित्यर्थः । शुक्त्यज्ञानतद्विषयभूतशुक्त्योः काचशुक्त्योश्चेति शेषः । दोषेति ॥ जगद्भ्रमेऽविद्याया एव दोषत्वाङ्गीकारादित्यर्थः । एवं चाज्ञानं स्वविषयभूतब्रह्मसमसत्ताकम् अज्ञानत्वात्, यदज्ञानं तत् स्वविषयसमसत्ताकं, यथा शुक्त्यज्ञानम् । तथा जगद्भ्रमदोषत्वे-नाङ्गीकृतमज्ञानम् अधिष्ठानसमसत्ताकम् । दोषत्वात् काचादिवदित्यनुमानद्वयं द्रष्टव्यम् । नन्वज्ञानं मिथ्या ज्ञाननिवर्त्यत्वाद् इत्यनुमीयते । अतो भवदनुमानस्य सत्प्रतिपक्षतेत्यतोऽ-प्रयोजकत्वान्नैवमनुमातव्यमित्याह ॥ किञ्चेति ॥
ननु नाप्रयोजकता । सत्यत्वे ज्ञाननिवर्त्यत्वं न स्यादिति हेतूच्छित्तिरूपबाधक-सत्वादिति चेत् तदाह ॥ यथेत्यादि ॥ अन्यत्र ब्रह्मणि । निवृत्तिर् ज्ञाननिवृत्तिः । श्रुति-बलात् ‘विश्वमायानिवृत्तिः’ इत्यादिश्रुतिबलात् । सत्यस्यापि अज्ञानस्येत्यर्थः । ज्ञान-मज्ञानस्य वा तत्कार्यस्य मिथ्याभूतस्यैव वा निवर्तकमिति नियमद्वयं खण्डितम् । अधुना ज्ञानस्याज्ञाननिवर्तकत्वं न सम्भवति । ज्ञानस्वरूपाज्ञानस्वरूपनिवृत्तिस्वरूपाणां च त्वन्मते दुर्निरूपत्वादित्याशयेनाह ॥ किं चेत्यादिना ॥ तत्रादौ ज्ञानस्वरूपं विविच्य तस्याज्ञान-निवर्तकत्वं न सम्भवतीत्युच्यते । तथा हि । ज्ञानमज्ञाननिवर्तकमित्यत्र भावव्युत्पत्त्या ज्ञप्तिर्ज्ञानमिति विवक्षितमुत करणव्युत्पत्या ज्ञानशब्देन ज्ञानकरणं विवक्षितमिति विकल्पं हृदि निधायाद्यमनूद्य दूषयति ॥ ज्ञानमिति ॥ तमेवोपपादयति ॥ त्वन्मत इति ॥ वेदान्तजन्यवृत्तिर्बन्धनिवर्तिकेति शङ्कमानं मन्दं प्रत्याह ॥ बन्धेति ॥ अज्ञानेत्यर्थः । केवलाया वृत्तेः केवलस्य वा चैतन्यस्य बन्धानिवर्तकत्वेऽप्ययःपिण्डसमारूढाग्नेः रोग-निवर्तकत्ववद् वृत्तिप्रतिबिम्बितचैतन्यस्यैव बन्धनिवर्तकत्वं भविष्यति । तदेव च मन्मते ज्ञप्तिरित्याशङ्कते ॥ वृत्तीति ॥ मुक्ताविति ॥ त्वन्मते मुक्तौ आनन्दज्ञप्तिरङ्गीकृता । सा न स्यात् । मुक्तावन्तःकरणवृत्तेरभावेन वृत्तिप्रतिबिम्बितचैतन्याभावादिति भावः । साक्षीति ॥ वृत्तिप्रतिबिम्बितचैतन्यरूपज्ञप्तेरेवाज्ञानविरोधित्वाङ्गीकारात् । सुखादौ अन्तःकरणवृत्तेस् त्वयाऽनङ्गीकारेण केवलसाक्षिचैतन्ययोग्यत्वाङ्गीकाराद् अज्ञानविरोधिभूतवृत्तिप्रतिबिम्बित-चैतन्यरूपज्ञप्तेरभावेन तत्राज्ञानापातादित्यर्थः । सुखादौ त्विति ॥ चैतन्यमात्रेणैव प्रकाश्यत्वाङ्गीकारात् तस्यैव च ज्ञप्तित्वेन सर्वदा सत्वान् नाज्ञानं सुखादावित्यर्थः । एतेनेत्युक्तं विशदयति ॥ मोक्ष इति ॥ स्वरूपचैतन्यस्य स्वरूपचैतन्यरूपस्य । तद्ज्ञप्तीति ॥ मौक्तानन्दज्ञप्तिरन्यत्वेनेत्यर्थः । तथा च यः येन प्रकाशते तत्र सा ज्ञप्तिः । सैव तत्राज्ञानविरोधिनीत्यङ्गीकृत्य सुखादेश्चैतन्यमात्रप्रकाश्यत्वाङ्गीकारे मौक्तानन्दस्यापि चैतन्यमात्रप्रकाश्यत्वेन तत्रापि तस्यैवाज्ञानविरोधित्वात् तस्य च चैतन्यस्येदानीमपि सत्त्वेनाज्ञानस्य नित्यनिवृत्त्यापत्या मौक्तानन्दस्येदानीमपि प्रकाशः स्यादिति भावः । द्वितीयमाशङ्क्य निषेधति ॥ ज्ञानकरणं चेदिति ॥ न व्याप्तिरिति ॥ ज्ञानकरणमज्ञानस्य तत्कार्यस्य वा निवर्तकमिति व्याप्तिर्नास्तीत्यर्थः । ज्ञानकारणेनेति ॥ चक्षुरादिनेत्यर्थः । नेदं रजतमिति ज्ञानस्यैवाज्ञाननिवर्तकत्वं तत्कार्यनिवर्तकत्वं च त्वयाऽङ्गीकृतम् । न ज्ञानकरणस्य तन्निवर्तकत्वं त्वत्संमतमिति भावः ।
ननु करणस्यापि ज्ञानद्वारा निवर्तकत्वमस्त्येवेत्यस्वरसादाह ॥ न जानामीति ॥ यदि ज्ञानकरणस्यैवाज्ञानविरोधित्वमङ्गीक्रियते तर्हि न जानामीत्यत्र ज्ञानमपि नास्ति प्रत्युत तद्विरोध्यज्ञानमप्यस्तीति नञोऽर्थद्वयप्रतीत्या ज्ञप्तिरूपज्ञानविरोध्येवाज्ञानं प्रतीयते । न तु ज्ञानकरणचक्षुरादिविरोधिभूतमज्ञानमित्यर्थः । न तर्हीति ॥ सत्याज्ञानोपादानकत्वा-दित्यर्थः । न व्याप्तिरिति ॥ ज्ञानं मिथ्याभूताज्ञाननिवर्तकमिति व्याप्तिर्नास्तीत्यर्थः । ननु शुक्तिज्ञाननिवर्त्याज्ञाने व्याप्तिरस्तीति चेत् तत्राह ॥ शुक्तिज्ञानेति ॥ तदेवोपपादयति ॥ न हीति ॥ इदानीं निवृत्तिशब्दार्थं दूषयति ॥ एवमिति ॥ विरोध इति ॥ अज्ञानस्य तत्कार्यस्य वा विनाश्यत्वेन मिथ्यात्वसाधने विनाश्यत्वस्य मिथ्यात्वाभावेनैव व्याप्तत्वात् हेतोर्विरुद्धत्वं स्यादित्यर्थः । तदेवोपपादयति । लोक इति ॥ इदं रजतमित्यादिस्थले इत्यर्थः । ज्ञानेति ॥ नेदं रजतमित्यादिबाधकज्ञानेत्यर्थः । तथा च यज् ज्ञानविनाश्यं न तन् मिथ्या यथा शुक्त्यज्ञानम् । एतावन्तं कालं शुक्त्यज्ञानमासीदिति तस्य सत्यत्वानु-भवात् । यन्मिथ्या न तज् ज्ञानविनाश्यं यथा रूप्यमिति व्याप्तेरनुभवसिद्धत्वेन त्वदीयानु-मानस्य विरुद्धत्वमिति भावः ।
ननु यन्मिथ्या न तज् ज्ञाननिवर्त्यमित्यत्रापि विरुद्धत्वमेव । मिथ्याभूतस्यापि रूप्यस्य ज्ञाननिवर्त्यत्वानुभवादित्यत आह ॥ न हीति ॥ असिद्धिरिति ॥ तथात्वेऽज्ञानस्य तत्कार्यस्य वा प्रपञ्चस्यासत्त्वप्राप्त्या एतादृशज्ञाननिवर्त्यत्वं स्वरूपासिद्धमित्यर्थः । एतादृश-ज्ञाननिवर्त्यत्वाङ्गीकारे श्रुतिस्मृतिसूत्रविरोधश्च स्यात् । तत्र ज्ञानेनाज्ञानादिरूपबन्धध्वंस-स्यैवोक्तेरित्याह ॥ क्षीयन्त इत्यादिना ॥ तस्मादेव सत्यस्यैव ज्ञानेन निवृत्त्युपपत्तेर्ज्ञान-निवर्त्यत्वान्यथाऽनुपपत्त्या न मिथ्यात्वसिद्धिरित्युक्तम् । अत्र विवरणकारोक्तं दूषणमाशङ्क्य निराकरोति ॥ अत्र यदुक्तं विवरण इत्यादिना ॥ विषयेणेति ॥ ज्ञानविषयेणेत्यर्थः । आश्रयेण ज्ञानाश्रयेण । तद्गतपीतिमेति ॥ ज्ञानविषयभूतविशिष्टद्रव्यसम्बन्धित्वात् पीतरूपस्येति भावः ।
ननु रूपस्य व्यप्यवृत्तितानियमेनैकदा रूपद्वयासमवेशान्नीलरूपवति क्वत्यं पीतरूपं यस्य निवृत्तिरापाद्यत इत्यत आह ॥ चित्रावयविनीति ॥ यद्यपि चित्ररूपस्यातिरिक्तत्वपक्षे नेदमापादनं सम्भवति । तथापि नानारूपसमाहारश्चित्रमिति मतानुसारेणेदमिति सम्प्रदाय-विदः । आत्मेति ॥ धर्मादीनां ज्ञानाश्रयीभूतात्मसम्बन्धित्वादिति भावः । देहात्मेति ॥ देहात्मसम्बन्धस्य संयोगस्य द्विष्ठत्वेन ज्ञानविषयीभूतशरीरतदाश्रयीभूतात्मसम्बन्धित्वादिति भावः । प्रतिबन्द्योत्तरं प्रतिजानीते ॥ अत्र ब्रूम इति । ज्ञानेनाज्ञानस्य निवृत्तिः किं विषयेण सम्बद्धस्योताश्रयेणोतोभाभ्यां वा । तथा ज्ञानेनारोपितस्य कस्यचिन्निवृत्तिः किं विषयेण सम्बद्धस्योताश्रयेणोतोभाभ्यामिति विकल्पं हृदि निधायोभयत्रापि नाद्यावित्याह ॥ ज्ञानेनेत्यादिना ॥ अयमर्थः– न तावज् ज्ञानेन स्वविषयसम्बद्धस्याज्ञानस्य निवृत्तिः । तथात्वेऽयं मैत्र इति मैत्रविषयकं ज्ञानं चैत्रस्य भवति । तेन ज्ञानेन तद्विषयभूत-मैत्रनिष्ठघटाज्ञानस्यापि निवृत्तिः स्यात् । नापि ज्ञानेन स्वविषयसम्बद्धारोपितस्य निवृत्तिः । तथात्वे इदं रजतमित्यत्रेदमंशज्ञानमात्रेण तद्विषयशुक्त्यारोपितरूप्यस्यापि निवृत्तिः स्यात् । न हीदमंशज्ञानं रूप्यनिवर्तकमिति । उभयत्रापि न द्वितीयावित्याह ॥ नापीति ॥ अयमर्थः । न तावज् ज्ञानेन स्वाश्रयेण सम्बद्धाज्ञाननिवृत्तिर्वक्तुं युक्ता । तथात्वे चैत्रस्यायं घट इति घटविषयकज्ञानेन स्वाश्रयचैत्रनिष्ठपटाज्ञानस्यापि निवृत्त्यापत्तेः । नापि ज्ञानेन स्वाश्रयसम्बद्धस्यारोपितस्य निवृत्तिः । तथात्वेऽयं घट इति चैत्रस्य घटज्ञानं यद् भवति तेनात्मन्यारोपितं यद्देहतादात्म्यं तदपि निवर्तेत । तादात्म्यसम्बन्धस्य देहात्मोभय-सम्बन्धित्वेन घटज्ञानाश्रयीभूतचैत्रात्मसम्बन्धित्वादिति ॥ उभयत्रापि न तृतीयावित्याह नापीति ॥ न तावज् ज्ञानेन स्वविषयाश्रयोभय सम्बद्धाज्ञानस्य निवृत्तिः । तथात्वेऽयं मैत्र इति मैत्रविषयकं यच्चैत्राश्रितं ज्ञानं तन् मैत्रविषयकत्वाच् चैत्राधिकरणकत्वाच्च मैत्रचैत्रोभय-सम्बन्धि भवति । तेन मैत्रस्य चैत्रविषयकं यदज्ञानमस्ति तस्यापि निवृत्तिः स्यात् । कुतः? मैत्रनिष्ठस्य चैत्राज्ञानस्य चैत्रप्रतियोगिकत्वेन मैत्राधिकरणकत्वेन च चैत्रमैत्रोभय-सम्बन्धित्वात् । नापि ज्ञानेन स्वविषयाश्रयोभयसम्बद्धस्य कस्यचिदारोपितस्य निवृत्तिः । तथात्वेऽयं देह इति देहविषयकं यज् ज्ञानम् आत्मनो भवति तद्देहविषयकतया आत्माधि-करणकतया च देहात्मोभयसम्बन्धि भवति तेनारोपितदेहात्मतादात्म्यस्यापि निवृत्तिः स्यात् । कुतः? अध्यस्तस्य तादात्म्यस्य देहात्मोभयसम्बन्धित्वादिति । उक्तदोषपरिहारं शङ्कते । नन्विति ॥ ज्ञानेनाज्ञानमात्रस्य निवृत्तिरिति नोच्यते । किं नाम ज्ञानेन समानाश्रय-विषयकाज्ञानस्य निवृत्तिरित्युच्यते । एवं च न पूर्वोक्ता दोषाः । मैत्रनिष्ठघटविषयकाज्ञानस्य चैत्रनिष्ठमैत्रविषयकज्ञानसमानाश्रयविषयकत्वाभावान्न तेन तस्य निवृत्तिस् तथा चैत्रीयपटा-ज्ञानस्यापि न चैत्रीयघटज्ञानसमानविषयकत्वमिति न तेनापि तस्य निवृत्तिः । तथा मैत्रनिष्ठचैत्रविषयकाज्ञानस्यापि न चैत्रनिष्ठमैत्रविषयकज्ञानेन समानाश्रयविषयकत्वमिति न तेनापि तस्य निवृत्तिरिति ॥ तथा ज्ञानेनारोपितस्य कीदृशस्य निवृत्तिरिति विकल्प्य दूषणावकाशोऽपि नास्ति । तत्र स्वतन्त्रनियमस्यानङ्गीकारात् । किं नाम? ज्ञानेनाज्ञाने निवृत्ते तत्कार्यं स्वयमेव विनश्यतीत्यङ्गीकारादित्याह । निवृत्ते चेति । शङ्खे श्वेतत्वानु-मित्येति । शङ्खः श्वेतः शङ्खत्वादित्यनुमित्येति भावः । तदीयस्येति । चैत्रीयस्येति भावः । तथा च श्वेतत्वानुमिति रूपज्ञाने चैत्रस्य सत्यपि तत्समानाश्रयविषयकचैत्राज्ञाना-निवृत्तेस् तत्साक्षात्कारप्रमारूपविशेषदर्शनस्यैव तदज्ञानकार्यसाक्षात्कारभ्रमनिवर्तकत्वात् । तदनिवृत्त्यैव तत्कार्यशङ्खारोपितपैत्यस्याप्यनिवृत्त्योक्तनियमस्य व्यभिचार इत्याशयः । ऐक्येति ॥ ग्रीवास्थमेवेदं दर्पणे प्रतीयमानं मुखमित्यैक्यसाक्षात्कारेणेत्यर्थः । तथा च तेनैक्याज्ञानानिवृत्तेस्तदनिवृत्यैव तत्कार्यभेदभ्रमस्याप्यनिवृत्त्योक्तनियमोऽसन्निति भावः । श्वेतत्वानुमित्यैक्यसाक्षात्कारेण च श्वैत्याज्ञानैक्याज्ञानयोरपि निवृत्तिरङ्गीक्रियत इति न व्यभिचार इति चेत्तत्राह । श्वेतत्वेति ॥ अज्ञानेति ॥ श्वैत्याज्ञानेत्यर्थः । उपलक्षण-मेतत् । बिम्बप्रतिबिम्बयोरैक्यसाक्षात्कारेऽपि ऐक्याज्ञाननिवृत्तौ तत्कार्यभेदभ्रमानुवृत्तिर्न स्यादित्यपि द्रष्टव्यम् ।
ननु श्वेतत्वानुमित्यादिना श्वैत्याद्यज्ञाननिवृत्तावपि तत्कार्यपैत्यादिभ्रमानुवृत्तिर्युक्ता । सोपाधिकभ्रमत्वादित्यत आह । भ्रमस्येति ॥ उपादानेति ॥ न ह्युपादाननिवृत्त्यनन्तरं कार्यानुवृत्तिरावयोर्मते दृष्टेति भावः । ननु दोषाभावसहकृतज्ञानं स्वसमानाश्रयविषयका-ज्ञाननिवर्तकमिति नियमाङ्गीकारान्नोक्तव्यभिचार इत्यत आह ॥ ज्ञानस्येति ॥ निवर्तन इति ॥ सहकार्यन्तरापेक्षा तत्र नास्तीति भावः । अनपेक्षणादिति ॥ दोषाभावरूप-सहकार्यनपेक्षणादित्यर्थः । यदि दोषाभावापेक्षाऽङ्गीक्रियत इति परो ब्रूयात् तदा दूषणान्तर-माह ॥ किञ्चेति ॥ भविष्यदिति ॥ इदानीं साक्षात्कृतो यो घटस् तद्विषयक एव यो भावी साक्षात्कारस् तन्निवर्त्या याऽविद्या तन्निवृत्त्यापत्तेरित्यर्थः । तथा च दोषाभाव-सहकृतस्य समानाश्रयविषयकाज्ञाननिवर्तकत्वाङ्गीकारे दोषाभावसहकृतेदानीन्तनघटसाक्षात्कार रूपज्ञानेन तत्समानाश्रयविषयकभविष्यद्घटसाक्षात्कारनिवर्त्याज्ञानस्यापि निवृत्तिः स्यात् । अस्त्विति चेत् । तर्हि सकृद्घटसाक्षात्कारानन्तरं सर्वदा तदापरोक्ष्यं स्यात् । पुनः कदाचित् कालान्तरे तदपरोक्षज्ञानाभावो न स्यादिति भावः । किं चेत्युक्तदोषपरिहारं शङ्कते ॥ नन्विति ॥ घटादिज्ञानमज्ञाननिवर्तकमेव न भवति यावन्ति ज्ञानानि तावन्त्यज्ञाना-नीत्यनङ्गीकारेणाज्ञस्यैकत्वात् । तस्य च घटज्ञानेन निवृत्तौ सद्यो मोक्षः स्यात् । किञ्च ज्ञानं समानाश्रयविषयकाज्ञाननिवर्तकमित्युच्यते । न हि घटज्ञानसमानविषयकघटाज्ञानम् । ज्ञानस्य घटविषयकत्वेऽपि अज्ञानस्य घटविषयकताया मयाऽनङ्गीकारात् । घटस्या-प्रकाशस्वरूपत्वेन तत्र प्रकाशप्रसक्तेरेवाभावेन प्राप्तप्रकाशप्रतिबन्धरूपाज्ञानकृत्याभावात् । अतश्चैत्रस्येदानीन्तनेनेत्याद्युक्तदूषणानवकाश इत्याशङ्कते । नन्विति ॥ जडानावरकत्वाज् जडविषये आवरकत्वाभावात् । दृष्टानुसारादिति ॥ घटादिज्ञानस्याज्ञानानिवर्तकत्वे ज्ञान-स्याज्ञाननिवर्तकत्वे दृष्टान्ताभावाद् ब्रह्मज्ञानस्याप्यज्ञानानिवर्तकत्वप्राप्त्या तन्निवर्त्यत्वेन बन्धस्याज्ञानमयत्वरूपं मिथ्यात्वं न सिद्ध्येदित्यर्थः । ज्ञाननिवर्त्यस्य मिथ्यात्वं प्रकारान्तरेण शङ्कते ॥ नन्विति ॥ ज्ञानविरोधित्वाच्च मिथ्यात्वमिति भावः । न वा मिथ्यात्वमिति ॥ ज्ञानविरोधित्वेन मिथ्यात्वं कल्पनीयमिति भावः ।
ननु ज्ञाननिवर्त्यस्य भ्रमस्य मिथ्यात्वं दृष्टम् । अतो बन्धस्यापि तेन मिथ्यात्वमेव साक्षात् साध्यते । अतो नोक्तदोष इति चेत् । तत्र वक्तव्यम् – भ्रान्तिशब्देन भाव-व्युत्पत्त्या भ्रमरूपज्ञानमेव विवक्षितम्? उत कर्मव्युत्पत्त्या तद्विषय इति विकल्प्याद्ये दोषमाह ॥ न हीति ॥ अन्यथा भ्रम आसीदिति अनुभवविरोधादिति भावः । द्वितीये दोषमाह ॥ मिथ्याभूतस्येति ॥ असंमतमिति ॥ मन्मते तस्यात्यन्तासत्त्वेन नित्य-निवृत्ततया ध्वंसप्रतियोगित्वरूपज्ञाननिवर्त्यत्वासंमतेरित्यर्थः । ज्ञानस्याज्ञाननिवृत्तिद्वारा तत्कार्यनिवर्तकत्वाङ्गीकारे चरमसाक्षात्कारानन्तरमज्ञानस्य निवर्तनेऽपि भिक्षाटनादिप्रवृत्त्य-न्यथाऽनुपपत्त्याऽविद्यालेशावस्थानं कैश्चिदङ्गीकृतम् । कैश्चिदज्ञानसंस्कारसद्भावः । कैश्चित् प्रारब्धकर्मादिकम् । तस्य सर्वस्यापि निवृत्तिः स्यात् । ज्ञानेनाज्ञानस्य निवृत्तत्त्वेन तल्लेशा-देरवस्थानायोगादित्याह ॥ अपि चेति ॥ तत्रैवं त्वयोत्तरितव्यं तन्ममापि सममित्याह ॥ तस्मादिति ॥ तर्ह्यज्ञानसंस्कारादेरपि ज्ञानविरोधित्वान्निवृत्तिरस्त्विति चेत् तत्राह ॥ कार्येति ॥ कार्योन्नेयधर्माणां यथाकार्यमुन्नयनात् प्रकृते भिक्षाटनादिकार्येणाविद्यालेशादेरपि ज्ञानविरोध एव नास्तीति वक्तव्यमिति भावः । सममिति ॥ तथा च ज्ञानेन निवृत्तौ ज्ञानविरोधस्यैव प्रयोजकत्वात् प्रकाशेनान्धकारस्येव सत्यस्यापि बन्धस्य ब्रह्मज्ञानेन निवृत्ति-रस्तु विरोधादित्येवाङ्गीकार्यम् । अतो न तदन्यथाऽनुपपत्त्या मिथ्यात्वमिति सिद्धमिति भावः । प्रसादादेवेति ॥ न ज्ञानादित्यर्थः । तर्हि ज्ञानं व्यर्थमापन्नमित्यत आह ॥ ज्ञानं त्विति ॥ ननु तर्हि ‘दृष्ट्वैव’ इति श्रुतिविरोधः । तत्र ज्ञानव्यतिरिक्तस्य मोक्षहेतुता-निरासादित्यत आह । दृष्ट्वैवेति ॥ प्रसाद इति ॥ ‘यथा दृष्ट्या’ इत्यत्र दर्शनेन प्रसादो लभ्यते इति भावः । तथा च प्रसादेनैव मुच्यते नापरेणेत्यन्ययोग योगव्यवच्छेदोऽभिप्रेत इत्याशयः ।
न्यायकल्पलता
॥ श्रीहरिर्जयति ॥ ननु ‘तरति शोकमात्मवित्’ ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्व-संशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे’ इत्यादिश्रुतिबोधितज्ञाननिवर्त्यत्वा-न्यथानुपपत्तिर्बन्धमिथ्यात्वे प्रमाणम् । सत्यत्वे ब्रह्मवदनिवर्त्यत्वापत्तेः । तथाहि शुक्ति-रूप्यरज्जुसर्पादौ ज्ञाननिवर्त्यतावच्छेदकं न तावद्रूप्यत्वादिकमननुगमात् । किन्तु सर्वानुगत-मिथ्यात्वमेवाज्ञानकल्पितत्वापरपर्यायमवच्छेदकम् । एवं ज्ञानस्यापि तन्निवर्तकत्वे न श्रुक्त्यादिविषयत्वमवच्छेदकमननुगमात् । किन्तु सर्वानुगतमधिष्ठानप्रमात्वमेवास्थेयम् । तथा च यत्र ज्ञानस्याधिष्ठानप्रमात्वेन निवर्तकता तत्र मिथ्यात्वेनैव निवर्त्यतेति नियमः सिद्ध्यति । एतादृशनियमानभ्युपगमे चानन्तनियमकल्पनागौरवरूपो बाधकस्तर्कः । तथा हि यन्निष्ठा यदाकारा प्रमारूपाऽन्तःकरणवृत्तिरुदेति तन्निष्ठं तदाकारमज्ञानं नाशयतीति नियमस्य सिद्धत्वात् । उपादाननाशस्य चोपादेयनिवर्तकत्वाच्छुक्त्यादिज्ञानेन तत्तदाकाराज्ञाननाशे तदुपादेयानां रजतादीनां निवृत्तिरौचित्यावर्जितैवेति नियमान्तराकल्पनेन लाघवमनुकूल-स्तर्कोऽस्मत्पक्षे । अन्यथा ज्ञाननिवर्त्यत्वानुपपत्तिरुक्तैवेत्येतन्निराकरोति ॥ नापीति ॥ मिथ्याभूतस्यैवेति ॥ यतोऽयं न नियमोऽतो मिथ्यात्वं न ज्ञाननिवर्त्यतावच्छेदकं माना-भावात् । शुक्तिरूप्यादेर्ज्ञानिवर्त्यत्वाननुभवेनोक्तयुक्तेरसिद्धेः । श्रुतिस्तु ब्रह्मज्ञानं संसार-निवर्तकमित्याचक्षाणा भवदभिमतावच्छेदकं नान्वेषयतीति भावः ।
नन्वस्तु ज्ञाननिवर्त्यत्वमात्रेण मिथ्यात्वमित्यत आह ॥ ज्ञानमात्रेणेति ॥ ईश्वरेति ॥ ननु घटादिनिवृत्तेरुपादानशून्यतया उपादानाद्यगोचरमीश्वरज्ञानं न तत्र हेतुरिति चेन्न । कर्तृत्वनिविष्टज्ञानस्योपादानगोचरतया हेतुत्वेऽपि सर्वकार्यहेतोस्तस्य तन्नियमाभावात् । ईश्वरेच्छया सर्वं भवतीत्यापृथग्जनमनुभवेनेच्छावज् ज्ञानस्यापि कार्यमात्रनिमित्तत्वात् । ध्वंसस्याभावत्वानुभवेन भावत्वसाधनस्य बाधिततया तस्यानुपादानकत्वासिद्धेश्च । जन्य-भावत्वस्यैव विनाश्यताप्रयोजकत्वात् ॥ प्रत्यभिज्ञानेति ॥ अनित्यात्मविशेषगुणत्वेन धर्मादिवत्संस्कारस्य प्रत्यभिज्ञारूपफलनाश्यत्वावसायादित्यर्थः । अग्निचिच् चयनाख्यकर्म-कर्ता । तथा च प्रागभावादिषु व्यभिचाराज् ज्ञाननिवर्त्यत्वमात्रं न मिथ्यात्वप्रयोजकमित्यर्थः। साक्षात्वगर्भोक्तव्याप्तौ तावन्न व्यभिचार इति शङ्कते ॥ नन्विति ॥ अज्ञानेति ॥ सत्व-ज्ञानेत्यर्थः । नन्वज्ञाननिवृत्तिः पक्षेऽपि समेत्यत उक्तम् ॥ अदृष्टेति ॥
ननु सेतुदर्शनानन्तरमेव पापनिवृतौ बाधकाभावेनादृष्टकल्पने मानाभाव इत्यत उक्तम् ॥ साक्षादिति ॥ प्रागभावादिष्वपि प्रतियोगित्वादिना ज्ञानं निवर्तकमतस्तत्रापि न व्यभिचार इत्यर्थः ॥ ध्यानमिति ॥ ध्यानं तु ज्ञानभिन्नं मनोवृत्यन्तरं तवाभिमतमतो ज्ञान-निवर्त्यत्वमसिद्धं प्रपञ्चे इत्यर्थः ॥ तस्येति ॥ क्षरं प्रधानममृताक्षरं हरः क्षरात्मना विशते देव एकः । तस्याभिध्यानाद्योजनात् तत्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिरिति श्वेताश्वतर-श्रुतेरित्यर्थः । त्रिगुणात्मकं प्रधानं क्षरम् । उपचयापचयवत् । अमृतक्षरं श्रीतत्वम् । द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव चैति गीतोक्तेः । हरोऽघनाशनः । एकः मुख्यः देवः परमात्मा । क्षरात्मानौ प्रधानजीवौ । ईशते नियच्छति । अन्तर्यामित्वेनेति शेषः । ईश ऐश्वर्ये । विकरणस्य शपो लुगभावश्छान्दसत्वात् । तत्त्वभावेन निरन्तरं तस्मिन्मनोयोजना-तन्निदिध्यासनादन्ते तदपरोक्षज्ञानरूपनिर्णये सति तस्याभिध्यानात्प्रसादाद् विश्वस्य सम्पूर्णोपायस्याधिकारिणो बन्धकमायानिवृतिर्भवतीति । ज्ञात्वा देवं मुच्यते सर्वपापैरिति पूर्ववाक्यात् । ज्ञात्वा देवं सर्वपाशापहानिरित्युत्तरवाक्याच्च । तथा च तवेव मम नाश्रुत-कल्पनेति भावः ।
ननु निवर्त्यातिरिक्तानपेक्षज्ञानजन्यध्वंसप्रतियोगित्वं मिथ्यात्वम् । पापे तु नैवमिति शङ्कते ॥ नन्विति ॥ किन्त्विति ॥ परिषदुपस्थानादिपूर्वकव्रतकलापविशिष्ठं छत्रपादुकादि- वर्जनस्वदोषोद्घोषणादिसहितं सेतुदर्शनं तथा । अन्यथा तत्रत्यम्लेच्छादीनामपि ततस्त-न्निवृत्यापत्तेरित्यर्थः । ‘यमेवैष वृणुते तेन लभ्यः’ ‘तदा विद्वान्नामरूपाद्विमुक्तः’ ‘अथ मर्त्योऽमृतो भवति’ इति श्रुतेः प्रपञ्चनिवृतौ प्रसन्नेश्वरकालादेर्हेतुत्वादिहाप्युक्तस्यासिद्धिरिति दोषे सत्येव दोषान्तरमाह ॥ इहापीति ॥ गुरुमुखोच्चारणानूच्चारणानध्यायपरिपालन-गुरुसेवादिनियमपूर्वकाध्ययनमपेक्षितमिति भावेनोक्तम् ॥ नियमाधीतेति ॥ नियमादीति ॥ श्रवणादिनियमस्य प्रयोजनत्वेन कल्प्यमानं यद्दृष्टमदृष्टं वा तत्सहितमित्यर्थः । आदिपदेन प्रबलप्रारब्धकर्मनिवृत्तिः । वेदान्तव्यावर्त्यमाह ॥ भाषेति ॥ भाषाप्रबन्धो भाषाकवित्वम् । अधीतव्यावर्त्यमाह ॥ अनधीतेति ॥ पुस्तकादिपठितवेदान्तेनेत्यर्थः ॥ अधीतेति ॥ नियमं विनेति शेषः । तेन ब्रह्मज्ञानेन ।
ननु ज्ञानस्य स्वप्रागभावनिवर्तन इवाज्ञाननिवर्तनेऽपि नान्यापेक्षा । तदुक्तं वार्तिके ‘प्रत्यग्याथात्म्यधीरेव प्रत्यगज्ञानहानिकृत् । सा च स्वोत्पत्तितो नान्यद् ध्वान्तध्वस्ताव-पेक्षते’ इतीत्यत आह ॥ अन्यथेति ॥ अज्ञाननिवृत्तेर्दुरितनिवृत्यसाध्यत्व इत्यर्थः ॥ वैय्यर्थ्यमिति ॥ ननु श्रवणादिनियमादेर्यज्ञादिनिवर्त्यजिज्ञासाप्रतिबन्धककल्मषातिरिक्त-ब्रह्मनिर्णयप्रतिबन्धककल्मषनिवृत्तिद्वारेण ब्रह्मज्ञान एवोपयोगोऽतो न वैय्यर्थ्यमिति चेन्न । अवघातजन्यवैतुष्यान्यापूर्वस्येव श्रवणादिजन्यब्रह्मज्ञानान्याज्ञाननिवृतेरेव नियमादृष्टसाध्य-त्वौचित्यात् ॥ जीवन्मुक्तस्येति ॥ ब्रह्मापरोक्षज्ञानिन इत्यर्थः । ननु मम रीत्या रूप्य-निवर्तकशुक्तिज्ञानेऽज्ञानसमानविषयकप्रमात्वेन तन्निवर्तकत्वात्तेनैव रूपेण ब्रह्मज्ञानस्य प्रपञ्च-निवर्तकत्वकल्पनात्तन्निवर्त्यस्य प्रपञ्चस्य स्वनिवर्तकज्ञानसमानविषयकाज्ञानोपादानकत्वं सिद्ध्यतीत्याशङ्कामभ्युच्चयवादेनापाकरोति ॥ किञ्चेति ॥ लेकेऽक्लृप्तेनापि ब्रह्मज्ञानत्वेन ब्रह्मज्ञानस्य प्रपञ्चनिवर्तकत्वमस्तु श्रुतिबलादित्यर्थः । ननु यागादेः श्रुतस्वर्गसाधन-त्वोपपत्तयेऽपूर्वमिव बन्धस्य श्रुतज्ञाननिवर्त्यत्वोपपत्तये मिथ्यात्वं कल्प्यत इत्यत उक्तम् ॥ सत्यस्येति ॥ यागवत् प्रकृतेऽनुपपत्त्यभावात् सत्यस्यापि दुरितवज् ज्ञानान्निवृत्त्युपपत्ते-रित्यर्थः । एतेन निरुक्तावच्छेदकानादरं सूचयति ।
ननु दृष्टत्याग एव विपक्षे बाधक इत्यत आह ॥ अन्यथेति ॥ श्रुतिज्ञानाद्ब्रह्मज्ञान-वैलक्षण्यस्य सिद्धत्वाद् वैधर्म्योपपादनमिदम् । न तु वैधर्म्येण प्रत्यवस्थानमित्यर्थः । अत एवेदं वैधर्म्यसमजातिरिति परास्तम् । भाषाप्रबन्धादिजन्येनासम्भावनादिप्रतिबद्धेन वेदान्त-जन्येनापि ब्रह्मज्ञानेनाज्ञानानिवृत्तेरुक्तावच्छेदकस्य व्यभिचारेण वेदान्तविचारजन्यस्य विजातीयस्य ज्ञानस्य प्रपञ्चनिवर्तकत्वमुपेयमित्याह ॥ अपि चेति ॥ नियमादिति ॥ अज्ञानसमानविषयकप्रमानिवर्त्यत्वेन स्वनिवर्तकप्रमासमानविषयकाज्ञानोपादानकत्वसिद्धि-रस्त्विति शेषः ॥ सत्यतैवेति ॥ रूप्यसाधारणरूपेण ज्ञाननिवर्त्यत्वाभावादिति भावः । एतेन शुक्तिब्रह्मज्ञानयोः सर्वसुकृतासाध्यत्वतत्साध्यत्ववर्णनं वैधर्म्यसमजातिरिति निरस्तम् । अवच्छेदकभेदोक्त्या प्रपञ्चे मिथ्यात्वापादकाभावस्योक्तत्वात् ।
अत्रेदमालोचनीयम् । अज्ञानसमानविषयकप्रमानिवर्त्यत्वेऽपि रूप्यादेस्तन्निवर्तकप्रमाया अज्ञानसमानविषयत्वमायाति । न तु रूप्यादेरज्ञानोपादानकत्वम् । अज्ञाने व्यभिचारात् । अन्धकारोपादानाज्ञानानिवर्तकस्यापि प्रकाशस्य तन्निवर्तकत्ववदुपपतेश्च । विरोधस्य फलबलकल्प्यत्वादिति ।
ज्ञाननिवर्त्यत्वस्य मिथ्यात्वं विनाऽनुपपत्तिरूपव्याप्त्यभावं वक्तुं संस्कारानिवर्त्यत्व-मुपाधिमाह ॥ अपि चेति ॥ उपाधेः साध्येनान्वयव्याप्तिं दर्शयितुं कल्पित इत्यादि । अप्रयोजकत्वनिरासकव्यतिरेकव्याप्तिप्रदर्शनाय संस्कारसापेक्षेत्यादि । उपाधेः स्वव्यतिरेकेण सत्प्रतिपक्षोत्थापनसामर्थ्यं वक्तुं श्रवणादीत्यादि । ज्ञाननिवर्त्यत्वस्य मिथ्यात्वव्यभिचारमप्याह ॥ किञ्चेति ॥ एवं चाज्ञान एव व्यभिचार इति भावेनोक्तम् ॥ अज्ञानमपीति ॥ निवृत्तिनिवर्त्ययोः समानसत्ताकत्वनियमोऽसिद्धः । शुक्तिरूप्यतन्निवृत्योर्भिन्नसताकत्वेन तत्र व्यभिचारादित्याशङ्क्य परिहरति ॥ प्रातिभासिकस्येति ॥ प्रकारान्तरेणाज्ञानमुपपादयति ॥ किञ्चाज्ञानेति ॥ प्रकृते चाविद्यारूपदोषस्यापि स्वाधिष्ठानेन ब्रह्मणा समसत्ताकत्वं स्यादित्युक्तम् ॥ दोषेति ॥
नन्वज्ञानेऽपि ज्ञाननिवर्त्यत्वेन मिथ्यात्वमनुमीयतेऽतो न तत्र व्यभिचार इत्यत आह ॥ किञ्चेति ॥ श्रुतिबलादिति ॥ तथा चाप्रयोजकत्वान्नाज्ञाने मिथ्यात्वानुमानमिति भावः ॥ सत्यस्यापीति ॥ अज्ञानस्येति शेषः । ज्ञानं ज्ञप्तिस्तत्करणं वेति विकल्पं हृदि निधायाद्ये ज्ञानत्वाज्ञाननिवर्तकत्वयोः सामानाधिकरण्याभावाद्यज्ज्ञानं तदज्ञाननिवर्तकमिति न व्याप्ति-सम्भव इत्याह ॥ किञ्चेति ॥ अज्ञप्तित्वादिति ॥ तथा चोभयथापि दोष इत्यर्थः । समाधातुं शङ्कते ॥ वृत्तीति ॥ दूषयति ॥ न मुक्ताविति ॥ वृत्तिप्रतिबिम्बितचैतन्यस्य मुक्तावभावादित्यर्थः । मुक्तावानन्दाज्ञानं च स्यादित्यपि बोध्यम् ॥ साक्षीति ॥ उक्त-रूपस्याज्ञाननिवर्तकस्य सुखादावभावादित्यर्थः । सुखादौ ज्ञप्त्यभावश्च स्यात् । वृत्तिप्रति-बिम्बितचैतन्यरूपज्ञप्तेरेव तत्र भावादित्यपि ज्ञेयम् ॥ एतेनेति ॥ चैतन्यमात्रस्याविद्या-रूपबन्धानिवर्तकत्वेनेत्यर्थः । चैतन्यमात्रस्याज्ञाननिवर्तकत्वे दोषमाह ॥ मोक्ष इति ॥ मुक्त्यानन्दे सुखादौ च चैतन्यमात्रप्रकाश्ये तन्मात्रस्य ज्ञाप्तित्वेन ज्ञप्तेश्चाज्ञाननिवर्तकतया मुक्तानन्दस्येदानीं प्रकाशापातादित्यर्थः । द्वितीयं पक्षं निषेधति ॥ ज्ञानकारणं चेदिति ॥ न जानामीति ॥ अज्ञानस्य ज्ञानकरणेन विरोधोऽपि नास्त्यतो न ज्ञानकरणमज्ञान-निवर्तकमित्यर्थः ॥ एवमिति ॥ अज्ञानस्य सत्यत्वे विश्वमिथ्यात्वासिद्धिः । मिथ्यात्वे तु न व्याप्तिसम्प्रतिपत्तिरित्यर्थः । अज्ञानस्य सत्यत्वमुपपादयति ॥ न हीति ॥ एवं यदीति ॥ निवृत्तिर्नाम ध्वंसश्चेत्तर्हि विश्वमिथ्यात्वासिद्धिः । मिथ्यात्वध्वंसत्वयोः परस्पर-विरहव्याप्यत्वादित्याह ॥ तदेत्यादिना ॥ निषेध इति ॥ अत्यन्ताभाव इत्यर्थः ॥ असिद्धिरिति ॥ साधकप्रमाणभावात् । उक्तमर्थमुपपादयति ॥ क्षीयन्ते चेति ॥ तदधि-गम इति ॥ तस्य ब्रह्मणोऽधिगमेऽपरोक्षज्ञाने सति तदुत्तरकालं करिष्यमाणस्य पापस्या-श्लेषोऽसम्बन्धः । ज्ञानात्पूर्वं कृतस्य पापस्य विनाशः । तद्यथा पुष्करपलाश आपो न श्लिष्यन्त इत्यादौ तद्यथैषीकातूलमग्नौ प्रोतमित्यादौ च श्रुतौ तथा व्यपदेशादिति सूत्रार्थः ।
विवरणोक्तं दूषयितुमनुवदति ॥ अत्रेति ॥ अर्थानुवादोऽयं विवरणं तु चित्रावयविनि नीलविशिष्टद्रव्यज्ञानं स्वविषयं वा स्वविषयसमवेतरसादिकं वा विरोधिनं वा पीतिमादिगुणं न निवर्तयति । स्वविषयानवबोध एव केवलस्तेन निवर्त्यत इति । स्वाश्रयगतं वस्तु ज्ञानेन निवर्तत इति चेन्न । घटादिज्ञानेनात्मगतधर्माधर्मादिगुणानिवृत्तेः । न चाश्रयविषयोभय-सम्बन्धिवस्तुज्ञानेन निवर्तते । आत्मनः शरीरविषयज्ञानेन देहात्मसम्बन्धाद्यनिवृत्तेरिति । तदा विद्वान्नामरूपाद्विमुक्त इत्यादिश्रुतिबलात्सत्यस्य बन्धस्य ब्रह्मज्ञानेन निवृत्तिर्भवतु किं सर्वस्याप्यनर्थस्याविद्यानिमित्तत्वप्रदर्शनपरेणाध्यासभाष्येणेत्याशङ्क्य न तावत् श्रुतिबलात्सत्य-स्य ज्ञानेन निवृत्तिः । वस्तुतः सतो ज्ञाननिवर्त्यत्वासम्भवान् मायात्मकबन्धस्य ज्ञान-निवर्त्यत्वं श्रुत्यर्थः । इतरथा दृष्टविरोधाच्छ्रुतिप्रामाण्यं न स्यात् । तस्माच्छ्रुतिप्रामाण्य-सिद्ध्यर्थं दृष्टबलाद्ब्रह्मज्ञानेन पारमार्थिकानर्थनिवृत्तिरिति वक्तव्यम् । तत्र त्रेधा विकल्प-नीयमित्याह ॥ ज्ञानेनेति ॥ ब्रह्मज्ञानेनेत्यर्थः ॥ सत्यस्येति ॥ बन्धस्येति शेषः । विषयसम्बन्धस्त्वनर्थो विनियन्तृत्वादिः । आश्रयसम्बन्धस्तु नियम्यत्वादिः । उभयसम्बन्ध-स्तु कर्तृत्वादिरिति विकल्पार्थः । आद्येपीदमालोचनीयम् । नियन्तृत्वसर्वज्ञत्वादिविशिष्ट-विषयमात्मज्ञाननिवर्तकमुत केवलम् । तत्र नाद्यः सङ्गच्छते । व्यभिचारादित्याह ॥ चित्रेति ॥ ज्ञानेनेत्यपरं नीलादेरिति शेषः । तस्यानिवृत्तेरिति शेषः । चित्रावयविनि नीलविशिष्टद्रव्यज्ञानेन नीलादेरनिवृत्तेरित्यर्थः । केवलमात्मविषयं ज्ञानं विषयगतनियन्तृत्वा-द्यनर्थनिवर्तकमित्यत्रापि व्यभिचारमाह ॥ तद्गतेति ॥ तद्गतस्य रसादेरनिवृत्तेरिति सम्बन्धः । नीलज्ञानस्य न रसादिनिवर्तकत्वम् अविरोधात् । केवलं विरुद्धात्मविषयं तु विषयसम्बन्धिनं तु तद्विरोधिनं निवर्तयतीत्याशङ्क्य तत्रापि व्यभिचारमाह ॥ तद्गतपीतिमादेरिति ॥ विरोधिन इति शेषः ।
ननु चित्राख्यरूपस्यैकत्वात्तत्र नीलरूपाद्यभावात्कथं चित्रावयविनो नीलवैशिष्ट्यमुच्यते । अत्र केचित् । चित्रावयव्यारम्भकनीलविशिष्टज्ञानमित्यर्थः । न चैवं चित्रावयविनीति पद-वैय्यर्थ्यम् । नीलज्ञानस्य स्वविषयनिवर्तकत्वे चित्रावयविन एवानुपपत्तिरिति प्रदर्शनार्थत्वा-दित्याहुः । तन्न । नीलावयविनि पीतिमादेरभावेन तद्गतपीतिमादेरित्यस्यासङ्गत्यापत्तेः । अन्ये तु चित्रावयव्यारम्भकपीतावयवे नीलोऽयमासीदिति ज्ञानं नीलज्ञानमिह विवक्षितम् । न चैतज्ज्ञानं वर्तमानं पीतं निवर्तयति । न च वर्तमानविषयज्ञानमेव स्वविषयविरोधि-निवर्तकमिति वाच्यम् । पारमार्थिकप्रपञ्चवादिनस्तत्काले तदसम्भवेन निष्प्रपञ्चब्रह्मज्ञानस्य प्रपञ्चनिवृत्तेः पूर्वं वर्तमानप्रपञ्चाभावविषयत्वासम्भवेन ततः प्रपञ्चनिवृत्यसम्भवादित्याहुः । तदपि न । चित्रावयविनीत्यस्यास्वारस्यापत्तेः । अपरे तु नानारूपसमाहार एव चित्रम् । तथैव प्रतीतेः । कारणे चित्राभावेन कार्ये चित्रायोगाच्च । शुक्लादिरूपस्य समानजातीयरूपा-रम्भकत्वनियमात् । नानारूपवदवयवारब्धद्रव्यरूपस्याव्याप्यवृत्तित्वं चानुभवबलात् स्वीकर्त-व्यम् । अभावान्तरे गुणान्तरे चादृष्टस्यापि तस्य संयोगे तदभावे च दर्शनबलेनाभ्युपगमात् । एकस्यैव संयोगात्यन्ताभावस्य व्याप्याव्याप्यवृत्तित्वाभ्युपगमे किमपराद्धं रूपेणेत्याहुः । तदप्ययुक्तम् । नानारूपसमाहारस्य चित्रत्वे नीलधवलारुणेषु पटेषु कर्बुरार्थकचित्रप्रत्यया-पत्तेः । नीलपीतादिषु मिथः संसृष्टेष्वनारब्धद्रव्येष्वपि कर्बुरप्रत्ययस्तु द्रव्यान्तरो-त्पादावभिमानात् । तस्मान्नीलादिवच्चित्रमपि रूपान्तरमेव । एकं चित्ररूपमित्यनुभवात् । न चायं भ्रमः । बाधकाभावात् ।
नन्ववयवगतेन नीलगुणेन नीलो गुणः कार्ये जननीयः । पीतगुणेन च पीतो जननीयः । एकं तु कथमनेकैर्जननीयमिति गुणविरोधादनारम्भो बाधक इति चेन्न । विजातीयरूपा-सहकृतस्यैव नीलादेर्नीलाद्यारम्भकतया गुणविरोधाभावात् । चित्रशब्दो नानावर्णवचनः । किन्तु शुक्लत्वादिवच्चित्रत्वमप्येकरूपवृत्तिजातिरिति यथा शुक्लमिति शुक्लजातीयं तथा चित्रमिति चित्रजातीयं व्याप्यवृत्त्येव । तस्माच्चित्रावयविनि नीलविशिष्टज्ञानमित्येतदनुपपन्नमेव । तदेतद्बौद्धधिक्कारे स्पष्टम् । तर्हि जीवगतनियम्यादिप्रपञ्चनिवृत्तौ तत्सापेक्षनियन्तृत्वादिरपीश्वर-गतप्रपञ्चो निवर्तत इति द्वितीयः पक्षोऽस्त्वित्याशङ्क्य व्यभिचारान्नायं पक्षः साधुरित्याह ॥ न द्वितीय इति ॥ तृतीयं दूषयति ॥ न तृतीय इति ॥ उपसंहरति ॥ इतीति ॥ इतिशब्दो हेतौ । यतो विशिष्टं केवलं वाऽत्मज्ञानमाश्रयविषयोभयसम्बन्धिपारमार्थिकानर्थ-निवर्तकं ज्ञानत्वादित्यत्र दृष्टान्ताभावः । ज्ञानेनाध्यस्तं निवर्तत इत्यत्र दृष्टान्तसद्भावः । अतो ज्ञाननिवर्त्यत्वान्यथानुपपत्या बन्धस्याध्यस्तत्वमास्थेयमिति पूर्वपक्षार्थः । समाधत्ते ॥ तत्रेति ॥ विकल्पानुपपत्याऽरोपितस्यापि निवृत्तिर्न सम्भवतीत्याह ॥ ज्ञानेनेत्यादिना ॥
वैषम्यमिति शङ्कते ॥ नन्विति ॥ तत्र ज्ञानमात्रमज्ञाननिवर्तकमुत तदपरोक्षज्ञानमिति विक्लप्याद्यं निरस्यति ॥ चैत्रस्येति ॥ द्वितीयमपि दूषयति ॥ त्वन्मत इति ॥ विपक्षे बाधकमाह ॥ श्वेतत्वेति ॥ भ्रमस्येति ॥ शङ्खे पीतत्वारोपस्येत्यर्थः । दोषान्तरमभ्यु-च्चिनोति ॥ किञ्चेति ॥ एकाज्ञानमतेन शङ्कते ॥ नन्विति ॥ घटज्ञानस्य तदज्ञाना-निवर्तकत्वे जलार्थिनो घटानयने प्रवृत्तिर्न स्यात् । शुक्त्यज्ञानानिवृत्तौ तत्राध्यस्तरूप्य-निवृत्तिश्च न स्यादिति दूषणे सत्येव दूषणान्तरमाह ॥ तर्हीति ॥ घटादिज्ञानस्याज्ञाना-निवर्तकत्वे ज्ञानस्याज्ञाननिवर्तकत्वे दृष्टान्ताभावाद् ब्रह्मज्ञानस्य बन्धनिवर्तकत्वेन बन्धस्या-ज्ञानमयत्वं न स्यादित्यर्थः । अदृष्टकल्पनं परिहर्तुं शङ्कते ॥ ननु ज्ञानेति ॥ आगतोऽसि न्यायमार्गे इत्याह ॥ तर्हि बन्धस्येति ॥ अध्यस्तं ज्ञानेन निवर्तत इत्युक्तम् । तदप्य-स्मदुक्तविस्मरणविजृम्भितमित्याह ॥ मिथ्याभूतस्येति ॥ चशब्दस्तत्रोक्तदूषणसमुच्चयार्थः । ब्रह्मज्ञानेनाविद्यानिवृतौ परमते जीवन्मुक्तिरपि न सिद्ध्येदित्याह ॥ अपि चेति ॥ उपसंहरति ॥ तस्मादिति ॥ त्वयापीति ॥ उक्तं च विवरणे कथं पुनर्लोके सहाज्ञाने-नाध्यासस्य तत्वज्ञानान्निवृत्तेरप्रतिपत्तौ ब्रह्मज्ञानात्सहाज्ञानेनाध्यासस्य निवृत्तिर्दृष्टद्वारेण कल्प्यत इति । नैष दोषः । तत्त्वावभासविरोधिनोऽग्रहणमिथ्याज्ञानादेस्तत्वज्ञानेन निवृत्ति-दर्शनादिहापि तत्वावभासविरोधितयैव भावरूपाज्ञानादेः कल्प्यमानत्वात्तस्य ब्रह्मज्ञानान्निवृत्ते-रुपपत्तेरिति ॥ सममेतदिति ॥ प्रकाशेनान्धकारस्येव सत्यस्य बन्धस्य ब्रह्मज्ञानान्नि-वृत्तिर्विरोधादित्येवाङ्गीकर्तव्यमित्यर्थः ।
एवं श्रुत्यनुगृहीतयुक्त्या परमतमपाकृत्य तत्वविन्मतमाह ॥ वस्तुतस्त्विति ॥ नारायणोऽसौ परमो विचिन्त्यो मुमुक्षुभिः कर्मपाशादमुष्मादित्युदाहृतश्रुतिशेषः । नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वामिति श्रुतेश्च । इतिहासपुराणाभ्यां वेदं समुपबृंहयेदिति स्मृतेः । प्रथमं श्रुत्यर्थनिर्णायकेतिहाससारभूतां गीतामुदाहरति ॥ मत्प्रसादादिति ॥
‘‘मद्भक्तिं लभते पराम् ।
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्वतः ।
ततो मां तत्वतो ज्ञात्वा विशते तदनन्तरम् ॥’’
इत्यधिकारिसम्बन्धिचरमसाधनमुक्त्वा दातृसम्बन्धिसाधनमुच्यते–
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ।
एवं सर्वाधिकारिसाधारण्येनोक्त्वोत्तमाधिकारिणं प्रत्युपदिशति
चेतसा सर्वकर्माणि मयि सन्यस्य मत्परः ।
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ।
मच्चितः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ॥
इति पूर्वं ग्राह्यम् । अनेनोत्तरमपि वाक्यं गृह्यते ।
तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शन्तिं स्थानं प्राप्त्यसि शाश्वतम् ॥ इति ।
उक्तमर्थमनुव्याख्यानोक्त्या द्रढयति ॥ तदुक्तमिति ॥ सर्वान्परो माययाऽयं सिनीते दृष्ट्वैव तं मुच्यते नापरेणेति श्रौतमवधारणं कर्तृसम्बन्धिकर्मादिसाधनेषु दर्शनस्यैव प्राधान्य-ज्ञापनार्थम् । दर्शनशब्देन तदन्तर्णीता (तद्घटिता) भक्तिरेव गृह्यते । ज्ञानपूर्वः परः स्नेहो नित्यो भक्तिरितीर्यत इति वचनात् । प्रकारान्तरेणापि विरोधं परिहरति ॥ दृष्ट्वैवेति ॥ पुराणमपि संवादयति ॥ उक्तं हीति ॥ एवमिति ॥ जीवजडात्मकप्रपञ्चवैलक्षण्येन स्वस्मिन्ज्ञाते सतीत्यर्थः । अनितीत्यनः । सर्वचेष्टको मुख्यवायुः । अन्तर्णीतण्यर्थादन-चेष्टायामिति धातोः पचादित्वादच्प्रत्ययः । तस्यादिरनादिः । स प्राणमसृजतेति श्रुतेः । अन्यथा प्रागभावाप्रतियोगित्वस्याकारणकत्वस्यापि प्रकृत्यादिसाधारण्याद्विशेषणमनर्थकं स्यात् । पुरुषाभ्यां क्षराक्षराभ्यामुत्तमः पुरुषोत्तमः । पञ्चमीति योगविभागात्समासः । यस्मात्क्षर-मतीतोऽहमित्यादिगीतोक्तेः । अच्युतो यो गुणैर्नित्यमेवाखिलैः प्रच्युतोऽशेषदोषैः सदा पूर्तित इति भगवत्पादोक्तेरच्युतः ॥
श्रीवनमालिमिश्रविरचितम्
न्यायामृतसौगन्ध्यं
नापि ज्ञाननिवर्त्यत्वान्यथानुपपत्तिस्तत्र मानम् । न हि ज्ञानमज्ञानस्यैव मिथ्याभूतस्यैव वा निवर्तकमिति नियमः । ईश्वरज्ञानेन घटादेश्च सेतुदर्शनादिना ब्रह्महत्यादेः सुहृद्दर्शनेन दुःखादेरग्निचित्कपिलादिदर्शनेन दुरितादिनिवृत्तेर्दशनात् । न चेश्वरज्ञानम् उपादानप्रत्यक्षतयैव कार्यमात्रे कारणमिति निरुपादानके ध्वंसे न तत्कारणम् । उपादानपदेन समवायाभावीय-विशेषणतान्यतरसम्बन्धेन कार्याश्रयस्योक्तत्वात् । अन्यथा प्रलयं प्रतीश्चरज्ञानस्य हेतुत्वानु-पपत्तेः । ननु न सेतुदर्शनमात्रस्य दुरितनाशकत्वं तत्रत्यम्लेच्छानामपि दुरितनाशप्रसङ्गात् । किन्तु छत्रपादुकादिवर्जनदोषोद्घोषणदूरगामित्वभिक्षाभोज्यत्वादिनियमविशिष्ठस्य ज्ञानस्येति चेन्न । तत्रत्यम्लेच्छानामपि यत्किञ्चिद्दुरितनाशसम्भवात् । देवतागङ्गागुर्वादिदर्शनात् सन्निहितासन्निहितसाधारणदुरितनाशस्य घण्टाघोषत्वात् । विजातीयदुरितनाशं प्रति सेतुदर्शनत्वेनैव हेतुत्वं नियमपूर्वकदर्शनेन तु निःशेषदुरितनाशः । अन्यथा वासनारूपेण स्थितिसम्भवात् । किं च लोकेषु शुक्त्यादिप्रमा पापनाशनिरपेक्षैवाज्ञानकार्यनिवर्तिकेति कल्पितस्योक्तनिरपेक्षप्रमानिवर्त्यत्वव्याप्यत्वात् । तदभावात्प्रपञ्चे कल्पितत्वाभावसिद्धिः ।
यत्त्वधिष्ठानप्रमात्वेन निवर्तकत्वं शुक्त्यादावात्मनि च ज्ञानयोस्तुल्यम् । शुक्त्यादिज्ञानं प्रति काचादिदोष आत्मज्ञानं प्रति तु पापविशेषः प्रतिबन्धकः । तयोर्वैधर्म्यमात्रम् अप्रयोज-कम् । अन्यथा काचादीनां मिथो र्वैधर्म्यमपि दोषः स्यात् । अत उक्तव्याप्यत्वमेवा-सिद्धमिति । तन्न । प्रपञ्चस्य मिथ्यात्वसिद्धेः प्राक् भ्रमविषयरूपाधिष्ठानज्ञाननिवर्त्यत्वा-सिद्धेः । तथा चान्योन्याश्रयः । ज्ञानत्वेनैव निवेशे तु दूरगमनादेरश्रद्धादिदोषापसरण एवोपयोगेन सेतुदर्शनस्यापि ज्ञानत्वेनैव हि दुरितनिवर्तकत्वमिति तद्वदेवामिथ्यात्वोपपत्तेः ।
एतेन सेत्वादिदर्शनमज्ञाननिवृत्तिद्वारेणादृष्टद्वारेण वा तन्निनिवर्तकम् । साक्षान्निवर्त-कत्वेऽपि न ज्ञानत्वेन किं तु विहितक्रियात्वेन उक्तनियमविशिष्टत्वेन चेति निरस्तम् । इहापि हि न ब्रह्मज्ञानमात्रं निवर्तकं तस्य त्वन्मते सर्वदैव सत्वात् । किंतु नियमाधीत-वेदान्तश्रवणादिजन्यनियमादृष्टविशिष्टम्् । भाषाप्रबन्धजन्येन प्रतिबद्धेन तेन तदनिवृत्तेः । अन्यथा वेदान्ताध्ययनस्य श्रवणादिनियमस्यासम्भवनादिनिवर्तकमननादेश्च वैय्यर्थ्यं स्यात् । किं च लोकेऽदृष्टत्वेऽपि विपक्षे बाधकाभावाच्छ्रुतिबलात्सत्यस्यैव बन्धस्य निवृत्तिः स्यात् । अन्यथा लोकेऽधिष्ठानतत्त्वे साक्षात्कृते कर्मवशादपि निरुपाधिकभ्रमाननुवृत्तेर् जीवन्मुक्ति-दशायां कर्मवशादनुवृत्तजगतः सत्यतैव स्यात् । किं च लोके कल्पितस्य नित्यनैमित्तिक-कर्मसाध्यान्तःकरणशुद्ध्यजन्यज्ञाननिवर्त्यत्वनियमात् तज्जन्यज्ञाननिवर्त्यस्य प्रपञ्चस्य सत्यतैव स्यात् । किञ्च लोके निवृत्तिनिवर्त्ययोः समसत्ताकत्वनियमादज्ञाननिवृत्तिवदेवाज्ञानमपि तात्त्विकं स्यात् । प्रातिभासिकस्य रूप्यस्य प्रध्वंसो व्यावहारिकश्चेत्तयोर्विरोधो न स्यात् ।
किं चाज्ञानाज्ञेययोर् दोषाधिष्ठानयोश्च समानसत्ताकत्वनियमाद् ब्रह्मवदज्ञानमपि सत्यं स्यात् । किं च ज्ञानमज्ञानस्यैव निवर्तकमित्यत्र ज्ञानं यदि ज्ञप्तिस्तदाऽसिद्धिः । त्वन्मते ज्ञप्तिरूपचैतन्यस्य बन्धानिवर्तकत्वात् । तन्निवर्तकवृत्तेरज्ञप्तित्वात् । न च वृत्ति-प्रतिबिम्बितचैतन्यं ज्ञाप्तिः सा च तन्निवर्तिकेति वाच्यम् । तस्या ब्रह्माविषयकत्वेन तद्विषयकाज्ञाननिवर्तकत्वासम्भवात् । तस्य जडस्याध्यासिकसम्बन्धासम्भवेन तद्विषयका-ज्ञानानिवर्तकत्वाच्च । ‘तरति शोकमात्मवित्’ ‘तदा विद्वान्नामरूपाद्विमुक्तः’ ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे’ इत्यादि-श्रुतयः ‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्’ इत्यादिसूत्राणि च सत्यस्यैव बन्धस्य ज्ञानेन नाशं वदन्ति । न तु त्वदभिमतविश्वोपादानाज्ञानस्य । वस्तुतस्तु ईश्वर-प्रसादादेव बन्धनिवृत्तिः ‘यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेण’ इत्यादि-श्रुतेः ‘मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्’ इत्यादिस्मृतेश्च । ज्ञानं च प्रसादहेतुः ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ इति स्मृतेः । उक्तं च ‘यथा दृष्ट्या प्रसन्नस्सन् राजा बन्धापनोदकृत् । एवं दृष्टस्स भगवान् कुर्याद्बन्धविभेदनम्’ इति । उक्तं च वैष्णवे ‘एवं ज्ञाते तु भगवाननादिः पुरुषोत्तमः । प्रसीदत्यच्युतस्तस्मिन् प्रसन्ने क्लेशसंक्षयः’ इति ।
यत्तु अधिष्ठानप्रामात्वेन मिथ्यानिवर्तकत्वं लोके क्लृप्तम् । तरति शोकमात्म-विदित्यादेरिति । तदयुक्तम् । न हि ज्ञानं प्रसादहेतुत्वेन लोके क्लृप्तं किं तु सेवा । तथा च यस्य प्रसादादित्यादेरीश्वरसेवाजन्यप्रसादो ज्ञानद्वारा मोक्षप्रयोजक इत्यर्थः । यस्य देवे परा भक्तिरित्यादिश्रुतेः । यथा दृष्ट्येत्यादेस्तु प्रसन्नो राजा पश्चाद्दृष्टो यथा मोचकस्तथेशः । न हि राजा बद्धं प्रति दृष्टिमात्रेण प्रसन्नः प्रत्युत सापराधं बद्धं प्रति भूयो निग्राहकः । तमेवेत्यादिश्रुत्या शुद्धात्मज्ञानस्य सर्वद्वैतनिवर्तकत्वेन प्रसादहेतुत्वासम्भवाच्च । दृष्ट्वैवेत्यादेः सर्वत्र विष्णुरूपदर्शनस्यैव प्रतीतेः प्रसादाश्रवणाच्च । ज्ञात्वेत्यादौ ज्ञानं न तत्वदर्शनरूपं किन्तु समत्वरूपं, ‘यतितव्यं समत्वे च निर्वाणमपि चेच्छता । देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः । रूपमेतदनन्तस्य विष्णोर्भिन्नमिव स्थितम् । एतद्विजानता सर्वं जगत् स्थावरजङ्गमम् । द्रष्टव्यमात्मवद्विष्णुर्यतोऽयं विश्वरूपधृक् ॥’ इति पूर्ववाक्यात् । अत एवात्मतुल्यत्वस्य रागद्वेषविषयत्वायोग्यत्वरूपस्य ज्ञानं तत्फलमुक्तम् । अत एव च ‘सर्वत्र दैत्याः समतामुपेत्य समत्वमाराधनमच्युतस्य । तस्मिन् प्रसन्ने किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते । समाश्रिताद्ब्रह्मतरोरनन्तान्निस्संशयं प्राप्स्यथ वै महत्फलमि’त्यत्र तत्रैव समत्वरूपाराधनजन्यप्रसादस्य तर्वाश्रयणदृष्टान्तेन परम्परया मोक्षप्रयोजकत्वमिति ।
तन्न । ब्रह्मणोऽधिष्ठानत्वासिद्धेः । तरणस्य नाशावाचकत्वात् । लक्षणाया आधुनिक-त्वात् । ‘‘यमेवैष वृणुते तेन लभ्यः’’ इत्यादिना प्रसादस्य मोक्षहेतुतायाः सिद्धत्वात् । न हि परैस्तद्यथार्थस्वरूपानभिज्ञैर्बहुधाऽराधितोऽपि महाजनस्तत्र महाप्रसादं करोति । किं तु भक्तिपूर्वकयथास्वरूपज्ञं प्रत्येव हि प्रसीदति । अवान्तरप्रसादस्य ज्ञानहेतुत्वेऽपि मत्प्रसादादवाप्नोतीत्याद्युक्तमहाप्रसादस्य साक्षात्कारणत्वात् । यस्येत्यस्य भक्त्याऽवान्तर-प्रसादस्तेन यथास्वरूपज्ञानं तेन महाप्रसादस्तेन मोक्ष इत्यर्थः । यमेष इत्याद्यनुरोधात् । दृष्ट्वेत्यादेः सेवादिनाऽवान्तरप्रसादस्तद्युक्तो दृष्टो राजा महाप्रसन्नः सन् मोचयतीत्यर्थात् । तमेवेत्यादेस् तं विदित्वैवेत्यन्वये हि मोक्षे ज्ञानायोगो व्यवच्छिद्यते । यथाश्रुतान्वये तु तस्यैव ज्ञानं मोक्षहेतुरित्यन्यज्ञानस्य मोक्षहेतुत्वं व्यवच्छिद्यते इत्यर्थमाहावधारणेत्यादिना इति । द्वैतनिवर्तकता बोधस्य ते दुराशामात्रत्वात् । तच्छब्देनानन्तगुणविशिष्टस्यैवोप-स्थापनात् । सर्वत्र विष्णुरूपताबोधकपदाभावात् । अश्रूयमाणोऽपि प्रसादो यमेष इत्यादि-मानबलात्कल्प्यतेऽन्तर्यामितया ज्ञाप्यतेऽनेनेति रूपं भिन्नमिव स्वातन्त्र्येण ज्ञापकं भिन्नमिव आत्मा यथा प्रियो दृश्यते तथाऽसौ द्रष्टव्यः । ‘यथा देहे तथा देवे’त्याद्यभियुक्तव्यवहारात् । विश्वरूपधृक् अन्तर्यामितया धर्त्ता इत्यर्थः । रागायोग्यत्वज्ञानस्य भगवति क्वाप्यनुक्तत्वात् । अतः पूर्ववाक्यमविरुद्धमेव नः । अनन्तादिति तरोरपि विशेषणं तेन कल्पतरुर्लभ्यते । अत एव न हीत्यादि मन्दोक्तिरपावृता । न हि कल्पवृक्षस्य लोष्ठादिव्यापारोऽपेक्ष्यते ।
यत्तु ज्ञानेन सत्यस्य निवृत्तिश्चेत्कीदृशस्य ज्ञाननाश्यत्वनियमः ? किं ज्ञानस्याश्रयेण अथ विषयेण अथोभाभ्यां सम्बद्धस्य । नाद्यः । आत्मज्ञानेनाहमित्याकारेण धर्माधर्मानाशात् । न द्वितीयः । नीलपीतावयविनो नीलत्वेन ज्ञानात् पीतिमाद्यनिवृत्तेः । न तृतीयः । देहज्ञानेन देहात्मतादात्म्यानिवृत्तेरिति । तन्न । ज्ञानस्यारोपितस्य वा कस्य निवृत्तिः ? न तावदाश्रयेण सम्बद्धस्य । चैत्रस्य घटज्ञानेन तदीयपटाज्ञानस्यात्मन्यारोपितस्य देह-तादात्म्यस्य चानिवृत्तेः । नापि विषयेण सम्बन्धस्य । चैत्रनिष्ठमैत्रविषयकज्ञानेन मैत्रघटविषयकाज्ञानस्य इदमंशज्ञानेन तत्रारोपितरूप्यस्य वाऽनिवृतेः । नाप्युभाभ्यां सम्बद्धस्य । चैत्रनिष्ठमैत्रविषयकज्ञानेन मैत्रनिष्ठचैत्रविषयकाज्ञानस्यात्मनिष्ठदेहविषयकज्ञानेन देहात्मतादात्म्यादेश्चानिवृत्तेरिति तवापि दोषसाम्यात् ।
यत्तु मिथ्याभूतस्य ज्ञाननिवर्त्यत्वपक्षे तु ज्ञानतत्समानाश्रयसमानविषयकाज्ञानस्यैव निवृत्तिस्तया चाज्ञानप्रयुक्तस्यैव निवृत्तिरिति विवरणोक्तम् । तन्न । अज्ञानप्रयुक्तस्य ज्ञान-निवर्त्यत्वाभावेऽपि मिथ्यात्वानुपपत्तेरिति दिक् ।
॥ इति ज्ञाननिवर्त्यत्वान्यथानुपपत्तिभङ्गः ॥