यत्तु तत्त्वप्रदीपिकायाम् ‘सत्यं ज्ञानमनन्तम्’ इत्यनन्तशब्दस्तत्र मानम् इत्युक्तम्
४६. अनन्तमिति श्रुत्यर्थविचारः
न्यायामृतं
यत्तु तत्त्वप्रदीपिकायाम् ‘सत्यं ज्ञानमनन्तम्’ इत्यनन्तशब्दस्तत्र मानम् इत्युक्तम् । तन्न, अन्तशब्दो हि परिच्छेदे व्युत्पन्नः, न तु परिच्छिन्ने । तथा चाभेदस्यापरिच्छेदरूपत्वेऽपि यथा देशाद्यपरिच्छेदाभिप्रायेणाकाशोऽनन्त इत्युक्ते देशादेराकाशतुल्यतया सत्त्वे सत्येव तदपरिच्छेदमात्रं सिध्यति, न तु देशादे र्मिथ्यात्वं तथेहापि वस्तुनो घटादेर्जीवचैतन्यवद् ब्रह्मतुल्यतया सत्त्वे सत्येव (प्रतीयमानभेदत्यागेन) ‘विरुद्धांशत्यागेन’ ब्रह्मण्यभेदरूपं वस्त्वपरिच्छेदमात्रं सिध्येत् । न तु वस्तुनो मिथ्यात्वम् । जीवस्वरूपं सत्यं विश्वं तु मिथ्येति विभागस्त्वद्याप्यसिद्धः । वस्तुतस्त्वभेदो नापरिच्छेदः, परिच्छिन्नाद्भेदाभावे अपरिच्छिन्नत्वायोगात् । कालापरिच्छिन्नेऽपि परमाण्वादौ देशपरिच्छेदेन परि च्छिन्नत्वबुद्धिवद् उभयापरिच्छिन्ने गगनादौ भेदमात्रेण परिच्छिन्नत्वबुद्धेर भावाच्च । अनन्तपदेनैव परिच्छिन्नाद् व्यावृत्तेस्त्वयैवोक्तत्वाच्च । भिन्न इत्यर्थे परिच्छिन्न इत्यप्रयोगाच्च । तस्माद् देशकालगुणापरिच्छेद एवानन्तशब्दार्थः ।
न्यायामृततरङ्गिणी
ननु द्वितीयवस्तुकृतपरिच्छेदाभावार्थकेनानन्तशब्देन द्वितीयाभावसिद्धेः स तत्र मानमित्यतस्तदर्थमाह– अन्तशब्दो हीति ॥ न विद्यते अन्तः परिच्छेदो भेदो यस्येत्यर्थकरणे वृक्षस्य शाखादित इव ब्रह्मणः सर्वाभिन्नत्वं सिध्यति न तु शाखा-देरिव सर्वस्य मिथ्यात्वमित्यर्थः ॥ न त्विति ॥ अन्तशब्दस्य परिच्छिन्नार्थत्वे तु न विद्यते अन्तः परिच्छिन्नं यस्येति करणे द्वितीयनिषेधो यद्यपि सिध्यति तथापि न तस्य तदर्थत्वमित्यर्थः ॥ तुल्यतयेति ॥ तुल्ये इत्यर्थः । ननु प्रत्यक्षविरोधान्न घटाद्यभेदः सिध्यतीत्यत आह– विरुद्धेति ॥ प्रत्यक्षगृहीतं व्यावहारिकं घटब्रह्मभेदं त्यक्त्वा तदविरुद्धं तात्विकाभेदं गृह्णात्वित्यर्थः ॥ वस्तुतस्त्विति ॥ ब्रह्मणः परिच्छिन्नाद्भेदोऽस्ति न वा । आद्ये परिच्छिन्नत्वापत्तिः । परिच्छिन्नाद्भेदे सत्यपि यद्यपरिच्छिन्नत्वं तर्हि घटादितो भेदेऽपि ब्रह्मापरिच्छिन्नमस्त्विति न सर्वाभेदसिद्धिः । अन्त्ये दोषमाह– परिच्छिन्नादिति ॥ न परिच्छिन्नमपरिच्छिन्नमिति ह्युच्यते । अन्यथा हि परिच्छिन्नस्याप्यपरिच्छिन्नत्वापत्तिरित्यर्थः ॥ उभयेति ॥ तथा च व्यावर्त्याभावान्नाभेदो परिच्छेद इति भावः ।
अनन्तपदेनेति ॥ तथा च सर्वाभेदस्यानन्तशब्दार्थत्वे विरोध इत्यर्थः ॥ भिन्न इति ॥ भिन्नस्य परिच्छिन्नशब्देनानभिधानादभिन्नमपरिच्छिन्नशब्देनाभिधीयत इत्यर्थः । स्वमतेनानन्तशब्दार्थमाह– तस्मादिति ॥ ननु ब्रह्मणो गुणापरिच्छिन्नत्वं नाम ब्रह्मगतगुणानां देशकालापरिच्छिन्नत्वमात्रं न त्वतिरिक्तं किञ्चिदस्ति । कालाद्यपरि च्छिन्ने गगनादौ गुणपरिच्छेदमात्रेण परिच्छिन्नत्वबुद्धेरभावाच्च । अल्पगुणे परिच्छिन्न इत्यप्रयोगाच्चेति चेन्मैवम् । देशाद्यपरिच्छिन्नगुणवत्त्वमेव गुणतोऽपरिच्छिन्नत्वम् । अन्यथा घटप्रागभावध्वंसयोर्विनाशोत्पत्ती एव घटस्योत्पत्तिविनाशाविति घटस्य ते पृथङ् न सिध्येयाताम् । देशाद्यपरिच्छिन्नेऽपि श्रीतत्वे गुणपरिच्छेदेन तद्बुद्धिप्रयोगयोः ‘परो दिवा पर एना पृथिव्यैतावती महिना सम्बभूव’ इति दृष्टत्वेन तयोरिष्टत्वाच्च । मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रह इति स्मृतेश्च ।
न्यायामृतकण्टकोद्धारः
ननु सत्यं ज्ञानमनन्तं ब्रह्मेत्यत्रानन्तशब्द एव मिथ्यात्वे प्रमाणम् । अनन्तशब्देन त्रिविधान्यराहित्यमुच्यते । तत्र वस्त्वन्तरराहित्यं नाम वस्तुप्रतियोगिकभेदशून्यत्वम् । एवं च वस्तुनः प्रपञ्चस्य साक्षाद् ब्रह्माभेदासम्भवात् कल्पितत्व एव पर्यवस्यतीत्य-नन्तशब्द एव मिथ्यात्वे प्रमाणमित्यत आह– यत्त्विति । न तु परिच्छिन्न इति । अन्तशब्दस्य परिच्छिन्नपरत्वेऽनन्तमित्यत्र बहुव्रीह्यसम्भवः । तत्पुरुषेऽनन्तमिति नपुंसकानुपपत्तिः । परिच्छिन्न भिन्नत्वे मिथ्यात्वासिद्धिश्चेति द्रष्टव्यम् । तथा चेति । इदं परमताभिप्रायेणाभ्युपगममात्रम् । अत एवापिशब्दः । वक्ष्यमाणरीत्याभेदस्यापरिच्छेद रूपत्वासम्भवादिति द्रष्टव्यम् । ननु जीवस्य सत्यत्वात् तत्र विरुद्धांशत्यागेनाभेद-मात्रसिद्धिः । प्रपञ्चस्य तु मिथ्यात्वेन तत्राभेदोक्त्या मिथ्यात्वमेव सिध्यतीत्यत आह– जीवस्वरूपमिति । तथा चान्योन्याश्रय इति भावः । अपरिच्छेदोऽभेद इत्यङ्गीकृत्य दूषणमुक्तम् । इदानीम भेदोनापरिच्छेदः प्रमाणाभावाद् विपरीतप्रमाणसद्भावान्नेत्या-शयेनाह वस्तुतस्त्विति । ननु यद्यभेदो नापरिच्छेद शब्दार्थस्तर्हि तस्य कोऽर्थ इत्यत आह– तस्मादिति । अभेदरूपार्थासम्भवात् । देशेति । देशकालगुणेयत्ताशून्यत्व-मित्यर्थः ।
न्यायामृतप्रकाशः
अनन्तशब्द इति ॥ अन्तशब्दस्य परिच्छिन्नार्थकत्वात्, न विद्यते अन्तं परिच्छिन्नं जगद् यस्येत्यनन्तमिति परिच्छिन्नजगदभावोऽनन्तशब्देनोच्यत इति भवति मिथ्यात्वे मान- मित्यर्थः ॥ परिच्छेद इति । तथा च ब्रह्म अनन्तं जगत्प्रतियोगिकपरिच्छेदशून्यमित्यर्थः स्यादिति भावः । नन्वथापि परिच्छेदो नाम भेदः । एवं ब्रह्मानन्तं जगत्प्रतियोगिकभेद शून्यमिति प्राप्त्या भवतामनिष्टमेवेति चेन्न । परिच्छेदस्य भेदत्वे हि अपरिच्छेदस्याभेदत्वेऽपि जगत्प्रतियोगिकभेदशून्यमित्यर्थप्राप्तावपि भेदप्रतियोगिनो जगतः सत्यत्वमेव सिध्यति । यथाऽऽकाशस्य व्याप्तत्वेन देशतोऽपरिच्छेदाभिप्रायेण ‘आकाशोऽनन्त’ इत्युक्ते देशतः परिच्छेदो नास्ति इति लभ्यते । तत्र परिच्छेदप्रतियोगिनो देशादेर्न मिथ्यात्वम् । किं नाम ? आकाशतुल्यतया सत्वमेवास्ति । एवं ब्रह्म घटादिजगत्प्रतियोगिकभेदशून्यम् अभिन्न- मित्युक्तेऽपि घटत्वादिविरुद्धांशत्यागेन घटादिस्वरूपेण ब्रह्मणोऽभेदरूपतस्त्वपरिच्छेदसिद्धा-वपि ब्रह्मवद् घटादेरपि न मिथ्यात्वम् । यथा ब्रह्म जीवाभिन्नमित्युक्तेऽभेदप्रतियोगिनो जीवस्य न मिथ्यात्वं तद्वत् ।
ननु तत्रापि विशिष्टस्य जीवस्य मिथ्यात्वमस्त्येवेति चेज् जीवचैतन्याभिन्नं ब्रह्मचैतन्य मित्युक्ते विरुद्धांशत्यागेनाभेदेऽपि अभेदप्रतियोगिनो जीवचैतन्यस्य न मिथ्यात्वं, एवमेव घटादेरपि अन्तशब्दोदितभेदप्रतियोगिनो न मिथ्यात्वमित्याह– तथा चेति ॥ न तु वस्तुन इति ॥ घटादेरित्यर्थः । ननु जीवचैतन्याभिन्नं ब्रह्मचैतन्यमित्यत्राभेदप्रतियोगिनो जीव चैतन्यस्य ब्रह्मवत् सत्यत्वमेव । भेदप्रतियोगिनो घटादेस्तु मिथ्यात्वान्न ब्रह्मवत् सत्यत्वम् इत्याशङ्क्य निषेधति– जीवस्वरूपमिति ॥ अद्यापीति ॥ अस्मिन् विभागे सिद्धे घटादे र्मिथ्यात्वसिद्ध्याऽनन्तशब्दसिद्धिः । तस्यां च सत्यां त्वदुक्तविभागसिद्धिरिति अन्योन्याश्रया- दित्यर्थः । अन्तशब्दो न परिच्छिन्ने व्युत्पन्न इत्युक्तम् । यदि त्वद्रीत्या अन्तशब्दः परिच्छिन्ने व्युत्पन्नः स्यात् तर्हि ब्रह्मणोऽपरिच्छिन्नत्वमेव न सिध्यतीत्याशयेनाह– वस्तुतस्त्विति ॥
कुत इत्यत आह– परिच्छिन्नादिति ॥ यद्यपरिच्छेद एवाभेद इत्यङ्गीकृत्यानन्तशब्दस्य परिच्छिन्नाभेदाभावरूपमपरिच्छिन्नत्वमर्थ इत्युच्यते तर्ह्यपरिच्छिन्नत्वरूपमभिन्नत्वमेव न स्यात् । प्रत्युत यदि परिच्छिन्नाभेदः स्यात् तर्ह्येवापरिच्छन्नत्वं स्यात् ? परिच्छिन्नभेदाभावे तु स्वस्यापि परिच्छिन्नत्वप्राप्त्या त्वदङ्गीकृतापरिच्छिन्नत्वरूपमभिन्नत्वमेव न स्यादित्यर्थः । किं चान्तशब्दस्यापि भिन्नत्वरूपं परिच्छिन्नत्वं नार्थः । तथात्वे भेदवति परिच्छिन्नत्वबुद्धिः स्यात् । यथा परमाणौ नित्यतया कालापरिच्छेदमात्रसत्वेऽपि अव्याप्ततया देशपरिच्छेद-सत्वेन परिच्छिन्नः परमाणुरिति बुद्धिस् तथा देशकालोभयापरिच्छिन्नेऽपि गगनादौ घटादि-भेदस्य सत्वाद् गगनादिः परिच्छिन्न इति बुद्धिः स्यात् । न ह्येवं भवति । तस्मान्न भिन्नत्वापर पर्यायपरिच्छिन्नत्वमन्तशब्दार्थः । किन्तु परिच्छिन्नत्वापरिच्छिन्नत्वे मूर्तत्वामूर्त-त्वादिरूपे द्रष्टव्ये इत्याशयः । किञ्च न भेदमात्रनिषेधोऽनन्तशब्दार्थः । व्याघातादित्याह– अनन्त पदेनेति ॥ व्यावृत्तेरिति ॥ व्यावृत्तिश्च भेद एवेति भावः । त्वयैवेति ॥ ‘अनृतजड विरोधिरूपमन्तत्रयमलबन्धनदुःखताविरुद्धम्’ इति तदुक्तेरित्यर्थः । भिन्न इतीति ॥ भिन्नस्य परिच्छिन्नशब्देनानभिधानाद् अभिन्नम् अपरिच्छिन्नशब्दवाच्यं न भव-तीत्यर्थः । स्वमतेऽनन्तशब्दार्थमाह– तस्मादिति ॥ वस्त्वानन्त्यार्थो गुणापरिच्छेद इति ।
॥ इति अनन्तमिति श्रुत्यर्थविवरणम् ॥
न्यायकल्पलता
ननु द्वितीयवस्तुकृतपरिच्छेदाभावार्थकेनानन्तशब्देन द्वितीयाभावसिद्धेः स तत्र मानम् इत्याशङ्क्य निराकरोति– यत्त्विति ॥ अन्तशब्दो हीति ॥ न विद्यते अन्तः परिच्छेदो भेदो यस्येत्यर्थकरणे वृक्षस्य शाखादित इव ब्रह्मणः सर्वाभिन्नत्वं सिध्यति न तु शाखादेरिव सर्वमिथ्यात्वसिद्धिरित्यर्थः ॥ न त्विति ॥ अन्तशब्दस्य परिच्छिन्नार्थत्वे तु न विद्यते अन्तः परिच्छिन्नं यस्येति करणे द्वितीयनिषेधो यद्यपि सिध्यति तथापि न तस्य तदर्थत्व-मित्यर्थः ॥ तुल्यतयेति ॥ ब्रह्मसत्तासम इत्यर्थः । प्रत्यक्षविरोधान्न घटाद्यभेदः सिध्यती-त्यत आह– विरुद्धेति ॥ प्रत्यक्षगृहीतं व्यावहारिकं घटब्रह्मभेदं त्यक्त्वा तदविरुद्धं तात्विका- भेदं गृह्णात्वित्यर्थः । कुतो न जगन्मिथ्यात्वसिद्धिरित्यत आह– जीवस्वरूपमिति ॥
किञ्च ब्रह्मणः परिच्छिन्नाद्भेदोऽस्ति न वा । आद्ये परिच्छिन्नत्वापत्तिः । परिच्छिन्ना-द्भेदे सत्यपि यद्यपरिच्छिन्नत्वं तर्हि घटादितो भेदेऽपि ब्रह्मापरिच्छिन्नमस्त्विति न सर्वा-भेदसिद्धिरिति भावेनाह– वस्तुतस्त्विति ॥ अन्त्ये दोषमाह– परिच्छिन्नादिति ॥ न परिच्छिन्नम् अपरिच्छिन्नमिति ह्युच्यते । अन्यथा हि परिच्छिन्नस्याप्यपरिच्छिन्नतापत्ति-रित्यर्थः ॥ उभयेति ॥ तथा च व्यावर्त्याभावान्नाभेदोऽपरिच्छेद इति भावः ॥ अनन्त-पदेनैवेति ॥ तथा च सर्वाभेदस्यानन्तशब्दार्थत्वे विरोध इत्यर्थः । भिन्नस्य परिच्छिन्न-शब्देनानभिधानादभि न्नम् अपरिच्छिन्नशब्देन नाभिधीयत इत्यत आह– भिन्न इति ॥ स्वमतेनानन्तशब्दार्थमाह– तस्मादिति ॥
ननु ब्रह्मणो गुणापरिच्छिन्नत्वं नाम ब्रह्मगतगुणानां देशकालापरिच्छिन्नत्वमात्रं न त्वति-रिक्तं किञ्चिदस्ति । कालाद्यपरिच्छिन्ने गगनादौ गुणपरिच्छेदमात्रेण परिच्छिन्नत्वबुद्धेरभावाच्च । अल्पगुणे परिच्छिन्न इत्यप्रयोगाच्चेति चेत्, उच्यते । देशाद्यपरिच्छिन्नगुणवत्वमेव गुणतोऽ-परिच्छिन्नत्वम् । अन्यथा घटप्रागभावध्वंसयोर्विनाशोत्पत्ती एव घटस्योत्पत्ति विनाशाविति घटस्य ते पृथङ् न सिध्येयाताम् । देशकालापरिच्छिन्नेऽपि श्रीतत्वे गुण परिच्छेदेन तद्बुद्धिप्रयोगयोः ‘परो दिवा पर एना पृथिव्यै तावती महिना सम्बभूव’ इति श्रुतौ दृष्टत्वेन तयोरिष्टत्वाद्वा । ‘मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे’ इति श्रीभागवतोक्तेश्च ॥
॥ इति अनन्तमिति श्रुत्यर्थः ॥