नापि ‘नेह नानास्ति किञ्चन’ इति श्रुतिस्तत्र मानम्
३९. नेह नानेति श्रुत्यर्थविवरणम्
न्यायामृतं
नापि ‘नेह नानास्ति किञ्चन’ इति श्रुतिस्तत्र मानम् । अत्र स्वगतभेद निषेधात् । नानाशब्दो हि नानात्वार्थः । द्व्येकयोरित्यादिवद्भावप्रधानत्वात् । लोके च नानाशब्दस्य पृथग्भाववाचित्वादिति कैयटोक्तेश्च । ‘यदेवेह तदमुत्र यदमुत्र तदन्विह’ इति पूर्ववाक्ये इदमाद्यर्थाङ्गीकारेण तन्निष्ठब्रह्माभेदस्यैव उक्तेश्च । अन्यथा इदं चादश्च नेति श्रूयेत । न च स्वगतभेदस्याप्रसक्तिः । जगज्जन्मा-दिकारणे ब्रह्मणि गुरुतरविचित्रकार्यभेदेन अन्तर्यामिणि च नियम्यानन्त्येन स्थानभेदेन च ‘यदेकमव्यक्तमनन्तरूपम्’ इति अनेकत्वश्रुत्या च अवतारेषु प्रतिविग्रहं प्रत्यक्षादिना गुणगुण्यादौ च तार्किकभाट्टरीत्या गुणगुणित्वेन ज्ञाना-नन्दादौ चापर्यायशब्दवाच्यत्वैकतरपरिशेषाभावादिना सर्वत्र च ‘अन्योऽन्तर आत्मा प्राणमयः’ इत्यादिश्रुतितात्पर्याज्ञानेन च तत्प्रसक्तेः ।
किं च नेहेति वाक्यात् पूर्वं बृहदारण्यके ‘तस्मिंच्छुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितं च’ इत्यादिना भगवतोऽनेकरूपाणि ‘यस्यानुवित्तः प्रतिबुद्ध आत्मा’ इत्यादिना ज्ञानादिधर्माः काठके च ‘गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यजायत’ इत्यनेकावताराः ‘महान्तं विभुमात्मानम्’ इत्यादिना चानेकधर्माश्चोक्ता इति कथं तदप्रसक्तिः? दृष्टश्चैकस्मिन्नेव वृक्षे पत्रशाखादिवत् प्रसक्तस्य स्वगतभेदस्य ‘एको देवस्सर्वभूतेषु’ इत्यादिश्रुतौ,
ब्रह्मादयो हि भूतानि तेषामन्तर्गतो हरिः ।
समस्स सर्वभूतेषु य एवं वेद तत्त्ववित् ॥
इति महाभारते च निषेधः । अन्यथा परपक्षेऽप्यखण्डवादानारभ्यस्स्यात् ।
न्यायामृततरङ्गिणी
नापीति ॥ ‘मनसैवानुद्रष्टव्यं’ ‘नेह नानास्ति किञ्चन’ । ‘मृत्योः स मृत्यु-माप्नोति य इह नानेव पश्यति’ इति बृहदारण्यकगतम्, ‘यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ । ‘मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन । मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति’ इति काठक गतमपि वाक्यं मिथ्यात्वे न मानमित्यर्थः ॥ स्वगतेति ॥ ब्रह्मगतेत्यर्थः । वक्ष्यमाणगुणादिभेदसङ्ग्रहाय गतशब्दः । नेह नानेति श्रुतौ भेदाभिधानाभावात्कथम् अत्र स्वगतभेदनिषेध इत्यत आह– नानाशब्द इति ॥ ननु नानाशब्दस्य भिन्नाभि-धायकत्वान्न तस्य निषेधान्वयबोधप्रयोजकभेदोपस्थितिहेतुत्वमत आह– द्व्येकयो-रिति ॥ ‘आदशतः सङ्ख्यासङ्ख्येये वर्तते’ इति न्यायाद् द्व्येकशब्दयोर्द्वित्वैकत्व-विशिष्टपदार्थवाचकत्वेन वृत्त्यर्थस्य बहुत्वादेकत्वाद्वा इतिवद् बहुवचनप्रयोगप्रसङ्गे अदूरविप्रकर्षन्यायेन वृत्तिवाक्ययोरेकार्थत्वाभिप्रायेण द्वौ चैकश्चेत्येव वाक्यमङ्गीकृत्य द्व्येकयोरिति वृत्तिगतद्व्येकशब्दयोर् द्वित्वैकतार्थकतया बह्वर्थत्वाभावाद्बहुवचनप्रसङ्गो न भवतीत्यभिसन्धिना द्व्येकयोरिति सूत्रे यथा द्व्येकशब्दौ द्वित्वैकत्वार्थौ तथा नेह नानेति श्रुतौ नानाशब्दो नानात्वार्थः । नानात्वं च भेद एवेत्यर्थः ॥
भावप्रधानेति ॥ अन्योपसर्जनभेदमुपस्थापयन्नपि नानाशब्दो निष्कृष्य स्वातन्त्र्येणापि तमुपस्थापयतीत्यर्थः ॥ लोके चेति ॥ एतच्चानुपदं वक्ष्यते । पृथग्भावः पृथक्त्वम् । भेद इत्यर्थः ॥ पूर्वेति ॥ पूर्ववाक्यानुसारेणोत्तरवाक्यस्य नेयत्वान्नेहनानेत्यस्मिन्नपि वाक्ये स्वगतनानात्वमेव निषिध्यत इत्यर्थः । ननु यदेवेहेति पूर्ववाक्येऽपि न स्वगतभेदो निषिध्यते किन्तु सर्वमेवेत्यत आह– अन्यथेति ॥ इदमिति ॥ तथा चोक्तिसौष्ठवमित्यर्थः ॥ गुरुतरेति ॥ पट-प्रासादादिकर्तॄणां गजतुरगादिनियन्तॄणां स्थलजलादिभिन्नस्थानगतानां भेदस्य लोके दर्शनात् । प्रकृते चोत्पत्त्यादिकार्याणां ‘यः पृथिव्यामन्तरो यमयति यो पोऽन्तरोयमयति’ इत्यादि नियम्यानां च, ‘यः ‘पृथिव्यां तिष्ठन् योऽप्सु तिष्ठन्’ इत्यादिस्थानानां च भेदस्य सत्त्वादनुमाने न भेदप्रसक्तिरित्यर्थः ।
श्रुत्या प्रत्यक्षेण च तत्प्रसक्तिरस्तीत्याह– यदेकमिति ॥ ज्ञानेति ॥ ज्ञाना-नन्दयोरभेदे ज्ञानमेव वा आनन्द एव वा परिशिष्येत नोभयमित्यर्थः ॥ सर्वत्रेति ॥ भेदप्रतिपादकत्वेनापाततः प्रतीतासु श्रुतिष्वित्यर्थः । वाक्यद्वये विशिष्य स्वगतभेद प्रसक्तिमाह– किञ्चेति ॥ तस्मिन्निति ॥ अणुःपन्था इति पूर्वोदाहृतमन्त्रे यो ब्रह्म- विदो मोक्षमार्ग उक्तस् तस्मिन् शुक्लादीनि भगवद्रूपाणि सन्ति । अत एव तस्मिन् शुक्ल- मिति मन्त्रस्य उत्तरार्धे ‘एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तेजसश्च’ इति मार्गे ब्रह्मणः सत्त्वमुच्यते । अतः शुक्लाद्यनेकरूपाणां भेदप्रसक्तिरित्यर्थः ।
ननु नात्र शुक्लादिशब्दैर्ब्रह्मरूपाण्युच्यन्ते । तथा हि शाङ्करीये बृहदारण्यकभाष्ये- बृहदारण्यके तस्मिंच्छुक्लमिति मन्त्रात्पूर्वमुदाहृते ‘अणुः पन्था विततः पुराणो मत्स्पृष्टोऽनुवित्तो मयैव । तेन धीरा अपि यन्ति ब्रह्मविदः स्वर्गलोकमित ऊर्ध्वं विमुक्ताः’ इति मन्त्रः । तस्यार्थः ‘अणुः सूक्ष्मः, दुर्ज्ञेयत्वात् । विततो विस्तीर्णः । वितर इति पाठान्तरे विस्पष्टतरणहेतुः । पुराणः पुरातनः । पन्था मोक्षसाधनज्ञान मार्गः । न तार्किकादिवदर्वाक्कल्पितः । मत्स्पृष्टो मया स्पृष्टः । मया लब्ध इत्यर्थः । मयैवानुवित्तः मयैवानुवित्तः । अनुवेदनं नाम विद्यायाः परिपाकः । स्तुतिरियम् । तद्यो यो देवानामिति श्रुतेः । तदेवाह– तेन ब्रह्मविद्यामार्गेण । धीराः प्रज्ञावन्तः । ब्रह्मविदो ऽन्येऽपि विमुक्ताः । इत ऊर्ध्वं स्वर्गं लोकं मोक्षं गच्छन्ति’ इति ।
अस्मिन्मन्त्रे य उक्तो मोक्षमार्गः स तस्मिन्निति तच्छब्देन परामृश्यते । तस्मि-न्मोक्षमार्गे विप्रतिपत्तिर्मुमुक्षूणाम् । केचिच्छुक्लमाहुर् अन्ये नीलादिकमाहुरिति । तस्मिञ्च्छुक्लमाहुरिति वाक्यस्य केचन मोक्षमार्गं शुक्लमाहुरित्यादिना मार्गमभिधाय नैते मार्गाः किन्तु य आत्मकामादिवाक्येन पूर्वमुक्तो ज्ञानमार्ग एष एव पन्था इत्यादि-ग्रन्थेन मार्गविषयमेव शुक्लादिवाक्यं व्याख्यातं न तु परमात्मरूपविषयमिति चेन्न । अणुः पन्था इति वाक्योक्तपन्थानं तस्मिन्निति तच्छब्देन निर्दिश्य तत्रत्यानां शुक्लादिरूपाणां ब्रह्मशब्देन परामृश्य तैर्मार्गो वित्तः पूर्ण इत्यस्यार्थस्य सम्भवे विप्रति पत्तिवाचकस्य वा निषेधवाचकस्य वा पदस्याभावेनोक्तविधयाऽर्थवर्णनानुपपत्तेः । तस्मादुक्तविधया शुक्लादिशब्दैर्भगवतोऽनेकरूपाण्युच्यन्ते ।
यस्यानुवित्त इति ॥ ‘यस्यानुवित्तः प्रतिबुद्ध आत्मा अस्मिन्सन्दोहे गहने प्रविष्टः । स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव’ इति मन्त्रे यस्य ब्रह्मविदः प्रतिबुद्धः ज्ञानादिधर्मः । आत्मा परमात्मा । अस्मिन्प्रसिद्धे । सन्दोहे अनेकानर्थसङ्कटशरीरे । गहने विवेकज्ञानप्रतिपक्षे । प्रविष्टः । सर्वकर्ता यतो ऽत एव विश्वकृत् । वायुकर्ता यः परमात्मा स यस्य येन ब्रह्मविदा । अनुवित्तः विदितो वर्तते । तस्य ब्रह्मविदस् तस्य ब्रह्मणो यो लोकः स एव लोको निश्चित इति ब्रह्मणो ज्ञानादिधर्मा उक्ताः । अतो धर्मिधर्मभावेन भेदः प्रसक्तः । एतच्चोप-लक्षणम् । तथा हि । बृहदारण्यके नेहनानेति वाक्यादव्यवहितपूर्वेषु
यद्वैतमनुपश्यत्यात्मानं देवमञ्जसा ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते ।
यस्मादर्वाक्संवत्सरो अहोभिः परिवर्तते ।
तद्देवा ज्योतिषांज्योतिरायुर्होपासतेऽमृतम् ।
यस्मिन्पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः ।
तमेवमन्यमात्मानं विद्वान्ब्रह्मामृतोऽमृतम् ।
प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रं
मनसो ये मनो विदुः । ते निचिक्युर्ब्रह्मपुराणमग््रयम्
इति श्लोकेषु द्वितीयान्तैतच्छब्देन सप्तम्यन्तयच्छब्देन च निर्दिष्टस्यात्मादि शब्दैरमृतशब्देन च तमेवमन्य इत्यादिना च निश्चितब्रह्मत्वस्य षष्ठ्यन्तज्योतिः-प्राणादिशब्दनिर्दिष्टज्योतिःप्राणादिपञ्चजनाधारस्य ये विदुस्ते निचिक्युरित्यादि वाक्यशेषाभिहितनिश्चितब्रह्मत्वं परेषामपि संमतम् ।
तथोक्तं शाङ्करीये बृहदारण्यकभाष्ये ज्योतिषां ज्योतिर् आदित्यादिज्योतिषाम् अवभासकत्वात् । अमृतं ब्रह्मेति । किं च तेन हि चैतन्यात्मना ज्योतिषाऽव-भास्यमानः प्राणः प्राणिति । तेन प्राणस्यापि प्राणः । तथा चक्षुरादीनां चक्षुरादि । ब्रह्मशक्त्यधिष्ठितानां हि चक्षुरादीनां दर्शनादिसामर्थ्यम् । स्वतःकाष्ठलोष्टसमानि हि तानि चैतन्यात्मज्योतिःशून्यानीति ॥ काठके चेति ॥ काठकस्थ नेह नानेत्यतः प्राक्तनेन–
या प्राणेन संविशत्यदितिर्देवतामयी ।
गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्विपश्यति । एतद्वै तत् ।
या प्राणेन संविश्यत्यदितिर्देवतामयी ।
गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत । एतद्वै तत् । इति वाक्येन, एतद्वाक्यप्राक्तनेन च
स्वप्नान्तं जागरितं च उभौ येनानुपश्यति ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ।
य इदं मध्वदं वेदात्मानं जीवमन्तिकात् ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ।
इत्यादिवाक्येनेत्यर्थः । क्वचिच्छ्रुतौ स्वगतभेदनिराकरणं तवापि सम्मतमित्याह– दृष्ट इति ॥ एको देव इति ॥ अत्र ‘ब्रह्मादयो हि भूतानि’ इति समनन्तरोदाहृते भारतवाक्ये भूतशब्दनिर्दिष्टानां ब्रह्मादीनां सर्वभूतानां भिन्नत्वात्तदन्तर्गतपरमात्मनि प्रसक्तो भेद एकशब्देन निवार्यत इत्यर्थः ॥ अन्यथेति ॥ स्वगतभेदस्य सर्वथा प्रसक्त्यभावे ब्रह्मणो निर्भिन्नत्वरूपाखण्डत्ववादस्यानारम्भः स्यादित्यर्थः ।
न्यायामृतकण्टकोद्धारः
ननु मास्त्वियं श्रुतिर्मिथ्यात्वे मानम् । नेहनानेति श्रुतिर्भविष्यति । तस्यामिह ब्रह्मणि किञ्चन कार्यकारणात्मकं वस्तु नास्तीति जगदभावप्रतीतेरित्यत आह– नापीति । नन्वत्र कथं भेदनिषेधः ? तत्प्रत्यायकपदाभावादित्यत आह– नानाशब्दो हीति । ननु भावप्रधानत्वमभ्युपेत्य भेदनिषेधपरतया किमर्थं व्याख्यायते ? जगन्निषेधपरत्वमेव किं न स्यादित्यत आह– यदेवेति । पूर्ववाक्यानुसाराद् ब्रह्माभेद एव प्रकृतवाक्यार्थः । अन्यथा पूर्ववाक्यविरोधः स्यादिति भावः । अन्यथेति । पूर्ववाक्ये ब्रह्माभेदोक्त्यनङ्गीकार इत्यर्थः । उपलक्षणमेतत् । यत्तच्छब्दवैयर्थ्यं च द्रष्टव्यम् । स्वगतभेदाप्रसक्तिः किमेतत्प्रकरण-भिन्नसाधनान्तरेण वा एतत्प्रकरणस्थवाक्येनैव वा ? नाद्य इत्याह जगज्जन्मादीति । ननु जगज्जन्मादिकारणत्वादिविशिष्टे भेदप्रसक्तिः, शुद्धे निषेध इति किं केन सङ्गतमिति चेन्न । जगज्जन्मादिकारणातिरिक्तशुद्धसद्भावे प्रमाणाभावात् । न च निर्गुणश्रुतिरेव प्रमाणमिति वाच्यम् । तस्याः सत्वादिराहित्यपरत्वेन जगत्कारणत्वाद्यविरोधित्वात् । अन्यथा व्याघातात् । अस्तु साधनान्तरेण प्रसक्तिः । न तु तत्प्रकरणगतवाक्यैरिति द्वितीयपक्षं प्रतिक्षेप्तुमाह किञ्चेति । तथा च विरुद्धरूपवत्त्वेन धर्माणामनेकत्वेन धर्मिणोऽपि तत्प्रसक्तिरित्यर्थः । ननु प्रसक्तस्यापि स्वगतभेदस्य निषेधो न दृष्ट इत्यत आह दृष्टश्चेति । अत्र श्रुतावेकपदेन, स्मृतौ च समपदेन स्वगतभेदनिषेध इति द्रष्टव्यम् । अन्यथेति । स्वगतभेदनिषेधानङ्गीकार इत्यर्थः ।
न्यायामृतप्रकाशः
द्व्येकयोरिति ॥ ‘द्व्येकयोर्द्विवचनैकवचने’ द्वित्वैकत्वयोरेते स्त इत्यर्थः । अत्र भाव- प्रधाननिर्देशाभावे द्व्येकेषामिति स्यादिति भावः । मास्तु भावप्रधानो निर्देशः नानाशब्द एव पृथक्त्ववाचीति कैयटसम्मतिमाह– लोक इति ॥ ननु समस्तजगन्निषेधे किं बाधक- मित्यतः पूर्वोक्तज्ञापकमाह– यदेवेहेति ॥ यदेव ब्रह्मरूपमिह लोके वर्तते तदेवामुत्र स्वर्गादौ वर्तते तदेवेहाप्यस्तीति इदमदःशब्दोदितलोकस्वरूपमङ्गीकृत्य तदुभयरूपलोकस्थित ब्रह्मणोऽभेदोक्तेः । अन्यथा सर्वजगन्निषेधाङ्गीकारे इदं चादश्च लोकादिकं नेति श्रूयेत उक्तिसौष्ठवादित्यर्थः ॥ गुरुतरविचित्रेति ॥ कार्यभेदेनेत्यादेस्तत्प्रसक्तेरित्यन्वयः । यथा लोके घटपटादिप्रासादादिनानाविजातीयकार्यभेदेन तत्कारणभेद एवं विचित्रानेककार्यभेदेन तत्कारणे ब्रह्मण्यपि भेदः प्रसक्तः । तथा गजतुरगादिनियन्तॄणां स्थलजलादिभिन्नस्थान-गतानां च लोके दर्शनात् । प्रकृते ‘यः पृथिवीमन्तरो यमयति’ इत्यादिनियम्यानां ‘यः पृथिव्यां तिष्ठन्’ इत्यादिस्थानानां च भेदस्य सत्त्वादनुमानेन भेदप्रसक्तिरस्त्वित्यर्थः ।
श्रुत्या प्रत्यक्षेण तत्प्रसक्तिरस्तीत्याह– यदेकमिति ॥ अपर्यायेति ॥ घटपटयोरपर्याय- शब्दवाच्यत्वेन भेदोऽस्ति अभेदे एकतरपरिशेषापत्त्या घटपटयोस्तदभावेन भेददर्शनाज्ज्ञाना -नन्दादिगुणेष्वपि भेदप्रसक्तिरित्यर्थः । जगज्जन्मादिकारणे गुरुतरविचित्रकार्यभेदेनेत्यादि-विशिष्य तत्प्रसक्तिर्न कथ्यते किं नामेत्यत आह– सर्वत्रेति ॥ जगज्जन्मादिकारणे ब्रह्मणि अन्तर्यामिणि अवतारेषु गुणगुण्यादौ ज्ञानानन्दादौ सर्वत्रापि श्रुतितात्पर्यापरिज्ञानेन स्वगत- भेदप्रसक्तेः । केयं श्रुतिर्यत्तात्पर्यापरिज्ञानेन तत्प्रसक्तिरित्यत उक्तम् अन्योन्तर इति ॥ अन्तर्यामिणि प्रयुक्तान्यादिशब्दतात्पर्यापरिज्ञानेन तत्र भेदप्रसक्तिरित्यर्थः । आदिपदेन ‘इन्द्रो मायाभिः पुरुरूप ईयते’ ‘आनन्दं ब्रह्मणः’ ‘यस्य ज्ञानमयं तपः’ ‘परास्य शक्तिः’ ‘बृहन्तो ह्यस्मिन्गुणाः’ इत्यादिश्रुतिग्रहणम् । एतत्तात्पर्यापरिज्ञानेन सर्वत्रावतारादिषु भेदप्रसक्ति-र्द्रष्टव्येति साम्प्रदायिकोऽर्थः । अन्ये तु सर्वत्रेत्यस्य स्वगतभेदप्रतिपादकत्वेनापाततः प्रतीतासु श्रुतिष्वित्यर्थ इत्याहुः ।
नेहनानेति वाक्यस्य बृहदारण्यककाठकयोः सत्त्वादुभयत्रापि विशिष्य स्वगतभेदप्रसक्तिम् आह– किं चेति ॥ ज्ञानादीति ॥ घटपटयोरिव भिन्नधर्माश्रयत्वाद्धर्मिणोऽपि तत्प्रसक्तिर् इति ध्येयम् । न च भिन्नरूपादिधर्माश्रयेऽपि घटे एकत्वदर्शनाद्धर्मभेदो न धर्मिभेदप्रयोजक इति वाच्यम् । तथापि सन्देहानिस्तारादिति द्रष्टव्यम् । श्रुतिविशेषे स्वगतभेदनिराकरणं तवापि सम्मतमित्याह– दृष्टश्चेति ॥ एको देव इति ॥ एक इत्यनेन स्वगतभेदस्य निषेध-स्त्वया कृतो दृष्टश्चेत्यर्थः । भारते सम इत्यनेन स्वगतभेदनिषेधः ॥ अन्यथेति ॥ स्वगतभेदस्य सर्वथा प्रसक्त्यभावे ब्रह्मणोऽपि निर्भिन्नत्वरूपाखण्डत्वप्रतिपादकस्याखण्डवाद- स्यानारम्भः स्यादित्यर्थः ।
न्यायकल्पलता
ननु तथापि ‘मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ इति बृहदारण्यकगतम्, ‘यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । मनसैवेदमाप्तव्यं नहे नानास्ति किञ्चन । मृत्योः स मृत्युं गच्छन्ति य इह नानेव पश्यति’ इति काठकगतमपि वाक्यं मिथ्यात्वे मानमस्त्वित्या- शङ्क्य निराकरोति– अत्रेति ॥ एतस्यां श्रुतौ ब्रह्मगतो भेदो निषिध्यत इत्यर्थः । वक्ष्यमाणगुणादिभेदसङ्ग्रहाय ‘गत’ इत्युक्तम् । ननु ‘नेह नानेति श्रुतौ भेदाभिधानाभावात् कथमत्र स्वगतभेदनिषेध इत्यत आह– नानाशब्द इति ॥ ननु नानाशब्दस्य भिन्नार्थाभि-धायकत्वान्न तस्य निषेधान्वयबोधप्रयोजकभेदोपस्थितिहेतुत्वमत आह– द्व्येकयोरिति । ‘आदशतः सङ्ख्या सङ्ख्येये वर्तते’ इति न्यायाद् द्व्येकशब्दयोर्द्वित्वैकत्वविशिष्टपदार्थवाचक- त्वेन वृत्यर्थस्य बहुत्वात् ‘एकद्वा’ इतिवद् बहुवचन(प्रयोग)प्रसङ्गेऽदूरविप्रकर्षन्यायेन वृत्ति वाक्ययोरेकत्वाभिप्रायेण द्वौ च एकश्चेत्येव वाक्यमङ्गीकृत्य ‘द्व्येकयोः’ इति वृत्तिगतद्व्येक शब्दयोर्द्वित्वैकत्वार्थतया बह्वर्थत्वाभावाद्बहुवचनप्रसङ्गो न भवतीत्यभिसन्धिना ‘द्व्येकयोः’ इति सूत्रे यथा द्व्येकशब्दौ द्वित्वैकत्वार्थौ तथा ‘नेहनाने’ ति श्रुतौ नानाशब्दो नानात्वार्थः । नानात्वं च भेद एवेत्यर्थः ।
भावप्रधानत्वादिति ॥ अन्योपसर्जनभेदमुत्थापयन्नपि नानाशब्दो निष्कृष्य स्वातन्त्र्ये-णापि तमुत्थापयति (ही)इत्यर्थः ॥ लोके चेति । एतच्चानुपदं वक्ष्यते । पृथग्भावः पृथक्त्वम् । भेद इत्यर्थः । पूर्ववाक्यानुसारेणोत्तरवाक्यस्य नेयत्वान् नेहनानेत्यस्मिन्नपि वाक्ये स्वगतनानात्वमेव निषिध्यत इत्याशयेनाह– पूर्वेति ॥ श्रुताविदमदः प्रातिपदिकार्थ-सन्निकृष्टविप्रकृष्टवस्तुसत्वमभ्युपेत्यान्तर्यामितया तदन्तःस्थितब्रह्मरूपभेदाभावस्यैव श्रुत्युक्त-त्वेन नियम्यजगन्नानात्वनिषेधानुपपत्तेरित्येवशब्दप्रयुञ्जानस्य भावः । यद् ब्रह्मरूपम्, इह पृथिव्यादौ तत्कार्यदेहे तदधिष्ठातृजीवे चान्तर्यामितयाऽस्ति तदेवामुत्र प्रकृतिमहदहङ्कारादौ तदधिष्ठातृचित्प्रकृतिहिरण्यगर्भादौ सूर्यादौ चास्ति तद् उत्कृष्टापकृष्टनियमाधिष्ठानभेदेन भिन्नं न भवति किं नामात्यन्ताभिन्नमेव । शेषनरलक्षणबलभद्रवदवान्तरविशेषनिरासायोक्तक्रमविपर्य-येण ‘यदमुत्र तदनु इह’ इति पुनरुक्तमिति बोध्यम् ।
ननु यदेवेहेति पूर्ववाक्येऽपि न स्वगतभेदो निषिध्यते । किन्तु सर्वमेवेत्यत आह– अन्यथेति ॥ इदमिति ॥ तथा चोक्तिसौष्ठवमर्थसौष्ठवाधीनमित्यर्थः ॥ गुरुतरेति ॥ पट-प्रासादादिकर्तॄणां गजतुरगादिनियन्तॄणां स्थलजलादिभिन्नस्थानगतानाञ्च भेदस्य लोके दर्शनात् । प्रकृते चोत्पत्यादिमत्कार्याणां ‘यः पृथिवीमन्तरो यमयति’ इत्यादि नियम्यानां च ‘यः पृथिव्यां तिष्ठन्, योऽप्सु तिष्ठन्’ इत्यादि स्थानानाञ्च भेदस्य सत्वात्, ‘जगद् अनेक कर्तृकं स्वावान्तरभेदकधर्मवद्गुरुतरविचित्रकार्यत्वात् प्रासादवत्’ इत्यनुमानेन च भेदस्य प्रसक्तिरस्तीत्यर्थः । श्रुत्या प्रत्यक्षेण च तत्प्रसक्तिं दर्शयति– यदेकमिति ॥ गुणेषु परिशेषेण भेदप्रसक्तिमाह– ज्ञानेति ॥ ज्ञानानन्दयोरभेदे ज्ञानमेव वा आनन्द एव वा परिशिष्येत नोभयमित्यर्थः ।
सर्वत्रेति ॥ भेदप्रतिपादकत्वेनापाततः प्रतीयमानासु श्रुतिष्वित्यर्थः । वाक्यद्वये विशिष्य स्वगतभेदप्रसक्तिमाह– किञ्चेति ॥ तस्मिन्निति ॥ ‘अणुः पन्थाः’ इति पूर्वो-दाहृते मन्त्रे यो ब्रह्मविदः प्राप्यो मुक्तलोक उक्तस्तस्मिञ्च्छुक्लादीनि भगवद्रूपाणि सन्ति । अत एव १‘तस्मिञ्च्छुक्लम्’ इति मन्त्रस्योत्तरार्धे २‘एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च’ इति मार्गस्य ब्रह्मप्रसादसाध्यत्वमुच्यते । अतः शुक्लाद्यनेकरूपाणां भेदप्रसक्तिरित्यर्थः । ननु नात्र शुक्लादिशब्दैर्ब्रह्मरूपाण्युच्यन्ते । तथा हि । शाङ्करीये बृहदारण्यकभाष्ये । बृहदारण्यके ‘तस्मिञ्च्छुक्लम्’ इति मन्त्रात्पूर्वमुदाहृतः ३‘अणुः पन्था विततः पुराणो मास्पृष्टोऽनुवित्तो मयैव । तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वो विमुक्ताः’ इति मन्त्रः ।
तस्यार्थः– अणुः सूक्ष्मः, दुर्विज्ञेयत्वात् । विततो विस्तीर्णः । वितर इति पाठान्तरे विस्पष्टतरणहेतुः । पुराणः पुरातनः । पन्था मोक्षसाधनज्ञानमार्गः । न तार्किकादि वदर्वाक्कल्पितः । म• स्पृष्टो मया स्पृष्टो, मया लब्ध इत्यर्थः । मयैवानुवित्तः । अनुवेदनं नाम विद्यायाः परिपाकः । स्तुतिरियम् । तद्यो यो देवानामिति श्रुतेः । तदेवाह । तेन ब्रह्मविद्यामार्गेण । धीराः प्रज्ञावन्तः । ब्रह्मविदो ऽन्येऽपि विमुक्ताः । इत ऊर्ध्वं स्वर्गलोकं मोक्षं गच्छन्ति । अस्मिन्मन्त्रे य उक्तो मोक्षमार्गः स तस्मिन्निति तच्छब्देन परामृश्यते । तस्मिन्मोक्षमार्गे । विप्रतिपत्तिर्मुमुक्षूणाम् । केचित् शुक्लमाहुः । अन्ये नीलादिकमाहुरिति । नैते मोक्षमार्गाः किन्तु य ‘आत्मकामादि’वाक्येन पूर्वमुक्तो ज्ञानमार्गः, एष एव पन्थाः’ इत्यादिग्रन्थेन मार्गविषयमेव शुक्लादिवाक्यं व्याख्यातम् । न तु परमात्मरूपविषयम्’ इति ।
मैवम् । ‘तस्मिन्’ इति तच्छब्देनाव्यवहितमुक्तलोकग्रहणसम्भवे विप्रतिपत्तिवाचकस्य निषेधवाचकस्य वा पदस्याभावेन उक्तविधयाऽर्थवर्णनानुपपत्तेः । तस्मादयमुदाहृतमन्त्रार्थः – अणुः सूक्ष्मो दुर्विज्ञेयत्वात् । पन्था अर्चिरादिमार्गः । ‘तेऽर्चिषमभिसम्भवन्ति’ इत्यादि-श्रुतेः । विततः विशिष्टैर्देवैस्ततो व्याप्तः । वितर इति पाठे तु तरतिर्दानार्थः । विशिष्ट-पुरुषार्थं तरति ददातीति वितरः । पुराणः पुरातनः । मायावादिप्रभृतिभिरिव दुष्प्रेक्षा-कल्पितो न भवति । मंस्पृष्टः । ह्रस्व आर्षः । मां स्पृष्टः मया लब्ध इत्यर्थः । मया प्रसन्नीकृतेन परमात्मनाऽनुवित्तः पूर्णः । तेनार्चिरादिमार्गेण धीरा धिया रमन्ते धीराः । अन्येऽपि ब्रह्मविदः ब्रह्मापरोक्षज्ञानिनः विमुक्ताः । इत ऊर्ध्वं स्वर्गं दुःखासम्भिन्नसुखानु-भवात्मकं लोकं प्रकाशमानं मुक्तलोकम् अपियन्ति प्रविशन्ति । तस्मिन्मुक्तलोके शुक्लं रूपं सङ्कर्षणाख्यम् अस्तीत्याहुः । एवं बहुरूपः परमात्माऽस्तीति वेदवेदो वदन्ति ।
एष पन्थाः परमात्मप्राप्तिमार्गः प्रसन्नेन ब्रह्मणा हेतुनाऽनुवित्तः प्रत्येतव्यस् तेन मार्गेण पुण्यकृत्तैजसः प्रकाशमानो ब्रह्मवित्परमात्मानमेत्याप्नोतीति । तस्मादुक्तविधया शुक्लादिशब्दै- र्भगवतोऽनेकरूपाण्युच्यन्ते ॥ यस्यानुवित्त इति ॥ ‘यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन् सन्देहे गहने प्रविष्टः । स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव’ इति मन्त्रे– यतः सर्वकर्ता अत एव स विश्वकृद् विश्वो मुख्यवायुस्तत्कर्ता प्रतिबुद्धं ज्ञानं यस्य स प्रतिबुद्धः सर्वज्ञः, अस्मिन् सन्देघे सन्देहे मध्यदेहे । हस्य घत्वमार्षम् । गहने अन्यागम्ये गुहास्थाने प्रविष्टः यः परमात्मा स यस्य ब्रह्मविदः येन ब्रह्मज्ञानिना अनुवित्तः विदितो वर्तते । तस्य ब्रह्मविदस् तस्य ब्रह्मणो यो लोकः स एव लोको निश्चित इति ब्रह्मणो ज्ञानादिधर्मा उक्ताः । अतो धर्मधर्मिभावेन भेदः प्रसक्त इत्यर्थः ।
एतच्चोपलक्षणम् । तथा हि– बृहदारण्यके ‘नेह नाने’ति वाक्यादव्यवहितपूर्वेषु–
यदैतमनुपश्यन्त्यात्मानं दैवमञ्जसा ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ १ ॥
यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते ।
तद्देवा ज्योतिषा ज्योतिरायुर्होपासतेऽमृतम् ॥ २ ॥
यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः ।
तमेव मन्य आत्मानं विद्वान्ब्रह्माऽमृतोऽमृतम् ॥ ३ ॥
प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रम् ।
मनसो ये मनो विदुस्ते निचिक्युर्ब्रह्म पुराणमग््रयम् ॥ ४ ॥
इति श्लोकेषु द्वितीयान्तैतच्छब्देन सप्तम्यन्तयच्छब्देन च निर्दिष्टस्य, आत्मादिशब्दैरमृत शब्देन च ‘तमेव मन्ये’ इत्यादिना च निश्चितब्रह्मत्वस्य, षष्ठ्यन्तज्योतिःप्राणादिशब्द निर्दिष्टज्योतिःप्राणादिपञ्चजनाधारस्य, ये विदुस्ते निचिक्युरित्यादिवाक्यशेषाभिहितनिश्चित ब्रह्मत्वद्वितीयान्तज्योतिःप्राणादिशब्दनिर्दिष्टज्योतिः प्राणादिपञ्चकरूपताऽभिहितेति स्पष्टं भेद-प्रसक्तिः । प्रथमान्तज्योतिःप्राणादीनां च ब्रह्मत्वं परेषामपि सम्मतम् । यथोक्तं शाङ्करीये बृहदारण्यकभाष्ये । ‘ज्योतिषां ज्योतिर् आदित्यादिज्योतिषामवभासकत्वात्, अमृतं ब्रह्मेति । किञ्च तेन हि चैतन्यात्मना ज्योतिषाऽवभास्यमानः प्राणः प्राणिति । तेन प्राणस्यापि प्राणः सः । तथा चक्षुरादीनां चक्षुरादिः । ब्रह्मशक्त्यधिष्ठितानां हि चक्षुरादीनां दर्शनादिसामर्थ्यं स्वतः काष्ठलोष्टसमानि हि तानि चैतन्यात्मज्योतिःशून्यानि’ इति ॥ काठके चेति ॥ काठकस्थ ‘नेह नाना’ इत्यतः प्राक्तनेन–
१‘यः पूर्वं तपसोऽजातमद्भ्यः पूर्वमजायत ।
गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत्’ ॥
२‘या प्राणेन संविशत्यदितिर्देवतामयी ।
गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत । एतद्वै तत्’ ॥
इति वाक्येन, एतद्वाक्यप्राक्तनेन च–
‘स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥
य इदं मध्वदं देवमात्मानं जीवमन्तिकात् ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥
एतद्वै तत् । इति वाक्येनेत्यर्थः । कस्याञ्चिच्छ्रुतौ स्वगतभेदनिराकरणं तवापि सम्मत-मित्याह– दृष्टश्चेति ॥ ‘एको देवः’ इति श्रुतिसमनन्तरोदाहृते ‘ब्रह्मादयो हि भूतानि’ इति महाभारतवाक्ये च भूतशब्दनिर्दिष्टानां ब्रह्मादीनां सर्वभूतानां भिन्नत्वात्तदन्तर्गतपरमात्मनि प्रसक्तो भेद एकशब्देन निवार्यत इत्यर्थः ॥ अन्यथेति ॥ स्वगतभेदस्य सर्वथा प्रसक्त्य-भावे । सत्यज्ञानादिवाक्ये श्रौतज्ञानानन्दादिधर्माणामौपनिषदः ब्रह्मणश्च धर्मधर्मिभावरूपसंसर्ग निषेधकाखण्डार्थवादस्वीकारानुपपत्तिः । संसर्गस्य भेदगर्भितत्वात् । ‘तत्त्वमस्यादिवाक्ये च जीवप्रतियोगिकब्रह्मधर्मिकस्य ब्रह्मप्रतियोगिकजीवधर्मिकस्य वा मानान्तराप्राप्तस्य भेदस्य प्रतिषेधकाखण्डैकरसचित्स्वरूपाभेदप्रतिपादकाखण्डत्ववादस्यारम्भायोगश्च स्यादित्यर्थः ।
‘अनुभूतिर् न नाना, अनुभूतित्वाद्, उपाधिभेदमन्तरेणाविभाव्यमानभेद त्वात्’..
न्यायामृतम्
‘अनुभूतिर् न नाना, अनुभूतित्वाद्, उपाधिभेदमन्तरेणाविभाव्यमानभेद त्वात्’ इत्याद्यनुमानैः स्वगतभेदनिषेधश्च न स्यात् । ‘एकमेवाद्वितीयम्’ इत्यादावेकपदेन स्वगतभेदनिषेधोक्तिश्च न स्यात्, प्रत्युत परमत एव धर्माधर्म स्वर्गनरकाद्यंशेऽप्रसक्तप्रतिषेधः । इहेति च विशेषणान्न नानात्वमात्रनिषेधः । ‘इमौ स्निग्धावस्मिन् ग्रामे न विरोधः’ इत्यादाविवेदंशब्दोपात्तस्य ब्रह्मण एव धर्मित्वेन प्रतियोगित्वेन च सम्बन्धसम्भवे तदनुपात्तस्य धर्मित्वेन वा प्रति-योगित्वेन वा सम्बन्धायोगात् । विधेयोद्देश्ययोर्नानात्वनिषेधतदाधारब्रह्मणो र्निषेध्यनिषेधयोर्नानात्वतदभावयोश्च भेदावश्यम्भावाच्च । काठके ‘तं देवाः सर्वे अर्पितास्तदु नात्येति कश्चन’ इति पूर्वत्र, ‘मध्य आत्मनि तिष्ठति’ इति ‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति’ इति उत्तरत्र च भेदप्रमितेश्च । किञ्चनशब्दस्तु गुणगुण्यवयवावयवित्वादि- प्रयुक्तानेकनानात्वाभिप्रायः, अन्यथा उक्तदोषात् ।
भवितृप्राधान्येऽपि नानाशब्दस्य किञ्चनशब्दप्रकृतधर्मादिपर एव, सर्वनाम त्वात् । सर्वेभ्य इत्यत्र सर्वशब्दवदुद्देश्यसमर्पकत्वाच्च । ‘व्रीहीनवहन्ति’ इत्यत्र व्रीहिशब्दवद् व्यक्तिवाचित्वाच्च । ‘आग्नेय्याऽऽग्नीध्रमुपतिष्ठते’ इत्यत्राग्नेयीशब्द वत् । ‘एवं धर्मान्पृथक्’ इति विशेषशब्दसन्निहितसामान्यशब्दत्वाच्च । घृत शब्दसन्निहिताक्तशब्दवत् । एवं च–
वाक्यशेषस्थधर्माख्यविशेषे पर्यवस्यति ।
किञ्चनेति हि शब्दोऽयमक्ताशब्दो घृते यथा ॥
यथा चेह ब्रह्मणि किञ्चन धर्मादिकं नाना नास्तीत्युक्ते धर्माणां नानात्व -मेव निषिद्धं स्यात् । सविशेषणे हीति न्यायात्, ‘लोहितोष्णीषा ऋत्विजः प्रचरन्ति न जीर्णमलवद्वासाः स्नातकः स्यात्’ इत्यादौ दर्शनाच्च । अत एवोक्तं ‘विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषणे’ इति ।
एकदेशापवादेन कल्प्यमाने च बाधके ।
न सर्वबाधनं युक्तमिति न्यायविदः स्थिताः ॥ इति च ।
न्यायामृततरङ्गिणी
अनुभूतिरिति ॥ अनुभूतेरात्मरूपत्वादित्यर्थः ॥ उपाधिरिति ॥ घटानुभवः पटानुभव इत्यादिघटाद्युपाधिनिबन्धन एवानुभूतेर्भेदो न तु केवलाया अनुभूतेरित्यर्थः ॥ प्रत्युतेति ॥ धर्मादेर्भेदस्य लोके अप्राप्तेर्धर्मिग्राहकशास्त्रप्राप्तभेदनिषेधे च तद्विरोध इत्यर्थः । नन्वस्तु नानाशब्दो भेदार्थस्तथापि प्रतियोगिविशेषानुपादानाद् भेदमात्रं ततः प्रतीयत इति भेदमात्रनिषेधः पर्यवस्यतीत्यत आह– इहेतीति ॥ इदंशब्दः प्रतियोगिविशेषोपस्थापक इत्यर्थः । ननु सप्तम्यन्तस्येदंशब्दस्याधिकरणपरत्वान्न तस्य प्रतियोग्युपस्थापकत्वमित्यत आह– इमौ स्निग्धाविति ॥ इदमधिकरणकेदंप्रति योगिकस्नेहस्य ग्रामाधिकरणकग्रामप्रतियोगिकस्य विरोधस्य च ततः प्रतीतेरित्यर्थः ॥ इदंशब्देति ॥ कथमपि श्रूयमाणेनेत्यर्थः । शाब्दी ह्याकांक्षेति न्यायात्प्रकृति प्रत्ययान्तप्रतियोग्युपस्थापकपदकल्पनापेक्षया सप्तम्यवरुद्धस्यापि श्रूयमाणस्येदं शब्दस्य षष्ठ्यन्तविपरिणामेनापि तदुपस्थापकत्वकल्पने लाघवमिति भावः ॥ तदिति ॥ अश्रूयमाणेनेत्यर्थः ।
नन्वत्र प्रतियोगिकल्पन एव न मानं तत्कथं श्रुताश्रुतकल्पनयोर्लाघवादि चिन्त्यत इत्याशङ्क्य भेदसामान्यनिषेधसम्भवात्तत्कल्पनमावश्यकमित्याह– विधे-येति ॥ विधेयोद्देश्ययोर्भेदनिषेधब्रह्माधिष्ठानकभेदनिषेधासिद्धिः, ब्रह्मस्वरूपमात्र-बोधनपर्यवसानं च स्यादित्यर्थः ॥ निषेधेति ॥ नानात्वतन्निषेधयोरपि भेदनिषेधे नानात्वनिषेधस्य नानात्वनिषेधनिषेधपर्यवसायितया नानात्वसमर्थनमेव कृतं स्यादित्यर्थः ॥ काठके चेति ॥ तं देवा इत्यादिपूर्ववाक्ये भेदः प्रतीयत इत्यर्थः ॥ मध्य इति ॥
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानो भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ।
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ।
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ।
‘यथोदकं शुद्धे शुद्धम्’ इत्यादिवाक्ये च भेदप्रतीतेस्तदनुसारेण तन्मध्यपठितं ‘नेहनाने’ति वाक्यमपि न सर्वभेदनिषेधकं किन्तु ब्रह्मणि धर्मादिभेदं निषेधतीति वाच्यमित्यर्थः । इह ब्रह्मणि अस्माद्ब्रह्मणः सकाशान्नानात्वं नास्तीत्येतावता पूर्णत्वेन शेषमसङ्गतमित्यत आह– किञ्चनेति ॥ ब्रह्मगुणादीनां ब्रह्मस्वरूपत्वेन ब्रह्मणि तद्भेदस्य वस्तुतो ब्रह्मभेदतया तदुपस्थितये किञ्चनशब्दः । परमते सर्वभेदोप स्थितये किञ्चनशब्दः । मम तु ब्रह्मप्रतियोगिकसर्वभेदोपस्थितये इति न कश्चि-द्विशेषः । अन्यथा परमतेऽपि तदसङ्गतिरिति भावः ॥ अन्यथेति ॥ किञ्चनशब्दस्य सर्वभेदपरत्व इत्यर्थः ॥ उक्तेति ॥ विधेयादिभेदस्यावश्यकतया सर्वभेदनिषेधे व्याघात इत्यर्थः ॥ भवित्रिति ॥ नानाशब्दस्य भिन्नवाचित्व इत्यर्थः ॥ धर्मादीति ॥ इह ब्रह्मणि धर्मावयवादिकं नाना भिन्नं नास्तीत्येवंपर इत्यर्थः ॥ सर्वेभ्य इति ॥ एतच्चोपपादितम् ॥ उद्देश्येति ॥ ‘व्रीहिभिर्यजेत’ इत्यत्र व्रीहिशब्दस्य जातिपरत्वेऽपि मानान्तरप्राप्तस्यैवोद्देष्टव्यतया चतुर्मुष्टिनिरुप्ताः प्रकृता पूर्वसाधनीभूता व्रीहयो ‘व्रीहीन् अवहन्ति’ इत्यत्र व्रीहिशब्देन गृह्यन्त इत्यर्थः ॥ व्यक्तिवाचीति ॥ गवादिशब्देभ्य इव जातिविशेषस्य किञ्चनेति शब्दादप्रतीतेरित्यर्थः ।
आग्नेय्येति ॥ तृतीयस्य द्वितीयपादेऽभिहितम् । ‘अधिकारे च मन्त्रविधिरत -दाख्येषु शिष्टत्वात्’ । ज्योतिष्टोमे प्रथममाग्नेय्यैंद्य्रादयः स्तोत्रशस्त्रादिसाधनत्वेन, ‘अग्न आयाहि वीतये’ इत्येवमादयो विशेषरूपेण विहिताः । पुनश्च सामान्येन ‘आग्नेय्याऽऽग्नीध्रमुपतिष्ठते’ इत्येवमादिषूपदिश्यन्ते । तत्र सन्देहः । किं तद्व्यतिरिक्ता ग्रहीतव्या उत ता वा अन्या वा अथवा ता एवेति त्रयः पक्षाः । अत्र प्रकृतानां कार्यान्तरोपयोगेन यातयामत्वादग्रहणम् । अथवा सामान्यविधानमिदम् । तानि चाग्नेयीविशेषविधानानि । परिहृत्य च विशेषविधिविषयं सामान्यशास्त्राणि प्रवर्तन्ते । तस्मात्तद्व्यतिरिक्ता एवेत्याद्यः पक्षः । अथवा आग्नेयादिशब्दैरविशेषप्रत्ययो जायते । न चान्यत्प्रकृतग्रहणस्य क्षमं विशेषणं पश्यामः । प्रकरणस्य ग्राहकत्वेनाविशेषक-त्वात् । सन्निधिलक्षणलौकिकप्रकरणस्य च यौगिकश्रुतिजनितविशेषप्रत्ययेन बाध्य मानत्वात् । तस्मात्सर्वा एवेति द्वितीयः ।
सिद्धान्तस्तु । व्यक्तिशब्दोऽयं यौगिकत्वात् । ‘सर्वत्र यौगिकैः शब्दैर्व्यक्तिरेवा- भिधीयते’ इति वार्तिकोक्तेः । न ह्यत्र जातिः काचित्प्रतीयते । नानारूपासु नानाच्छन्दस्स्वपि च देवतैकत्वमात्रेणाग्नेयादिशब्दप्रयोगात् । न हि ‘अग्न आयाहि वीतये’ ‘अग्निं होतारम्’ इत्यनयोर्देवताव्यतिरिक्तं किञ्चित्सामान्यं दृश्यते । देवता सम्बन्धमेव चैष न व्यभिचरति । व्यभिचरति च ऋग्जातिम् । द्रव्यकर्मगुणादिष्वपि प्रयोगात् । तस्माद्व्यक्तिशब्दोऽयम् । व्यक्तिवचनाश्च सन्निहितव्यक्तिपराः । तथा हि– ‘आग्नेय्याऽऽग्नीध्रमुपतिष्ठते’ इत्यत्र नाग्नीध्रस्वरूपप्रयुक्तमुपस्थानम् । प्रयोजना-भावात् । अतोऽवश्यं ज्योतिष्टोमकार्यविशेषसाधनमेतदित्याश्रयितव्यम् । स च कार्य-विशेषः सामान्यप्राप्तौ सत्यां शक्यो विधातुम् । तत्र यदि सामान्यविशेषसम्बन्धा-विदमेव वाक्यं कुर्यात्ततो भिद्येत् ।
ननु चानेन विशेषमात्रमाग्नेयीसम्बन्धः क्रियताम् । प्रकरणात्सामान्यसम्बन्धः सिध्यति । सत्यम् । प्रकरणात्सिध्यति । न तु श्रुतिमकल्पयित्वा । सा च श्रुतिः क्लृप्तायां सत्यां कल्पयितुं न शक्यते । ननु विशेषे विधीयमानेऽर्थात्सामान्यम् अन्त- र्भविष्यति । सत्यम् । अर्थापत्तिरियम् । सा चान्यथानुपपत्त्या भवति । यदीदं विशेषसम्बन्धवाक्यं सामान्यसम्बन्धश्रुतिमकल्पयन्नोपपद्येत । ततः कल्पयेत् । उपपद्यते त्वस्य क्लृप्तसामान्यसम्बन्धास्वृक्षु स्वस्वार्थमात्रविधानम् । प्रकृतानाम-प्रकृतानां च ग्रहणेऽप्येकत्र प्राप्तसामान्यानुवादे न विशेषमात्रकरणादन्यत्र च सामान्यविशेषकरणाद्वैरूप्यनिमित्तोऽपि वाक्यभेदः स्यात् । एकतरग्रहणे तु न कश्रिद्दोषः । तदुक्तं वार्तिके ।
ऋतुकार्यविशेषोऽयं मन्त्रस्यास्योपदिश्यते ।
सामान्यप्राप्त्यपेक्षश्च विशेषो नित्यमिष्यते ॥ इति ।
आग्नेयीशब्दस्य यौगिकत्वेन विग्रहसमानार्थतया अग्निर्देवताऽस्येति विग्रहे सर्वनाम्नः सन्निहितपरत्वाद् आग्नेयीशब्दोऽपि सन्निहितपर एवेति ।
अक्ताशब्दवदिति ॥ नामधेयपादे स्थितम् । ‘सन्दिग्धेषु वाक्यशेषात्’ । अक्ताः शर्करा उपदधाति, तेजो वै घृतमिति श्रूयते । तत्र शर्कराणां घृततैलवसाद्यन्य तमेनाञ्जनम् उत घृतेनैवेति विशये विशेषानुक्तेरर्थवादस्य विध्यनुसारित्वादनियम इति प्राप्ते विधावञ्जनक्रियाक्षिप्तद्रवद्द्रव्यसामान्यस्य घृतेऽपि सत्त्वान्निर्विशेषसामान्यानुष्ठाना सम्भवेन किञ्चिद्विशेषपर्यवसानस्य विधिनैवापेक्षितत्वाद्वाक्यशेषोपात्ते विशेषे सति विशेषान्तरकल्पनानौचित्याच्च विधेयस्तावकवाक्यशेषानुसाराद् घृतेनैवाञ्जनमिति सिद्धान्तः । तथा प्रकृतेऽपि ‘एवं धर्मान्’ इति वाक्यशेषे धर्मभेदश्रवणान्नेह नानेत्यत्र नानाशब्दोऽपि धर्मभेदपर एवेत्यर्थः । नन्वेवमपि ब्रह्मणि धर्मनिषेधस्तवानिष्ट इत्यत आह– यथा चेति ॥ विशेष्यविधाने बाधकस्थलमुदाहरति ॥ लोहितेति ॥ उष्णीषादेर्विध्यन्तरप्राप्तस्य नात्र विधानं सम्भवतीत्यर्थः । विशेष्यनिषेधे बाधकम् उदाहरति– नजीर्णेति ॥ अत्र जीर्णमलवत्त्वविशिष्टवासोनिषेधे नग्नस्याप्यन्वयापत्ति र्बाधकमित्यर्थः ।
न्यायामृतकण्टकोद्धारः
एवं स्वगतभेदनिषेधपक्षेऽप्रसक्तप्रतिषेधतां निराकृत्य जगन्निषेधपक्षे तामाह– प्रत्युतेति । ननु प्रमाणान्तरेण वा श्रुतितात्पर्याज्ञानेन वा धर्मादेः प्रसक्तिरिति चेन्न । धर्मादेः प्रमाणान्तरावेद्यत्वात् श्रुतेस्तत्र तात्पर्याभावे धर्मादिसिद्धिरेव न स्यात् । ततश्चाविगानेन सर्वेषाम् अनुष्ठानं भज्येतेति भावः । न हि सर्वेषां तात्पर्यापरिज्ञानम् । न ह्युपक्रमादिभिर्विचारणेऽपि तात्पर्यज्ञानं न सम्भवति । उपक्रमादिभिर्विचारयतामपि धर्मानुष्ठानाच्च । ननु स्वगतभेदस्यैव निषेधः कुतः ? भेदमात्रस्यैव निषेधः किं न स्यादित्यत आह इहेति । तथा विशेषणेऽपि कुतो न भेदमात्रनिषेध इत्यत आह इमाविति । विधेयोद्देश्ययोरिति । तथा च विधेयादिभेदमङ्गीकृत्य तन्निषेधे व्याघात इति भावः । भेदमात्रनिषेधे पूर्वोत्तरवाक्यविरोधः, तत्र भेदस्य प्रमितेरित्याह काठक इति ।
ननु स्वगतभेदनिषेधपक्षे नेहनानेत्येतावतैवालम् । किञ्चनशब्दो व्यर्थः । तस्य प्रयोजनादर्शनादित्यत आह– किञ्चनेति । अत्र किञ्चनशब्दः प्रकृतसकलनानात्वग्रहणार्थ इति न तस्य व्यर्थत्वम् । ननु च कथं सकलनानात्वानि प्रकृतानीत्यत उक्तं गुणेति । ननु भवितुः प्रधानत्वात् तत्पर एव किञ्चनशब्दो न नानात्वपरस् तस्याप्रधानत्वादित्यत आह– भवितृप्राधान्येऽपीति । अत्र किञ्चनशब्दस्य प्रकृतधर्मपरत्वे सर्वनामत्वम्, उद्देश्य समर्पकत्वं, व्यक्तिवाचित्वं, विशेषशब्दसन्निहितसामान्यशब्दत्वं चेति हेतुचतुष्टयम् । तत्र सर्वनाम्नः प्रकृतपरत्वे दृष्टान्तमाह– सर्वेभ्य इति ।
दर्शपूर्णमासयोः श्रुतं ‘सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ’ इति । तत्र संशयः । सर्वशब्दः किं सर्वकामपरो वा, प्रकृतसर्वकामपरो वा ? सर्वपरत्वमेव ग्राह्यम् । सङ्कोचे कारणा-भावादिति प्राप्ते सिद्धान्तितम् । प्रकृतपरत्वमेव । अन्यथा दर्शपूर्णमासाभ्यामेव सर्वकाम-प्राप्तिसम्भवे यागान्तरविधानवैयर्थ्यात् । दर्शपूर्णमासकर्तुः सर्वकामावप्त्यसम्भवाच्चेति । तथा प्रकृतेऽपीति भावः । न च तत्र बाधकात् सङ्कोचः । न चात्र किञ्चिद् बाधकमिति वाच्यम् । प्रकृतेऽपि सर्वनिषेधे व्याघातादेरुक्तत्वात् । उद्देश्यसमर्पकस्य प्रकृतपरत्वे दृष्टान्तमाह– व्रीहीनिति । तत्रैव श्रूयते व्रीहीनवहन्तीति । अत्र व्रीहिशब्दः किं प्रकृतनियोगसाधनद्रव्यपरो वा, व्रीहित्वावच्छिन्नव्रीहिपरो वेति विशयेव्रीहिमात्रपर एव । व्रीहीनित्यविशेषश्रुतेः । प्रकृतनियोगसाधनद्रव्यपरत्वे च लक्षणापत्तेरिति पूर्वपक्षे, सिद्धान्तितं नियोगसाधनद्रव्यपर एव । व्रीहिमात्रपरत्वे लौकिकव्रीहिष्वपि नखदलने प्रत्यवायापत्तेः । यवेष्वौपदेशिकावघातानापत्तेश्चेत्यगत्या लक्षणया प्रकृतनियोगसाधनसतुष- द्रव्यपरत्वमिति । तथा प्रकृतेऽपीति भावः ।
व्यक्तिवाचिनः प्रकृतपरत्वे दृष्टान्तमाह आग्नेय्येति । तृतीयाध्याये द्वितीयपादेऽष्टमाधि करणेचिन्तितम् । ‘अधिकारे च मन्त्रविधिरतदाख्येष्वविशिष्टत्वात्’ । ज्योतिष्टोमे काश्चिदाग्नेय्य ऋचः ‘अग्न आयाहि वीतये’ इत्यादिविशेषरूपेणैवासंयुक्ताः पठिताः । स्तोत्रादौ च वाक्यान्तरेण विनियुक्ताः । प्रदेशान्तरे आग्नेय्याग्नीध्रमुपतिष्ठत इति श्रुतम् । तत्र सन्देहः किं प्रकृताभिरप्रकृताभिर्वाऽऽग्नेयर्ग्भिरुपस्थानं कर्तव्यमुत प्रकृताभिरेवेति । किं तावत् प्राप्तम् ? यया कयाचिदाग्नेय्योपस्थानम् । आग्नेय्येत्यविशेषश्रवणात् प्रकृतग्रहणे कारणाभावात् । ननु प्रकरणमेव विशेषकम् । यथा व्रीहीनित्यत्र प्रकरणात् प्रकृता एव व्रीहयो व्रीहिशब्देन गृह्यन्त इति चेन्न । वैषम्यात् । व्रीहीनित्यत्र व्रीहिनुद्दिश्यावघाताख्यः संस्कारो विधीयते । तत्रापूर्वासम्बन्धिनः संस्कारायोगात् प्रकृतापूर्वसाधनीभूता गृह्यन्ते । इह तु नाग्नेयी संस्कारः । किन्तूपादीयते सा, तृतीयानिर्देशात् । तथा च पशुना यजेतेत्यत्रेव यया कयाचिदाग्नेय्योपस्थानम् ।
न च सन्निधानात् प्रकृतग्रहणमिति वाच्यम् । प्रदेशान्तरे स्तोत्रादौ विहितत्वेन तदभावात् । न ह्युपस्थानविधौ कस्याश्चिदाग्नेय्याः सन्निधिरस्ति । अस्तु वा सन्निधानम् । न चैतावन्मात्रं ग्रहणे प्रयोजकम् । तथात्वे अश्वेन गच्छति श्वेतेन पटेन प्रावृत इत्यत्र श्वेतस्य पटान्वितस्याश्वेन सन्निधानादन्वयः स्यात् । किन्तु अन्यानन्वितमपेक्षितसन्निधानं ग्रहणे प्रयोजकम् । न चैतदस्ति आग्नेयीनाम् । वाक्यान्तरेण स्तोत्रादौ विनियुक्तत्वात् । न ह्यन्यान्वितस्यान्येन सम्बन्धो युक्तः । ननु तथाप्याग्नेयीशब्दस्य यौगिकत्वात् स्तोत्रादौ विनियुक्तत्वात् । न ह्यन्यान्वितस्यान्येन सम्बन्धो युक्तः ।
ननु तथाप्याग्नेयीशब्दस्य यौगिकत्वाद् योगस्य चाग्निरस्या इति सर्वनामघटितत्वात् तस्य च प्रकृतपरत्वात् प्रकृतव्यक्तिपरत्वमिति चेन्न यौगिकत्वेनावयवार्थवत्परत्वमेव युक्तम् । तत्र यौगिकशब्दः पदान्तरेण समभिव्याहृतश्चेत् तत्पर एव भवति । यथा वैश्वदेव्यामिक्षा इत्यत्र वैश्वदेवशब्दस्यामिक्षापरत्वम् । न चैवं प्रकृते विशेषणमस्ति । किं च सन्निधानमपि नास्ति । प्रदेशान्तरगतत्वादित्युक्तमिति । तस्माद्यया कयाचिदाग्ने-य्योपस्थानमिति । अत्रोच्यते । प्रकृताभिरेवाग्नेयीभिरुपस्थानम् । नाप्रकृताभिः । प्रकृत-ग्रहणे लाघवात् । अप्रकृतग्रहणे गौरवात् । तथा हि अत्र हि द्वयमपेक्षितं क्रतूपयुक्त-पुरुषव्यापारसाधनत्वं सामान्यम्, आग्नीध्रोपस्थानसाधनत्वं विशेषश्च । तत्राप्रकृतग्रहणे द्वयमनेनैव विधिना कर्तव्यमिति गौरवम् । प्रकृतग्रहणे तत्प्रकरणे न क्रतूपयुक्त-व्यापारसाधनत्वं सिद्धम् । कोऽसौ व्यापार इति विशेषजिज्ञासायामनेन विधिनाग्नी-ध्रोपस्थानमित्येव बोधनाद् विधेर्लाघवम् । तस्मात् प्रकृतग्रहणम् ।
नन्वेवमग्निमुपनिधाय स्तुवीतेत्यत्रापि प्रसिद्धक्रतुसम्बन्धानामाहवनीयादीनामेव ग्रहणं स्यात् । न लौकिकस्याग्नेरिति चेन्न । आहवनीयादीनां विशेषवचनमन्तरेणान्यत्र नेतुम -शक्यत्वात् । तेषां देशविशेषबद्धत्वात्, अन्यत्र नयने प्रायश्चित्तश्रवणाच्च लौकिकस्यैव ग्रहणम् । न चैवं प्रकृते बाधकमस्ति । ननु प्रकृतानां स्तोत्रादिसाधनत्वं ज्ञातम् । तथा चान्यान्वितस्यान्यान्वयायोगात् कथं प्रकृताभिरुपस्थानमिति चेत् सत्यम् । सामान्य-रूपता प्रकरणभावाज्ज्ञाता । तावन्मात्रेण प्रयोजनाभावाद् विशेषरूपमपेक्षितम् । तच्च
विशेषवाक्यद्वयेन ज्ञातमिति वाक्यद्वयानुरोधात् संयोगपृथक्त्वन्यायेनोभयसाधनत्वं भवेत् । को दोषः ? यद्वाऽस्य विशेषवाक्यत्वात् तस्य सामान्यत्वादेतदेवादरणीयं, तदनादरणीयमिति प्रकृतानामाग्नेयीनां ग्रहणम् । तथा किञ्चनशब्दः प्रकृतधर्मपर एवेति भावः ।
विशेषशब्दसन्निहितसामान्यशब्दस्य विशेषपरत्वे दृष्टान्तमाह– घृतशब्देति । प्रथमा-ध्याये नामधेयपादे एकोनविंशाधिकरणे चिन्तितम् । ‘सन्दिग्धे तु वाक्यशेषात्’ । तेजो वै घृतम् । अक्ताः शर्करा उपधावतीति श्रूयते । मृत्तिकामिश्राः क्षुद्रपाषाणाः शर्कराः । तत्र संशयः । घृततैलवसानामन्यतमेनाञ्जनमुत घृतेनैवेति । तदर्थमिदं विचार्यते विध्यु-द्देशार्थवादयोर्विरोधोऽस्ति न वेति । पूर्वपक्षस्तु येन केनचिदञ्जनं कर्तव्यम् । विधि-वाक्येनाञ्जनसाधनसामान्यस्य बोधनात् । न चार्थवादाद् विशेषोपस्थितिरिति वाच्यम् । अर्थवादाद् विधेः प्रबलत्वात् । तत्प्राबल्यमेव कुत इति चेन्न । प्रधानत्वात् । प्रधानत्वं च विधित्वात् । अर्थवादस्तु स्तावकत्वादङ्गम् । न चाङ्गेन प्रधानं बाधितुं शक्यम् । असञ्जात-विरोधित्वाच्च प्राबल्यम् । तच्चोपक्रमे श्रुतत्वात् । अर्थवादस्तु चरमश्रुत इति प्रथम-श्रुतानुसारेण लक्षणया नेयः । अप्राप्तार्थत्वाच्च प्राबल्यं विधेः । अर्थवादस्त्वनुवादतया प्राप्तार्थ इति दुर्बलः । तस्माद् येन केनचिदञ्जनमिति ।
सिद्धान्तस्तु । भवेदेवं यदि विध्यर्थवादयोर्विरोधः स्यात् । न चैवम् । तथाहि विधिः किं सामान्यबोधको विशेषबोधको वा ? नाद्यः । सामान्यस्याननुष्ठेयत्वात् । न द्वितीयः । तत्प्रत्यायकपदाभावात् । तस्मादुक्तरीत्या प्रबलोऽपि विधिः सामान्यबोध-कत्वात् तस्यानुष्ठानायोग्यत्वात् । अनुष्ठानयोग्यविशेषसन्देहजनकतया निर्णयहेतु-मर्थवादमपेक्षते । न तु तेन सह विरुध्यते । स्वबोध्यस्य सामान्यस्य विशेषेऽप्य-विकलत्वात् । नन्वर्थवादेपि एतस्य विधिर्नास्तीति चेन्न । विधेरुन्नेयत्वात् । तेजो वै घृतमिति घृतं तेजस्त्वेन स्तूयते । यत् स्तूयते तद् विधीयत इति न्यायाद् विधेयत्वं गम्यते । तेन च विधायकः शब्दः कल्प्यते । तथा च विध्यर्थवादयोर्विरोधाभावात् सामान्यविधेरार्थवादिकघृतविशेषपरत्वम् । तथा ‘एवं धर्मान्’ इति विशेषश्रुत्या किञ्चन-शब्दो विशेषपर इति भावः । उक्तमर्थं कारिकया सङ्गृह्णाति एवञ्चेति । अस्तु किञ्चन-शब्दस्य धर्मविशेषपर्यवसायित्वम् । ततः किं लब्धमित्यत आह– तथा चेति । विशेषबाधकसद्भावादिति भावः । विशिष्टविषयकविधिनिषेधयोर्विशेषणपरत्वं दृष्टमप्य-स्तीत्याह– लोहितेति । विशिष्टबाधने को दोष इत्यत आह– एकदेशेति । कल्प्यमाने उपपन्ने इत्यर्थः । तथा च गौरवमेव दोष इति भावः । अनेन सविशेषणे हीति न्यायस्य मूलभूता युक्तिरपि सूचिता भवतीति ।
न्यायामृतप्रकाशः
अनुभूतिर् ब्रह्म, हेत्वन्तरमाह– उपाधीति ॥ उपाधिभेदं विनाऽज्ञायमानभेदत्वा-दित्यर्थः । अनुभूतौ भेदो ज्ञायमानः पटानुभूतिर्घटानुभूतिरित्युपाधिभेदेनैव ज्ञायते न तमन्तरेण अतः स्वत एव भेदेनैवाज्ञायमानत्वादित्यर्थः । प्रत्युताऽस्मदुक्तमर्थमनङ्गीकृत्य सर्वजगन्निषेधाङ्गीकारे तवैवाप्रसक्तप्रतिषेध इत्याह– प्रत्युतेति ॥ नन्वस्तु नानाशब्दो भेदार्थस् तथापि प्रतियोगिविशेषानुपादानाद्भेदमात्रं ततः प्रतीयत इति भेदमात्रनिषेधः पर्यवस्यतीत्यत आह ॥ इहेति ॥ इदंशब्द एव प्रतियोगिविशेषोपस्थापक इत्यर्थः ।
ननु सप्तम्यन्तेदंशब्दस्याधिकरणपरत्वान्न तस्य प्रतियोग्युपस्थापकत्वमतो निषेध-प्रतियोगित्वेन जगदेवान्वेतीत्यत आह– इमाविति ॥ स्निग्धौ स्नेहवन्तौ । तत्रैकाधि-करणकैकप्रतियोगिक एव स्नेहः प्रतीयते न त्विदंशब्दनिर्दिष्टपुरुषद्वयभिन्नपुरुषप्रतियोगिकः । अथास्मिन् ग्रामे न विरोध इत्यत्र एतद्ग्रामाधिकरणकैतद्ग्रामस्थपुरुषप्रतियोगिक एवाविरोधः प्रतीयते न तु ग्रामान्तरस्थपुरुषप्रतियोगिक इत्यर्थः । तथा च इह ब्रह्मणीति सप्तम्यास्तृतीय त्वेन विपरिणामः । इह ब्रह्मणा स्वप्रतियोगिके भेद इति यावत्, नास्तीत्यर्थो द्रष्टव्यः । सर्वभेदनिषेधे स्वव्याहतिश्चेत्याह– विधेयेति ॥ विधेयेन नानात्वनिषेधेन उद्देश्यस्य तदाधार ब्रह्मणो भेदावश्यम्भावात् । अन्यथा विधेयत्वोद्देश्यत्वयोरयोगात् । तथा नानात्वस्य निषेध्यत्वं तदभावस्य निषेधत्वं च भेदं विना न युक्तमिति भावः ।
ननु तर्हीह ब्रह्मणि अस्माद्ब्रह्मणः सकाशान्नानात्वं नास्तीत्येतावतैव पूर्णत्वात्किञ्चन शब्दो व्यर्थः । तेन भेदमात्रनिषेधप्रतीतेरित्यत आह– किञ्चनेति ॥ आदिशब्देन पृथिव्या-द्यन्तर्यामित्वादिसङ्ग्रहः । ब्रह्मणि प्रसक्तानेकभेदपर एव किञ्चनशब्दो न भेदमात्रपर इत्यर्थः ॥ अन्यथेति ॥ किञ्चनशब्दस्य सर्वभेदपरत्वे इत्यर्थः ॥ उक्तेति ॥ विधेयोद्देश्यादि-भेदस्यावश्यकतया सर्वभेदनिषेधे व्याघात इत्युक्तेत्यर्थः । एवं नानाशब्दस्य भेदपरत्वमङ्गी कृत्योपपादितम् । इदानीं भवितृप्राधान्येन भिन्नवस्तुवाचित्वमभ्युपेत्याह– भवित्रिति ॥ प्रकृतेति ॥ पूर्वं प्रकृतेत्यर्थः । इह ब्रह्मणि धर्मावयवादिकं नाना भिन्नं नास्तीत्येवम्पर एव न तु भिन्नजगन्मात्रप्रतिषेधपर इत्यर्थः ।
सर्वनाम्नः प्रकृतपरत्वे उदाहरणमाह– सर्वेभ्य इति ॥ तत्र सर्वशब्दस्य प्रकृतस्वर्ग परत्वमेव न पश्वादिसर्वपरत्वमित्यर्थः । एतच्चोपपादितं प्राक् । उद्देश्यसमर्पकस्य प्रकृतपरत्व मुपपादयति– व्रीहीनिति ॥ ‘व्रीहीनवहन्ति’ इत्यत्र व्रीहीनुद्दिश्यावहननं विधीयते अत्रोद्देश्यसमर्पकं व्रीहिपदं ‘चतुरो मुष्टीन्निर्वपति’ इति चतुर्मुष्टिनिर्वपनीयतया पूर्वं प्रकृता अपूर्वसाधनीभूता एव ग्राह्या नान्ये गृहस्था इति निर्णीतमित्यर्थः । व्यक्तिविशेषवाचिनः शब्दस्य प्रकृतपरत्वं दृष्टमित्याह– आग्नेय्येति ॥ अग्निप्रकाशिकया ऋचा । आग्नीध्रम् अग्नि विशेषम् । तृतीयाध्याये द्वितीयपादे चिन्तितं ज्योतिष्टोमे ‘अग्न आयाहि वीतये गृणानो हव्यदातये । निहोता सत्सिबर्हिषि’ इत्याद्या आग्नेय्य ऋचः समाम्नाताः । तत्रैव श्रूयते ‘आग्नेय्या आग्नीध्रमुपतिष्ठते’ इति । तत्र सन्देहः किं यया कयाचिदग्निप्रतिपादिकया ऋचा आग्नीध्रोपस्थानं कर्तव्यम् उत प्रकृतानां मध्य एव यया कयाचिदिति । तृतीयया आग्नीध्रोप स्थाने करणतया आग्नेयीमन्त्रस्योक्तत्वेन विशेषानुपादानान्न प्रकृतपरत्वनियम इति पूर्वः पक्षः । अग्निर्देवता अस्येत्येवं सर्वनामघटितो यौगिकोऽयमाग्नेयीशब्दो ऽग्न आयाहीति पूर्वप्रकृतामेव व्यक्तिमालम्बते । सर्वनामशब्दानां तद्घटितशब्दानां च सन्निहितप्रकृतव्यक्ति-परत्वनिर्णयात् । अतः प्रकृतयैव आग्नेय्या ऋचा आग्नीध्रोपस्थानं कर्तव्यमिति सिद्धान्तः ।
विशेषशब्दसमभिव्याहृतसामान्यशब्दस्य प्रकृतविशेषपरत्वं दृष्टमित्याह– घृतेति ॥ प्रमाणलक्षणे नामधेयपादे चिन्तितं ‘सन्दिग्धे तु वाक्यशेषात्’ इत्यत्र ‘अक्ताः शर्करा उपदधाति तेजो वै घृतम्’ इति श्रूयते । तत्राक्ता इत्युक्तमञ्जनं द्रवद्द्रव्येणेति तावत्सिद्धम् । तद्द्रव्यं किं तैलजलाद्यन्यतमम् उत घृतमिति सन्देहे अक्ता इति सामान्यतः श्रवणाद् यत्किञ्चिज्जलाद्येवेति प्राप्ते अञ्जनसाधनं द्रव्यं घृतमेव । वाक्यशेषे तेजो वै घृतमिति विशेषतो घृतशब्दश्रवणात् । विशेषशब्दसन्निहितसामान्यशब्दस्य प्रकृतविशेषपरत्वात् । अतो घृतेनैवाञ्जनमिति सिद्धान्तः ।
एवं धर्मानित्युक्तां युक्तिं सङ्गृह्णाति– एवं चेति ॥ एवं धर्मानिति वाक्यशेषस्य भगव-द्धर्मस्वरूपविशेषपरत्वे सतीत्यर्थः । एवमुपपादनेन सिद्धं वाक्यार्थमाह– तथा चेति ॥ सविशेषणे हीति ॥ ‘सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्क्रामतो विशेष्यबाधे’ इति न्यायादिति भावः । विशिष्टविधेर्विशेषणोपसङ्क्रमणोदाहरणं दर्शयति– लोहितेति ॥ ऋत्विजां प्रचरणस्य सिद्धतया वैयर्थ्येनाविधेयत्वात्तदुष्णीषस्यापि सिद्धतया वैयर्थ्येनाविधेयत्वात्प्रचरताम् ऋत्विजामुष्णीषेषु लोहितत्वं विधीयत इत्यर्थः । नन्वत्र विशेष्यबाधः कथमिति चेदुच्यते । ‘प्रत्याम्नानाच्च वैयर्थ्यात्प्राप्तेरप्राप्तितस्तथा । बाधश्चतुर्विधः प्रोक्तः’ इति वचनात्, अत्र सिद्ध-त्वेन वैयर्थ्याद्बाधो द्रष्टव्यः । विशिष्टनिषेधस्य विशेषणोपसङ्क्रमणोदाहरणं दर्शयति– न जीर्णेति ॥ जीर्णत्वमलवत्त्वविशिष्टवासोनिषेधे नग्नस्यैवान्वयापत्त्या तस्य बाधेन स्नातक वाससि जीर्णत्वरूपं मलवत्त्वरूपं विशेषणं निषिध्यत इति द्रष्टव्यम् । अस्य विशेषण निषेधोदाहरणत्वसमर्थनं मत्कृतकर्मनिर्णयटिप्पण्यां द्रष्टव्यम् । एकदेशो विशेषणम् ॥ सर्वेति ॥ विशिष्टेत्यर्थः ।
न्यायकल्पलता
अनुभूतिरिति ॥ अनुभूतेरात्मरूपत्वादित्यर्थः ॥ उपाधिमिति ॥ घटानुभवः पटानु भव इत्यादिघटाद्युपाधिनिबन्धन एवानुभूतेर्भेदः प्रतीयते न तु केवलाया अनुभूतेरित्यर्थः ॥ एकमेवेति ॥ एवञ्च परस्यापसिद्धान्तप्रसक्तिरित्यर्थः ॥ प्रत्युतेति ॥ धर्मादिप्रपञ्चस्य लोकतोऽप्राप्तेस्तद्ग्राहकशास्त्रप्राप्तनिषेधे च तद्विरोध इत्यर्थः । नन्वस्तु नानाशब्दो भेदार्थ-स्तथापि प्रतियोगिविशेषानुपादानाद्भेदमात्रं ततः प्रतीयत इति भेदमात्रनिषेधः पर्यवस्यतीत्यत आह– इहेतीति ॥ सर्वनाम्नो बुद्धिस्थवाचकत्वादिदंशब्दः प्रतियोगिविषयोपस्थापक इत्यर्थः ।
ननु सप्तम्यन्तस्येदंशब्दस्याधिकरणपरत्वान्न तस्य प्रतियोग्युपस्थापकत्वमत आह– इमाविति ॥ ‘इमौ हरिहरौ निर्वैरौ स्निग्धौ च’ इत्यत्रेदंशब्दोपात्तयोर्हरिहरयोरेव स्नेहं प्रति परस्परधर्मित्वेन प्रतियोगित्वेन चान्वयवत् ‘अस्मिन्ग्रामे न विरोधः’ इत्यत्रापीदंशब्दोपात्त ग्रामस्थजनस्येव निषेध्यविरोधं प्रति इतरेतरधर्मित्वेन प्रतियोगित्वेन च सम्बन्धवच्चेदंशब्दो- पात्तस्य परमात्मन एव तथा धर्मित्वेन प्रतियोगित्वेन चान्वयसम्भवे इत्यर्थः । शाब्दी ह्याकांक्षा शब्देन शाम्यतीति न्यायात् । प्रकृतिप्रत्ययान्तप्रतियोग्युपस्थापकपदकल्पनापेक्षया सप्तम्यवरुद्धस्यापि श्रूयमाणस्येदंशब्दस्य षष्ट्यन्तविपरिणामेनापि तदुपस्थापकत्वकल्पने लाघवमिति भावः ॥ तदिति ॥ अश्रूयमाणेन तथान्वयकल्पने गौरवमित्यर्थः ।
नन्वत्र प्रतियोगिकल्पन एव न मानम् । तत्कथं श्रुताश्रुतप्रतियोगिकल्पनयोर्लाघवादि चिन्त्यत इत्याशङ्क्य भेदसामान्यनिषेधा•) सम्भवात्तत्कल्पनमावश्यकमित्याह– विधेयेति ॥ विधेयोद्देश्ययोर्भेदनिषेधे ब्रह्माधिष्ठानकभेदनिषेधासिद्धिर् ब्रह्मस्वरूपमात्रबोधनपर्यवसानं च स्यादित्यर्थः ॥ निषेध्येति ॥ नानात्वतन्निषेधयोरपि भेदनिषेधे नानात्त्वनिषेधस्य नानात्व निषेधनिषेधपर्यवसायितया नानात्वसमर्थनमेव कृतं स्यादित्यर्थः ॥ पूर्वत्रेति ॥ ‘यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति । तं देवाः सर्वे’ इत्यादौ पूर्ववाक्ये भेदः प्रतीयत इत्यर्थः ॥ मध्य इति ॥
‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानो भूतभव्यस्य न ततो विजुगुप्सते’ ॥ एतद्वै तत् ।
‘अङ्गुष्ठमात्रः पुरुषो ज्योतिरेवाधूमकः ।
ईशानो भूतभव्यस्य स एवाधस्ताद्य स उ श्वः’ ॥ एतद्वै तत् ।
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति ॥
‘यथोदकं शुद्धे शुद्धम्’ इत्यादौ भेदप्रतीतेस्तदनुसारेण तन्मध्यपतितं नेह नानेति वाक्यमपि न सर्वभेदनिषेधकं किन्तु ब्रह्मणि धर्मादिभेदं निषेधतीति वाच्यमित्यर्थः । तादृगेव भवति न तु तदेव भवति ।
उदकं तूदके सिक्तं मिश्रमेव यतो भवेत् ।
न चैतदेव भवति यतो वृद्धिः प्रदृश्यते ॥ इति वचनात् ।
एवं परमात्मानं विजानतः विलक्षणतया समाभ्यधिकराहित्येन सर्वोत्तमतया च जानतः साक्षात्कुर्वतो मुनेर्मननशीलस्यात्मा स्वरूपं तादृक् शुद्धं तत्प्रसादेन निवृत्ताविद्यावरण-माविर्भूतानन्दं च भवति । गोतमेति नचिकेतसं प्रति यमस्य सम्बुद्धिः । अथवा वचन-व्यत्ययेन विजानतां मुनीनामात्मा स्वामी हिरण्यगर्भोऽप्येवं तादृक् न तु तदभिन्नो भवति किम्वन्ये ज्ञानिन इत्यर्थः ।
नन्विह ब्रह्मणि अस्माद्ब्रह्मणो नानात्वं नास्तीत्येतावता पूर्णत्वेन शेषमसङ्गतमित्यत आह– किञ्चनेति ॥ ब्रह्मगुणादीनां ब्रह्मस्वरूपत्वेन ब्रह्मणि तद्भेदस्य वस्तुतो ब्रह्मभेदतया तदुपस्थितये किञ्चनशब्दः । परमते सर्वभेदोपस्थितये मम तु ब्रह्मणि गुणादिप्रतियोगिकसर्व भेदोपस्थितय इति विशेषः । अन्यथा परमतेऽपि तदसङ्गतिः स्यादिति भावः ॥ अन्य-थेति ॥ किञ्चनशब्दस्य सर्वभेदपरत्व इत्यर्थः ॥ उक्तेति ॥ विधेयोद्देश्यादिभेदस्यावश्य-कतया सर्वभेदनिषेधे व्याघात इत्यर्थः ॥ भवित्रिति । नानाशब्दस्य भिन्नवाचित्व इत्यर्थः ॥ प्रकृतेति ॥ इह ब्रह्मणि ज्ञानानन्दादिधर्मावयवादिकं नाना भिन्नं नास्तीत्येवम्परम् इति फलितोऽर्थः ।
अत्र चतुरो हेतुदृष्टान्तानाह– सर्वनामत्वादिति ॥ सर्वेभ्य इत्युपपादितम् ॥ उद्देश्येति ॥ ‘व्रीहिभिर्यजेत’ इत्यत्र व्रीहिशब्दस्य जातिपरत्वेऽपि मानान्तरप्राप्तस्यैवोद्देष्टव्यतया चतुर्मुष्टिनिरुप्ताः प्रकृतापूर्वसाधनीभूता व्रीहयो ‘व्रीहीनवहन्ति’ इत्यत्र व्रीहिशब्देन गृह्यन्त इत्यर्थः ॥ व्यक्तीति । गवादिशब्देभ्य इव जातिविशेषस्य किञ्चनेति शब्दादप्रतीतेरित्यर्थः ।
आग्नेय्येति ॥ तृतीयाध्याये द्वितीयपादे निर्णीतम् । ‘अधिकारे च मन्त्रविधिरतदाख्येषु शिष्टत्वात्’ इति । ज्योतिष्टोमे प्रथममाग्नेय्यैन्द्य्रादयः स्तोत्रशस्त्रादिसाधनत्वेन ‘अग्न आयाहि वीतये’ इत्येवमादयो विशेषरूपेण विहिताः । पुनश्च सामान्येनाग्नेय्याग्नीध्रमुतिष्ठत इत्येव -मादिषूपदिश्यन्ते । तत्र सन्देहः । किं तद्व्यतिरिक्ता ग्रहीतव्या उत ता वा अन्या वा ऋचः । अथवा ता एवेति त्रयः पक्षाः । तत्र प्रकृतानां कार्यान्तरोपयोगेन यातयामत्वाद-ग्रहणम् । अथवा सामान्यविधानमिदम् । तानि चाग्नेयीविशेषविधानानि । परिहृत्य च विशेषविधिविषयं सामान्यशास्त्राणि प्रवर्तन्ते । तस्मात्तद्व्यतिरिक्ता एवेत्याद्यः पक्षः । अथवा आग्नेयादिशब्दैरविशेषप्रत्ययो जायते । न चान्यत्प्रकृतग्रहणस्य क्षमं विशेषणं पश्यामः । प्रकरणस्य ग्राहकत्वेनाविशेषकत्वात् । सन्निधिलक्षणलौकिकप्रकरणस्य च यौगिक-श्रुतिजनितविशेषप्रत्ययेन बाध्यमानत्वात् । तस्मात्सर्वा एवेति द्वितीयः ।
सिद्धान्तस्तु । व्यक्तिशब्दोऽयम् । यौगिकत्वात् । ‘सर्वत्र यौगिकैः शब्दैर्व्यक्तिरेवाभि धीयते’ इति वार्तिकोक्तेः । न ह्यत्र जातिः काचित्प्रतीयते । नानारूपासु नानाछन्दस्का-स्वपि च देवतैकत्वमात्रेणाग्नेयादिशब्दप्रयोगात् । न हि ‘अग्न आयाहि वीतये, ‘अग्निं होतारं मन्ये दास्वन्तम्’ इत्यनयोर्देवताव्यतिरिक्तं किञ्चित्सामान्यं दृश्यते । देवतासम्बन्धमेव चैष न व्यभिचरति । व्यभिचरति तु ऋग्जातिम् । द्रव्यकर्मगुणादिष्वपि प्रयोगात् । तस्माद्व्यक्ति-शब्दोऽयम् ।
व्यक्तिवचनाश्च सन्निहितव्यक्तिपराः । तथा हि । ‘आग्नेय्याग्नीध्रमुपतिष्ठते’ इत्यत्र नाग्नीध्रस्वरूपप्रयुक्तमुपस्थानम् । प्रयोजनाभावात् । अतोऽवश्यं ज्योतिष्टोमकार्यविशेष साधनमेतदित्याश्रयितव्यम् । स च कार्यविशेषः सामान्यप्राप्तौ सत्यां शक्यो विधातुम् । तत्र यदि सामान्यविशेषसम्बन्धाभिधमेव वाक्यं कुर्यात्ततो भिद्येत । ननु चानेन विशेषमात्रमाग्रीध्र सम्बन्धः क्रियतां प्रकरणात्सामान्यसम्बन्धः सिद्ध्यति । सत्यम् । प्रकरणात्सिध्यति न तु श्रुतिम् अकल्पयित्वा । सा च श्रुतिः क्लृप्तायां सत्यां कल्पयितुं न शक्यते ।
ननु विशेषे विधीयमानेऽर्थात्सामान्यमन्तर्भविष्यति । सत्यम् । अर्थापत्तिरियम् । सा चान्यथानुपपत्त्या भवति । तद्यर्हीदं विशेषसम्बन्धवाक्यं सामान्यसम्बन्धश्रुतिम् अकल्प-यन्नोपपद्येत । ततः कल्पयेत् । उपपद्यते त्वस्य क्लृप्तसामान्यसम्बन्धास्वृक्षु स्वार्थमात्र-विधानम् । प्रकृतानामप्रकृतानाञ्च ग्रहणेऽपि एकत्र प्राप्तसामान्यानुवादेन विशेषमात्रकरणा-दन्यत्र च सामान्यविशेषकरणाद्वैरूप्यनिमित्तोऽपि वाक्यभेदः स्यात् । प्रकृतग्रहणे तु न कश्चिद्दोषः । तदुक्तं वार्तिके–
ऋजु(तु)कार्यविशेषोऽयं मन्त्रस्यास्योपदिश्यते ।
सामान्यप्राप्त्यपेक्षश्च विशेषो नित्यमिष्यते ॥ इति ।
आग्नेयीशब्दस्य यौगिकत्वेन विग्रहसमानार्थतया, विग्रहवाक्यस्य च अग्निर्देवताऽस्या इति सर्वनामघटितत्वेन सन्निहितविषयत्वादाग्नेयीशब्दोऽपि सन्निहितपर एवेति । अतः प्रकृतयैवोपस्थानं कर्तव्यमिति ॥ अक्ताशब्दवदिति । नामधेयपादे चिन्तितं ‘सन्दिग्धेषु तु वाक्यशेषात्’ इति । ‘अक्ताः शर्करा उपदधाति । तेजो वै घृतम्’ इति श्रूयते । तत्र शर्कराणाम् अञ्जनं घृततैलवसान्यतमेन द्रवद्रव्येण कर्तव्यमुत वाक्यशेषोपात्तघृतेन वेति विशये विधौ विशेषाश्रवणादर्थवादानुसारेण प्रधानस्य विधेर्नियमायोगादर्थवादस्य विध्यनुसारि-त्वाद्येन केनचिदञ्जनमित्यनियमः । अर्थवादस्थघृतशब्दस्तु विध्यनुरोधाद् द्रवद्रव्यमात्र-लक्षकोऽस्त्विति पूर्वपक्षे प्राप्ते विधावञ्जनक्रियाक्षिप्तद्रवद्रव्यसामान्यस्य घृतेऽपि सत्वा-न्निर्विशेषसामान्यानुष्ठानासम्भवेन किञ्चिद्विशेषपर्यवसानस्य विधिनैवापेक्षितत्वाद्वाक्यशेषोपात्ते विशेषे स्थिते सति विशेषान्तरकल्पनानैचित्याच्च विधेयस्तावकवाक्यशेषानुसाराद् घृतेनै-वाञ्जनमिति सिद्धान्तः ॥
तथा प्रकृतेऽपि ‘एवं धर्मान्’ इति वाक्यशेषे धर्मभेदश्रवणात् ‘नेह नाना’ इत्यत्र नानाशब्दोऽपि धर्मभेदपर एवेत्यर्थः । सङ्गृह्णति– एवं चेति ॥ नन्वेवमपि ब्रह्मणि धर्मनिषेधस्तवानिष्ट इत्यत आह– तथा चेति ॥ विशेष्यविधाने बाधकस्थलमुदाहरति– लोहितेति ॥ उष्णीषादेर्विध्यन्तरप्राप्तस्य नात्र विधानं सम्भवतीत्यर्थः । विशेष्यनिषेधे बाधकमुदाहरति– न जीर्णेति ॥ अत्र जीर्णमलवत्वविशिष्टवासोनिषेधे नग्नस्याप्यन्वयापत्ति र्बाधकमित्यर्थः । उक्तमर्थं सम्मतयति– अत एवेति ॥ एकदेशेति । अन्यथा स्वर्गी ध्वस्त इति प्रतीत्याऽऽत्मनोऽपि नाशप्रसङ्ग इत्यर्थः ।