किञ्च न तावद् ‘एकमेवाद्वितीयम्’ इत्यादिश्रुतिस्तत्र मानम्
३७. द्वैतप्रत्यक्षस्य अद्वैतश्रुतिबाधकत्वखण्डनभङ्गः
न्यायामृतं
किञ्च न तावद् ‘एकमेवाद्वितीयम्’ इत्यादिश्रुतिस्तत्र मानम् । शब्दस्य हि नापातप्रतीत एवार्थः, ‘आज्यैः स्तुवते,’ ‘आकाशादेव समुत्पद्यन्ते’ इत्यादेरपि चित्राज्याधिकरणाकाशाधिकरणपूर्वपक्षरीत्या घृतगगनाद्यर्थत्वस्य ‘अन्धो मणिम् अविन्दत्’ ‘मृदब्रवीत्’ इत्यादेरपि प्रतीतार्थपरत्वस्य च प्रसङ्गेन मीमांसावैयर्थ्यात् । ‘बिभेत्यल्पश्रुताद्वेदः’ इति स्मृतेश्च ‘कश्छन्दसां योगमावेद धीरः’ इति श्रुत्या च स्वार्थस्य गहनत्वोक्तेश्च । किन्तु मानान्तरेण पूर्वोत्तरेण चाऽविरुद्धः । उक्तं हि ‘शास्त्रं हि शब्दविज्ञानादसन्निकृष्टेऽर्थे विज्ञानम्’ इत्यत्र वार्तिके–
असन्निकृष्टवाचा च द्वयमत्र जिहासितम् ।
ताद्रूप्येण परिच्छेदस्तद्विपर्ययतोऽपि च ॥ इति ।
विषयाविषयौ ज्ञात्वा तेनोत्सर्गापवादयोः ।
बाधाबाधौ विवेक्तव्यौ न तु सामान्यदर्शनात् ॥
अन्य एवैकदेशेन शास्त्रस्यार्थः प्रतीयते ।
अन्यश्च परिपूर्णेन समस्ताङ्गोपसंहृतौ ॥ इति च ।
उक्तं च–
विरुद्धवत्प्रतीयन्ते आगमा यत्र ये मिथः ।
तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यते ॥ इति ।
अत्र च प्रत्यक्षादिविरोधः स्पष्टः ।
अद्वैतसिद्धिः
ननु– आपातप्रतिपन्न एव न तावत् श्रुत्यर्थः, ‘कश्छन्दसां योगमावेद धीरः’ इति श्रुत्या ‘बिभेत्यल्पश्रुताद्वेदः’ इति स्मृत्या च वेदार्थस्यातिगहनतोक्तेः, मीमांसावैयर्थ्यप्रसङ्गाच्च, किन्तु मानान्तरेण पूर्वोत्तरेण चाविरुद्ध एवार्थः । अविरोधग्रहणार्थं च मीमांसासाफल्यम् । अत एव ‘आज्यैः स्तुवते’ ‘आकाशादेव समुत्पद्यन्ते’ इत्यादावापातप्रतीतघृतगगनादि परित्यागेनाज्याकाशादिपदानां सामपरमात्माद्यर्थत्वं स्थापितं पूर्वोत्तरमीमांसयोश्चित्राकाशाद्यधि करणेषु, अन्यथा तत्तत्पूर्वपक्षाभ्युपगमापत्तेः, तथा चोक्तं वार्तिककारैः ‘शास्त्रं शब्द विज्ञानादसन्निकृष्टेऽर्थे विज्ञानम्’ इत्यत्र–
असन्निकृष्टवाचा च द्वयमत्र जिहासितम् ।
ताद्रूप्येण परिच्छेदस्तद्विपर्ययतोऽपि च ॥
विषयाविषयौ ज्ञात्वा तेनोत्सर्गापवादयोः ।
बाधाबाधौ विवेक्तव्यौ न तु सामान्यदर्शनात् ॥
अन्य एवैकदेशेन शास्त्रस्यार्थः प्रतीयते ।
अन्यस्तु परिपूर्णेन समस्ताङ्गोपसंहृतौ ॥ इति ।
अन्यत्राप्युक्तम्–
विरुद्धवत्प्रतीयन्त आगमा यत्र ये मिथः ।
तत्र दृष्टानुसारेण तेषामर्था विवक्षिताः ॥
इति । तथा च प्रत्यक्षादिविरोधात् पूर्वोत्तरविरोधाच्च नाद्वैतपरत्वम् ‘‘एकमेव’’ इत्यादि वाक्यानामिति चेन्न । द्वैतप्रत्यक्षस्य चन्द्रप्रादेशिकत्वप्रत्यक्षवत् सम्भाविताप्रामाण्यतया अद्वैतश्रुतिविरोधित्वाभावात् । यथा च श्रुत्या प्रत्यक्षं बाध्यते, तथा प्रपञ्चितमधस्तात् ।
न्यायामृततरङ्गिणी
‘एकमेवाद्वितीयम्’ इत्यादौ अद्वितीयादिशब्दैर्द्वितीयमात्रनिषेधाच्छ्रुतिर्मिथ्यात्वे मानमिति यदुक्तं तन्निषेधति– किञ्चेत्यादिना ॥ एकमेवेति ॥ इतिशब्दः प्रकार- वाची । तथा च एको द्रष्टा द्वैतो भवतीत्यादिश्रुतिरप्युदाहर्तव्या । तेन नाग्रिमेण सलिल इत्यादिनाऽसङ्गतिः । ननूक्तविधया मिथ्यात्वस्य ततोऽवगमात्कथं सा तत्र न मानमित्यत आह– शब्दस्येति ॥ आज्यैः स्तुवत इति ॥ आपातप्रतीत एव यदि शब्दार्थस्तर्हि आज्यैः स्तुवत इत्युत्पत्तिवाक्यगताज्यशब्दस्य घृतादिरेवार्थः स्यात् । तथा च पञ्चदशाज्यानीति गुणवाक्यमीमांसारूपविचारवैयर्थ्यं स्यात् । तेन ह्युत्पत्ति वाक्यगताज्यशब्दस्य स्तुतिनामधेयता सिध्यति । तथा हि । पञ्चदशान्याज्यानि भवन्तीत्यत्र न सङ्ख्याविशिष्टाज्यविधानं सम्भवति । वक्ष्यमाणदोषात् । किन्त्वा-ज्यानुवादेन सङ्ख्यामात्रविधानम् । तथा च स्तोत्रे घृतस्याप्राप्तत्वात्तदनुवादासम्भवा- त्स्तोत्रानुवादेनैव सङ्ख्या विधातव्या । तच्चाज्यशब्दस्य स्तोत्रवाचित्वेऽवकल्प्यते नान्यथेति गुणवाक्यालोचनेनैवाज्यादिपदम् उत्पत्तिगतं नामत्वेनाध्यवसीयते । आपात- प्रतीतस्य शब्दार्थत्वे तु नैतत्सम्भवतीत्यर्थः । आज्यसंज्ञकाभिः स्तुतिभिरिष्टं कुर्युरिति तदर्थः ।
चित्रेति ॥ प्रथमस्य चतुर्थपादे विचारितम् । ‘यस्मिन् गुणोपदेशः प्रधानतोऽ भिसम्बन्धः’ स्तोत्रप्रकरणे श्रूयते पञ्चदशान्याज्यानीति । तथा आज्यैः स्तुवत इति । अत्राज्यशब्दो गुणविधिः कर्मनामधेयं वेति संशये रूढिप्राबल्यात्पञ्चदश-सङ्ख्याविशिष्टघृतलक्षणगुणविधिः । नन्वाज्यस्य द्रव्यत्वादक्रियात्मनो विधिर्न सम्भवतीति चेन्न । अस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति स्मृत्याऽ-स्तिधातुर्भवन्तीशब्दवाच्यवर्तमानार्थलड्विभक्तिपरः प्रथमपुरुषसमानाधिकरण-युष्मदस्मदतिरिक्तोपपदे सत्यप्रयुज्यमानोऽप्यस्तीत्यनुशासनादस्तिभवत्योश्चैकार्थत्वाद् भवत्यध्याहारेण सत्तारूपक्रियालाभात् ।
नन्वेवमपि विधायकाश्रवणान्न गुणविधित्वमिति चेन्न । प्रयोगवचनाद्विधिरव-गम्यते । स्तोमेडविधिः पञ्चदशाद्यर्थ इति स्मृत्या डप्रत्ययान्तस्य पञ्चदशशब्दस्य स्तुतेर्मानं स्तोम इति स्तोत्रियस्य ऋक्सङ्ख्यावाचित्वात्तत्समानाधिकरणाज्यपदस्य न घृतवाचिता युक्तेति चेन्न । स्तुतेः साधनद्वारेण सङ्ख्यात्मकमानपरिच्छेद्यत्वात् । श्रुतिसाधनपरिच्छेदिकायाः सङ्ख्यायाः स्तुतिमानत्वेन स्तोमत्वात् । ऋचामिव घृतस्यापि रथघोषवदुपस्थापकतया स्तुतिसाधनत्वोपपत्तेर्डप्रत्ययाविरोधः । न हि स्तोत्रसाधनानामेव ऋचां परिच्छेदिका सङ्ख्या स्तोमशब्दवाच्या न साधनान्तर-परिच्छेदिकेति राज्ञामाज्ञा ।
नन्वेवं स्तोत्रस्य स्तोमशब्दवाच्यतया साधनसङ्ख्यया परिच्छेद्यत्वार्थं घृतादीनां स्तोत्रसाधनत्वं वक्तुम् आज्यवन्तीति वक्तव्यम् । तथा च मत्वर्थलक्षणाप्रसङ्ग इति चेत् । न । विधौ मत्वर्थलक्षणापत्तेः । श्रुतवाक्यगतेन विधिना सहाज्यस्य संयोगाभावात् । स्तोत्रप्रकरणे यत्पञ्चदशानीत्यादिगुणवाक्याम्नानं तदनुमितेन पञ्चदशसङ्ख्याविशिष्टाज्यैः स्तोत्रस्योपकर्तव्यमित्यादिवाक्येन कृतो यः स्तोत्राज्य-सम्बन्धस् तत्पूर्वकः प्रयोगवचनेन विधिराश्रयितव्यः । तेन च मत्वर्थ एव प्रतिपाद्यत इति न लक्षणा । तदुक्तं वार्तिके ।
श्रूयमाणस्य वाक्यस्य न्यूनाधिकविकल्पने ।
लक्षणावाक्यभेदादिदोषो नानुमितो ह्यसौ ॥ इति ।
घृतस्य द्रव्यात्मकत्वेऽपि भवत्युपपन्ना सत्ता प्रकरणग्राह्या भविष्यति । ननु धातु वाच्यत्वमात्रेण सत्तायाः क्रियात्वेऽपि चेतनक्रियात्वाभावेनाननुष्ठेयत्वान्न प्रकरण ग्राह्यता सम्भवतीति चेन्न । सत्तायाः स्वरूपेणाननुष्ठेयत्वेऽप्यङ्गत्वेन स्तोत्र-सामीप्यावगमात्तस्य च सन्निधिस्थापनापाद्यरूपत्वात्तेन रूपेणानुष्ठेयत्वं भविष्यति संसर्गिद्रव्यत्वाद् आज्यानां स्वरूपेण सङ्ख्यायोगाभावेऽपि पञ्चदशाज्यपात्राणि समीपे निधाय स्तोत्रं कर्तव्यम् । यथाग्निमुपसमाधाय स्तुवत इत्यत्राग्निः सत्तामात्रे-णोपकरोति तद्वत् । साधकतमत्वविवक्षयोत्पत्तिवाक्येऽनुवादार्थं तृतीयानिर्देशोपपत्तिः । न चोत्पत्तिवाक्ये आज्यानुवादोऽनर्थकः । प्रशस्तमिदं स्तोत्रं यत्क्रियमाणम् आज्य-सन्निधियुक्तं भवतीत्येवं स्तोत्रप्रशंस्यार्थत्वेनानुवादसाफल्यात् । तस्माद्गुणविधिरिति पूर्वः पक्षः ।
सिद्धान्तस्तु । स्तोत्रेषु द्रव्यसङ्ख्ययोरुभयोरप्राप्तत्वान्नान्यतरानुवादेनेतरविधि सम्भवः । न च कर्मान्तरेषु प्राप्तस्याज्यस्यानुवादेन सङ्ख्याविधानं न सम्भवति । कर्मान्तरस्य स्तोत्रप्रकरणे बुद्धिस्थत्वाभावात् स्तोत्रप्रकरणबाधश्च स्यात् । आज्य स्वरूपानुवादेन सङ्ख्याविधौ च द्रव्याङ्गत्वापत्तेरकर्माङ्गत्वप्रसङ्गेनानर्थक्यापत्तेश्च । सङ्ख्याविशिष्टद्रव्यविधानेऽपि सङ्ख्याया द्रव्यविशेषणत्वेन अकर्माङ्गत्वं स्यात् । सङ्ख्याया द्रव्यविशेषणत्वे क्रियाविशेषणत्वाभावेन अविधेयत्वापत्तिश्च । पश्वेक-त्वादेस्तु विधेयक्रियोपादानात्सङ्ख्यायाश्चैकप्रत्ययोपादानलक्षणया श्रुत्या एकपदो पादानलक्षणश्रुतिगम्यप्रातिपदिकार्थाङ्गत्वबोधेन कारकाङ्गत्वावगतेस्तद्द्वारेण क्रियाङ्गत्वा वश्यम्भावात् क्रियाङ्गत्वेन च विधेयत्वम् । न चेह क्रियास्ति । क्रियाभावादेवा क्रियात्मकत्वेन स्तोत्रप्रकरणग्राह्यत्वानुपपत्तेरानर्थ्यक्यापातः । तदुक्तं वार्तिके ।
नावान्तरक्रियायोगादृते वाक्योपकल्पितात् ।
गुणद्रव्यैः कथं भावैर्गृह्णन्ति प्रकृताः क्रियाः ॥ इति ।
भवतिक्रियाया अनुशासनसिद्धत्वेऽपि न तां प्रति द्रव्यसङ्ख्ययोरङ्गत्वं सम्भवति । क्रियासिद्धौ व्याप्तिप्रमाणं कारकं क्रियाङ्गं भवति सत्तासिद्धिवेलायां चालब्धात्म-कत्वान्न व्यापारः सम्भवति । तथा च द्रव्यसङ्ख्ययोर्भवनक्रियाङ्गत्वेन न तद्द्वारा प्रकरणेन ग्रहणं सम्भवति । ननु आज्यसत्तायाः स्वतः सिद्धत्वेन तस्य तां प्रत्यनङ्गत्वेऽपि स्तोत्रसामीप्यासिद्धेस्तेन रूपेण विधेयत्वादङ्गत्वं भविष्यतीति । मैवम् । सामीप्यस्याश्रुतत्वात्स्तोत्राङ्गत्वेन तत्सामीप्यकल्पनम् । सामीप्यसम्पादन-रूपेण चाविधेयतयाङ्गत्वमितीतरेतराश्रयत्वम् । अग्निमुपसमाधायेति च स्पष्टं विधानम्, आत्मलाभव्यतिरिक्ता चेयं क्रिया शक्यते कथं भावेन ग्रहीतुम् । ननु आग्नेयोऽष्टाकपालो भवतीत्यादाविवावश्यकल्पनीय‘भवति’वाच्यप्रयोज्यव्यापाररूप भावनाक्षिप्तप्रयोजकव्यापाररूपभावनाविध्यन्यथानुपपत्त्या पञ्चदशसङ्ख्याकैराज्यैः स्तोत्रोपकारं भावयेदिति विनियोजकवाक्यकल्पनया आज्यानां स्तोत्रसम्बन्धसिद्धेः श्रुतस्य वाक्यस्य सङ्ख्यासम्बन्धमात्रविधानान्न वाक्यभेद इति चेत् ।
न । सिद्धान्तेन वाक्यस्यान्यथोपपन्नत्वेनान्यथानुपपत्त्यभावेन विधेरकल्पनात् । आग्नेयादौ तु प्रकारान्तरेण विधिसिद्धिः । यदि च वाक्यभेदपरिहारायोत्पत्तिवाक्य- विहिताज्यानुवादेन पञ्चदशत्वं गुणो विधीयेत ततः सामानाधिकरण्यसिध्द्यर्थम् आज्य शब्देन मत्वर्थलक्षणया विहितेष्वाज्येषु गुणविध्यापत्तेर्लक्षणैव दोषः । तस्मान्ना-मधेयम् आाज्यशब्दः । अन्वाख्यानरूपार्थवादाच्च नामत्वम् । तथा हि । ‘प्रजापति- र्देवेभ्य आत्मानं यज्ञं कृत्वा प्रायच्छत्तेन्योन्यस्मा अग्राय नातिष्ठन्त । तानब्र-वीदाजिम् अस्मिन्नितेति त आजिमायन् यदाजिमायुस्तदाज्यानामाज्यत्वमिति स इन्द्रो निर्वेद अग्निर्वा इदमग्रे उज्जेष्यतीति अस्मिन्यज्ञे काष्टां गच्छत’ इति प्रजापति-वचनात् । एतानि स्तोत्राणि काष्टां कृत्वा यस्मादाजिं गता देवास् तस्मादाज्यार्ह-त्वादेतेषाम् आज्यत्वमित्यर्थः । तदुक्तं वार्तिके ।
गुणवाक्योपपत्त्यर्थं समभिव्याहृतेन च ।
अनाख्यानार्थवादाच्च नामधेयत्वमाश्रितम् ॥ इति ।
समभिव्याहारः सामानाधिकरण्यम् । उदाहृतसूत्रार्थस्तु । यस्मिन् गुणविधिः कर्मनामधेयमिति सन्दिग्धे गुणोपदेशः गुणपर उपदिश्यते तस्य प्रधानेन सम्बन्धः कर्मनामधेयमित्यर्थ इति भाष्यकारोक्तो न युक्तः । नामधेयत्वप्रतिज्ञायाः पूर्व सूत्रोक्ताया एव अनुषङ्गसम्भवात् । प्रधानपदस्य च कर्मपरत्वे लक्षणाप्रसङ्गात् । कर्म सम्बन्धस्य च गुणविधावप्यनुपपत्तेर् नामधेयत्वावगमकत्वात्सहार्थे च तसि प्रयोगा दर्शनेनासाधुत्वापत्तेः । तस्मात्प्रधानतोऽभिसम्बन्ध इत्यस्य प्रधानद्वारा नैकेषां गुणानाम् अनेकविशेषणविधिप्रसवसमर्थेनैकेन विधिना सम्बन्धो भवति । न चात्र प्रधानभूतं कर्म त्वत्पक्षे विधीयत इत्येवं वार्तिककारोक्तार्थः साधुः ।
आकाशेति ॥ ब्रह्ममीमांसायां प्रथमाध्यायस्य प्रथमपादे विचारितम् । ‘आकाशस्तल्लिङ्गात्’ । छान्दोग्ये श्रूयते ‘त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवाहणो जैबिलिरिति । ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति । तथेति ह समुपविविशुः । स ह प्रवाहणो जैबिलिरुवाच । भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामीति । सः शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच । हन्त त्वा पृच्छानीति । पृच्छेति होवाच । का साम्नो गतिरिति । स्वर इति होवाच । स्वरस्य का गतिरिति प्राण इति होवाच । प्राणस्य का गतिरिति । अन्नमिति होवाच । अन्नस्य का गतिरिति । आप इति होवाच । अपां का गतिरित्यसौ लोक इति होवाच । अमुष्य लोकस्य का गतिरिति शिलकेन दाल्भ्यं प्रति पृष्टे स्वर्गलोकस्य गतिर्नास्तीति दाल्भ्येनोत्तरितेऽप्रतिष्ठितं वै किल ते दाल्भ्य सामेति शिलकेन दूषिते सति दाल्भ्येन पुनः शिलके पृष्टेऽमुष्य लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य का गतिरिति दाल्भ्येन शिलके पृष्टे पृथिवीलोकस्य गतिर्नास्तीति शिलकेनोक्ते तव द्वैकिल ते सामेति जैबिलिना शिलके दूषिते सति शिलकेन जैबिलिः पृष्टः सन्नुवाचास्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणं स एष परोवरी-यानुद्गीथः स एषोऽनन्तः’’ इति ॥
अत्राकाशशब्दो भूतविशेषो वा परमात्मा वेति विशये प्रसिद्धेर्भूतमेवेति प्राप्ते सर्वाश्रयत्वपरोवरीयस्त्वादिलिङ्गात्परमात्मैवेति सिद्धान्तितम् ॥ गगनेति ॥ आकाश इति होवाचेत्यत्र विचार्यमाणाकाशशब्दसमानन्यायतया आकाशादेव समुत्पद्यन्त इति हेतुनिष्ठाकाशशब्दोऽपि गगनपर एवेति पूर्वपक्षी मन्यत इत्यर्थः ॥ अन्ध इति ॥ अन्धमृदोर्मणिज्ञानवचनाभावप्रत्यक्षं तु अनेन वचनेन बाध्येत । अतात्विकार्थं वा कल्प्येतेति स्यादित्यर्थः । सावित्रादिषु क्षुद्रचयनेषु मध्ये आरुणकेतुकाख्यचयनस्य प्रतिपादके तैत्तिरीयारण्यकस्य प्रथमप्रपाठके पठ्यते ।
‘अन्धो मणिमविन्दत्तमनङ्गुलिरावयत् । अग्रीवः प्रत्यमुञ्चत् तमजिह्वो असश्च्यत’ इति । अत्रान्ध इत्यादिवाक्यचतुष्टयस्यापातप्रतीतोऽर्थो बाधितः । लोके हि पुरुष-श्चक्षुषा मणिं दृष्ट्वा तमङ्गुलिभिस्तन्तुना आवीय ग्रीवायां प्रतिमुच्य जिह्वया प्रशंसति । न चान्धादेश्चक्षुरादिना दर्शनादिकं सम्भवति । उत्तरसन्दर्भानुसारेण तु तात्पर्यावधारणे सत्यबाधितोऽर्थो भवति । तथा हि । अन्धादिवाक्यानन्तरम् ‘ऊर्ध्वमूलम् अवाक्शाखं वृक्षं यो वेद सम्प्रति’ इत्यादिना संसारस्य भगवदधीनत्वं व्रश्चनयोग्यत्वेन वृक्षत्वं तद्विदो मृत्युभयाभावं चोक्त्वा ‘हसितं रुदितं गीतं वीणापणवलासितम्’ इत्यादिना शरीरस्यापि भगवदधीनत्वमुक्त्वा तस्मिन् शरीरे प्रविष्टस्य जीवस्य स्वतोऽज्ञानाद्यशक्तस्य परमात्मदत्तेन्द्रियस्य ज्ञातृत्वादिकमुच्यते । अचेता इत्यादि-वाक्येष्वचेता यस्तु चेतनः स तं मणिमविन्दत् सोऽनङ्गुलिरावयत् सोऽग्रीवः प्रत्यमुञ्चत् सोऽजिह्वोऽसश्च्यतेति । असश्च्यत प्राशंसत् । यथाऽन्धादि वाक्यस्याप्या-पातप्रतीतो नार्थस्तथाद्वैतवाक्यानामपीत्यर्थः । श्रुतेरापातप्रतीतार्थपरत्वे स्मृतिविरोध-मप्याह– बिभेतीति ॥
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं चालयिष्यति ॥ इति स्मृतिः ।
श्रुतिविरोधं चाह– कश्छन्दसामिति ॥ ‘कश्छन्दसां योगमावेद धीरः को धिष्ण्यां प्रति वाचं पपाद’ । को धीरो धीमाञ्छन्दसां वेदानां योगं पदार्थेषु वाच्य वाचकभावसम्बन्धम् आवेद न कोऽपीत्यर्थः । को वा धिष्ण्यां बुद्धिपूर्विकाम् । यद्वा धिष्ण्यं स्थानं तद्वत् स्थिराम् । नित्यामिति यावत् । एवम्भूतां वाचं प्रतिपपाद प्रतिपादितवान् । कृतवानिति यावत् । न कोऽपि । वाचो नित्यत्वादित्यर्थः । माधवीये तु छन्दसां गायत्र्यादीनां योगं स्तुतशस्त्रात्मना विनियोगमावेद न कोऽपीत्यर्थः । को वा धिष्ण्यां होत्रादीनां सप्तस्थानानि प्रतिपपादेति व्याख्यातम् । ततोऽपि वेदार्थस्य गहनत्वमेव प्रतीयत इति ॥ उक्तं हीति ॥ चोदनालक्षणोऽर्थो धर्म इति प्रस्तुतां चोदनां लिलक्षयिषता भाष्यकारेण–
प्रत्यक्षाद्युपयोगं तु वर्णमात्रादितः पुरः ।
शास्त्रार्थज्ञानवेलायां मत्वा तल्लक्षणं कृतम् ॥ इति ॥
वार्तिककारोक्तसङ्गत्या प्रत्यक्षादिकं लक्षयित्वा चोदना चोपदेशश्च शास्त्रमेवेत्युदा- हृतमिति वार्तिकोक्तरीत्या चोदनाशब्दोदितं शास्त्रं लक्षितं ‘शास्त्रं हि शब्दविज्ञानात्’ इत्यादिना । अत्र शब्दार्थशब्दौ विशेषणरहितावपि विशिष्टशब्दार्थपरौ । विधायकशब्दे शब्दशब्दो विधेयेऽर्थे अर्थशब्द इति । तदुक्तं वार्तिके ।
यथा च चोदनाशब्दो वैदिक्यामेव वर्तते ।
शब्दज्ञानार्थविज्ञानशब्दौ शास्त्रे तथा स्थितौ ॥ इति ।
तथा च विधायकशब्दविज्ञानादसन्निकृष्टे विधेयेऽर्थे विज्ञानं शास्त्रमित्युक्तं भवति । प्रत्यक्षवच्चात्रापि शब्दतज्ज्ञानादिषु विवक्षातः प्रामाण्यं ज्ञातव्यम् । न तु ज्ञानमेव शास्त्रमिति काशिकाकारः । एवं स्थिते शास्त्रलक्षणे को वा असन्निकृष्टशब्दार्थ इत्यत उक्तं वार्तिककृता असन्निकृष्टवाचेत्यादि । प्रमितोऽर्थो विपरीततया प्रमितश्चार्थः सन्निकृष्ट इत्यभिधीयते । तद्भिन्ने शब्दः प्रमाणमित्यर्थः । अत एवैतदुत्तरं वार्तिकम् ।
प्रमितस्य प्रमाणे हि नापेक्षा जायते पुनः ।
ताद्रूप्येण परिच्छिन्ने प्रमाणं निष्फलं परम् ।
विपरीतपरिच्छिन्ने नावकाशः परस्य तु ।
मूले तस्य ह्यनुत्पन्ने पूर्वेण विषयो हृतः ॥ इति ।
यद्यपि ‘शास्त्रं हि शब्दविज्ञानात्’ इत्याद्युक्तभाष्यव्याख्याने ‘असन्निकृष्टवाचा’ इत्यादि वार्तिकं न पठ्यते किन्तु ‘अनुमानं ज्ञातसम्बन्धस्यैकदेशदर्शनाद्देशान्तरेऽसन्नि- कृष्टेऽर्थे बुद्धिः’ इत्यनुमानलक्षणभाष्यव्याख्याने एतद्वाक्यं पठ्यते । तथापि शास्त्र लक्षणभाष्येऽप्यसन्निकृष्टस्य शब्दस्य सत्त्वेनानुमानलक्षणभाष्यस्थासन्निकृष्टशब्दस्यार्थो- ऽत्रापि शास्त्रलक्षणभाष्यस्थासन्निकृष्टशब्दार्थतया ग्राह्य इत्यभिप्रायेण शब्दप्रस्तावाच्च तथोक्तमित्यदोष इति सहृदयैराकलनीयम् । ‘सत्यमन्त्रा ऋजूयवः’ ‘तं रोदसी पिपृृतं सत्यवाचं, ‘ते सत्येन मनसा दीध्यानाः, ते सत्येन मनसा गोपतिं गा अभिष्टि-कृज्जायते सत्यशुष्मः, सत्याः, सोमा अभवन्नस्य विश्वे सत्या भवन्त्वाशिषो नो अद्य, सत्याः सन्तु यजमानस्य कामाः’ इत्यादिविशिष्य सत्यत्वबोधकानेकश्रुति विरोधात्सामान्यतो द्वितीयनिषेधकश्रुतेर्भूतसामान्यहिंसानिषेधदैक्षपश्वालम्भश्रुतिवदुत्स र्गापवादन्यायेन व्यवस्थितविषयत्वमाश्रयणीयमित्यभिसन्धायोक्तार्थे स्मृतिपादीय वार्तिकमुदाहरति– विषयेति ॥ एतद्वार्तिकात्प्रागप्युक्तं–
उत्सर्गश्चापवादश्च सर्वत्रैवोपलभ्यते ।
तत्र नोत्सर्गमात्रेण सर्वमेवावरुध्यते ॥ इति ।
उत्तरत्राप्युक्तं–
यो हि सामान्यदृष्टेन व्यवहारं निनीषति ।
तृष्णाच्छेदो भवेत्तस्य मृगतृष्णाजलैरपि ॥ इति ।
ननु विरोधबीजाद् द्वैतवाक्योपस्थितेः प्रागेवाद्वैतवाक्यं सर्वाद्वैतं बोधयिष्यती त्याशङ्कमानस्य न भक्षयेदित्यादौ न पदोपस्थितेः प्रागेव भक्षणमपि शास्त्रार्थः स्यादित्युत्तरं हृदि निधाय तत्र कर्त्रधिकरणवार्तिके संमतित्वेनोदाहृतं वृद्धानां वार्तिकं संवादयति– अन्य एवेति ॥ अङ्गं शब्दैकदेशरूपावयवा इति राणकव्याख्या । एतद्वार्तिकात्प्रागापि तत्रैवोक्तम्–
सर्वाण्येव हि शास्त्राणि स्वप्रदेशान्तरैः सह ।
एकवाक्यतया युक्तमुपदेशं प्रतन्वते ।
यदि शास्त्रैकदेशालोचनेन तद्विरुद्धत्वमभ्युपगम्य शब्दविरोध उद्भाव्यते तदा ‘सुरा न पातव्या’ इत्यस्याप्येकदेशेन पानं विहितम् अङ्गीकुर्वंच्छास्त्रविरुद्धं कुर्यात्तथा भिन्न वाक्येषु यावज्जीवम् अग्निहोत्रं जुहोतीत्यादिमन्त्रापेक्षयाऽदीक्षितोऽप्यजुह्वत्प्रत्यवेयादिति ।
न्यायामृतकण्टकोद्धारः
एवं सामान्याकारेण मिथ्यात्वेऽद्वैतश्रुतिमानतां निरस्य विशेषतोऽपि निराकरिष्यन् ‘एकमेवाद्वितीयम्’ इति श्रुतेर्मिथ्यात्वपरत्वं निराकरोति किञ्चेति । अत्र प्रष्टव्यम् । ‘एकमेवाद्वितीयम्’ इत्यादिश्रुतीनामविचारपूर्वकमापातत एव प्रमितिमात्रेण मिथ्यात्व-परत्वम् उत पूर्वोत्तराविरोधेन प्रमाणान्तराविरोधेन चेति । आद्य आह शब्दस्य हीति । आपातप्रतीतः पूर्वोत्तराविरोधप्रमाणान्तराविरोधाद्यविचारेण प्रतीत इत्यर्थः । आज्यैः स्तुवत इति । प्रमाणलक्षणे चतुर्थपादे तृतीयाधिकरणे चिन्तितम् । ‘यस्मिन् गुणोपदेशः प्रधानतोऽभिसम्बन्धः’ । अत्र ‘चित्रया यजेत पशुकामः, पञ्चदशान्याज्यानि । सप्तदश पृष्ठानि’ उदाहरणम् । न चोत्पत्तिवाक्यम् ‘आज्यैः स्तुवते’ इत्यादि । तत्परित्यज्य तत्प्रकरणे श्रुतं गुणवाक्यं किमर्थमुदाह्रियत इति वाच्यम् । उत्पत्तिवाक्ये पक्षद्वयेऽपि निर्णयकारणाभावाद्गुणवाक्याधीननिर्णयत्वात् तदेवोदाहरणमङ्गीक्रियते । तथा हि । ‘आज्यैः स्तुवते’ इत्युत्पत्तिवाक्ये न तावद् गुणविधानं सम्भवति । घृतस्य स्तोत्राङ्गत्वा-भावात् । न च तेन मन्त्रा लक्षणीयाः । मन्त्राणां घृतसम्बन्धानवगमात् । अनेनैव तत्सम्बन्धबोधने गौरवम् । न वा नामधेयत्वम् । रूढत्वात् । तस्माद् गुणवाक्य एव विचारः ।
अत्र चित्राज्यादिशब्दः किं गुणविधयः कर्मनामधेयं वेति । तदर्थमिदं विचार्यते किं तत्र गुणविधाने वाक्यभेदोऽस्ति न वेति । किं तावत् प्राप्तम् ? चित्राज्यादिशब्दा गुणविधय इति । न चोद्भिन्न्यायेन कर्मनामत्वमिति वाच्यम् । रूढत्वेन कर्मनामत्वासम्भवात् । उद्भिदादौ यौगिकत्वेन कर्मनामत्वसम्भवाद्वैषम्यम् । न च ‘सोमेन यजेत’ इत्यत्र सोमवतेतिवन्मत्वर्थलक्षणादोष इति वाच्यम् । तत्रैकवाक्यत्वेन वैयधिकरण्येनान्वये विरुद्धत्रिकद्वयापातेन मत्वर्थलक्षणाश्रयणेऽपि प्रकृत उत्पत्तिवाक्ये करणत्वेनार्थाक्षिप्तं यत् साध्यत्वं तदनुवादेन वैयधिकरण्येन गुणविधानेन तद्दोषाभावात् । एवं च चित्रया यजेतेत्यत्राग्नीषोेमीय यागानुवादेन चित्रत्वस्त्रीत्वे विधीयेते । पञ्चदशान्याज्यानीत्यत्रापि आज्यैः स्तुवत इत्युत्पत्तिवाक्यावगतस्तोत्राङ्गतयाऽऽज्यसङ्ख्ये विधीयते ।
न चैवं सति वाक्यभेदः । ‘चित्रया यजेत’ इत्यत्र चित्रत्वस्त्रीत्वविशिष्टैककारक-विधानेन पशुनेतिवद् एककारकोपात्तत्वेनवाक्य भेदाभावात् । न चैवं सति पशुकामपदायोग इति वाच्यम् । पशुसाधनकत्वादग्नीषोमीययागस्य यागाङ्गतया प्राप्तकाम-नानुवादरूपत्वेन दोषाभावात् । पञ्चदशाज्यानीत्यत्रापि सङ्ख्याविशिष्टघृतविधानाद् वाक्यभेदायोगः । एवं चाज्यैः स्तुवत इत्यत्राज्यपदमुत्पत्तिवाक्यप्राप्तगुणानुवादकम् । न नामधेयम् । न चाज्यस्य कथं पञ्चदशत्वम् । कथं च स्तोत्राङ्गत्वमिति वाच्यम् । यथाग्निमुपनिधाय स्तुवत इत्यत्राग्नीनां पुरोनिधानेनेवाज्यानामपि तत्कालसन्निधापनेन स्तोत्राङ्गत्वसम्भवात् । पात्रभेदमादाय सङ्क्याविशिष्टसम्भवाच्च । तस्माद् आज्यादिपदं न नामधेयं किन्तु गुणविधिरिति ।
अत्रोच्यते । चित्रया यजेतेत्यत्र न तावदग्नीषोमीययागानुवादेन चित्रत्वस्त्रीत्वे विधीयेते । प्राप्तकर्मानुवादेनानेकगुणविधाने वाक्यभेदप्रसङ्गात् । अन्यथाऽऽग्नेयोऽष्टाकपाल इत्यत्रापि तदभावप्रसङ्गः । न च विशिष्टकारकविधानाददोष इति वाच्यम् । विशिष्ट-विधानेऽपि गौरवापरिहारात् । अन्यत्रागतिकत्वाद् विशिष्टविधानम् । किं च कामपदं फले मुख्यम् । साधने च गौणमभ्युपगतं स्यात् । न च मुख्ये सम्भवति अमुख्यं युज्यते । अपि च दधिमधुघृतं पयोधाना उदकं तण्डुलास्तत्संसृष्टं प्राजापत्यमिति प्रकृतो यागः फलाकांक्षी । अयं च करणाकाङ्क्षी । एवं चान्योन्याकाङ्क्षालक्षणेन प्रकरणेन प्रकृतयागस्य फलान्वये सम्भवति अप्रकृतयागान्वयानुपपत्तेः । तस्मात् ‘चित्रया यजेत’ इत्यनेन प्रकृतयाग एव फलविधानम् । चित्रापदं च सामानाधिकरण्येन यागनामधेयम् । चित्रापदं च चित्रद्रव्यकत्वाद् यागे युज्यते । सोमेनेत्यत्र रूढिबाधकवाक्यभेदादेरभावात्तत्र मत्वर्थ-लक्षणया द्रव्यविधिपर्यवसानम् । प्रकृते रूढिबाधकवाक्यभेदादेः सत्वान् नामधेयत्वमेव । एवं पञ्चदशाज्यानीत्यत्र द्रव्यसङ्ख्ययोर्विधाने वाक्यभेद एव ।
न च सङ्ख्याविशिष्टद्रव्यविधानात् तदभाव इति वाच्यम् । समासकारकाभावेन विशिष्टप्रतीत्यभावात् । तस्माद् आज्यानुवादेन सङ्ख्यामात्रं विधेयम् । इदं च तदा स्याद् यदि उत्पत्तावाज्यपदं नामधेयं स्यान् नान्यथेति गुणवाक्यवशादेवोत्पत्तौ नामत्वं विज्ञायते । किञ्चाज्यैः स्तुवत इति सामानाधिकरण्यान्नामत्वम् । यदाजिमीयुरिति वाक्यशेषाच्च नामत्वं युक्तम् । द्रव्यपरत्वे तद्विरोधात् । तस्मादाज्यपदमुत्पत्तौ नामधेय-मिति चित्राज्याधिकरणम् ।
आकाशाधिकरणं चाकाशस्तल्लिङ्गादिति प्रकृतब्रह्ममीमांसायामेव । एवं चापातप्रतीत एव यदि वाक्यार्थः स्यात् तर्ह्यतिप्रसङ्ग इति भावः । अन्ध इति । तत्र विन्दतिर्दर्शनार्थे । धातूनाम् अनेकार्थत्वात् । तथा च प्रतीतोऽर्थो विरुद्ध इति भावः । मृदब्रवीदित्यस्य च निर्णयार्थम् अभिमान्यधिकरणं स्पष्टमेव । बिभेतीति । अत्राल्पश्रुतात् स्वार्थप्रच्यावनेन वेदस्य भीत्युक्त्यन्यथानुपपत्त्या प्रतीतार्थातिरिक्तोऽपि गहनार्थोऽस्तीति ज्ञायते । अन्यथा स्मृतौ तदुक्तिर्न स्यात् । कश्छन्दसामिति । को धीरो धीमान् छन्दसां योगं वाच्य-वाचकभावसम्बन्धम्, अस्य वाक्यस्यायमेव वाक्यार्थ इति वाक्यार्थे योगं सम्बन्धं विचारम् अन्तरोपदेशमनपेक्ष्य वा वेद जानातीत्यर्थः । यद्यापातप्रतीतो न वाक्यार्थस् तर्हि कोऽर्थ इत्यतो द्वितीय एवाङ्गीकर्तव्य इत्याह किन्त्विति ।
अत्रार्थे जैमिनिसूत्रसम्मतिमाह उक्तं हीति । सूत्रस्य चायमर्थः । शब्दविज्ञानाद् विज्ञाताच्छब्दात् पदार्थाभिधानद्वारेण यदसन्निकृष्टेऽर्थे ताद्रूप्येण तद्विपर्ययेण वापरिच्छिन्नेऽ निर्णीतेऽर्थे विज्ञानं तच्छास्त्रं शाब्दनामकं प्रमाणम् । कथमस्य प्रकृतोपयोग इति चेदित्थम् । आपातप्रतीतो हि निणीर्तो बाधितो वा स्यात् । विचारलभ्यार्थस्या-पाततोऽप्रतीतेः । तथा च सन्निकृष्टशब्दापातप्रतीतशब्दयोरेकार्थत्वेन सन्निकृष्टादन्यस्मि-ञ्च्छब्दस्य प्रामाण्योक्त्या आपातप्रतीतेऽर्थे शब्दस्याप्रामाण्यमुक्तं भवति । अत्रैव भट्ट-वार्तिकसम्मतिमाह ‘इति च’ इत्यन्तेन । जिहासितं व्यावर्तितमित्यर्थः । ताद्रूप्येण परिच्छेदस्तद्रूपेण निर्णीतत्वम् । तद्विपर्ययतोऽपि चेत्यत्र परिच्छेद इति सम्बध्यते । तद्रूपविपरीतरूपेण परिच्छेद इत्यर्थः । उत्सर्गापवादयोर् विषयाविषयौ ज्ञात्वा अयमस्य विषयोऽयं नेति पूर्वोत्तराविरोधेन प्रमाणान्तराविरोधेन च ज्ञात्वा तेनापवादेनोत्सर्गस्य बाधः कल्प्यः । उत्सर्गस्य विषयम्, अपवादस्याविषयं ज्ञात्वा बाधाभावः, अपवादस्य विषयमुत्सर्गस्याविषयं ज्ञात्वा बाध इति विवेक्तव्यमित्यर्थः । न तु सामान्यदर्शनात् । आपातप्रतीतिमात्रेणेत्यर्थः ।
आपातप्रतीतो न वाक्यार्थ इत्यत्राचार्यसम्मतिमाह उक्तं चेति । दृष्टानुसारेण परीक्षितप्रत्यक्षानुसारेण । अस्तु नापातप्रतीतो वाक्यार्थः । किन्तु पूर्वोत्तराविरुद्धः प्रमाणान्तराबाधितश्च । ततोऽपि श्रुतेर्मिथ्यात्वपरत्वे को दोष इत्यत आह अत्र चेति । न च प्रत्यक्षं चन्द्रप्रादेशिकत्वादिप्रत्यक्षवदप्रामाण्यशङ्कास्कन्दितम् । श्रुतिस्त्वपौरुषेयतया निर्दुष्टा । तथा च कथं प्रत्यक्षबाधः श्रुतेरिति वाच्यम् । प्रत्यक्षस्य श्रुतितोऽपि प्राबल्यस्या-प्रामाण्यशङ्कानास्कन्दितत्वस्य चोक्तत्वात् ।
न्यायामृतप्रकाशः
‘एकमेवाद्वितीयम्’ इत्यादावद्वितीयमित्यादिशब्दैर्द्वितीयमात्रनिषेधात्, श्रुतिर्मिथ्यात्वे मान मिति यदुक्तं तन्निषेधति– किञ्चेत्यादिना ॥ एकमेवेतीतिशब्दः प्रकारवाची । तथा च ‘एको द्रष्टाऽद्वितीयो भवति’ इति श्रुतिरप्युदाहर्तव्या । तेनाग्रिमेण ‘सलिलः’ इत्यादिना ना-सङ्गतिः । ननूक्तविधया मिथ्यात्वस्य ततोऽवगमात्कथं सा तत्र न मानमित्यत आह– शब्दस्येति ॥ कुतो नेत्यत आह– आज्यैः स्तुवत इति ॥ चित्राज्याधिकरणेति ॥ चित्राधिकरणाज्याधिकरणेत्यर्थः । प्रथमाध्याये चतुर्थपादे तृतीयाधिकरणे चिन्तितं ‘चित्रया यजेत पशुकामः’ इति श्रूयते । तत्र चित्राशब्दो गुणविधिर्यागनामधेयं वेति संशये ‘अग्नी-षोमीयं पशुमालभेत’ इति विहितं पशुयागमत्र यजेतेत्यनूद्य यागसाधनीभूतपशौ चित्र वर्णत्वस्त्रीत्वरूपो गुणो विधीयते । तथा च पशुकामश्चित्रया चित्रवर्णयुतस्त्रीपशुना यागं कुर्यादित्यर्थ इति पूर्वः पक्षः ।
सिद्धान्तस्तु चित्रत्वं स्त्रीत्वं चेति द्वावेतौ गुणौ । तयोर्द्वयोर्विधाने वाक्यभेदापत्तेः ‘प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः’ इति वचनात् । अथ गुणद्वयविशिष्टं पशुद्रव्य-रूपं कारकं विधीयते तदा गौरवं स्यात् । चित्रात्वं विलक्षणद्रव्येणोपपद्यते ‘दधिमधु घृत-मापोधानस्तण्डुलास्तत्संसृष्टं प्राजापत्यम्’ इति दध्यादीनि विचित्रद्रव्याणि षडाम्नातानि । तस्माच्चित्रपदं यागनामधेयं न तु चित्रस्त्रीपशुपरमिति । उत्तरत्र पूर्वपक्षरीत्या इत्यनन्तरं चित्रस्त्रीपश्विति च ग्राह्यम् । अन्यथा चित्राज्याधिकरणेत्युक्त्वा पूर्वपक्षरीत्या घृतेत्येवोक्ता- वत्यकौशलापत्तेरित्यवधेयम् ।
प्रमाणलक्षणे नामधेयपादे चिन्तितम् । ‘आज्यैः स्तुवते’ इति स्तुतिप्रकरणे श्रूयते । ‘पञ्चदशान्याज्यानि’ इत्यत्राज्यशब्दो गुणविधिः कर्मनामधेयं वेति संशये रूढिप्राबल्यात्पञ्च दशत्वसङ्ख्याविशिष्टघृतलक्षणो गुणो विधीयते । आज्यानां च पञ्चदशपात्रसम्बन्धेन पञ्चदशत्वमुपपद्यते । तथा चाज्यैः स्तुवत इत्यत्रापि प्रसिद्धमेव विवक्षितमिति पूर्वः पक्षः । सिद्धान्तस्तु । प्रकृते स्तोत्रपर एवायमाज्यशब्दः । न रूढ्या प्रसिद्धघृतपरः । तत्र पञ्चदशत्वस्याश्रयपात्रद्वारा योज्यत्वेन लक्षणापत्तेः । तथा चाज्यप्रकाशिकाभिः पञ्चदश स्तुतिभिरिष्टिं कुर्युरिति तदर्थः । तथा चाज्यैःस्तुवत इत्यत्राज्यशब्दः स्तोत्रपर एवेति ।
आकाशाधिकरणेति ॥ ब्रह्ममीमांसायां प्रथमलक्षणे प्रथमपादे चिन्तितम् । ‘आकाश-स्तल्लिङ्गात्’ इत्यत्र ‘सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्तेः’ इत्यादावाकाश-शब्दो भूतपरः परमात्मपरो वेति सन्देहे प्रसिद्धभूतपर एवेति पूर्वपक्षे परोवरीयस्त्वादिलिङ्गैः परमात्मपर एवेति सिद्धान्तितम् ॥ अन्ध इति ॥ तैत्तिरीयारण्यके प्रथमाष्टके पठ्यते ‘अन्धो मणिमविन्दत् तमनङ्गुलिरावयद् अग्रीवः प्रत्यमुञ्चत तमजिह्वो असश्चत’ इति । आवयद् वय बन्धने तन्तुना सूत्रितवान् । प्रत्यमुञ्चत अमुञ्चत् । असश्चत प्राशंसत । अत्र वाक्यचतुष्टयस्यापातप्रतीतार्थो बाधितः । लोके हि पुरुषश्चक्षुषा मणिं दृष्ट्वा तमङ्गुलिभि-स्तन्तुना स्वीयग्रीवायां प्रतिमुच्य जिह्वया प्रशंसति । न चान्धादेश्चक्षुरादिना दर्शनादिकं सम्भवतीत्यर्थः । विचारिते सत्यबाधितार्थोऽवगम्यते । अनङ्गुलिर् अङ्गुल्युपलक्षितप्राकृत-हस्तरहितो भगवान् तं जीवम् आवयत् संसारेण सम्यग्बबन्ध । तमजिह्वो भगवदधीनजिह्वोऽयं बद्धोऽसश्चत स्तोत्रमकरोत् श्रवणादिकं कृतवान् अनन्तरं पूर्वं भगवदज्ञानेनान्धो मणिं प्रधानं ‘मणिर्मुखं प्रधानञ्चेत्युत्तमस्य वचो भवेत्’ इति वचनात् परमात्मानम् अविन्दत विद ज्ञाने । पश्चात्तं ज्ञानिनम् अग्रीवः प्राकृतग्रीवोपलक्षितदेहरहितो भगवान् प्रत्यमुञ्चत प्रत्य-मोचयत् संसारादिति ।
गहनत्वोक्तेश्चेति ॥ अतो नापातप्रतीत एवार्थ इत्यन्वयः ॥ उक्तं हीति ॥ शास्त्रं लिलक्षयिषता भाष्यकारेण शबरस्वामिनेत्यर्थ एवं शास्त्रलक्षणे कोऽसन्निकृष्टशब्दार्थ इत्यत उक्तं वार्तिककृता असन्निकृष्टेत्यादि । प्रमितोऽर्थो विपरीततया प्रमितश्चार्थः सन्निकृष्ट इत्युच्यते । तद्भिन्ने शब्दः प्रमाणम् । तथा चासन्निकृष्टेऽनधिगते विपरीततया ज्ञाते चार्थे विषये शब्दविज्ञानात् शब्दश्रवणाज्जायमानं विज्ञानं यत् तच्छास्त्रम् । फलप्रामाण्यवादी चायम् । जिहासितं व्यावर्तितम् । ताद्रूप्येण स्वं यथास्थितस्तद्रूपतया परिच्छेदो ज्ञातज्ञापनं विपर्ययतोऽपि वा परिच्छेदो विपरीतज्ञानं च व्यावर्तितमित्यर्थः । उक्तं च वार्तिक एवोत्तरत्र
‘प्रमितस्य प्रमाणे हि नापेक्षा जायते पुनः ।
ताद्रूप्येण परिच्छिन्ने प्रमाणं निष्फलं परम् ।
विपरीतपरिच्छिन्ने नावकाशः परस्य तु’ ॥ इति ॥
तथा च विपरीतार्थवर्णने विपरीतप्रमाजनकत्वप्राप्त्या शास्त्रत्वं न स्यादिति भावः । पूर्वोत्तराविरुद्ध एवार्थो वर्णनीय इत्यत्र वाक्यान्तरं पठति– विषयेत्यादिना ॥ ननु मयापि एकमेवेत्यादेर्मानान्तराविरुद्ध एवार्थो वर्ण्यत इति चेत्तत्राह– अत्र चेति ॥ एकमेवेत्यादेः श्रुतेर्द्वितीयमात्रनिषेधेन मिथ्यात्वार्थकत्व इत्यर्थः ॥ प्रत्यक्षेति ॥ सन्घटः घटपटौ भिन्नावित्यादिप्रत्यक्षविरोध इत्यर्थः ।
न्यायकल्पलता
‘एकमेवाद्वितीयम्’ इत्यादिश्रुतिषु अद्वितीयादिशब्दैर्द्वितीयमात्रनिषेधाच्छ्रुतिर्मिथ्यात्वे मानमिति यदुक्तं तद्विशेषतो निराचिकीर्षुराह– किञ्चेत्यादिना ॥ एकमेवेति ॥ इतिशब्दः प्रकारवाची । तथा च ‘सलिल एको द्रष्टाऽद्वैतो भवति’ इति श्रुतिरप्युदाहर्तव्या । तेन नाग्रिमेण ‘सलिलः’ इत्यादिनाऽसङ्गतिः । ननूक्तविधया विश्वमिथ्यात्वस्य ततोऽवगमात्कथं सा तत्र न मानमित्यत आह– शब्दस्येति ॥ यदि आपातप्रतीत एव शब्दस्यार्थस् तर्हि ‘आज्यैः स्तुवते’ इत्युत्पत्तिवाक्यगताज्यशब्दस्य घृतादिरेवार्थः स्यात् । तथा च ‘पञ्चदशा-ज्यानि’ इति गुणवाक्यमीमांसारूपविचारवैय्यर्थ्यं स्यात् । तेन ह्युत्पत्तिवाक्यगताज्यशब्दस्य स्तुतिनामधेयता सिध्यति । पञ्चदशान्याज्यानीत्यत्र न सङ्ख्याविशिष्टाज्यविधानं सम्भवति । वक्ष्यमाणदोषात् । किन्त्वाज्यानुवादेन सङ्ख्यामात्रविधानम् । तथा च स्तोत्रे घृतस्या-प्राप्तत्वेन तदनुवादासम्भवात् स्तोत्रानुवादेनैव सङ्ख्या विधातव्या । तच्चाज्यशब्दस्य स्तोत्र-वाचित्वेऽवकल्प्यते नान्यथेति गुणवाक्यालोचनेनैवाज्यादिपदमुत्पत्तिवाक्यगतं नामत्वेना ध्यवसीयते । आपातप्रतीतस्य शब्दार्थत्वे तु नैतत्सम्भवतीत्यर्थः । आज्यसंज्ञकाभिः स्तुतिभिरिष्टं भावयेदिति श्रुत्यर्थः ।
चित्रेति ॥ प्रथमाध्याये चतुर्थे नामधेयपादे विचारितम् । ‘यस्मिन्गुणोपदेशः प्रधानतो सम्बन्धः’ । ‘आज्यैः सुवते’ इष्टैः स्तुवते’ इति स्तोत्रप्रकरणे श्रूयते ‘पञ्चदशान्याज्यानि’ इति । अत्राज्यशब्दो गुणविधिः कर्मनामधेयं वेति संशये रुढिप्राबल्यात्पञ्चदशसङ्ख्याविशिष्ट घृतलक्षणगुणविधिः । नन्वाज्यस्य द्रव्यत्वादक्रियात्मनो विधिर्न सम्भवतीति चेत् । न । अस्तिर्भवतीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति स्मृत्याऽस्तिधातुर्भवतीशब्दवाच्य-वर्तमानार्थलड्विभक्तिपरः । प्रथमपुरुषसमानाधिकरणयुष्मदस्मदतिरिक्तोपपदे सत्यप्रयुज्य-मानोऽप्यस्तीत्यनुशासनादस्तिभवत्योश्चैकार्थत्वाद्भवत्यध्याहारेण सत्तारूपक्रियालाभात् । नन्वेवमपि विधायकाश्रवणान्न गुणविधित्वमिति चेत् । न । प्रयोगवचनाद्विधिरवगम्यते ।
ननु ‘स्तोमेडविधिः पञ्चदशाद्यर्थः’ इति स्मृत्या डप्रत्ययान्तस्य पञ्चदशशब्दस्य स्तुतेर्मानं स्तोम इति स्तोत्रिय(याख्य)स्य ऋक्सङ्ख्यावाचित्वात्तत्समानाधिकरणाज्यपदस्य न घृतवाचिता युक्तेति चेन्न । स्तुतेः साधनद्वारेण सङ्ख्यात्मकमानपरिच्छेदत्वात् स्तुति-साधनपरिच्छेदिकायाः सङ्ख्यायाः स्तुतिमानत्वेन स्तोमत्वादृचामिव घृतस्यापि रथघोष-वदुपस्थापकतया स्तुतिसाधनत्वोपपत्तेर्डप्रत्ययाविरोधः । न हि स्तोत्रसाधनानामृचामेव परिच्छेदिका सङ्ख्या स्तोमशब्दवाच्या न साधनान्तरपरिच्छेदिकेति राज्ञामाज्ञाऽस्ति ।
नन्वेवं स्तोत्रस्तोमशब्दवाच्यया साधनसङ्ख्यया परिच्छेद्यत्वार्थं घृतादीनां स्तोत्रसाधनत्वं वक्तुम् आज्यवन्तीति वक्तव्यम् । तथा च मत्वर्थलक्षणाप्रसङ्ग इति चेन्न । विधौ मत्वर्थ लक्षणापत्तेः । श्रुतिवाक्यगतेन विधिना सहाज्यस्य संयोगाभावात्स्तोत्रप्रकरणे यत्पञ्चदशा नीत्यादिगुणवाक्याम्नानं तदनुमितेन ‘पञ्चदशसङ्ख्याविशिष्टैराज्यैः स्तोत्रस्योपस्कर्तव्यम्’ इत्यादि वाक्येन कृतो यः स्तोत्राज्यसम्बन्धस्तत्पूर्वकः प्रयोगवचनेन विधिराश्रयितव्यस्तेन च मत्वर्थ एव प्रतिपाद्यत इति न लक्षणा । तदुक्तं तन्त्रवार्तिके–
श्रूयमाणस्य वाक्यस्य न्यूनाधिकविकल्पने ।
लक्षणावाक्यभेदादिदोषो नानुमितो ह्यसौ ॥ इति ।
घृतस्य द्रव्यात्मकत्वेऽपि भवत्युपात्ता सत्ता प्रकरणग्राह्या भविष्यति । ननु धातु-वाच्यत्वमात्रेण सत्तायाः क्रियात्वेऽपि चेतनक्रियात्वाभावेनाननुष्ठेयत्वान्न प्रकरणग्राह्यता सम्भवतीति चेन्न, सत्तायाः स्वरूपेणाननुष्ठेयत्वेऽपि अङ्गत्वेन स्तोत्रसामीप्यावगमात्, तस्य च सन्निधिस्थापनापाद्यरूपत्वात्तेन रूपेणानु ष्ठेयत्वं भविष्यति । संसर्गिद्रव्यत्वादाज्यानां स्वरूपेण सङ्ख्यायोगाभावेऽपि पञ्चदशाज्यपात्राणि समीपे निधाय स्तोत्रं कर्तव्यम् । यथाऽग्निमुपसमधाय स्तुवते इत्यत्राग्नेः स्तोत्रकाले पुरोनिधानेनेवाज्यानामपि पात्रभेदलब्ध-पञ्चदशसङ्ख्यानां तत्कालसन्निधापनेन स्तोत्रगुणता । एवञ्च ‘आज्यैः स्तुवते’ इत्युत्पत्ति-वाक्यगतमप्याज्यपदं गुणविधिप्राप्ताज्यानुवादकम् । साधकतमत्वविवक्षयोत्पत्तिवाक्येऽनु-वादार्थं तृतीयानिर्देशोपपत्तिः । न चोत्पत्तिवाक्ये आज्यानुवादोऽनर्थकः । प्रशस्तमिदं स्तोत्रं यत्क्रियमाणमाज्यसन्निधियुक्तं भवतीत्येवं स्तोत्रप्रशंसार्थत्वेनानुवादसाफल्यात् । तस्माद्गुणविधिरिति पूर्वः पक्षः ।
सिद्धान्तस्तु । स्तोत्रेषु द्रव्यसङ्ख्ययोरुभयोरप्राप्तत्वान्नान्यतरानुवादेनेतरविधिसम्भवः । कर्मान्तरोपसदादिषु प्राप्तस्याज्यास्यानुवादेन सङ्ख्याविधानं न सम्भवति । कर्मान्तरस्य स्तोत्रप्रकरणे बुद्धिस्थत्वाभावात्स्तोत्रप्रकरणबाधश्च स्यात् । आज्यस्वरूपानुवादेन सङ्ख्या विधौ द्रव्याङ्गत्वापत्तेरकर्माङ्गत्वप्रसङ्गेनानर्थक्यापाताच्च । सङ्ख्याविशिष्टद्रव्यविधावपि सङ्ख्याया द्रव्यविशेषणत्वेनाकर्माङ्गत्वं स्यात् । सङ्ख्याया द्रव्यविशेषणत्वेऽपि क्रियाविशेषणत्वाभावेना- विधेयत्वापत्तिश्च । पश्वेकत्वादेस्तु विधेयक्रियोपादानात्सङ्ख्यायाश्चैकप्रत्ययोपादानलक्षणया श्रुत्यैकपदोपादानलक्षणश्रुतिगम्यप्रातिपदिकार्थाङ्गत्वबाधेन कारकाङ्गत्वावगतेस्तद्द्वारेण क्रियाङ्ग- त्वावश्यम्भावात् क्रियाङ्गत्वेन च विधेयत्वम् । न चेह क्रियाऽस्ति । क्रियाभावादेव चा-क्रियात्मकत्वेन स्तोत्रप्रकरणग्राह्यत्वानुपपत्तेरानर्थक्यापातः । तदुक्तं वार्तिके–
नावान्तरक्रियायोगादृते वाक्योपकल्पितात् ।
गुणद्रव्यैः कथं भावैर्गृह्णन्ति प्रकृताः क्रियाः ॥ इति ।
भवतिक्रियाया अनुशासनसिद्धत्वेऽपि न तां प्रति द्रव्यसङ्ख्ययोरङ्गत्वं सम्भवति । क्रियासिद्धौ व्याप्रिय(माणं)कारकं क्रियाङ्गं भवति । सत्तासिद्धिवेलायां वा लब्धात्मकत्वान्न व्यापारः सम्भवति । तथा च द्रव्यसङ्ख्ययोर्भवनक्रियानङ्गत्वेन न तद्द्वारा प्रकरणेन ग्रहणं सम्भवति । नन्वाज्यसत्तायाः स्वतःसिद्धत्वेन तस्य तां प्रत्यनङ्गत्वेऽपि स्तोत्रसामीप्या सिद्धेस्तेन रूपेण विधेयत्वादङ्गत्वं भविष्यति इति । मैवम् । सामीप्यस्याश्रुतत्वात्स्तोत्राङ्ग-त्वेन तत्सामीप्यकल्पनम् । सामीप्यसम्पादनरूपेण च विधेयतयाऽङ्गत्वमितीतरेतरा-श्रयत्वम् । अग्निमुपसमधायेति च स्पष्टं विधानम् । आत्मलाभव्यतिरिक्ता चेयं क्रिया शक्यते कथं भावेन गृहीतुम् ।
ननु ‘आग्नेयोऽष्टाकपालो भवति’ इत्यादाविवावश्यकल्पनीयभवतिवाच्यप्रयोज्यव्यापार रूपभावनाक्षिप्तप्रयोजकव्यापाररूपभावनाविध्यन्यथानुपपत्त्या पञ्चदशसङ्ख्याकैराज्यैः स्तोत्रोप कारं भावयेदिति विनियोजकवाक्यकल्पनया आज्यानां स्तोत्रसम्बन्धसिद्धेः श्रुतस्य वाक्यस्य सङ्ख्यासम्बन्धमात्रविधानान्न वाक्यभेद इति चेन्मैवम् । सिद्धान्ते वाक्यस्योपपन्नत्वेना-न्यथानुपपत्त्यभावेन विधेरकल्पनात् । आग्नेयादौ तु प्रकारान्तरेण विधिसिद्धिः । यदि च वाक्यभेदपरिहारायोत्पत्तिवाक्यविहिताज्यानुवादेन पञ्चदशत्वं गुणो विधीयते । ततः सामानाधिकरण्यसिद्ध्यर्थमाज्यशब्देन मत्वर्थलक्षणया विहितेष्वाज्येषु गुणविध्यापत्तेर्लक्षणैव दोषः । तस्मान्नामधेयमाज्यशब्दः । अन्वाख्यानरूपार्थवादाच्च नामत्वम् । तथा हि । ‘प्रजापतिर्देवेभ्य आत्मानं यज्ञं कृत्वा प्रायच्छत्तेऽन्योऽन्यस्मा अग्राय नातिष्ठन्त तानब्रवी-दाजिमस्मिन्नितेति । त आजिमायन् । यदाऽऽजिमायंस्तदाऽऽज्यानामाज्यत्वम् । स इन्द्रोऽवेद अग्निर्वा इदमग्र उज्जेष्यति’ इति । अस्मिन्यज्ञे ‘काष्ठां गच्छ(त)’ इति प्रजापति-वचनादेतानि स्तोत्राणि काष्ठां कृत्वा यस्मादाजिं गता देवास्तस्मादाज्यर्हत्वादेते-षामाज्यत्वमित्यर्थः । तदुक्तं वार्तिके–
गुणवाक्योपपत्त्यर्थं समभिव्याहृतेन च ।
अन्वाख्यानार्थवादाच्च नामधेयत्वमाश्रितम् ॥ इति ।
‘समभिव्याहृतेन’ समभिव्याहारः सामानाधिकरण्यम् । उदाहृतसूत्रार्थस्तु यस्मिन् गुणविधिः कर्म नामधेयं वेति सन्दिग्धे गुणोपदेशः गुणोऽपर उपदिश्यते, तस्य प्रधानेन कर्मणा सम्बन्धः कर्मनामधेयमित्यर्थ इति भाष्यकारोक्तो न युक्तः । नामधेयत्वप्रतिज्ञायाः पूर्वसूत्रोक्ताया एवानुषङ्गसम्भवात् । प्रधानपदस्य च कर्मपरत्वे लक्षणाप्रसङ्गात् । कर्म-सम्बन्धस्य च गुणविधावप्यनुपपत्तेर्नामधेयत्वावगमकत्वात्सहार्थे च तसि प्रयोगादर्शनेना साधुत्वोपपत्तेः । तस्मात्प्रधानतोऽभिसम्बन्ध इत्यस्य प्रधानद्वाराऽनेकेषां गुणानामनेक विशेषणविधिप्रसवसमर्थेनैकेन विधिना सम्बन्धो भवति । न चात्र प्रधानभूतं कर्म त्वत्पक्षे विधीयत इत्येवं वार्तिककारोक्तार्थः साधुः ॥
आकाशेति ॥ ब्रह्ममीमांसायां प्रथमाध्यायस्य प्रथमपादे विचारितम् । ‘आकाश स्तल्लिङ्गात्’ छान्दोग्ये श्रूयते ‘त्रयो होद्गीथे कुशला बभूवुः । शिलकः शालावत्यश्चैकि तायनो दाल्भ्यः प्रवाहणो जैबिलिरिति । ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति । तथेति ह समुपविविशुः । स ह प्रवाहणो जैबिलिरुवाच भगवन्तावग्रे वदताम् ब्राह्मणयोर्वदतोर्वाचं श्रोष्यानीति । स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच । हन्त त्वा पृच्छानीति पृच्छेति होवाच । का साम्नो गतिरिति । स्वर इति होवाच । स्वरस्य का गतिरिति । प्राण इति होवाच । प्राणस्य का गतिरिति । अन्नमिति होवाच । अन्नस्य का गतिरिति । आप इति होवाच । अपां का गतिरिति । असौ लोक इति होवाच । अमुष्य लोकस्य का गतिः’ इति शिलकेन दाल्भ्यं प्रति पृष्टे सति ‘न स्वर्गं लोकमति-नयेदिति होवाच । स्वर्गं वयं लोकं सामाभिसंस्थापयामः । स्वर्गसंस्थावं हि साम’ इति रुद्रमतिक्रम्य तदन्यमुत्तमत्वेन नयेन्न जानीयादिति दाल्भ्येनोत्तरिते ‘तं ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच ‘अप्रतिष्ठितं वै किल ते दाल्भ्य साम । यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति । हन्ताहमेतद्भगवतो वेदानीति । विद्धीति होवाच । अमुष्य लोकस्य का गतिरिति । अयं लोक इति होवाच । अस्य लोकस्य का गतिरिति । न प्रतिष्ठां लोकमतिनयेदिति होवाच । प्रतिष्ठां वयं लोकं सामाभिसंस्थापयामः प्रतिष्ठासंस्तावं हि सामेति’ । प्रतिष्ठां प्रतिष्ठापकं लोकं सर्वाश्रयं ब्रह्माणमतिक्रम्य तदन्यमुत्तमत्वेन न जानीयादित्यर्थः । तं ह प्रवाहणो जैबिलिरुवाच । अन्तवद्वै किल ते शालावत्य साम । यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति । मूर्धा ते विपतेदिति । हन्ताहमेतद्भगवतो वेदानीति । विद्धीति होवाच ॥ ८ ॥
अस्य लोकस्य का गतिरिति शिलकेन जैबिलिः पृष्टःसन्नुवाच । ‘आकाश इति होवाच । सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते । आकाशं प्रत्यस्तं यन्ति । आकाशो ह्येवेभ्यो ज्यायान् । आकाशः परायणम् । स एष परोवरीयानुद्गीथः स एषोऽनन्त इति’ । अत्राकाशशब्दः पदार्थः भूतविशेषो वा परमात्मा वेति संशयेऽप्रसिद्धेर्भूतमेवेति प्राप्ते सर्वाश्रयत्वपरोवरीयस्त्वादिलिङ्गात्परमात्मैवेति सिद्धान्तितम् । ‘आकाश इति होवाच’ इत्यत्र विचार्यमाणाकाशशब्दसमानन्यायतया आकाशादेव समुत्पद्यन्ते इति हेतुनिष्ठाकाशशब्दोऽपि गगनपर एवेति पूर्वपक्षी मन्येतेत्यर्थः ।
अन्धमृदोर्मणिज्ञानवचनाभावप्रत्यक्षं तु अनेनैव वचनेन बाध्येत । अतात्विकार्थं वा कल्प्येतेति स्यादित्यर्थः । सावित्रादिषु क्षुद्रचयनेषु मध्ये आरुणकेतुकाख्यचयनस्य प्रतिपादके तैत्तरीयारण्यकस्य प्रथमप्रपाठके पठ्यते ‘अन्धो मणिमविन्दत्तमनङ्गुलिरावयत् । अग्रीवः प्रत्यमुञ्चत् तमजिह्वो असश्च्यत’ इति । अत्रान्ध इत्यादिवाक्यचतुष्टयमात्रस्यापात प्रतीतोऽर्थो बाधितः । लोके हि पुरुषश्चक्षुषा मणिं दृष्ट्वा तमङ्गुलिभिस्तन्तुना आवीय ग्रीवायां प्रतिमुच्य जिह्वया प्रशंसति । न चान्धादेश्चक्षुरादिना दर्शनादिकं सम्भवति । उत्तर-सन्दर्भानुसारेण तु तात्पर्यावधारणे सत्यबाधितार्थो भवति । तथा हि– अन्धादिवाक्या-नन्तरम्, ‘ऊर्ध्वमूलमवाक्शाखं वृक्षं यो वेद सम्प्रति’ इत्यादिना संसारस्य परमात्माधीनत्वं (तत्वज्ञानासिजन)व्रश्चनयोग्यत्वेन वृक्षत्वं तद्विदो मृत्युभयाभावं चोक्त्वा । ‘हसितं रुदितं गीतं वीणापणवलासितम्’ इत्यादिना शरीरस्यापि परमात्माधीनत्वमुक्त्वा तस्मिन् शरीरे प्रविष्टस्य जीवस्य स्वतो ज्ञानाद्यशक्तस्य परमात्मदत्तेन्द्रियस्य ज्ञातृत्वादिकमुच्यते । ‘अचेताः’ इत्यादिवाक्येषु ‘अचेता यश्च चेतनः । स तं मणिमविन्दत् । सोऽनङ्गुलि-रावयत् । सोऽग्रीवः प्रत्यमुञ्चत्सोऽजिह्वो असश्च्यत’ इति । असश्च्यत प्राशंसत् । यथाऽ-न्धादिवाक्यस्यापातप्रतीतो नार्थस्तथाऽद्वैतवाक्यानामपीत्यर्थः । श्रुतेरापातप्रतीतार्थपरत्वे स्मृतिविरोधमप्याह– बिभेतीति ॥
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं चालयिष्यति ॥ इति स्मृतिः ।
श्रुतिविरोधं चाह– ‘कश्छन्दसां योगमावेद धीरः को धिष्ण्यां प्रति वाचं पपाद’ । को धीरो धीमान् च्छन्दसां वेदानां वैदिकपदानामर्थैः सह, योगं वाच्यवाचकभावसम्बन्धम् । आवेद सम्यक् जानाति । न कोऽपीत्यर्थः । को वा धिष्ण्यां बुद्धिपूर्वाम्, धिष्ण्यं स्थानं तद्वत् स्थिरां नित्यमिति वा । वाचं वेदवाचं प्रतिपपाद शिष्यान्प्रति व्याख्यातवान्, न कोऽपि । वेदार्थस्य ज्ञाता, ज्ञात्वा व्याख्याताऽपि दुर्लभ इत्यर्थः । माधवीये तु ‘छन्दसां गायत्र्यादीनां, योगं स्तुतशस्त्रात्मना विनियोगम् आवेद जानाति । को वा धिष्ण्यां होत्रादीनां सप्तस्थानानि प्रतिपपाद’ इति व्याख्यातम् । ततोऽपि वेदार्थस्य गहनत्वमेव । ‘क्वचिदस्याः परमं जगाम । उत त्वः पश्यन्न ददर्श वाचम्’ इत्यादिना च वेदार्थस्य गहनत्वं प्रतीयत इति ॥ उक्तं हीति ॥ ‘चोदनालक्षणोऽर्थो धर्मः’ इति प्रस्तुतां चोदनां लिलक्षयिषता भाष्यकारेण–
प्रत्यक्षाद्युपयोगं तु वर्णमात्रादितः पुरः ।
शास्त्रार्थज्ञानवेलायां मत्वा तल्लक्षणं कृतम् ॥
इति वार्तिककारोक्तसङ्गत्या प्रत्यक्षादिकं लक्षयित्वा ‘चोदना चोपदेशश्च शास्त्रमेवेत्युदा हृतम्’ इति वार्तिकोक्तरीत्या चोदनाशब्दोदितं शास्त्रं लक्षितम् ‘शास्त्रं च शब्दविज्ञानात्’ इत्यादिना । अत्र शब्दार्थशब्दौ विशेषणरहितावपि विशिष्टशब्दार्थपरौ । विधायकशब्दे शब्दशब्दः, विधेयेऽर्थेऽर्थशब्द इति । तदुक्तं वार्तिके–
यथा च चोदनाशब्दौ वैदिक्यामेव वर्तते ।
शब्दज्ञानार्थविज्ञानशब्दौ शास्त्रे तथास्थितौ ॥ इति ।
तथा च विधायकशब्दविज्ञानादसन्निकृष्टे विधेयेऽर्थे विज्ञानं शास्त्रमित्युक्तं भवति । प्रत्यक्षवच्चात्रापि शब्दतज्ज्ञानादिषु प्रामाण्यं ज्ञातव्यम् । तदुक्तम् । ‘प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि’ इति । शब्दे तु वक्तृविवक्षाऽप्युपयोगिनीति विशेषः । ‘वक्तृविवक्षा पूर्विका शब्दवृत्तिः’ इति न्यायात् । न तु ज्ञानमेव शास्त्रमिति अभिनिवेष्टव्यम्’ इति काशिकाकारः । एवं स्थिते शास्त्रलक्षणे को वाऽसन्निकृष्टशब्दार्थ इत्यत उक्तं वार्तिककृता । ‘असन्निकृष्टवाचा च’ इत्यादि । प्रमितोऽर्थो विपरीततया प्रमितोर्थश्च सन्निकृष्ट इत्यभि-धीयते । तद्भिन्नेऽर्थे शब्दः प्रमाणमित्यर्थः । अत एवैतदुत्तरवार्तिकम्–
प्रमितस्य प्रमाणे हि नापेक्षा जायते पुनः ।
ताद्रूप्येण परिच्छिन्ने प्रमाणं निष्फलं परम् ॥
विपरीतपरिच्छिन्ने नावकाशः परस्य तु ।
मूले तस्य ह्यनुत्पन्ने पूर्वेण विषयो हृतः । इति ।
यद्यपि ‘शास्त्रं हि शब्दविज्ञानात्’ इत्याद्युक्तभाष्यव्याख्याने ‘असन्निकृष्टवाचा’ इत्यादि वार्तिकं न पठ्यते किन्तु ‘अनुमानं ज्ञातसम्बन्धस्यैकदेशदर्शनाद्देशान्तरेऽसन्निकृष्टेऽर्थे बुद्धिः’ इत्यनुमानलक्षणभाष्यव्याख्यान एतद्वार्तिकं पठ्यते तथापि शास्त्रलक्षणभाष्येऽप्यसन्निकृष्ट शब्दस्य सत्वेनानुमानलक्षणभाष्यस्थासन्निकृष्टशब्दस्यार्थोऽत्रापि शास्त्रलक्षणभाष्यस्थासन्निकृष्ट शब्दार्थतया ग्राह्य इत्यभिप्रायेण शब्दप्रस्तावाच्च तथोक्तमित्यदोषः । ‘सत्यमन्त्रा ऋजूयवः । तं रोदसी पिपृतं सत्यवाचं, ते सत्येन मनसा दीध्यानास् ते सत्येन मनसा गोपतिं गाः । अभिष्टिकृज्जायते सत्यशुष्मः सत्या सोमा अभवन्नस्य विश्वे सत्या भवन्त्वाशिषो नो अद्य, सत्याः सन्तु यजमानस्य कामाः’ । इत्यादिविशिष्य सत्यत्वबोधकानेकश्रुतिविरोधा- त्सामान्यतो द्वितीयनिषेधकश्रुतेर् भूतसामान्यहिंसानिषेधदैक्षपश्वालम्भनश्रुतिवदुत्सर्गापवाद न्यायेन व्यवस्थितविषयत्वमाश्रयणीयमित्यभिसन्धायोक्तार्थे स्मृतिपादीयवार्तिकमुदाहरति– विषयेति । एतद्वार्तिकात् प्रागप्युक्तम्–
उत्सर्गश्चापवादश्च सर्वत्रेवोपलभ्यते ।
तत्र नोत्सर्गमात्रेण सर्वमेवावरुद्ध्यते ॥ इति ।
उत्तरत्राप्युक्तम् ।
यो हि सामान्यदृष्टेन व्यवहारं निनीषति ।
तृणाच्छेदो भवेत्तस्य मृगतृष्णाजलैरपि ॥ इति ।
ननु विरोधबीजाद् द्वैतवाक्योपस्थितेः प्रागेवाद्वैतवाक्यं सर्वाद्वैतं बोधयिष्यतीत्याशङ्क- मानस्य ‘न कलञ्जं भक्षयेत्’ इत्यादौ न पदोपस्थितेः प्रागेव भक्षणमपि शास्त्रार्थः स्यादि-त्युत्तरं हृदि निधाय तत्र कर्तृधिकरणवार्तिके सम्मतित्वेनोदाहृतं वृद्धानां वार्तिकं संवादयति– अन्य एवेति ॥ अङ्गं शब्दैकदेशरूपा अवयवा इति राणकव्याख्या । एतद्वार्तिकात्प्रागपि तत्रैवोक्तम्–
सर्वाण्येव हि शास्त्राणि स्वप्रदेशान्तरैः सह ।
एकवाक्यतया युक्तमुपादेशं प्रतन्वते ॥
यदि शास्त्रैकदेशालोचनेन तद्विरुद्धत्वमभ्युपगम्य शास्त्रविरोध उद्भाव्यते ततः (‘सुरा न पातव्या’) ‘न सुरां पिबेत्’ इत्यस्याप्येकदेशपिबेदिति पानं विहितमङ्गीकुर्वन् शास्त्रविरुद्धं कुर्यात् । तथा भिन्नवाक्येषु ‘यावज्जीवमग्निहोत्रं जुहोति’ इत्यादिमन्त्रापेक्षया दीक्षितोऽप्यजु- ह्वत्प्रत्यवेयादिति ।
न्यायामृतसौगन्ध्यं
किञ्च ‘एकमेव’ इत्यादिश्रुतिरैक्यमिथ्यात्वे मानम् । न ह्यापातप्रतीत एव शब्दार्थः । ‘कश्छन्दसां योगमावेद धीरः’ इति श्रुत्या ‘बिभेत्यल्पश्रुताद्वेदो मामयं प्रचलिष्यति’ इति स्मृत्या वेदार्थस्यातिगहनत्वोक्तेः, मीमांसावैय्यर्थ्यप्रसङ्गाच्च । किन्तु मानान्तरेण पूर्वोत्तरेण चाविरुद्ध एवार्थः, अविरोधग्रहणार्थं मीमांसासाफल्यम् । अत एव ‘आज्यैः स्तुवते’ ‘आकाशादेव समुत्पद्यन्ते’ इत्यादौ आपातप्रतीतघृतगगनादिपरित्यागेनाज्याकाशादिपदानां सामपरमात्माद्यर्थत्वं स्थापितं पूर्वोत्तरमीमांसयोश्चित्राकाशाद्यधिकरणेषु । अन्यथा तत्रत्यपूर्वपक्षाभ्युपगमापत्तेः । तथा चोक्तं वार्तिककारैः ‘शास्त्रं शब्दविज्ञानाद् असन्निकृष्टेऽर्थे विज्ञानम्’ इत्यत्र–
असन्निकृष्टवाचा च द्वयमत्र जिहासितम् ।
ताद्रूप्येण परिच्छेदस्तद्विपर्ययतोऽपि वा ॥
विषयाविषयौ ज्ञात्वा तेनोत्सर्गापदवादयोः ।
बाधाबाधौ विवेक्तव्यौ न तु सामान्यदर्शनात् ॥
अन्य एवैकदेशेन शास्त्रस्यार्थः प्रतीयते ।
अन्यस्तु परिपूर्णेन समस्ताङ्गोपसंहृतौ ॥ इत्यादि ।
अन्यत्राप्युक्तम् ।
विरुद्धवत्प्रतीयन्ते आगमा यत्र वै मिथः ।
तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यते ॥ इति ।
तथा च प्रत्यक्षादिविरोधात् पूर्वोत्तरविरोधाच्च नाद्वैतपरत्वम् ।
अत्रोक्तं खण्डने प्रत्यक्षं नियतविषयं ..
न्यायामृतम्
अत्रोक्तं खण्डने प्रत्यक्षं नियतविषयं तथा च घटपटौ भिन्नाविति प्रत्यक्ष-ज्ञानेन बाधकत्वेनाभिमतात् स्वस्माद् बाध्यत्वेनाभिमतं श्रौतमैक्यज्ञानं भिन्न-मित्यग्रहणात्तत्र लब्धपदा ‘‘सर्वं खल्विदं ब्रह्म’’ इत्यात्मैक्यश्रुतिस्तावदैक्यं गृह्णाति । तथा च प्रत्यक्षधीः स्वाभिन्नमैक्यज्ञानं न बाधते । एवं च निर्बाधा श्रुतिः सर्वाद्वैते पर्यवस्यति । न च बाध्यबाधकधियोर्ज्ञानान्तरेण भेदग्रहः, अनवस्थाभयाद्यत्र बुद्धिपरम्पराविच्छेदस्तत्रैव चरमज्ञाने श्रुतेरवकाशात् । तदुक्तं
सुदूरधावनश्रान्ता बाधबुद्धिपरम्परा ।
निवृत्तावद्वयाम्नायैः पार्ष्णिग्राहैर्विजीयते ॥ इति ।
तन्न, प्रत्यक्षादिप्रसक्तो हि भेदः ‘नेह नाना’ इत्यादिश्रुत्या निषेध्यः, अप्रसक्तप्रतिषेधायोगात् । तथा च यत्र यत्राद्वैतश्रुतिस् तिष्ठासति तत्र तत्र प्रागेव प्रत्यक्षादिना भेदो ग्राह्य इति कथं यामिकगृहे चोर इव श्रुतिस्तत्र तिष्ठेत् ? एवं च–
प्रत्यक्षाप्रसक्तं चेदप्रसक्तनिषेधता ।
श्रुतेः स्यात्तत्प्रवृत्तं चेत्तद्बाधः सुस्थिरः श्रुतेः ॥
किञ्च चरमधीः प्रत्यक्षाद्यसिद्धा चेत् तदभेदः श्रुतेरपि दुर्ग्रहः । न हि श्रुते र्घटादौ तदभेदे च तात्पर्यं, घटादेः प्राप्तत्वात्, श्रौतस्य किञ्चनादिशब्दस्य घटादावनुवादकता, चरमबुद्ध्यादौ तु विधायकतेत्युक्तौ च वैरूप्यापातात् । अथ चरमधीः प्रत्यक्षादिसिद्धा तर्हि तद्भेदोऽपि तेनैव सिद्ध इति नाद्वैत-श्रुतेरवकाशः । श्रुत्यापि हि बाध्यबाधकत्वेनाभिमतयोरितरभिन्नत्वेन बुद्धि-स्थयोरेवाभेदो बोध्यः । यस्य कस्यचिद्येन केनचिदभेदबोधने बाधकस्य बाध्याभेदासिद्धेः । एवं चोभयतः पाशारज्जुः ।
अद्वैतसिद्धिः
किञ्च प्रत्यक्षं नियतविषयम्, श्रुतिः सर्वविषया, तथा च यत्र प्रत्यक्षेण भेदो न गृहीतः, तत्रैवाभेदश्रुतेरवकाशः । ननु ययोरैक्यं श्रुत्या बोध्यते तयोर्भेदः प्रसक्तो न वा ? नान्त्यः, अप्रसक्तप्रतिषेधापातात्, नाद्यः, प्रसञ्जकप्रमाणविरोधेनैक्यस्य बोधयितुमशक्यत्वादि ति चेन्न, अन्त्यपक्षाभ्युपगमे दोषाभावात् । अप्रसक्तप्रतिषेध इति च किमप्रसिद्धप्रति योगित्वम् ? किं वा निष्प्रयोजनत्वमिति विवेचनीयम् । नाद्यः, अन्यत्र प्रसिद्धस्यैव भेदस्य भेदत्वेनोपस्थितस्य परस्परप्रतियोग्यनुयोगिभावेनान्यत्र निषेधसम्भवात् । न च तत्रैव प्रसिद्धिस्तन्त्रम्, निषेधप्रमामात्रोच्छेदप्रसङ्गात् । न द्वितीयः, अनर्थनिवृत्तेरेव प्रयोजनत्वात्, ‘नान्तरिक्षेऽग्नि-श्चेतव्यः’ इत्यादौ स्तुतिमात्रप्रयोजनेनाप्यप्रसक्तनिषेधदर्शनाच्च ।
अथ श्रुत्या ययोरभेदो बोध्यते तयोरुपस्थितिरस्ति ? न वा ? नान्त्यः, अनुप -स्थितयोरभेदबोधनायोगात् । आद्ये सा किं श्रुतिजन्या, प्रत्यक्षादिजन्या वा । नाद्यः, श्रुते-र्मानान्तरागोचराभेदमात्रपरत्वेन घटाद्युपस्थितेस्तज्जन्यत्वाभावेन सर्वाद्वैतासिद्धेः, श्रुतिस्थ किञ्चनेत्यादिपदानामनुवादकत्वाभ्युपगमात् । द्वितीये तु तयोर्भेदोऽपि प्रत्यक्षादिसिद्ध इति क्वाद्वैतश्रुत्यवकाशः ? मैवम्, यत् प्रत्यक्षादिना गृह्यते, तद्भेदोऽपि तेन गृह्यत एवेति नियमा भावात् । तथा हि न तावत्पदार्थस्वरूपज्ञानमेव भेदज्ञानम्, अभेदभ्रमोच्छेदप्रसङ्गात् । स्वरूपभेदवादिनामपि स्वरूपज्ञानाद् घटत्वादिप्रकारकाद् भेदत्वप्रकारकं भेदज्ञानं विलक्षण-मेव, अन्यथा भेदाग्रहनिबन्धनव्यवहारानुदयप्रसङ्गात् । अत एव स्वरूपज्ञानोत्तरकालमवश्यं भेदज्ञानमित्यपि न, अनवस्थाप्रसङ्गाच्च । तथा हि ‘घटपटौ भिन्नौ जानामि’ इति घटपट-भेदधीः स्वप्रकाशा वा, अनुव्यवसायसिद्धा वा, साक्षिसिद्धा वा, न स्वप्रतियोगिकभेद विषया, भेदधियः प्रतियोगिधीजन्यत्वनियमेन प्रतियोगिधीव्यक्तिभिन्नव्यक्तित्वावश्यकत्वात्, स्वस्या एव स्वजन्यत्वानुपपत्तेः । ज्ञानान्तरेण च तद्भेदग्रहे क्वचिद् भेदधीधाराविश्रान्तिरवश्यं वाच्या, अन्यथा सुषुप्तिविषयान्तरसञ्चारादिकं न स्यात् । अतस् तत्रापि चरमभेद धीरेवोदाहरणम् । तथा च बाधकत्वाभिमता या घटपटभेदधीः स्वभेदाविषया भासते तया सह बाध्यत्वाभिमताया ऐक्यधिय ऐक्यं बोधयित्वा निर्बाधा सती श्रुतिः सर्वाभेदे पर्यवस्यति । न ह्यभेदेऽपि बाध्यबाधकभावः । स्वस्यापि स्वबाधकतापत्तेः । तदुक्तं खण्डनकृद्भिः ।
सुदूरधावनश्रान्ता बाधबुद्धिपरम्परा ।
निवृत्तावद्वयाम्नायैः पार्ष्णिग्राहैर्विजीयते ॥ इति ।
न च सिद्धान्ते घटतद्धीभेदग्राहिणा स्वप्रकाशेन साक्षिणा स्वस्मिन्नितरभेदस्यापि ग्रहणा-न्नानवस्था, अन्यथा स्वस्य घटादिभ्योऽभेदसंशयः स्यादिति वाच्यम् । साक्षिणः स्वप्रकाश-त्वेऽपि स्वनिष्ठेतरप्रतियोगिकभेदग्रहे इतरप्रतियोग्युपस्थितिसापेक्षत्वात् । अन्यथा स्वस्यान्तः-करणाद्यभेदभ्रमो न स्यात् । स्वप्रकाशेन भेदाग्रहेऽपि मानान्तरेण भेदग्रहान्न घटाद्यभेदसंशय इति न किञ्चिदेतत् । स्यादेतत् ‘घटपटौ भिन्नौ’ इति प्रत्यक्षं स्वस्याद्वैतज्ञानादिना भेदं विनानुपपत्तेस्तमप्याक्षिपतीति सर्वत्र भेदस्याप्रत्यक्षत्वेऽपि नाद्वैतश्रुतेरवकाशः । अत्रोच्यते आक्षेपो हि अनुमानमर्थापत्तिर्वा ? तत्र विवादाध्यासिता बुद्धिः सर्वतो भिन्नेति नानुमानं सम्भवति, स्वतोऽपि भेदसाधने बाधात् । दृष्टान्तस्य च साध्यविकलत्वात् । यतः कुतश्चिद् भेदसाधने त्वनुमानाविषये लब्धावकाशा श्रुतिरभेदं बोधयिष्यति । न च स्वव्यतिरिक्तात् सर्वतो भिन्नेति साध्यम्, अद्वैतवादिनं प्रत्यप्रसिद्धविशेषणत्वात् । एतेन सर्वं सर्वस्माद्भिन्नमिति वाक्यमपि निरस्तम् । तदुक्तम्–
हेत्वाद्यभावसार्वज्ञ्ये सर्वं पक्षयताऽऽस्थिते ।
किञ्चित्तु त्यजता दत्ता सैव द्वारद्वयश्रुतेः ॥ इति ।
नाप्यर्थापत्तिः सर्वभेदविषया, स्वाविषयत्वात् । ययोर्हि भेदं विना यत्रानुपपत्तिर्गृहीता, तयोस्तत्र भेदग्रहेऽप्यनुपपत्तावनुपपत्त्यन्तराग्रहणात् । सर्वत्र तद्ग्रहणे तु धाराविश्रान्तौ चरमधीरुदाहरणम् । तदुक्तम्–
आद्यधीवेद्यभेदीयाप्यन्याऽनुपपन्नता ।
स्वज्ञानापेक्षणादन्ते बाधते नाद्वयश्रुतिम् ॥ इति ।
ननु यावदुपपादकं तत्सर्वमर्थापत्तेर्विषयः, न तु यत्किञ्चिदुपपादकम्, तथा चार्थापत्ते-रितरस्माद् भेदाभावे तत्रैवाभेदश्रुतेर्लब्धावकाशत्वाद् घटपटभेदासिद्ध्यापत्तेरर्थापत्तिभेदस्यापि घटपटभेदोपपादकत्वे नार्थापत्तिविषयत्वं वाच्यम्, अन्यथा दृग्दृश्यसम्बन्धानुपपत्तिर्ज्ञान-निवर्त्यत्वानुपपत्तिश्च स्वमिथ्यात्वविषया न स्यात्, ‘सर्वं खल्विदं ब्रह्म’ इति श्रुतिः ‘नेह नाना’ इति ब्रह्मणि भेदमात्रनिषेधानुपपत्तिश्च स्वाभेदविषया न स्यात्, तथा च तत्रापि श्रुत्यन्तरम् अर्थापत्त्यन्तरं वा वाच्यमिति तवाप्यनवस्थापत्तिर् इति । मैवं वोचः, वस्तुत उपपादकत्वं नार्थापत्तिविषयत्वे तन्त्रम्, किन्तूपपादकत्वेन ज्ञातत्वम् । अन्यथा अर्थापत्ति भ्रमानुपपत्तेः । तथा च येन रूपेणोपपादकत्वं गृहीतं, तद्रूपावच्छिन्नमुपपादकमर्थापत्ते-र्विषयः । तत्र यद्यर्थापत्तिगतभेदसाधारणमुपपादकतावच्छेदकमेकं भवेत् तदा सोऽपि भायादेव । न चैवमस्ति तदनिरूपणात् । तथा हि घटपटभिन्नत्वमुपपाद्यम्, तदुपपादकं च न सर्वभिन्नत्वम्, स्वतोऽपि भेदापत्त्या तदसम्भवात् ।
नापि स्वातिरिक्तसर्वभिन्नत्वम्; अद्वैतवादिनं प्रति स्वातिरेकविशेषणासिद्धेः, स्वत्वाननुगमाच्च । तथा च तेन तेन रूपेण तत्तद्भिन्नत्वमेव उपपादकमुपेयम् । अत उपपादकतावच्छेदकनानात्वान्न सर्वमुपपादकम् अर्थापत्तेर्विषय इति पृथक्पृथगनुपपत्तिज्ञाना-पेक्षायां सर्वत्रानुपपत्तिज्ञानेऽनवस्थानात् । क्वचिद्धाराविश्रान्तौ तत्रैव लब्धावकाशा श्रुतिः सर्वाद्वैते पर्यवस्यतीति किमनुपपन्नम् ? दृष्टान्ते च सर्वत्र स्वसाधारणमुपपादकता-वच्छेदकमेकमेवेति तदवच्छिन्नतया स्वस्यापि भानमिति वैषम्यम् । तथा हि दृश्यत्वा-वच्छिन्नमिथ्यात्वं विना दृक्सम्बन्धानुपपत्तिग्रहात्तदवच्छिन्नमिथ्यात्वमर्थापत्तेर्विषय इति स्वमिथ्यात्वमपि स्वविषयः, एवमेव ज्ञाननिवर्त्यत्वानुपपत्तेरपि स्वविषयत्वम्, तत्रापि दृश्यत्वादेरेकस्यैवावच्छेदकत्वात् । एवं च ब्रह्मणि सर्वाभेद बोधिकायाः श्रुतेर्भेदमात्रनिषेधा-न्यथानुपपत्तेश्च स्वाभेदविषयत्वमविरुद्धम् । न हि सर्वभेदे स्वभेदापत्तिरिव सर्वाभेदे स्वाभेदो दोषाय । तस्मादद्वैतश्रुतिर्बाध्यबाधकयोरैक्यबोधनेन निराबाधा सर्वाद्वैतं प्रतिपादयति ।
ननु शब्दबुद्धिकर्मणां विरम्य व्यापाराभावात् कथमादावल्पविषया बुद्धिः पश्चाद् बहु-विषया भवतीत्युच्यत इति चेन्न, श्रुतितो द्रागेव जातायाः सर्वविषयाया अद्वैतबुद्धेः प्रामाण्यं व्यवस्थापयन्तीनामस्मद् बुद्धीनामेव क्रमेण जायमानत्वात् । अयोग्यताज्ञानं च न शाब्दबोधे प्रतिबन्धकम्, न वा योग्यताज्ञानं हेतुः, येन प्रथमं सर्वाद्वैतबुद्धिर्न स्यात् । तदुक्तम्–
अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि ।
अबाधात्तु प्रमामत्र स्वतः प्रामाण्यनिश्चलाम् ॥ इति ।
वेदान्तकल्पलतिकायामस्यार्थस्य प्रपञ्चो द्रष्टव्यः । एतेन चरमज्ञानमिथ्यात्वेऽपि न तद्विषयस्य मिथ्यात्वम्, ज्ञानमिथ्यात्वस्य विषयमिथ्यात्वासाधकत्वात्, अद्वैतज्ञाने व्यभिचारादिति निरस्तम्, श्रुत्यैव द्वैतमात्रनिषेध्यत्वबोधनात् । अद्वैतज्ञानविषये च मिथ्यात्व बोधकाभावादेव सत्यम् । न तु ज्ञानमिथ्यात्वादिति न किञ्चिदेतत् । ननु द्वैतज्ञानाद्वैत ज्ञानयोरभेदे कथं बाध्यबाधकभावः ? न च व्यावहारिकभेदमात्रेण सः, द्वैतज्ञानस्यापि बाधकत्वापत्तेरिति चेन्न, व्यावहारिकभेदमात्रस्य बाधकत्वाप्रयोजकत्वात् । यद्धि परीक्षित प्रमाणभावत्वेन बलवत्, तद् बाधकम्, यत्तु सन्दिग्धप्रमाणभावत्वेन दुर्बलं तद् बाध्यमिति व्यवस्थायां द्वैतज्ञानस्य दुर्बलत्वेनाबाधकत्वस्याद्वैतज्ञानस्य च बलवत्त्वेन बाधकत्वस्य शब्द प्रत्यक्षबलाबलविचारे दर्शितत्वात् ।
यत्तु ‘आपो वा इदं सर्वं भूतम्’ इत्यादिश्रुतिः ‘विमतं जलाभिन्नं प्रतीतत्वाज् जलवत्’ इत्यनुमानं वा स्वबाधकस्य जलाभेदं गृहीत्वा निर्बाधं सत् त्वदुक्तन्यायेन सर्वस्य जलाभेदं बोधयेद् इति, तन्न, जलाभेदबोधनेऽपि बाध्यबाधकयोरैक्याबोधनाद् बाधकस्य बाधकत्वोप पत्तेः, ऐक्यज्ञानभेदज्ञानयोर्बाध्यबाधकभावस्य जलाभेदज्ञानेनानपायात् । बाधकाभेदो हि बाधकत्वाभावे प्रयोजकः, बाधकस्य स्वबाधकत्वादर्शनात् । अतो न बाध्यबाधकैक्यज्ञानस्य जलाभेदज्ञानसाम्यम् । एतेन पूर्वं सर्वस्माद्भिन्नमिति मद्वाक्यमद्वैतवाक्यतज्ज्ञानतद्विषयाणां तेभ्यो भेदमादौ गृहीत्वा निर्बाधं सत्सर्वभेदे पर्यवस्यतीति निरस्तम्, बाध्यबाधकयोरभेदे बाधकत्वाभाववद् भेदेऽपि बाधकत्वं न स्यादित्यत्र हेत्वभावात् पूर्वोक्तदोषाच्चेति दिक् ।
सर्वासत्त्वं सर्वमिथ्यात्वान्नातिरिच्यते, अतः ‘सर्वमसदि’ति प्रत्यवस्थानमनवकाशम् । ननु श्रुत्या सर्वस्य मिथ्यात्वं वा बोध्यते, ब्रह्माभिन्नत्वं वा । आद्ये ‘सर्वं खल्विदं ब्रह्मे’ति सामानाधिकरण्यं न स्यात्, सत्यानृतयोरैक्यायोगात् । द्वितीये ‘इदं रजतं’ ‘गौरोऽहम्’ इत्यादिभ्रमाणां प्रमात्वं स्यात्, आत्मनि देहादिभेदस्यानृतादिव्यावृत्तेश्च बोधकानां वेदान्तानां ‘नेदं रजत’मित्यादिबाधकस्य चाप्रामाण्यं स्यात्, घटज्ञानेनैव तदभिन्नब्रह्मतदभेदादेः सर्वस्यापि वस्तुतो ज्ञातत्वेन सार्वज्ञ्यम्, वेदान्तानां वैयर्थ्यम्, सद्यो मोक्षश्च स्यात्, सुख-दुःखबन्धमोक्षभेदाऽभेददूषणभूषणजयपराजयभ्रान्तिप्रमादेरपि वस्तुतो भेदाभावेन सर्वसङ्करा-पत्त्या स्वक्रियास्वन्यायस्ववचनविरोधाश्च स्युरिति चेन्न, आद्ये ‘मृद् घटः’ ‘इदं रजत’-मित्यादाविव उपादानोपादेयभावेनापि सामानाधिकरण्योपपत्तेः । द्वितीये वस्तुतो भेदाभावेऽपि आविद्यकभेदमादाय सर्वव्यवस्थोपपत्तेः । न च भेदस्याप्यनाविद्यकब्रह्माभिन्नत्वेनाविद्य-कत्वायोग इति वाच्यम्, आविद्यकत्वस्याप्याविद्यकस्यैवाङ्गीकारात्, अथाविद्यकत्वस्यापि ब्रह्माभिन्नत्वात् कथमाविद्यकत्वमिति चेत्, तस्मिन्नपि तस्य कल्पितत्वादिति गृहाण ।
ननु मुक्तावाविद्यकस्यापि भेदस्याभावेनानन्दस्य दुःखाभिन्नत्वेनापुरुषार्थत्वापातः, तत्तद-साधारणस्वभावस्य तत्र तत्राभावेऽपि तत्तदभेदे पारिभाषिकोऽयमभेदो भेदे पर्यवस्येद्, असाधारणरूपेण भेदमभ्युपेत्य सद्रूपेण भेदनिषेधेऽपि इष्टापत्तिरप्रसक्तनिषेधश्चेति चेन्न, एक-स्यामेव ब्रह्मव्यक्तौ तत्तदसाधारणस्वभावानां कल्पितत्वेनासत्त्वात् सर्वकल्पनानिषेधकाले कल्पितधर्मावच्छिन्नभेदाभेदादिप्रसक्तेरयोगात् । अत एव नाप्रसक्तप्रतिषेध इष्टापत्तिर्वा, ‘सद् द्रव्यं’ ‘सन् गुण’ इत्यादिप्रतीत्या प्रसक्तानां तत्तद्धर्माणां ब्रह्मणि प्रतिषेधात् । अतः सर्वधर्मशून्याया एकस्या एव सद्व्यक्तेश्चिदानन्दरूपायाः प्रतिपादनान्न पारिभाषिकोऽयमभेद इति सिद्धम् । तदेवं ‘सर्वं ब्रह्माभिन्नमि’ति मते मिथ्याभूतस्य ब्रह्मभेदेऽपि सन्मात्रमेव ब्रह्माभिन्नमिति मते वा न प्रत्यक्षादिविरोधः नापि पूर्वोत्तरविरोधः ॥
॥ इत्यद्वैतश्रुतेर्बाधोद्धारः ॥
न्यायामृततरङ्गिणी
प्रत्यक्षाविरोधं शङ्कते– अत्रोक्तमिति ॥ नियतेति ॥ घटपटभेदग्राहिप्रत्यक्षं स्वस्य श्रौतैक्यज्ञानस्य च भेदं न गृह्णाति । स्वस्य स्वाविषयकत्वात् । ऐक्यज्ञाना विषयकत्वाच्चेत्यर्थः ॥ स्वाभिन्नमिति ॥ स्वस्मादगृहीतभेदमित्यर्थः ॥ न बाधत इति ॥ अन्यथा स्वस्यापि स्वेन बाधापत्तेरित्यर्थः ॥ सर्वाद्वैत इति ॥ ज्ञानैक्य-द्वारा तद्विषययोरैक्यं गृह्णातीत्यर्थः । ननु प्रत्यक्षज्ञानं श्रौतैक्यज्ञानात् स्वस्य भेदं मैव ग्रहीत् । ज्ञानान्तरं तद्गोचरं स्वविषययोस्तयोर्भेदं ग्रहीष्यत इत्यत आह– न च बाध्येति ॥
अनवस्थाभयादिति ॥ अनवस्थायां विषयान्तरसञ्चारादिकं न स्यादित्यर्थः ॥ चरमेति ॥ ज्ञानान्तरगृहीतभेदज्ञानं तद्विषयं चापाततः परित्यज्य ययैव परबुध्द्या घटपटभेदबुद्धेर् घटात्पटाच्च भेदो विषयीक्रियते तस्या एव स्वविषयेण सहाद्वैतश्रुतिः प्रामाण्यमवलम्ब्य लब्धपदा घटपटतद्भेदतद्बुद्धिभिः सह द्वितीयाया बुद्धेरभेदे पर्य-वस्यन्ती सर्वेषामेव तेषामभेदे विश्राम्यतीत्यर्थः ॥ निवृत्ताविति ॥ अनवस्थाया बाधपरम्परया निवृत्तौ सत्यामित्यर्थः । पार्ष्णिग्राहैः पृष्टतो गच्छद्भिः ॥ चोर इति ॥ भेदापहारित्वेनाद्वैतश्रुतेश्चोरत्वात् । सङ्गृह्णाति– एवञ्चेति ॥
अप्रसक्तेति ॥ नन्वप्रसक्तप्रतिषेध इति किमप्रसिद्धप्रतियोगित्वं वाऽऽह अप्रयोजनत्वं वा । नाद्यः । अन्यत्र प्रसिद्धस्यैव भेदस्य भेदत्वेनोपस्थितस्य परस्पर प्रतियोग्यनुयोगिभावेनान्यत्र निषेधसम्भवात् । न च तत्रैव प्रसिद्धिस्तन्त्रम् । निषेध मात्रोच्छेदप्रसङ्गात् । न द्वितीयः । अनर्थनिवृत्तेरेव प्रयोजनत्वात् । मैवम् । श्रौत निषेधस्य तदधिकरणकप्रसक्तिपूर्वकत्वनियमात् । प्रसक्तिं विना निषेधस्याप्रामाण्य हेतुत्वात् । अत एव ‘अभागिप्रतिषेधात्’ इति सूत्रे ‘न पृथिव्यामग्निश्चेतव्यो नान्त-रिक्षे न दिवि’ इति अप्रतिषेधभागिनमर्थं प्रतिषेधतीति शाबरभाष्येऽन्तरिक्षा-दावग्निचयनप्राप्तेरभावान्नान्तरिक्ष इत्यादिवाक्ये प्रामाण्यमाक्षिप्तम् । अन्यथा पृथिव्यां प्राप्तस्य चयनस्यान्तरिक्षादौ निषेधसम्भवात्तदनुपपत्तेः ॥ श्रुतेरपीति ॥ पञ्चम्यन्तम् । अस्मदादिभिरिति शेषः । तेन न लोकेति खल्योगे षष्ठी नेति न शङ्कनीयम् । सम्बन्धसामान्ये वा षष्ठी न कर्तरीति ध्येयम् ।
ननु प्रत्यक्षाद्यनुपस्थितचरमज्ञानस्य नेह नानेत्यादिश्रुतिस्थकिञ्चनादिपदादुप स्थितिरस्तु । तदभेदश्च तया बोध्यतामित्यत आह– न हीति ॥ प्रत्यक्षप्राप्तं घटादिकं विहाय तदप्राप्ते चरमज्ञाने किञ्चनादिशब्दस्य तात्पर्यमस्त्वित्यत आह– श्रौतस्येति ॥ घटादेः प्राप्ततया तदंशे तदनुवादकं वाच्यं, चरमज्ञानस्य मानान्तरा-प्राप्ततया तदंशे तदपूर्वमिति वैरूप्यलक्षणवाक्यभेदः स्यादित्यर्थः ॥ तर्हीति ॥ भेदग्राहिप्रत्यक्षविरोधादित्यर्थः ॥ चरमधियः प्रत्यक्षसिद्धत्वे तस्याश्चरमत्वहानि रित्यपि बोध्यम् ।
ननु यत्प्रत्यक्षेण गृह्यते तद्भेदोऽपि तेनैव गृह्यत इति नास्ति नियमः । तथा हि । न तावत्पदार्थस्वरूपज्ञानमेव भेदज्ञानम् । अभेदभ्रमोच्छेदप्रसङ्गात् । स्वरूपभेद वादिनामपि स्वरूपज्ञानाद्् घटत्वादिप्रकारकाद् भेदत्वप्रकारकभेदज्ञानं विलक्षणमेव । अन्यथा भेदाग्रहनिबन्धनव्यवहारानुदयप्रसङ्गात् । अत एव स्वरूपज्ञानोत्तरम् अवश्यं भेदज्ञानमित्यपि न । मैवम् । स्वरूपज्ञानस्यैव भेदज्ञानत्वात् । अभेदभ्रम-हेतुदोषसत्त्वे तत एव प्रतिबन्धेन भेदाग्रहोपपत्तेः । न च यत्र दोषवशाद्भेदग्रहस् तत्रैव श्रुत्या तदभेदो ग्रहीष्यत इति वाच्यम् । दोषप्रयुक्तभेदाग्रहनिबन्धनाभेदग्रहस्य भ्रमत्वनियमेन श्रौताभेदज्ञानस्य भ्रमत्वापत्तेः । अन्यथा दोषकाले शुक्तौ स्वभेद-भ्रमो भवतीति दोषाभावेऽपि स्वेनैक्यं शुक्तित्वादिकं च न गृह्येतेति ॥ एवं चेति ॥ बोधनीयाभेदयोर्भेदप्रसक्तौ तत्प्रमाणबाधो ऽप्रसक्तौ यस्य कस्यचिदभेदस्तया बोध-नीयः न तु बाध्यबाधकत्वाभिमतयोरित्यर्थः । तयैव चरमज्ञानोपस्थापने चरमत्वे व्याघातः । अनुपस्थितौ तत्र श्रुतिप्रवृत्तिव्युत्पादनायोगः । तथा च–
सुदूरधवनाश्रान्ता बाधबुद्धिपरम्परा ।
निवृत्तावद्वयाम्नायैः पार्ष्णिग्राहैर्न जीयते ॥
इत्यपि सुपठमित्यपि बोध्यम् ।
न्यायामृतकण्टकोद्धारः
ननु प्रत्यक्षेण सर्वत्र भेदो गृहीत एवेति न नियमः । तस्य नियतविषयत्वात् । न च सामान्यलक्षणादिजन्यं न नियतविषयमिति वाच्यम् । सामान्यलक्षणाया अनभ्युपगमात् । अभ्युपगमे वा तस्य सामान्यविषयताऽविरोधित्वात् । न च श्रुतिरपि सामान्यविषयेति वाच्यम् । तस्यास्तत्वमसीत्यादिविशेषविषयत्वस्यापि सम्भवादिति खण्डनकारमतेनाशङ्कते अत्रेति । यथा खलु लोके कश्चिद् विजिगीषुर्दूरप्रस्थितः परवाहिनीं विजित्य निवृत्तौ पार्ष्णिग्राहैर्विजीयते तथा बाधबुद्धिपरम्पराऽद्वैतपराजयाय दूरं प्रस्थिता अनवस्थाभिया क्वचिन्निवृत्तौ पार्ष्णिग्राहैरद्वयाम्नायाख्यैर्विजीयते । निवृत्तौ हेतुः सुदूरधावनश्रान्तेति । भूरिकक्षानुसरणालसेति यावत् ।
अप्रसक्तेति । नन्वत्राप्रसक्तप्रतिषेध इति कोऽर्थः ? किमप्रसिद्धप्रतियोगिकत्वं, किं वा निष्प्रयोजनत्वमिति ? नाद्यः । अन्यत्र प्रसिद्धस्यैव भेदस्य भेदत्वेनोपस्थितस्य परस्पर प्रतियोग्यनुयोगिभावेनान्यत्र निषेधसम्भवात् । न चात्रैव प्रसिद्धिस्तन्त्रम् । निषेध-मात्रोच्छेदप्रसङ्गात् । न द्वितीयः । अनर्थनिवृत्तेरेव प्रयोजनत्वात् । ‘नान्तरिक्षेऽग्निश्चेतव्य’ इत्यादौ स्तुतिमात्रप्रयोजनेनापि अप्रसक्तनिषेधदर्शनाच्चेति चेन्न । प्रसक्तत्वं नाम निषेधाधिकरणे प्रसक्तिर्विवक्षिता । न चैवं निषेधमात्रोच्छेदः, आहार्यानाहार्यप्रतियोगि-प्रसिद्धेः प्रयोजकत्वाभ्युपगमेन आहार्यप्रसिद्धिमादाय निषेधसम्भवात् । आहार्यप्रसिद्धे-र्निषेधबुद्ध्यविरोधित्वात् । अत एव प्रतियोग्यधिकरणसंसर्गारोपो निषेधबोधे कारणमिति नैयायिकाः । न चैवं प्रकृतेऽपि भेदप्रतीतिराहार्यैवास्तु । तस्या निषेधबुध्यविरोधि-त्वान्निषेधोऽप्यस्तु इति वाच्यम् । निषेधमात्रे प्रतियोगिप्रसिद्धेरनाहार्यत्वनियमाभावेऽपि श्रुतेः परार्थत्वेन परस्यानाहार्यप्रसक्तेरेवापेक्षिततया तस्या निषेधबुद्धिविरोधसम्भवात् । अन्यथा श्रुत्या प्रत्यक्षवत् सिद्धमपि बोधनीयं स्यादिति सिद्धार्थता दोषो न स्यात् । त्वया चानुवादकत्वेन दुर्बलत्वं नोच्येत । अत एव श्रुत्या निषेधाय तद्धैक आहुरिति सामयिकप्रसिद्धिरुक्ता ।
नन्वेवं तर्हि श्रुत्या क्वापि निषेधो न स्यात् । सर्वत्र प्रतिप्रसक्त्या विरोधादिति चेन्न । प्रसक्तिसम्पादकान्निषेधकस्य प्राबल्योपपादनेन तदुपपत्तेः । न चैवं प्रकृतेऽस्ति । भेदज्ञान- स्यैव प्राबल्यस्योपपादितत्वात् । उपपादयिष्यमाणत्वाच्च । अस्तु वा निष्प्रयोजनत्वम् अप्रसक्तत्वम् । तथा च भेदनिषेधस्याप्रयोजनत्वादप्रसक्तता । न चानर्थनिवृत्तिरेव प्रयोजनम् । तस्या अभेदज्ञानासाध्यत्वस्योक्तत्वाद् वक्ष्यमाणत्वाच्च । पृथगात्मानमिति श्रुत्या भेदज्ञानस्यैवानर्थनिवृत्तिसाधनत्वबोधनाच्च । प्रत्युतैकात्म्यं नाम यदिदमिति श्रुत्याऽभेदज्ञानस्यानर्थहेतुत्वावगमाच्च । एतेनैव दृष्टान्तोऽपि निरस्तः । अस्त्वप्रसक्तस्यैव निषेधस् तथापि भेदोपस्थितिरावश्यकी । पदार्थोपस्थितिं विनाऽभेदबोधनायोगात् । पदार्थोपस्थितौ च भेदोऽप्युपतिष्ठत इत्याह– किञ्चेति ।
ननु श्रुत्यैव चरमधीरित्यत आह– न हीति ॥ उभयत्र तात्पर्ये वाक्यभेदापत्तेः । विशिष्टतात्पर्येऽखण्डार्थहानेः, अनुपयोगाच्चेति भावः । अत्र चरमधियः प्रस्तुतत्वेऽपि घट ग्रहणं तस्य प्राप्तत्वेन तत्र तात्पर्यासम्भवप्रतिपादनार्थम् । ननु श्रुतिस्थपदस्य घटादावनु वादकता चरमबुध्यादौ विधायकतेति नोक्तदोष इत्यत आह श्रौतस्येति । एकस्यैव पदस्यैकदाऽनुवादकत्वं विधायकत्वं च विरुद्धमिति भावः । ननु प्रत्यक्षेण स्वरूपमात्रोप स्थितिः, न भिन्नत्वेनेत्यत आह श्रुत्यापि हीति । ननु यदा प्रत्यक्षादिना स्वरूपं ज्ञायते तदाऽवश्यं भेदो ज्ञायत एवेति न नियमः । अभेदभ्रमोच्छेदप्रसङ्गात् । स्वरूपभेद-ज्ञानयोर्भिन्नप्रकारकत्वानुभवाच्च । स्वरूपज्ञानेन भेदव्यवहारप्रसङ्गाच्च ।
नापि स्वरूपज्ञानानन्तरं भेदोऽवश्यं ज्ञायत एवेति नियमः । अनवस्थाप्रसङ्गात् । अतो भेदज्ञानस्यानावश्यकत्वान्न कोऽपि दोष इति चेन्न । भावानवबोधात् । त्वयाऽ-द्वैतश्रुत्या ह्यभेदो बोध्यत इत्युच्यते । तथा यथाकथञ्चिदुपस्थितयोरभेदबोधने किञ्चित् केनचिदभिन्नम् इति ज्ञानं स्यात् । तच्चानुपयोगि । पूर्वसिद्धत्वेनाद्वैतवाक्यासाध्यं च । अतः प्रत्यक्षेण बाधकतावच्छेदकबाध्यतावच्छेदकप्रकारेणोपस्थितयोरद्वैतश्रुत्याऽभेदो बोध्यत इति स्वी-कर्तव्यम् । तथा च कथं न भेदोपस्थितिः ? व्यावृत्तरूपेणोपस्थितेरेव भेदोपस्थिति त्वात् । तेन रूपेणोपस्थितयोरभेदभ्रमाभावाद् भेदव्यवहारहेतुत्वाच्च ।
वस्तुतस्तु स्वरूपोपस्थितिरेव भेदज्ञानम् । ‘प्रायः सर्वतो विलक्षणं हि पदार्थस्वरूपम् अनुभूयते’ इत्यादिनाऽस्मिन्नर्थेऽनुभवस्य प्रमाणत्वेनोक्तत्वात् । भ्रमश्च न सर्वाभिन्न-मिदमिति । किन्तु क्वचिदंशे । एवं च यदंशे भ्रमस् तदंशे दोषवशाद् भेदो न गृहीत इति भ्रमो युज्यते । भेदव्यवहाराहेतुत्वं चासिद्धम् । विस्तरस्तु भेदखण्डनोद्धारे भविष्यति । एवं च स्वरूपज्ञानमेव भेदज्ञानमिति पक्षे दोषाभावाद् भेदोपस्थितेर्विरोधिन्या विद्यमानत्वान्न कुत्राप्यभेदो बोधयितुं शक्यत इति सूक्तं, कथं यामिकगृहे चोर इव श्रुतिस्तत्र तिष्ठेदिति ।
न्यायामृतप्रकाशः
प्रत्यक्षाविरोधं शङ्कते– अत्रोक्तं खण्डन इति ॥ घटपटौ भिन्नाविति प्रात्यक्षिकं ज्ञानं ‘सर्वं खल्विदं ब्रह्म’ इत्यादिवाक्यजन्यघटपटादिसमस्तैक्यज्ञानस्य तदा बाधकं स्याद् यद्यैक्य ज्ञानात्स्वयं भिन्नं स्यात् । न चैतदस्ति । कुत इति चेद् ऐक्यज्ञानप्रतियोगिकभेदावगाहि अन्यज्ज्ञानं तावन्नास्त्येव । अतः स्वयमेव तदवगाहीति वक्तव्यम् । न चैतत्सम्भवति । प्रत्यक्षस्य नियतविषयकत्वेन घटपटभेदमात्रावगाहितया ऐक्यज्ञानप्रतियोगिस्वधर्मिकभेदाव गाहनाक्षमत्वात् । अत ऐक्यश्रुतिः स्वबाधनाय यत्प्रवृत्तं घटपटौ भिन्नाविति प्रत्यक्षं तेन सहादौ एकीभवति । अनन्तरं निर्बाधा सती स्वविषययोर्भेदैक्ययोरप्यैक्यं गृह्णातीत्येवं सर्वाद्वैते पर्यवस्यतीति क्व प्रत्यक्षविरोधः ।
ननु न स्वयं निर्बाधा । प्रत्यक्षस्यैव बाधकत्वात् । न च नियतविषयकेण प्रत्यक्षेण श्रौतैक्यज्ञानप्रतियोगिकस्वधर्मिकभेदाग्रहणात्, अन्यस्य च तद्ग्राहकस्याभावात्तेनैकीभूय स्वयं निर्बाधा सती सर्वाद्वैते पर्यवस्यतीत्युक्तमिति वाच्यम् । बाधकभूतघटपटभेदग्राहिप्रत्यक्षं बाध्यादैक्यज्ञानाद्भिन्नमिति प्रत्यक्षरूपज्ञानान्तरेण प्रत्यक्षैक्यज्ञानभेदग्रहाङ्गीकारादिति चेन्न । बाध्यबाधकयोरैक्यज्ञानप्रत्यक्षयोर्भेदावगाहिनो ज्ञानान्तरस्य ताभ्यां भेदाभावे तदुभयभेदग्राहक त्वाभावात् । ताभ्यां स्वस्मिन्भेदग्रहस्य नियतविषयकेण स्वेनैवायोगात् । पुनरन्येन ज्ञानेन तद्ग्रहे वाच्येऽनवस्था स्यादतोऽनवस्थाभयाद्यत्र बुद्धिपरम्पराविच्छेदस्तत्रैवान्त्यज्ञाने नियत विषये स्वविषयभूतबाध्यबाधकज्ञानाभ्यां भेदस्याग्रहणात्तत्रैवैक्यज्ञानं तेन चरमेण ज्ञानान्त-रेणैैकीभूय निर्बाधं सत्सर्वाद्वैते पर्यवस्यतीति न प्रत्यक्षविरोध इत्याह– प्रत्यक्षमित्यादिना ॥
नियतविषयमिति ॥ घटपटभेदग्राहिप्रत्यक्षस्य श्रौतैक्यज्ञानस्य च भेदं न गृह्णाति स्वस्य स्वविषयकत्वाद् ऐक्यज्ञानाविषयकत्वाच्चेत्यर्थः ॥ स्वाभिन्नमिति ॥ स्वस्मादगृहीत भेदमित्यर्थः ॥ न बाधत इति ॥ अन्यथा स्वस्यापि स्वेन बाधापत्तिरिति भावः ॥ सर्वाद्वैत इति ॥ ज्ञानैक्यद्वारा तद्विषययोरप्यैक्यं गृह्णातीत्यर्थः । ननु प्रत्यक्षज्ञानं श्रौतैक्य ज्ञानात्स्वस्य भेदं नैव गृह्णाति । ज्ञानान्तरं तु तद्गोचरं स्वविषययोस्तयोर्भेदं ग्रहीष्यतीत्यत आह– न चेति ॥ कुतो न चेत्यत आह– अनवस्थेति ॥ चरमज्ञान इति ॥ भेद ग्राहिणो अन्तिमे ज्ञानान्तर इत्यर्थः । स्वविषयात्स्वस्य भेदग्राहकस्य ज्ञानान्तरस्यानवस्था भयेनानङ्गीकारादिति भावः ॥ बाधबुद्धिपरम्परेति ॥ भेदावगाहिज्ञानान्तरपरम्परेत्यर्थः ॥ निवृत्ताविति ॥ अनवस्थया बाधपरम्पराया निवृत्तौ सत्यामित्यर्थः । पार्ष्णिग्राहैः पार्ष्णिं गृह्णन्तीति पार्ष्णिग्राहास्तैः पृष्ठतो गच्छद्भिरित्यर्थः । यथा कश्चिद्दूरधावनेन श्रान्तः सन् निवृत्तः पार्ष्णिग्राहेण जीयत इति प्रसिद्धं तद्वदिति भावः । निवृत्ता चेत्यपि पाठः ।
‘एकमेवाद्वितीयं, नेह नानास्ति किञ्चन’ इत्यादिश्रुत्या घटपटादिभेदो निषिद्ध्यत इत्युच्यते तत्र पृच्छामः । अद्वैतबोधनात्पूर्वं घटपटादेर्भेदः प्रसक्तो न वेति । तत्राद्य एवाङ्गी कार्यो न द्वितीयः कुत इत्यत आह– अप्रसक्तेति ॥ आद्यपक्षाङ्गीकारेऽपि किं लब्धम् इत्यत आह– तथा चेति ॥ यत्र यत्रेति ॥ घटपटविषये वा तत्प्रत्यक्षैक्यज्ञानविषये वा ताभ्यां ज्ञानान्तरविषये वा तेभ्यः पुनर्ज्ञानान्तरविषये वेत्यर्थः ॥ यामिकगृहे चोर इवेति ॥ ‘यामिको रात्रिजागरः’ इत्यभिधानाज्जागरूकस्सन् रात्रौ ग्रामसंरक्षको यामिकस्तद्गृहे यथा चोरस्य नावकाशः । एवं नेह नानेति श्रुतिनिषेध्यभेदप्रसञ्जकत्वेन यामिके प्रत्यक्षे जागरूके सति भेदापहारित्वेन चोरभूता नेहनानेति श्रुतिः कथमवकाशम् आसादयेदित्यर्थः । इममर्थं सङ्गृह्णाति– एवञ्चेति ॥ अतत्वावेदकत्वाद्भेदग्राहिप्रत्यक्षम् अप्रमाणमिति पूर्वमेव निरस्तमिति हृदयम् ।
किञ्च धर्मिभूतचरमधीसिद्धिकाल एव तत्स्वरूपभेदस्यापि सिद्धत्वेन तत्राभेद श्रुते-र्नावकाशः । ततश्चानवस्थाभयाद्यत्र परम्पराविच्छेदस्तत्रैव चरमज्ञाने ऐक्यश्रुतेरवकाश इति यदुक्तं तदसदित्याशयेनाह– किञ्चेति ॥ चरमधीः प्रत्यक्षाद्यसिद्धा तत्सिद्धा वा । नाद्य इत्याह– चरमधीरिति ॥ भेदग्राहिणी चरमधीरित्यर्थः । तदभेदश् चरमधियि नेहनानेति श्रुतिजन्यज्ञानादभेदोऽस्मदादिभिः श्रुत्यापि दुर्ग्रहः । धर्मिण एवानुपस्थितेरित्यर्थः । ननु चरमधियः प्रत्यक्षासिद्धत्वेऽपि सर्वाभेदादिविधायकनेहनानेति श्रुतिस्थस्य किञ्चनशब्दस्य घटादिसर्वप्रपञ्चप्रतिपादकत्वेन चरमधियोऽपि तदन्तर्गतत्वाच्छ्रौतकिञ्चनशब्देनैव तत्सिद्धि-र्भविष्यति, तदभेदश्च तथा बोध्यत इति चेत्तत्राह– न हीति ॥ प्राप्तत्वादिति ॥ तथा चानुवादकत्वान्न तत्र तात्पर्यमिति भावः ।
ननु घटादेः प्रत्यक्षप्राप्तत्वेन तदंशे श्रौतकिञ्चनशब्दस्यानुवादकत्वेन तात्पर्याभावेऽपि चरमधियोऽप्राप्तत्वेन तदंशे श्रौतकिञ्चनशब्दस्याननुवादकत्वमेवास्वित्यत आह– श्रौतस्येति ॥ वैरूप्येति ॥ सकृत्प्रयुक्तशब्दस्यासति बाधके एवं वैरूप्यकल्पनायोगादित्यर्थः । तथा चानुवादकत्वविधायकत्वाभ्यां वाक्यभेदः स्यादिति भावः । द्वितीये त्वाह– अथेति । तेनैवेति । चरमधीप्रत्यक्षग्राहकस्वरूपेणेत्यर्थः । भेदस्य तत्स्वरूपत्वादिति भावः । कथं नावकाश इत्यतस् तदुपपादयति– श्रुत्यापि हीति । नेह नानेति श्रुत्यापीत्यर्थः । अभिमत योर्ज्ञानयोः । वस्तुगत्या बाध्यबाधकभावाभावादभिमतयोरित्युक्तम् ।
इतरेतरभिन्नत्वेनोपस्थितयोरेवाभेदः कस्माद्बोध्य इत्यत आह– यस्य कस्यचिदिति ॥ इदं बाधकम् ऐक्यज्ञानं बाध्याद्भेदज्ञानाद्भिन्नमित्युपस्थितौ सत्यामेव तयोरभेदबोधने बाधकस्य बाध्याभेदः सिद्ध्यति अन्यथा बाध्यं बाधकमित्यसङ्कीर्णव्यवहारायोगेन यस्य कस्यचिद्येन केनचिद् अभेद इत्येव प्राप्त्या बाधकस्य बाध्याभेदासिद्धेरित्यर्थः ॥ एवञ्चेति ॥ बोधनीया-भेदयोर्बाध्यबाधकत्वेनाभिमतयोर्ज्ञानयोर्भेदप्रसक्तौ तत्प्रमाणेनैव बाधः । अप्रसक्तौ तु यस्य कस्यचिद्येन केनचिदभेदबोधनापत्त्या बाधकस्य बाध्याभेदाचोदनादुभयतः पाशारज्जुर्गल बन्धिका रज्जुरित्यर्थः ।
न्यायकल्पलता
प्रत्यक्षाविरोधं मन्यमानः शङ्कते– अत्रोक्तमिति ॥ घटपटभेदगाहिप्रत्यक्षं स्वस्मात् श्रौतैक्यज्ञानस्य भेदं न गृह्णाति । स्वस्य स्वाविषयकत्वात् । ऐक्यज्ञानाविषयकत्वाच्च इत्यभि सन्धायोक्तं नियतेति ॥ स्वाभिन्नमिति ॥ स्वस्मादगृहीतभेदमित्यर्थः ॥ न बाधत इति ॥ अन्यथा स्वस्यापि स्वेन बाधापत्तेरित्यर्थः ॥ सर्वाद्वैत इति ॥ ज्ञानैक्यग्रहणद्वारा तद्विषययोरप्यैक्यं गृह्णातीत्यर्थः । ननु प्रत्यक्षज्ञानं श्रौतैक्यज्ञानात्स्वस्य भेदं मैव ग्रहीत् । ज्ञानान्तरं तद्गोचरं स्वविषययोस्तयोर्भेदं ग्रहीष्यतीत्याशङ्क्य निराकरोति– न चेति ॥ अनवस्थाभयादिति ॥ अनवस्थया विषयान्तरसञ्चारादिकं न स्यादिति भयादित्यर्थः ॥ चरमेति । ज्ञानान्तरगृहीतभेदज्ञानं तद्विषयं चापाततः परित्यज्य ययैवापरबुद्ध्या घट पटभेदबुद्धेर्घटात्पटाच्च भेदो विषयीक्रियते तस्या एव स्वविषयेण सहाद्वैतश्रुतिः प्रामाण्यम् अवलम्ब्य लब्धपदा घटपटतद्भेदबुद्धिभिः सह द्वितीयाया बुद्धेरभेदे पर्यवस्यन्ती सर्वेषामेव तेषामभेदे विश्राम्यतीत्यर्थः ॥ निवृत्ताविति ॥ अनवस्थया बाधपरम्पराया निवृत्तौ सत्यामित्यर्थः । पार्ष्णिग्राहैः पृष्ठतो गच्छद्भिः ॥ चोर इवेति । भेदापहारित्वेन श्रुतेश्चोरसाम्यम् ।
उक्तमर्थं सङ्गृह्णाति– एवं चेति ॥ अप्रसक्तेति ॥ नन्वप्रसक्तप्रतिषेध इति किमप्रसिद्ध प्रतियोगिकत्वं किं वा निष्प्रयोजनत्वम् । नाद्यः । अन्यत्र प्रसिद्धस्यैव भेदस्य भेदत्वेनोप स्थितस्य परस्परप्रतियोग्यनुयोगिभावेनान्यत्र निषेधसम्भवात् । न च तत्रैव प्रसिद्धिस्तन्त्रम् । निषेधमात्रोच्छेदप्रसङ्गात् । न द्वितीयः । अनर्थनिवृत्तेरेव प्रयोजनत्वादिति चेत् । मैवम् । श्रौतनिषेधस्य तदधिकरणकप्रसक्तिपूर्वकत्वनियमात् । प्रसक्तिं विना निषेधस्याप्रामाण्य हेतुत्वात् । अत एव ‘अभागिप्रतिषेधात्’ इति जैमिनिसूत्रे ‘न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवि’ इत्यप्रतिषेधभागिनमर्थं प्रतिषेधतीति शाबरभाष्येऽन्तरिक्षादावग्निचयन प्राप्तेरभावात् ‘नान्तरिक्षे’ इत्यादिवाक्ये प्रामाण्यमाक्षिप्तम् । अन्यथा पृथिव्यां प्राप्तस्य चयनस्यान्तरिक्षादौ निषेधसम्भवात्तदनुपपत्तेः ॥ श्रुतेरपीति । शेषत्वविवक्षया सम्बन्ध सामान्ये षष्ठी । न कर्तरि । श्रुतेः करणत्वात् । यद्वा श्रुतेरिति पञ्चम्यन्तम् । अस्म-दादिभिरिति शेषः । तेन ‘न लोकाव्यय’ इति खल्प्रत्यययोगे षष्ठी नेति न मन्तव्यम् । यद्वा नञा निर्दिष्टमनित्यम् इति कर्तृषष्ठ्युपपत्तिः । ‘विवक्षातः कारकाणि भवन्ति’ इति वचनात् ।
ननु प्रत्यक्षाद्यनुपस्थितचरमज्ञानस्य ‘नेह नानास्ति किञ्चन’ इत्यादिश्रुतिस्थ किञ्चनादि पदादुपस्थितिरस्तु । तदभेदश्च तया बोध्यतामित्यत आह ॥ न हीति । ननु प्रत्यक्षप्राप्तं घटादिकं विहाय तदप्राप्ते चरमज्ञाने किञ्चनादिशब्दस्य तात्पर्यमस्त्वित्यत आह ॥ श्रौत-स्येति । घटादेः प्राप्ततया तदंशे तदनुवादकं वाच्यम् । चरमज्ञानस्यानुमानाद्यप्राप्ततया तदंशे तदपूर्वार्थमिति वैरूप्यलक्षणो वाक्यभेदः स्यादित्यर्थः ॥ तर्हीति ॥ भेदग्राहिप्रत्यक्ष-विरोधादित्यर्थः । चरमधियः प्रत्यक्षसिद्धत्वे तस्याश्चरमत्वहानिरित्यपि बोध्यम् ।
ननु यत्प्रत्यक्षादिना गृह्यते तद्भेदोऽपि तेनैव गृह्यत इति नास्ति नियमः । तथा हि । न तावत्पदार्थस्वरूपज्ञानमेव भेदज्ञानम् । अभेदभ्रमोच्छेदप्रसङ्गात् । स्वरूपभेदवादिनामपि स्वरूपज्ञानाद् घटत्वादिप्रकारकाद्भेदत्वप्रकारकभेदज्ञानं विलक्षणमेव । अन्यथा भेदाग्रह निबन्धनव्यवहारानुदयप्रसङ्गात् । अत एव स्वरूपज्ञानोत्तरमवश्यं भेदज्ञानमित्यपि नेति चेत् । मैवम् । स्वरूपज्ञानस्यैव भेदज्ञानत्वात् । अभेदभ्रमहेतुदोषसत्वे तत एव प्रतिबन्धेन भेदाग्रहोपपत्तेः । न च यत्र दोषवशाद्भेदाग्रहस्तत्रैवाद्वैतश्रुत्या तदभेदो ग्रहीष्यत इति वाच्यम् । दोषप्रयुक्तभेदाग्रहनिबन्धनाभेदग्रहस्य भ्रमत्वनियमेन श्रौताभेदज्ञानस्य भ्रमत्वा-पातात् । अन्यथा दोषकाले शुक्तौ स्वभेदभ्रमो भवतीति दोषाभावेऽपि स्वेनैक्यं श्रुतित्वादिकं च न गृह्येतेति ॥ एवं चेति ॥ बोधनीयाभेदभेदयोर्भेदप्रसक्तौ तत्प्रमाणबाधः । अप्रसक्तौ यस्य कस्यचिदभेदस्तया बोधनीयो न तु बाध्यबाधकत्वाभिमतयोरित्यर्थः । तयैव चरम ज्ञानोपस्थापने चरमत्वव्याघातः । अनुपस्थापने तत्र श्रुतिप्रवृत्तिव्युत्पादनायोगः । तथा च–
सुदूरधावनश्रान्ता बाधबुद्धिपरम्परा ।
निवृत्तावद्वयाम्नायैः पार्ष्णिग्राहैर्न जीयते ॥ इति सुवचम् ।
न्यायामृतसौगन्ध्यं
ननु प्रत्यक्षस्य शङ्किताप्रामाण्यतया न विरोधित्वम् । किञ्च प्रत्यक्षं नियतविषयं श्रुतिः सर्वविषया । तथा च यत्र प्रत्यक्षेण भेदो न गृहीतस्तत्रैवाभेदश्रुतेरवकाश इति चेन्न । श्रुतेरपि स्वाप्नश्रुतिवदप्रामाण्यशङ्कासम्भवात् । किञ्चेत्याद्ययुक्तम् । श्रुत्या प्रत्यक्षगृहीतस्याभेदा बोधने सर्वाभेदासिद्ध्या मतहानेः । किञ्च ययोरैक्यं श्रुत्या बोध्यते तयोर्भेदः प्रसक्तो न वा । नान्त्यः । अप्रसक्तप्रतिषेधापातात् । नाद्यः । प्रसञ्जकप्रमाणविरोधेनैक्यस्य बोधयितुम् अशक्यत्वात् ।
ननु अप्रसक्तप्रतिषेध इति किम् अप्रसिद्धप्रतियोगिकत्वं वा निष्प्रयोजनत्वं वा । नाद्यः । अन्यत्र प्रसिद्धस्यैव भेदस्य भेदत्वेनोपस्थितस्य परस्परप्रतियोग्यनुयोगिभावेनान्यत्र निषेध सम्भवात् । न च तत्रैव प्रसिद्धिस्तन्त्रं, निषेधमात्रोच्छेदप्रसङ्गात् । न द्वितीयः । अनर्थ निवृत्तेरेव प्रयोजनत्वात् । मैवम् । श्रौतनिषेधस्य तदधिकरणकप्रसक्तिपूर्वकत्वनियमात् । ‘प्रसक्तिं विना निषेधस्याप्रामाण्यहेतुत्वात् । अत एव ‘भागिप्रतिषेधात्’ इति सूत्रे ‘न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवि’ इत्यप्रतिषेधभागिनमर्थं प्रतिषेधतीति शाबर भाष्येऽन्तरिक्षादौ अग्निचयनप्राप्तेरभावात् ‘नान्तरिक्षे’ इत्यादिवाक्ये प्रामाण्यमाक्षिप्तम् । अन्यथा पृथिव्यां प्राप्तस्य चयनस्यान्तरिक्षादौ निषेधसम्भवात्तदनुपपत्तेः । तथा ‘नतौ पशौ करोति’ इत्यादौ दर्शपूर्णमासयोः प्रसिद्धयोराज्यभागयोः पशौ निषेधसम्भवेन पश्वधिकरणक प्रसक्त्यर्थानुमिताज्यभागप्रापकतन्निषेधशास्त्राभ्याम् आज्यभागविकल्पनं स्यात् । अप्रसक्तस्या-नर्थस्य निवृत्तेरप्रयोजनत्वाच्च स्तुतिमात्रपदवाक्येनाथ•सिद्धेश्च ।
यत्तु यद्यपि स्तुतौ लक्षणया तात्पर्यं तथापि तदापादकवाक्यार्थबोधो वाच्य एव । यथा च तत्र स्तुतिधीः प्रयोजनं तथा प्रकृतेऽपि सर्वाभिन्नब्रह्मबोधस्य भेदभ्रमसंशयादिनिवृत्ति-रिति । तन्न । लक्षणोपपादकवाक्यार्थबोधस्य विषयो ह्यसन्नेव । न हि तर्तिलयावा वाज्रहयादित्यादौ यवागु करणक वास्त्ववहोमोस्ति वस्तुतः सर्वाभिन्नब्रह्मबोधस्य तव सदेव सत्वेन भेदभ्रमा(दि)दनिवृत्यदर्शनाच्च ।
किञ्च श्रुत्या ययोरभेदो बोध्यते तयोरुपस्थितिरस्ति न वा । नान्त्यः । अनुप स्थितयोरभेदबोधनायोगात् । आद्ये सा किं शुक्तिजन्या प्रत्यक्षजन्या वा । नाद्यः । श्रुते-र्मानान्तरागोचराभेदमात्रपरत्वेन घटाद्युपस्थितेस्तज्जन्यत्वाभावेन सर्वाद्वैतासिद्धेः, श्रुतिस्थ ‘किञ्चन’ इत्यादिपदानाम् अनुवादकत्वाभ्युपगमात् । द्वितीये तु तयोर्भेदोऽपि प्रत्यक्षसिद्ध इति क्वाद्वैतश्रुत्यवकाशः ।
ननु यत्प्रत्यक्षेण गृह्यते तद्भेदोऽपि तेनैव गृह्यत इति नास्ति नियमः । तथा हि– न तावत्पदार्थस्वरूपज्ञानमेव भेदज्ञानम् । अभेदभ्रमोच्छेदप्रसङ्गात् । स्वरूपभेदवादिनामपि स्वरूपज्ञानाद् घटत्वादिप्रकारकाद् भेदत्वप्रकारकभेदज्ञानं विलक्षणमेव । अन्यथा भेदाग्रह निबन्धनव्यवहारानुदयप्रसङ्गात् । अत एव स्वरूपज्ञानोत्तरम् अवश्यं भेदज्ञानम् इत्यपि न । स्वरूपज्ञानस्यैव भेदज्ञानत्वाद् अभेदभ्रमहेतुदोषसत्वे तेनैव प्रतिबन्धेन भेदाग्रहोपपत्तेः । न च यत्र दोषवशाद् भेदग्रहस्तत्रैव श्रुत्या तदभेदो ग्रहीष्यते इति वाच्यम् । दोषप्रयुक्त-भेदाग्रहनिबन्धनाभेदग्रहरूपभ्रमत्वनियमेन श्रौताभेदज्ञानस्य भ्रमत्वापत्तेः । अन्यथा दोषकाले शुक्तौ स्वभेदभ्रमो भवतीति दोषाभावेऽपि स्वेनैक्यं शुक्तित्वादिकं च न गृह्येते इति ।
यत्तु श्रौतस्याभेदज्ञानस्य दोषाजन्यत्वेन श्रौतत्वेन च न भ्रमत्वम् । भेदग्रहस्य दोष-प्रयुक्तनियमेन ग्राह्यभेदयोर्वस्तुनोरभेदग्रहस्य प्रमात्वनियमाच्च । चरमज्ञाने श्रुत्यवकाशोक्ति-र्युक्तैव । चरमत्वं हि प्रकृते भेदेनाग्राह्यमाणत्वं तथा च गृहीतभेदेऽपि साक्षिसिद्धे तत्र श्रुतिः प्रवर्तत इत्यत्र न दोष इति । तन्न । भेदवत्येव हि दोषनिबन्धनोऽभेदाग्रहस्तन्निबन्धनो भेदग्रहः । अत एव श्रौतोऽपि भ्रम एव । अत एव दोषप्रयुक्तभेदाग्रहमूलकत्वस्य भ्रामत्वं तद्वति तदभावप्रकारकत्वात् । न हि भेदाभाववति भेदाग्रहो दोषप्रयुक्तः । भेदग्रहत्वस्य भ्रमत्वव्याप्यत्वोक्तिर्दुराशामात्रम् । चरमत्वमित्याद्यप्ययुक्तम् । साक्षिणा तद्भेदोऽपि गृह्यत इत्युक्तत्वात् ।
नन्वत एव स्वरूपज्ञानोत्तरकालमवश्यं भेदज्ञानमित्यपि न । अनवस्थाप्रसङ्गाच्च । तथा हि– ‘घटपटौ भिन्नौ जानामि’ इति घटपटभेदधीः स्वप्रकाशा वा अनुव्यवसायसिद्धा वा साक्षिसिद्धा वा न स्वप्रतियोगिकभेदविषया । भेदधियः प्रतियोगिधीजन्यत्वनियमेन प्रतियोगि धीव्यक्तिभिन्नव्यक्तित्वावश्यकत्वात् । स्वस्या एव स्वजन्यत्वानुपपत्तेः । ज्ञानान्तरेण च तद्भेदग्रहे क्वचिद्भेदधीधाराविश्रान्तिरवश्यं वाच्या । अन्यथा सुषुप्तिविषयान्तरसञ्चारादिकं न स्यात् । अतस्तत्रापि चरमभेदधीरेवोदाहरणम् । तथा च बाधकत्वाभिमता या घटपट-भेदधीर् न स्वभेदाविषया भासते तया सह बाध्यत्वाभिमताया ऐक्यधिय ऐक्यं बोधयित्वा निर्बाधा सती श्रुतिः सर्वाभेदे पर्यवस्यति । न ह्यभेदेऽपि बाध्यबाधकाभावः । स्वस्यापि स्वबाधकतापत्तेः । तदुक्तं खण्डनकृद्रिः–
सुदूरधावनश्रान्ता बाधबुद्धिपरम्परा ।
निवृत्तावद्वयाम्नायैः पार्ष्णिग्राहैर्विजीयते । इति ।
न च सिद्धान्ते घटतद्धीभेदग्राहिणा स्वप्रकाशेन साक्षिणा स्वस्मिन्नितरभेदस्यापि ग्रहणा-न्नानवस्था । अन्यथा स्वस्य घटादिभ्योऽभेदसंशयः स्यादिति वाच्यम् । साक्षिणः स्वप्रकाशत्वेऽपि स्वनिष्ठेतरप्रतियोगिकभेदग्रहे इतरप्रतियोग्युपस्थितिसापेक्षत्वात् । अन्यथा स्वस्यान्तःकरणाद्यभेदभ्रमो न स्यात् । स्वप्रकाशेन भेदाग्रहेऽपि मानान्तरेण भेदग्रहान्न घटपटाद्यभेदसंशय इति चेन्न । स्वप्रकाशेन साक्षिणा स्वस्माद्भिन्नत्वेनैव घटादिज्ञाना-ग्रहणात् । इतरत्वन्तु स्वत्वप्रतिद्वन्द्वीभावसाधारणोऽखण्डो धर्मः न त्वन्योन्याभावत्वम् । तत्प्रकारकज्ञानं तु यत्किञ्चिदितरस्मिन् गृहीते अस्त्ये(व) न । साक्षिणो नित्यत्वेन धीजन्यत्वनियमाभावात् । अन्यथेत्याद्ययुक्तम् । नाडीविषये मनः संयोगरूपसुषुप्तौ स्वप्रकाश रूपसाक्षिणि विद्यमानेऽपि विषयाभावेनाग्रहणसम्भवात् । किञ्च इत्यादिमूलोक्तदूषणस्यानु- द्धाराच्च ।
न च साक्षिणः स्वप्रकाशत्वेऽपि स्वनिष्ठेतरप्रतियोगिकभेदग्रहे स्वेतरप्रतियोग्युपस्थित्य-पेक्षा । अन्यथाऽन्तःकरणाद्यभेदभ्रमो न स्यात् । स्वप्रकाशेन भेदाग्रहेऽपि मानान्तरेण भेद-ग्रहान्न घटाद्यभेदसंशय इति वाच्यम् । साक्षिणा भेदग्रहेण प्रतियोगिज्ञानानपेक्षणात् सर्वभेद ग्राहकमानान्तरे मानाभावेन कदाचिद् घटाद्यभेदापत्तेः । अन्तःकरणेन सहाभेदारोपानभ्युप गमात् । भेदग्राहकं शब्दोऽनुमानादिकमेव । प्रत्यक्षस्यासामर्थ्यात् । तथा च शब्दाद्यभावे नाहं घट इति भेदानुभवापत्तेः । मानान्तरेण स्मृतिसाधारणप्रतियोग्युपस्थितिसम्भवाच्च । एतेन चरमा धीर्यत्र यद्भेदम् अवगाहते तया तद्भेदेन च सह तस्या अभेदम् अद्वैतश्रुति-र्बोधयतीति सन्धस्तादशभेदं नाहितं नेष्ठे । एवं च पूर्वधियामपि स्वविषयेण भेदासिद्ध्या श्रुतिः सर्वाभेदे पर्यवस्यतीति निरस्तम् । न च तद्ग्राहकभेदारोपाभावेऽन्तःकरणधर्माणां दुःखादीनां ‘अहं दुःखी’ इत्यात्मनिष्ठतयाऽनुभवानुपपत्तिरिति वाच्यम् । अन्तःकरणो-त्पन्नानां दुःखादीनां स्वस्वाभिभवादिसम्बन्धेन जीवे सम्भवात् ।
किञ्च घटपटौ भिन्नौ इति प्रत्यक्षं स्वस्याद्वैतज्ञानादिना भेदं विनाऽनुपपत्तेस्त-मप्याक्षिपति । सर्वत्र भेदस्याप्रत्यक्षत्वेऽपि नाद्वैतश्रुतेरवकाशः । ननु आक्षेपो हि अनुमान-मर्थापत्तिर्वा । तत्र विवादाध्यासिता बुद्धिः सर्वतो भिन्नेति नानुमानं सम्भवति । स्वतोऽपि भेदसाधने बाधात् । दृष्टान्तस्य च साध्यविकलत्वात् । (अविद्यावत) यतः कुतश्चिद्भेदसाधने त्वनुमानाविषये लब्धावकाशा श्रुतिरभेदं बोधयिष्यति । न च स्वव्यतिरिक्तात्सर्वतो भिन्नेति साध्यं, अद्वैतवादिनं प्रति अप्रसिद्धविशेषणत्वात् । एतेन सर्वं सर्वस्माद्भिन्नमिति वाक्यमपि निरस्तम् । तदुक्तम्–
हेत्वाद्यभावसार्वज्ञे सर्वं पक्षयता स्थिते ।
किञ्चित्तु त्यज्यता दत्ता सैव द्वाराऽद्वयश्रुतेः ॥ इति ।
नाप्यर्थापत्तिः सर्वभेदविषया । स्वाविषयत्वात् । ययोर्हि भेदं विना यत्रानुपपत्तिर्गृहीता तयोस्तत्र भेदगृहेऽप्यनुपपत्तावनुपपत्त्यन्तराग्रहणात् । सर्वत्र तद्ग्रहणे तु धाराविश्रान्तौ चरमधीरुदाहरणम् । तदुक्तम्–
आद्यधीवेद्यभेदीयाऽप्यन्यथानुपपन्नता ।
स्वज्ञानापेक्षणादन्ते बाधते नाद्वयश्रुतिम् ॥ इति चेन्न ।
यावदुपपादकं हि तावदर्थापत्तेर्विषयः न तु यत्किञ्चिदुपपादकम् । तथा चार्थापत्तेरितर- स्माद्भेदाभावे तत्रैवाभेदश्रुतेर्लब्धावकाशत्वाद् घटपटभेदासिद्ध्यापत्तेरर्थापत्तिभेदस्यापि घटपट भेदोपपादकत्वेनार्थापत्तिविषयत्वं वाच्यम् । अन्यथा दृग्दृश्यसम्बन्धानुपपत्तिर्ज्ञाननिवर्त्य त्वान्यथानुपपत्तिश्च स्वमिथ्यात्वविषया न स्यात् । ‘सर्वं खल्विदं ब्रह्म’ इति श्रुतिः ‘नेह नाना’ इति ब्रह्मणि भेदमात्रनिषेधानुपपत्तिश्च स्वाभेदविषया न स्यात् । तथा च तत्रापि श्रुत्यन्तरमर्थापत्त्यन्तरं वा वाच्यमिति तवाप्यनवस्थापत्तेः ।
ननु वस्तुत उपपादकत्वं नार्थापत्तिविषयत्वे तन्त्रम् । किन्तूपपादकत्वेन ज्ञातत्वम् । अन्यथा अर्थापत्तिभ्रमानुपपत्तेः । तथा च येन रूपेणोपपादकत्वं गृहीतं तद्रूपावच्छिन्न मुपपादकमर्थापत्तेर्विषयः । तत्र यद्यर्थापत्तिगतभेद(भेदा)साधारण(मुपपाद्यं तदु)मुपपादका वच्छेदकमेकमेव भवेत् तदा सोऽपि भायादेव । न चैवमस्ति । तदनिरूपणात् । तथा हि घटपटभिन्नत्वमुपपाद्यं, तदुपपादकं च न सर्वभिन्नत्वं, स्वतोऽपि भेदापत्त्या तदसम्भवात् । नापि स्वातिरिक्तसर्वभिन्नत्वम्, अद्वैतवादिनं प्रति स्वातिरेकविशेषणासिद्धेः सत्वाननु-गमाच्च । तथा च तेन तेन रूपेण तत्तद्भिन्नत्वमेवोपपादकम् उपेयम् । अत उपपादकता-वच्छेदकनानात्वान्न सर्वम् उपपादकमर्थापत्तेर्विषय इति पृथक् पृथगनुपपत्तिज्ञानापेक्षायां सर्वत्रानुपपत्तिज्ञानेऽनवस्थानात् क्वचिद्धाराविश्रान्तौ तत्रैव लब्धावकाशा श्रुतिः सर्वाद्वैते पर्यवस्यतीति किमनुपपन्नम् । दृष्टान्ते च सर्वत्र स्वसाधारणमुपपादकतावच्छेदकमेकमेवेति तदवच्छिन्नतया स्वस्यापि भानमिति वैषम्यम् । तथा हि दृश्यत्वावच्छिन्नत्वमिथ्यात्वं विना दृक्सम्बन्धानुपपत्तिग्रहात्तदवच्छिन्नमिथ्यात्वमर्थापत्तेर्विषय इति स्वमिथ्यात्वमपि स्वविषयः । एवमेव ज्ञाननिवर्त्यत्वानुपपत्तेरपि स्वविषयत्वम् । तत्रापि दृश्यत्वादेरेकस्यैवावच्छेदकत्वात् । एवं ब्रह्मणि सर्वाभेदबोधिकायाः श्रुतेर्भेदमात्रनिषेधानुपपत्तेश्च स्वाभेदविषयत्वमविरुद्धम् । न हि सर्वभेदे स्वभेदापत्तिरिव सर्वाभेदे स्वाभेदो दोषाय । तस्मादद्वैतश्रुतिर्बाध्यबाधकयोरैक्य बोधनेन निराबाधा सर्वाद्वैतं प्रतिपादयतीति चेन्न । अत्रार्थापत्तिसाधारणस्योपपादक तावच्छेदकस्य सत्वात् । घटपटभेदोपपादकं हि तद्भेदसिद्धिविरोधिभेदाभावाद्यन्यतमविरह-रूपत्वं (यद्येतद्विरोधितदभावकूटं वा ।) यथा हि घटपटभेदज्ञानस्याद्वैतज्ञानेन भेदाभावे घटभेदसिद्धिर्न भवति, तथाऽर्थापत्तेरद्वैतज्ञानाद्भेदाभावेऽपि उक्तरीत्या घटपटभेदसिद्धिर्न भवतीति तद्भेदोऽपि तथा । अतोऽर्थापत्तिभेदोऽपि घटपटभेदोपपादकतावच्छेदकावच्छिन्न त्वादर्थापत्तेर्विषय इति पिहितद्वारा (द्वयश्रुतिर्न स्वैरं सञ्चरिष्यति ।) ननु श्रुत्या सर्वाद्वैत- विषयतया जातायां बुद्धौ अस्माकं तत्तद्विषयेषु प्रामाण्यबुद्धय एव क्रमिका इति वाच्यम् । ब्रह्मणि सर्वाभेदस्यैव श्रुतत्वात् । तदन्यथानुपपत्या घटपटाद्यभेदस्य कल्प्यत्वात् । प्रथमोपस्थिते भेदप्रसक्तिमति कल्पकाभेद एव प्रथमं प्रामाण्यधीर्न्याय्या । स एव च न हि सम्भवति प्रत्यक्षबाधितत्वात् । न चायोग्यताज्ञानं न शाब्दबोधे प्रतिबन्धकं न वा योग्यता- ज्ञानं हेतुः । येन प्रथमं सर्वाद्वैतबुद्धिर्न स्यात् । तदुक्तं–
अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि ।
अबाधात्तु प्रमामत्र स्वतःप्रामाण्यनिश्चलाम् ॥ इति वाच्यम् ।
परीक्षितप्रत्यक्षादिबाधितार्थावबोधकत्वेन श्रुतेरप्रामाण्यापत्तेः । तार्किकास्तु तत्र शब्दा-त्पदार्थोपस्थितौ मानसज्ञानस्यैव उदयः । ‘वह्निना सिञ्चति’ इत्यादावयोग्यताज्ञानात्सूवेशा-दानुत्पतेः सर्वसिद्धत्वेन तत्प्रतिबन्धकतायास्त्ववश्यवाच्यत्वात् कलहादौ तादृशतात्पर्यज्ञान-सत्वाद्दुःखोत्पत्तिः । अत एव दैववशसपन्नंतादाकाशब्दान्न दुःखम् । तादृशतात्पर्यज्ञानादिति रूपके मुखचन्द्र इत्यादौ आह्लादके लक्षणा । एवमन्यत्रापि । उपमात्वे तु भेदगर्भ-सादृश्यभानम् इति तयोर्भेद इत्याहुः ।
किञ्च द्वैतज्ञानाद्वैतज्ञानयोर्वस्तुतोऽभेदेऽपि भेदाभावेऽपि वा व्यवहारिकभेदमात्रेण द्वैत-ज्ञानस्याद्वैतज्ञानबाधकत्वोपपत्तिः । न च व्यावहारिकभेदमात्रं न बाधकत्वे प्रयोजकं किन्तु यत्परीक्षितं तत्प्रबलं, यदपरीक्षितं सन्दिग्धं प्रमाणभावं तद्दुर्बलमिति व्यवस्थायां द्वैतज्ञानस्य दुर्बलत्वेनाबाधकत्वम् । अद्वैतज्ञानस्य च बलवत्वेन बाधकत्वमिति वाच्यम् । द्वैतप्रत्यक्षा-दावपि सुखपर्यन्तं परीक्षाया उपपादितत्वात् । ‘आपो वा इदं सर्वम्’ इति श्रुतिः, ‘विमतं जलाभिन्नं प्रतीतत्वात्, जलवत्’ इत्यनुमानं वा स्वबाधकस्य जलाभेदं गृहीत्वा निर्बाधं सत् त्वदुक्तन्यायेन सर्वस्य जलाभेदं बोधयेत् ।
ननु जलाभेदबोधनेऽपि बाध्यबाधकयोरैक्याबोधनाद्बाधकस्य बाधकत्वोपपत्तेः, ऐक्यज्ञान भेदज्ञानयोर्बाध्यबाधकभावस्य जलाभेदज्ञानेनानपायात् । बाधकाभेदो हि बाधकत्वाभावे प्रयोजकः । बाधकस्य स्वबाधकत्वादर्शनात् । अतो न (बाध्य)बाधकैक्यज्ञानस्य जलाभेद ज्ञानसाम्यमिति चेन्न । जलाभेदबोधनद्वारा बाध्यबाधकज्ञानयोरैक्यस्यैवोक्तत्वात् । यद्वा जलभेदज्ञानस्य ‘आपो वा इदं सर्वम्’ इत्यादिना जलाभेदबोधनेन जलीकृतस्य जलाभेदज्ञान प्रतिबन्धकत्वाभावात्सर्वसाम्यस्य दृष्टान्तेऽनपेक्षणात् ।
किञ्च ‘नेति नेति’ इत्यादिनियतविषयभेदश्रुतिः, सर्वस्माद्भिन्नमिति मद्वाक्यम्, अद्वैत वाक्यतज्ज्ञानतद्विषयाणां तेभ्यो भेदमादौ गृहीत्वा निर्बाधं सत्सर्वभेदे पर्यवस्यति । न च ‘बाध्यबाधकयोरभेदे बाधकत्वाभावाद् भेदेऽपि बाधकत्वं न स्यात्’ इत्यत्र हेत्वभावादिति वाच्यम् । यथा हि बाध्याभिन्नस्य न बाधकत्वं तथा बाधकभिन्नस्यापि । न हि बाधकभिन्नं घटपटादिकं बाधकं दृष्टम् । यथा च शब्दाद्यभेदो वेदाध्ययनादौ बाधकः द्विजातिभेदोऽपि तथेति सुप्रसिद्धम् । किञ्च ‘असदेवेदम्’ इत्यादिश्रुतिः, ‘सर्वम् असत्’ इति मद्वाक्यं वा प्रथमं ‘सदेव सोम्य’ इत्यादिब्रह्मसत्वबोधकवाक्येऽसत्वं गृहीत्वा सर्वासत्वे पर्यवस्येदिति स्यात् । न च सर्वासत्वं सर्वमिथ्यात्वान्नातिरिच्यते इति वाच्यम् । मिथ्यात्वस्य त्वया सद्भिन्नत्वाङ्गीकारात् ।
यत्तु अपरोक्षतया ज्ञायमानानां पृथिव्यादीनाम् अलीकत्वासम्भवेन सर्वस्य मिथ्यात्व रूपासत्वमेव वाच्यम् । तथा च मिथ्याभूतस्यापि अर्थक्रियाकारित्वेन पूर्वोक्तमिथ्यात्वेन ज्ञायमानस्यापि सत्यादिवाक्यस्य प्रमाजनकत्वसम्भवादतथात्वज्ञानाधीनाप्रमात्वज्ञानस्य सत्यादिवाक्यजज्ञाने वक्तुमशक्यत्वात् । अन्यथा सर्वासत्ववाक्यादावपि असत्वज्ञानेन तज्जन्येऽप्यप्रमात्वसम्भवात् । अद्वैतज्ञानिनं प्रति स्वाप्नमसदित्युपन्यासस्य विशेषणाप्रसिद्ध्या कर्तुमशक्यत्वात् । द्वैतमात्रबोधकत्वादिना ‘सत्यं ज्ञानम्’ ‘अद्वितीयम्’ इत्यादिना, ‘सत्यम्, अद्वितीयम्’ इत्यादिवाक्यस्य सर्वासत्वादिवाक्याद्यपेक्षयोक्तरीत्या प्राबल्याच्छून्यवादापत्ते-श्चेति । तन्न । आपत्तौ बाधस्य भूषणत्वात् । अपरोक्षतया ग्राहकस्य चक्षुरादेरप्रमाणत्वेन विरोधाभावात् । स्वरूपेण त्रैकालिकनिषेधप्रतियोगिनोऽसतो रज्जुसर्पादेरपरोक्षत्वात् । मिथ्याभूतस्यार्थक्रियाकारित्वस्य निराकृतत्वात् ।
अन्यथेत्याद्ययुक्तम् । न ह्यसत्वं प्रमा(आपा)द्यते । व्याघातात् । किन्तु ज्ञानमात्रम् । औतेत्याद्ययुक्तम् । कल्पितभेदस्य तेनाप्यङ्गीकारात्स्वतः सिद्धेरतिप्रसङ्गेन मानसिद्वस्य मिथ्यात्वेऽपि शून्यवादाविशेषात् । किञ्च श्रुत्या सर्वस्य मिथ्यात्वं बोध्यते ब्रह्माभिन्नत्वं वा । आद्ये ‘सर्वं खल्विदं ब्रह्म’ इति सामानाधिकरण्यं न स्यात्, सत्यानृतयोरैक्यायोगात् । द्वितीये ‘इदं रजतं, ‘गौरोऽहम्’ इत्यादिभ्रमाणां प्रमात्वं स्यात् । आत्मनि देहाद्भेदस्य अनृतादिव्यावृत्तेश्च बोधकानां वेदान्तानां ‘नेदं रजतम्’ इत्यादिबाधकस्य चाप्रामाण्यं स्यात् । घटज्ञानेनैव तदभिन्नब्रह्मतदभेदादेश्च सर्वस्यापि वस्तुतो ज्ञातत्वेन सार्वज्ञं, वेदान्तानां वैय्यर्थ्यम्, सद्यो मोक्षश्च स्यात्, सुखदुःखबन्धमोक्षभेदाभेददूषणभूषणजयपराजयभ्रान्ति प्रमादेरपि वस्तुतो भेदाभावेन सर्वसङ्करापत्त्या स्वक्रियास्वन्यायस्ववचनविरोधाश्च स्युः ।
ननु आद्ये ‘मृद् घटः, ‘इदं रजतम्’ इत्यादाविव उपादानोपादेयभावेनापि सामानाधि-करण्योपपत्तिः । द्वितीये वस्तुतो भेदाभावेऽपि आविद्यकभेदमादाय सर्वव्यवस्थोपपत्तिः । न च भेदस्याप्यनाविद्यकब्रह्माभिन्नत्वेनाविद्यकत्वायोग इति वाच्यम् । आविद्यकत्वस्याप्याविद्य कस्यैवाङ्गीकारात् । अथाविद्यकत्वस्यापि ब्रह्मभिन्नत्वात्कथमाविद्यकत्वमिति चेत्, तस्मिन्नपि तस्य कल्पितत्वादिति चेन्न । त्वया ब्रह्मणोविकारिकारणत्वानङ्गीकारेण मृद् घट इति (च) सामानाधिकरण्यानुपपत्तेः । जगन्मिथ्यात्वसिद्धेः प्राक् ब्रह्मणो विवर्ताधिष्ठानत्वा सिद्ध्या ‘इदं रजतम्’ इत्यादेरिव सामानाधिकरण्यसिद्धेश्च । भेदनिष्ठाविद्यकत्वे भेदस्यानाविद्यकत्वो-पपत्तेः । अनवस्थास्वभावस्य तत्र तत्राभावेऽपि तत्तदभेदेऽभेदस्य पारिभाषिकत्वापत्या भेदे पर्यवसानादसाधारणरूपेण भेदमङ्गीकृत्य सद्रूपेण भेदनिषेधे इष्टापत्तिरप्रसक्तप्रतिषेधश्च ।
नन्वेकस्यामेव ब्रह्मव्यक्तौ तत्तदसाधारणस्वभावानां कल्पितत्वेनासत्वात् सर्वकल्पना निषेधकाले कल्पितधर्मावच्छिन्नभेदाभेदादिप्रसक्तेरयोगात् । अत एव नाप्रसक्तनिषेध इष्टा-पत्तिर्वा । ‘सद् द्रव्यं, ‘सन् गुणः’ इत्यादि प्रतीत्या प्रसक्तानां तत्तद्धर्माणां ब्रह्मणि प्रतिषेधात् । अतः सर्वधर्मशून्याया एकस्या एव सद्व्यक्तेश्चिदानन्दरूपताप्रतिपादनादपारि भाषिकोऽयं(म) भेद इति चेन्न सुखदुःखादिसर्वस्वभावानां तत्र कल्पितत्वे ब्रह्मणो निः स्वभावत्वापत्या शून्यवादापत्तेः । सर्वकल्पनानिषेधकाले इत्ययुक्तम् । कालस्यैव सत्वेन तद्भेदनिषेधायोगात् । अत एवेत्याद्ययुक्तम् । द्रव्यत्वगुणत्वादीनां ब्रह्मणि प्रसक्त्यभावे प्रतिषेधवैय्यर्थ्यात् प्रामाण्यप्रसक्तेः सर्वथा निषेधायोगात् । एतेन तदेव सर्वं ब्रह्माभिन्नमिति मते, मिथ्याभूतस्य ब्रह्मभेदेऽपि सन्मात्रमेव ब्रह्माभिन्नमिति मते वा न प्रत्यक्षादिविरोध इति निरस्तम् । आद्ये सत्यानृतयोरभेदासम्भवात् । द्वितीये प्रसक्तप्रतिषेध इष्टापत्तिश्च ।
॥ द्वैतप्रत्यक्षस्याद्वैतश्रुतिबाधकत्वखण्डनभङ्गविवरणम् ॥