१७ सामान्येन मिथ्यात्वे श्रुतिनिरासः

नापि श्रुतिः

३६. सामान्येन मिथ्यात्वे श्रुतिनिरासः

न्यायामृतं

नापि श्रुतिः । श्रुत्या स्वस्वरूपस्वप्रामाण्यतद्धेतुयोग्यतादेर्मिथ्यात्वाबोधने प्रत्यक्षादिसिद्धतत्सत्यत्वोपजीवने ब्रह्मेतरसर्वमिथ्यात्वासिद्धेः । ‘सन्निपातलक्ष णो विधिरनिमित्तं तद्विघातस्य’ इति महाभाष्योक्तन्यायेन प्रत्यक्षादिसिद्ध घटादिमिथ्यात्वासिद्धेश्च । बोधने श्रुतिबोध्यार्थस्य तात्त्विकत्वासिद्धेः । शब्द बोध्यस्य शब्दतत्प्रामाण्ययोग्यतादिना समसत्ताकत्वनियमादित्युक्तत्वात् । सदर्थे स्वाप्नदेवतादिवाक्येऽपि योग्यताप्रामाण्ये अपि सती एव । शब्दस्वरूपम् अपि मम सत्यम्, तव तु न तच्छब्दत्वेन मानम्, आप्त्यपौरुषेयत्वयोरभावात्, किन्तु यादृच्छिकसंवादि वा उपश्रुतिवत्तादृशशब्दज्ञानं लिङ्गत्वेन प्रमाणं वा । न च तात्त्विकसर्वमिथ्यात्वपरश्रुतिबलादिह समसत्ताकत्वनियमभङ्गः ।‘स्वर्ग कामो यजेत’ इत्यादिविधेरुपजीव्याग्निविद्यावद्विषयकत्वेनेव द्वैतनिषेधस्यापि स्वोपजीव्य-योग्यतादीतरविषयकत्वेन सङ्कोचस्य वा सृष्ट्यादिश्रुतेरिव कल्पित विषयत्वस्य वोपपत्तौ श्रुतेस्तात्त्विकसर्वमिथ्यात्वपरत्वकल्पनेऽन्योन्याश्रयात् । तस्मात्–

शब्दार्थतद्योग्यतयोस्तुल्यत्वाद्योग्यता सती ।

न चेद्वेदोऽप्रमाणं स्याद् वृषलोद्वाहमन्त्रवत् ॥

एवं श्रुतिः स्वबोध्यं द्वितीयाभावमपि निषेधति चेत् स्वव्याघातः । न चेत्सर्व मिथ्यात्वासिद्धिरिति ।

अद्वैतसिद्धिः

एतदनुमानम् ‘एकमेवाद्वितीयम्’ इत्यादिश्रुतिरप्यनुगृह्णाति । ननु श्रुत्या स्वस्वरूपस्वप्रामाण्य स्वयोग्यतादेर्मिथ्यात्वाबोधनेन प्रत्यक्षादिसिद्धतत्सत्त्वोपजीवनेन च ब्रह्मेतरसकलमिथ्यात्वासिद्धिः । ‘सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य’ इति न्यायेन प्रत्यक्षादिसिद्धघटादिमिथ्यात्वासिद्धिश्च । योग्यतादिमिथ्यात्वबोधने च श्रुत्यर्थस्यातात्त्विकत्वापत्तिः । शब्दबोध्यस्य शब्दतत्प्रामाण्य योग्यतादिना समसत्ताकत्वनियमात् । न च सदर्थे स्वाप्नदेवतावाक्ये व्यभिचारः । आप्तत्वा पौरुषेयत्वायोगेन तस्य शब्दत्वेन प्रामाण्यायोगात्, किन्तूपश्रुतिवत्तादृशशब्दज्ञानं लिङ्गत्वेन प्रमाण मिति चेन्न निर्दोषशब्दत्वेन तस्य शब्दविधयैव प्रामाण्यसम्भवाद्, आप्तत्वापौरुषेयत्वयोर्दोषाभाव एवोपक्षयाद् व्याप्त्याद्युपस्थितिकल्पने गौरवाद्, वक्तुः कल्पितत्वेऽपि तद्गतदोषस्यार्थसंवादेन कल्पयितुमशक्यत्वाच्च । तथा च शब्दसमसत्ताकत्वस्य व्यभिचाराद् योग्यतादिसमसत्ताकत्वनियम सिद्धेरप्रयोजकत्वाच्च, परोक्षत्वानित्यत्वाद्युपाधिसम्भवाच्च श्रुत्या योग्यतादिसकलमिथ्यात्वबोधनेऽपि तदर्थस्य न मिथ्यात्वम्, मिथ्यात्वप्रयोजकरूपाभावात् ।

महाभाष्योक्तन्यायोदाहरणमपि न युक्तम्, विषयवैषम्यात् । तथा हि ‘शतानि सहस्राणि’ इत्यत्र सर्वनामस्थानसंज्ञकशिसन्निपातेन विहितो नुम् ‘ष्णान्ता षट्’ इति षट्संज्ञाद्वारा ‘षड्भ्यो लुक्’ इति शिस्वरूपसर्वनामस्थानस्य पञ्चेत्यादाविव लुङ्निमित्तं न भवति, तत्सन्निपातेनैव विहितत्वात् । तत्सद्भावनियमेनैव विहितत्वादित्यर्थः । अलुप्तस्यैव सर्वनामस्थानस्य नुमि्न-मित्तत्वात्, ‘न लुमताङ्गस्य’ इति लुमता लुप्तेऽङ्गकार्यनिषेधात् । तथा चालुप्तप्रत्ययत्वेन यत्र निमित्तता तत्र सन्निपातलक्षणन्यायावतारः । यत्र तु ‘प्रत्ययलोपे प्रत्ययलक्षणम्’ इति न्यायेन लुप्तेऽपि प्रत्यये कार्यं भवति तत्रालुप्तत्वविशेषणनैरपेक्ष्येण प्रत्ययत्वमात्रेणैव निमित्तत्वान्न सन्निपातलक्षणन्यायावतारः । प्रत्ययसद्भावस्य तत्रानुपजीव्यत्वात् । एवं स्थिते यद्यमिथ्याभूतत्वेन प्रत्यक्षादेर्निमित्तता स्यात् तदा प्रत्ययस्यालुप्तत्वेन निमित्ततायामिव भवेदेतन्न्यायावतारः । प्रत्यक्षादेस्तु स्वरूपेणैव निमित्तता स्वप्नाद्यर्थस्याप्यर्थक्रियाकारित्वदर्शनेन प्रागेवोपपादिता ।

अतो ‘यद् बाध्यते तात्त्विकत्वं तन्नोपजीव्यम्, यच्चोपजीव्यम् अर्थक्रियासामर्थ्यलक्षण व्यावहारिकप्रामाण्यं तच्च न बाध्यत इति किं केन सङ्गतम् ? तदुक्तं टीकाकृद्भिः– ‘उत्पादकाप्रति द्वन्द्वित्वात्’ इति । अत एव ज्योतिष्टोमादिविधेरुपजीव्याग्निविद्यावद्विषयत्वेनेव द्वैतनिषेधस्यापि स्वोपजीव्ययोग्यतादीतरविषयत्वेन सङ्कोचस्य वा सृष्ट्यादिश्रुतेरिव कल्पितविषयत्वस्य वोपपत्तौ न तात्त्विकसर्वमिथ्यात्वकल्पनं युक्तम्’ इत्यपास्तम् । दृष्टान्ते अग्निविद्यादेरिव दार्ष्टान्तिके योग्यतादेस्तात्त्विकस्यानुपजीव्यत्वात् । न हि योग्यता तात्त्विकयोग्यतात्वेन निमित्तं किन्तु योग्यतात्वेनैव । सकलद्वैताभावस्याधिकरणस्वरूपत्वेन तदधिकरणस्य च ब्रह्मणः ‘सत्यं ज्ञानम् अनन्तं ब्रह्म’, ‘तत्सत्यं स आत्मा’ इत्यादिश्रुत्या सत्यत्वप्रतिपादनात्, न सृष्ट्यादिश्रुतेरिव कल्पितविषयत्वोपपत्तिः । तस्माद्योग्यतादेर्मिथ्यात्वेऽपि वेदान्तबोध्यं सत्यमेवेति स्थितम् । यथा चाविद्यातत्कार्यस्य स्वरूपतो निषेधेऽपि तुच्छवैलक्षण्यं, पारमार्थिकत्वाकारेण निषेधे वा पारमार्थिकत्वधर्मशून्यस्यापि ब्रह्मणः स्वरूपेण सत्त्वं, तथोपपादितमधस्तात् ।

न्यायामृततरङ्गिणी

श्रुतिश्चात्र प्रमाणमिति सामान्येनोक्तां श्रुतिं मिथ्यात्वे निराकरोति– नापीति ॥ तात्विके विश्वमिथ्यात्वे श्रुतिरपि मानं नेत्यर्थः । श्रुतिः स्वस्वरूपादिसत्यत्वम् उप जीवति न वा । आद्ये श्रुत्या विश्वमिथ्यात्वस्यैवासिद्धिः । दूरे तत्तात्विकत्वस्य इत्याह– श्रुत्येति ॥ अत्र हेतुरुक्तः ‘स्वस्वरूपेत्यादि मिथ्यात्वाबोधने’ इत्यन्तेन । मिथ्यात्वाबोधने हेतुः प्रत्यक्षादीति । स्वरूपादेर्मिथ्यात्वबोधने तत्सत्यत्वोपजीवना नुपपत्तेरित्यर्थः । स्वरूपादीतरमिथ्यात्वमेव ममाभिमतमिति मन्यमानं प्रत्याह– सन्निपातेति ॥ तच्छब्दश्रवणाद्यच्छब्दोऽध्याह्नियते । यत्सन्निपातेन यदुपजीवनेन लक्षणं स्वरूपं यस्य विधेः स विधिस् तस्य स्वोपजीव्यस्य विघातं प्रति अनिमित्तं निमित्तं न भवति । तथा च श्रुत्युपजीव्यस्वरूपादिसत्यत्वग्राहकप्रत्यक्षजातीयतया घटादिप्रत्यक्षस्यापि श्रुत्युपजीव्यत्वमेवेति न तया प्रत्यक्षसिद्धघटादिमिथ्यात्वसिद्धिः ।

यद्वा धर्मिग्राहकत्वेन प्रत्यक्षप्रामाण्यमुपजीवन्ती श्रुतिर् घटादिमिथ्यात्वबोधने न तद्विघातं न करोतीत्यर्थः । यथा शतानि सहस्राणीत्यादौ ‘नपुंसकस्य झलचः’ इत्यनेन सर्वनामस्थानसंज्ञकशिप्रत्ययनिमित्ते नुमागमे कृते ‘ष्णान्ता षडिति’ सूत्रे उपदेशग्रहणं कर्तव्यं शताष्टनार्थमिति वार्तिकाभावपक्षे नकारान्तत्वेन षट्संज्ञायां ‘षड्भ्यो लुक्’ इति शिप्रत्ययस्य लुकि प्राप्ते सन्निपातपरिभाषया शिप्रत्यययोगेन जायमानो नुं षट्संज्ञाद्वारा शिप्रत्ययलोपनिमित्तं न भवति । तथा, मथितं पण्यमस्येत्यर्थे ‘तदस्य पण्यम्’ इति ठकि ठस्येकादेशे अजादित्वाद्भसंज्ञायां ‘यस्येति च’ इत्यकारलोपे तान्ता तत्परस्येकप्रत्ययस्य स्थानिवद्भावेन ‘इसुसुक्तान्तात् कः’ इति कादेशप्राप्तौ सन्निपातपरिभाषया कादेशो न भवति । माथितिकः । भवत्या अयमित्यर्थे भवतष्ठक्छसौ साविति ठक्ढसोश्चेति ठावस्थायामेव पुंवद्भावात्सन्निपात परिभाषाया अप्रवृत्तौ भावत्क इति भवति ।

द्वितीये त्वाह– बोधन इति ॥ श्रुत्या मिथ्यात्वस्य बोधनेऽपीत्यर्थः ॥ तात्विकत्वेति ॥ तात्विकत्वप्रयोजकस्य स्वरूपसत्यत्वादेरभावादित्यर्थः । न च स्वरूपसत्यत्वादेः श्रुत्यर्थतात्विकत्वं प्रति प्रयोजकत्वे मानाभावः । मिथ्यात्व बोधकत्वेनाभिमता श्रुतिः स्वस्वरूपेण वा स्वप्रामाण्येन वा स्वयोग्यतया वा समान सत्ताकार्था प्रमाणशब्दत्वात् सम्मतवदित्यनुमानैस्तत्सिद्धेः । अत्र व्याप्तिग्राहकमाह ॥ शब्दबोध्यस्येति ॥ न चैतस्मिन्नियमे परोक्षत्वमनित्यत्वं वोपाधिः । घटादावा- काशादौ च साध्याव्याप्तेः । प्रामाण्यादिघटितसाध्यकोक्तानुमानयोः स्वाप्नवाक्ये व्यभिचारं परिहरति– सदर्थ इति ॥ योग्यतेति ॥ योग्यतायाः प्रामाण्यस्य चार्थ सत्त्वघटितत्वेन सदर्थकवाक्ये तयोरवश्यम्भावादित्यर्थः । शब्दस्वरूपघटितानु मानेऽपि न तत्र व्यभिचार इत्याह– शब्दस्वरूपमिति ॥ मम मते तत्र साध्य-स्यापि सत्त्वादिति भावः । तव मतेऽपि न तत्र तस्य व्यभिचार इत्याह– तव त्विति ॥ स्वाप्नवाक्ये स्वरूपेण मिथ्याभूते साध्याभावस्य सत्त्वेऽपि निरुक्त-हेतोस्तत्राभावादिति भावः । तुशब्दो व्यभिचारपरिहारं विशिनष्टि ।

ननु स्वाप्नवाक्ये वक्तुः कल्पितत्वेपि तद्गतदोषस्यार्थसंवादेन कल्पयितुमशक्यत्वा न्निर्दोषतया तत्प्रमाणं भवतीति निरुक्तहेतुरपि तत्रास्तीति व्यभिचार एवेत्यत आह– न तच्छब्दत्वेनेति ॥ अयं भावः । शब्दासाधारणप्रामाण्यप्रयोजकवत्त्वमुक्तहेत्वर्थः । निर्दोषत्वं तु न शब्दासाधारणप्रामाण्यप्रयोजकम् । मानान्तरसाधारण्यात् । तथा चायमर्थः । तत् संवादिस्वाप्नवाक्यम् । शब्दत्वेन न प्रमाणम् । शब्द इति यत्प्रमाणं तथा न शब्दत्वावच्छेदेन यत्प्रामाण्यप्रयोजकं तदुपेतं न भवतीति । ननु शब्दासाधारणप्रामाण्यप्रयोजिकाया योग्यतायास्तत्र सत्त्वाद्व्यभिचार एवेत्यत आह– आप्तीति ॥ योग्यताया विशेषणविशेष्यसम्बन्धरूपाया विशिष्टप्रमामात्रसाधारण त्वादाप्त्यादेरेव तथात्वम् । यद्यपि भ्रमाद्यभावरूपा आप्तिः स्वाप्नवाक्यवक्तर्यप्यस्ति तथापि शुकादिसाधारण्यान्न सा आप्तिः । किन्तु लाघवाद्वाक्यार्थप्रमा ।

अवधानं तत्वबुबोधयिषा । पटुकरणत्वादिकमेवाप्तिः । सा च न स्वाप्नवाक्य वक्तरि । अत एव न स्वाप्नवाक्ये निर्दोषत्वमपि । तत्प्रयोजकस्याप्त्यादेरभावात् । तथा च नोक्तव्यभिचार इति भावः । प्रामाण्यप्रयोजकशब्देन प्रामाण्यापवादका प्रामाण्यशङ्कानिरासकमभिधीयत इति प्रामाण्यस्य स्वतस्त्वहानिरिति । एवं सति स्वाप्नवाक्ये प्रमाणशब्दस्य व्यवहारं समर्थयते– किन्त्विति ॥ शब्दत्वे सति संवादित्वात्तद्व्यवहार इत्यर्थः । तथा च तस्य शब्दत्वेप्यप्रमाणत्वान्नोक्तव्यभिचार इत्यर्थः ॥ उपश्रुतिवदिति ॥ यथा कश्चिदन्यार्थं शब्दं श्रुत्वापि ततः स्वाभिमत-मर्थमनुमिमीते तथा स्वाप्नवाक्यमपि लिङ्गतयैव बोधकमित्यर्थः ॥ प्रमाणं वेति ॥ लिङ्गीभूतस्य शब्दत्वाद्वा तद्व्यवहार इत्यर्थः । तथा तस्य प्रमाणत्वेऽप्यशब्दत्वान्न व्यभिचार इति भावः ।

उक्तानुमानेषु व्याप्त्यभावशङ्कां परिहरति– न चेति ॥ उक्तनियमाङ्गीकारे श्रुत्यर्थस्य तात्विकत्वे श्रुतिस्वरूपादेरपि तथात्वापत्त्या सर्वमिथ्यात्वासिद्ध्या तत्पर श्रुतिविरोधः । अतात्विकत्वे श्रुतेस् तात्विकसर्वमिथ्यात्वपरत्वव्याघात इति श्रुतेः सर्वमिथ्यात्वे तात्पर्यसंरक्षणार्थम् उक्तनियम एव त्यज्यत इत्यर्थः । स्वर्गकाम इति । साग्निनिरग्निवैद्यावैद्यस्वर्गकाममात्रविषयस्यापि यजेतेति विधेः ‘आहवनीये जुहोति’ ‘यजमानोऽनुमन्त्रयते’ ‘यजमानस्य याज्या’ इत्यादिनाग्निविद्यावतोऽधिकारावगमात् तत्परत्वं यथा तथा द्वितीयनिषेधस्यापि स्वोपजीव्येतरविषयत्वम् । उपजीव्यस्य विधिनेव निषेधेनाप्यनुरोद्धव्यत्वादित्यर्थः ॥ उपजीव्येति ॥ यागस्याग्निविद्ये विना फलाजनकत्वात्तयोस्तत्रोपजीव्यत्वम् ।

षष्ठस्य प्रथमपादे स्थितं ‘चातुर्वर्ण्यमविशेषात्’ । अग्निहोत्रादिषु किं चतुर्णां वर्णानामधिकार उतापशूद्राणामिति संशये विधिवाक्येषु विशेषाश्रवणाच्चतुर्णामिति प्राप्ते अग्निहोत्रादीनामग्निविद्यापेक्षत्वात्तयोश्चाधानोपनयनाधीनत्वादाधानोपनयनयोश्च ‘वसन्ते ब्राह्मणोऽग्नीनादधीत’ ग्रीष्मे राजन्यः शरदि वैश्यः । वसन्ते ब्राह्मण-मुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यम्’ इति त्रिष्वेव दर्शनात् । अन्यतो लब्ध-विद्यानां त्रैवर्णिकानाम् अधिकारिणां सत्त्वेन कर्मविधिभिर्निषादादिष्विव शूद्रेष्वपि तयोराक्षेपकल्पनायां प्रमाणाभावाच्छ्रूद्रव्यतिरिक्तानामेवाधिकार इति राद्धान्तः ।

ननु स्वर्गकामवाक्यस्याग्निविद्यादिकमिव द्वैतनिषेधवाक्यस्य तात्विकयोग्यतादिकं नोपजीव्यम् । न हि योग्यता तात्विकयोग्यतात्वेन निमित्तं किन्तु योग्यतात्वे-नेति । मैवम् । स्वर्गकामवाक्यस्यास्वार्थसमसत्तकाग्निविद्यापेक्षावद्द्वैतनिषेधवाक्य-स्यापि तादृशयोग्यतापेक्षानियमात् । तात्विकार्थप्रतिपादने तात्विकयोग्यतादेरेव निमित्तत्वाच्च ॥ योग्यतादीति ॥ योग्यतादीतरद्वितीयं नास्तीत्यर्थपरत्वमित्यर्थः ॥ सृष्ट्यादीति ॥ सृष्टिवाक्यस्य तव मते यथा कल्पितसृष्टिविषयत्वं तथा द्वैतनिषेधवाक्यस्यापि कल्पितद्वैतनिषेधविषयत्वमस्त्वित्यर्थः ।

ननु सकलद्वैताभावस्याधिकरणस्वरूपत्वेन तदधिकरणस्य ब्रह्मणः ‘सत्यं ज्ञानम् अनन्तं ब्रह्म’ ‘तत्सत्यं स आत्मा’ इत्यादिश्रुत्या सत्यत्वप्रतिपादनान् न सृष्ट्यादि श्रुतेरिवास्याः कल्पितविषयत्वोपपत्तिरिति चेत् । मैवम् । विचित्रप्रपञ्चासाधारण कारणविचित्रशक्तिरूपस्य द्वैतस्य ‘परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी’ इत्यादि श्रुतिसिद्धात्मरूपस्य तात्विकत्वेन द्वैतनिषेधश्रुतेस्तात्विकविषयत्वस्याप्यनुपपत्तेः । द्वैतनिषेधस्यात्मरूपत्वासिद्धेश्च । न च तस्य तत्वावेदकश्रुतिबोध्यत्वेनात्मरूपत्वम् ।

अन्योन्याश्रयात् । द्वैतनिषेधस्य तात्विकात्मरूपत्वेन तात्विकत्वे सिद्धे तच्छ्रुतेस्तत्वावेदकत्वसिद्धिः । तत्सिद्धौ च तद्बोध्यद्वैतनिषेधस्य तात्विकात्मरूपत्व सिद्धिरिति । द्वैतनिषेधश्रुतेस् तात्विकार्थपरत्वस्य विचार्यमाणत्वात् । शक्तेस्तु ब्रह्म स्वरूपत्वं ‘स्वाभाविकी’ इत्यादिश्रुत्यैव सिद्धमिति ॥ अन्योन्येति ॥ शब्द स्वरूपादेस्तदर्थस्य च समसत्ताकत्वनियमत्यागे सति बाधकाभावे सिद्धे श्रुत्यर्थस्य तात्विकत्वसिद्धिः । तत्सिद्धौ च तद्बलादुक्तनियमत्याग इत्यर्थः । सङ्गृह्णाति–तस्मादिति ॥ तद्योग्यतयोरिति ॥ स च योग्यता च तद्योग्यते । शब्दार्थस्य शब्दयोग्यतयोश्चेत्यर्थः । तुल्यत्वात् । सत्तयेति शेषः । योग्यतेत्युपलक्षणम् । शब्दस्वरूपमपि ग्राह्यम् । न चेच्छब्दयोग्यते सत्यावित्यनुषङ्गः ॥ वृषलेति ॥ वृषलोद्वाहमन्त्रस्वरूपं तद्योग्यतादिकं चासदेवातः स न मानमित्यर्थः ॥ एवमिति ॥ यथा स्वस्वरूपादेर्मिथ्यात्वबोधनाबोधनपक्षयोर्मिथ्यात्वश्रुत्यनुपपत्तिस्तथेत्यर्थः ॥ स्वेति ॥ अहमिदानीं मौनीतिवत्स्वबोध्यस्य स्वेनैव निषेधादित्यर्थः ॥ सर्वेति ॥ द्वितीयाभावस्यानात्मनोऽनिषेधादित्यर्थः ॥

न्यायामृतकण्टकोद्धारः

नन्वनुमानं मास्तु मिथ्यात्वे प्रमाणं श्रुतिस्तु भविष्यति । तस्या अपौरुषेयत्वेनानुमानवदन्यनिरपेक्षत्वादित्यत आह– नापीति । प्रत्यक्षादीति । न च न प्रत्यक्षसिद्धयोग्यतादिसत्वोपजीवनं श्रुतेः । तदभावेऽपि योग्यतादिज्ञानमात्रेण तदु-पपत्तेरिति वाच्यम् । योग्यतादिसत्वस्य शाब्दबोधार्थमनपेक्षणेऽपि शब्दबोध्यतात्विकत्वार्थं तदपेक्ष-णात् । किञ्च शब्देन घटादिपदार्थान् धर्मीकृत्य तेषां मिथ्यात्वं बोधनीयम् । धर्मिसिद्धिश्च प्रत्यक्षादिनैव वाच्या । प्रत्यक्षादिभिश्च ते पदार्थाः सत्वेनैव सिद्धा इति तदुपजीवनेन प्रवृत्तया श्रुत्या न घटादिसत्वबाधः । न च धर्मिसत्वं नोपजीव्यम् । तथात्वे धर्म-धर्मिसंसर्गस्य बाधितत्वेन वाक्यस्याप्रामाण्यापत्तेः । धर्मितावच्छेदकत्वेन तदुपजीवन-स्यावश्यकत्वाच्च । न च घटत्वादिकमेव धर्मितावच्छेदकमिति वाच्यम् । घटत्वादेरपि सद्विशेषत्वात् । अन्यथा तस्यालीकत्वेनावच्छेदकत्वानुपपत्तेः । प्रातिस्विकरूपस्य दुर्ज्ञानत्वेन सत्वस्यैव धर्मितावच्छेदकत्वाच्च ।

एवञ्चोपजीव्यविघातने महाभाष्योक्तन्यायविरोध इत्याह– सन्निपातेति । अत्र योग्यतादिमात्रसत्वसाधनार्थमयं न्यायो न भवति । तथात्वे घटादीति न ब्रूयादिति द्रष्टव्यम् । न्यायस्य चायमर्थः । सन्निपातः सन्नियोगः स लक्षणं निमित्तं यस्य विधेः सः, तद्विघातस्य अनिमित्तम् । सन्निपातिविघाते न कारणमित्यर्थः । यथा ‘शतानि’ इत्यत्र सर्वनामस्थानयोगेन जातो नुम् ‘षड्भ्यो लुक्’ इति लुकं प्रति न निमित्तम् । अत एव महाभाष्ये ‘ष्णान्ता षट्’ इत्यत्र उपदेशग्रहणं प्रत्याख्यातवान् । तथा योग्यतादिसत्वोप- जीवनेन जातस्य शाब्दबोधस्य न योग्यतादिसत्वबाधकत्वमिति ।

ननु दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यम् । दृष्टान्ते हि यत्रालुप्तप्रत्ययत्वेन निमित्तता तत्रैव न्यायावतारः । अन्यथा पञ्चेत्यत्र नान्तसङ्क्यायाः षट्त्वेन लुकं प्रति निमित्तत्वेन लुको नकारविघातित्वं न स्यात् । प्रकृते च नामिथ्याभूतयोग्यतात्वेन प्रयोजकत्वम् । किन्तु योग्यतात्वेन । अन्यथा स्वाप्नादेरर्थक्रियाकारित्वं न स्यादिति चेन्न । अत्राप्यमिथ्याभूत योग्यतात्वेनैव प्रयोजकता वक्तव्या । अन्यथा मिथ्याभूतयोग्यतावत्त्वेन बौद्धागमस्यापि तात्विकार्थबोधकत्वं स्यात् । न च स्वापि्नकार्थस्य साधकत्वादमिथ्यात्वमप्रयोजकमिति वाच्यम् । तस्यापि सत्वात् । यथा चैतत् तथाऽसतः साधकत्वभङ्गे साधितम् । शब्दबोध्यस्येति । न च शब्दस्य बोध्यसमानसत्ताकत्वमसिद्धम् । स्वापि्नके संवादिनि शब्दे व्यभिचारात् । योग्यतादेश्च न बोध्यार्थसमानसत्ताकत्वनियमोऽप्रयोजकत्वात् । परोक्षत्वानित्यार्थत्वस्योपाधित्वाच्चेति वाच्यम् । स्वापि्नकशब्दे न तावन्मन्मते व्यभिचारः । तस्य सत्यत्वात् । त्वन्मते तु न तत्र शब्दत्वेन प्रमाणता, अपि तु लिङ्गत्वेन । विवक्षितं च यत् शब्दत्वेन प्रमाणं तद् बोध्यार्थसमानसत्ताकमिति । अतो न व्यभिचारः ।

नाप्यप्रयोजकत्वम् । यथाकथञ्चिद् योग्यतादेः प्रयोजकत्वेऽतिप्रसङ्गस्योक्तत्वात् । परोक्षत्वं च नोपाधिः । ब्रह्मण औपनिषदत्वेन परोक्षत्वात् । तत्प्रतिपादकश्रुतेरपि परोक्षत्वेन साधनव्यापकत्वात् । यथा च शब्दस्य नापरोक्षज्ञानजनकत्वं तथा वक्ष्यामः । अनित्यत्वं चाप्रयोजकत्वेन न साध्यव्यापकम् । उक्तानुकूलतर्केण प्रकृतनियमेऽवधारिते साध्यव्याप्यहेत्वव्यापकत्वेन निश्चितसाध्याव्यापकं चेति उक्तं निरवद्यम् । न च योग्यतादेर्मिथ्यात्वेऽपि न शब्दार्थमिथ्यात्वं, मिथ्यात्वप्रयोजकाभावादिति वाच्यम् । योग्यतादिमिथ्यात्वव्यतिरेकेण शाब्दार्थमिथ्यात्वप्रयोजकाभावात् । न च दृश्यत्वमेव तत्प्रयोजकम् । तस्य सत्यत्वेऽप्युपपत्त्या तदप्रयोजकत्वात् ।

स्वर्गकामो यजेतेत्यादिविधेरिति । षष्ठे प्रथमपादे सप्तमाधिकरणे चिन्तितम् । ‘चातुर्वर्ण्यमविशेषात्’ । अत्र सर्वाणि वैदिकान्यग्निहोत्रादिकर्माण्युदाहरणम् । तेषु चतुर्णा-मपि वर्णानामधिकार उतापशूद्राणां त्रयाणामिति चिन्ता । तदर्थमिदं विचार्यते किं कामश्रुतिप्रयुक्तं विद्यार्जनमुत स्वाध्यायविधिसिद्धविद्योपजीविन्यः कामश्रुतय इति । द्वेधा चात्र पूर्वपक्षः । एकस्तावत् स्वाध्यायाध्ययनं क्रत्वङ्गं क्रतुविधिभिरेव प्रयाजादिवत् प्रयुज्यते । तर्हि किं प्रयाजादिवददृष्टद्वारोपयुज्यत इति चेन्न । दृष्टद्वारे सम्भवत्यदृष्टकल्पनाया अयुक्तत्वात् । दृष्टं च द्वारं क्रत्वनुष्ठानोपयोगिनी विद्यैवेति । क्रतवश्चाविशेषेण चातुर्वर्ण्यम् अधिकुर्वाणाश् चतुर्णामध्ययनं प्रयुञ्जते ।

तत्र त्रयाणां ‘वसन्ते ब्राह्मणमुपनयीत’ ‘ग्रीष्मे राजन्यम्’ ‘शरदि वैश्यम्’ इति वाक्यैरुपनयनसंस्कारोऽध्ययनाङ्गत्वेन विहितः । चतुर्थस्तु विध्यभावादनुपनीत एव विद्यां लब्ध्वाऽधिक्रियत इति । अयं तु क्रत्वङ्गमध्ययनमिति पक्षे । द्वितीयस्तु । न क्रत्व-ङ्गमध्ययनम् । श्रुत्याद्यभावात् । अक्षरग्रहणादिदृष्टकार्यपरम्परया वाक्यार्थज्ञानं यावद् गतं तत्रैव विधिनाऽध्ययनं विनियुज्यते । न च तस्याफलत्वान्न तत्र विनियोग इति वाच्यम् । ज्ञानस्यानुष्ठानद्वारा स्वयमेव फलत्वोपपत्तेः । यथाऽऽधानं न क्रत्वर्थं, किन्तु अग्न्यर्थं, तथा प्रकृतेऽपि । न हि साक्षात् फल एव विनियोग(ज्य) इत्यस्ति नियमः । तथात्वे क्रत्वङ्गतापि न स्यात् ।

एवं चाध्ययनं न क्रत्वङ्गम् । किन्त्वाधानमिवाग्न्यर्थं ज्ञानाङ्गम् । अतस्तेनापि क्रतूनाम् अवैगुण्यादनधीत एव शूद्र उपद्रष्टृवचनादनुतिष्ठन्नधिक्रियते । क्रतवो ह्यविशेषेण चतुरोऽप्यधिकुर्वाणास् त्रयाणामध्ययनसिद्धविद्यत्वाद् विद्यार्जनं न प्रयुञ्जते । शूद्रस्य त्वन्यतः सिद्धविद्यत्वाभावात् तदर्जनमपि प्रयुञ्जते । अतो यद्यपि स्वाध्यायविधिर-निर्दिष्टकर्तृकत्वात् कर्तारम् अपेक्षमाणः, प्रकृतोपनयनसंस्कृताः किमर्थं वयमाचार्यसमीप-मानीता इत्येवं प्रयोजनम् अपेक्षमाणान् ब्राह्मणादीनेव कर्तृत्वेन स्वीकुर्वंस्तेषामेवाध्ययनं विधत्ते, न शूद्रस्य । तथाप्यविहितेनैवाध्ययनेनोपायान्तरेण वा विद्यां लब्ध्वाऽधिक्रियेतेति ॥

अत्रोच्यते ॥ क्रतुविधिवैयर्थ्यपरिहाराय हि शूद्रस्याधिकारः कल्प्यः । क्रतुविधयो हि विद्यां विनाऽनुपपद्यमाना विद्यार्जनमाक्षिपन्ति । तत्र यदि सिद्धविद्यावन्तो न स्युस् तदाऽन्यस्य यथाकथञ्चिद् विद्या कल्प्या । यदा तु स्वाध्यायविधिविहिताध्ययनो-पात्तविद्यान् द्विजन्मनो लभन्ते तदा तैरेवाधिकारिभिर्लब्धात्मानोऽनुपपत्तिक्षयान्न चतुर्थस्य विद्यामाक्षिपन्ति । यदपि चैवं विहितोपायसिद्धज्ञानवत एव विधयोऽधिकुर्वन्ति तदेव विहितोपायाप्तमग्निवत् क्रत्वङ्गं भवति । एवं च विहिताध्ययनरहितस्य स्वच्छन्देन विद्यामर्जयतः शूद्रस्य न कर्मण्यधिकार इति । एवमेव कर्मणामग्निसापेक्षत्वादग्नीनां चाधान- साध्यत्वात्, आधानस्य च ‘वसन्ते ब्राह्मणोऽग्नीनादधीत । ग्रीष्मे राजन्यः । शरदि वैश्यः’ इति वर्णत्रयसाध्यत्वात्, आधानरहितस्य शूद्रस्याग्नेरभावान्न कर्मण्यधिकारः । एवं च यथा कर्मविधायकवाक्येषु अग्निविद्यावद्विषयकत्वेन सङ्कोचस्तथा प्रकृतेऽपि उपजीव्य-विरोधेन योग्यताद्यतिरिक्तविषयत्वेन सङ्कोचो युक्त इत्यर्थः ।

न च प्रकृते योग्यतायास्तात्विकत्वमग्निविद्यावन्नोपजीव्यम् । तदभावेऽपि योग्यता-त्वेनैवोपयोगादिति वाच्यम् । योग्यतादेर्यथाकथञ्चिदुपयोगेऽतिप्रसङ्गस्योक्तत्वेन तत्तात्वि-कत्वस्यावश्यकत्वात् । न च ‘सत्यं ज्ञानमनन्तम्’ इत्यादिश्रुत्या ब्रह्मणः सत्वप्रतिपादनाद् द्वैताभावस्य च तदात्मकत्वान्न मिथ्यात्वश्रुतेः कल्पितविषयत्वमिति वाच्यम् । द्वैताभावस्य सोपाधिकत्वेन निरुपाधिकब्रह्मस्वरूपत्वानुपपत्तेः । द्वैताभावस्य सत्वे योग्यतादेस्तदा-वश्यकम् । न ह्यबोधितार्थकत्वं बाधितं, शब्दबोध्योऽर्थश्चाबाधित इति सम्भवति । व्याघातात् । तस्माद् योग्यतादिमिथ्यात्वे शब्दबोध्योऽर्थोऽपि मिथ्यैवेति सूक्तम् । उक्तमर्थं कारिकारूढं करोति तस्मादिति । उक्तन्यायमन्यत्रातिदिशति– एवमिति । द्वितीयाभावो ब्रह्मेति तु निरस्तम् ।

न्यायामृतप्रकाशः

श्रुतिश्चात्र प्रमाणमिति सामान्येनोक्तां मिथ्यात्वश्रुतिं निराकरोति– नापि श्रुतिरिति ॥ तात्विके विश्वमिथ्यात्वे श्रुतिरपि मानं नेत्यर्थः । ‘‘नेह नाने’’ति श्रुतिः, श्रोत्रप्रत्यक्षादि सिद्धस्वरूपस्वप्रामाण्यतद्धेतुयोग्यतादेर्मिथ्यात्वमबोधयित्वा प्रत्युत स्वस्वरूपादिसत्यत्वमुप जीव्य सर्वमिथ्यात्वं बोधयति उत स्वस्वरूपस्वप्रामाण्यतद्धेतुयोग्यतादेर्मिथ्यात्वं बोधयित्वा सर्वमिथ्यात्वं बोधयति । नाद्य इत्याह– श्रुत्येति ॥ तत्सत्यत्वेति ॥ स्वस्वरूपादि सत्यत्वेत्यर्थः ॥ सर्वेति ॥ स्वस्वरूपादेर्मिथ्यात्वाबोधनादित्यर्थः । किञ्च सर्वमिथ्यात्वं बोधयन्त्या श्रुत्या ‘सन्घटः’ इत्यादिप्रत्यक्षसिद्धं घटादिकं धर्मीकृत्य तत्र मिथ्यात्वं बोधनीयम् । तन्न सम्भवति । तदुपजीवनेन प्रवृत्तायाः श्रुतेस्तद्बाधनासामर्थ्यात् । अतः प्रत्यक्षादिसिद्धघटादिमिथ्यात्वासिद्धिः ।

तदुपजीवनेन प्रवृत्तस्यापि तद्बाधकत्वं किं न स्यादित्यत आह– सन्निपातेति ॥ यत्सन्निपातेन यदुपजीवनेन लक्षणं स्वरूपं यस्य विधेः स विधिस्तस्य स्वोपजीव्यस्य विघातस्यानिमित्तमित्यर्थः । यदुपजीवनेन यत्प्रवर्तते स तस्य बाधको नेति यावत् । तथा हि ‘शतानि सहस्राणि’ इत्यत्र शतशब्दाज् जसि ‘‘जश्शसोः शिः’’ इति सूत्रेण जस-श्शीत्यादेशे ‘‘शि सर्वनामस्थानम्’’ इति शेः सर्वनामस्थानसंज्ञायां ‘‘लशक्वतद्धिते’’ इति शकारलोपे शत इति जाते ‘‘नपुंसकस्य झलचः’’ इति सूत्रेण सर्वनामस्थानसंज्ञिकशिप्रत्यये परे नुमागमे शतन् इ इति जाते ‘‘सर्वनामस्थाने चाऽसम्बुद्धौ’’ इत्युपधादीर्घे शतान् इ ‘‘शतानि’’ इति भवति ।

तदिदमयुक्तं ‘ष्णान्ता षट्’ षान्ता नान्ता च सङ्ख्या षट्संज्ञा स्यादिति नान्तसङ्ख्या- वाचिशतन्शब्दस्य षट्संज्ञायां ‘‘षड्भ्यो लुक्’’ षट्संज्ञकेभ्यः परयोर्जश्शसोर्लुक् स्यादिति शिप्रत्ययलोपे तन्निमित्तकदीर्घस्याप्यभावे शतन् सहस्रन् इत्येव स्यान्न तु शतानीत्यादीति शङ्कायाम् अयं न्यायः प्रवृत्तः । नात्र शिप्रत्ययलोपः । सर्वनामस्थानभूतशिप्रत्यये परे नुमाग-मस्य विहितत्वाच्छिप्रत्ययसन्नियोगेन प्राप्तो नुम्, ‘‘ष्णान्ता षट्’’ इति षट्संज्ञाद्वारा प्राप्तस्य शिप्रत्ययलोपस्य न निमित्तम् । एवं च शिप्रत्ययलोपाभावेन तत्प्रयुक्तोपधादीर्घे सति शतानीत्यादि भवतीत्युदाहरणं द्रष्टव्यम् ।

न द्वितीय इत्याह– बोधन इति ॥ श्रुतिबोध्यार्थस्य सर्वमिथ्यात्वस्य । कुत इत्यत आह– शब्दबोध्यस्येति ॥ अर्थस्येत्यर्थः ॥ शब्देति ॥ शब्दस्वरूपेत्यर्थः ॥ नियमा-दिति ॥ अनेन ‘विश्वमिथ्यात्वबोधकत्वेनाभिमता श्रुतिः स्वस्वरूपप्रामाण्ययोग्यतादिसम-सत्ताकस्वबोध्यार्थयुक्ता, प्रमाणशब्दत्वात्, सम्मतवत्’ इत्यनुमानमुक्तं भवति । नन्वेवं चेत् तवैवं भविष्यतीति स्वाप्नदेवतावाक्यं किञ्चिदस्ति । तद्वाक्यस्वरूपं मिथ्यात्वान्नास्त्येव । तन्निष्ठे योग्यताप्रामाण्ये अप्यसती एव । बोध्यार्थश्च सन् अर्थक्रियाकारित्वानुभवात् । एवं च तत्र प्रमाणशब्दत्वमस्ति । स्वस्वरूपयोग्यतादिसमसत्ताकबोध्यार्थयुक्तत्वाभावाद्व्यभिचार इत्यत आह– सदर्थ इति ॥ स्वस्वरूपसत्त्वस्य परासम्मतत्वाद्योग्यताप्रामाण्ये अपीत्युक्तम् । वाक्यस्य सदर्थ(क)त्वाङ्गीकारे योग्यताप्रामाण्ययोरपि सत्त्वं प्राप्तमेव । परस्परान्वयाबाध रूपयोग्यतायाः प्रामाण्यस्य चार्थसत्ताघटितत्वात् । अतो न व्यभिचार इति भावः ।

ननु योग्यताप्रामाण्ययोस्सत्यत्वेन तत्समसत्ताकबोध्यार्थयुक्तत्वेऽपि स्वाप्नवाक्यस्वरूप-स्यैवाभावेन तत्समसत्ताकबोध्यार्थयुक्तत्वं नास्तीति पुनर्व्यभिचार इत्यत आह– शब्द-स्वरूपमिति ॥ तथा च मम मते साध्यस्यापि सत्त्वान्न व्यभिचार इति भावः । ननु मद्रीत्या तावद्व्यभिचारः स्यादेवेत्यतः पूर्वं त्वया तत्र त्वद्रीत्या व्यभिचारे चोदिते तत्र साध्योपपादनं कृतम् । वस्तुतस्तु तत्र त्वन्मते हेतोरेवाभावान्न व्यभिचार इत्याह– तव त्विति ॥ ‘प्रमाणशब्दत्वात्’ इत्यस्य शब्दत्वेन प्रमाणत्वादित्यर्थः । त्वन्मते तु स्वाप्नं देवतावाक्यं शब्दत्वेन न प्रमाणं, सत्यपि शब्दत्वे प्रामाण्याभावात् । तथा हि । लौकिके पौरुषेयवाक्ये प्रामाण्यप्रयोजकत्वेन क्लृप्ताया आप्तेः स्वाप्नदेवतावाक्येऽभावात्, तथा वेदवाक्ये प्रामाण्यप्रयोजकत्वेन क्लृप्तस्यापौरुषेयत्वस्याप्यभावात् । अतो हेतोरेवाभावान्न व्यभिचार इति भावः । तर्हि सदर्थकत्वं कथमिति पृच्छति– किन्त्विति ॥ उत्तरमाह– यादृच्छिकेति ॥ भ्रान्तप्रतारकवाक्यवद्यादृच्छिकसंवादि । ततश्च ‘यज्जातीयानन्तरं नियमेन कार्योत्पत्तिस्तदत्र साधनं विवक्षितम्’ इति वचनादेतादृशकरणत्वगर्भप्रमाकरणत्वरूपं प्रामाण्यं तत्र नास्तीति न व्यभिचार इत्यर्थः ।

अस्तु वा प्रामाण्यं तथापि तत् शब्दत्वेन न प्रमाणं किन्तु लिङ्गत्वेनैवेत्यतोऽपि न व्यभिचार इत्याह– तादृशेति ॥ अभिमतार्थसाधकस्वाप्नदेवतावाक्यजन्यज्ञानमित्यर्थः । तत्र दृष्टान्त उपश्रुतिवदिति । अपभ्रष्टवाक्यवदित्यर्थः । यथा शकुनार्थं कस्मिंश्चिद्गृहे तण्डुलान् स्थापयित्वा निलीनस्सन्नवस्थितस्तद्गृहस्थैः स्वगृहकृत्याद्यर्थं शब्दे प्रयुक्ते सति तं श्रुत्वा ततः स्वाभिमतार्थम् अनुमिमीते । तत्र यथा तद्वाक्यं न शब्दत्वेन स्वाभिमतार्थे प्रमाणं किन्तु लिङ्गतयैव तथा स्वाप्नदेवतावाक्यमपि लिङ्गत्वेनैव प्रमाणमित्यर्थः । तथा च तस्य प्रमाण-त्वेऽप्यशब्दत्वान्न व्यभिचार इति भावः । ननु श्रुत्या योग्यतादीनां मिथ्यात्वबोधने शब्द-बोध्यस्य सर्वमिथ्यात्वरूपार्थस्य तात्विकत्वासिद्धिरित्ययुक्तम् । उक्तनियमस्यान्यत्र ‘गामानय’ इत्यादिवाक्ये सत्त्वेऽपि प्रकृतेऽभावाद् योग्यतादेः श्रुतिबोध्यतात्विकमिथ्यात्वसम सत्ताकत्वे सत्यत्वप्राप्त्या तात्विकसर्वमिथ्यात्वश्रुतिविरोधादित्याशङ्क्य निषेधति– न चेति ॥

स्वर्गेति ॥ यथा ‘‘स्वर्गकामो यजेत’’ इत्यत्र सर्वेषां त्रिवर्णेतरेषामपि न यजनेऽधि कारोऽस्ति । किन्त्वग्निश्च विद्या चाऽग्निविद्ये येषां स्तस्तेषामेव यागेऽधिकारः, अग्निविद्ययो श्चोपजीवत्वादग्निविद्ययोश्च त्रिवर्णेतरेषामभावान्न यागेऽधिकार इत्येवं स्वर्गकाम इति सामान्यतः श्रुतस्यापि अग्निविद्यावद्विषयकत्वेन सङ्कोचः क्रियते तद्वदित्यर्थः । षष्ठे प्रथमपादे विचारितम् । ‘‘चातुर्वर्ण्यमविशेषात्’’ इत्यत्र अग्निहोत्रादिषु किं चतुर्वणानामधिकार उताप-शूद्राणामिति संशये विधिवाक्येषु विशेषाश्रवणाच्चतुर्वर्णानामिति पूर्वः पक्षः, अग्निहोत्रादि-कर्मणामग्निविद्यासापेक्षत्वादग्निविद्ययोश्चाधानोपनयनपूर्वकाध्ययनसाध्यत्वात्तयोश्च ‘‘वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यम्’’ इति त्रिष्वेव दर्शनाच्छूद्रेष्वपि तत्कल्पने मानाभावादपशूद्राणामेवाधिकार इति सिद्धान्तः ।

योग्यतादीति ॥ योग्यताद्यपेक्षया इतरद् द्वितीयं नास्तीत्यर्थपरत्वमित्यर्थः ॥ सृष्ट्या- दीति ॥ सृष्टिवाक्यस्य यथा तव मते कल्पितसृष्टिविषयत्वं तथा द्वैतनिषेधवाक्यस्यापि कल्पितो यो द्वैतनिषेधस्तद्विषयत्वमस्तु । तथा च सति श्रुतिबोध्यार्थस्य योग्यतादिसमान सत्ताकत्वसिद्धिरित्यर्थः ॥ अन्योन्याश्रयादिति ॥ शब्दस्वरूपादेस्तदर्थस्य च समसत्ताक त्वनियमत्यागे सति बाधकाभावे सिद्धे श्रुत्यर्थस्य सर्वमिथ्यात्वस्य तात्विकत्वसिद्धिस्तत्सिद्धौ च तद्बलादुक्तनियमत्याग इत्यन्योन्याश्रयादित्यर्थः । सङ्गृह्णाति– तस्मादिति ॥ तुल्यत्वात् तुल्यसत्ताकत्वात्, शब्दस्वरूपं च ग्राह्यम् । न चेत् शब्दार्थतद्योग्यतयोः शब्दस्वरूपस्य च सत्यत्वाभावे ॥ वृषलोद्वाहेति ॥ वृषलोद्वाहे विहितमन्त्रस्वरूपं तद्योग्यतादिकं चाऽसदेव । अतस्तन्न मानमित्यर्थः ॥ एवमिति ॥ यथा स्वरूपयोग्यतादेर्मिथ्यात्वबोधनाबोधन- पक्षयोर्मिथ्यात्वश्रुत्यनुपपत्तिस्तथेत्यर्थः ॥ स्वव्याघात इति ॥ द्वितीय मात्रनिषेधकत्वाङ्गी- काराद् द्वितीयाभावमपि निषेधति चेत्तर्हि स्वेतरद्वितीयाभावनिषेधरूपस्य द्वितीयस्यैव प्राप्त-त्वात्स्वव्याघात इत्यर्थः ॥ सर्वेति ॥ ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वं न सिद्ध्यति । ब्रह्मव्यतिरिक्तस्य द्वितीयस्याभावरूपद्वितीयस्य निषेधाऽबोधनादित्यर्थः ।

न्यायकल्पलता

‘श्रुतिश्चात्र प्रमाणम्’ इति सामान्येनोक्तां श्रुतिं मिथ्यात्वे प्रत्याख्याति– नापीति । तात्विकविश्वमिथ्यात्वे श्रुतिरपि मानं नेत्यर्थः । श्रुतिः प्रत्यक्षादिसिद्धस्वस्वरूपादिसत्यत्व मुपजीवति उत न । आद्ये श्रुत्या विश्वमिथ्यात्वस्यैवासिद्धिः । दूरे तत्तात्विकत्वस्येत्याह– श्रुत्येति । अत्र हेतुरुक्तः स्वस्वरूप इत्यादि मिथ्यात्वाबोधने इत्यन्तेन । कुतः श्रुत्या मिथ्यात्वं बोधयितुमशक्यमित्यत उक्तं प्रत्यक्षादीति ॥ स्वरूपादेर्मिथ्यात्वबोधने तत्सत्यत्व बोधनानुपपत्तेरित्यर्थः । स्वरूपादीतरमिथ्यात्वमेव मदभिमतमिति मन्यमानं प्रत्याह– सन्निपातेति । तच्छब्दश्रवणाद्यच्छब्दोऽध्याहार्यः । यत्सन्निपातेन यदुपजीवनेन लक्षणं स्वरूपं यस्य विधेः स विधिः, तस्य स्वोपजीव्यस्य विघातं प्रति अनिमित्तं निमित्तं न भवति । तथा च श्रुत्युपजीव्यस्वस्वरूपादिसत्यत्वग्राहकप्रत्यक्षजातीयतया घटादि-प्रत्यक्षस्यापि श्रुत्युपजीव्यत्वमेवेति न तया प्रत्यक्षसिद्धघटादिमिथ्यात्वसिद्धिः ।

अथवा धर्मिग्राहकत्वेन प्रत्यक्षप्रामाण्यमुपजीवन्ती श्रुतिर्घटादिमिथ्यात्वबोधनेन तद्विघातं न करोतीत्यर्थः । यथा शतानि सहस्राणीत्यादौ ‘नपुंसकस्य झलचः’ इत्यनेन सर्वनामस्थान संज्ञकशिप्रत्ययनिमित्ते नुमागमे कृते ‘ष्णान्ता षट्’ इति सूत्रेण उपदेशग्रहणं कर्तव्यं शता-द्यष्टनार्थमिति वार्तिकाभावपक्षे नकारान्तत्वेन षट्संज्ञायां ‘षड्भ्यो लुक्’ इति शिप्रत्ययस्य लुकि प्राप्ते सन्निपातपरिभाषया शिप्रत्यययोगेन जायमानो नुं षट्संज्ञाद्वारा शिप्रत्यय-लोपनिमित्तं न भवति ।

अथवा ‘ष्णौ षट्’ इत्येव तदन्तविधिना सिद्धेऽन्तग्रहणमौपदेशिकप्रतिपत्त्यर्थम् । तेन शतानि सहस्राणीति सिद्ध्यति । ष्णान्ता उपदेशकाले यौ ष्णौ षकारनकारौ तदन्ता सङ्ख्येत्यर्थः । यद्वा मथितं पण्यमस्येत्यर्थे ‘तदस्य पण्यम्’ इति ठकि प्रत्यये कृते ठस्येकादेशेऽजादित्वाद्भसंज्ञायां ‘यस्येति च’ इत्यकारलोपे तान्तात्परस्येकप्रत्ययस्य स्थानि-वद्भावेन ‘इसु सुक्तान्तात्कः’ इति कादेशप्राप्तौ सन्निपातपरिभाषया कादेशो न भवति । माथितिकः । परिभाषाया अनित्यत्वं च प्रमाणबलादुन्नेयम् । यथा भवत्या अय(आश्रय) मित्यर्थे ‘भवतष्ठक्च्छसौ’ इति ठकि, ‘ठक्छसोश्च’ इति ठावस्थायामेव पुंवद्भावात्सन्निपात परिभाषाया अप्रवृतौ भावत्क इति सिद्ध्यति । न चात्र तादृशं बाधकं प्रमाणमस्ति ।

ननु यद्यमिथ्याभूतत्वेन प्रत्यक्षादेर्निमित्तता स्यात्तदा प्रत्ययस्यालुप्तत्वेन निमित्ततायामिव भवेदेतन्न्यायावतारः । प्रत्यक्षादेस्तु स्वरूपेणैव निमित्ततेति चेत् । न । स्वतः प्रामाण्यवादिना बादरायणीयेनैवं वक्तुमन्न्याय्यत्वात् । विषयाबाधागर्भितत्वे प्रामाण्य-ग्रहणायोगात् । अर्थक्रियाकारित्वेन स्वाप्नार्थस्यापि सत्य(त्वाच्चेति)ता चेति ॥ द्वितीयं प्रत्याह– बोधन इति । श्रुत्या मिथ्यात्वस्य बोधनेऽपीत्यर्थः । अर्थतात्विकत्वप्रयोजकस्य स्वस्वरूपसत्यत्वादेरभावादित्याशयेनोक्तं तात्विकत्वेति । न च स्वस्वरूपसत्यत्वादेः श्रुत्य•)र्थतात्विकत्वं प्रति प्रयोजकत्वे मानाभाव इति देश्यम् । मिथ्यत्वबोधकत्वेनाभिमता श्रुतिः स्वस्वरूपेण वा स्वप्रामाण्येन वा स्वयोग्यतया वा समानार्थसत्ताकार्थाप्रमाण-शब्दत्वात्सम्मतवदित्यनुमानैस्तत्सिद्धेः ।

अत्र व्याप्तिग्राहकमाह– शब्दबोध्यस्येति । न चैतस्मिन्नियमे परोक्षत्वमनित्यत्वं चोपाधिः । घटादावाकाशादौ च साध्याव्याप्तेः । प्रामाण्यादिघटितसाधकोक्तानुमानयोः स्वाप्नवाक्ये व्यभिचारं परिहरति– सदर्थ इति । योग्यतायाः प्रामाण्यस्य चार्थाबाधघटितत्वेन सदर्थकवाक्ये तयोरवश्यम्भाव इति भावेनोक्तं योग्यतेति । शब्दस्वरूपघटितानुमानेऽपि न तत्र व्यभिचार इत्याह– शब्दस्वरूपमपीति । तत्त्वविन्मते तत्र साध्यस्यापि सत्वादिति भावः । विवर्तनयेऽपि न तस्य तत्र व्यभिचार इत्याह– तव त्विति । स्वप्नवाक्ये स्वरूपेण मिथ्याभूते साध्याभावस्य सत्वेऽपि निरुक्तहेतोस्तत्राभावादिति भावः । तुशब्दो व्यभिचार- परिहारं विशिनष्टि । ननु स्वाप्नवाक्ये वक्तुः कल्पितत्वेऽपि तद्गतदोषस्यार्थसंवादेन कल्पयितुमशक्यत्वान्निर्दोषतया तत्प्रमाणं भवतीति निरुक्तहेतुरपि तत्रास्तीति व्यभिचार एवेत्यत उक्तं न तच्छब्दत्वेनेति ।

अयं भावः । शब्दासाधारणप्रामाण्यप्रयोजकत्वमुक्तहेत्वर्थः । निर्दोषत्वं तु न शब्दा- साधारणप्रामाण्यप्रयोजकम् । मानान्तरसाधारण्यात् । तथा चायमर्थः । तत् संवादिस्वाप्न वाक्यं, शब्दत्वेन न प्रमाणम् । शब्द इति यत्प्रमाणं तथा न, शब्दत्वावच्छेदेन यत्प्रामाण्य प्रयोजकं तदुपेतं न भवतीति । ननु शब्दासाधारणप्रामाण्यप्रयोजिकाया योग्यतायास्तत्र सत्वाद्व्यभिचार एवेत्यत आह– आप्तीति । योग्यताया विशेषणविशेष्यसम्बन्धरूपाया विशिष्टप्रमामात्रसाधारणत्वादाप्त्यादेरेव तथात्वम् । यद्यपि भ्रमाद्यभावरूपा आप्तिः स्वाप्नवाक्यवक्तर्य्यप्यस्ति तथापि शुकादिसाधारण्यान्न साऽऽप्तिः । किन्तु लाघवात्, विवक्षितार्थतत्त्वज्ञानं, (वाक्यार्थप्रमा) अ(न)वधानं, तत्वबुबोधयिषा, पटुकरणत्वादिक-मेवाप्तिः । सा च न स्वाप्नवाक्यवक्तरि । अत एव न स्वाप्नवाक्ये निर्दोषत्वमपि । तत्प्रयोजकस्याप्त्यादेरभावात् । तथा च नोक्तव्यभिचार इति भावः । प्रामाण्यप्रयोजकशब्देन प्रामाण्यापवादकाप्रामाण्यशङ्कानिरासकमभिमतमिति न प्रामाण्यस्य स्वतस्त्वहानिरिति ध्येयम् ।

एवं सति स्वाप्नवाक्ये प्रमाणशब्दव्यवहारं समर्थयते– किन्त्विति । शब्दत्वे सति संवादित्वात्तद्व्यवहार इत्यर्थः । तथा च तस्य शब्दत्वेऽप्यप्रमाणत्वान्नोक्तव्यभिचार इति भावः ॥ उपश्रुतिवदिति । यथा कश्चिदन्यार्थशब्दं श्रुत्वापि ततः स्वाभिमतमर्थमनुमिमीते तथा स्वप्नवाक्यमपि लिङ्गतयैव बोधकमित्यर्थः ॥ प्रमाणं वेति । लिङ्गीभूतस्य शब्दत्वाद्वा तद्व्यवहार इत्यर्थः । तथा च तस्य प्रमाणत्वेऽपि अशब्दत्वान्न व्यभिचार इति भावः । उक्तानुमानेषु व्याप्त्यभावशङ्कां परिहरति– न चेति । उक्तनियमाङ्गीकारे श्रुत्यर्थस्य तात्वि-कत्वे श्रुतिस्वरूपादेरपि तथात्वापत्त्या ब्रह्मेतरसर्वमिथ्यात्वासिद्ध्या तत्परश्रुतिविरोधः । अतात्विकत्वे श्रुतेस्तात्विकसर्वमिथ्यात्वपरत्वव्याघात इति श्रुतेः सर्वमिथ्यात्वे तात्पर्य-संरक्षणार्थ उक्तनियम एव त्यज्यत इति शङ्कार्थः ॥ स्वर्गकाम इति । साग्निनिरग्नि-वैद्यावैद्यस्वर्गकाममात्रविषयस्यापि यजेतेति विधेः,‘आहवनीये जुहोति, यजमानोऽनुमन्त्रयते, यजमानस्य याज्या’ इत्यादिना यथाऽग्निविद्यावतोऽधिकारावगमात्तत्परत्वं तथा द्वितीयनिषेध-स्यापि स्वोपजीव्येतरविषयत्वम् । उपजीव्यस्य विधिनेव निषेधेनाप्यनुरोद्धव्यत्वादित्यर्थः ।

उपजीव्येति । यागस्याग्निविद्ये विना फलाजनकत्वात्तयोस्तत्रोपजीव्यत्वम् । षष्ठस्य प्रथमपादे विचारितम् । ‘चातुर्वर्ण्यमविशेषात्’ । अग्निहोत्रादिषु किं चतुर्णां वर्णानामधिकार उतापशूद्राणामिति संशये विधिवाक्येषु विशेषाश्रवणाच्चतुर्वर्णानामिति पूर्वपक्षे प्राप्तेऽग्निहोत्रादि- कर्मणामग्निविद्यापेक्षत्वात् । अग्निविद्ययोश्चाधानोपनयनपूर्वकाध्ययनाधीनत्वात् । आधानोप- नयनयोश्च ‘वसन्ते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्यः । वसन्ते ब्राह्मणमुप नयीत ग्रीष्मे राजन्यं शरदि वैश्यम्’ इति त्रिष्वेव दर्शनात् । अन्यतो लब्धाग्निविद्यानां त्रैवर्णिकानामधिकारिणां सत्वेन कर्मविधिभिर्निषादादिष्विव शूद्रेष्वपि तयोराक्षेपकल्पनायां प्रमाणाभावाच्छूद्रव्यतिरिक्तानामेवाधिकार इति सिद्धान्तः ।

ननु स्वर्गकामवाक्यस्याग्निविद्यादिकमिव द्वैतनिषेधवाक्यस्य तात्त्विकयोग्यतादिकं नोप जीव्यम् । न हि योग्यता तात्विकयोग्यतात्वेन निमित्तम् । किन्तु योग्यतात्वेनैवेति चेत् । मैवम् । स्वर्गकामवाक्यस्य स्वार्थसत्तासमसत्ताकाविद्यापेक्षावद् द्वैतनिषेधवाक्यस्यापि तादृश योग्यतापेक्षानियमात् । तात्विकार्थप्रतिपादने तात्विकयोग्यतादेरेव निमित्तत्वाच्च ॥ योग्य-तादीति योग्यतादेरितरद् द्वितीयं नास्तीत्यर्थपरत्वमित्यर्थः ॥ सृष्ट्यादीति । सृष्टिवाक्यस्य तव मते यथा कल्पितसृष्टिविषयत्वं तथा द्वैतनिषेधवाक्यस्यापि कल्पितद्वैतनिषेधविषयत्व-मस्त्वित्यर्थः ।

ननु सकलद्वैताभावस्याधिकरणस्वरूपत्वेन तदधिकरणस्य च ब्रह्मणः ‘सत्यं ज्ञानमनन्तं ब्रह्म, ‘तत्सत्यं स आत्मा’ इत्यादिश्रुत्या सत्यत्वप्रतिपादनान्न सृष्ट्यादिश्रुतेरिवास्याः कल्पितविषयत्वोपपत्तिरिति चेत्, मैवम् । विचित्रप्रपञ्चासाधारणकारणविचित्रशक्तिरूपस्य द्वैतस्य ‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी’ इत्यादिश्रुतिसिद्धात्मरूपस्य तात्विक-त्वेन द्वैतनिषेधश्रुतेस्तात्विकविषयत्वस्याप्यनुपपत्तेः । द्वैतनिषेधस्यात्मरूपत्वासिद्धेश्च । न च तस्य तत्वावेदकश्रुतिबोध्यत्वेनात्मरूपत्वम् । अन्योन्याश्रयात् । द्वैतनिषेधस्य तात्विका-त्मरूपत्वेन तात्विकत्वे सिद्धे तत्प्रतिपादकश्रुतेस्तत्वावेदकत्वसिद्धिः । तत्सिद्धौ च तत्प्रतिपाद्यद्वैतनिषेधस्य तात्विकात्मरूपत्वसिद्धिरिति । द्वैतनिषेधश्रुतेस्तात्विकार्थपरत्वस्य विचार्यमाणत्वात् । शक्तेस्तु ब्रह्मस्वरूपत्वं ‘परास्य शक्तिः’ इत्यादिश्रुत्यैव सिद्धम् । ‘स्वाभाविकी’ इति श्रवणात् ॥ अन्योन्येति । शब्दस्वरूपादेस्तदर्थस्य च समसत्ताकत्व- नियमत्यागे सति बाधकाभावे सिद्धे श्रुत्यर्थस्य तात्विकत्वसिद्धिः । तत्सिद्धौ च तद्बलादुक्त- नियमत्याग इत्यर्थः ।

उपसंहरन् सङ्गृह्णाति– तस्मादिति ॥ तद्योग्यतयोरिति ॥ स च योग्यता च तद्योग्यतम् । द्वन्द्वैकवद्भावः । शब्दार्थस्य, शब्दस्य तद्योग्यतायाश्चेत्यर्थः । तुल्यत्वात् सत्तयेति शेषः । योग्यतेत्युपलक्षणम् । शब्दस्वरूपमपि ग्राह्यम् । न चेत् शब्दयोग्यते सत्यावित्यनुषङ्गः ॥ वृषलेति । वृषलोद्वाहमन्त्रस्वरूपं तद्योग्यतादिकं चासदेव । अतः स न मानमित्यर्थः ॥ एवमिति । यथा स्वस्वरूपादेर्मिथ्यात्वबोधनाबोधनपक्षयोर्मिथ्यात्व श्रुत्यनुपपत्तिस्तथेत्यर्थः ॥ स्वेति ॥ ‘अहम् इदानीं मौनी’ इतिवत् स्वबोध्यस्य स्वेनैव निषेधादित्यर्थः ॥ सर्वेति ॥ द्वितीयाभावस्यानात्मनो निषेधाभावादित्यर्थः ॥

न्यायामृतसौगन्ध्यं

किञ्च श्रुत्या स्वस्वरूप-स्वप्रामाण्य-स्वयोग्यतादेर्मिथ्यात्वाबोधनेन प्रत्यक्षादिसिद्ध तत्सत्वोपजीवनेन च ब्रह्मेतरसकलमिथ्यात्वासिद्धिः । ‘सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य’ इति न्यायात्प्रत्यक्षादिसिद्धघटादिमिथ्यात्वासिद्धिश्च । न्यायस्त्वेवम् । ‘शतानि सहस्राणि’ इत्यत्र सर्वनामस्थानसंज्ञक‘शि’सन्निपातेन विहितो नुम् ‘ष्णान्ता षट्’ इति षट्संज्ञाद्वारा ‘षड्भ्यो लुक्’ इति शिस्वरूपसर्वनामस्थानस्य पञ्चेत्यादाविव लुङ्निमित्तं न भवति । तत्सन्निपातेनैव विहितत्वात् ।

योग्यतादिमिथ्यात्वबोधने च श्रुत्यर्थस्यातात्विकत्वापत्तिः । शब्दबोध्यस्य शब्द-तत्प्रामाण्ययोग्यतादिना समसत्ताकत्वनियमात् । न च सदर्थे स्वाप्नदेवतावाक्ये व्यभिचारः । आप्तत्वापौरुषेयत्वायोगेन तस्य शब्दत्वे न (न) तत्प्रामाण्यायोगात् । किन्तूप श्रुतिवत्ता-दृशशब्दज्ञानं लिङ्गत्वेन प्रमाणम् । अन्यथा शब्दं श्रुत्वा स्वाभिमतोऽर्थो येनानुमीयते स शब्द उभयश्रुतिः । ननु निर्दोषशब्दत्वेन तस्य शब्दविधयैव प्रामाण्यसम्भवः । आप्तत्वा- पौरुषेयत्वयोर्दोषाभावयोरुपक्षयः । वक्तुः कल्पितत्वेऽपि तस्यार्थसंवादेन दोषः कल्पितुं न शक्य इति चेन्न । दोषाभावेन प्रत्यक्षादिप्रमाणसाधारणेन शब्दप्रामाण्यासाधारणप्रयोजकस्याप्त त्वादेरुपक्षयासम्भवात् । आप्तत्वाद्यभावस्यैव दोषत्वाच्च । कल्पितवक्तृकवाक्यार्थसंवादस्यानु- मानिकत्वेनाप्युपपत्तेः ।

न चोक्तसमसत्ताकत्वे मानाभावः । ‘मिथ्यात्वबोधकत्वेनाभिमता श्रुतिः स्वस्वरूपेण वा स्वप्रामाण्येन वा स्वयोग्यतया वा समानसत्ताकार्था, प्रमाणशब्दत्वात् सम्मतवत्’ इत्यनु-मानेन तत्सिद्धेः । न चैतस्मिन्नियमे परोक्षत्वम् अनित्यत्वं चोपाधिः । ध्वन्यादावाकाशादौ च साध्याव्याप्तेः । यत्तु साक्षिस्वरूपान्यरूपं परोक्षत्वमिति न घटादावव्यापकत्वम् । उक्तोपाधिर्यदि साध्यव्यापको न स्यात्तदा साक्षिणः स्वबोधयोग्यतादिसमसत्ताकत्वं स्यात् । तथा च तस्य बाध्यत्वं निःसाक्षिकं स्यादिति तर्केण व्यापकतानिश्चयावबोधान्नीयते पक्षे-तरत्वतुल्यत्वमप्युपाधिः । आत्मगुरुत्वान्यतरत्वावच्छिन्नसाध्यव्यापकं यथाश्रुतं चा-परोक्षत्वमिति । तन्न । साक्षिपदेन सगुणोक्तौ तत्रैव साध्याव्यापकत्वात् । शुद्धचिदुक्तौ तस्यावाच्यत्वेनोपाधेः प्रमाणशब्दवाच्यत्वरूपसाधनव्यापकत्वात्, तस्यावाच्यत्वं तु कल्पित-चिद्भेदस्य चित्त्यपि सत्वेन साधनव्यापकत्वात्पक्षेतरत्वातुल्यत्वात् । उक्तेत्याद्ययुक्तम् । अबाध्यत्वेन स्वबोधायोग्यतादेः समसत्ताकत्वेनेष्टापत्तेः । न हि योग्यतादेर्बाध्यत्वं निर्णीतम् । येन तत्समसत्ताकत्वम् अनिष्टमापादयेत् ।

आत्मेत्याद्ययुक्तम् । आत्मपदेन सगुणोक्तौ हि साध्यव्यापकता । निर्विशेषोक्तौ तु तस्यावाच्यत्वेन साधनव्यापकत्वात् । यद्धर्मावच्छिन्नसाध्यव्यापकत्वतद्धर्मावच्छिन्नसाधना व्यापकत्व अन्यतरत्ववति परोक्षत्वाव्यभिचारित्वासिद्धेः । तस्यापि वाच्यत्वेऽप्रयोज-कत्वात् । ननु महाभाष्योक्तन्यायोदाहरणं च विषयम् । अलुप्तस्यैव सर्वनामस्थानस्य नुं निमित्तत्वात् । ‘न लुमताङ्गस्य’ इति लुमता लुप्तेऽङ्गकार्यनिषेधात् । तथा चालुप्तप्रत्ययत्वेन यत्र निमित्तता तत्र सन्निपातलक्षणन्यायावतारः । यत्र तु ‘प्रत्ययलोपे प्रत्ययलक्षणम्’ इति न्यायेन लुप्तेऽपि प्रत्यये कार्यं भवति तत्रालुप्तत्वविशेषणनैरपेक्ष्येण प्रत्ययत्वमात्रेणैव निमित्त- त्वान्न सन्निपातलक्षणन्यायावतारः । प्रत्ययसद्भावस्य तत्रानुपजीव्यत्वात् । एवं स्थिते यद्यमिथ्याभूतत्वेन प्रत्यक्षादेर्निमित्तता स्यात्तदा प्रत्ययस्यालुप्तत्वेन निमित्ततायामिव भवेदेत-न्न्यायावतारः । प्रत्यक्षादेरुक्तस्वरूपेणैव निमित्ततेति चेन्न । स्वरूपेणैव कालत्रयनिषिद्धस्य स्वरूपस्याप्यसम्भवात् ।

किञ्च ज्योतिष्टोमादिविधेरुपजीव्याग्निविद्यावद्विषयत्वेनेव द्वैतनिषेधस्यापि स्वोपजीव्य योग्यतादीतरविषयत्वेनैव सङ्कोचस्य वा सृष्ट्यादिश्रुतेरिव कल्पितविषयत्वस्य वोपपत्तौ न तात्विकसर्वमिथ्यात्वपरत्वकल्पनं युक्तम् । ननु योग्यतादिकं तात्विकत्वेन न निमित्तं किन्तु योग्यतात्वेनैव । योग्यतामिथ्यात्वेऽपि न शब्दार्थस्य मिथ्यात्वम् । सकलद्वैताभावस्य चाधिकरणस्वरूपत्वेन तदधिकरणस्य च ब्रह्मणः ‘सत्यं ज्ञानमनन्तं ब्रह्म, ‘तत्सत्यं स आत्मा’ इत्यादिश्रुत्या सत्यत्वोपपत्तेश्च । यत्तु अग्निना स्वोपजीव्यतृणादिनाशकत्ववद् औतागमस्य स्वोपजीव्यप्रत्यक्षादिबाधकत्वोपपत्तिरिति तन्न । उपजीव्यतृणादिनाशसामग्री मध्ये निविष्टेनाग्निना तृणादेर्नाशेऽपि अतथाभूतेनाद्वैतागमेन स्वोपजीव्याक्षादेर्नाशासम्भवात् ।


किञ्चोक्तरीत्या श्रुत्याप्यविद्याकार्यस्य विश्वस्य न स्वरूपेण त्रैकालिक निषेधः

न्यायामृतं

किञ्चोक्तरीत्या श्रुत्याप्यविद्याकार्यस्य विश्वस्य न स्वरूपेण त्रैकालिक निषेधः । पारमार्थिकत्वेन निषेधस्तु निर्धर्मकस्यात्मनोऽपि । अपि च ‘तत्त्वमसि’ इत्यनेन प्रत्यक्षाविरोधाय तत्वम्पदलक्षितयोरैक्यमिव मिथ्यात्व श्रुत्यापि तदविरोधाय प्रत्यक्षादिसिद्धादन्यस्यैव मिथ्यात्वं बोध्यमिति न तत्सिद्धविश्वमिथ्यात्वसिद्धिः । अन्यथा ‘नेह नाना’ इति निषेधाद्विश्वस्यात्य-न्तासत्त्वं तात्त्विकं ख्यात्यन्यथानुपपत्तिसिद्धमसद्वैलक्षण्यं त्वतात्त्विकं स्यात् । किञ्च श्रुतेस्तात्पर्यं चैतन्यमात्रे वा, द्वितीयाभावविशिष्टे वा, तदुपलक्षिते वा ? नाद्यः, विश्वमिथ्यात्वासिद्ध्या इष्टापत्तेः । तस्य स्वप्रकाशस्य नित्यसिद्धत्वेन श्रुतेर्वैयर्थ्याच्च । न द्वितीयः । श्रुतेरखण्डार्थत्वहानेः ।

अत एव न तृतीयः काकवदितिवद् द्वितीयाभाववदिति सप्रकारज्ञानहेतुत्वे अखण्डार्थत्वायोगात् । चिन्मात्रस्य नित्यसिद्धत्वेनान्यस्य च मुमुक्ष्वज्ञेयत्वेन काकेन संस्थानविशेषस्येव द्वितीयाभावेनोपलक्ष्यस्यान्यस्याभावेन तस्योप लक्षणत्वायोगाच्च । किञ्च श्रुतिबोध्यस्य विशेषणस्य वा उपलक्षणस्य वा द्वितीयाभावस्य सत्त्वे अद्वैतहानिः । मिथ्यात्वे च दण्डहीने दण्डीति वाक्यवत् काकहीने काकवदित्यादिवाक्यवच्चाद्वैतवाक्यस्यातत्त्वावेदकता स्यात् । न च तत्रातात्पर्यान्नातत्त्वावेदकता, आद्यपक्षान्तर्भावापाताच्च ।

किं चातात्पर्यं हि मानान्तरप्राप्त्या वा, यथा वायुक्षेपिष्ठत्वादौ, तद्विरोधाद्वा यथा आत्मवपोत्खननादौ, उद्देश्यविशेषणत्वादिना वा यथा ग्रहैकत्वादौ । नाद्यः, त्वयैव द्वितीयाभावस्य मानान्तराप्राप्त्युपगमात् । द्वितीयेऽपि विरोधिमानं न तावद् द्वैतग्राहिप्रत्यक्षादि । तस्यैव त्वन्मते श्रुतिबाध्यत्वात् । नाप्यद्वैत- वाक्यान्तरम् । तस्याप्याप्यात्ममात्रपरत्वे द्वितीयाभावत्वाविरोधित्वात् । न हि विशेष्यविषयं ‘अग्निहोत्रं जुहोति’ इति वाक्यं विशिष्टविषयेण ‘दध्ना जुहोति’ इति वाक्येन विरुद्धम् । द्वितीयाभावपरत्वे त्वेकविषयत्वेन सुतराम् अविरोधित्वात् ।

ननु स्वयमेव स्वविहितमपि द्वितीयाभावं द्वितीयत्वान्निषेधतीति स्व-विरोधादेवातात्पर्यमिति चेन्न, निषेधस्य स्वविहितनिषेधेतरद्वितीयविषयत्वा-वश्यम्भावात् । अन्यथा ‘क्ङिति च’ इति किन्निमित्तकवृद्धिप्रतिषेधोऽपि किन्निमित्तकत्वात्’ किति चेति सूत्रविहितकिद्विशेषनिमित्तकवृद्धिं ‘न हिंस्यात्’ इत्येतदपि हिंसात्वादग्नीषोमीयहिंसां ‘इदं वा अग्रे नैव किञ्चनासीत्’ इत्येतदपि ‘सदेव’ इत्यादिवाक्योक्तं ब्रह्मापि प्रतिषेधेत् । स्वविरोधो हि वाक्यान्तर विरोधादपि यत्नेन परिहार्यः । अद्वैतवाक्यस्य द्वितीयाभावे अतात्पर्यादविरोध इति चेन्न । द्वितीयाभावस्य स्वेन निषेधे सति स्वविरोधादेव तत्रातात्पर्यम्, अतात्पर्ये च सति स्ववचनविरोधाभावान्निषेध इत्यन्योऽन्याश्रयात् ।

अपि चैवं मम माता वन्ध्या मूकोऽहमित्यादावपि विरोधो न स्यात् । सुवचनं हि तत्रापि मात्रादिशब्दप्रापितमातृत्वादिकं वन्ध्यादिपदेनैव निषिध्यत इति । षोडशिग्रहणादावष्टदोषदुष्टोऽपि विकल्पश्च न स्याद् अग्रहणवाक्येन ग्रहणनिषेधापातात् । प्रतियोगिनो द्वितीयस्य मिथ्यात्वात्तदभावोऽपि मिथ्येति तु निरस्तम् । किञ्च स्वेनैव निषिद्धस्य द्वितीयाभावस्य द्वितीयस्येव विशेषण त्वेन उपलक्षणत्वेन वा पुनरुपादानमयुक्तम् ।

अद्वैतसिद्धिः

ननु तत्त्वमस्यादिवाक्येन प्रत्यक्षाद्यविरोधाय तत्त्वम्पदलक्षितयोरैक्यमिव मिथ्यात्वश्रुत्यापि तदविरोधाय प्रत्यक्षादिसिद्धादन्यस्यैव मिथ्यात्वं बोध्यम् । अन्यथा प्रत्यक्षाद्यनुग्रहाय व्यावहारिक मपि सत्त्वं न कल्प्येत ‘नेह नाने’त्यादिनिषेधेनात्यन्तासत्त्वबोधनादिति चेन्न, विशिष्टयोरैक्य विशेषणयोरप्यैक्यापातेन सर्वत्र विशिष्टाभेदपरवाक्यस्य लक्षितविशेष्यैक्यपरत्वनियमेन ‘तत्त्वमसि’ इत्यत्रापि तथाऽभ्युपगमात् । तदुक्तम्–

अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोर्द्वयोः ।

घटते न यदैकता तदा नतरां तद्विपरीतरूपयोः ॥

इति मिथ्यात्वबोधकश्रुतौ तु नास्ति प्रत्यक्षादिविरोधः । तात्त्विकत्वांशस्यानुपजीव्यत्वाद्, व्यावहारिकसत्त्वस्य चोपजीव्यत्वान्नात्यन्तासत्त्वकल्पनमित्यस्याप्युक्तप्रायत्वात् ।

ननु श्रुतेस्तात्पर्यं चैतन्यमात्रे वा ? द्वितीयाभावविशिष्टे वा ? तदुपलक्षिते वा ? नाद्यः, विश्वमिथ्यात्वासिद्धेरिष्टापत्तेः, तस्य स्वप्रकाशतया नित्यसिद्धत्वेन श्रुतिवैयर्थ्याच्च । न द्वितीयः, अखण्डार्थत्वहानात् । अत एव न तृतीयः, काकवदितिवद् द्वितीयाभाववदित्यनेनापि सप्रकारक ज्ञानजननेनाखण्डार्थत्वायोगात्, चिन्मात्रस्य नित्यसिद्धत्वेन तदन्यस्य च मुमुक्ष्वज्ञेयत्वेन काकेन संस्थानविशेषस्येव द्वितीयाभावेनोपलक्ष्यस्यान्यस्याभावात् तस्योपलक्षणत्वायोगाच्चेति चेन्न, काकस्य संस्थानविशेष इव द्वितीयाभावस्य स्वरूपमेवोपलक्ष्यमित्युपलक्ष्याभावनिबन्धनोपलक्षण त्वानुपपत्तेरभावात् । उपलक्षणत्वे हि उपलक्ष्यसत्त्वमात्रं तन्त्रम्, न तु तस्य स्वरूपाति- रिक्तत्वमपि, गौरवाद्, उपलक्ष्यतावच्छेदकरूपाभावेऽपि स्वतो व्यावृत्तजातिवदुपलक्ष्यत्वसम्भवात् । अत एव न सप्रकारकत्वापत्तिः, काकवदित्यत्राप्युपलक्षणस्याप्रकारत्वात्, किन्तु स्वरूपातिरिक्त धर्मस्य तत्रोपलक्षणत्वेन सप्रकारत्वम्, इह तु तन्नेति वैषम्यम् । न चोपलक्षणवैयर्थ्यम्, अनर्थ निवृत्तिहेतुत्वेन द्वितीयाभावद्वारकस्वरूपज्ञानस्योद्देश्यत्वात्, तस्य प्रागसिद्धत्वात् । न च मिथ्यात्वासिद्ध्येष्टापत्तिः, अवान्तरतात्पर्यस्य तत्रापि सत्त्वात्, तद्द्वारैव स्वरूपचैतन्ये महातात्पर्यात् ।

अत एव श्रुतिबोध्यस्य विशेषणस्योपलक्षणस्य वा द्वितीयाभावस्य सत्त्वेऽद्वैतहानिः, असत्त्वे चादण्डे दण्डीति वाक्यवत् काकहीने काकवदिति वाक्यवच्चाद्वैतवाक्यस्यातत्त्वावेदकत्वापत्तिरिति निरस्तम् । आद्ये द्वितीयाभावसत्त्वेन द्वितीयाभावासिद्ध्यापादनस्यानुचितत्वाद्, अभावस्याधि-करणातिरेकानभ्युपगमाच्च । द्वितीये तु सृष्ट्यादिवाक्यवदुपलक्ष्यस्वरूपसत्यत्वमादाय तत्त्वावेद-कत्वात्, मुख्यतात्पर्यविषयस्यासत्यतायामेवातत्त्वावेदकत्वाभ्युपगमात् । अत एव महातात्पर्याभि-प्रायेण चैतन्यमात्रे तात्पर्यमित्याद्यपक्षेऽपि न दोषः, अवान्तरतात्पर्येण मिथ्यात्वसिद्धेरपि स्वीकारेणेष्टापत्तेरप्यसम्भवात् ।

ननु द्वितीयाभावे महातात्पर्याभावः किं प्रमाणान्तरप्राप्त्या, यथा वायुक्षेपिष्ठत्वादौ ? उत तद्विरोधित्वेन यथाऽऽत्मवपोत्खननादौ ? उतोद्देश्यविशेषणत्वादिना यथा ग्रहैकत्वादौ ? नाद्यः, त्वयैव द्वितीयाभावस्य प्रमाणान्तरप्राप्त्यनभ्युपगमात् । द्वितीयेऽपि विरोधिमानं न तावत्प्रत्यक्षादि द्वैतग्राहि, त्वन्मते तस्यैव श्रुतिबाध्यत्वात् । नाद्वैतवाक्यान्तरम्, तस्यात्ममात्रपरत्वे द्वितीयाभावा विरोधित्वात् । न हि विशेष्यविषयं ‘अग्निहोत्रं जुहोति’ इति वाक्यं विशिष्टविषयेण ‘दध्ना जुहोति’ इति वाक्येन विरुध्यते । द्वैताभावपरत्वे त्वेकविषयत्वेन सुतरामविरोधात् । नापि तृतीयः, ‘ग्रहं सम्मार्ष्टि’ इत्यत्र सम्मार्जनस्येवाखण्डार्थपरे वाक्ये विधेयान्तरस्याभावेन विशेष्यस्य शास्त्रगम्यस्य चिन्मात्रस्याप्राप्तत्वेनोद्देश्यत्वायोगाच्च द्वितीयाभावस्योद्देश्यविशेषणत्वानुपपत्तेः, अविवक्षाहेतोरनुवाद्यत्वस्याप्यभावाच्चेति चेन्न, स्वयमेव स्वबोधितमपि द्वितीयाभावं द्वितीयत्वादेव निषेधतीति स्वविरोधादेव श्रुतेस्तत्रातात्पर्यात् । मानविरोधित्वमात्रस्य तात्पर्याभावे प्रयोजकत्वात् स्वविरोधेऽपि न क्षतिः ।

नन्वेकेनैव प्रमाणेनैकस्य प्राप्तिनिषेधावनुपपन्नौ न, रूपभेदेनाविरोधात् । द्वितीयाभावस्वरूपं हि शास्त्रेण प्राप्यते । तस्य च प्राप्यतावच्छेदकरूपं द्वितीयाभावत्वम् । तच्च न निषेध्यतावच्छेद-कम् । किन्तु द्वितीयत्वमेव निषेध्यमात्रानुगतम् । तत्र तदनभ्युपगमे तु न तस्य निषेध्यत्वं न वा तेनात्मनः सद्वितीयत्वापत्तिरिति न कोऽपि दोषः । यत्र तु प्राप्यतावच्छेदकमेव निषेध्यता वच्छेदकं तत्र प्राप्तिनिषेधशास्त्रयोरतुल्यविषयत्वेऽपि विशेषशास्त्रविषयपरित्यागेन सामान्यशास्त्र प्रवृत्तिः । तुल्यविषयत्वे त्वगत्या विकल्प इति न निषेधस्यासङ्कोचेन प्रवृत्तिः । यथा ‘न हिंस्यात्सर्वा भूतानि’ इति निषेधशास्त्रस्य ‘अग्नीषोमीयं पशुमालभेत’ इत्यादिप्राप्तिशास्त्रविषयेतर विषयत्वं, ‘अतिरात्रे षोडशिनं गृह्णाति’ ‘नातिरात्रे षोडशिनं गृह्णाति’ इत्यादिप्राप्तिनिषेध शास्त्रयोस्तु विकल्पेनैकविषयत्वम् । एकस्यैव हिंसात्वस्य षोडशिग्रहत्वस्य च प्राप्तिनिषेधयोरव च्छेदकत्वात् तत्र निषेधशास्त्रस्यासङ्कुचद्वृत्तित्वे प्राप्तिशास्त्रस्य सर्वात्मना वैयर्थ्यापत्तिः ।

प्रकृते च द्वितीयत्वेन रूपेण निषेधस्यैव शास्त्रार्थत्वान्न कस्यापि वैयर्थ्यशङ्का । अत एव द्वितीयाभावनिषेधे पुनर्द्वितीयोन्मज्जनापत्तिरिति निरस्तम् । उपपादितमेतन्मिथ्यात्वमिथ्यात्वसाधने । यथा प्रतियोग्यभावयोर्निषेध्यतावच्छेदकैक्ये नैकनिषेधेऽपरसत्त्वापत्तिरिति । न च स्वेनैव निषिद्धस्य द्वितीयाभावस्य द्वितीयस्यैव विशेषणत्वेनोपलक्षणत्वेन वा पुनरुपादानं न युक्तमिति वाच्यम् । अभावबुद्धौ निषिद्धस्यापि प्रतियोगिनः ‘सा शुक्तिः’ इत्यत्र प्रतिषिद्धस्यापि पूर्वप्रतीतरजत-स्योपलक्षणतयोपादानदर्शनाद्, असङ्कीर्णज्ञानप्रयोजकत्वस्य प्रकृतेऽपि तुल्यत्वात् । तस्मात् ‘एकमेवाद्वितीयम्’ इत्यादिश्रुतिर्विश्वमिथ्यात्वे प्रमाणमिति सिद्धम् । इत्यद्वैतसिद्धौ सामान्येन मिथ्यात्वश्रुत्युपपत्तिः ।

न्यायामृततरङ्गिणी

उक्तरीत्येति ॥ स्वरूपेण निषेधेऽत्यन्तासत्त्वापातादित्यादिमिथ्यात्वभङ्गोक्तये त्यर्थः ॥ आत्मनोऽपीति ॥ आत्मनि पारमार्थिकत्वरूपधर्मनिषेधेऽपि यथाऽऽ-त्मनो न मिथ्यात्वं तथा प्रपञ्चस्यापीत्यर्थः ॥ प्रत्यक्षेति ॥

उक्तं च संक्षेपशारीरके ।

अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोर्द्वयोः ।

घटते न यदैकता तदा नितरां तद्विपरीतरूपयोः ॥ इति ।

ननु विशिष्टयोरैक्ये विशेषणयोरैक्यापात इति चेन्न । प्रत्यक्षोपरोधे तयोरप्यै-क्यस्य ‘तत्वमसि’ इत्यनेन बोधयितुं शक्यत्वात् । प्रत्यक्षानुरोधेन तदबोधनं तु प्रकृतेऽपि समम् । ननु सर्वत्र विशिष्टैक्यपरे ‘सोऽयम्’ इत्यादिवाक्ये विशेष्यैक्य-परतैव दृष्टेति चेत् सत्यम् । प्रत्यक्षानुग्रहेणैव सा । तन्निग्रहे तु विशिष्टपरत्वमेव स्यादिति ॥ तदविरोधायेति ॥

ननु नोपजीव्यप्रत्यक्षादिविरोधः । तात्विकांशानुपजीवनात् । व्यावहारिकांश-स्योपजीवनादिति चेन्मैवम् । न ह्यत्रोपजीव्यविरोध इत्युच्यते । किन्तु प्रत्यक्षाद्यविरोधेनैव मिथ्यात्वश्रुत्युपपत्तौ न तद्विरुद्धार्थकत्वं तस्याः कल्पनीयमिति । तत्र च नैतच्चोद्यावकाशः । मिथ्यात्वसिद्धेः प्राग् व्यावहारिकघटादिसिद्धेरभावात् । तात्विकत्वेनैव सिद्धेश्चेति ॥ अन्यस्येति ॥ विज्ञानवादादिप्राप्तक्षणिकत्वादि-नेत्यर्थः । अत एव नाप्रसक्तप्रतिषेधोऽपीति भावः ॥ अन्यथेति ॥ श्रुते-र्मानान्तराननुरोधे ॥ ख्यातीति ॥ अर्थापत्तिसिद्धमसद्वैलक्षण्यम् अनुरुन्धती श्रुतिः प्रत्यक्षसिद्धं सत्त्वं कथं नानुरुन्ध्यादित्यर्थः ॥ विश्वेति ॥ यत्परः शब्दः स शब्दार्थ इति न्यायेन चैतन्यमात्रस्यैव ततः सिद्धिर् न तु विश्वमिथ्यात्वस्येत्यर्थः ।

ननु चैतन्यमात्रे महातात्पर्येऽप्यवान्तरतात्पर्येण द्वितीयाभावस्यापि द्वारतया बोधनान् मिथ्यात्वमपि सिध्यतीति चेन्न । अवान्तरतात्पर्यविषयस्य खण्ड-वाक्यार्थस्य महातात्पर्यजन्यज्ञाने महावाक्यजन्यज्ञाने इव भाननियमेन द्वैतनिषेध-श्रुतेरखण्डार्थत्वहानेः । अवान्तरतात्पर्यमहातात्पर्ययोः सप्रकारकनिष्प्रकारक-ज्ञानजनकतया विरोधेन श्रुतेस्तथाविधतात्पर्यवत्त्वासम्भवाच्च ॥ श्रुतेरिति ॥ संसर्गगोचरज्ञानजनकत्वादित्यर्थः ॥ अत एवेति ॥ अखण्डार्थत्वहानेरेवेत्यर्थः ।

ननु तद्विशिष्टज्ञानजनकत्वाभावात्कथमखण्डार्थत्वहानिरित्यत आह– द्विती-येति ॥ अद्वैतवाक्यस्य द्वितीयाभाववद्ब्रह्मेत्येवं सप्रकारकज्ञानजनकत्वेनोपलक्षण संसर्गस्योपलक्ष्ये ब्रह्मणि बोधनादित्यर्थः । उपलक्षणेन शुद्धस्वरूपमात्रमुपलक्ष्यं विशिष्टं वा शुद्धगतधर्मान्तरं वेति विकल्प्याद्यं निराकरोति– चिन्मात्रस्येति ॥ उपलक्षणं विनैव तस्य सिद्धत्वादित्यर्थः । द्वितीयं निराकरोति ॥ अन्यस्येति ॥ शुद्धात्मन एव मुमुक्षुज्ञेयत्वात् शास्त्रेणोपलक्षणद्वारापि तस्यैव बोधनीयत्वादिति भावः । तृतीयं निराकरोति– काकेति ॥ काकाद्युपलक्षितसंस्थानविशेषस्य गृहज्ञान विषयत्ववद्द्वितीयाभावोपलक्ष्यधर्मस्य मुमुक्ष्वपेक्षितशुद्धात्मज्ञानविषयत्वाभावादिति भावः । ननु चिन्मात्रस्य सिद्धत्वेऽपि नोपलक्षणवैयर्थ्यम् । अनर्थनिवृत्तिहेतुत्वेन द्वितीयाभावद्वारकस्वरूपज्ञानस्योद्देश्यत्वात्तस्य प्रागसिद्धत्वात् । न । अपरोक्षज्ञानस्य विरोधिनिवर्तमाने द्वारविशेषपूर्वकत्वस्यानपेक्षणीयत्वात् । न हि द्वारविशेषाजन्यः शुक्तिसाक्षात्कारो न रूप्यभ्रमनिवर्तकः ।

औतेति ॥ ननु द्वितीयाभावस्य सत्यत्वेऽपि तस्य ब्रह्मस्वरूपतया नाद्वैत हानिरिति चेन्न । ब्रह्मणः स्वतःसिद्धत्वेन द्वितीयाभावबोधकवाक्यवैयर्थ्यात् । अभाव त्वेन तद्बोधनेऽखण्डार्थत्वहानिः ॥ मिथ्यात्वे चेति ॥ द्वितीयाभावस्य मिथ्यात्वे तस्य ब्रह्मणि विशेष्ये कदापि सम्बन्धाभावात्तत्र तस्य विशेषणत्वोपलक्षणत्वयोर भावेन तत्र द्वितीयाभावबोधकवाक्यस्याप्रामाण्यं स्यादित्यर्थः ॥ न चेति ॥ द्वितीयाभावरहिते ब्रह्मणि श्रुत्या तद्बोधनेऽपि तत्र तात्पर्याभावान्नातत्वावेदकत्व-मित्यर्थः ॥ आद्येति ॥ द्वितीयाभावबोधकश्रुतेश्चैतन्यमात्रे तात्पर्यमित्येवं-रूपाद्यपक्षेऽन्तर्भावः । तत्र च मिथ्यात्व•)सिद्धिः । यत्परः शब्दस्तस्यैव शब्दार्थ-त्वादिति दूषणमुक्तमेवेत्यभिप्रायः ॥

मानान्तरेति ॥ यथा ‘वायुर्वै क्षेपिष्ठा देवता’ इत्यादौ शीघ्रगामित्वाख्य क्षेपिष्ठत्वगुणो वायौ मानान्तरेण प्राप्त इति तद्वाक्यस्य न तत्र तात्पर्यं तथाऽ-त्रापीत्यर्थः ॥ तद्विरोधाद्वेति ॥ यथा ‘प्रजापतिरात्मनो वपामुदक्खिदत्’ इत्यादाववान्तरस्य धातुविशेष्यवपायाः प्रजापतिना स्वशरीरान्निष्कासनं कृतमिति वाक्यार्थे मानान्तरविरोधादतात्पर्यं तथेत्यर्थः ॥ उद्देश्येति ॥ तृतीयस्य प्रथमपादे चिन्तितम् । ‘एकत्वयुक्तमेकस्य श्रुतिसंयोगात्’ । ज्योतिष्टोमे श्रूयते । ‘दशापवित्रेण ग्रहं संमार्ष्टी’ति । तत्र ग्रहैकत्वं विवक्षितमुत नेति संशयः । ननु वेदस्य नित्यत्वान्न तत्र पुरुषविवक्षाविवक्षे सम्भवतः । प्रतीतिमात्रन्तु पक्षद्वयेऽप्यस्ति । अतः कथमयं विवादः । तदुक्तं वार्तिके ।

प्रतीतिव्यतिरेकेण विवक्षाऽन्या न विद्यते ।

नित्यत्वाद्वेदवाक्यानां श्रुतोऽतो नाविवक्षितः ॥

इति चेदुच्यते । नित्येऽपि वेदेऽध्येतुश्चेतनस्य सत्त्वात् । तदीये ते विचार्येते । तदुक्तं वार्तिके ।

ऋग्वेदादिसमूहेषु क्षेत्रज्ञा ये प्रतिष्ठिताः ।

तेषां वाऽयमभिप्रायः स्याद्विवक्षाविवक्षयोः ॥ इति ।

तत्र पूर्वःपक्षः । सर्वत्र विधिप्रतिषेधात्मकत्वाद् वेदस्य यावत्किञ्चिच्छ्रूयते तत्सर्वं तत्सम्बन्धित्वेन गम्यते । अत एकत्वमपि विधेयत्वेन विवक्षितमेवेति सम्मार्गादि-कर्म एकत्वयुक्तम् । एकत्वेन सम्बध्यते । एकस्यैव कर्तव्यम् । कुतः श्रुति-संयोगादिति सूत्रार्थः । तदुक्तं वार्तिके ।

स्यात्कर्मैकत्वयुक्तं यद्विधानं वापि वैदिकम् ।

द्रव्यस्यैकस्य तज्ज्ञेयमनुष्ठेयं च कर्तृभिः ॥ इति ॥

सिद्धान्तस्तु । द्वितीयाश्रुतिनिर्देशात्प्रयोजनवत्त्वाच्च ग्रहस्य प्राधान्यं संमार्गस्य गुणभावो विज्ञायते । तत्रापि ग्रहत्वस्यासंमार्गार्हत्वात् । ग्रहशब्दस्य पात्रवाचित्वे जात्या ग्रहणम् । संस्कृतसोमवाचित्वे संस्कारेणोपलक्षितानां ग्रहव्यक्तीनां संमार्ग विधाने यद्ग्रहकार्यं तत्संमार्गेण सगुणं भवतीति शास्त्रार्थावगमात् । य एवं न संमृज्यते तस्यैव कार्यं विगुणं भवेत् । अतः सर्वे संमार्जनीयाः । यदि तु संमार्गगुणत्वेन यागाङ्गपशुवद् ग्रहश्चोद्येत तत एकेनैव सिद्धे कार्ये नापरः संमृज्येत । तदुक्तं वार्तिके ।

व्यक्तीरुद्दिश्य यत्कर्म स्वजात्याद्युपलक्षिताः ।

विहितं गुणभावेन तत्सर्वार्थं प्रतीयते ॥

इति । आदिशब्देन संस्कारस्य ग्रहणम् । नन्वेकवचनेन ग्रहैकत्वस्य श्रुतत्वाद् एक एव संमार्गे कर्तव्य इति । मैवम् । एकत्वस्य विधानविनियोगाभावात् । तदुक्तम् ।

श्रुतमात्रस्य सर्वस्य नानुष्ठेयत्वमिष्यते ।

विधानविनियोगौ हि तत्रापेक्ष्यौ श्रुतौ श्रुतौ ॥ इति ।

ननु प्रकृतिप्रत्ययपदश्रुतिप्रतिपादितानां बहूनामर्थानां मध्ये को विधिविनियोगा भ्यां परिगृहीतः को वा नेति चेद् वचनव्यक्त्यदोषदोषाभ्यां तदवगमात् । तथा हि । ग्रहमुद्दिश्य संमार्गैकत्वयोर्विधाने वाक्यभेदः । ग्रहमेकत्वं चोद्दिश्य संमार्गविधानेन प्रत्युद्देश्यं वाक्यपरिसमाप्त्या वाक्यभेदः । एकत्वविशिष्टं ग्रहमुद्दिश्य तद्विधानमपि न सम्भवति । विभक्त्या हि युगपत्सङ्ख्या कारकं चोच्यते । न तु प्रथमं सङ्ख्यां प्रातिपदिकार्थस्योक्त्वा पश्चात्तद्विशिष्टस्य कारकत्वमुच्यते । येनैकत्वविशिष्टग्रहस्य कर्मत्वं स्यात् । तस्मान्नैकत्वस्य विधिसम्बन्धः । तदुक्तं वार्तिके ।

मीमांसका हि वाक्यार्थविचारे प्रस्तुते सति ।

लोकदृष्टीः प्रतिघ्नन्ति वचनव्यक्तिपांसुभिः ॥ इति ।

सर्वप्रकारमन्विष्टं वचनव्यक्तिभिः पृथक् ।

न शक्यते विधानं तदेकत्वं न ग्रहीष्यते ॥

इति च । तस्माद्ग्रहैकत्वमविवक्षितमिति सर्वेषां ग्रहाणां संमार्ग इति । एवं च ग्रहे एकत्वस्येव ब्रह्मणि द्वितीयाभावस्य श्रुतत्वेऽपि न विशेषणत्वादिना वाक्यार्थ-प्रवेश इत्यर्थः । अत्र एकत्वस्य वाक्यार्थप्रवेशेऽपि ग्रहमित्यादिवाक्यादबाधित-प्रतीतिवद् द्वितीयाभावस्यापि तत्वावेदकादद्वैतवाक्यादेरबाधितप्रतीतिरस्तीति द्वितीया- भावस्याबाधितत्वं दुर्वारमिति वयं पश्यामः ॥ त्वयैवेति ॥ अद्वैतश्रुतेरननुवादकत्वं वदतेत्यर्थः ॥ तस्यैवेति ॥ प्रत्यक्षादेः सम्भावितदोषस्य निर्दोषश्रुत्या बाध्यत्वा-दित्यर्थः ॥ तस्यापीति ॥ अद्वैतवाक्यान्तरस्याप्यविरोधित्वादित्यन्वयः ॥ न हीति ॥ बाधकत्वाभिमताद्वैतवाक्यान्तरस्य लक्षणयाऽखण्डचिन्मात्रपरत्वाद्द्वितीया-भावरूपद्वितीयस्य तेनाप्यनिषेधादविधानाच्च तस्याग्निहोत्रवाक्यसाम्यम् । बाध्य-त्वाभिमताद्वैतवाक्यस्यात्मनि द्वितीयाभावविधायकत्वाद्दधिवाक्यसाम्यमित्यर्थः ॥ द्वितीयेति ॥ बाधकत्वाभिमतस्याद्वैतवाक्यान्तरस्यापि द्वितीयनिषेधतात्पर्यकत्वेन बाध्यत्वाभिमताद्वैतवाक्यस्यापि द्वितीयाभावे तात्पर्यकल्प्यमानेऽपि द्वयोरेकार्थ-त्वेनाविरोधात्तत्र तस्य तात्पर्यमित्यर्थः ॥ स्वयमिति ॥ द्वैतनिषेधवाक्यमित्यर्थः ।

ननु स्वविहितस्य कथं स्वेन निषेधः । एकेनैव प्रमाणेन प्राप्तप्रतिषेधयोरनुपपत्ते रित्यत आह– द्वितीयत्वादिति ॥ द्वितीयाभावस्वरूपं हि शास्त्रेण प्राप्यते । तस्य च प्राप्यतावच्छेदकरूपं द्वितीयाभावत्वम् । तच्च न निषेध्यतावच्छेदकम् । किन्तु द्वितीयत्वमेव निषेध(ध्य)मात्रानुगतम् । तत्र तदनभ्युपगमे तु न तस्य निषेध्यत्वम् । न वा तेनात्मनः सद्वितीयतापत्तिरतो रूपभेदान्न प्राप्तिप्रतिषेधावनुपपन्नाविति भावः ॥ स्वविरोधादिति ॥ तात्पर्याभावे मानविरोधस्यैव प्रयोजकत्वम् । न तु स्वभिन्नेति तत्र विशेषणमित्यर्थः ॥ निषेधस्येति ॥ द्वैतनिषेधवाक्यस्येत्यर्थः ॥ स्वविहितेति ॥ स्वेन विहितो यो निषेधस्तदितरद् यद् द्वितीयं तद्विषयत्वादित्यर्थः । अत्र स्वनिषेधद्वितीयपदानि प्रकृताभिप्रायाणि । निषेधस्य विहितेतरविषयत्वाद् इत्येवं व्याप्तिशरीरम् । विधानं स्वेन वाऽन्येन वा । विहितश्च निषेधो वा अन्यो वा न कश्चिद्विशेषः । निषेधशास्त्रस्य विहितेतरविषयत्वं हि निषेध्यतावच्छेदकस्य विहितावृत्तित्वे सति भवति । द्वितीयाभावत्वस्य निषेध्यतावच्छेदकत्वे त्वद्वैतशास्त्र-विहितस्य निषेधस्य निषेध्यतावच्छेदकबलेन तस्य विहितत्वनिषिद्धत्वे विरुद्धे आपद्येयाताम् ।

ननु रूपभेदेनाविरोध इति चेन्न । व्यक्तिभेदाभावेनाद्वैतवाक्यस्य निर्विषयत्वा-पत्तेः । तस्य हि द्वितीयाभावो विषयः । सोपि तेन द्वितीयत्वाद्यदि निषिध्येत तदेदं स्ववधाय कृत्योत्थापनम् । द्वितीयत्वेन निषेधे तत्स्वरूपानुपमर्देन निर्धर्मकब्रह्मण इव तत्स्वरूपसत्यतापत्तिः । किञ्च निषेधवाक्यासाधारणार्थस्य निषेध्यतावच्छेदका-वच्छिन्नत्वे तस्य निषेधवाक्यत्वमेव न स्यात् । निषेध्यवाक्यत्वमेव च स्यात् । अद्वैतवाक्ये तत्वावेदकत्वातत्वावेदकत्वे च स्याताम् । तस्मात्स्वविहितोऽपि द्वितीयाभावो द्वितीयत्वात्स्वेनैव निषिध्यत इत्युक्तिः सुभगाभिक्षुकन्यायेन बाह्योक्त व्याघातरूपवेदाप्रामाण्ययुक्त्युक्तिरेवेति ॥ अन्यथेति ॥ निषेधस्य विहितविषयत्वे इत्यर्थः ॥

क्ङिति चेतीति ॥ अनेन सूत्रेण सुप्तिङ्कृत्तद्धितसाधारणक्ङिन्निमित्तकः क्रियमाणो गुणवृद्ध्योः प्रतिषेधः किद्विशेषसुप्तद्धितनिमित्तकगुणवृद्धीतरतद्विषयो भवति, यथा ‘चिनुतः मृष्टः, चीयात्, मृज्यात्, भिदा, चितः, मृष्टः’ इत्यादौ निषिध्यते । न तु कृद्विशेषसुप्तद्धितनिमित्तकतद्विषयोऽपि । यथा घेर्ङिति । हरये । भानवे । किति च । भवतष्ठक्शसौ । भावे क्त इत्येवमादौ निषेधस्य विहितविषयत्वे किद्विशेषनिमित्ते अपि गुणवृद्धी क्ङिति चेति निषेधेन निषेध्येयातामित्यर्थः ॥ किद्विशेषेति ॥ कितो विशेषस् तद्धितस्तन्निमित्तमित्यर्थः ॥ हिंसात्वादिति ॥ मरणानुकूलव्यापारत्वादित्यर्थः ॥ इदमिति ॥ अस्य विश्वस्याग्रे पूर्वमित्यर्थः ।

ननु स्वविहितस्यापि द्वितीयाभावस्य स्वेनैव निषेधोऽस्तु वाक्यान्तरविरोधा-भावादित्यत आह– स्वविरोध इति ॥ यत्नेनेति ॥ वाक्यान्तरोपस्थितिविलम्बेन विलम्बोपस्थितिकाद्वाक्यान्तरविरोधादपि शीघ्रोपस्थितिकतया स्वविरोधस्य यत्नेन परिहरणीयत्वम् । ननु अद्वैतवाक्यं द्वितीयवत् स्वप्रतिपाद्यं द्वितीयाभावमपि निषेधति । द्वितीयाभावे तात्पर्याभावेन तस्य निषेधेऽपि विरोधाभावात् । अभाव- ज्ञानेन विषयीकृतस्यापि प्रतियोगिनस् तेन निषेधवदित्याशङ्कते ॥ औतेति ॥ स्वविरोधादिति ॥ द्वितीयाभावे अद्वैतवाक्यतात्पर्याभावबीजस्य मानान्तरप्राप्त्यादेर- भावात्तद्विरोध एव तद्बीजम् । सोऽपि न मानान्तरेण । किन्तु स्वेनैवेति वाच्य-मित्यर्थः ॥ अतात्पर्य इति ॥ अद्वैतवाक्यस्य द्वितीयाभावे तात्पर्याभावे तेन तत्सत्त्वासिद्धौ तन्निषेधेऽपि विरोधाभाव इत्यर्थः । शब्देन प्रतिपादितस्य पुनः शब्देन निषेधे विरोधकथोच्छिद्येतेत्याह– अपि चेति ॥ स्वविरोधस्यादोषत्वमेवंशब्दार्थः ॥ सुवचनं हीति ॥ मातृपदप्रापितं मातृत्वादिकं तस्य तत्रातात्पर्यान्न तत्ततः सिध्यति । अतस्तेनैव तन्निषेधे न परस्परविरोधः । अन्योन्याश्रयस्तूभयत्र सम इत्यर्थः ।

षोडशीति ॥ दशमस्याष्टमपादे चिन्तितम् । ‘शिष्टं नु प्रतिषेधः’ । ‘अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णाति’ इति । अत्र नातिरात्र इति पर्युदासः प्रतिषेधो वेति संशये विधिप्रतिषेधयोर्व्याघातात्पर्युदास एवेति पूर्वपक्षे यदि तावदनतिरात्रे गृह्णाति षोडशिनमिति पर्युदासः स्याद् अतिरात्रे न ग्रहीतव्यः । तत्र विधानानर्थक्यं षोडशिनः । अथाषोडशिनमतिरात्रे गृह्णातीति तथाप्यतिरात्रे षोडशिनो विधानानर्थक्यम् । तस्मात्प्रतिषेधः । विरोधाच्च नैकान्ततः प्रतिषेधः । तस्मादगत्या विकल्प इति ।

अष्टदोषदुष्टेति ॥ आग्नेयोऽष्टाकपाल इत्यादिवाक्यनिर्दिष्टपुरोडाशाक्षेपादेव व्रीहियवश्यामाकादिषु प्राप्तेषु द्रव्यान्तरप्रसक्तिनिमित्तानियमनिरासाय व्रीह्यादिशब्दै र्नियम आश्रीयते व्रीहिभिरेव यवैरेवेति । तथा च व्रीहिपुरोडाशप्रयोगे यवशास्त्रे प्रतीत प्रामाण्यत्यागः निर्दोषवेदे दोषजन्यसंशयविपर्ययरूपाप्रामाण्यायोगात् । प्रामाण्योप लम्भे सत्यपि प्रामाण्यानुपलम्भरूपानुपलब्धिगम्यप्रामाण्याभावरूपाप्रामाण्य-स्वीकारः । यवपुरोडाशप्रयोगे पूर्वकल्पिताप्रामाण्यस्य पूर्वं त्यक्तप्रामाण्यस्य च यवशास्त्रस्याप्रामाण्यत्यागप्रामाण्यस्वीकारौ विना तदर्थानुष्ठानायोगाद् यवशास्त्रे त्यक्तप्रामाण्यस्वीकारो ऽङ्गीकृताप्रामाण्यपरित्याग इति च दोषद्वयम् । एवं यवशास्त्रे दोषचतुष्टयम् । एवं यवपुरोडाशप्रयोगे व्रीहिशास्त्रे दोषद्वयम् । पुनर्व्रीह्युपादाने दोषद्वयं व्रीहिशास्त्रेऽपि दोषचतुष्टयं, इत्यष्टदोषदुष्टो विकल्पः । एवं ग्रहणाग्रहणवाक्येऽपि योजनीयम् । तदुक्तं वार्तिके ।

प्रमाणस्याप्रमाणत्वकल्पना च द्विदोषभाक् ।

प्रमाणत्वं प्रतीतं यदुज्ज्वलं तदपह्नुतम् ।

एकस्तावदयं दोषः स्यात्प्रतीतिविपर्ययात् ।

तथा तदप्रमाणत्वं यदभावप्रमाणकम् ।

भावेऽपि सत्यभावेन विनैव परिकल्प्यते ।

सोऽपि स्यादपरो दोषः प्रमाणार्थविपर्ययात् ।

अङ्गीकृत्यापि तौ दोषौ पूर्वकेनापि हेतुना ।

प्रयोगान्तरकाले च पुनर्दोषद्वयं भवेत् ।

यदभावप्रमाणत्वं पूर्वमेतस्य कल्पितम् ।

सम्प्रत्यपह्नुवानस्य दोष एको हि जायते ।

प्रत्यक्षं दृढरूपं च यत्पुरस्तान्निराकृतम् ।

उपजायेत दोषोऽन्यस्तदुज्जीवयतः पुनः ।

एवमेकत्र चत्वारो दोषा वाक्ये प्रदर्शिताः ।

तत एव प्रसज्येरन् द्वितीयेऽपि प्रकल्पिते ।

एवमेवाष्टदोषोऽपि यद्ब्रीहियववाक्ययोः ।

विकल्प आश्रितस्तत्र गतिरन्या न विद्यते । इति ।

अस्यार्थः । ‘द्विदोषभाक्’ इत्युक्तदोषद्वयमुपपादयति । प्रमाणत्वमिति । प्रमाण-त्वापह्णवस्य दोषत्वमुपपादयति । प्रतीतीति । प्रतीतप्रमाणत्वापह्णवः प्रतीति-विरोधादेव दोष इत्यर्थः । अप्रतीताप्रामाण्यकल्पनं द्वितीयदोष इत्याह । तथेति । तस्य प्रमाणस्य सतोऽप्रमाणत्वकल्पनमित्यर्थः । अभावेति । प्रामाण्यानुपलम्भ- रूपाभावप्रमाणकमित्यर्थः । सन्देहविपर्यययोर्दोषजन्यत्वान्निर्दोषवेदे च दोषा-भावात्प्रामाण्याभावरूपाप्रामाण्यं वाच्यम् । तस्मिंश्च प्रमाणोपलम्भाभावः प्रमाणं वाच्यम् । स च न सम्भवति । प्रामाण्योपलम्भस्य सत्त्वादित्याह । भाव इति । प्रामाण्योपलम्भस्य भावे सत्यपीत्यर्थः । प्रमाणेति । प्रमाणस्योपलम्भाभावस्य अर्थस्य प्रमेयस्य अप्रामाण्यविपर्ययाद्दोषादित्यर्थः । अभावेति । प्रामाण्योपलम्भाभाव प्रमाणकत्वम् । एतस्य अप्रमाणत्वस्येत्यर्थः । यदप्रामाण्यं पूर्वं स्वीकृतं तस्य त्यागस्तृतीयो दोषः । प्रत्यक्षमिति । यत्प्रमाणं पूर्वं निराकृतं तस्योपजीवनं स्वीकारश्चतुर्थो दोषः । सङ्ग्रहश्च ।

व्रीहौ कृते यवस्योक्तेः प्रमात्वत्यागकल्पने ।

यवेनैवं चेति दोषा व्रीहेश्चैवं द्वयेऽष्ट ते ।

व्रीहिमये पुरोडाशे कृते यवस्योक्तेर्यववाक्यस्य द्वौ दोषौ । यवमये पुरोडाशे कृतेऽपि यववाक्यस्य द्वौ दोषौ । एवं यववाक्ये चत्वारो दोषाः । व्रीहेरुक्तेश्चैवं चत्वारो दोषाः । एवं मिलित्वा उक्तेर्द्वये ते दोषा अष्ट ।

ननु प्रतियोगिनो द्वितीयस्य मिथ्यात्वात्तत्प्रतिद्वन्द्वी तदभावोऽपि मिथ्या । न हि वन्ध्यासुते गौरं रूपं मिथ्येति श्यामं रूपं सत्यं भवतीत्यत आह– प्रतियोगिन इति ॥ निरस्तमिति ॥ सामान्यतो मिथ्यात्वभङ्ग इति शेषः । अत्यन्ताभावस्य सत्यतायां प्रतियोगिमिथ्यात्वमनुकूलमित्यर्थः ॥ स्वेनैवेति ॥ अद्वितीयं ब्रह्मेत्यादौ द्वितीयाभावस्य ब्रह्मविशेषणत्वादिनोपादानमयुक्तमित्यर्थः । नन्वभावबुद्धौ निषिद्ध-स्यापि प्रतियोगिनो विशेषणत्वादिनोपादानमस्तीति चेन्न । न ह्यभावबुद्धौ प्रतियोगी विशेषणादितया अभावे उपादीयते । किन्तु तत्प्रतियोगिकत्वं तत्र विशेषणम् । तच्च नाभावबुद्ध्या निषिध्यते । प्रत्युत विधीयत एवेति भावः ।

न्यायामृतकण्टकोद्धारः

किञ्चेति । स्वरूपेण निषेधेऽसत्वा(पातः)पत्तिः । स्वरूपेण निषेधेऽपि तुच्छाद् वैलक्षण्यमिति तु निराकृतं बाध्यत्वरूपमिथ्यात्वभङ्गे ।

अपि चेति । नन्वत्र न प्रत्यक्षाविरोधाय लक्षणाऽङ्गीक्रियते । किन्तु विशिष्यैक्ये विशेषणैक्यापातेन विशिष्टाभेदपरवाक्यस्य लक्षितविशेष्यैक्यमात्रपरत्वनियमेनात्रापि तथाऽभ्युपगम इति चेन्न । एवं हि वदता प्रत्यक्षाविरोधायैव लक्षणाऽङ्गीकृता । तथा हि– विशिष्टैक्ये विशेषणैक्यम् । तच्च प्रत्यक्षविरुद्धम् । तेन विशेषणयोर्भेदस्यैवावगाहनात् । तथा च प्रत्यक्षविरोधादेव प्रकृतेऽपि लक्षणा स्वीकर्तव्येवेति प्रपञ्चमिथ्यात्वं न सिध्येदेव । किञ्च विशिष्टैक्ये विशेषणैक्यं कुतः ? न ह्यावयोर्मते विशिष्टं विशेषणविशेष्यतत्सम्बन्धात्मकम् । एवं च विशिष्टैक्येऽपि न विशेषणैक्यम् । किञ्च धूमवान् वह्णिमानित्यत्र व्यभिचारश्च । तत्र विशिष्टैक्येऽपि विशेषणैक्याभावात् । न च तत्र विशिष्टैक्यमेव नेति वाच्यम् । अनुभवविरोधात् । विस्तरिष्यते चैतदखण्डार्थवादे । न च प्रकृते प्रत्यक्षविरोध एव न । तात्विकांश-स्यानुपजीवना(व्यत्वा)द् । व्यावहारिकांशमात्रोपजीवनादिति वाच्यम् । योग्यतादेस्तात्विकत्व-स्यैव तन्त्रताया उक्तत्वात् । व्यावहारिकांशस्योपजीवने तस्यैवाबाधापत्तेश्च । व्यावहारिक-तात्विकविभागस्य मिथ्यात्वसिध्युत्तरकालीनतयाऽन्योन्याश्रयाच्च । एवं च प्रत्यक्ष-सिद्धान्यस्यैवमिथ्यात्वं बोध्यमिति न प्रत्यक्षसिद्ध मिथ्यात्वसिद्धिः । अन्यथा प्रत्यक्ष-विरोधाभावे ।

विश्वमिथ्यात्वेति । तात्पर्यविषयस्यैव शब्दात् सिध्यङ्गीकारादिति भावः । किञ्चाप्राप्ते श्रुतेस्तात्पर्यं वक्तव्यम् । अन्यथा सिद्धार्थबोधकत्वेनाप्रामाण्यं स्यात् । न च चैतन्यं तथेत्याह तस्येति । श्रुतेरिति । यत्र विशिष्टे तात्पर्यं तदेव श्रुत्या बोधनीयम् । एवं च निर्विशेषार्थनिष्ठत्वाभावादखण्डार्थत्वहानिः । निर्विशेषार्थनिष्ठत्वस्यैव तत्वादिति भावः । अत एवेति । अखण्डार्थत्वहानेरेवेत्यर्थः । तदुपपादयति– काकवदिति ॥ उपलक्षणस्य स्वप्रकारकज्ञानजनकत्वनियमादिति भावः । ननु नोपलक्षणस्य स्वप्रकारकज्ञानजन-कत्वम् । किन्तु स्वोपस्थाप्यविशेषप्रकारकज्ञानजनकत्वम् । इदं च यत्र स्वरूपाति-रिक्तमुपलक्ष्यं तत्र ज्ञातव्यम् । प्रकृते च स्वरूपमेवोपलक्ष्यम् । अतो न कश्चिद्दोष इति चेन्न । उपलक्षणस्य स्वस्वोपस्थाप्यान्यतरप्रकारकबोधजनकत्वस्वभावत्वाद् द्वितीया-भावस्योपलक्षणत्वेऽखण्डार्थत्वहानेर्दुर्वारत्वात् । न च स्वरूपमात्रोपलक्षणे नायं नियम इति वाच्यम् । तथोपलक्षणस्य क्वाप्यदर्शनेन सङ्कोचे प्रमाणभावात् ।

किञ्चोपलक्ष्याभावाच्च नोपलक्षणत्वम् । उपलक्ष्यं किं चैतन्यमात्रं तदतिरिक्तं वा ? नोभयथापीत्याह– चिन्मात्रस्येति । न च स्वरूपमात्रस्य नित्यसिद्धत्वेऽपि अनर्थनिवृत्ति- हेतुत्वेन द्वितीयाभावद्वारकस्वरूपमात्रं न सिद्धमिति वाच्यम् । द्वितीयाभावे तात्पर्याभावेन तद्द्वारकसिद्धेरसम्भवात् । अत एव मिथ्यात्वासिध्या इष्टापत्तेश्च । द्वितीयाभावस्य स्वरूप-मात्रत्वे तदसिद्धेरसम्भवाद् उपलक्ष्योपलक्षकभावायोगाच्च । न चावान्तरतात्पर्यात्तदुप-पत्तिरिति वाच्यम् । श्रुतितात्पर्यविषयत्वे तात्पर्यतो द्वितीयाभावविशिष्टबोधनेऽखण्डार्थत्व-हानेः । श्रुतितात्पर्यविषयत्वे सत्यत्वेन सद्वितीयत्वापत्तेश्च । न च महातात्पर्यविषयत्वा-भावान्नोक्तदोष इति वाच्यम् । लाघवेन श्रुतितात्पर्यविषयत्वस्यैव सत्यत्वादिप्रयोजकत्वात् । चैतन्यस्य नित्यसिद्धत्वेन तत्र महातात्पर्यायोगाच्च । किञ्च न स्वरूपस्योपलक्ष्यत्वम् । उपलक्ष्यतावच्छेदकाभावे उपलक्ष्यत्वादृष्टेः । न च जातेः स्वतो व्यावृत्तत्ववत् स्वत एवोपलक्ष्यत्वमिति वाच्यम् । कल्पकाभावात् । दृष्टान्तेऽनवस्थाया एव कल्पकत्वात् । न च प्रकृतेऽप्यखण्डार्थत्वमेव कल्पकमिति वाच्यम् । तस्यासिद्धेः । जातेरपि व्यक्तिरेव विशेषणं, धर्मान्तरं वा । अनवस्था च प्रामाणिकीति तद्दृष्टान्तासम्मतेश्च । तस्मान्न श्रुत्या मिथ्यात्वसिद्धिः । किञ्चेति । न च द्वितीयाभावस्य सत्वेऽपि स्वरूपत्वान्नाद्वैतहानिरिति वाच्यम् । द्वितीयाभावस्य स्वरूपत्वानुपपत्तेरुक्तत्वात् । न च तत्रेति । किं तर्हि चैतन्य एव लक्षणया महातात्पर्यमङ्गीक्रियत इति भावः ।

यथा वायुक्षेपिष्ठत्वादाविति । अर्थवादाधिकरणे वायुक्षेपिष्ठादिवाक्यानां क्रियाकारक फलाप्रतिपादकतया मानान्तरसिद्धार्थतया चाप्रामाण्ये शङ्किते प्रमाणान्तरसिद्धे स्वार्थे तात्पर्याभावेन प्रामाण्याभावेऽपि लक्षितप्राशस्त्यद्वारेण वायव्यं श्वेतमालभेतेत्यस्य विधेः शाब्दभावनांशभूतेतिकर्तव्यतासमर्पकतया विध्यर्थे तात्पर्यात् प्रामाण्यमुक्तम् । एवं च यथा तस्य स्वार्थे मानान्तरप्राप्ततया न तात्पर्यं तद्वदत्रापीत्यर्थः ।

यथाऽऽत्मवपोत्खननादाविति । अर्थवादाधिकरण एव ‘प्रजापतिरात्मनो वपामुद खिदत्’ इत्यादेः क्रियाकारकफलसम्बन्धाप्रतिपादकतया प्रमाणान्तरविरुद्धार्थतया च न स्वार्थे तात्पर्यम् । अतस्तत्राप्रामाण्यमिति पूर्वपक्षिते प्रमाणान्तरविरुद्धे स्वार्थे प्रामाण्या भावेऽपि प्रजापशुफलकप्राजापत्यपरपश्वालम्भविधिशेषतया प्रामाण्यं भविष्यतीति सिद्धान्तिते किंद्वारेण तच्छेषत्वमित्याक्षिप्ते स्तुत्युन्मीलनेनेत्युक्तम् । कथमस्य स्तुत्यु-न्मीलकत्वमिति चेदित्थम् । यदा प्रजापतिना फलविशेषार्थिना स्वावयवोत्कर्तनेन कर्माणि क्रियन्ते तदा किमु वक्तव्यं बाह्यपरित्यागेनेति । तथा च सर्वथा कर्म कर्तव्यमिति । तथा च प्रजापतिरात्मनो वपामुदखिददित्यादेः प्रमाणान्तरविरुद्धे स्वार्थे यथा न तात्पर्यं तथेत्यर्थः ।

उद्देश्यविशेषणत्वादिना वा यथा ग्रहैकत्वादाविति । तृतीये प्रथमे सप्तमाधिकरणे चिन्तितम् । ‘एकत्वयुक्तमेकस्य श्रुतिसंयोगात्’ । सोमे श्रूयते ‘दशापवित्रेण ग्रहं सम्मार्ष्टि’ इति । दशापवित्रं वासःखण्डः । तत्र संशयः किमेकस्य ग्रहस्य सम्मार्ग उत सर्वेषामिति । तदर्थमुद्देश्यगतसङ्ख्या विवक्षिता उत नेति । पूर्वपक्षस्तु ग्रहशब्दस्य जाति-वाचित्वेन जातेः संस्कार्यतया प्रतीतेस् तस्याः प्रत्येकव्यक्तिपर्यवसिततया तदाश्रयीभूते यस्मिन् कस्मिंञ्चिद् द्रव्येऽनुष्ठितेन संस्कारेण जातिः संस्कृता भवतीति न सर्वग्रह-संमार्गः । किं च पशोर्यागं प्रति गुणत्वाद् येन केनचित्पशुना यागनिष्पत्तिवद् येन केनचित् संमार्गसिद्धेर्न सर्वत्र संमार्गान्वयः । अपि च पशुना यजेतेत्यत्रोपादेयगता सङ्क्या यथा विवक्षिता तथोद्देश्यगतापि विवक्षणीया, अविवक्षाकारणाभावादिति । सिद्धान्तस्तु ग्रहशब्दस्य जातिवाचित्वेऽपि न तस्याः संस्कारः । अमूर्तत्वेन संस्कर्तु-मशक्यत्वात् । किन्तु तल्लक्षितानां ज्योतिष्टोमापूर्वसाधनानामयं संमार्गः ।

ननु तथापि येन केनचित्पशुना यागनिष्पत्तिवद् येन केनचिद् ग्रहेण संमार्गनिष्पत्ति- रिति चेद् भवेदेतद् यागप्राधान्यमिव संमार्गप्राधान्यं स्यात् । न चैवम् । संमार्गस्य गुण त्वात् । ग्रहस्य प्रधानत्वात् । द्वितीयाश्रवणात् । न च द्वितीयाश्रवणेऽपि सक्तुवन्न प्राधान्यमिति वाच्यम् । सक्तूनामप्रयोजनत्वात् । ग्रहाणां च प्रयोजनवत्वात् । प्रति-प्रधानं च गुणावृत्तेर्न्याय्यत्वात् सर्वग्रहसंस्कारः । न चाविवक्षाकारणाभावादुद्देश्य विशेषणमेकत्वं विवक्षितम् । अतो न सर्वग्रहसंमार्ग इति वाच्यम् । एकत्वं विवक्षितं चेत् संमार्गवद् विधेयं स्यात्, ग्रहवदुद्देश्यं वा स्यात्, ग्रहत्ववदुद्देश्यविशेषणं वा स्यात् ? नाद्यः । ग्रहमुद्दिश्योभय विधानेवाक्यभेदः । ग्रहं (संमृज्यात्) कुर्यात् तच्चैकं कुर्यादिति । न द्वितीयः । द्वयोः परस्परनिरपेक्षोद्देश्यत्वे प्रत्युद्देश्यं वाक्यपरिसमाप्तेर्वाक्यभेदः । ग्रहं संमृज्याद् एकं च संमृज्यादिति । न तृतीयः । एवं हि एकत्वविशिष्टं ग्रहमुद्दिश्य संमार्गो विधेयः ।

न चैतदुपपद्यते । विभक्त्या हि युगपत् सङ्ख्या कारकं चोच्यते, न तु प्रथमं सङ्ख्यां प्रातिपदिकार्थस्योक्त्वा तद्विशिष्टस्य कारकत्वमुच्यते । येनैकत्वविशिष्टस्य ग्रहस्य कर्मत्वं स्यात् । तस्मादेकत्वविवक्षा न युक्ता । किञ्च परिच्छेदाकांक्षाभावान्न सङ्ख्या विवक्षिता । न हि परिच्छिन्ने परिच्छेदाकांक्षा भवति । तस्मादेकत्वस्याविवक्षितत्वात् प्रतिप्रधानं गुणावृत्तिन्यायेन सर्वेषां ग्रहाणां संस्कारः । तथा च यथा ग्रहमित्यादावेकत्वस्योद्देश्य विशेषणत्वादविवक्षा तथा प्रकृतेऽपीत्यर्थः । त्वन्मत इति । व्यावहारिकविषयत्वेन दुर्बलतया बाधकत्वायोगादिति भावः ।

न हि विशेष्येति । द्वितीयाध्याये द्वितीयपादे पञ्चमाधिकरणे चिन्तितम् । ‘आघाराग्निहोत्रमरूपत्वात्’ । इदमाम्नायते अग्निहोत्रं जुहोतीति । तत्सन्निधौ श्रुतं दध्ना जुहोतीत्यादि । तत्र संशयः । किं दध्ना जुहोतीत्यादिभिर्विशिष्टा होमा विधीयन्ते, तेषां च रूपवतामग्निहोत्रं जुहोतीत्यनुवादः ? उतायमेव कर्मविधिरितरे तत्रैव गुणविधयः ? इति । तदर्थमपीदं विचार्यते । अविज्ञातरूपं कर्म विधातुमेवाशक्यमुत शक्यमिति । तदर्थं प्राप्ते कर्मणि गुणमात्रविधानं सम्भवत्युत नेति । पूर्वपक्षस्तु अग्निहोत्रं जुहोतीति सामान्यम् अवगम्यते । न च तद् विधातुं योग्यम् । विशेषस्तु योग्यः । स चानु-रञ्जकनिरूपणाधीनः । न जुहोतीत्येतावताऽवगम्यते । न चेह द्रव्यदेवतादिकमनु-रञ्जकमुपात्तं यद्वशेन विशेषावधारणं स्यात् । अनिरूपितश्च विशेषो न विधिनाऽन्वेतुं योग्यः । तेनावगतस्यायोग्यत्वाद् योग्यस्य च विशेषस्यानवगतत्वान्न विधिः सम्भवति । यदा चाग्निहोत्रं जुहोतीति न कर्म विधिस् तदा तदनुवादेन दध्यादिवाक्यैर्न गुणविधानं शक्यम् । कर्मणोऽविहितत्वेनानुवादासम्भवात् ।

किञ्चानेन कर्मविधावपि न दध्यादिवाक्यैर्गुणविधानम् । व्यापारस्यैव विधेयत्वात् । दध्यादेरव्यापारत्वात् । तस्माद् दध्यादिवाक्यानां विशिष्टहोमविधायकत्वेन ‘अग्निहोत्रं जुहोति’ इत्यादेर्न होमविधायकत्वम् । किन्तु समुदायानुवादकत्वमिति न विशेष्यमात्र परत्वम् । तथा च विषमो दृष्टान्त इति । सिद्धान्तस्तु ‘दध्ना जुहोति’ इति विधिः । विशिष्टविधिगौरवपरिजिहीर्षया विशेष्यप्राप्तिमर्थयमानो यदि कथञ्चिदपि विशेष्यप्राप्तिं न लभते ततो विशिष्टं विदध्यात् । सत्यां चाग्निहोत्रादिवाक्येन कर्मणः प्राप्तौ तदनुवादेन गुणमात्रं विदधाति, लाघवात् । न विशिष्टविधानं, गौरवात् । न च तत्र रूपानवगमाद् विधियोग्यविशेषानुपस्थितौ कथं विधानमिति वाच्यम् । विधिवशादेव सामान्यमतिक्रम्य विशेषस्यैव लक्षणीयत्वात् । एवं च लक्षणया होमविशेषस्यान्यत्राविहितस्य जुहोतिनोप स्थानान्न विधानासम्भवः । अत एव लक्षितविशेषविषयत्वेन संज्ञोपपद्यते । न च तस्या- रूपत्वम् । दध्यादिवाक्यैस्तल्लाभात् । न च स्वरूपेण दध्यादेरविधेयत्वमुक्तमिति वाच्यम् । ‘दध्ना जुहुयात्’ इति व्यापारविशिष्टस्यैव विधानाङ्गीकारात् ।

न चैवं गुणमात्रविधित्वं भग्नमिति वाच्यम् । यद्यपि न क्रियां विहाय द्रव्यविधिः प्रतीयते तथापि तस्यामेव विशिष्टायां प्रतीयमानो विधिः स्वरूपेण तस्याः प्राप्तत्वादप्राप्त गुणमात्रपरतामवलम्बमानः फलतो गुणविधिरित्युच्यते । तेनात्र गुणमात्रविधानम् । अग्निहोत्रं जुहोतीति प्रकृतकर्माभावाद् रूपलाभाच्च विधिरेव न समुदायानुवाद इति । एवं च ‘अग्निहोत्रं जुहोति’ इत्यस्य विशेष्यहोममात्रपरत्वाद् दध्ना जुहोतीत्यस्य प्रतीतितो विशिष्टपरत्वाद् दृष्टान्तदार्ष्टान्तिकभावः सङ्गच्छत इति न कश्चित् क्षुद्रोपद्रव इति । निषेधस्येति । प्राप्यत्वनिषेधत्वयोर्विरोधादिति भावः ।

नन्वेकेन रूपेण प्राप्यत्वनिषेध्यत्वे विरुद्धे । न तु रूपभेदेन ते तथा । प्रकृते तु द्वितीयाभावत्वेन प्राप्यता । तत्र प्राप्यतावच्छेदकं द्वितीयाभावत्वम् । निषेध्यतावच्छेदकं च द्वितीयत्वम् । एवं च द्वितीयत्वेन निषेधेऽपि तस्य ब्रह्ममात्रत्वेन न तेन ब्रह्मणः सद्वितीयत्वम् । न हिंस्यादित्यादौ तु प्राप्यतावच्छेदकनिषेध्यतावच्छेदकयोरेकत्वात् तुल्य- बलतया विरोधे सङ्कोचविकल्पादिकं युज्यते । यथा ‘अतिरात्रे षोडशिनं गृह्णाति’ इत्यत्रातिरात्रत्वस्यैवोभयावच्छेदकत्वाद् विकल्पः । ‘न हिंस्यात्’ इत्यत्र सङ्कोच इति चेन्मैवम् । एवं हि प्रपञ्चस्य सार्वज्ञ्यादेश्च द्वितीयत्वेन निषेधेऽपि प्राप्यतावच्छेदकेन सार्वज्ञ्यादिना सत्यत्वं स्यात् । सार्वज्ञ्यादेरपि ब्रह्ममात्रत्वस्य वक्तुं शक्यत्वे(न स)-द्वितीयत्वाविरोधित्वात् । न चेष्टापत्तिः । अपसिद्धान्तात् । न च सार्वज्ञ्यादेः सोपाधिकत्वान्न ब्रह्ममात्रत्वमिति वाच्यम् । द्वितीयाभावस्य सोपाधिकत्वेन ब्रह्म-मात्रत्वाभावस्य तुल्यत्वात् । न च तत्रोपाधिस् तटस्थ इति वाच्यम् । प्रकृतेऽपि उपाधेस्ताटस्थ्यस्य वक्तुं शक्यत्वात् ।

किञ्च द्वितीयाभावस्याभावरूपतया न ब्रह्ममात्रत्वम् । सार्वज्ञ्यादेश्च भावरूपतया ब्रह्ममात्रत्वं युक्तम् । अपि च द्वितीयाभावस्य ब्रह्ममात्रत्वे ‘एकमेवाद्वितीयम्’ इत्यादा वेकेनैव पदेन द्वितीयाभावस्य बोधनाद् अद्वितीयादिपदानां वैयर्थ्यम् । पर्यायत्वेनासह प्रयुक्तत्वं च । यथा चैतत् तथाऽखण्डार्थवाद उपपादयिष्यामः । अपि चैवं प्रपञ्चस्यापि धर्मान्तरेणैव द्वितीयाभाववन्निषेधे तद्वदेव स्वरूपेण सत्यत्वं स्यात् । एवं च स्वरूपेण प्रपञ्चस्य मिथ्यात्वमिति त्वन्मतहानिः । आकारान्तरेण तु मिथ्यात्वं ब्रह्मणोऽपि तुल्यमिति । अपि चाग्नीषोमीयपशुहिंसात्वस्य प्राप्यतावच्छेदकत्वाद् भूतहिंसात्वस्य निषेध्यतावच्छेदकत्वात् तत्रापि विधयेत्वनिषेध्यत्वे स्यातामित्युत्सर्गापवादन्यायो भज्येतेति ।

षोडशिग्रहणाग्रहणादाविति । दशमेऽष्टमपादे तृतीये चिन्तितम् । ‘शिष्टासु प्रतिषेधः’ ज्योतिष्टोमस्य संस्थाविशेषे श्रूयते । ‘अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति’ इति । अत्र संशयः । पर्युदासः प्रतिषेधो वेति । पूर्वपक्षस्तु प्रतिषेधे विधिप्रतिषेधः । विधिप्रतिषेधयोर्भिन्नवाक्यस्थत्वात् । अष्टदोषदुष्टविकल्पापत्तेर् नानु-याजेष्वित्यत्रेव पर्युदासो युक्त इति । सिद्धान्तस्तु प्रतिषेध एवाश्रयणीयः । पर्युदासानु-पपत्तेः । तथा हि नानुयाजेष्वित्यत्रानुयाजव्यतिरिक्तेषु यागेषु येयजामह इति विशेष-व्यतिरिक्तस्य सामान्यस्य सत्वात् तत्र पर्युदासः सम्भवति । प्रकृते त्वतिरात्रव्यतिरिक्तस्य सामान्यस्याभावादतिरात्रव्यतिरिक्तेऽतिरात्रे षोडशिनं गृह्णातीति पर्युदासः कर्तव्यः ।

स च न युक्तः । अतिरात्रस्यातिरात्रव्यतिरिक्तत्वाभावाद् विशेषणविशेष्यभावानु-पपत्तेः । तर्हि ‘न तौ पशौ करोति’ इत्यत्र ‘न सोमः’ इतिवदर्थवादोऽस्त्विति चेन्न । स्तुत्यस्तावकयोर्विधिनिषेधयोरेकविषयत्वेन व्याहतितादवस्थ्यात् । ‘अपशवो वा अन्ये गो अश्वेभ्यः’ इत्यत्र पश्वन्तरनिषेधेन गो अश्वविधेः स्तुतिर्दृष्टा । इह तु षोडशिनिषेधेन षोडशिन एव स्तुतौ स्पष्टो व्याघातः । न च प्रतिषेधेऽष्टदोषदुष्टो विकल्पः स्यादिति वाच्यम् । गत्यन्तराभावे व्रीहियववत् तस्येष्टत्वात् । तस्मात्प्रतिषेध इति ।

ननु प्रतियोगिनो मिथ्यात्वात् कथमभावस्य सत्यत्वमत आह– प्रतियोगिन इति ॥ प्रतियोगितदभावयोः समसत्ताकत्वाभावात् । अन्यथाऽनृतव्यावृत्त्यादेरसत्वापात इति भावः । किञ्चेति । न च निषिद्धस्यापि पूर्वप्रतीतरजतस्य सा शुक्तिरित्यत्रोपलक्षणतयोपादानं दृष्टमिति वाच्यम् । तत्र प्रतीतेरेव विशेषणतयोपलक्षणतया वोपादानात् । अत एव सा शुक्तिरिति प्रयोगः । न तु रजतं शुक्तिरिति । सेत्यत्र रजतत्वेन प्रतीतेत्यर्थात् । न च प्रकृते तथा । अद्वितीयमिति द्वितीयाभावस्यैव तथोपादानादित्यलं विस्तरेण ।

न्यायामृतप्रकाशः

त्रैकालिकनिषेधः कर्तुं शक्यत इति शेषः । तथात्वेऽसद्विलक्षणस्वरूपाङ्गीकारविरोधः स्यादित्याशयः । निर्धर्मकस्येति हेतुगर्भम् । आत्मनः पारमार्थिकत्वरूपधर्माभावेऽपि न मिथ्यात्वम् । तद्वत्प्रपञ्चस्यापीत्यर्थः । किञ्च ‘‘नेह नाने’’ति श्रुत्या प्रत्यक्षसिद्धप्रपञ्चस्य न मिथ्यात्वं बोधयितुं शक्यं, प्रत्यक्षविरोधादेव । अतः प्रत्यक्षसिद्धप्रपञ्चस्यैव कस्यचि-त्प्रपञ्चस्य निषेधोऽस्तु न तु प्रत्यक्षसिद्धस्य । अत एतत्प्रपञ्चस्य सत्यत्वसिद्धिः । प्रत्यक्षविरोधो मया नाद्रियत इति चेन्न । तथात्वे ‘‘तत्त्वमसि’’ इत्यादौ प्रत्यक्षविरोधभीत्या तत्त्वम्पदार्थविशिष्टैक्यपरत्वं विहाय चिन्मात्रैक्यपरत्वमङ्गीकृतं तन्न स्यादित्याह– अपि चेति ॥ प्रत्यक्षेति ॥

‘अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोर्द्वयोः ।

घटते न यदैकता तदा सुतरां तद्विपरीतरूपयोः ॥’

इति वचनादिति भावः ।

अन्यथेति ॥ नेहनानेति श्रुत्याऽस्यैव प्रपञ्चस्य निषेधः क्रियते । न च प्रत्यक्ष-विरोधः । श्रुतिसिद्धसत्त्वनिषेधरूपमिथ्यात्वस्य तात्विकत्वात् प्रत्यक्षगृहीतस्य तत्सत्त्वस्या तात्विकत्वेन विरोधाभावादित्यङ्गीकार इत्यर्थः । निषेधात् सत्त्वनिषेधात् । ननु ‘असच्चेन्न प्रतीयेत’ इति ख्यात्यन्यथानुपपत्त्याऽसद्वैलक्षण्यस्य सिद्धत्वात्तद्विरोध इत्यत आह– ख्यातीति ॥ तथा च श्रुत्यन्यथानुपपत्तिसिद्धयोरप्यर्थयोस्तात्विकत्वातात्विकत्वविषयतया त्वन्मतेऽप्यविरोधः स्यादिति भावः ॥ इष्टापत्तेरिति ॥ नेहनानेति श्रुतेश्चैतन्यमात्रपरत्वेन मिथ्यात्वे तात्पर्याभावेन मिथ्यात्वासाधकत्वादिष्टापत्तिरिति भावः । तस्य चिन्मात्रस्य ॥ वैयर्थ्यादिति ॥ चिन्मात्रप्रतिपादकत्वाङ्गीकारे श्रुतिवैयर्थ्यमेव स्यात् । तस्य स्वप्रकाश-त्वेन नित्यसिद्धत्वादिति भावः ॥ काकेति ॥ यथोपलक्षणस्य काकवद्गृहमिति काकवत्त्व-प्रकारकज्ञानहेतुत्वं तथेत्यर्थः ।

किञ्च द्वितीयाभावरूपोपलक्षणेनोपलक्ष्यं किं शुद्धस्वरूपमात्रं विशिष्टं वा शुद्धगतं धर्मान्तरं वेति विकल्प्याद्यं निराह– चिन्मात्रस्येति ॥ उपलक्षणं विनैव स्वप्रकाशत्वेन तस्य नित्यसिद्धत्वादिति भावः । द्वितीयं निराचष्टे– अन्यस्येति ॥ शुद्धात्मन एव मुमुक्षुज्ञेयत्वेन विशिष्टस्य मुमुक्ष्वज्ञेयत्वाच्छास्त्रेणोपलक्षणद्वारापि शुद्धस्यैव बोधनीयत्वान्न विशिष्टस्योपलक्ष्यत्वम् इत्यर्थः । तृतीयं निराकरोति– काकेनेति ॥ अन्यस्य ब्रह्मगत विशेषान्तरस्य । तस्य द्वितीयाभावस्य ॥ अद्वैतवाक्यस्येति ॥ द्वितीयाभावबोधकस्येत्यर्थः ॥ तत्रेति ॥ मिथ्याभूतद्वितीयाभावबोधकत्वेपि द्वितीयाभावे तात्पर्याभावान्नातत्वावेदकत्व-मित्यर्थः । तत्वावेदकत्वं नाम तात्पर्येण तद्बोधकत्वं तन्नाङ्गीकृतमिति भावः ।

आद्येति ॥ मिथ्याभूतद्वितीयाभावबोधकत्वेऽपि तत्र तात्पर्याभावे चिन्मात्रबोधक-त्वापत्त्या तत्रैव तात्पर्यप्राप्तेः किञ्चेत्यादिना विकल्पितपक्षेषु आद्यपक्षान्तर्भावप्राप्त्या तत्र च नाद्य इत्यादिना दूषणद्वयमुक्तमेवेति भावः । अतात्पर्यमिति ॥ नेहनानेति श्रुतेर्द्वितीया भावेऽतात्पर्यमित्यर्थः ॥ तदिति ॥ मानान्तरेत्यर्थः ॥ आत्मवपोत्खननादाविति ॥ ‘प्रजापतिरात्मनो वपामुदखिदत्’ इत्यादौ आन्तरधातुविशेषभूताया वपायाः प्रजापतिना स्वशरीरान्निष्कासनं कृतमित्येवंरूपे वाक्यार्थे तात्पर्यं नास्ति । कुतः प्रजापतेरधुनापि जीवनग्राहकमानविरोधात् । वपोत्खनने च मरणस्यैव प्राप्त्या जीवनस्यैवानुपपत्तेरिति भावः ॥

यथा ग्रहैकत्वादाविति ॥ तृतीयाध्याये प्रथमपादे चिन्तितं ‘‘एकत्वयुक्तमेकस्य श्रुतिसंयोगात्’’ इत्यत्र ज्योतिष्टोमे श्रूयते ‘‘दशापवित्रेण ग्रहं संमार्ष्टि’’ इति । दशापवित्रं वासःखण्डः । ग्रहं यज्ञपात्रम् । तत्र संशयः ग्रहैकत्वं विवक्षितं न वेति श्रुतस्याविवक्षायां कारणाभावाद्विवक्षितमेवैकत्वमित्येकमेव ग्रहं संमार्ज्यादित्यर्थ इति पूर्वपक्षः । सिद्धान्तस्तु । ग्रहैकत्वं विवक्षितं चेत्तर्हि संमार्गवद्विधेयं वा स्याद्ग्रहवदुद्देश्यं वा ग्रहत्ववद्विशेषणं वा । नाद्यः । ग्रहमुद्दिश्य तत्रैकत्वसंमार्गयोर्द्वयोर्विधाने वाक्यभेदापत्तेः । न द्वितीयः । तथात्वे ग्रहमेकत्वं चोद्दिश्य संमार्गो विधीयत इति वाक्यभेद एव । ग्रहैकत्वस्य संमार्गायोगेन वाक्यस्य बाधितार्थत्वप्रसङ्गाच्च । न तृतीयः । एकत्वविशिष्टं ग्रहमुद्दिश्य संमार्गो विधीयत इति स्यात् । तन्न सम्भवति । विशिष्टस्य यद्भवति तद्विशेषणस्यापीति न्यायेनैकत्वेऽपि संमार्गान्वयापत्त्या बाधापत्तेः ‘शोधनीया ग्रहास्सर्वे वासः खण्डेन चर्त्विजा’ इति वाक्यान्तरविरोधाच्च । अत एकत्वम् अविवक्षितमिति द्वादशापि ग्रहाः सम्मार्जनीया इति । एवं च ग्रहैकत्वस्येव ब्रह्मणि द्वितीयाभावस्य श्रुतत्वेऽपि विशेषणत्वेन तत्र श्रुतेस्तात्पर्यं नास्तीत्यर्थः ।

त्वयैवेति ॥ अद्वैतश्रुतेरननुवादकत्वं वदतेत्यर्थः ॥ विरोधीति ॥ द्वितीयाभाव बोधिकाया नेहनानेति श्रुतेरित्यर्थः ॥ तस्यैवेति ॥ द्वैतग्राहिप्रत्यक्षादेरेव द्वितीयाभावबोधक नेहनानेति श्रुतिबाध्यत्वाङ्गीकारेण दुर्बलतया तद्विरोधकत्वं न सम्भवतीत्यर्थः ॥ नापीति ॥ ‘नेहनाने’ति श्रुतेर्द्वितीयाभावे तात्पर्याङ्गीकारे द्वितीयाभावरूपद्वितीयस्यैव प्राप्तेस्तत्र चाद्वैत प्रतिपादकं यन्नेहनानेति वाक्यभिन्नं वाक्यं ‘एको द्रष्टाऽद्वैतो भवति’ इत्यादिरूपं तदेव विरोधिभूतं मानं भविष्यतीति तद्विरोधाद्द्वितीयाभावे न तात्पर्यमित्यर्थः ॥ तस्येति ॥ नेह-नानेति श्रुतेर्द्वितीयाभावरूपद्वितीयप्रतिपादकत्वेऽप्यद्वैतवाक्यान्तरविरोधो नास्ति । तस्यापि चैतन्यमात्रपरत्वेन द्वितीयनिषेधेऽतात्पर्यादित्यर्थः ।

तदेवोपपादयति– न हीति ॥ अत्र विशेष्यविषयेण ‘अग्निहोत्रं जुहोति’ इति वाक्येन विशिष्टविषयं ‘दध्ना जुहोति’ इति वाक्यं न विरुद्धमिति योज्यम् । अग्निहोत्रवाक्येन धर्मिभूताग्निहोत्राख्यविशेष्यमात्रप्रतिपादकेन दध्याख्यगुणविशिष्टाग्निहोत्रप्रतिपादकस्य वाक्यस्य विरोधो नास्ति । देवदत्तो दण्डी देवदत्त इत्यनयोर्विरोधादर्शनात् । तथा नेहनानेति वाक्यस्य द्वितीयाभावविशिष्टचैतन्यप्रतिपादकत्वे विशेष्यभूतचिन्मात्रप्रतिपादकाद्वैतवाक्यान्तरेण विरोधो नास्तीत्यर्थः । यथास्थितयोजनायां विशेष्यविषयकविशिष्टविषयकयोर्वाक्ययोर्न विरोध इत्यत्रैवायं दृष्टान्त इति द्रष्टव्यम् । तेन दृष्टान्तदार्ष्टान्तिकयोर्व्यत्यासशङ्कानवकाश इति सम्प्रदायविदः ॥

द्वितीयेति ॥ अद्वैतवाक्यान्तरस्य चैतन्ये द्वितीयाभावेऽपि तात्पर्याङ्गीकारे द्वितीयाभाव विशिष्टचैतन्यप्रतिपादकत्वप्राप्त्या तेन द्वितीयाभावविशिष्टचैतन्यप्रतिपादकनेहनानेति वाक्यस्य न विरोधः, एकविषयकत्वादिति भावः । ननु नेहनानेति श्रुतेर्द्वितीयाभावेऽतात्पर्यं मानान्तरा प्राप्त्या मानान्तरविरोधाद्वा नोच्यते किं नाम स्वविरोधादेवेत्याशङ्कते– नन्विति ॥ यथा घटो नास्तीत्यस्य घटनिषेधकरूपत्वेन घटाभावविधिरूपत्वम् एवं नेहनानेति वाक्येन द्वितीयमात्र निषेधकेन द्वितीयाभावो विहितः । पुनस्तमपि निषेधति । कुतः द्वितीया-भावस्यैव द्वितीयतयाप्राप्तेः । अस्य च वाक्यस्य द्वितीयमात्रनिषेधकत्वादतस्स्वविहित-द्वितीयाभावनिषेधकत्वेन स्वविरोधाद्द्वितीयाभावे न तात्पर्यमित्यर्थः । अतात्पर्यहेतुभूतः स्वविरोधो यथा नास्ति तथा वाक्यार्थो वर्ण्यतामित्याह– निषेधस्येति ॥ नेहनानेति वाक्यस्य स्वविहितो यो निषेधो द्वितीयाभावरूपस्तदितरद्वितीयमात्रनिषेधकत्वमस्तु । तथा चैवं स्वविहितेतरनिषेधकत्वेन श्रुतेः सङ्कोचोपपत्तेः क्वास्ति विरोधः । येनातात्पर्यं स्यादित्यर्थः ।

अन्यथेति ॥ निषेधस्य विहितेतरविषयकत्वम् अनङ्गीकृत्य द्वितीयत्वाद्विहितमपि निषेधतीति विहितविषयकत्वस्याप्यङ्गीकार इत्यर्थः ॥ क्ङिति चेति ॥ गिति किति ङिति च प्रत्यये परे तन्निमित्तकगुणवृद्धी न स्त इति सुप्तिङ्कृत्तद्धितसाधारणो यः कित्प्रत्यय- स्तन्निमित्तकगुणवृध्द्योः सामान्येन निषेधः कृतः । अनन्तरं ‘‘किति च’ किति तद्धिते परे वृद्धिः स्यादिति विशेषविधिः कृतः । तथा च ‘क्ङितिचे’ति साधारणकिन्निमित्तकवृद्धि प्रतिषेधोऽपि तद्धितरूपकिद्विशेषनिमित्तकां किति चेति सूत्रविहितां वृद्धिमपि प्रतिषेधेत् । किति चेति विहिततद्धितकिन्निमित्तकवृद्धेरपि किन्निमित्तकत्वात् । अतो विशेषसूत्रविहित तद्धितकिन्निमित्तकवृद्धिव्यतिरिक्तवृद्धिप्रतिषेधकत्वमेव क्ङिति चेति सूत्रस्याङ्गीकृतं वैयाकरणै-स्तद्वदिहापीत्यर्थः । किद्विशेषस् तद्धितकिद्रूपः ॥

हिंसामिति ॥ ‘अग्नीषोमीयं पशुमालभेत’ इति वाक्यविहितामित्यर्थः ॥ सदेवेति ॥ ‘सदेव सोम्येदमग्र आसीत्’ इति वाक्येऽस्तित्वेन विहितमित्यर्थः । ननूदाहृतस्थलेषु विधायकवाक्यान्तरसद्भावाद्विहितेतरपरत्वम् । न ह्यत्र प्रकृते द्वितीयाभावविधायकं वाक्यान्तर- मस्ति । येन विहितेतरपरत्वं स्यात् । अतः स्वेनैव विहित इति वाच्यम् । तथा च स्वविहितस्यापि द्वितीयाभावस्य द्वितीयत्वात्स्वेनैव निषेधः प्राप्त एवेत्यत आह– स्वविरोधो हीति ॥ वाक्यान्तरोपस्थितिविलम्बेन विलम्बोपस्थितिकाद्वाक्यान्तरविरोधादपि शीघ्रोप-स्थितिकतया स्वविरोधस्य यत्नेन परिहरणीयत्वं द्रष्टव्यम् । तत्परिहारस्तु स्वविहितद्वितीय निषेधेतरद्वितीयनिषेधकत्वेनैव कार्य इति अतात्पर्यहेतुः स्वविरोधो नास्तीति भावः ।

ननु यथा वाक्यान्तरतात्पर्यगोचरविरुद्धार्थपरत्व एव वाक्यान्तरविरोधो दृष्टस् तथा एवं स्वस्यापि स्वतात्पर्यविषयीभूतनिषेध एव स्वविरोधः । न चैवं, किन्तु द्वितीयाभावे वाक्यस्य न तात्पर्यम् । तथा च तस्य द्वितीयत्वान्निषेधेऽपि न विरोधः । एवं च विहितेतरपरत्वेन भवदुक्तरीत्या विरोधः कस्मात्परिहरणीय इति तटस्थः शङ्कते– औतेति ॥ स्वविरोधा देवाऽतात्पर्यमिति परो ब्रूते । तत्र स्वविरोधमुपपाद्याऽतात्पर्येणैव स्वविरोधाभावोक्ता-वन्योन्याश्रयः स्यादित्याह– द्वितीयाभावस्येति ॥ स्वेन ‘नेहनाने’ति वाक्येन । निषेधे सति द्वितीयत्वान्निषेधे सति । तत्र द्वितीयाभावे । निषेधः द्वितीयाभावनिषेधः । शब्देन प्रतिपादितस्य शब्देन पुनः निषेधे विरोधकथैवोच्छिद्येतेत्याह– अपि चेति ॥ मातृपद प्रापितं मातृत्वं मूकोऽहमिति वचनक्रियाप्रापितवचनक्रियाकर्तृत्वमपि वन्ध्यामूकपदाभ्यामेव प्रतिषिध्यते इति वक्तुं शक्यत्वेन स्ववचनस्वक्रियाविरोधो न स्यादित्यर्थः ।

शब्दतः प्राप्तस्य पुनः शब्देन प्रतिषेधेऽतिप्रसङ्गान्तरमाह– षोडशीति ॥ ‘अतिरात्रे षोडशिनं गृह्णाति’ ‘नातिरात्रे षोडशिनं गृह्णाति’ इत्यत्र विकल्प आश्रितः । अतिरात्रे षोडशिग्रहणं कर्तव्यं न वेति । स च विकल्पोऽष्टदोषयुक्तः । अत एव एतादृशविकल्पा-श्रयणं न कर्तव्यं किंनाम शब्दतः प्राप्तमतिरात्रे षोडशिग्रहणं नातिरात्रे षोडशिनमित्यनेन निषिध्यत इति स्यादित्यर्थः । अष्टौ दोषाश्चैते यथा ‘यवैर्यजेत’ ‘व्रीहिभिर्यजेत’ इत्यत्र यदा व्रीहिवाक्योपादानं यववाक्यत्यागस्तदा यववाक्ये प्रतीतप्रामाण्यत्यागो ऽप्रमाण्यस्वीकार इति दोषद्वयं, पुनर्यववाक्यस्वीकारे परित्यक्तप्रामाण्यस्वीकारः । स्वीकृताप्रामाण्यत्याग इति दोष-द्वयम् । एवं मिलित्वा यववाक्यसम्बन्धिदोषचतुष्टयम् । यदा यववाक्यस्वीकारो व्रीहिवाक्य-त्यागस्तदा व्रीहिवाक्ये प्रतीतप्रामाण्यत्यागोऽप्रामाण्यस्वीकार इति दोषद्वयं, पुनर्व्रीहिवाक्य-स्वीकारे परित्यक्तप्रामाण्यस्वीकारः स्वीकृताऽप्रामाण्यत्याग इति दोषद्वयम् । एवं मिलित्वा व्रीहिवाक्यसम्बन्धिदोषचतुष्टयमित्येवमष्टदोषदुष्टो विकल्पो ग्रहणाग्रहणवाक्येऽपि योज्यः ।

एतावता प्रबन्धेन मानान्तरप्राप्त्या तद्विरोधाद्वा स्वविरोधाद्वाऽतात्पर्यमित्येतदयुक्तमित्युक्तम् । इदानीं प्रकारान्तरेणातात्पर्यं भविष्यतीत्याशङ्क्य निराकरोति– प्रतियोगिन इति ॥ प्रतियोगि- भूतस्य द्वितीयस्य मिथ्यात्वाद्द्वितीयाभावोऽपि मिथ्या । प्रागभावादिवत् । अतो द्वितीयाभावे श्रुतेर्न तात्पर्यमित्येतन्निरस्तम् । प्रतियोगितदभावयोर्भिन्नसत्ताकत्वस्यावश्यकत्वेन प्रतियोगिनो मिथ्यात्वे तदभावस्यापि मिथ्यात्वायोगात् । अन्यथाऽविद्यानिवृत्तेः पञ्चम प्रकारताभ्युप-गमवैयर्थ्यादिति भावः । स्वेनैव निषिद्धस्य द्वितीयाभावस्य पुनर्विशेषणत्वादिनो पादानं न युक्तमित्याह– किञ्चेति ॥ तत्र दृष्टान्तो द्वितीयस्येवेति । यथा श्रुत्या निषिद्धं द्वितीयं पुनर्ब्रह्मविशेषणत्वादिना श्रुतिर्नोपादत्त एवमित्यर्थः ।

न्यायकल्पलता

उक्तरीत्येति । ‘स्वरूपेण निषेधेऽत्यन्तासत्त्वापातात्’ इत्यादिमिथ्यात्वभङ्गोक्तयेत्यर्थः ॥ आत्मनोऽपीति । आत्मनि पारमार्थिकत्वरूपधर्मनिषेधेऽपि यथाऽऽत्मनो न मिथ्यात्वं तथा प्रपञ्चस्यापीत्यर्थः ॥ प्रत्यक्षेति । उक्तं च संक्षेपशरीरके–

अविरुद्धविशेषेणद्वयप्रभवत्वेऽपि विशिष्टयोर्द्वयोः ।

घटते न यदैकता तदा नतरां तद्विपरीतरूपयोः ॥ इति ।

ननु विशिष्टयोरैक्ये विशेषणयोरप्यैक्यापात इति चेन्न । प्रत्यक्षोपरोधे तयोरप्यैक्यस्य ‘तत्त्वमसि’ इत्यनेन बोधयितुं शक्यत्वात् । प्रत्यक्षानुरोधेन तदबोधनन्तु प्रकृतेऽपि समम् । ननु सर्वत्र विशिष्टैक्यपरे ‘सोऽयम्’ इत्यादिवाक्ये विशेष्यैक्यपरतैव दृष्टेति चेत्सत्यम् । प्रत्यक्षानुग्रहेणैव सा । तन्निग्रहे तु विशिष्टपरत्वमेव स्यादिति ॥ तदविरोधायेति । ननु नोपजीव्यप्रत्यक्षादिविरोधः । तात्विकांशानुपजीवनात् । व्यावहारिकांशस्य चोपजीवनादिति चेन्मैवम् । न ह्यत्रोपजीव्यविरोध इत्युच्यते किन्तु प्रत्यक्षाद्यविरोधेनैव मिथ्यात्वश्रुत्युपपत्तौ न तद्विरुद्धार्थकत्वं तस्याः कल्पनीयमिति ।

तत्र च नैतच्चोद्यावकाशः । मिथ्यात्वसिद्धेः प्राग् घटादिव्यावहारिकत्वसिद्धेरभावात् । तात्विकत्वेनैव सिद्धेश्च । यद्बाध्यते तात्विकत्वं तन्नोपजीव्यम् । यच्चोपजीव्यम् अर्थक्रिया सामर्थ्यलक्षणव्यावहारिकप्रामाण्यं तन्न बाध्यते । तदुक्तं टीकायाम् । ‘उत्पादकाप्रतिद्वन्द्वि-त्वादिति स्ववचनविरोधश्च’ इति ॥ अन्यस्यैवेति । विज्ञानवादादिप्राप्तक्षणिकत्वादेरित्यर्थः । अत एव नाप्रसक्तप्रतिषेधोऽपीति भावः ॥ अन्यथेति । श्रुतेर्मानान्तराननुरोधे ॥ ख्यातीति । अर्थापत्तिसिद्धमसद्वैलक्षण्यमनुरुन्धती श्रुतिः प्रत्यक्षसिद्धं सत्वं कथं नानुरुन्ध्यादित्यर्थः ॥ विश्वेति । ‘यत्परः शब्दः स शब्दार्थः’ इति न्यायेन चैतन्यमात्रस्यैव ततः सिद्धिर्न तु विश्वमिथ्यात्वस्येत्यर्थः ।

ननु चैतन्यमात्रे महातात्पर्येऽप्यवान्तरतात्पर्येण द्वितीयाभावस्यापि द्वारतया बोधना-न्मिथ्यात्वमपि सिद्ध्यतीति चेन्मैवम् । अवान्तरतात्पर्यविषयस्य खण्डवाक्यार्थस्य महा-तात्पर्यजन्यज्ञाने महावाक्यजन्यज्ञान इव भाननियमेन द्वैतनिषेधश्रुतेरखण्डार्थत्वहानेः । अवान्तरतात्पर्यमहातात्पर्ययोः सप्रकारकनिष्प्रकारकज्ञानजनकतया विरोधेन श्रुतेस्तथाविध-तात्पर्यवत्वासम्भवाच्च ॥ श्रुतेरिति । संसर्गगोचरज्ञानजनकत्वादित्यर्थः ॥ अत एवेति । अखण्डार्थत्वहानेरित्यर्थः ।

ननु तद्विशिष्टज्ञानजनकत्वाभावात्कथमखण्डार्थत्वहानिरित्यत आह– द्वितीयेति । अद्वैतवाक्यस्य द्वितीयाभाववद्ब्रह्मेत्येवं सप्रकारकज्ञानजनकत्वेनोपलक्षणसंसर्गस्योपलक्ष्ये ब्रह्मणि बोधनादित्यर्थः । उपलक्षणेन शुद्धस्वरूपमात्रमुपलक्ष्यम् उत विशिष्टं, शुद्धगतं धर्मान्तरं वेति विकल्प्याद्यं निराकरोति– चिन्मात्रस्येति । उपलक्षणं विनैव तस्य सिद्धत्वादित्यर्थः । द्वितीयं निराकरोति– अन्यस्येति । शुद्धात्मन एव मुमुक्षुज्ञेयत्वाच्छास्त्रेणोपलक्षणद्वाराऽपि तस्यैव बोधनीयत्वादिति भावः । तृतीयं निराचष्टे– काकेति । काकाद्युपलक्षितसंस्थान विशेषस्य गृहज्ञानविषयत्ववद् द्वितीयाभावोपलक्ष्यधर्मस्य मुमुक्ष्वपेक्षितशुद्धात्मज्ञानविषयत्वा- भावादिति भावः । ननु चिन्मात्रस्य सिद्धत्वेऽपि नोपलक्षणवैय्यर्थ्यम् । अनर्थनिवृत्तिहेतुत्वेन द्वितीयाभावद्वारकस्वरूपज्ञानस्योद्देश्यत्वात् । तस्य प्रागसिद्धत्वादिति चेन्मैवम् । अपरोक्ष ज्ञानस्य विरोधिनिवर्तमाने द्वारविशेषपूर्वकत्वस्यानपेक्षणीयत्वात् । न हि द्वारविशेषाजन्यः शुक्तिसाक्षात्कारो न रूप्यभ्रमनिवर्तकः ॥ औतेति ।

ननु द्वितीयाभावस्य सत्यत्वेऽपि तस्य ब्रह्मस्वरूपतया नाद्वैतहानिरिति चेन्न । ब्रह्मणः स्वतस्सिद्धत्वेन द्वितीयाभावबोधकवाक्यवैय्यर्थ्यात् । अभावत्वेन तद्बोधनेऽखण्डार्थत्वहानिः ॥ मिथ्यात्वे चेति । द्वितीयाभावस्य मिथ्यात्वे तस्य ब्रह्मणि विशेष्ये कदापि सम्बन्धा-भावात् । तत्र तस्य विशेषणत्वोपलक्षणत्वयोरभावेन तत्र द्वितीयाभावबोधकवाक्यस्या-प्रामाण्यं स्यादित्यर्थः । ननु द्वितीयाभावरहिते ब्रह्मणि श्रुत्या तद्बोधनेऽपि तत्र तात्पर्या-भावान्नातत्वावेदकत्वमित्याशङ्क्य निराकरोति– न चेति ॥ आद्येति । द्वितीयाभाव बोधकश्रुतेरश्चैतन्यमात्रे तात्पर्यमित्येवंरूपाद्ये पक्षेऽन्तर्भावः । तत्र च मिथ्यात्वासिद्धिः । यत्परः शब्दस्तस्यैव शब्दार्थत्वादिति दूषणमुक्तमेवेत्यभिसन्धिः ॥ मानान्तरेति । यथा ‘वायुर्वै क्षेपिष्ठा देवता’ इत्यादौ शीघ्रगामित्वाख्यक्षेपिष्ठत्वगुणो वायौ मानान्तरेण प्राप्त इति तद्वाक्यस्य न तत्र तात्पर्यं तथाऽत्रापीत्यर्थः ॥ तद्विरोधाद्वेति । यथा ‘प्रजापतिरात्मनो वपामुदखिदत्’ इत्यादाववान्तरस्य धातुविशेष्यस्य वपायाः प्रजापतिना स्वशरीरान्निष्कासनं कृतमिति वाक्यार्थे मानान्तरविरोधादतात्पर्यं तथेत्यर्थः ।

उद्देश्येति । तृतीयस्य प्रथमपादे विचारितम् । ‘एकत्वयुक्तमेकस्य श्रुतिसंयोगात्’ । ज्योतिष्टोमे श्रूयते । ‘दशापवित्रेण ग्रहं सम्मार्ष्टि’ इति । तत्र ग्रहैकत्वं विवक्षितम् उत नेति संशयः । ननु वेदस्य नित्यत्वान्न तत्र पुरुषविवक्षाऽविवक्षे सम्भवतः । प्रतीतिमात्रं तु पक्षद्वयेऽप्यस्ति । अतः कथमयं विचारः । तदुक्तं वार्तिके–

प्रतीतिव्यतिरेकेण विवक्षाऽन्या न विद्यते ।

नित्यत्वाद्वेदवाक्यानां श्रुतोऽतो नाविवक्षितः ॥ इतीति चेत् ।

उच्यते । नित्येऽपि वेदेऽध्ये(धिष्ठा)तुश्चेतनस्य सत्वात्तदीये ते विचार्येते । तदप्युक्तं वार्तिके–

ऋग्वेदादिसमूहेषु क्षेत्रज्ञा ये प्रतिष्ठिताः ।

तेषां चायमभिप्रायः स्याद्विवक्षाविवक्षयोः ॥ इति ।

तत्र पूर्वः पक्षः । सर्वत्र विधिप्रतिषेधात्मकत्वाद्वेदस्य यावत्किञ्चिच्छ्रूयते तत्सर्वं तत्सम्बन्धित्वेन गम्यते । अत एकत्वमपि विधेयत्वेन विवक्षितमेवेति सम्मार्गादिकं कर्म एकत्वयुक्तम् एकत्वेन सम्बध्यते । एकस्यैव कर्तव्यम् । कुतः । श्रुतिसंयोगादिति सूत्रार्थः । तदुक्तं वार्तिके–

स्यात्कर्मैकत्वयुक्तं यद्विधानं चापि वैदिकम् ।

द्रव्यस्यैकस्य तज्ज्ञेयमनुष्ठेयं च कर्तृभिः । इति ।

सिद्धान्तस्तु । द्वितीयाश्रुतिनिर्देशात्प्रयोजनवत्वाच्च ग्रहस्य प्राधान्यं, सम्मार्गस्य गुणभावो विज्ञायते । तत्रापि गृहत्वस्यासम्मार्गार्हत्वात् । गृहशब्दस्य पात्रवाचित्वे जात्या, ग्रहण संस्कृतसोमवाचित्वे संस्कारेण, उपलक्षितानां ग्रहव्यक्तीनां सम्मार्गविधाने यद्ग्रहकार्यं तत्सम्मार्गेण सगुणं भवतीति शास्त्रार्थावगमाद् य एवं न संमृज्यते तस्यैव कार्यं विगुणं भवेत् । अतः (सर्वे) सम्मार्जनीयाः । यदि तु संमार्गगुणत्वेन यागाङ्गपशुवद् ग्रहश्चोद्येत तत एकेनैव सिद्धे कार्ये नापरः संमृज्येत । तदुक्तं वार्तिके–

व्यक्तीरुद्दिश्य यत्कर्म स्वजात्याद्युपलक्षिताः ।

विहितं गुणभावेन तत्सर्वार्थं प्रतीयते ॥ इति ।

आदिशब्देन संस्कारो गृह्यते । नन्वेकवचनेन ग्रहैकत्वस्य श्रुतत्वादेक एव संमार्गः कर्तव्य इति । मैवम् । एकत्वस्य विधानविनियोगाभावात् । तदुक्तं–

श्रुतमात्रस्य सर्वस्य नानुष्ठेयत्वमिष्यते ।

विधानविनियोगौ हि तत्रोपेक्ष्यौ श्रुताश्रुतैः ॥ इति ।

ननु प्रकृतिप्रत्ययपदश्रुतिप्रतिपादितानां बहूनामर्थानां मध्ये को विधिविनियोगाभ्यां परिगृहीतः को वा नेति चेत् । वचनव्यक्त्यदोषदोषाभ्यां तदवगमात् । तथा हि । ग्रह-मुद्दिश्य संमार्गैकत्वयोर्विधाने वाक्यभेदः । ग्रहमेकत्वं चोद्दिश्य संमार्गविधाने प्रत्युद्देश्यं वाक्यपरिसमाप्त्या वाक्यभेदः । एकत्वविशिष्टं ग्रहमुद्दिश्य तद्विधानमपि न सम्भवति । विभक्त्या हि युगपत्सङ्ख्या कारकं चोच्यते न तु प्रथमं सङ्ख्यां प्रातिपदिकार्थस्योक्त्वा पश्चात्तद्विशिष्टस्य कारकत्वमुच्यते । येनैकत्वविशिष्टग्रहस्य कर्मत्वं स्यात् । तस्मान्नैकत्वस्य विधिसम्भवः । तदुक्तं वार्तिके–

मीमांसका हि वाक्यार्थविचारे प्रस्तुते सति ।

लोकदृष्टीः प्रतिघ्नन्ति वचनव्यक्तिपांसुभिः ॥ इति ।

सर्वप्रकारमन्विष्टं वचनव्यक्तिभिः पृथक् ।

न शक्यते विधातुं तदेकत्वं न ग्रहीष्यते ॥ इति च ।

यद्वा एकत्वं विवक्षितं चेत्संमार्गवद्विधेयं वा स्याद् ग्रहवदुद्देश्यं वा स्याद् ग्रहत्ववदुद्देश्य विशेषणं वा । आद्ये ग्रहमुद्दिश्यैकत्वं संमार्गश्चेति द्वयं विधेयमिति वाक्यभेदः । द्वितीये ग्रहमेकत्वं चोद्दिश्य संमार्गो विधेय इति प्रत्युद्देश्यं वाक्यपरिसमाप्त्या वाक्यभेदः । तृतीये एकत्वविशिष्टं ग्रहमुद्दिश्य संमार्गो विधेय इति स्यात् । न च तदुपपद्यते । ‘विभक्त्या हि’ इत्यादि पूर्ववत् ।

तस्मादेकत्वस्य विधानानुपपत्तेः प्रतिप्रधानं गुणावृत्तिन्यायेन सोमा(व)हत्यर्थानां सर्वेषां ग्रहाणां सोमावसेकनिर्हरणार्थसंमार्गाकाङ्क्षातौल्येन च सर्वेषां संमार्ग इत्यवगत्या परिच्छेदक- सङ्ख्याकाङ्क्षाविरहाच्च नैकत्वं विवक्षितमिति सर्वेषां ग्रहाणां संमार्ग इति । एवं च ग्रहे एकत्वस्येव ब्रह्मणि द्वितीयाभावस्य श्रुतत्वेऽपि न विशेषणत्वादिना वाक्यार्थप्रवेश इत्यर्थः । बहुत्वसङ्क्याया एकत्वपूर्वकत्वादत्रैकत्वस्य वाक्यार्थप्रवेशेऽपि ग्रहमित्यादिवाक्यादबाधित प्रतीतिवद् द्वितीयाभावस्यापि तत्वावेदकादद्वैतवाक्याद् बाधितप्रतीतिरस्तीति द्वितीया-भावस्यावधितत्वं दुर्वारमिति बोध्यम् ।

त्वयैवेति । अद्वैतश्रुतेरननुवादकत्वं वदतेत्यर्थः ॥ तस्यैवेति । प्रत्यक्षादेः सम्भावित दोषस्य निर्दोषाद्वैतश्रुत्या बाध्यत्वाभ्युपगमादित्यर्थः ॥ तस्यापीति । अद्वैतवाक्यान्तरस्यापि अविरोधित्वादित्यन्वयः ॥ न हीति । बाधकत्वाभिमताद्वैतवाक्यान्तरस्य लक्षणयाऽखण्ड चिन्मात्रपरत्त्वात् । द्वितीयाभावरूपद्वितीयस्य तेनाप्यनिषेधादविधानाच्च तस्याप्यग्निहोत्रवाक्य- साम्यम् । (अ)बाध्यत्वाभिमताद्वैतवाक्यस्यात्मनि द्वितीयाभावविधायकत्वाद्दधिवाक्यसाम्य मित्यर्थः ॥ द्वितीयेति । बाधकत्वाभिमतस्याद्वैतपरवाक्यान्तरस्य द्वितीयनिषेधतात्पर्य-कत्वेन बाध्यत्वाभिमताद्वैतवाक्यस्यापि द्वितीयाभावे तात्पर्ये कल्प्यमानेऽपि द्वयोरेकार्थ त्वेनाविरोधान्न तत्र तस्यातात्पर्यमित्यर्थः ॥ स्वयमिति ॥ द्वैतनिषेधवाक्यमित्यर्थः ।

ननु स्वविहितस्य कथं स्वेन निषेधः । एकेनैव प्रमाणेन प्राप्तिप्रतिषेधयोरनुपपत्तेरित्यत आह– द्वितीयत्वादिति । द्वितीयाभावस्वरूपं हि शास्त्रेण प्राप्यते । तस्य च प्राप्यता-वच्छेदकरूपं द्वितीयाभावत्वम् । तच्च न निषेध्यतावच्छेदकं किन्तु द्वितीयत्वमेव निषेध्य-मात्रानुगतम् । तत्र तदनभ्युपगमे तु न तस्य निषेध्यत्वं, न वा तेनात्मनः सद्वितीय-त्वापत्तिरतो रूपभेदान्न प्राप्तिप्रतिषेधावनुपपन्नाविति शङ्कितुराशयः ॥ स्वविरोधादिति । तात्पर्याभावे मानविरोधस्यैव प्रयोजकत्वं न तु स्वभिन्नेति तत्र विशेषणमित्यर्थः ॥ निषेधस्येति । निषेधवाक्यस्येत्यर्थः ॥ स्वविहितेति । स्वेन विहितः प्रमितो निषेध-स्तदितरद्यद् द्वितीयं तद्विषयत्वादित्यर्थः । अत्र स्वनिषेधद्वितीयपदानि प्रकृताभिप्रायाणि । निषेधस्य विहितेतरविहितत्वादित्येव व्याप्तिस्वरूपम् ।

विधानं स्वेन वाऽन्येन वा, विहितश्च निषेधो वाऽन्यो वा न कश्चिद्विशेषः । निषेध शास्त्रस्य विहितेतरविषयत्वं हि निषेध्यतावच्छेदकस्य विहितावृत्तित्वे सति भवति । द्वितीया भावत्वस्य निषेध्यतावच्छेदकत्वे त्वद्वैतशास्त्रविहितस्य द्वैतनिषेधस्य निषेध्यतावच्छेदकबलेन तस्य विहितत्वनिषिद्धत्वे विरुद्धे आपद्येयाताम् । ननु रूपभेदेन न विरोध इति चेन्न । व्यक्तिभेदाभावेनाद्वैतवाक्यस्य निर्विषयत्वापत्तेः । तस्य हि द्वितीयाभावो विषयः । सोऽपि तेन द्वितीयत्वाद्यदि निषिध्येत तदेदं स्ववधाय कृत्योत्थापनम् । द्वितीयत्वेन निषेधे तत्स्वरूपानुपमर्देन निर्धर्मकब्रह्मण इव तत्स्वरूपसत्यत्वापत्तिः ।

किञ्च निषेधवाक्यासाधारणार्थस्य निषेध्यतावच्छेदकावच्छिन्नत्वे तस्य निषेधवाक्यत्वमेव न स्यात् । निषेध्यवाक्यत्वमेव स्यात् । अद्वैतवाक्ये तत्त्वातत्त्वावेदकत्वे च स्याताम् । तत्स्मात्स्वविहितोऽपिे द्वितीयाभावो द्वितीयत्वात्स्वेनैव निषिध्यत इत्युक्तिः सुभगाभिक्षुक न्यायेन बाह्योक्तव्याघातरूपवेदाप्रामाण्ययुक्त्युक्तिरेवेति ॥ अन्यथेति । निषेधस्य विहित विषयत्वे इत्यर्थः ॥ क्ङिति चेतीति । अनेन सूत्रेण सुप्तिङ्कृत्तद्धितसाधारणक्ङिन्निमित्तकः क्रियमाणो गुणवृद्ध्योः प्रतिषेधः किद्विशेषसुप्तद्धितनिमित्तकगुणवृद्धीतरतद्विषयो भवति । यथा चिनुतः, मृष्टः,चीयात्, मृज्यात्, भिदाचितः मृष्ट इत्यादौ निषेधः न तु (क्ङि,कृ) किद्विशेषसुप्तद्धितनिमित्तकस्तद्विषयोऽपि । यथा ‘घेर्ङिति’ हरये, भानवे, किति च, भव-तष्टक्छसौ, भावे क्तः, इत्येवमादौ निषेधस्य विहितविषयत्वे किद्विशेषनिमित्ते अपि गुणवृद्धी ‘क्ङिति च’ इति निषेधेन निषिध्येयातामित्यर्थः ॥ किद्विशेषेति । कितो विशेषः किद्विशेषस्तन्निमित्तमित्यर्थः ॥ हिंसात्वादिति । मरणानुकूलव्यापारत्वादित्यर्थः ॥ इद-मिति । षष्ठ्यर्थे प्रथमा । ‘मघवा बहुलम्’ इतिवत् । अस्य विश्वस्याग्रे पूर्वमित्यर्थः ।

ननु स्वविहितस्यापि द्वितीयाभावस्य स्वेनैव निषेधोऽस्तु, वाक्यान्तरविरोधाभावादित्यत आह– स्वविरोधो हीति ॥ वाक्यान्तरोपस्थितिविलम्बेन विलम्बितोपस्थितिकाद्वाक्यान्तर विरोधादपि शीघ्रोपस्थितिकतया स्वविरोधस्य यत्नेन परिहरणीयत्वमिति भावेनोक्तं यत्ने-नेति । नन्वद्वैतवाक्यं द्वितीयवत्स्वप्रतिपाद्यं द्वितीयाभावमपि निषेधति । द्वितीयाभावे तात्पर्याभावेन तस्य निषेधेऽपि विरोधाभावात् । अभावज्ञानेन विषयीकृतस्यापि प्रतियोगिन-स्तेन निषेधवदित्याशङ्कते औतेति ।

स्वविरोधादिति । द्वितीयाभावेऽद्वैतवाक्यतात्पर्याभावबीजस्य मानान्तरप्राप्त्यादेरभावा-त्तद्विरोध एव तद्बीजम् । सोऽपि न मानान्तरेण किन्तु स्वेनैवेति वाच्यमित्यर्थः ॥ अतात्पर्ये चेति । अद्वैतवाक्यस्य द्वितीयाभावे तात्पर्याभावे तेन तत्सत्त्वासिद्धौ तन्निषेधेऽपि विरोधाभाव इत्यर्थः । शब्देन प्रतिपादितस्य पुनः शब्देन निषेधे विरोधकथोच्छिद्येतेत्याह– अपि चैवमिति । अपत्त्योत्पादकस्त्रीत्वं मातृत्वम् । तदनुत्पादक स्त्रीत्वं वन्ध्यात्वम् । अवक्तृत्वं मूकत्वम् ॥ सुवचनं हीति । मात्रादिपदप्रापितमपि मातृत्वादिकं तस्य तत्रातात्पर्यान्न तत्ततः सिद्ध्यति । अतस्तेनैव तन्निषेधेऽपि न परस्पर विरोधः । अन्योन्याश्रयस्तूभयत्र सम इत्यर्थः ।

श्रौतन्यायेनाप्युपपादयति ॥ षोडशीति । दशमेऽष्टमपादे चिन्तितम् । ‘शिष्ट्वा तु प्रतिषेधः’ । ‘अतिरात्रे षोेडशिनं गृह्णाति । नातिरात्रे षोडशिनं गृह्णाति’ इति । अत्र नातिरात्र इति पर्युदासः प्रतिषेधो वेति संशये विधिप्रतिषेधयोर्व्याघाताद्भिन्नवाक्यत्वेन विकल्पापत्तेः ‘नानुयाजेषु’ इतिवत्पर्युदास इति पूर्वः पक्षः । नानुयाजेष्वित्यत्रानुयाज व्यतिरिक्तयागेषु येयजामहे इति सामान्ये किञ्चिद्विशेषव्यतिरिक्तत्वस्येवातिरात्रव्यतिरिक्ताति-रात्रे षोडशिनं गृह्णातीति तत्रैव तद्व्यतिरिक्तत्वस्य विशेषणत्वानुपपत्त्या पर्युदासायोगा-त्प्रतिषेधः । अगत्या च व्रीहियववद्विकल्प इति सिद्धान्तः ।

अथवा यदि तावदनतिरात्रे गृह्णाति षोडशिनमिति पर्युदासः स्यात् । अतिरात्रे न गृहीतव्यः । तत्र विधानानर्थक्यं षोडशिनः । अथाषोडशिनमतिरात्रे गृह्णातीति तथाप्यतिरात्रे षोडशिनो विधानानर्थक्यम् । तस्मात्प्रतिषेधः । विरोधाच्च नैकान्ततः प्रतिषेधः । तस्मा-दगत्या विकल्प इति ॥ अष्टदोषेति । ‘आग्नेयोऽष्टाकपालः’ इत्यादिवाक्यनिर्दिष्टपुरोडाशा-क्षेपादेव व्रीहियवश्यामाकादिषु प्राप्तेषु द्रव्यान्तरप्रसक्तिनिमित्तानियमनिरासाय व्रीह्यादिशब्दै-र्नियम आश्रीयते ‘व्रीहिभिरेव यवैरेव’ इति । तथा च व्रीहिपुरोडाशप्रयोगे यवशास्त्रे प्रतीत-प्रामाण्यपरित्यागः । निर्दोषवेदे दोषजन्यसंशयविपर्ययरूपाप्रामाण्यायोगात् । प्रामाण्योपलम्भे सत्यपि प्रामाण्यानुपलम्भरूपानुपलब्धिगम्यप्रामाण्याभावरूपाप्रामाण्यस्वीकारः ।

यवपुरोडाशप्रयोगे पूर्वकल्पिताप्रामाण्यस्य पूर्वत्यक्तप्रामाण्यस्य च यवशास्त्रस्याप्रामाण्य-त्यागप्रामाण्यस्वीकारौ विना तदर्थानुष्ठानायोगाद् यवशास्त्रे त्यक्तप्रामाण्यस्वीकारः, अङ्गीकृता- प्रामाण्यपरित्याग इति च दोषद्वयम् । एवं च यवशास्त्रे दोषचतुष्टयम् । एवं यवपुरोडाश- प्रयोगे व्रीहिशास्त्रे दोषद्वयम् । पुनर्व्रीह्युपादाने दोषद्वयमिति व्रीहिशास्त्रेऽपि दोषचतुष्टय-मित्यष्टदोषदुष्टो विकल्पः । एवं ग्रहणाग्रहणवाक्यादावपि योजनीयम् ।

तदुक्तं तन्त्रवार्तिके ।

प्रमाणस्याप्रमाणत्वकल्पना च द्विदोषभाक् ।

प्रमाणत्वं प्रतीतं यदुज्वलं तदपह्नुतम् ॥ १ ॥

एकस्तावदयं दोषः स्यात्प्रतीतिविपर्ययात् ।

तथा तदप्रमाणत्वं यदभावप्रमाणकम् ॥ २ ॥

भावेऽपि सत्यभावेन विनैव परिकल्प्यते ।

सोऽपि स्यादपरो दोषः प्रमाणार्थविपर्ययात् ॥ ३ ॥

अङ्गीकृत्यापि तौ दोषौ पूर्वकेनापि हेतुना ।

प्रयोगान्तरकाले च पुनर्दोषद्वयं भवेत् ॥ ४ ॥

यदभावप्रमाणत्वं पूर्वमेतस्य कल्पितम् ।

सम्प्रत्यपह्नुवानस्य दोष एको हि जायते ॥ ५ ॥

प्रत्यक्षं दृढरूपं च यत्पुरस्तान्निराकृतम् ।

उपजायेत दोषोऽन्यस्तदुज्जीवयतः पुनः ॥ ६ ॥

एवमेकत्र चत्वारो दोषा वाक्ये प्रदर्शिताः ।

तत एव प्रसज्येरन् द्वितीयेऽपि प्रकल्पिते ॥ ७ ॥

एवमेषोऽष्टदोषोऽपि यद्व्रीहियववाक्ययोः ।

विकल्प आश्रितस्तत्र गतिरन्या न विद्यते ॥ ८ ॥ इति ।

अस्यार्थः । ‘द्विदोषभाक्’ इत्युक्तदोषद्वयमुपपादयति ॥ प्रमाणत्वमिति । प्रमाण-त्वापह्नवस्य दोषत्वं दर्शयति– प्रतीतीति । प्रतीतप्रमाणत्वापह्नवः प्रतीतिविरोधादेव दोष इत्यर्थः । अप्रतीताप्रामाण्यकल्पनं द्वितीयो दोष इत्याह– तथेति । तस्य प्रमाणस्य सतोऽप्रमाणत्वकल्पनमित्यर्थः । सन्देहविपर्यययोर्दोषजन्यत्वान्निर्दोषवेदे च दोषाभावा त्प्रामाण्याभावरूपमेवाप्रामाण्यं वाच्यम् । तस्मिंश्च प्रामाण्योपलम्भाभावः प्रमाणं वाच्यः । स च न सम्भवति । प्रामाण्योपलम्भस्य सत्वादित्याह– भाव इति । प्रामाण्योपलम्भस्य भावे सत्वे सत्यपीत्यर्थः ॥ प्रमाणेति । प्रमाणस्योपलम्भाभावस्य, अर्थस्य प्रमेयस्य अप्रामाण्यस्य विपर्ययाद् विरोधादित्यर्थः ॥ अभावेति । प्रामाण्योपलम्भाभावप्रमाणकत्वम् ।

‘एतस्य’ अप्रमाणत्वस्येत्यर्थः । यदप्रामाण्यं पूर्वं स्वीकृतं तस्य त्यागस्तृतीयो दोषः ॥ प्रत्यक्षमिति । यत्प्रामाण्यं पूर्वं निराकृतं तस्योज्जीवनं स्वीकारश्चतुर्थो दोषः ॥ सङ्ग्रहश्च–

व्रीहौ कृते यवस्योक्तेः प्रमात्वत्यागकल्पने ।

यवेनैवं चेति दोषा व्रीहेश्चैवं द्वयेऽष्ट ते ॥

व्रीहिमये पुरोडाशे कृते यवस्योक्तेर्यववाक्यस्य द्वौ दोषौ । यवमये पुरोडाशे कृतेऽपि यव वाक्यस्य द्वौ दोषौ । एवं यववाक्ये चत्वारो दोषाः । व्रीहेरुक्तेश्चैवं चत्वारो दोषाः । एवं मिलित्वा उक्तेर्द्वये । ते दोेषा अष्ट इत्यर्थः ॥ अग्रहणेति ॥ अद्वितीयवाक्येन द्वितीय निषेधवदित्यर्थः । ननु प्रतियोगिनो द्वितीयस्य मिथ्यात्वात्तत्प्रतिद्वन्दी तदभावोऽपि मिथ्या । न हि वन्ध्यासुते गौरं रूपं मिथ्येति श्यामं रूपं सत्यं भवतीत्यत आह– प्रतियोगिन इति ॥ निरस्तमिति ॥ सामान्यतो मिथ्यात्वभङ्गे इति शेषः । अत्यन्ताभावस्य सत्यतायां प्रतियोगिमिथ्यात्वमनुकूलमित्यर्थः ॥ स्वेनैवेति ॥ ‘अद्वितीयं ब्रह्म’ इत्यादौ द्वितीया-भावस्य ब्रह्मविशेषणत्वादिनोपादानमयुक्तं, स्वव्याघातादित्यर्थः । नन्वभावबुद्धौ निषिद्धस्यापि प्रतियोगिनो विशेषणत्वादिनोपादानमस्ति । ‘सा शुक्तिः’ प्रतिषिद्धस्यापि पूर्वप्रतीतरजत स्योपलक्षणतयोपादानदर्शनादिति चेन्न, । न ह्यभावबुद्धौ प्रतियोगी विशेषणादितया अभावे उपादीयते किन्तु तत्प्रतियोगिकत्वं तत्र विशेषणम् । तच्च नाभावबुद्ध्या निषिद्ध्यते । प्रत्युत विधीयत एवेति भावः ।

न्यायामृतसौगन्ध्यं

किञ्च ‘तत्त्वमसि’ आदिवाक्ये न प्रत्यक्षाविरोधाय तत्त्वंपदलक्षितयोरैक्यमिव मिथ्यात्व-श्रुत्यापि तदविरोधाय प्रत्यक्षासिद्धादन्यस्यैव स्वतन्त्राद्वैतस्य मिथ्यात्वं बोध्यम् । अन्यथा प्रत्यक्षाद्यनुग्रहाय व्यावहारिकमपि सत्वेन कल्प्येत । न च ‘नेह नाने’त्यभेदपरवाक्यलक्षित-विशेष्यैक्यपरत्वनियमेन तत्वमसीत्यत्रापि तथाऽभ्युपगमः । तदुक्तम्–

अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोर्द्वयोः ।

घटते न यदैकता तदा नितरां तद्विपरीतरूपयोः ॥ इति वाच्यम् ।

विशेषस्य नित्यसिद्धत्वेन तन्मात्रपरवाक्यस्याज्ञातज्ञापनरूपप्रामाण्यारोपहान्यापत्तेः । किञ्च श्रुतेस्तात्पर्यं चैतन्यमात्रे वा द्वितीयाभावविशिष्टे वा तदुपलक्षिते वा । नाद्यः । विश्व मिथ्यात्वासिद्ध्या इष्टापत्तेः । तस्य स्वप्रकाशतया नित्यसिद्धत्वेन श्रुतेर्वैय्यर्थ्याच्च । न द्वितीयः । अखण्डार्थत्वहानात् । अत एव न तृतीयः । काकवदितिवद् द्वितीयाभाव वदित्येनेनापि सप्रकारकज्ञानजननेनाखण्डार्थत्वायोगात् । चिन्मात्रस्य नित्यसिद्धत्वेन तदन्यस्य च मुमुक्ष्वज्ञेयत्वेन काकेन संस्थानविशेषस्येव द्वितीयाभावेनोपलक्ष्यस्यान्यस्या भावात् । तस्योपलक्षणत्वायोगाच्च ।

ननु चिन्मात्रस्य नित्यसिद्धत्वेऽपि नोपलक्षणवैय्यर्थ्यम् । अनर्थनिवृत्तिहेतुत्वेन द्वितीया-भावद्वारकस्वरूपज्ञानस्योद्देश्यत्वात्तस्य प्रागसिद्धत्वात् । (इति चेत्) मैवम् । अपरोक्ष-ज्ञानस्य विरोधिनिवर्तने द्वारविशेषपूर्वकत्वस्यानपेक्षणीयत्वात् । न हि द्वारविशेषाजन्यः शुक्तिसाक्षात्कारो न रूप्यभ्रमनिवर्तकः । वेदानाम् अखण्डचिन्मात्रज्ञानविलक्षणज्ञान-जनकत्वेनाखण्डार्थत्वहानिः । प्रागसिद्धस्वरूपातिरिक्तद्वितीयाभावद्वारकत्वादिधर्माणां प्रकारक- तयोपलक्षणतया वा विषयीभूतज्ञानजननात् ।

ननु काकस्य संस्थानविशेष इव द्वितीयाभावस्य स्वरूपमेवोपलक्ष्यमिति नोपलक्ष्यत्वा-भावनिबन्धनोपलक्षणत्वाभावः । उपलक्षणत्वे हि उपलक्ष्यसत्यमात्रं तन्त्रं न तु तस्य स्वरूपातिरिक्तत्वमपि । गौरवात् । उपलक्ष्यतावच्छेदकरूपाभावेऽपि स्वतो व्यावृत्तजातिवद् उपलक्ष्यत्वसम्भव इति चेन्न । एकस्यैवोपलक्षणत्वोपलक्ष्यत्वासम्भवात् । सन्दिग्धं ह्युपलक्ष्यं, निश्चितं चोपलक्षणम् । न ह्येकस्य युगपदुभयविधत्वं सम्भवति । उपलक्षणवैय्यर्थ्याच्च । न चावान्तरतात्पर्यं द्वितीयाभावेऽप्यस्ति । तद्द्वारैव स्वरूपचैतन्ये महातात्पर्यमिति वाच्यम् । स्वरूपचैतन्यस्य नित्यसिद्धत्वेन तत्र तात्पर्यासम्भवात् । अवान्तर तात्पर्यविषयस्य द्वितीयाभावस्य सत्वापत्तेश्च ।

किञ्च श्रुतिबोध्यस्य विशेषणस्योपलक्षणस्य च द्वितीयाभावस्य सत्वेऽद्वैतहानिः । असत्वे चादण्डी दण्डीति वाक्यवच्चाद्वैतवाक्यस्यातत्वावेदकत्वापत्तिः । नन्वाद्ये द्वितीयाभावसत्वेन द्वितीयाभावासिद्ध्यापादनस्यानुचितत्वात् । (मुख्यतस्तात्पर्यविषयस्य) अभावस्याधिकरणा-तिरेकानभ्युपगमाच्च । द्वितीये तु सृष्ट्यादिवाक्यवदुपलक्ष्यस्वरूपसत्यत्वमादाय तत्वावेद-कत्वान्मुख्यतस्तात्पर्यविषयस्यासत्यतायामेवातत्वावेदकत्वाभ्युपगमात् । अत एव महा-तात्पर्याभिप्रायेण चैतन्यमात्रे तात्पर्यमित्याद्यपक्षेऽपि न दोषः । अवान्तरतात्पर्येण मिथ्यात्वसिद्धेरपि स्वीकारेणेष्टापत्तेरप्यसम्भवादिति चेन्न । अनवबोधात् । द्वितीयाभावस्य सत्यत्वे तत्रातिप्रसक्तस्य द्वितीयत्वस्य निषेध्यतावच्छेदकत्वासम्भवस्यैवोक्तत्वात्स्वप्रकाश-स्याधिकरणस्य नित्यसिद्वत्वेनाद्वैतवाक्यवैयर्थ्यात् । विशेष्यस्योपलक्ष्यस्य नित्यसिद्धत्वेन तत्र तात्पर्याभावेन सृष्ट्यादिवाक्यस्य एतस्य च वैय्यर्थ्यापत्तेः । अत एवेत्यप्यशुद्धम् । अवान्तरतात्पर्यविषयसत्यत्वेऽसत्यत्वे च दोषस्योक्तत्वात् ।

किञ्च द्वितीयाभावे महातात्पर्याभावोऽसम्भवी । त्वयैव द्वितीयाभावस्य मानान्तराप्राप्तत्व स्वीकारात् । ननु मानान्तराप्राप्तत्वे स्वयमेव (स्व)बोधितमपि द्वितीयाभावं द्वितीयत्वादेव निषेधतीति स्वविरोधादेव श्रुतेस्तत्रातात्पर्यात् । मानविरोधित्वमात्रस्य तात्पर्याभावे प्रयोजक त्वात् स्वविरोधेऽपि न क्षतिरिति चेन्न । निषेधाननुगतधर्मस्य निषेध्यतावच्छेदकत्वा-सम्भवात् । न हि घटतदभावान्यतरत्वं घटस्य तदभावस्य वा निषेध्यतावच्छेदकम् । एकेनैव वाक्यैनैकस्य प्राप्तिनिषेधयोरसम्भवाच्च ।

ननु रूपभेदेन तद्युक्तम् । द्वितीयाभावस्वरूपं हि शास्त्रेण प्राप्यते । तस्य प्राप्यता-वच्छेदकं द्वितीयाभावत्वम् । तच्च न निषेध्यतावच्छेदकं किन्तु द्वितीयत्वमेव निषेध्य-मात्रानुगतम् । तत्र तदनङ्गीकारे तु न तस्य निषेध्यत्वं न वा तेन (आत्मनः) सद्वितीयत्वापत्तिः । यत्र तु प्राप्यतावच्छेदकमेव निषेध्यतावच्छेदकं तत्र प्राप्तिनिषेध शास्त्रयोरतुल्यविषयत्वे विशेषशास्त्रविषयपरित्यागेन सामान्यशास्त्रप्रवृत्तिः । तुल्यविषयत्वे त्वगत्या विकल्प इति न निषेधस्यासङ्कोचेन प्रवृत्तिः । यथा ‘न हिंस्यात् सर्वा भूतानि, ‘अग्नीषोमीयं पशुमालभेत’ इत्यादौ ‘अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति’ इत्यादौ च स्पष्टमिति चेन्न, निषेध्यतावच्छेदकेन व्याप्यस्य तद्घटितस्य च प्राप्यता-वच्छेदकत्वासम्भवात् । न हि द्रव्यत्वेन निषेध्यत्वे घटत्वेन च प्राप्यत्वम् एकस्य सम्भवति । व्यक्तिभेदाभावेन स्वविहितस्य स्वेनैव निषेध्यात्, अद्वैतवाक्यस्य निर्विषयत्वा-पाताच्च । द्वितीयाभावनिषेधे द्वितीयोन्मज्जनापाताच्च ।

किञ्च स्वेनैव निषिद्धस्य द्वितीयाभावस्य द्वितीयस्यैव विशेषणत्वेनोपलक्षणत्वेन वा पुनरुपादानानुपपत्तिः । न चाभावबुद्धौ निषिद्धस्यापि प्रतियोगिनः ‘सा शुक्तिः’ इत्यत्र प्रतिषिद्धस्यापि पूर्वप्रतीतरजतस्योपलक्षणतयोपादानं दृश्यत इति वाच्यम् । निषेधाधिकरणे भूतलादौ उपलक्षणतया प्रतियोगिन उपादानाभावात् । तदनधिकरणे तदुपादानाच्च । रजतस्यापि निषेधाधिकरणे अनुपादानाच्च ॥ इति सामान्येन मिथ्यात्वे श्रुतिभङ्गः ।

॥ इति सामान्यतो मिथ्यत्वश्रुतिनिरासविवरणम् ॥